ऋषय ऊचुः
विश्वास-प्रस्तुतिः
कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।
एषां स्वभावं सूताद्य कथयस्व समासतः ॥ १ ॥
मूलम्

गते नारायणे कृष्णे स्वमेव परमं पदम् ।
पार्थः परमधर्मात्मा पाण्डवः शत्रुतापनः ॥ २ ॥

कृत्वा चेवोत्तरविधिं शोकेन महतावृतः ।
अपश्यत् पथि गच्छन्तं कृष्णद्वैपायनं मुनिम् ॥ ३ ॥

शिष्यैः प्रशिष्यैरभितः संवृतं ब्रह्मवादिनम् ।
पपात दण्डवद् भूमौ त्यक्त्वा शोकं तदार्ऽजुनः ॥ ४ ॥

उवाच परमप्रीतः कस्माद् देशान्महामुने ।
इदानीं गच्छसि क्षिप्रं कं वा देशं प्रति प्रभो ॥ ५ ॥

सन्दर्शनाद् वै भवतः शोको मे विपुलो गतः ।
इदानीं मम यत् कार्यं ब्रूहि पद्मदलेक्षण ॥ ६ ॥

तमुवाच महायोगी कृष्णद्वैपायनः स्वयम् ।
उपविश्य नदीतिरे शिष्यैः परिवृतो मुनिः ॥ ७ ॥

इदं कलियुगं घोरं सम्प्राप्तं पाण्डुनन्दन ।
ततो गच्छामि देवस्य वाराणसीं महापुरीम् ॥ ८ ॥

अस्मिन् कलियुगे घोरे लोकाः पापानुवर्तिनः ।
भविष्यन्ति महापापा वर्णाश्रमविवर्जिताः ॥ ९ ॥

नान्यत् पश्यामि जन्तूनाम्मुक्त्वा वाराणसीं पुरीम् ।
सर्वपापप्रशमनं प्रायश्चित्तं कलौ युगे ॥ १० ॥

कृतं त्रेता द्वापरं च सर्वेष्वेतेषु वै नराः ।
भविष्यन्ति महात्मानो धार्मिकाः सत्यवादिनः ॥ ११ ॥

त्वं हि लोकेषु विख्यातो धृतिमाञ् जनवत्सलः ।
पालयाद्य परं धर्मं स्वकीयं मुच्यसे भयात् ॥ १२ ॥

एवमुक्तो भगवता पार्थः परपुरञ्जयः ।
पृष्टवान् प्रणिपत्यासौ युगधर्मान् द्विजोत्तमाः ॥ १३ ॥

तस्मै प्रोवाच सकलं मुनिः सत्यवतीसुतः ।
प्रणम्य देवमीशानं युगधर्मान् सनातनान् ॥ १४ ॥

वक्ष्यामि ते समासेन युगधर्मान् नरेश्वर ।
न शक्यते मया पार्थ विस्तरेणाभिभाषितुम् ॥ १५ ॥

आद्यं कृतयुगं प्रोक्तं ततस्त्रेतायुगं बुधैः ।
तृतीयं द्वापरं पार्थ चतुर्थं कलिरुच्यते ॥ १६ ॥

ध्यानं परं कृतयुगे त्रेतायां ज्ञानमुच्यते ।
द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे ॥ १७ ॥

ब्रह्मा कृतयुगे देवस्त्रेतायां भगवान् रविः ।
द्वापरे दैवतं विष्णुः कलौ रुद्रो महेश्वरः ॥ १८ ॥

ब्रह्मा विष्णुस्तथा सूर्यः सर्व एव कलिष्वपि ।
पूज्यते भगवान् रुद्रश्चतुर्ष्वपि पिनाकधृक् ॥ १९ ॥

त्रेतायुगे त्रिपादः स्याद् द्विपादो द्वापरे स्थितः ।
त्रिपादहीनस्तिष्ये तु सत्तामात्रेण तिष्ठति ॥ २० ॥

कृते तु मिथुनोत्पत्तिर्वृत्तिः साक्षाद् रसोल्लसा ।
प्रजास्तृप्ताः सदा सर्वाः सदानन्दाश्च भोगिनः ॥ २१ ॥

अधमोत्तमत्वं नास्त्यासां निर्विशेषाः पुरञ्जय ।
तुल्यमायुः सुखं रूपं तासां तस्मिन् कृते युगे ॥ २२ ॥

विशोकाः सत्त्वबहुला एकान्तबहुलास्तथा ।
ध्याननिष्ठास्तपोनिष्ठा महादेवपरायणाः ॥ २३ ॥

ता वै निष्कामचारिण्यो नित्यं मुदितमानसाः ।
पर्वतोदधिवासिन्यो ह्यनिकेतः परन्तप ॥ २४ ॥

रसोल्लासा कालयोगात् त्रेताख्ये नश्यते ततः ।
तस्यां सिद्धौ प्रणष्टायामन्या सिद्धिरवर्तत ॥ २५ ॥

अपां सौक्ष्म्ये प्रतिहते तदा मेघात्मना तु वै ।
मेघेभ्यः स्तनयित्नुभ्यः प्रवृत्तं वृष्टिसर्जनम् ॥ २६ ॥

सकृदेव तया वृष्ट्या संयुक्ते पृथिवीतले ।
प्रादुरासंस्तदा तासां वृक्षा वै गृहसञ्ज्ञिताः ॥ २७ ॥

सर्वप्रत्युपयोगस्तु तासां तेभ्यः प्रजायते ।
वर्तयन्ति स्म तेभ्यस्तास्त्रेतायुगमुखे प्रजाः ॥ २८ ॥

ततः कालेन महता तासामेव विपर्यतात् ।
रागलोभात्मको भावस्तदा ह्याकस्मिको ऽभवत् ॥ २९ ॥

विपर्ययेण तासां तु तेन तत्कालभाविना ।
प्रणश्यन्ति ततः सर्वे वृक्षास्ते गृहसञ्ज्ञिताः ॥ ३० ॥

ततस्तेषु प्रनष्टेषु विभ्रान्ता मैथुनोद्भवाः ।
अभिध्यायन्ति तां सिद्धिं सत्याभिध्यायिनस्तदा ॥ ३१ ॥

प्रादुर्बभूवुस्तासां तु वृक्षास्ते गृहसञ्ज्ञिताः ।
वस्त्राणि ते प्रसूयन्ते फलान्याभरणानि च ॥ ३२ ॥

तेष्वेव जायते तासां गन्धवर्णरसान्वितम् ।
अमाक्षिकं महावीर्यं पुटके पुटके मधु ॥ ३३ ॥

तेन ता वर्तयन्ति स्म त्रेतायुगमुखे प्रिजाः ।
हृष्टपुष्टास्तया सिद्ध्या सर्वा वै विगतज्वराः ॥ ३४ ॥

ततः कालान्तरेणैव पुनर्लोभावृतास्तदा ।
वृक्षांस्तान् पर्यगृह्णन्त मधु चामाक्षिकं बलात् ॥ ३५ ॥

तासां तेनापचारेण पुनर्लोभकृतेन वै ।
प्रणष्टामधुना सार्धं कल्पवृक्षाः क्वचित् क्वचित् ॥ ३६ ॥

शीतवर्षातपैस्तीव्रै स्ततस्ता दुः खिता भृशम् ।
द्वन्द्वैः सम्पीड्यमानास्तु चक्रुरावरणानि च ॥ ३७ ॥

कृत्वा द्वन्द्वप्रतीघातान् वार्तोपायमचिन्तयन् ।
नष्टेषु मधुना सार्धं कल्पवृक्षेषु वै तदा ॥ ३८ ॥

ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतायुगे पुनः ।
वार्तायाः साधिका ह्यन्या वृष्टिस्तासां निकामतः ॥ ३९ ॥

तासां वृष्ट्यूदकानीह यानि निम्नैर्गतानि तु ।
अवहन् वृष्टिसन्तत्या स्त्रोतः स्थानानि निम्नगाः ॥ ४० ॥

ये पुनस्तदपां स्तोका आपन्नाः पृथिवीतले ।
अपां भूणेश्च संयोगादोषध्यस्तास्तदाभवन् ॥ ४१ ॥

अफालकृष्टाश्चानुप्ता ग्राम्यारण्याश्चतुर्दश ।
ऋतुपुष्पफलैश्चैव वृक्षगुल्माश्च जज्ञिरे ॥ ४२ ॥

ततः प्रादुरभूत् तासां रागो लोभश्च सर्वशः ।
अवश्यं भाविनार्ऽथे न त्रेतायुगवशेन वै ॥ ४३ ॥

ततस्ताः पर्यगृह्णन्त नदीक्षेत्राणि पर्वतान् ।
वृक्षगुल्मौषधीश्चैव प्रसह्य तु यथाबलम् ॥ ४४ ॥

विपर्ययेण तासां ता ओषध्यो विविशुर्महीम् ।
पितामहनियोगेन दुदोह पृथिवीं पृथुः ॥ ४५ ॥

ततस्ता जगृहुः सर्वा अन्योन्यं क्रोधमूर्छिताः ।
वसुदारधनाद्यांस्तु बलात् कालबलेन तु ॥ ४६ ॥

मर्यादायाः प्रतिष्ठार्थं ज्ञात्वैतद् भगवानजः ।
ससर्ज क्षत्रियान् ब्रह्मा ब्राह्मणानां हिताय च ॥ ४७ ॥

वर्णाश्रमव्यवस्थां च त्रेतायां कृतवान् प्रभुः ।
यज्ञप्रवर्तनं चैव पशुहिंसाविवर्जितम् ॥ ४८ ॥

द्वापरेष्वथ विद्यन्ते मतिभेदाः सदा नृणाम् ।
रागो लोभस्तथा युद्धं तत्त्वानामविनिश्चयः ॥ ४९ ॥

एको वेदश्चतुष्पादस्त्रेतास्विह विधीयते ।
वेदव्यासैश्चतुर्धा तु व्यस्यते द्वापरादिषु ॥ ५० ॥

ऋषिपुत्रैः पुनर्भेदाद् भिद्यन्ते दृष्टिविभ्रमैः ।
मन्त्रब्राह्मणविन्यासैः स्वरवर्णविपर्ययैः ॥ ५१ ॥

संहिता ऋग्यजुः साम्नां संहन्यन्ते श्रुतर्षिभिः ।
सामान्याद् वैकृताच्चैवदृष्टिभेदैः क्वचित् क्वचित् ॥ ५२ ॥

ब्राह्मणं कल्पसूत्राणि मन्त्रप्रवचनानि च ।
इतिहासपुराणानि धर्मशास्त्राणि सुव्रत ॥ ५३ ॥

अवृष्टिर्मरणं चैव तथैव वायाध्युपद्रवाः ।
वाङ्मनः कायजैर्दुः सैर्निर्वेदो जायते नृणाम् ॥ ५४ ॥

निर्वेदाज्जायते तेषां दुः खमोक्षविचारणा ।
विचारणाच्च वैराग्यं वैराग्याद् दोषदर्शनम् ॥ ५५ ॥

दोषाणां दर्शनाच्चैव द्वापरे ज्ञानसम्भवः ।
एषा रजस्तमोयुक्ता वृत्तिर्वै द्वापरे स्मृता ॥ ५६ ॥

आद्ये कृते तु धर्मो ऽस्ति स त्रेतायां प्रवर्तते ।
द्वापरे व्याकुलीभूत्वा प्रणश्यति कलौ युगे ॥ ५७ ॥

इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे सप्तविंशो ऽध्यायः