सूत उवाच
विश्वास-प्रस्तुतिः
जयध्वजस्य पुत्रो ऽभूत् तालाजङ्घ इति स्मृतः ।
शतपुत्रास्तु तस्यासन् तालजङ्घाः प्रकीर्तिताः ॥ १ ॥
मूलम्

तेषां ज्येष्ठो महावीर्यो वीतिहोत्रो ऽभवन्नृपः ।
वृषप्रभृतयश्चान्ये यादवाः पुण्यकर्मिणः ॥ २ ॥

वृषो वंशकरस्तेषां तस्य पुत्रो ऽभवन्मधुः ।
मधोः पुत्रशतं त्वासीद् वृषणस्तस्य वंशभाक् ॥ ३ ॥

वीतिहोत्रसुतश्चापि विश्रुतो ऽनन्त इत्युत ।
दुर्जयस्तस्य पुत्रो ऽबूत् सर्वशास्त्रविशारदः ॥ ४ ॥

तस्य भार्या रूपवती गुणैः सर्वैरलङ्कृता ।
पतिव्रतासीत् पतिना स्वधर्मपरिपालिका ॥ ५ ॥

स कदाचिन्महाभागः कालिन्दीतीरसंस्थिताम् ।
अपश्यदुर्वशीं देवीं गायन्तीं मधुरस्वनाम् ॥ ६ ॥

ततः कामाहतमनास्तत्समीपमुपेत्य वै ।
प्रोवाच सुचिरं कालं देवि रन्तुं मयार्ऽहसि ॥ ७ ॥

सा देवी नृपतिं दृष्ट्वा रूपलावण्यसंयुतम् ।
रेमे तेन चिरं कालं कामदेवमिवापरम् ॥ ८ ॥

कालात् प्रबुद्धो राजा तामुर्वशीं प्राह शोभनाम् ।
गमिष्यामि पुरीं रम्यां हसन्ती साब्रवीद् वचः ॥ ९ ॥

न ह्यनेनोपभोगेन भवता राजसुन्दर ।
प्रीतिः सञ्जायते मह्यं स्थातव्यं वत्सरं पुनः ॥ १० ॥

तामब्रवीत् स मतिमान् गत्वा शीघ्रतरं पुरीम् ।
आगमिष्यामि भूयो ऽत्र तन्मे ऽनुज्ञातुमर्हसि ॥ ११ ॥

तमब्रवीत् सा सुभगा तथा कुरु विशाम्पते ।
नान्ययाप्सरसा तावद् रन्तव्यं भवत् पुनः ॥ १२ ॥

ओमित्युक्त्वा ययौ तूर्णं पुरीं परमशोभनाम् ।
गत्वा पतिव्रतां पत्नीं दृष्ट्वा बीतो ऽभवन्नृपः ॥ १३ ॥

सम्प्रेक्ष्य सा गुणवती भार्या तस्य पतिव्रता ।
भीतं प्रसन्नया प्राह वाचा पीनपयोधरा ॥ १४ ॥

स्वामिन् किमत्र भवतो भीतिरद्य प्रवर्तते ।
तद् ब्रूहि मे यथा तत्त्वं न राज्ञां कीर्तये त्विदम् ॥ १५ ॥

स तस्या वाक्यमाकर्ण्य लज्जावनतचेतनः ।
नोवाच किञ्चिन्नृपतिर्ज्ञानदृष्ट्या विवेद सा ॥ १६ ॥

न भेतव्यं त्वया स्वामिन् कार्यं पापविशोधनम् ।
भीते त्वयि महाराज राष्ट्रं ते नाशमेष्यति ॥ १७ ॥

तदा स राजा द्युतिमान् निर्गत्य तु पुरात् ततः ।
गत्वा कण्वाश्रमं पुण्यं दृष्ट्वा तत्र महामुनिम् ॥ १८ ॥

निशम्य कण्ववदनात् प्रायश्चित्तविधिं शुभम् ।
जगाम हिमवत्पृष्ठं समुद्दिश्य महाबलः ॥ १९ ॥

सो ऽपश्यत् पथि राजेन्द्रो गन्धर्ववरमुत्तमम् ।
भ्राजमानं श्रिया व्योम्नि भूषितं दिव्यमालया ॥ २० ॥

वीक्ष्य मालाममित्रघ्नः सस्माराप्सरसां वराम् ।
उर्वशीं तां मनश्चक्रे तस्या एवेयमर्हति ॥ २१ ॥

सो ऽतीव कामुको राजा गन्धर्वेणाथ तेन हि ।
चकार सुमहद् युद्धं मालामादातुमुद्यतः ॥ २२ ॥

विजित्य समरे मालां गृहीत्वा दुर्जयो द्विजाः ।
जगाम तामप्सरसं कालिन्दीं द्रष्टुमादरात् ॥ २३ ॥

अदृष्ट्वाप्सरसं तत्र कामबाणाभिपीडितः ।
बभ्राम सकलां पृथ्वीं सप्तद्वीपसमन्विताम् ॥ २४ ॥

आक्रम्य हिमवत्पार्श्वमुर्वशीदर्शनोत्सुकः ।
जगाम शैलप्रवरं हेमकूटमिति श्रुतम् ॥ २५ ॥

तत्र तत्राप्सरोवर्या दृष्ट्वा तं सिंहविक्रमम् ।
कामं सन्दधिरे घोरं भूषितं चित्रमालया ॥ २६ ॥

संस्मरन्नुर्वशीवाक्यं तस्यां संसक्तमानसः ।
न पश्यति स्मताः सर्वागिरिशृङ्गाणिजग्मिवान् ॥ २७ ॥

तत्राप्यप्सरसं दिव्यामदृष्ट्वा कामपीडितः ।
देवलोकं महामेरुं ययौ देवपराक्रमः ॥ २८ ॥

स तत्र मानसं नाम सरस्त्रैलोक्यविश्रुतम् ।
भेजे शृङ्गाण्यतिक्रम्य स्वबाहुबलभावितः ॥ २९ ॥

स तस्य तीरे सुभगां चरन्तीमतिलालसाम् ।
दृष्टवाननवद्याङ्गीं तस्यै मालां ददौ पुनः ॥ ३० ॥

स मालया तदा देवीं भूषितां प्रेक्ष्य मोहितः ।
रेमे कृतार्थमात्मानं जानानः सुचिरं तया ॥ ३१ ॥

अथोर्वशी राजवर्यं रतान्ते वाक्यमब्रवीत् ।
किं कृतं भवता पूर्वं पुरीं गत्वा वृथा नृप ॥ ३२ ॥

स तस्यै सर्वमाचष्ट पत्न्या यत् समुदीरितम् ।
कण्वस्य दर्शनं चैव मालापहरणं तथा ॥ ३३ ॥

श्रुत्वैतद् व्याहृतं तेन गच्छेत्याह हितैषिणी ।
शापं दास्यति ते कण्वो ममापि भवतः प्रिया ॥ ३४ ॥

तयासकृन्महाराजः प्रोक्तो ऽपि मदमोहितः ।
न तत्यजाथ तत्पार्श्वं तत्र सन्न्यस्तमानसः ॥ ३५ ॥

ततोर्वशी कामरूपा राज्ञे स्वं रूपमुत्कटम् ।
सुरोमशं पिङ्गलाक्षं दर्शयामास सर्वदा ॥ ३६ ॥

तस्यां विरक्तचेतस्कः स्मृत्वा कण्वाभिभाषितम् ।
धिङ्मामिति विनिश्चित्यतपः कर्तुं समारभत् ॥ ३७ ॥

संवत्सरद्वादशकं कन्दमूलफलाशनः ।
भूय एव द्वादशकं वायुभक्षो ऽभवन्नृपः ॥ ३८ ॥

गत्वा कण्वाश्रमं भीत्या तस्मै सर्वं न्यवेदयत् ।
वासमप्सरसा भूयस्तपोयोगमनुत्तमम् ॥ ३९ ॥

वीक्ष्य तं राजशार्दूलं प्रसन्नो भगवानृषिः ।
कर्तुकामो हि निर्बोजं तस्याघमिदमब्रवीत् ॥ ४० ॥

गच्छ वाराणसीं दिव्यामीश्वराध्युषितां पुरीम् ।
आस्ते मोचयितुं लोकं तत्र देवो महेश्वरः ॥ ४१ ॥

स्नात्वा सन्तर्प्य विधिवद् गङ्गायान्देवताः पितॄन् ।
दृष्ट्वा विश्वेश्वरं लिङ्गङ्किल्बिषान्मोक्ष्यसे ऽखिलात् ॥ ४२ ॥

प्रणम्य शिरसा कण्वमनुज्ञाप्य च दुर्जयः ।
वाराणस्यां हरं दृष्ट्वा पापान्मुक्तो ऽभवत् ततः ॥ ४३ ॥

जगाम स्वपुरीं शुभ्रां पालयामास मेदिनीम् ।
याजयामास तं कण्वो याचितो घृणया मुनिः ॥ ४४ ॥

तस्य पुत्रो ऽथ मतिमान् सुप्रतीक इति श्रुतः ।
बभूव जातमात्रं तं राजानमुपतस्थिरे ॥ ४५ ॥

उर्वश्यां च महावीर्याः सप्त देवसुतोपमाः ।
कन्या जगृहिरे सर्वा जन्धर्वदयिता द्विजाः ॥ ४६ ॥

एष व कथितः सम्यक् सहस्रजित उत्तमः ।
वंशः पापहरो नृणां क्रोष्टोरपि निबोधत ॥ ४७ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वाविशो ऽध्यायः