२०

सूत उवाच

विश्वास-प्रस्तुतिः

त्रिधन्वा राजपुत्रस्तु धर्मेणापालयन्महीम् ।
तस्य पुत्रो ऽभवद् विद्वांस्त्रय्यारुण इति स्मृतः ॥ १ ॥

मूलम्

तस्य सत्यव्रतो नाम कुमारो ऽभून्महाबलः ।
भार्या सत्यधना नाम हरिश्चन्द्रमजीजनत् ॥ २ ॥

हरिश्चन्द्रस्य पुत्रो ऽभूद् रोहितो नाम वीर्यवान् ।
हरितो रोहितस्याथ धुन्धुस्तस्य सुतो ऽभवत् ॥ ३ ॥

विजयश्च सुदेवश्च धुन्धुपुत्रौ बभूवतुः ।
विजयस्याभवत् पुत्रः कारुको नाम वीर्यवान् ॥ ४ ॥

कारुकस्य वृकः पुत्रस्तस्माद् बाहुरजायत ।
सगरस्तस्य पुत्रौऽभूद् राजा परमधार्मिकः ॥ ५ ॥

द्वे भार्ये सगरस्यापि प्रभा भानुमती तथा ।
ताभ्यामाराधितः प्रादादौर्वाग्निर्वरमुत्तमम् ॥ ६ ॥

एकं भानुमती पुत्रमगृह्णादसमञ्जसम् ।
प्रभा षष्टिसहस्रं तु पुत्राणां जगृहे शुभा ॥ ७ ॥

असमञ्सस्य तनयो ह्यंशुमान् नाम पार्थिवः ।
तस्य पुत्रो दिलीपस्तु दिलीपात् तु भगीरथः ॥ ८ ॥

येन भागीरथी गङ्गा तपः कृत्वावतारिता ।
प्रसादाद् देवदेवस्य महादेवस्य धीमतः ॥ ९ ॥

भगीरथस्य तपसा देवः प्रीतमना हरः ।
बभार शिरसा गङ्गां सोमान्ते सोमभूषणः ॥ १० ॥

भगीरथसुतश्चापि श्रुतो नाम बभूव ह ।
नाभागस्तस्य दायादः सिन्धुद्वीपस्ततो ऽभवत् ॥ ११ ॥

अयुतायुः सुतस्तस्य ऋतुपर्णस्तु तत्सुतः ।
विश्वास-प्रस्तुतिः

ऋतुपर्णस्य पुत्रो ऽभूत् सुदासो नाम धार्मिकाः ।
सौदासस्तस्य तनयः ख्यातः कल्माषपादकः ॥ १२ ॥

वसिष्ठस्तु महातेजाः क्षेत्रे कल्माषपादके ।
अश्मकं जनयामसा तमिक्ष्वाकुकुलध्वजम् ॥ १३ ॥

अश्मकस्योत्कलायां तु नकुलो नाम पार्थिवः ।
स हि रामभयाद् राजा वनं प्राप सुदुः खितः ॥ १४ ॥

विभ्रत् स नारीकवचं तस्माच्छतरथो ऽभवत् ।
तस्माद् बिलिबिलिः श्रीमान्वृद्धशर्माचतत्सुतः ॥ १५ ॥

तस्माद् विश्वसहस्तस्मात् खट्वाङ्ग इति विश्रुतः ।
दीर्घबाहुः सुतस्तस्य रघुस्तस्मादजायत ॥ १६ ॥

रघोरजः समुत्पन्नो राजा दशरथस्ततः ।
रामो दाशरथिर्वोरो धर्मज्ञो लोकविश्रुतः ॥ १७ ॥

भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः ।
विश्वास-प्रस्तुतिः

सर्वे शक्रसमा युद्धे विष्णुशक्तिसमन्विताः ।
जज्ञे रावणनाशार्थं विष्णुरंशेन विश्वकृत् ॥ १८ ॥

रामस्य सुभगा भार्या जनकस्यात्मजा शुभा ।
सीता त्रिलोकविख्याता शीलौदार्यगुणान्विता ॥ १९ ॥

तपसा तोषिता देवी जनकेन गिरीन्द्रजा ।
प्रायच्छज्जानकीं सीतां राममेवाश्रिता पतिम् ॥ २० ॥

प्रीतश्च भगवानीशस्त्रिशूली नीललोहितः ।
प्रददौ शत्रुनाशार्थं जनकायाद्भुतं धनुः ॥ २१ ॥

स राजा जनको विद्वान् दातुकामः सुतामिमाम् ।
अघोषयदमित्रघ्नो लोके ऽस्मिन् द्विजपुङ्गवाः ॥ २२ ॥

इदं धनुः समादातुं यः शक्नोति जगत्त्रये ।
देवो वा दानवो वापि स सीतां लब्धुमर्हति ॥ २३ ॥

विज्ञाय रामो बलवान् जनकस्य गृहं प्रभुः ।
भञ्जयामास चादाय गत्वासौ लीलयैव हि ॥ २४ ॥

उद्ववाह च तां कन्यां पार्वतीमिव शङ्करः ।
रामः परमधर्मात्मा सेनामिव च षण्मुखः ॥ २५ ॥

ततो बहुतिथे काले राजा दशरथः स्वयम् ।
रामं ज्येष्ठं सुतं वीरं राजानं कर्तुमारभत् ॥ २६ ॥

तस्याथ पत्नी सुभगा कैकेयी चारुभाषिणी ।
निवारयामास पतिं प्राह सम्भ्रान्तमानसा ॥ २७ ॥

मत्सुतं भरतं वीरं राजानं कर्तुमर्हसि ।
पूर्वमेव वरो यस्माद् दत्तो मे भवता यतः ॥ २८ ॥

स तस्या वचनं श्रुत्वा राजा दुः खितमानसः ।
बाढमित्यब्रवीद् वाक्यं तथा रामो ऽपि धर्मवित् ॥ २९ ॥

प्रणम्याथ पितुः पादौ लक्ष्मणेन सहाच्युतः ।
ययौ वनं सपत्नीकः कृत्वा समयमात्मवान् ॥ ३० ॥

संवत्सराणां चत्वारि दश चैव महाबलः ।
उवास तत्र मतिमान् लक्ष्मणेन सह प्रभुः ॥ ३१ ॥

कदाचिद् वसतो ऽरण्ये रावणो नाम राक्षसः ।
परिव्राजकवेषेण सीतां हृत्वा ययौ पुरीम् ॥ ३२ ॥

अदृष्ट्वा लक्ष्मणो रामः सीतामाकुलितेन्द्रियौ ।
दुः खशोकाभिसन्तप्तौ बभूवतुररिन्दमौ ॥ ३३ ॥

ततः कदाचित् कपिना सुग्रीवेण द्विजोत्तमाः ।
वानराणामभूत् सख्यं रामस्याक्लिष्टकर्मणः ॥ ३४ ॥

सुग्रीवस्यानुगो वीरो हनुमान् न्म वानरः ।
वायुपुत्रौ महातेजा रामस्यासीत् प्रियः सदा ॥ ३५ ॥

स कृत्वा परमं धैर्यं रामाय कृतनिश्चयः ।
आनयिष्यामि तां सीतामित्युक्त्वा विचचार ह ॥ ३६ ॥

महीं सागरपर्यन्तां सीतादर्शनतत्परः ।
जगाम रावणपुरीं लङ्कां सागरसंस्थिताम् ॥ ३७ ॥

तत्राथ निर्जने देशे वृक्ष्मूले शुचिस्मिताम् ।
अपश्यदमलां सीतां राक्षसीभिः समावृताम् ॥ ३८ ॥

अश्रुपूर्णेक्षणां हृद्यां संस्मरन्तीमनिन्दिताम् ।
राममिन्दीवरश्यामं लक्ष्मणं चात्मसंस्थितम् ॥ ३९ ॥

निवेदयित्वा चात्मानं सीतायै रहसि स्वयम् ।
असंशयाय प्रददावस्यै रामाङ्गुलीयकम् ॥ ४० ॥

दृष्ट्वाङ्गुलीयकं सीता पत्युः परमशोभनम् ।
मेने समागतं रामं प्रीतिविस्फारितेक्षणा ॥ ४१ ॥

समाश्वास्य तदा सीतां दृष्ट्वा रामस्य चान्तिकम् ।
नयिष्ये त्वां महाबाहुरुक्त्वा रामं ययौ पुनः ॥ ४२ ॥

निवेदयित्वा रामाय सीतादर्शनमात्मवान् ।
तस्थौ रामेण पुरतो लक्ष्मणेन च पूजितः ॥ ४३ ॥

ततः स रामो बलवान् सार्धं हनुमता स्वयम् ।
लक्ष्मणेन च युद्धाय बुद्धिं चक्रे हि रक्षसाम् ॥ ४४ ॥

कृत्वाथ वानरशतैर्
लङ्कामार्गं महोदधेः ।
सेतुं परमधर्मात्मा
रावणं हतवान् प्रभुः ॥ ४५ ॥

मूलम्

कृत्वाथ वानरशतैर्लङ्कामार्गं महोदधेः ।
सेतुं परमधर्मात्मा रावणं हतवान् प्रभुः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

सपत्नीकं च ससुतं
सभ्रातृकम् अरिन्दमः ।
आनयामास तां सीतां
वायुपुत्रसहायवान् ॥ ४६ ॥

मूलम्

सपत्नीकं च ससुतं सभ्रातृकमरिन्दमः ।
आनयामास तां सीतां वायुपुत्रसहायवान् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

सेतुमध्ये महादेवम्
ईशानं कृत्तिवाससम् ।
स्थापयामास लिङ्गस्थं
पूजयामास राघवः ॥ ४७ ॥

मूलम्

सेतुमध्ये महादेवमीशानं कृत्तिवाससम् ।
स्थापयामास लिङ्गस्थं पूजयामास राघवः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

तस्य देवो महादेवः पार्वत्या सह शङ्करः ।
प्रत्यक्षमेव भगवान् दत्तवान् वरमुत्तमम् ॥ ४८ ॥

यत् त्वया स्थापितं लिङ्गं
द्रक्ष्यन्तीह द्विजातयः ।
महापातकसंयुक्तास्
तेषां पापं विनश्यतु ॥ ४९ ॥

मूलम्

यत् त्वया स्थापितं लिङ्गं द्रक्ष्यन्तीह द्विजातयः ।
महापातकसंयुक्तास्तेषां पापं विनश्यतु ॥ ४९ ॥

विश्वास-प्रस्तुतिः

अन्यानि चैव पापानि
स्नातस्यात्र महोदधौ ।
दर्शनादेव लिङ्गसल्य
नाशं यान्ति न संशयः ॥ ५० ॥

मूलम्

अन्यानि चैव पापानि स्नातस्यात्र महोदधौ ।
दर्शनादेव लिङ्गसल्य नाशं यान्ति न संशयः ॥ ५० ॥

विश्वास-प्रस्तुतिः

यावत् स्थास्यन्ति गिरयो यावदेषा च मेदिनी ।
यावत् सेतुश्च तावच्च स्थास्याम्यत्र तिरोहितः ॥ ५१ ॥

स्नानं दानं जपः श्राद्धं भविष्यत्यक्ष्यं कृतम् ।
स्मरणादेव लिङ्गस्य दिनपापं प्रणश्यति ॥ ५२ ॥

इत्युक्त्वा भगवाञ्छम्भुः परिष्वज्य तु राघवम् ।
सनन्दी सगणो रुद्रस्तत्रैवान्तरधीयत ॥ ५३ ॥

रामो ऽपि पालयामास राज्यं धर्मपरायणः ।
अभिषिक्तो महातेजा भरतेन महाबलः ॥ ५४ ॥

मूलम्

रामो ऽपि पालयामास राज्यं धर्मपरायणः ।
अभिषिक्तो महातेजा भरतेन महाबलः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

विशेषाढ् ब्राह्मणान् सर्वान् पूजयामसचेश्वरम् ।
यज्ञेन यज्ञहन्तारमश्वमेधेन शङ्करम् ॥ ५५ ॥

रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः ।
लवश्च सुमहाभागः सर्वतत्त्वार्थवित् सुधीः ॥ ५६ ॥

अतिथिस्तु कुशाज्जज्ञे निषधस्तत्सुतो ऽभवत् ।
नलस्तु निषधस्याभून्नभस्तमादजायत ॥ ५७ ॥

नभसः पुण्डरीकाख्यः क्षेमधन्वा च तत्सुतः ।
तस्य पुत्रो ऽभवद् वीरो देवानीकः प्रतापवान् ॥ ५८ ॥

अहीनगुस्तस्य सुतो सहस्वांस्तत्सुतो ऽभवत् ।
तस्माच्चन्द्रावलोकस्तु तारापीडस्तु तत्सुतः ॥ ५९ ॥

तारापीडाच्चन्द्रगिरिर्भानुवित्तस्ततो ऽभवत् ।
विश्वास-प्रस्तुतिः

श्रुतायुरभवत् तस्मादेते इक्ष्वाकुवंशजाः ।
सर्वे प्राधान्यतः प्रोक्ताः समासेन द्विजोत्तमाः ॥ ६० ॥

य इमं शृणुयान्नित्यमिक्ष्वाकोर्वंशमुत्तमम् ।
सर्वपापविनिर्मुक्तो स्वर्गलोके महीयते ॥ ६१ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे विशो ऽध्यायः