२१

रोमहर्षण उवाच

विश्वास-प्रस्तुतिः

ऐलः पुरूरवाश्चाथ राजा राज्यमपालयत् ।
तस्य पुत्रा बभूवुर्हि षडिन्द्रसमतेजसः ॥ १ ॥

मूलम्

आयुर्मायुरमावायुर्विश्वायुश्चैव वीर्यवान् ।
शतायुश्च श्रुतायुश्च दिव्याश्चैवोर्वशीसुताः ॥ २ ॥

आयुषस्तनया वीराः पञ्चैवासन् महौजसः ।
स्वर्भानुतनयायां वै प्रभायामिति नः श्रुतम् ॥ ३ ॥

नहुषः प्रथमस्तेषां धर्मज्ञो लोकविश्रुतः ।
नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः ॥ ४ ॥

उत्पन्नाः पितृकन्यायां विरजायां महाबलाः ।
यतिर्ययातिः संयातिरायातिः पञ्चको ऽश्वकः ॥ ५ ॥

तेषां ययातिः पञ्चानां महाबलपराक्रमः ।
विश्वास-प्रस्तुतिः

देवयानीमुखनसः सुतां भार्यामवाप सः ।
शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः ॥ ६ ॥

यदुं च तुर्वसुं चैव देवयानी व्यजायत ।
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा चाप्यजीजनत् ॥ ७ ॥

सो ऽभ्यषिञ्चदतिक्रम्य ज्येष्ठं यदुमनिन्दितम् ।
पुरुमेव कनीयासं पितुर्वचनपालकम् ॥ ८ ॥

दिशि दक्षिणपूर्वस्यां तुर्वसुं पुत्रमादिशत् ।
विश्वास-प्रस्तुतिः

दक्षिणापरयो राजा यदुं ज्येष्ठं न्ययोजयत् ।
प्रतीच्यामुत्तारायां च द्रुह्युं चानुमकल्पयत् ॥ ९ ॥

तैरियं पृथिवी सर्वा धर्मतः परिपालिता ।
राजापि दारसहितो नवं प्राप महायशाः ॥ १० ॥

यदोरप्यभवन् पुत्राः पञ्च देवसुतोपमाः ।
सहस्रजित् तथाज्येष्ठः क्रोषटुर्नालो ऽजितोरघुः ॥ ११ ॥

सहस्रजित्सुतस्तद्वच्छतजिन्नाम पार्थिवः ।
सुताः शतजितो ऽप्यासंस्त्रयः परमधार्मिकाः ॥ १२ ॥

हैहयश्च हयश्चैव राजा वेणुहयः परः ।
हैहयस्याभवत् पुत्रो धर्म इत्यभिविश्रुतः ॥ १३ ॥

तस्य पुत्रो ऽभवद् विप्रा धर्मनेत्रः प्रतापवान् ।
धर्मनेत्रस्य कीर्तिस्तु सञ्जितस्तत्सुतो ऽभवत् ॥ १४ ॥

महिष्मान् सञ्जितस्याभूद् भद्रश्रेण्यस्तदन्वयः ।
भद्रश्रेण्यस्य दायादो दुर्दमो नाम पार्थिवः ॥ १५ ॥

दुर्दमस्य सुतो धीमान् धनको नाम वीर्यवान् ।
धनकस्य तु दायादाश्चत्वारो लोकसम्मताः ॥ १६ ॥

कृतवीर्यः कृताग्निश्च कृतवर्मा तथैव च ।
कृतौजाश्च चतुर्थो ऽभूत् कार्तवीर्योर्ऽजुनो ऽभवत् ॥ १७ ॥

सहस्रबाहुर्द्युतिमान् धनुर्वेदविदां वरः ।
तस्य रामो ऽभवन्मृत्युर्जामदग्न्यो जनार्दनः ॥ १८ ॥

तस्य पुत्रशतान्यासन् पञ्च तत्र महारथाः ।
कृतास्त्रा बलिनः शूरा धर्मात्मानो नमस्विनः ॥ १९ ॥

शूरश्च शूरसेनश्च धृष्णः कृष्णस्तथैव च ।
जयध्वजश्च बलवान् नारायणपरो नृपः ॥ २० ॥

मूलम्

शूरश्च शूरसेनश्च धृष्णः कृष्णस्तथैव च ।
जयध्वजश्च बलवान् नारायणपरो नृपः ॥ २० ॥

विश्वास-प्रस्तुतिः

शूरसेनादयः सर्वे चत्वारः प्रथितौजसः ।
रुद्रभक्ता महात्मानः पूजयन्ति स्म शङ्करम् ॥ २१ ॥

जयध्वजस्तु मतिमान् देवं नारायणं हरिम् ।
जगाम शरणं विष्णुं दैवतं धर्मतत्परः ॥ २२ ॥

तमूचुरितरे पुत्रा नायं धर्मस्तवानघ ।
ईश्वराराधनरतः पितास्माकमभूदिति ॥ २३ ॥

मूलम्

तमूचुरितरे पुत्रा नायं धर्मस्तवानघ ।
ईश्वराराधनरतः पितास्माकमभूदिति ॥ २३ ॥

विश्वास-प्रस्तुतिः

तानब्रवीन्महातेजा एष धर्मः परो मम ।
विष्णोरंशेन सम्भूता राजानो यन्महीतले ॥ २४ ॥

राज्यं पालयतावश्यं भगवान् पुरुषोत्तमः ।
पूजनीयो यतो विष्णुः पालको जगतो हरिः ॥ २५ ॥

सात्त्विकी राजसी चैव तामसी च स्वयम्भुवः ।
तिस्त्रस्तु मूर्तयः प्रोक्ताः सृष्टिस्थित्यन्तहेतवः ॥ २६ ॥

सत्त्वात्मा भगवान् विष्णुः संस्थापयति सर्वदा ।
सृजेद् ब्रह्मा रजोमूर्तिः संहरेत् तामसो हरः ॥ २७ ॥

तस्मान्महीपतीनां तु राज्यं पालयतामयम् ।
आराध्यो भगवान् विष्णुः केशवः केशिमर्दनः ॥ २८ ॥

निशम्य तस्य वचनं भ्रातरो ऽन्ये मनस्विनः ।
प्रोचुः संहारकृद् रुद्रः पूजनीयो मुमुक्षुभिः ॥ २९ ॥

अयं हि भगवान् रुद्रः सर्वं जगदिदं शिवः ।
तमोगुणं समाश्रित्य कल्पान्ते संहरेत् प्रभुः ॥ ३० ॥

या सा घोरतरा मूर्तिरस्य तेजामयी परा ।
संहरेद् विद्यया सर्वं संसारं शूलभृत् तया ॥ ३१ ॥

ततस्तानब्रवीद् राजा विचिन्त्यासौ जयध्वजः ।
सत्त्वेन मुच्यते जन्तुः सत्त्वात्मा भगवान् हरिः ॥ ३२ ॥

तमूचुर्भ्रातरो रुद्रः सेवितः सात्त्विकैर्जनैः ।
मोचयेत् सत्त्वसंयुक्तः पूजयेशं ततो हरम् ॥ ३३ ॥

अथाब्रवीद् राजपुत्रः प्रहसन् वै जयध्वजः ।
स्वधर्मो मुक्तये पन्था नान्यो मुनिभिरष्यते ॥ ३४ ॥

तथा च वैष्णवी शक्तिर्नृपाणां देवता सदा ।
आराधनं परो धर्मो पुरारेरमितौजसः ॥ ३५ ॥

तमब्रवीद् राजपुत्रः कृष्णो मतिमतां वरः ।
यदर्जुनो ऽस्मज्जनकः स्वधर्मं कृतवानिति ॥ ३६ ॥

एवं विवादे वितते शूरसेनो ऽब्रवीद् वचः ।
प्रमाणमृषयो ह्यत्र ब्रूयुस्ते यत् तथैव तत् ॥ ३७ ॥

ततस्ते राजशार्दूलाः पप्रच्छुर्ब्रह्मवादिनः ।
गत्वा सर्वे सुसंरब्धाः सप्तर्षोणां तदाश्रमम् ॥ ३८ ॥

तानब्रुवंस्ते मुनयो वसिष्ठाद्या यथार्थतः ।
या यस्याभिमता पुंसः सा हि तस्यैव देवता ॥ ३९ ॥

किन्तु कार्यविशेषेण पूजिताश्चेष्टदा नृणाम् ।
विशेषात् सर्वदा नायं नियमो ह्यन्यथा नृपाः ॥ ४० ॥

नृपाणां दैवतं विष्णुस्तथैव च पुरन्दरः ।
विप्राणामग्निरादित्यो ब्रह्मा चैव पिनाकधृक् ॥ ४१ ॥

देवानां दैवतं विष्णुर्दानवानां त्रिशूलभृत् ।
गन्धर्वाणां तथा सोमो यक्षाणामपि कथ्यते ॥ ४२ ॥

विद्याधराणां वाग्देवी साध्यानां भगवान्रविः ।
रक्षसां शङ्करो रुद्रः किन्नराणां च पार्वती ॥ ४३ ॥

ऋषीणां दैवतं ब्रह्मा महादेवश्च शूलभृत् ।
मनूनां स्यादुमा देवी तथा विष्णुः सभास्करः ॥ ४४ ॥

गृहस्थानां च सर्वे स्युर्ब्रह्मा वै ब्रह्मचारिणाम् ।
वैखानसानामर्कः स्याद् यतीनां च महेश्वरः ॥ ४५ ॥

भूतानां भगवान् रुद्रः कूष्माण्डानां विनायकः ।
सर्वेषां भगवान् ब्रह्मा देवदेवः प्रजापतिः ॥ ४६ ॥

इत्येवं भगवान् ब्रह्मा स्वयं देवो ऽभ्यभाषत ।
तस्माज्जयध्वजो नूनं विष्ण्वाराधनमर्हति ॥ ४७ ॥

तान् प्रणम्याथ ते जग्मुः पुरीं परमशोभनाम् ।
पालयाञ्चक्रिरे पृथ्वीं जित्वा सर्वरिपून् रणे ॥ ४८ ॥

ततः कदाचिद् विप्रेन्द्रा विदेहो नाम दानवः ।
भीषणः सर्वसत्त्वानां पुरीं तेषां समाययौ ॥ ४९ ॥

दंष्ट्राकरालो दीप्तात्मा युगान्तदहनोपमः ।
शूलमादाय सूर्याभं नादयन् वै दिशो दश ॥ ५० ॥

तन्नादश्रवणान्मर्त्यास्तत्र ये निवसन्ति ते ।
तत्यजुर्जोवितं त्वन्ये दुद्रुवुर्भयविह्वलाः ॥ ५१ ॥

ततः सर्वे सुसंयत्ताः कार्तवीर्यात्मजास्तदा ।
युयुधुर्दानवं शक्तिगिरिकूटासिमुद्गरैः ॥ ५२ ॥

तान् सर्वान् दानवो विप्राः शूलेन प्रहसन्निव ।
वारयामास घोरात्मा कल्पान्ते भैरवो यथा ॥ ५३ ॥

शूरसेनादयः पञ्च राजानस्तु महाबलाः ।
युद्धाय कृतसंरम्भा विदेहं त्वभिदुद्रुवुः ॥ ५४ ॥

शूरो ऽस्त्रं प्राहिणोद् रौद्रं शूरसेनस्तु वारुणम् ।
प्राजापत्यं तथा कृष्णो वायव्यं धृष्ण एव च ॥ ५५ ॥

जयध्वजश्च कौबेरमैन्द्रमाग्नेयमेव च ।
भञ्जयामास शूलेन तान्यस्त्राणि स दानवः ॥ ५६ ॥

ततः कृष्णो महावीर्यो गदामादाय भीषणाम् ।
स्पृष्ट्वा मन्त्रेण तरसा चिक्षेप न ननाद च ॥ ५७ ॥

सम्प्राप्य सा गादास्योरो विदेहस्य शिलोपमम् ।
न दानवं चालयितुं शशाकान्तकसन्निभम् ॥ ५८ ॥

दुद्रुवुस्ते भयग्रस्ता दृष्ट्वा तस्यातिपौरुषम् ।
जयध्वजस्तु मतिमान् सस्मार जगतः पतिम् ॥ ५९ ॥

विष्णुं ग्रसिष्णुं लोकादिमप्रमेयमनामयम् ।
त्रातारं पुरुषं पूर्वं श्रीपतिं पीतवाससम् ॥ ६० ॥

ततः प्रादुरभूच्चक्रं सूर्यायुतसमप्रभम् ।
आदेशाद् वासुदेवस्य भक्तानुग्रहकारणात् ॥ ६१ ॥

जग्राह जगतां योनिं स्मृत्वा नारायणं नृपः ।
प्राहिणोद् वै विदेहाय दानवेभ्यो यथा हरिः ॥ ६२ ॥

सम्प्राप्य तस्य घोरस्य स्कन्धदेशं सुदर्शनम् ।
पृथिव्यां पातयामास शिरो ऽद्रिशिखराकृति ॥ ६३ ॥

तस्मिन् हते देवरिपौ शीराद्या भ्रातरो नृपाः ।
समाययुः पुरीं रम्यां भ्रातरं चाप्यपूजयन् ॥ ६४ ॥

श्रुत्वाजगाम भगवान् जयध्वजपराक्रमम् ।
कार्तवीर्यसुतं द्रष्टुं विश्वामित्रो महामुनिः ॥ ६५ ॥

तमागतमथो दृष्ट्वा राजा सम्भ्रान्तमानसः ।
समावेश्यासने रम्ये पूजयामास भावतः ॥ ६६ ॥

उवाच भगवान् घोरः प्रसादाद् भवतो ऽसुरः ।
निपातितो मया सङ्ख्ये विदेहो दानवेश्वरः ॥ ६७ ॥

त्वद्वाक्याच्छिन्नसन्देहो विष्णुं सत्यपराक्रमम् ।
प्रपन्नः शरणं तेन प्रसादो मे कृतः शुभः ॥ ६८ ॥

यक्ष्यामि परमेशानं विष्णुं पद्मदलेक्षणम् ।
कथं केन विधानेन सम्पूज्यो हरिरीश्वरः ॥ ६९ ॥

को ऽयं नारायणो देवः किम्प्रभावश्च सुव्रत ।
सर्वमेतन्ममाचक्ष्व परं कौतूहलं हि मे ॥ ७० ॥

विश्वामित्र उवाच
विश्वास-प्रस्तुतिः

यतः प्रवृत्तिर्भूतानां यस्मिन् सर्वमिदं जगत् ।
स विष्णुः सर्वभूतात्मा तमाश्रित्य विमुच्यते ॥ ७१ ॥

स्ववर्णाश्रमधर्मेण पूज्यो ऽयं पुरुषोत्तमः ।
अकामहतभावेन समाराध्यो न चान्यथा ॥ ७२ ॥

एतावदुक्त्वा भगवान विश्वामित्रो महामुनिः ।
शूराद्यैः पूजितो विप्रा जगामाथ स्वमालयम् ॥ ७३ ॥

अथ शूरादयो देवमयजन्त महेश्वरम् ।
यज्ञेन यज्ञगम्यं तं निष्कामा रुद्रमव्ययम् ॥ ७४ ॥

तान् वसिष्ठस्तु भगवान् याजयामास सर्ववित् ।
गौतमो ऽत्रिरगस्त्यश्च सर्वे रुद्रपरायणाः ॥ ७५ ॥

विश्वामित्रस्तु भगवान् जयध्वजमरिन्दमम् ।
याजयामास भूतादिमादिदेवं जनार्दनम् ॥ ७६ ॥

तस्य यज्ञे महायोगी साक्षाद् देवः स्वयं हरिः ।
आविरासीत् स भगवान् तदद्भुतमिवाभवत् ॥ ७७ ॥

य इमं शृणुयान्नित्यं जयध्वजपराक्रमम् ।
सर्वपापविमुक्तात्मा विष्णुलोकं स गच्छति ॥ ७८ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकविशो ऽध्यायः