२५

सूत उवाच

विश्वास-प्रस्तुतिः

प्रविश्य मेरुशिखरं कैलासं कनकप्रभम् ।
रराम भगवान् सोमः केशवेन महेश्वरः ॥ १ ॥

मूलम्

प्रविश्य मेरुशिखरं कैलासं कनकप्रभम् ।
रराम भगवान् सोमः केशवेन महेश्वरः ॥ १ ॥

विश्वास-प्रस्तुतिः

अपश्यंस्तं महात्मानं कैलासगिरिवासिनः ।
पूजयाञ्चक्रिरे कृष्णं देवदेवमथाच्युतम् ॥ २ ॥

चतुर्बाहुमुदाराङ्गं कालमेघसमप्रभम् ।
किरीटिनं शार्ङ्गपाणि श्रीवत्साङ्कितवक्षसम् ॥ ३ ॥

दीर्घबाहुं विशालाक्षं पीतवाससमच्युतम् ।
दधानमुरसा मालां वैजयन्तीमनुत्तमाम् ॥ ४ ॥

भ्राजमानं श्रिया दिव्यं युवानमतिकोमलम् ।
पद्माङ्घ्रिनयनं चारु सुस्मितं सुगतिप्रदम् ॥ ५ ॥

कदाचित् तत्र लीलार्थं देवकीनन्दवर्धनः ।
भ्राजमानः श्रीया कृष्णश्चचार गिरिकन्दरे ॥ ६ ॥

गन्धर्वाप्सरसां मुख्या नागकन्याश्च कृत्स्नशः ।
सिद्धा यक्षाश्च गन्धर्वास्तत्र तत्र जगन्मयम् ॥ ७ ॥

दृष्ट्वाश्चर्यं परं गत्वा हर्षादुत्फुल्लोचनाः ।
मुमुचुः पुष्पवर्षाणि तस्य मूर्ध्नि महात्मनः ॥ ८ ॥

गन्धर्वकन्यका दिव्यास्तद्वदप्सरसां वराः ।
दृष्ट्वा चकमिरे कृष्णं स्त्रस्तवस्त्रविभूषणाः ॥ ९ ॥

काश्चिद् गायन्ति विविधां गीतिं गीतविशारदाः ।
सम्प्रेक्ष्य देवकीसूनुं सुन्दर्यः काममोहिताः ॥ १० ॥

काश्चिद्विलासबहुला नृत्यन्ति स्म तदग्रतः ।
सम्प्रेक्ष्य संस्थिताः काश्चित् पपुस्तद्वदनामृतम् ॥ ११ ॥

काश्चिद् भूषणवर्याणि स्वाङ्गादादाय सादरम् ।
भूषयाञ्चक्रिरे कृष्णं कामिन्यो लोकभूषणम् ॥ १२ ॥

काश्चिद् भूषणवर्याणि समादाय तदङ्गतः ।
स्वात्मानं बूषयामासुः स्वात्मगैरपि माधवम् ॥ १३ ॥

काश्चिदागत्य कृष्णस्य समीपं काममोहिताः ।
चुचुम्बुर्वदनाम्भोजं हरेर्मुग्धमृगेक्षणाः ॥ १४ ॥

प्रगृह्य काश्चिद् गोविन्दं करेण भवनं स्वकम् ।
प्रापयामासुर्लोकादिं मायया तस्य मोहिताः ॥ १५ ॥

तासां स भगवान् कृष्णः कामान् कमललोचनः ।
बहूनि कृत्वा रूपाणि पूरयामास लीलया ॥ १६ ॥

एवं वै सुचिरं कालं देवदेवपुरे हरिः ।
रेमे नारायणः श्रीमान् मायया मोहयञ्जगत् ॥ १७ ॥

गते बहुतिथे काले द्वारवत्यां निवासिनः ।
बभूवुर्विह्वला भीता गोविन्दविरहे जनाः ॥ १८ ॥

ततः सुपर्णो बलवान् पूर्वमेव विसजितः ।
कृष्णेन मार्गमाणस्तं हिमवन्तं ययौ गिरिम् ॥ १९ ॥

अदृष्ट्वा तत्र गोविन्दं प्रणम्य शिरसा मुनिम् ।
आजगामोपमन्युं तं पुरीं द्वारवतीं पुनः ॥ २० ॥

तदन्तरे महादैत्या राक्षसाश्चातिभीषणाः ।
आजग्मुर्द्वारकां शुभ्रां भीषयन्तः सहस्रशः ॥ २१ ॥

स तान् सुपर्णो बलवान् कृष्णतुल्यपराक्रमः ।
हत्वा युद्धेन महता रक्षति स्म पुरीं शुभाम् ॥ २२ ॥

एतस्मिन्नेव काले तु नारदो भगवानृषिः ।
दृष्ट्वा कैलासशिखरे कृष्णं द्वारवतीं गतः ॥ २३ ॥

तं दृष्ट्वा नारदमृषिं सर्वे तत्र निवासिनः ।
प्रोचुर्नारायणो नाथः कुत्रास्ते भगवान् हरिः ॥ २४ ॥

स तानुवाच भगवान् कैलसशिखरे हरिः ।
रमते ऽद्य महायोगीं तं दृष्ट्वाहमिहागतः ॥ २५ ॥

तस्योपश्रुत्य वचनं सुपर्णः पततां वरः ।
जगामाकाशगो विप्राः कैलासं गिरिमुत्तमम् ॥ २६ ॥

ददर्श देवकीसूनुं भवने रत्नमण्डिते ।
वरासनस्थं गोविन्दं देवदेवान्तिके हरिम् ॥ २७ ॥

उपास्यमानममरैर्दिव्यस्त्रीभिः समन्ततः ।
महादेवगणैः सिद्धैर्योगिभिः परिवारितम् ॥ २८ ॥

प्रणम्य दण्डवद् भूमौ सुपर्णः शङ्करं शिवम् ।
निवेदयामास हरेः प्रवृत्तिं द्वारके पुरे ॥ २९ ॥

ततः प्रणम्य शिरसा शङ्करं नीललोहितम् ।
आजगाम पुरीं कृष्णः सो ऽनुज्ञातो हरेण तु ॥ ३० ॥

आरुह्य कश्यपसुतं स्त्रीगणैरभिपूजितः ।
वचोभिरमृतास्वादैर्मानितो मधुसूदनः ॥ ३१ ॥

वीक्ष्य यान्तममित्रघ्नं गन्धर्वाप्सरसां वराः ।
अन्वगच्छन् महोयोगं शङ्खचक्रगदाधरम् ॥ ३२ ॥

विसर्जयित्वा विश्वात्मा सर्वा एवाङ्गना हरिः ।
ययौ स तूर्णं गोविन्दो दिव्यां द्वारवतीं पुरीम् ॥ ३३ ॥

गते मुररिपौ नैव कामिन्यो मुनिपुङ्गवाः ।
निशेव चन्द्ररहिता विना तेन चकाशिरे ॥ ३४ ॥

श्रुत्वा पौरजनास्तूर्णं कृष्णागमनमुत्तमम् ।
मण्डयाञ्चक्रिरे दिव्यां पुरीं द्वारवतीं शुभाम् ॥ ३५ ॥

पताकाभिर्विशालाभिर्ध्वजै रत्नपरिष्कृतैः ।
लाजादिभिः पुरीं रम्यां भूषयाञ्चक्रिरे तदा ॥ ३६ ॥

अवादयन्त विविधान् वादित्रान् मधुरस्वनान् ।
शङ्खान् सहस्रशो दध्मुर्वोणावादान् वितेनिरे ॥ ३७ ॥

प्रविष्टमात्रे गोविन्दे पुरीं द्वारवतीं शुभाम् ।
अगायन् मधुरं गानं स्त्रियो यौवनशालिनः ॥ ३८ ॥

दृष्ट्वा ननृतुरीशानं स्थिताः प्रासादमूर्धसु ।
मुमुचुः पुष्पवर्षाणि वसुदेवसुतोपरि ॥ ३९ ॥

प्रविश्य भवनं कृष्ण आशीर्वादाभिवर्धितः ।
वरासने महायोगी भाति देवीभिरन्वितः ॥ ४० ॥

सुरम्ये मण्डपे शुभ्रे शङ्खाद्यैः परिवारितः ।
आत्मजैरभितो मुख्यैः स्त्रीसहस्रैश्च संवृतः ॥ ४१ ॥

तत्रासनवरे रम्ये जाम्बवत्या सहाच्युतः ।
भ्राजते मालया देवो यथा देव्या समन्वितः ॥ ४२ ॥

आजग्मुर्देवगन्धर्वा द्रष्टुं लोकादिमव्ययम् ।
महर्षयः पूर्वजाता मार्कण्डेयादयो द्विजाः ॥ ४३ ॥

ततः स भगवान् कृष्णो मार्कण्डेयं समागतम् ।
ननामोत्थाय शिरसा स्वासनं च ददौ हरिः ॥ ४४ ॥

सम्पूज्य तानृषिगणान् प्रणामेन महाभुजः ।
विसर्जयामास हरिर्दत्त्वा तदभिवाञ्छितान् ॥ ४५ ॥

तदा मध्याह्नसमये देवदेवः स्वयं हरिः ।
स्नात्वा शुक्लाम्बरो भानुमुपतिष्ठत् कृताञ्जलिः ॥ ४६ ॥

जजाप जाप्यं विधिवत् प्रेक्षमाणो दिवाकरम् ।
तर्पयामास देवेशो देवेशो देवान् मुनिगणान् पितॄन् ॥ ४७ ॥

प्रविश्य देवभवनं मार्कण्डेयेन चैव हि ।
पूजयामास लिङ्गस्थं भूतेशं भूतिभूषणम् ॥ ४८ ॥

समाप्य नियमं सर्वं नियन्तासौ नृणां स्वयम् ।
भोजयित्वा मुनिवरं ब्राह्मणानभिपूज्य च ॥ ४९ ॥

कृत्वात्मयोगं विप्रेन्द्रा मार्कण्डेयेन चाच्युतः ।
कथाः पौराणिकीः पुण्याश्चक्रे पुत्रादिभिर्वृतः ॥ ५० ॥

अथैतत् सर्वमखिलं दृष्ट्वा कर्म महामुनिः ।
मार्कण्डेयो हसन् कृष्णं बभाषे मधुरं वचः ॥ ५१ ॥

मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः

कः समाराध्यते देवो भवता कर्मभिः शुभैः ।
ब्रूहि त्वं कर्मभिः पूज्यो योगिनां ध्येय एव च ॥ ५२ ॥

त्वं हि तत् परमं ब्रह्म निर्वाणममलं पदम् ।
भारावतरणार्थाय जातो वृष्णिकुले प्रभुः ॥ ५३ ॥

तमब्रवीन्महाबाहुः कृष्णो ब्रह्मविदां वरः ।
शृण्वतामेव पुत्राणां सर्वेषां प्रहसन्निव ॥ ५४ ॥

श्रीभगवानुवाच
विश्वास-प्रस्तुतिः

भवता कथितं सर्वं तथ्यमेव न संशयः ।
तथापि देवमीशानं पूजयामि सनातनम् ॥ ५५ ॥

मूलम्

भवता कथितं सर्वं तथ्यमेव न संशयः ।
तथापि देवमीशानं पूजयामि सनातनम् ॥ ५५ ॥

विश्वास-प्रस्तुतिः

न मे विप्रास्ति कर्तव्यं नानवाप्तं कथञ्चन ।
पूजयामि तथापीशं जानन्नैतत् परं शिवम् ॥ ५६ ॥

न वै पश्यन्ति तं देवं मायया मोहिता जनाः ।
ततो ऽहं स्वात्मनो मूलं ज्ञापयन् पूजयामि तम् ॥ ५७ ॥

न च लिङ्गार्चनात् पुण्यं लोकेस्मिन् भीतिनाशनम् ।
तथा लिङ्गे हितायैषां लोकानां पूजयेच्छिवम् ॥ ५८ ॥

यो ऽहं तल्लिङ्गमित्याहुर्वेदवादविदो जनाः ।
ततो ऽहमात्ममीशानं पूजयाम्यात्मनैव तु ॥ ५९ ॥

तस्यैव परमा मूर्तिस्तन्मयो ऽहं न संशयः ।
नावयोर्द्यिते भेदो वेदेष्वेवं विनिश्चयः ॥ ६० ॥

एष देवो महादेवः सदा संसारभीरुभिः ।
ध्येयः पूज्यश्च वन्द्यश्च ज्ञेयो लिङ्गे महेश्वरः ॥ ६१ ॥

मूलम्

एष देवो महादेवः सदा संसारभीरुभिः ।
ध्येयः पूज्यश्च वन्द्यश्च ज्ञेयो लिङ्गे महेश्वरः ॥ ६१ ॥

मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः

किं तल्लिङ्गं सुरश्रेष्ठ लिङ्गे सम्पूज्यते च कः ।
ब्रूहि कृष्ण विशालाक्ष गहनं ह्येतदुत्तमम् ॥ ६२ ॥

अव्यक्तं लिङ्गमित्याहुरानन्दं ज्योतिरक्षरम् ।
वेदा महेस्वरं देवमाहुर्लिङ्गिनमव्ययम् ॥ ६३ ॥

पुरा चैकार्णवे घोरे नष्टे स्थावरजङ्गमे ।
प्रबोधार्थं ब्रह्मणो मे प्रादुर्भूतः स्वयं शिवः ॥ ६४ ॥

तस्मात् कालात् समारभ्य ब्रह्मा चाहं सदैव हि ।
पूजयावो महादेवं लोकानां हितकाम्यया ॥ ६५ ॥

मूलम्

तस्मात् कालात् समारभ्य ब्रह्मा चाहं सदैव हि ।
पूजयावो महादेवं लोकानां हितकाम्यया ॥ ६५ ॥

मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः

कथं लिङ्गमभूत् पूर्वमैश्वरं परमं पदम् ।
प्रबोधार्थं स्वयं कृष्ण वक्तुमर्हसि साम्प्रतम् ॥ ६६ ॥

मूलम्

कथं लिङ्गमभूत् पूर्वमैश्वरं परमं पदम् ।
प्रबोधार्थं स्वयं कृष्ण वक्तुमर्हसि साम्प्रतम् ॥ ६६ ॥

श्रीभगवानुवाच
विश्वास-प्रस्तुतिः

आसोदेकार्णवं घोरमविभागं तमोमयम् ।
मध्ये चैकार्णवे तस्मिन् शङ्खचक्रगदाधरः ॥ ६७ ॥

सहस्रशीर्षा भूत्वाहं सहस्राक्षः सहस्रपात् सहस्रबाहुर्युक्तात्मा शयितो ऽहं सनातनः ॥ ६८ ॥
विश्वास-प्रस्तुतिः

एतस्मिन्नन्तरे दूरता पश्यमि ह्यमितप्रभम् ।
कोटिसूर्यप्रतीकाशं भ्राजमानं श्रियावृतम् ॥ ६९ ॥

चतुर्वरक्त्रं महायोगं पुरुषं काञ्चनप्रभम् ।
कृष्णाजिरधरं देवमृग्यजुः सामभिः स्तुतम् ॥ ७० ॥

निमेषमात्रेण स मां प्राप्तो योगविदां वरः ।
व्याजहार स्वयं ब्रह्मा स्मयमानो महाद्युतिः ॥ ७१ ॥

कस्त्वं कुतो वा किं चेह तिष्ठसे वह मे प्रभो ।
अहं कर्ता हि लोकानां स्वयम्भूः प्रपितामहः ॥ ७२ ॥

एवमुक्तस्तदा तेन ब्रह्मणाहमुवाच ह ।
अहं कर्तास्मि लोकानां संहर्ता च पुनः पुनः ॥ ७३ ॥

एवं विवादे वितते मायया परमेष्ठिनः ।
प्रबोधार्थं परं लिङ्गं प्रादुर्भूतं शिवात्मकम् ॥ ७४ ॥

कालानलसमप्रख्यं ज्वालामालासमाकुलम् ।
क्षयवृद्धिविनिर्मुक्तमादिमध्यान्तवर्जितम् ॥ ७५ ॥

ततो मामाह भगवानधो गच्छ त्वमाशु वै ।
अन्तमस्य विजानीम ऊर्ध्वं गच्छे ऽहमित्यजः ॥ ७६ ॥

तदाशु समयं कृत्वा गतावूर्ध्वमधश्च द्वौ ।
पितामहो ऽप्यहं नान्तं ज्ञातवन्तौ समाः शतम् ॥ ७७ ॥

ततो विस्मयमापन्नौ भीतौ देवस्य शूलिनः ।
मायया मोहितौ तस्य ध्यायन्तौ विश्वमीश्वरम् ॥ ७८ ॥

प्रोच्चारन्तौ महानादमोङ्कारं परमं पदम् ।
प्रह्वाञ्जलिपुटोपेतौ शम्भुं तुष्टुवतुः परम् ॥ ७९ ॥

ब्रह्मविष्णू ऊचतुः ।
विश्वास-प्रस्तुतिः

अनादिमलसंसाररोगवैद्याय शम्भवे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ८० ॥

प्रलयार्णवसंस्थाय प्रलयोद्भूतिहेतवे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ८१ ॥

ज्वालामालावृताङ्गाय ज्वलनस्तम्भरूपिणे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ८२ ॥

आदिमध्यान्तहीनाय स्वबावामलदीप्तये ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ८३ ॥

महादेवाय महते ज्योतिषे ऽनन्ततेजसे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ८४ ॥

प्रधानपुरुषेशाय व्योमरूपाय वेधसे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ८५ ॥

निर्विकाराय सत्याय नित्यायामलतेजसे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ८६ ॥

वेदान्तसाररूपाय कालरूपाय धीमते ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ८७ ॥

एवं संस्तूयमानस्तु व्यक्तो भूत्वा महेश्वरः ।
भाति देवो महायोगी सूर्यकोटिसमप्रभः ॥ ८८ ॥

वक्त्रकोटिसहस्रेण ग्रसमान इवाम्बरम् ।
सहस्रहस्तचरणः सूर्यसोमाग्निलोचनः ॥ ८९ ॥

मूलम्

वक्त्रकोटिसहस्रेण ग्रसमान इवाम्बरम् ।
सहस्रहस्तचरणः सूर्यसोमाग्निलोचनः ॥ ८९ ॥

विश्वास-प्रस्तुतिः

पिनाकपाणिर्भगवान् कृत्तिवासास्त्रिशूलभृत् ।
व्यालयज्ञोपवीतश्च मेघदुन्दुभिनिः स्वनः ॥ ९० ॥

अथोवाच महादेवः प्रीतो ऽहं सुरसत्तमौ ।
पश्येतं मां महादेवं भयं सर्वं प्रमुच्यताम् ॥ ९१ ॥

युवां प्रसूतौ गात्रेभ्यो मम पूर्वं सनातनौ ।
विश्वास-प्रस्तुतिः

अयं मे दक्षिणे पार्श्वे ब्रह्मा लोकपितामहः ।
वामपार्श्वे च मे विष्णुः पालको हृदये हरः ॥ ९२ ॥

प्रीतो ऽहं युवयोः सम्यक् वरं दद्मि यथेप्सितम् ।
विश्वास-प्रस्तुतिः

एवमुक्त्वाथ मां देवो महादेवः स्वयं शिवः ।
आलिङ्ग्य देवं ब्रह्माणं प्रसादाभिमुखो ऽभवत् ॥ ९३ ॥

ततः प्रहृष्टमनसौ प्रणिपत्य महेश्वरम् ।
ऊचतुः प्रेक्ष्य तद्वक्त्रं नारायणपितामहौ ॥ ९४ ॥

यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च नौ ।
भक्तिर्भवतु नौ नित्यं त्वयि देव महेश्वरे ॥ ९५ ॥

ततः स भगवानीशः प्रहसन् परमेश्वरः ।
उवाच मां महादेवः प्रीतः प्रीतेन चेतसा ॥ ९६ ॥

देव उवाच
विश्वास-प्रस्तुतिः

प्रलयस्थितिसर्गाणां कर्ता त्वं धरणीपते ।
वत्स वत्स हरे विश्वं पालयैतच्चराचरम् ॥ ९७ ॥

त्रिधा भिन्नो ऽस्म्यहं विष्णो ब्रह्मविष्णुहराख्यया ।
सर्गरक्षालयगुणैर्निर्गुणो ऽपि निरञ्जनः ॥ ९८ ॥

सम्मोहं त्यज भो विष्णो पालयैनं पितामहम् ।
भविष्यत्येष भगवांस्तव पुत्रः सनातनः ॥ ९९ ॥

अहं च भवतो वक्त्रात् कल्पादौ घोररूपधृक् ।
शूलपाणिर्भविष्यामि क्रोधजस्तव पुत्रकः ॥ १०० ॥

एवमुक्त्वा महादेवो ब्रह्माणं मुनिसत्तम ।
अनुगृह्य च मां देवस्तत्रैवान्तरधीयत ॥ १०१ ॥

ततः प्रभृति लोकेषु लिङ्गार्चा सुप्रतिष्ठिता ।
लिङ्ग तल्लयनाद् ब्रह्मन् ब्रह्मणः परमं वपुः ॥ १०२ ॥

एतल्लिङ्गस्य माहात्म्यं भाषितं ते मयानघ ।
एतद् बुध्यन्ति योगज्ञा न देवा न च दानवाः ॥ १०३ ॥

एतद्धि परमं ज्ञानमव्यक्तं शिवसञ्ज्ञितम् ।
येन सूक्ष्ममचिन्त्यं तत् पश्यन्ति ज्ञान वक्षुषः ॥ १०४ ॥

तस्मै भगवते नित्यं नमस्कारं प्रकुर्महे ।
महादेवाय रुद्राय देवदेवाय लिङ्गिने ॥ १०५ ॥

नमो वेदरहस्याय नीलकण्ठाय वै नमः ।
विभीषणाय शान्ताय स्थाणवे हेतवे नमः ॥ १०६ ॥

ब्रह्मणे वामदेवाय त्रिनेत्राय महीयसे ।
शङ्कराय महेशाय गिरीशाय शिवाय च ॥ १०७ ॥

मूलम्

ब्रह्मणे वामदेवाय त्रिनेत्राय महीयसे ।
शङ्कराय महेशाय गिरीशाय शिवाय च ॥ १०७ ॥

विश्वास-प्रस्तुतिः

नमः कुरुष्व सततं ध्यायस्व मनसा हरम् ।
संसारसागरादस्मादचिरादुत्तरिष्यसि ॥ १०८ ॥

एवं स वासुदेवेन व्याहृतो मुनिपुङ्गवः ।
जगाम मनसा देवमीशानं विश्वतोमुखम् ॥ १०९ ॥

प्रणम्य शिरसा कृष्णमनुज्ञातो महामुनिः ।
जगाम चेप्सितं देशं देवदेवस्य शूलिनः ॥ ११० ॥

य इमं श्रावयेन्नित्यं लिङ्गाध्यायमनुत्तमम् ।
शृणुयाद् वा पठेद् वापि सर्वपापैः प्रमुच्यते ॥ १११ ॥

श्रुत्वा सकृदपि ह्येतत् तपश्चरणमुत्तमम् ।
वासुदेवस्य विप्रेन्द्राः पापं मुञ्चिति मानवः ॥ ११२ ॥

जपेद् वाहरहर्नित्यं ब्रह्मलोके महीयते ।
एवमाह महायोगी कृष्णद्वैपायनः प्रभुः ॥ ११३ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चविंशो ऽध्यायः