२३

सूत उवाच

विश्वास-प्रस्तुतिः

क्रोष्टोरेको ऽभवत् पुत्रो वृजिनीवानिति श्रुतिः ।
तस्य पुत्रो महान् स्वातिरुशद्गुस्तत्सुतो ऽभवत् ॥ १ ॥

मूलम्

उशद्गोरभवत् पुत्रो नाम्ना चित्ररथो बली ।
अथ चैत्ररथिर्लोके शशबिन्दुरिति स्मृतः ॥ २ ॥

तस्य पुत्रः पृथुयशा राजाभूद् धर्मतत्परः ।
पृथुकर्मा च तत्पुत्रस्तस्मात् पृथुजयो ऽभवत् ॥ ३ ॥

पृथुकीर्तिरभूत् तस्मात् पृथुदानस्ततो ऽभवत् ।
पृथुश्रवास्तस्य पुत्रस्तस्यासीत् पृथुसत्तमः ॥ ४ ॥

उशना तस्य पुत्रो ऽबूत् सितेषुस्तत्सुतो ऽभवत् ।
तस्याभूद् रुक्मकवचः परावृत् तस्य सत्तमाः ॥ ५ ॥

परावृतः सुतो जज्ञे ज्यामघो लोकविश्रुतः ।
तस्माद् विदर्भः सञ्जज्ञे विदर्भात् क्रथकैशिकौ ॥ ६ ॥

रोमपादस्तृतीयस्तु बभ्रुस्तस्यात्मजो नृपः ।
धृतिस्तस्याभवत् पुत्रः संस्तस्तस्याप्यभूत् सुतः ॥ ७ ॥

संस्तस्य पुत्रो बलवान् नाम्ना विश्वसहस्तु सः ।
विश्वास-प्रस्तुतिः

तस्य पुत्रो महावीर्यः प्रजावान् कौशिकस्ततः ।
अभूत् तस्य सुतो धीमान् सुमन्तुस्तत्सुतो ऽनलः ॥ ८ ॥

कैशिकस्य सुतश्चेदिश्चैद्यास्तस्याभवन् सुताः ।
तेषां प्रधानो ज्योतिष्मान् वपुष्मांस्तत्सुतो ऽभवत् ॥ ९ ॥

वपुष्मतो बृहन्मेधा श्रीदेवस्तत्सुतो ऽभवत् ।
तस्य वीतरथो विप्रा रुद्रभक्तो महाबलः ॥ १० ॥

क्रथस्याप्यभवत् कुन्ती वृष्णी तस्याभवत् सुतः ।
वृष्णेर्निवृत्तिरुत्पन्नो दशार्हस्तस्य तु द्विजाः ॥ ११ ॥

दशार्हपुत्रोप्यारोहो जीमूतस्तत्सुतो ऽभवत् ।
जैमूतिरभवद् वीरो विकृतिः परवीरहा ॥ १२ ॥

तस्य भीमरथः पुत्रः तस्मान्नवरथो ऽभवत् ।
दानधर्मरतो नित्यं सम्यक्शीलपरायणः ॥ १३ ॥

कदाचिन्मृगयां यातो दृष्ट्वा राक्षसमूर्जितम् ।
दुद्राव महातविष्टो भयेन मुनिपुङ्गवाः ॥ १४ ॥

अन्वधावत सङ्क्रुद्धो राक्षसस्तं महाबलः ।
दुर्योधनो ऽग्निसङ्काशः शूलासक्तमहाकरः ॥ १५ ॥

राजा नवरथो भीत्या नातिदूरादनुत्तमम् ।
अपश्यत् परमं स्थानं सरस्वत्या सुगोपितम् ॥ १६ ॥

स तद्वेगेन महता सम्प्राप्य मतिमान् नृपः ।
ववन्दे शिरसा दृष्ट्वा साक्षाद् देवीं सरस्वतीम् ॥ १७ ॥

तुष्टाव वाग्भिरिष्टाभिर्बद्धाञ्जलिरमित्रजित् ।
पपात दण्डवद् भूमौ त्वामहं शरणं गतः ॥ १८ ॥

नमस्यामि महादेवीं साक्षाद् देवीं सरस्वतीम् ।
वाग्देवतामनाद्यन्तामीश्वरीं ब्रह्मचारिणीम् ॥ १९ ॥

नमस्ये जगतां योनिं योगिनीं परमां कलाम् ।
हिरण्यगर्भमहिषीं त्रिनेत्रां चन्द्रशेखराम् ॥ २० ॥

नमस्ये परमानन्दां चित्कलां ब्रह्मरूपिणीम् ।
पाहि मां परमेशानि भीतं शरणमागतम् ॥ २१ ॥

एतस्मिन्नन्तरे क्रुद्धो राजानं राक्षसेश्वरः ।
हन्तुं समागतः स्थानं यत्र देवी सरस्वती ॥ २२ ॥

समुद्यम्य तदा शूलं प्रवेष्टुं बलदर्पितः ।
त्रिलोकमातुस्तत्स्थानं शशाङ्कादित्यसन्न्निभम् ॥ २३ ॥

तदन्तरे महद् भूतं युगान्तादित्यसन्निभम् ।
शूलेनोरसि निर्भिद्य पातयामास तं भुवि ॥ २४ ॥

गच्छेत्याह महाराज न स्थातव्यं त्वया पुनः ।
इदानीं निर्भयस्तूर्णं स्थाने ऽस्मिन् राक्षसो हतः ॥ २५ ॥

ततः प्रणम्य हृष्टात्मा राजा नवरथः पराम् ।
पुरीं जगाम विप्रेन्द्राः पुरन्दरपुरोपमाम् ॥ २६ ॥

स्थापयामास देवेशीं तत्र भक्तिसमन्वितः ।
ईजे च विविधैर्यज्ञैर्हेमैर्देवीं सरस्वतीम् ॥ २७ ॥

तस्य चासीद् दशरथः पुत्रः परमधार्मिकः ।
देव्या भक्तो महातेजाः शकुनिस्तस्य चात्मजः ॥ २८ ॥

तस्मात् करम्भः सम्भूतो देवरातो ऽभवत् ततः ।
ईजे स चाश्वमेधेन देवक्षत्रश्च तत्सुतः ॥ २९ ॥

मधुस्तस्य तु दायादस्तस्मात् कुरुवशो ऽभवत् ।
पुत्रद्वयमभूत् तस्य सुत्रामा चानुरेव च ॥ ३० ॥

अनोस्तु पुरुकुत्सो ऽभूदंशुस्तस्य च रिक्थभाक् ।
विश्वास-प्रस्तुतिः

अथांशोः सत्त्वतो नाम विष्णुभक्तः प्रतापवान् ।
महात्मा दाननिरतो धनुर्वेदविदां वरः ॥ ३१ ॥

स नारदस्य वचनाद् वासुदेवार्चनान्वितम् ।
शास्त्रं प्रवर्तयामास कुण्डगोलादिभिः श्रुतम् ॥ ३२ ॥

तस्य नाम्ना तु विख्यातं सात्त्वतं नाम शोभनम् ।
प्रवर्तते महाशास्त्रं कुण्डादीनां हितावहम् ॥ ३३ ॥

सात्त्वतस्तस्य पुत्रो ऽभूत् सर्वशास्त्रविशारदः ।
पुण्यश्लोको महाराजस्तेन वै तत्प्रवर्तितम् ॥ ३४ ॥

सात्त्वतः सत्त्वसम्पन्नः कौशल्यां सुषुवे सुतान् ।
विश्वास-प्रस्तुतिः

अन्धकं वै महाभोजं वृष्णिं देवावृधं नृपम् ।
ज्येष्ठं च भजमानाख्यं धनुर्वेदविदां वरम् ॥ ३५ ॥

तेषां देवावृधो राजा चचार परमं तपः ।
पुत्रः सर्वगुणोपेतो मम भूयादिति प्रभुः ॥ ३६ ॥

तस्य बभ्रुरिति ख्यातः पुण्यश्लोको ऽभवन्नृपः ।
धार्मिको रूपसम्पन्नस्तत्त्वज्ञानरतः सदा ॥ ३७ ॥

भजमानस्य सृञ्जय्यां भजमाना विजज्ञिरे ।
तेषां प्रधानौ विख्यातौ निमिः कृकण एव च ॥ ३८ ॥

महाभोजकुले जाता भोजा वैमार्तिकास्तथा ।
वृष्णेः सुमित्रो बलवाननमित्रः शिनस्तथा ॥ ३९ ॥

अनमित्रादभून्निघ्नो निघ्नस्य द्वौ बभूवतुः ।
प्रसेनस्तु महाभागः सत्राजिन्नाम चोत्तमः ॥ ४० ॥

अनमित्राच्छिनिर्जज्ञे कनिष्ठाद् वृष्णिनन्दनात् ।
सत्यवान् सत्यसम्पन्नः सत्यकस्तत्सुतो ऽभवत् ॥ ४१ ॥

सात्यकिर्युयुधानस्तु तस्यासङ्गो ऽभवत् सुतः ।
कुणिस्तस्य सुतो धीमांस्तस्य पुत्रो युगन्धरः ॥ ४२ ॥

माद्रया वृष्णेः सुतो जज्ञे पृश्निर्वै यदुनन्दनः ।
जज्ञाते तनयौ पृश्नेः श्वफल्कश्चित्रकश्च ह ॥ ४३ ॥

श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत ।
विश्वास-प्रस्तुतिः

तस्यामजनयत् पुत्रमक्रूरं नाम धार्मिकम् ।
उपमङ्गुस्तथा मङ्गुरन्ये च बहवः सुताः ॥ ४४ ॥

अक्रूरस्य स्मृतः पुत्रो देववानिति विश्रुतः ।
उपदेवश्च पुण्यात्मा तयोर्विश्वप्रमाथिनौ ॥ ४५ ॥

चित्रकस्याभवत् पुत्रः पृथुर्विपृथुरेव च ।
अश्वग्रीवः सुबाहुश्च सुपार्श्वकगवेषणौ ॥ ४६ ॥

अन्धकात् काश्यदुहिता लेभे च चतुरः सुतान् ।
कुकुरं भजमानं च शुचिं कम्बलबर्हिषम् ॥ ४७ ॥

कुकुरस्य सुतो वृष्णिर्वृष्णेस्तु तनयो ऽभवत् ।
कपोतरोमा विपुलस्तस्य पुत्रो विलोमकः ॥ ४८ ॥

तस्यासीत् तुम्बुरुसखा विद्वान् पुत्रो नलः किल ।
ख्यायते तस्य नामानुरनोरानकदुन्दुभिः ॥ ४९ ॥

स गोवर्धनमासाद्य तताप विपुलं तपः ।
वरं तस्मै ददौ देवो ब्रह्मा लोकमहेश्वरः ॥ ५० ॥

वंशस्य चाक्षयां कीर्ति गानयोगमनुत्तमम् ।
गुरोरभ्यधिकं विप्राः कामरूपित्वमेव च ॥ ५१ ॥

स लब्ध्वा वरमव्यग्रो वरेण्यं वृषवाहनम् ।
पूजयामास गानेन स्थाणुं त्रिदशपूजितम् ॥ ५२ ॥

तस्य गानरतस्याथ भगवानम्बिकापतिः ।
कन्यारत्नं ददौ देवो दुर्लभं त्रिदशैरपि ॥ ५३ ॥

तया स सङ्गतो राजा गानयोगमनुत्तमम् ।
अशिक्षयदमित्रघ्नः प्रियां तां भ्रान्तलोचनाम् ॥ ५४ ॥

तस्यामुत्पादयामास सुभुजं नाम शोभनम् ।
रूपलावण्यसम्पन्नां ह्रीमतीमपि कन्यकाम् ॥ ५५ ॥

ततस्तं जननी पुत्रं बाल्ये वयसि शोभनम् ।
शिक्षयामास विधिवद् गानविद्यां च कन्यकाम् ॥ ५६ ॥

कृतोपनयनो वेदानधीत्य विधिवद् गुरोः ।
उद्ववाहात्मजां कन्यां गन्धर्वाणां तु मानसीम् ॥ ५७ ॥

तस्यामुत्पादयामास पञ्च पुत्राननुत्तमान् ।
वीणावादनतत्त्वज्ञान् गानशास्त्रविशारदान् ॥ ५८ ॥

पुत्रैः पौत्रैः सपत्नीको राजा गानविशारदः ।
पूजयामास गानेन देवं त्रिपुरनाशनम् ॥ ५९ ॥

ह्रीमती चापि या कन्या श्रीरिवायतलोचना ।
सुबाहुर्नाम गन्धर्वस्तामादाय ययौ पुरीम् ॥ ६० ॥

तस्यामप्यभवन् पुत्रा गन्धर्वस्य सुतेजसः ।
सुषेणवीरसुग्रीवसुभोजनरवाहनाः ॥ ६१ ॥

अथासीदभिजित् पुत्रो वीरस्त्वानकदुन्दुभेः ।
पुनर्वसुश्चाभिजितः सम्बभूवाहुकः सुतः ॥ ६२ ॥

आहुकस्योग्रसेनश्च देवकश्च द्विजोत्तमाः ।
देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः ॥ ६३ ॥

देववानुपदेवश्च सुदेवो देवरक्षितः ।
तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ ॥ ६४ ॥

वृकदेवोपदेवा च तथान्या देवरक्षिता ।
विश्वास-प्रस्तुतिः

श्रीदेवा शान्तिदेवा च सहदेवा सहदेवा च सुव्रता ।
देवकी चापि तासां तु वरिष्ठाभूत् सुमध्यमा ॥ ६५ ॥

अग्रसेनस्य पुत्रो ऽभून्न्यग्रोधः कम्स एव च ।
सुभूमी राष्ट्रपालश्च तुष्टिमाञ्छङ्कुरेव च ॥ ६६ ॥

भजमानादबूत् पुत्रः प्रख्यातो ऽसौ विदूरथः ।
तस्य शूरः शमिस्तस्मात् प्रतिक्षत्रस्ततो ऽभवत् ॥ ६७ ॥

स्वयम्भोजस्ततस्तस्माद् हृदिकः शत्रुतापनः ।
विश्वास-प्रस्तुतिः

कृतवर्माथ तत्पुत्रो देवरस्तत्सुतः स्मृतः ।
स शूरस्तत्सुतो धीमान् वसुदेवो ऽथ तत्सुतः ॥ ६८ ॥

वसुदेवावन्महाबाहुर्वासुदेवो जगद्गुरुः ।
बभूव देवकीपुत्रो देवैरभ्यर्थितो हरिः ॥ ६९ ॥

रोहिणी च महाभागा वसुदेवस्य शोभना ।
असूत पत्नी सङ्कर्षं रामं ज्येष्ठं हलायुधम् ॥ ७० ॥

स एव परमात्मासौ वासुदेवो जगन्मयः ।
हलायुधः स्वयं साक्षाच्छेषः सङ्कर्षणः प्रभुः ॥ ७१ ॥

भृगुशापच्छलेनैव मानयन् मानुषीं तनुम् ।
बभूत तस्यां देवक्यां रोहिण्यामपि माधवः ॥ ७२ ॥

उमादेहसमुद्भूता योगनिद्रा च कौशीकी ।
नियोगाद् वासुदेवस्य यशोदातनया ह्यभूत् ॥ ७३ ॥

ये चान्ये वसुदेवस्य वासुदेवाग्रजाः सुताः ।
प्रागेव कंसस्तान् सर्वान् जघान मुनिपुङ्गवाः ॥ ७४ ॥

सुषेणश्च तथोदायी भद्रसेनो महाबलः ।
ऋजुदासो भद्रदासः कीर्तिमानपि पूर्वजः ॥ ७५ ॥

हतेष्वेतेषु सर्वेषु रोहिणी वसुदेवतः ।
असूत रामं लोकेशं बलभद्रं हलायुधम् ॥ ७६ ॥

जाते ऽथ रामे देवानामादिमात्मानमच्युतम् ।
असूत देवकी कृष्णं श्रीवत्साङ्कितवक्षसम् ॥ ७७ ॥

रेवती नाम रामस्य भार्यासीत् सुगुणान्विता ।
तस्यामुत्पादयामास पुत्रौ द्वौ निशठोल्मुकौ ॥ ७८ ॥

षोडशस्त्रीसहस्राणि कृष्णस्याक्लिष्टकर्मणः ।
बभूवुरात्मजास्तासु शतशो ऽथ सहस्रशः ॥ ७९ ॥

चारुदेष्णः सुचारुश्च चारुवेषो यशोधरः ।
चारुश्रवाश्चारुयशाः प्रद्युम्नः शङ्ख एव च ॥ ८० ॥

रुक्मिण्य वासुदेवस्यां महाबलपराक्रमाः ।
विशिष्टाः सर्वपुत्राणां सम्बभूवुरिम् सुताः ॥ ८१ ॥

तान् दृष्ट्वा तनयान् वीरान् रौक्मिणेयाञ्जनार्दनम् ।
जाम्बवत्यब्रवीत् कृष्णं भार्या तस्य शुचिस्मिता ॥ ८२ ॥

मम त्वं पुण्डरीकाक्ष विशिष्टं गुणवत्तमम् ।
सुरेशसदृशं पुत्रं देहि दानवसूदन ॥ ८३ ॥

जात्बवत्या वचः श्रुत्वा जगन्नाथः स्वयं हरिः ।
समारेभे तपः कर्तुं तपोनिधिररिन्दमः ॥ ८४ ॥

तच्छृणुध्वं मुनिश्रेष्ठा यथासौ देवकीसुतः ।
दृष्ट्वा लेभे सुतं रुद्रं तप्त्वा तीव्रं महत् तपः ॥ ८५ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे त्रयोविंशो ऽध्यायः