सूत उवाच
विश्वास-प्रस्तुतिः
ततो लब्धवरः कृष्णो जाम्बवत्यां महेश्वरात् ।
अजीजनन्महात्मानं साम्बमात्मजमुत्तमम् ॥ १ ॥
मूलम्

प्रद्युम्नस्याप्यभूत् पुत्रो ह्यनिरुद्धो महाबलः ।
तावुभौ गुणसम्पन्नौ कृष्णस्यैवापरे तनू ॥ २ ॥

हत्वा च कंसं नरकमन्यांश्च शतशो ऽसुरान् ।
विजित्य लीलया शक्रं जित्वा बाणं महासुरम् ॥ ३ ॥

स्थापयित्वा जगत् कृत्स्नं लोके धर्मांश्च शाश्वतान् ।
चक्रे नारायणो गन्तुं स्वस्थानं बुद्धिमुत्तमाम् ॥ ४ ॥

एतस्मिन्नन्तरे विप्रा भृग्वाद्याः कृष्णमीश्वरम् ।
आजग्मुर्द्वारकां द्रष्टुं कृतकार्यं सनातनम् ॥ ५ ॥

स तानुवाच विश्वात्मा प्रणिपत्याभिपूज्य च ।
आसनेषूपविष्टान् वै सह रामेण धीमता ॥ ६ ॥

गमिष्ये तत् परं स्थानं स्वकीयं विष्णुसञ्ज्ञितम् ।
कृतानि सर्वकार्याणि प्रसीदध्वं मुनीश्वराः ॥ ७ ॥

इदं कलियुगं घोरं सम्प्राप्तमधुनाशुभम् ।
भविष्यन्ति जनाः सर्वे ह्यस्मिन् पापानुवर्तिनः ॥ ८ ॥

प्रवर्तयध्वं मज्ज्ञानं ब्राह्मणानां हितावहम् ।
येनेमे कलिजैः पापैर्मुच्यन्ते हि द्विजोत्तमाः ॥ ९ ॥

ये मां जनाः संस्मरन्ति कलौ सकृदपि प्रभुम् ।
तेषां नश्यतु तत् पापं भक्तानां पुरुषोत्तमे ॥ १० ॥

येर्ऽचयिष्यन्तिमां भक्त्या नित्यं कलियुगे द्विजाः ।
विधाना वेददृष्टेन ते गमिष्यन्ति तत् पदम् ॥ ११ ॥

ये ब्राह्मणा वंशजाता युष्माकं वै सहस्रशः ।
तेषां नारायणे भक्तिर्भविष्यति कलौ युगे ॥ १२ ॥

परात् परतरं यान्ति नारायणपरायणाः ।
न ते तत्र गमिष्यन्ति ये द्विषन्ति महेश्वरम् ॥ १३ ॥

ध्यानं होमं तपस्तप्तं ज्ञानं यज्ञादिको विधिः ।
तेषां विनश्यति क्षिप्रं ये निन्दन्ति पिनाकिनम् ॥ १४ ॥

यो मां समाश्रयेन्नित्यमेकान्तं भावमाश्रितः ।
विनिन्द्य देवमीशानं स याति नरकायुतम् ॥ १५ ॥

तस्मात् सा परिहर्तव्या निन्दा पशुपतौ द्विजाः ।
कर्मणा मनसा वाचा तद्भक्तेष्वपि यत्नतः ॥ १६ ॥

ये तु दक्षाध्वरे शप्ता दधीयेन द्विजोत्तमाः ।
भविष्यन्ति कलौ भक्तैः परिहार्याः प्रयत्नतः ॥ १७ ॥

द्विषन्तो देवमीशानं युष्माकं वंशसम्भवाः ।
शप्ताश्च गौतमेनोर्व्यां न सम्भाष्या द्विजोत्तमैः ॥ १८ ॥

इत्येवमुक्ताः कृष्णेन सर्व एव महर्षयः ।
ओमित्युक्त्वा ययुस्तूर्णंस्वानि स्थानानि सत्तमाः ॥ १९ ॥

ततो नारायणः कृष्णो लीलयैव जगन्मयः ।
संहृत्य स्वकुलं सर्वं ययौ तत् परमं पदम् ॥ २० ॥

इत्येष वः समासेन राज्ञां वंशो ऽनुकीर्तितः ।
न शक्यो विस्तराद् वक्तुं किं भूयः श्रोतुमिच्छथ ॥ २१ ॥

यः पठेच्छृणुयाद् वापि वंशानां कथनं शुभम् ।
सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥ २२ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षड्विंशो ऽध्यायः