२४

सूत उवाच

विश्वास-प्रस्तुतिः

अथ देवो हृषीकेशो भगवान् पुरुषोत्तमः ।
तताप घोरं पुत्रार्थं निदानं तपसस्तपः ॥ १ ॥

मूलम्

अथ देवो हृषीकेशो भगवान् पुरुषोत्तमः ।
तताप घोरं पुत्रार्थं निदानं तपसस्तपः ॥ १ ॥

विश्वास-प्रस्तुतिः

स्वेच्छयाप्यवतीर्णो ऽसौ कृतकृत्यो ऽपि विश्वधृक् ।
चचार स्वात्मनो मूलं बोधयन् भावमैश्वरम् ॥ २ ॥

मूलम्

स्वेच्छयाप्यवतीर्णो ऽसौ कृतकृत्यो ऽपि विश्वधृक् ।
चचार स्वात्मनो मूलं बोधयन् भावमैश्वरम् ॥ २ ॥

विश्वास-प्रस्तुतिः

जगाम योगिभिर्जुष्टं नानापक्षिसमाकुलम् ।
आश्रमं तूपमन्योर्वै मुनीन्द्रस्य महात्मनः ॥ ३ ॥

मूलम्

जगाम योगिभिर्जुष्टं नानापक्षिसमाकुलम् ।
आश्रमं तूपमन्योर्वै मुनीन्द्रस्य महात्मनः ॥ ३ ॥

विश्वास-प्रस्तुतिः

तपत्त्रिराजमारूढः सुपर्णमतितेजसम् ।
शङ्खचक्रगदापाणिः श्रीवत्सकृतलक्षणः ॥ ४ ॥

मूलम्

तपत्त्रिराजमारूढः सुपर्णमतितेजसम् ।
शङ्खचक्रगदापाणिः श्रीवत्सकृतलक्षणः ॥ ४ ॥

विश्वास-प्रस्तुतिः

नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् ।
ऋषीणामाश्रमैर्जुष्टं वेदघोषनिनादितम् ॥ ५ ॥

मूलम्

नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् ।
ऋषीणामाश्रमैर्जुष्टं वेदघोषनिनादितम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

सिंहर्क्षशरभाकीर्णं शार्दूलगजसंयुतम् ।
विमलस्वादुपानीयैः सरोभिरुपशोभितम् ॥ ६ ॥

मूलम्

सिंहर्क्षशरभाकीर्णं शार्दूलगजसंयुतम् ।
विमलस्वादुपानीयैः सरोभिरुपशोभितम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

आरामैर्विविधैर्जुष्टं देवतायतनैः शुभैः ।
ऋषिकैरृषिपुत्रैश्च महामुनिगणैस्तथा ॥ ७ ॥

मूलम्

आरामैर्विविधैर्जुष्टं देवतायतनैः शुभैः ।
ऋषिकैरृषिपुत्रैश्च महामुनिगणैस्तथा ॥ ७ ॥

विश्वास-प्रस्तुतिः

वेदाध्ययनसम्पन्नैः सेवितं चाग्निहोत्रिभिः ।
योगिभिर्ध्याननिरतैर्नासाग्रगतलोचनैः ॥ ८ ॥

मूलम्

वेदाध्ययनसम्पन्नैः सेवितं चाग्निहोत्रिभिः ।
योगिभिर्ध्याननिरतैर्नासाग्रगतलोचनैः ॥ ८ ॥

विश्वास-प्रस्तुतिः

उपेतं सर्वतः पुण्यं ज्ञानिभिस्तत्त्वदर्शिभिः ।
नदीभिरभितो जुष्टं जापकैर्ब्रह्मवादिभिः ॥ ९ ॥

मूलम्

उपेतं सर्वतः पुण्यं ज्ञानिभिस्तत्त्वदर्शिभिः ।
नदीभिरभितो जुष्टं जापकैर्ब्रह्मवादिभिः ॥ ९ ॥

विश्वास-प्रस्तुतिः

सेवितं तापसैः पुण्यैरीशाराधनतत्परैः ।
प्रशान्तैः सत्यसङ्कल्पैर्निः शोकैर्निरुपद्रवैः ॥ १० ॥

मूलम्

सेवितं तापसैः पुण्यैरीशाराधनतत्परैः ।
प्रशान्तैः सत्यसङ्कल्पैर्निः शोकैर्निरुपद्रवैः ॥ १० ॥

भस्मावदातसर्वाङ्गै रुद्रजाप्यपरायणैः ।
विश्वास-प्रस्तुतिः

मुण्डितैर्जटिलैः शुद्धैस्तथान्यैश्च शिखाजटैः ।
सेवितं तापसैर्नित्य ज्ञानिभिर्ब्रह्मचारिभिः ॥ ११ ॥

मूलम्

मुण्डितैर्जटिलैः शुद्धैस्तथान्यैश्च शिखाजटैः ।
सेवितं तापसैर्नित्य ज्ञानिभिर्ब्रह्मचारिभिः ॥ ११ ॥

विश्वास-प्रस्तुतिः

तत्राश्रमवरे रम्ये सिद्धाश्रमविभूषिते ।
गङ्गा भगवती नित्यं वहत्येवाघनाशिनी ॥ १२ ॥

मूलम्

तत्राश्रमवरे रम्ये सिद्धाश्रमविभूषिते ।
गङ्गा भगवती नित्यं वहत्येवाघनाशिनी ॥ १२ ॥

विश्वास-प्रस्तुतिः

स तानन्विष्य विश्वात्मा तापसान् वीतकल्मषान् ।
प्रणामेनाथ वचसा पूजयामास माधवः ॥ १३ ॥

मूलम्

स तानन्विष्य विश्वात्मा तापसान् वीतकल्मषान् ।
प्रणामेनाथ वचसा पूजयामास माधवः ॥ १३ ॥

विश्वास-प्रस्तुतिः

ते ते दृष्ट्वा जगद्योनिं शङ्खचक्रगदाधरम् ।
प्रणेमुर्भक्तिसंयुक्ता योगिनां परमं गुरुम् ॥ १४ ॥

मूलम्

ते ते दृष्ट्वा जगद्योनिं शङ्खचक्रगदाधरम् ।
प्रणेमुर्भक्तिसंयुक्ता योगिनां परमं गुरुम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

स्तुवन्ति वैदिकैर्मन्त्रैः कृत्वा हृदि सनातनम् ।
प्रोचुरन्योन्यमव्यक्तमादिदेवं महामुनिम् ॥ १५ ॥

मूलम्

स्तुवन्ति वैदिकैर्मन्त्रैः कृत्वा हृदि सनातनम् ।
प्रोचुरन्योन्यमव्यक्तमादिदेवं महामुनिम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

अयं स भगवानेकः साक्षान्नारायणः परः ।
अगच्छत्यधुना देवः पुराणपुरुषः स्वयम् ॥ १६ ॥

मूलम्

अयं स भगवानेकः साक्षान्नारायणः परः ।
अगच्छत्यधुना देवः पुराणपुरुषः स्वयम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

अयमेवाव्ययः स्त्रष्टा संहर्ता चैव रक्षकः ।
अमूर्तो मूर्तिमान् भूत्वा मुनीन् द्रष्टुमिहागतः ॥ १७ ॥

मूलम्

अयमेवाव्ययः स्त्रष्टा संहर्ता चैव रक्षकः ।
अमूर्तो मूर्तिमान् भूत्वा मुनीन् द्रष्टुमिहागतः ॥ १७ ॥

विश्वास-प्रस्तुतिः

एष धाता विधाता च समागच्छति सर्वगः ।
अनादिरक्षयो ऽनन्तो महाभूतो महेश्वरः ॥ १८ ॥

मूलम्

एष धाता विधाता च समागच्छति सर्वगः ।
अनादिरक्षयो ऽनन्तो महाभूतो महेश्वरः ॥ १८ ॥

विश्वास-प्रस्तुतिः

श्रुत्वा श्रुत्वा हरिस्तेषां वचांसि वचनातिगः ।
ययौ स तूर्णं गोविन्दः स्थानं तस्य महात्मनः ॥ १९ ॥

मूलम्

श्रुत्वा श्रुत्वा हरिस्तेषां वचांसि वचनातिगः ।
ययौ स तूर्णं गोविन्दः स्थानं तस्य महात्मनः ॥ १९ ॥

विश्वास-प्रस्तुतिः

उपस्पृश्याथ भावेन तीर्थे तीर्थे स यादवः ।
चकार देवकीसूनुर्देवर्षिपितृतर्पणम् ॥ २० ॥

मूलम्

उपस्पृश्याथ भावेन तीर्थे तीर्थे स यादवः ।
चकार देवकीसूनुर्देवर्षिपितृतर्पणम् ॥ २० ॥

विश्वास-प्रस्तुतिः

नदीनां तीरसंस्थानि स्थापितानि मुनीश्वरैः ।
लिङ्गानि पूजयामास शम्भोरमिततेजसः ॥ २१ ॥

मूलम्

नदीनां तीरसंस्थानि स्थापितानि मुनीश्वरैः ।
लिङ्गानि पूजयामास शम्भोरमिततेजसः ॥ २१ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा दृष्ट्वा समायान्तं यत्र यत्र जनार्दनम् ।
पूजयाञ्चक्रिरे पुष्पैरक्षतैस्तत्र वासिनः ॥ २२ ॥

मूलम्

दृष्ट्वा दृष्ट्वा समायान्तं यत्र यत्र जनार्दनम् ।
पूजयाञ्चक्रिरे पुष्पैरक्षतैस्तत्र वासिनः ॥ २२ ॥

विश्वास-प्रस्तुतिः

समीक्ष्य वासुदेवं तं शार्ङ्गशङ्खासिधारिणम् ।
तस्थिरे निश्चलाः सर्वे शुभाङ्गं तन्निवासिनः ॥ २३ ॥

मूलम्

समीक्ष्य वासुदेवं तं शार्ङ्गशङ्खासिधारिणम् ।
तस्थिरे निश्चलाः सर्वे शुभाङ्गं तन्निवासिनः ॥ २३ ॥

विश्वास-प्रस्तुतिः

यानि तत्रारुरुक्षूणां मानसानि जनार्दनम् ।
दृष्ट्वा समीहितान्यासन् निष्क्रामन्ति पुराहिरम् ॥ २४ ॥

मूलम्

यानि तत्रारुरुक्षूणां मानसानि जनार्दनम् ।
दृष्ट्वा समीहितान्यासन् निष्क्रामन्ति पुराहिरम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

अथावगाह्य गङ्गायां कृत्वा देवादितर्पणम् ।
आदाय पुष्पवर्याणि मुनीन्द्रस्याविशद् गृहम् ॥ २५ ॥

मूलम्

अथावगाह्य गङ्गायां कृत्वा देवादितर्पणम् ।
आदाय पुष्पवर्याणि मुनीन्द्रस्याविशद् गृहम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा तं योगिनां श्रेष्ठं भस्मोद्धूलितविग्रहम् ।
जटाचीरधरं शान्तं ननाम शिरसा मुनिम् ॥ २६ ॥

मूलम्

दृष्ट्वा तं योगिनां श्रेष्ठं भस्मोद्धूलितविग्रहम् ।
जटाचीरधरं शान्तं ननाम शिरसा मुनिम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

आलोक्य कृष्णमायान्तं पूजयामास तत्त्ववित् ।
आसने चासयामास योगिनां प्रथमातिथिम् ॥ २७ ॥

मूलम्

आलोक्य कृष्णमायान्तं पूजयामास तत्त्ववित् ।
आसने चासयामास योगिनां प्रथमातिथिम् ॥ २७ ॥

विश्वास-प्रस्तुतिः

उवाच वचसां योनिं जानीमः परमं पदम् ।
विष्णुमव्यक्तसंस्थानं शिष्यभावेन संस्थितम् ॥ २८ ॥

मूलम्

उवाच वचसां योनिं जानीमः परमं पदम् ।
विष्णुमव्यक्तसंस्थानं शिष्यभावेन संस्थितम् ॥ २८ ॥

विश्वास-प्रस्तुतिः

स्वागतं ते हृषीकेश सफलानि तपांसि नः ।
यद् साक्षादेव विश्वात्मा मद्गेहं विष्णुरागतः ॥ २९ ॥

मूलम्

स्वागतं ते हृषीकेश सफलानि तपांसि नः ।
यद् साक्षादेव विश्वात्मा मद्गेहं विष्णुरागतः ॥ २९ ॥

विश्वास-प्रस्तुतिः

त्वां न पश्यन्ति मुनयो यतन्तो ऽपि हि योगिनः ।
तादृशस्याथ भवतः किमागमनकारणम् ॥ ३० ॥

मूलम्

त्वां न पश्यन्ति मुनयो यतन्तो ऽपि हि योगिनः ।
तादृशस्याथ भवतः किमागमनकारणम् ॥ ३० ॥

विश्वास-प्रस्तुतिः

श्रुत्वोपमन्योस्तद् वाक्यं भगवान् केशिमर्दनः ।
व्याजहार महायोगी वचनं प्रणिपत्य तम् ॥ ३१ ॥

मूलम्

श्रुत्वोपमन्योस्तद् वाक्यं भगवान् केशिमर्दनः ।
व्याजहार महायोगी वचनं प्रणिपत्य तम् ॥ ३१ ॥

श्रीकृष्ण उवाच
विश्वास-प्रस्तुतिः

भगवन् द्रष्टुमिच्छामि गिरीशं कृत्तिवाससम् ।
सम्प्राप्तो भवतः स्थानं भगवद्दर्शनोत्सुकः ॥ ३२ ॥

मूलम्

भगवन् द्रष्टुमिच्छामि गिरीशं कृत्तिवाससम् ।
सम्प्राप्तो भवतः स्थानं भगवद्दर्शनोत्सुकः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

कथं स भगवानीशो दृश्यो योगविदां वरः ।
मयाचिरेण कुत्राहं द्रक्ष्यामि तमुमापतिम् ॥ ३३ ॥

मूलम्

कथं स भगवानीशो दृश्यो योगविदां वरः ।
मयाचिरेण कुत्राहं द्रक्ष्यामि तमुमापतिम् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

इत्याह भगवानुक्तो दृश्यते परमेश्वरः ।
भक्त्या चोग्रेण तपसा तत्कुरुष्वेह यत्नतः ॥ ३४ ॥

मूलम्

इत्याह भगवानुक्तो दृश्यते परमेश्वरः ।
भक्त्या चोग्रेण तपसा तत्कुरुष्वेह यत्नतः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

इहेश्वरं देवदेवं मुनीन्द्रा ब्रह्मवादिनः ।
ध्यायन्तो ऽत्रासते देवं जापिनस्तापसाश्च ये ॥ ३५ ॥

मूलम्

इहेश्वरं देवदेवं मुनीन्द्रा ब्रह्मवादिनः ।
ध्यायन्तो ऽत्रासते देवं जापिनस्तापसाश्च ये ॥ ३५ ॥

विश्वास-प्रस्तुतिः

इह देवः सपत्नीको भगवान् वृषभध्वजः ।
क्रीडते विविधैर्भूतैर्योगिभिः परिवारितः ॥ ३६ ॥

मूलम्

इह देवः सपत्नीको भगवान् वृषभध्वजः ।
क्रीडते विविधैर्भूतैर्योगिभिः परिवारितः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

इहाश्रमे पुरा रुद्रात् तपस्तप्त्वा सुदारुणम् ।
लेभे महेश्वराद् योगं वसिष्ठो भगवानृषिः ॥ ३७ ॥

मूलम्

इहाश्रमे पुरा रुद्रात् तपस्तप्त्वा सुदारुणम् ।
लेभे महेश्वराद् योगं वसिष्ठो भगवानृषिः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

इहैव भगवान् व्यसः कृष्णद्वैपायनः प्रभुः ।
दृष्ट्वा तं परमं ज्ञानं लब्धवानीश्वरेश्वरम् ॥ ३८ ॥

मूलम्

इहैव भगवान् व्यसः कृष्णद्वैपायनः प्रभुः ।
दृष्ट्वा तं परमं ज्ञानं लब्धवानीश्वरेश्वरम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

इहाश्रमवरे रम्ये तपस्तप्त्वा कपर्दिनः ।
अविन्दत् पुत्रकान् रुद्रात् सुरभिर्भक्तिसंयुता ॥ ३९ ॥

मूलम्

इहाश्रमवरे रम्ये तपस्तप्त्वा कपर्दिनः ।
अविन्दत् पुत्रकान् रुद्रात् सुरभिर्भक्तिसंयुता ॥ ३९ ॥

विश्वास-प्रस्तुतिः

इहैव देवताः पूर्वं कालाद् भीता महेश्वरम् ।
दृष्टवन्तो हरं श्रीमन्निर्भया निर्वृतिं ययुः ॥ ४० ॥

मूलम्

इहैव देवताः पूर्वं कालाद् भीता महेश्वरम् ।
दृष्टवन्तो हरं श्रीमन्निर्भया निर्वृतिं ययुः ॥ ४० ॥

विश्वास-प्रस्तुतिः

इहाराध्य महादेवं सावर्णिस्तपतां वरः ।
लब्धवान् परमं योगं ग्रन्थकारत्वमुत्तमम् ॥ ४१ ॥

मूलम्

इहाराध्य महादेवं सावर्णिस्तपतां वरः ।
लब्धवान् परमं योगं ग्रन्थकारत्वमुत्तमम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

प्रवर्तयामास शुभां कृत्वा वै संहितां द्विजः ।
पौराणिकीं सुपुण्यार्थां सच्छिष्येषु द्विजातिषु ॥ ४२ ॥

मूलम्

प्रवर्तयामास शुभां कृत्वा वै संहितां द्विजः ।
पौराणिकीं सुपुण्यार्थां सच्छिष्येषु द्विजातिषु ॥ ४२ ॥

इहैव संहितां दृष्ट्वा कापेयः शांशपायनः ।
विश्वास-प्रस्तुतिः

महादेवं चकारेमां पौराणीं तन्नियोगतः ।
द्वादशैव सहस्राणि श्लोकानां पुरुषोत्तम ॥ ४३ ॥

मूलम्

महादेवं चकारेमां पौराणीं तन्नियोगतः ।
द्वादशैव सहस्राणि श्लोकानां पुरुषोत्तम ॥ ४३ ॥

इह प्रवर्तिता पुण्या द्व्यष्टसाहस्त्रिकोत्तरा ।
विश्वास-प्रस्तुतिः

वायवीयोत्तरं नाम पुराणं वेदसम्मितम् ।
इहैव ख्यापितं शिष्यैः शांशपायनभाषितम् ॥ ४४ ॥

मूलम्

वायवीयोत्तरं नाम पुराणं वेदसम्मितम् ।
इहैव ख्यापितं शिष्यैः शांशपायनभाषितम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

याज्ञवल्क्यो महायोगी दृष्ट्वात्र तपसा हरम् ।
चकार तन्नियोगेन योगशास्त्रमनुत्तमम् ॥ ४५ ॥

मूलम्

याज्ञवल्क्यो महायोगी दृष्ट्वात्र तपसा हरम् ।
चकार तन्नियोगेन योगशास्त्रमनुत्तमम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

इहैव भृगुणा पूर्वं तप्त्वा वै परमं तपः ।
शुक्रो महेश्वरात् पुत्रो लब्धो योगविदां वरः ॥ ४६ ॥

मूलम्

इहैव भृगुणा पूर्वं तप्त्वा वै परमं तपः ।
शुक्रो महेश्वरात् पुत्रो लब्धो योगविदां वरः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

तस्मादिहैव देवेशं तपस्तप्त्वा महेश्वरम् ।
द्रष्टुमर्हसि विश्वेशमुग्रं भीमं कपर्दिनम् ॥ ४७ ॥

मूलम्

तस्मादिहैव देवेशं तपस्तप्त्वा महेश्वरम् ।
द्रष्टुमर्हसि विश्वेशमुग्रं भीमं कपर्दिनम् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा ददौ ज्ञानमुपमन्युर्महामुनिः ।
व्रतं पाशुपतं योगं कृष्णायाक्लिष्टकर्मणे ॥ ४८ ॥

मूलम्

एवमुक्त्वा ददौ ज्ञानमुपमन्युर्महामुनिः ।
व्रतं पाशुपतं योगं कृष्णायाक्लिष्टकर्मणे ॥ ४८ ॥

विश्वास-प्रस्तुतिः

स तेन मुनिवर्येण व्याहृतो मधुसूदनः ।
तत्रैव तपसा देवं रुद्रमाराधयत् प्रभुः ॥ ४९ ॥

मूलम्

स तेन मुनिवर्येण व्याहृतो मधुसूदनः ।
तत्रैव तपसा देवं रुद्रमाराधयत् प्रभुः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

भस्मौद्धूलितसर्वाङ्गो मुण्डो वल्कलसंयुतः ।
जजाप रुद्रमनिशं शिवैकाहितमानसः ॥ ५० ॥

मूलम्

भस्मौद्धूलितसर्वाङ्गो मुण्डो वल्कलसंयुतः ।
जजाप रुद्रमनिशं शिवैकाहितमानसः ॥ ५० ॥

विश्वास-प्रस्तुतिः

ततो बहुतिथे काले सोमः सोमार्धभूषणः ।
अदृश्यत महादेवो व्योम्नि देव्या महेश्वरः ॥ ५१ ॥

मूलम्

ततो बहुतिथे काले सोमः सोमार्धभूषणः ।
अदृश्यत महादेवो व्योम्नि देव्या महेश्वरः ॥ ५१ ॥

किरीटिनं गदिनं चित्रमालं पिनाकिनं शूलिनं देवदेवम् । शार्दूलचर्माम्बरसंवृताङ्गं देव्या महादेवमसौ ददर्श ॥ ५२ ॥ परश्वधासक्तकरं त्रिनेत्रं नृसिंहचर्मावृतसर्वगात्रम् । समुद्गिरन्तं प्रणवं बृहन्तं सहस्रसूर्यप्रतिमं ददर्श ॥ ५३ ॥ प्रभुं पुराणं पुरुषं पुरस्तात् सनातनं योगिनमीशितारम् । अणोरणीयांसमनन्तशक्तिं प्राणेश्वरं शम्भुमसौ ददर्श ॥ ५४ ॥ न यस्य देवा न पितामहो ऽपि नेन्द्रो न चाग्निर्वरुणो न मृत्युः । प्रभावमद्यापि वदन्ति रुद्रं तमादिदेवं पुरतो ददर्श ॥ ५५ ॥ तदान्वपश्यद् गिरिशस्य वामे स्वात्मानमव्यक्तमनन्तरूपम् । स्तुवन्तमीशं बहुभिर्वचोभिः शङ्खासिचक्रार्पितहस्तमाद्यम् ॥ ५६ ॥ कृताञ्जलिं दक्षिणतः सुरेशं हंसाधिरूढं पुरुषं ददर्श । स्तुवानमीशस्य परं प्रभावं पितामहं लोकगुरुं दिवस्थम् ॥ ५७ ॥ गणेश्वरानर्कसहस्रकल्पान् नन्दीश्वरादीनमितप्रभावान् । त्रिलोकभर्तुः पुरतो ऽन्वपश्यत् कुमारमग्निपतिमं सशाखम् ॥ ५८ ॥ मरीचिमत्रिं पुलहं पुलस्त्यं प्रचेतसं दक्षमथापि कण्वम् । पराशरं तत्परतो वसिष्ठं स्वायम्भुवं चापि मनुं ददर्श ॥ ५९ ॥ तुष्टाव मन्त्रैरमरप्रधानं बद्धाञ्जलिर्विष्णुरुदारबुद्धिः । प्रणम्य देव्या गिरिशं सभक्त्या स्वात्मन्यथात्मानमसौ विचिन्त्य ॥ ६० ॥ श्रीकृष्ण उवाच नमो ऽस्तु ते शाश्वत सर्वयोने ब्रह्माधिपं त्वामृषयो वदन्ति । तपश्च सत्त्वं च रजस्तमश्च त्वामेव सर्व प्रवदन्ति सन्तः ॥ ६१ ॥ त्वं ब्रह्मा हरिरथ विश्वयोनिरग्निः संहर्ता दिनकरमण्डलाधिवासः । प्राणस्त्वं हुतवहवासवादिभेद- सत्वामेकं शरणमुपैमि देवमीशम् ॥ ६२ ॥ साङ्ख्यास्त्वां विगुणमथाहुरेकरूपं योगास्त्वां सततमुपासते हृदिस्थम् । वेदास्त्वामभिदधतीह रुद्रमग्निं त्वामेकं शरणमुपैमि देवमीशम् ॥ ६३ ॥ त्वात्पादे कुसुममथापि पत्रमेकं दत्त्वासौ भवति विमुक्तविश्वबन्धः । सर्वाघं प्रणुदति सिद्धयोगिजुष्टं स्मृत्वा ते पदयुगलं भवत्प्रसादात् ॥ ६४ ॥ यस्याशेषविभागहीनममलं हृद्यन्तरावस्थितं तत्त्वं ज्योतिरनन्तमेकमचलं सत्यं परं सर्वगम् । स्थानं प्राहुरनादिमध्यनिधनं यस्मादिदं जायते नित्यं त्वामहमुपैमि सत्यविभवंविश्वेश्वरन्तंशिवम् ॥ ६५ ॥
विश्वास-प्रस्तुतिः

ॐ नमो नीलकण्ठाय त्रिनेत्राय च रंहसे ।
महादेवाय ते नित्यमीशानाय नमो नमः ॥ ६६ ॥

मूलम्

ॐ नमो नीलकण्ठाय त्रिनेत्राय च रंहसे ।
महादेवाय ते नित्यमीशानाय नमो नमः ॥ ६६ ॥

विश्वास-प्रस्तुतिः

नमः पिनाकिने तुभ्यं नमो मुण्डाय दण्डिने ।
नमस्ते वज्रहस्ताय दिग्वस्त्राय कपर्दिने ॥ ६७ ॥

मूलम्

नमः पिनाकिने तुभ्यं नमो मुण्डाय दण्डिने ।
नमस्ते वज्रहस्ताय दिग्वस्त्राय कपर्दिने ॥ ६७ ॥

विश्वास-प्रस्तुतिः

नमो भैरवनादाय कालरूपाय दंष्ट्रिणे ।
नागयज्ञोपवीताय नमस्ते वह्निरेतसे ॥ ६८ ॥

मूलम्

नमो भैरवनादाय कालरूपाय दंष्ट्रिणे ।
नागयज्ञोपवीताय नमस्ते वह्निरेतसे ॥ ६८ ॥

विश्वास-प्रस्तुतिः

नमो ऽस्तु ते गिरीशाय स्वाहाकाराय ते नमः ।
नमो मुक्ताट्टहासाय भीमाय च नमो नमः ॥ ६९ ॥

मूलम्

नमो ऽस्तु ते गिरीशाय स्वाहाकाराय ते नमः ।
नमो मुक्ताट्टहासाय भीमाय च नमो नमः ॥ ६९ ॥

विश्वास-प्रस्तुतिः

नमस्ते कामनाशाय नमः कालप्रमाथिने ।
नमो भैरववेषाय हराय च निषङ्गिणे ॥ ७० ॥

मूलम्

नमस्ते कामनाशाय नमः कालप्रमाथिने ।
नमो भैरववेषाय हराय च निषङ्गिणे ॥ ७० ॥

विश्वास-प्रस्तुतिः

नमो ऽस्तु ते त्र्यम्बकाय नमस्ते कृत्तिवाससे ।
नमो ऽम्बिकाधिपतये पशूनां पतये नमः ॥ ७१ ॥

मूलम्

नमो ऽस्तु ते त्र्यम्बकाय नमस्ते कृत्तिवाससे ।
नमो ऽम्बिकाधिपतये पशूनां पतये नमः ॥ ७१ ॥

विश्वास-प्रस्तुतिः

नमस्ते व्योमरूपाय व्योमाधिपतये नमः ।
नरनारीशरीराय साङ्ख्ययोगप्रवर्तिने ॥ ७२ ॥

मूलम्

नमस्ते व्योमरूपाय व्योमाधिपतये नमः ।
नरनारीशरीराय साङ्ख्ययोगप्रवर्तिने ॥ ७२ ॥

विश्वास-प्रस्तुतिः

नमो दैवतनाथाय देवानुगतलिङ्गिने ।
कुमारगुरवे तुभ्यं देवदेवाय ते नमः ॥ ७३ ॥

मूलम्

नमो दैवतनाथाय देवानुगतलिङ्गिने ।
कुमारगुरवे तुभ्यं देवदेवाय ते नमः ॥ ७३ ॥

विश्वास-प्रस्तुतिः

तमो यज्ञाधिपतये नमस्ते ब्रह्मचारिणे ।
मृगव्याधाय महते ब्रह्माधिपतये नमः ॥ ७४ ॥

मूलम्

तमो यज्ञाधिपतये नमस्ते ब्रह्मचारिणे ।
मृगव्याधाय महते ब्रह्माधिपतये नमः ॥ ७४ ॥

विश्वास-प्रस्तुतिः

नमो हंसाय विश्वाय मोहनाय नमो नमः ।
योगिने योगगम्याय योगमायाय ते नमः ॥ ७५ ॥

मूलम्

नमो हंसाय विश्वाय मोहनाय नमो नमः ।
योगिने योगगम्याय योगमायाय ते नमः ॥ ७५ ॥

विश्वास-प्रस्तुतिः

नमस्ते प्राणपालाय घण्टानादप्रियाय च ।
कपालिने नमस्तुभ्यं ज्योतिषां पतये नमः ॥ ७६ ॥

मूलम्

नमस्ते प्राणपालाय घण्टानादप्रियाय च ।
कपालिने नमस्तुभ्यं ज्योतिषां पतये नमः ॥ ७६ ॥

विश्वास-प्रस्तुतिः

नमो नमो नमस्तुभ्यं भूय एव नमो नमः ।
मह्यं सर्वात्मना कामान् प्रयच्छ परमेश्वर ॥ ७७ ॥

मूलम्

नमो नमो नमस्तुभ्यं भूय एव नमो नमः ।
मह्यं सर्वात्मना कामान् प्रयच्छ परमेश्वर ॥ ७७ ॥

विश्वास-प्रस्तुतिः

एवं हि भक्त्या देवेशमभिष्टूय स माधवः ।
पपात पादयोर्विप्रा देवदेव्योः स दण्डवत् ॥ ७८ ॥

मूलम्

एवं हि भक्त्या देवेशमभिष्टूय स माधवः ।
पपात पादयोर्विप्रा देवदेव्योः स दण्डवत् ॥ ७८ ॥

विश्वास-प्रस्तुतिः

उत्थाप्य भगवान् सोमः कृष्णं केशिनिषूदनम् ।
बभाषे मधुरं वाक्यं मेघगम्भीरनिः स्वनः ॥ ७९ ॥

मूलम्

उत्थाप्य भगवान् सोमः कृष्णं केशिनिषूदनम् ।
बभाषे मधुरं वाक्यं मेघगम्भीरनिः स्वनः ॥ ७९ ॥

विश्वास-प्रस्तुतिः

किमर्थं पुण्डरीकाक्ष तपस्तप्तं त्वयाव्यय ।
त्वमेव दाता सर्वेषां कामानां कामिनामिह ॥ ८० ॥

मूलम्

किमर्थं पुण्डरीकाक्ष तपस्तप्तं त्वयाव्यय ।
त्वमेव दाता सर्वेषां कामानां कामिनामिह ॥ ८० ॥

विश्वास-प्रस्तुतिः

त्वं हि सा परमा मूर्तिर्मम नारायणाह्वया ।
नानवाप्तं त्वया तात विद्यते पुरुषोत्तम ॥ ८१ ॥

मूलम्

त्वं हि सा परमा मूर्तिर्मम नारायणाह्वया ।
नानवाप्तं त्वया तात विद्यते पुरुषोत्तम ॥ ८१ ॥

विश्वास-प्रस्तुतिः

वेत्थ नारायणानन्तमात्मानं परमेश्वरम् ।
महादेवं महायोगं स्वेन योगेन केशव ॥ ८२ ॥

मूलम्

वेत्थ नारायणानन्तमात्मानं परमेश्वरम् ।
महादेवं महायोगं स्वेन योगेन केशव ॥ ८२ ॥

विश्वास-प्रस्तुतिः

श्रुत्वा तद्वचनं कृष्णः प्रहसन् वै वृषध्वजम् ।
उवाच वीक्ष्य विश्वेशं देवीं च हिमशैलजाम् ॥ ८३ ॥

मूलम्

श्रुत्वा तद्वचनं कृष्णः प्रहसन् वै वृषध्वजम् ।
उवाच वीक्ष्य विश्वेशं देवीं च हिमशैलजाम् ॥ ८३ ॥

विश्वास-प्रस्तुतिः

ज्ञातं हि भवता सर्वं स्वेन योगेन शङ्कर ।
इच्छाम्यात्मसमं पुत्रं त्वद्भक्तं देहि शङ्कर ॥ ८४ ॥

मूलम्

ज्ञातं हि भवता सर्वं स्वेन योगेन शङ्कर ।
इच्छाम्यात्मसमं पुत्रं त्वद्भक्तं देहि शङ्कर ॥ ८४ ॥

विश्वास-प्रस्तुतिः

तथास्त्वित्याह विश्वात्मा प्रहृष्टमनसा हरः ।
देवीमालोक्य गिरिजां केशवं परिषस्वजे ॥ ८५ ॥

मूलम्

तथास्त्वित्याह विश्वात्मा प्रहृष्टमनसा हरः ।
देवीमालोक्य गिरिजां केशवं परिषस्वजे ॥ ८५ ॥

विश्वास-प्रस्तुतिः

ततः सा जगतां माता शङ्करार्धशरीरिणी ।
व्याजहार हृषीकेशं देवी हिमगिरीन्द्रजा ॥ ८६ ॥

मूलम्

ततः सा जगतां माता शङ्करार्धशरीरिणी ।
व्याजहार हृषीकेशं देवी हिमगिरीन्द्रजा ॥ ८६ ॥

विश्वास-प्रस्तुतिः

वत्स जाने तवानन्तां निश्चलां सर्वदाच्युत ।
अनन्यामीश्वरे भक्तिमात्मन्यपि च केशव ॥ ८७ ॥

मूलम्

वत्स जाने तवानन्तां निश्चलां सर्वदाच्युत ।
अनन्यामीश्वरे भक्तिमात्मन्यपि च केशव ॥ ८७ ॥

विश्वास-प्रस्तुतिः

त्वं हि नारायणः साक्षात् सर्वात्मा पुरुषोत्तमः ।
प्रार्थितो दैवतैः पूर्वं सञ्जातो दैवकीसुतः ॥ ८८ ॥

मूलम्

त्वं हि नारायणः साक्षात् सर्वात्मा पुरुषोत्तमः ।
प्रार्थितो दैवतैः पूर्वं सञ्जातो दैवकीसुतः ॥ ८८ ॥

विश्वास-प्रस्तुतिः

पश्य त्वमात्मनात्मानमात्मीयममलं पदम् ।
नावयोर्विद्यते भेद एवं पश्यन्ति सूरयः ॥ ८९ ॥

मूलम्

पश्य त्वमात्मनात्मानमात्मीयममलं पदम् ।
नावयोर्विद्यते भेद एवं पश्यन्ति सूरयः ॥ ८९ ॥

इमानिमान् वरानिष्टान् मत्तो गृह्णीष्व केशव ।
विश्वास-प्रस्तुतिः

सर्वज्ञत्वं तथैश्वर्यं ज्ञानं तत् पारमेश्वरम् ।
ईश्वरे निश्चलां भक्तिमात्मन्यपि परं बलम् ॥ ९० ॥

मूलम्

सर्वज्ञत्वं तथैश्वर्यं ज्ञानं तत् पारमेश्वरम् ।
ईश्वरे निश्चलां भक्तिमात्मन्यपि परं बलम् ॥ ९० ॥

विश्वास-प्रस्तुतिः

एवमुक्तस्तया कृष्णो महादेव्या जनार्दनः ।
आशिषं शिरसाहृङ्णाद् देवो ऽप्याह महेश्वरः ॥ ९१ ॥

मूलम्

एवमुक्तस्तया कृष्णो महादेव्या जनार्दनः ।
आशिषं शिरसाहृङ्णाद् देवो ऽप्याह महेश्वरः ॥ ९१ ॥

प्रगृह्य कृष्णं भगवानथेशः करेण देव्या सह देवदेवः । सम्पूज्यमानो मुनिभिः सुरेशै- र् जगाम कैलासगिरिं गिरीशः ॥ ९२ ॥

इति श्रीकूर्मपूराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चतुर्विशो ऽध्यायः