सूत उवाच
अदितिः सुषुवे पुत्रमादित्यं कश्यपात् प्रभुम् ।
विश्वास-प्रस्तुतिः
तस्यादित्यस्य चैवसीद् भार्याणां तु चतुष्टयम् ।
सञ्ज्ञा राज्ञी प्रभा छाया पुत्रांस्तासां निबोधत ॥ १ ॥
मूलम्

सञ्ज्ञा त्वाष्ट्री च सुषुवे सूर्यान्मनुमनुत्तमम् ।
यमं च यमुनां चैव राज्ञी रैवतमेव च ॥ २ ॥

प्रभा प्रभातमादित्याच्छाया सावर्णमात्मजम् ।
शनिं च तपतीं चैव विष्टिं चैव यथाक्रमम् ॥ ३ ॥

मनोस्तु प्रथमस्यासन् नव पुत्रास्तु संयमाः ।
इक्ष्वाकुर्नभगश्चैव धृष्टः शर्यातिरेव च ॥ ४ ॥

नरिष्यन्तश्च नाभागो ह्यरिष्टः कारुषकस्तथा ।
पृषध्रश्च महातेजा नवैते शक्रसन्निभाः ॥ ५ ॥

इला ज्येष्ठा वरिष्ठा च सोमवंशविवृद्धये ।
बुधस्य गत्वा भवनं सोमपुत्रेण सङ्गता ॥ ६ ॥

असूत सौम्यजं देवी पुरूरवसमुत्तमम् ।
पितॄणां तृप्तिकर्तारं बुधादिति हि नः श्रुतम् ॥ ७ ॥

सम्प्राप्य पुंस्त्वममलं सुद्युम्न इति विश्रुतः ।
इला पुत्रत्रयं लेभे पुनः स्त्रीत्वमविन्दत ॥ ८ ॥

उत्कलश्च गयश्चैव विनताश्वस्तथैव च ।
सर्वे ते ऽप्रतिमप्रख्याः प्रपन्नाः कमलोद्भवम् ॥ ९ ॥

इक्ष्वाकोश्चाभवद् वीरो विकुक्षिर्नाम पार्थिवः ।
ज्येष्ठः पुत्रशतस्यापि दश पञ्च च तत्सुताः ॥ १० ॥

तेषाञ्ज्येष्ठः ककुत्स्थो ऽभूत् काकुत्स्थो हि सुयोधनः ।
सुयोधनात् पृथुः श्रीमान् विश्वकश्च पृथोः सुतः ॥ ११ ॥

विश्वकादार्द्रको धीमान् युवनाश्वस्तु तत्सुतः ।
स गोकर्णमनुप्राप्य युवनाश्वः प्रतापवान् ॥ १२ ॥

प्रणम्य दण्डवद् भूमौ पुत्रकामो महीपतिः ।
अपृच्छत् कर्मणा केन धार्मिकं प्राप्नुयात् सुतम् ॥ १३ ॥

आराध्य पूर्वपुरुषं नारायणमनामयम् ।
अनादिनिधनं देवं धार्मिकं प्राप्नुयात् सुतम् ॥ १४ ॥

यस्य पुत्रः स्वयं ब्रह्मा पौत्रः स्यान्नीललोहितः ।
तमादिकृष्णमीशानमाराध्याप्नोति सत्सुतम् ॥ १५ ॥

न यस्य भगवान् ब्रह्मा प्रभावं वेत्ति तत्त्वतः ।
तमाराध्य हृषीकेशं प्राप्नुयाद्धार्मिकं सुतम् ॥ १६ ॥

स गौतमवचः श्रुत्वा युवनाश्वो महीपतिः ।
आराधयन्महायोगं वासुदेवं सनातनम् ॥ १७ ॥
मूलम्
स गौतमवचः श्रुत्वा युवनाश्वो महीपतिः ।
आराधयन्महायोगं वासुदेवं सनातनम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
तस्य पुत्रो ऽभवद् वीरः श्रावस्तिरिति विश्रुतः ।
निर्मिता येन श्रावस्तिर्गौडदेशे महापुरी ॥ १८ ॥

तस्माच्च बृहदश्वो ऽभूत् तस्मात् कुवलयाश्वकः ।
धुन्धुमारत्वमगमद् धुन्धुं हत्वा महासुरम् ॥ १९ ॥

धुन्धुमारस्य तनयास्त्रयः प्रोक्ता द्विजोत्तमाः ।
दृढाश्वश्चैव दण्डाश्वः कपिलाश्वस्तथैव च ॥ २० ॥

दृढाश्वस्य प्रमोदस्तु हर्यश्वस्तस्य चात्मजः ।
हर्यश्वस्य निकुम्भस्तु निकुम्भात् संहताश्वकः ॥ २१ ॥

कृशाश्वश्च रणाश्वश्च संहताश्वस्य वै सुतौ ।
युवनाश्वो रणाश्वस्य शक्रतुल्यबलो युधि ॥ २२ ॥

लेभे त्वप्रतिमं पुत्रं विष्णुभक्तमनुत्तमम् ।
मान्धातारं महाप्राज्ञं सर्वशस्त्रभृतां वरम् ॥ २३ ॥

मान्धातुः पुरुकुत्सो ऽभूदम्बरीषश्च वीर्यवान् ।
मुचुकुन्दश्च पुण्यात्मा सर्वे शक्रसमा युधि ॥ २४ ॥

अम्बरीषस्य दायादो युवनाश्वो ऽपरः स्मृतः ।
हरितो युवनाश्वस्य हारितस्तत्सुतो ऽभवत् ॥ २५ ॥

पुरुकुत्सस्य दायादस्त्रसदस्युर्महायशाः ।
नर्मदायां समुत्पन्नः सम्भूतिस्तत्सुतो ऽभवत् ॥ २६ ॥

विष्णुवृद्धः सुतस्तस्य त्वनरण्यो ऽभवत् परः ।
बृहदशवो ऽनरण्यस्य हर्यश्वस्तत्सुतो ऽभवत् ॥ २७ ॥

सो ऽतीव धार्मिको राजा कर्दमस्य प्रजापतेः ।
प्रसादाद्धार्मिकं पुत्रं लेभे सूर्यपरायणम् ॥ २८ ॥

स तु सूर्यं समभ्यर्च्य राजा वसुमनाः शुभम् ।
लेभे त्वप्रतिमं पुत्रं त्रिधन्वानमरिन्दमम् ॥ २९ ॥

अयजच्चाश्वमेधेन शत्रून् जित्वा द्विजोत्तमाः ।
स्वाध्यायवान् दानशीलस्तितिक्षुर्धर्मतत्परः ॥ ३० ॥

ऋषयस्तु समाजग्मुर्यज्ञवाटं महात्मनः ।
वसिष्ठकश्यपमुखा देवाश्चेन्द्रपुरोगमाः ॥ ३१ ॥

तान् प्रणम्य महाराजः पप्रच्छ विनयान्वितः ।
समाप्य विधिवद् यज्ञं वसिष्ठादीन् द्विजोत्तमान् ॥ ३२ ॥

किंस्विच्छेयस्करतरं लोके ऽस्मिन् ब्राह्मणर्षभाः ।
यज्ञस्तपो वा सन्न्यासो ब्रूत मे सर्ववेदिनः ॥ ३३ ॥

अधीत्य वेदान् विधिवत् पुत्रानुत्पाद्य धर्मतः ।
इष्ट्वा यज्ञेश्वरं यज्ञैर् गच्छेद वनमथात्मवान् ॥ ३४ ॥

आराध्य तपसा देवं योगिनं परमेष्ठिनम् ।
प्रव्रजेद् विधिवद् यज्ञैरिष्ट्वा पूर्वं सुरोत्तमान् ॥ ३५ ॥

यमाहुरेकं पुरुषं पुराणं परमेश्वरम् ।
तमाराध्य सहस्रांशुं तपसा मोक्षमाप्नुयात् ॥ ३६ ॥

अजस्य नाभावध्येकमीश्वरेण समर्पितम् ।
बीजं भगवता येन स देवस्तपसेज्यते ॥ ३७ ॥
मूलम्
अजस्य नाभावध्येकमीश्वरेण समर्पितम् ।
बीजं भगवता येन स देवस्तपसेज्यते ॥ ३७ ॥
विश्वास-प्रस्तुतिः
यो ऽग्निः सर्वात्मको ऽनन्तः स्वयम्भूर्विश्वतोमुखः ।
स रुद्रस्तपसोग्रेण पूज्यते नेतरैर्मखैः ॥ ३८ ॥

यो यज्ञैरिज्यते देवो जातवेदाः सनातनः ।
स सर्वदैवततनुः पूज्यते तपसेश्वरः ॥ ३९ ॥
मूलम्
यो यज्ञैरिज्यते देवो जातवेदाः सनातनः ।
स सर्वदैवततनुः पूज्यते तपसेश्वरः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
यतः सर्वमिदं जातं यस्यापत्यं प्रजापतिः ।
तपः सुमहदास्थाय पूज्यते स महेश्वरः ॥ ४० ॥

यतः प्रधानपुरुषौ यस्य शक्तिमयं जगत् ।
स देवदेवस्तपसा पूजनीयः सनातनः ॥ ४१ ॥
मूलम्
यतः प्रधानपुरुषौ यस्य शक्तिमयं जगत् ।
स देवदेवस्तपसा पूजनीयः सनातनः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
सहस्रनयनो देवः साक्षी स तु प्रजापतिः ।
प्रसीदति महायोगी पूजितस्तपसा परः ॥ ४२ ॥
मूलम्
सहस्रनयनो देवः साक्षी स तु प्रजापतिः ।
प्रसीदति महायोगी पूजितस्तपसा परः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
प्राप्ताध्ययनयज्ञस् लब्धपुत्रस्य चैव हि ।
नान्तरेण तपः कश्चिद्धर्मः शास्त्रेषु दृश्यते ॥ ४३ ॥

इत्याकर्ण्य स राजर्षिस्तान् प्रणम्यातिहृष्टधीः ।
विसर्जयित्वा सम्पूज्य त्रिधन्वानमथाब्रवीत् ॥ ४४ ॥

आराधयिष्ये तपसा देवमेकाक्षराह्वयम् ।
प्राणं बृहन्तं पुरुषमादित्यान्तरसंस्थितम् ॥ ४५ ॥

त्वं तु धर्मरतो नित्यं पालयैतदतन्द्रितः ।
चातुर्वर्ण्यसमायुक्तमशेषं क्षितिमण्डलम् ॥ ४६ ॥

एवमुक्त्वा स तद्राज्यं निधायात्मभवे नृपः ।
जगामारण्यमनघस्तपश्चर्तुमनुत्तमम् ॥ ४७ ॥

हिमवच्छिखरे रम्ये देवदारुवने शुभे ।
कन्दमूलफलाहारो मुन्यन्नैरयजत् सुरान् ॥ ४८ ॥

संवत्सरशतं साग्रं तपोनिर्धूतकल्मषः ।
जजाप मनसा देवीं सावित्ररिं वेदमातरम् ॥ ४९ ॥

तस्यैवं जपतो देवः स्वयम्भूः परमेश्वरः ।
हिरण्यगर्भो विश्वात्मा तं देशमगमत् स्वयम् ॥ ५० ॥

दृष्ट्वा देवं समायान्तं ब्रह्माणं विश्वतोमुखम् ।
ननाम शिरसा तस्य पादयोर्नाम कीर्तयन् ॥ ५१ ॥

नमो देवाधिदेवाय ब्रह्मणे परमात्मने ।
हिर्ण्यमूर्तये तुभ्यं सहस्राक्षाय वेधसे ॥ ५२ ॥

नमो धात्रे विधात्रे च नमो वेदात्ममूर्तये ।
साङ्ख्ययोगाधिगम्याय नमस्ते ज्ञानमूर्तये ॥ ५३ ॥

नमस्त्रिमूर्तये तुभ्यं स्त्रष्ट्रे सर्वार्थवेदिने ।
पुरुषाय पुराणाय योगिनां गुरवे नमः ॥ ५४ ॥

ततः प्रसन्नो भगवान् विरिञ्चो विश्वभावनः ।
वरं वरय भद्रं ते वरदो ऽस्मीत्यभाषत ॥ ५५ ॥

जपेयं देवदेवेश गायत्रीं वेदमातरम् ।
भूयो वर्षशतं साग्रं तावदायुर्भवेन्मम ॥ ५६ ॥

बाढमित्याह विश्वात्मा समालोक्य नराधिपम् ।
स्पृष्ट्वा कराभ्यां सुप्रीतस्तत्रैवान्तरधीयत ॥ ५७ ॥

सो ऽपि लब्धवरः श्रीमान् जजापातिप्रसन्नधीः ।
शान्तस्त्रिषवणस्नायी कन्दमूलफलाशनः ॥ ५८ ॥

तस्य पूर्णे वर्षशते भगवानुग्रदीधितिः ।
प्रादुरासीन्महायोगी भानोर्मण्डलमध्यतः ॥ ५९ ॥

तं दृष्ट्वा वेदविदुषं मण्डलस्थं सनातनम् ।
स्वयम्भुवमनाद्यन्तं ब्रह्माणं विस्मयं गतः ॥ ६० ॥

तुष्टाव वैदिकैर्मन्त्रैः सावित्र्या च विशेषतः ।
क्षणादपश्यत् पुरुषं तमेव परमेश्वरम् ॥ ६१ ॥

चतुर्मुखं जटामौलिमष्टहस्तं त्रिलोचनम् ।
चन्द्रावयवलक्षमाणं नरनारीतनुं हरम् ॥ ६२ ॥

भासयन्तं जगत् कृत्स्नं नीलकण्ठं स्वरश्मिभिः ।
रक्ताम्बरधरं रक्तं रक्तमाल्यानुलेपनम् ॥ ६३ ॥

तद्भावभावितो दृष्ट्वा सद्भावेन परेण हि ।
ननाम शिरसा रुद्रं सावित्र्यानेन चैव हि ॥ ६४ ॥

नमस्ते नीलकण्ठाय भास्वते परमेष्ठिने ।
त्रयीमयाय रुद्राय कालरूपाय हेतवे ॥ ६५ ॥
मूलम्
नमस्ते नीलकण्ठाय भास्वते परमेष्ठिने ।
त्रयीमयाय रुद्राय कालरूपाय हेतवे ॥ ६५ ॥
विश्वास-प्रस्तुतिः
तदा प्राह महादेवो राजानं प्रीतमानसः ।
इमानि मे रहस्यानि नामानि शृणु चानघ ॥ ६६ ॥

सर्ववेदेषु गीतानि संसारशमनानि तु ।
नमस्कुरुष्व नृपते एभिर्मां सततं शुचिः ॥ ६७ ॥

अध्यायं शतरुद्रीयं यजुषां सारमुद्धृतम् ।
जपस्वानन्यचेतस्को मय्यासक्तमना नृप ॥ ६८ ॥

ब्रह्मचारी मिताहारो भस्मनिष्ठः समाहितः ।
जपेदामरणाद् रुद्रं स याति परमं पदम् ॥ ६९ ॥

इत्युक्त्वा भगवान् रुद्रो भक्तानुग्रहकाम्यया ।
पुनः संवत्सरशतं राज्ञे ह्यायुरकल्पयत् ॥ ७० ॥

दत्त्वास्मै तत् परं ज्ञानं वैराग्यं परमेश्वरः ।
क्षणादन्तर्दधे रुद्रस्तदद्भुतमिवाभवत् ॥ ७१ ॥

राजापि तपसा रुद्रं जजापानन्यमानसः ।
भस्मच्छन्नस्त्रिषवणं स्नात्वा शान्तः समाहितः ॥ ७२ ॥

जपतस्तस्य नृपतेः पूर्णे वर्षशते पुनः ।
योगप्रवृत्तिरभवत् कालात् कालात्मकं परम् ॥ ७३ ॥

विवेश तद् वेदसारं स्थानं वै परमेष्ठिनः ।
भानोः स मण्डलं शुभ्रं ततो यातो महेश्वरम् ॥ ७४ ॥

यः पठेच्छृणुयाद् वापि राज्ञश्चरितमुत्तमम् ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ७५ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकोनविशो ऽध्यायः