सूत उवाच
विश्वास-प्रस्तुतिः
एतानुत्पाद्य पुत्रांस्तु प्रजासन्तानकारणात् ।
कश्यपो गोत्रकामस्तु चचार सुमहत् तपः ॥ १ ॥
मूलम्

तस्य वै तपतो ऽत्यर्थं प्रादुर्भूतौ सुताविमौ ।
वत्सरश्चासितश्चैव तावुभौ ब्रह्मवादिनौ ॥ २ ॥

वत्सरान्नैध्रुवो जज्ञे रैभ्यश्च सुमहायशाः ।
रैभ्यस्य जज्ञिरे रैभ्याः पुत्रा द्युतिमतां वराः ॥ ३ ॥

च्यवनस्य सुता पत्नी नैध्रुवस्य महात्मनः ।
सुमेधा जनयामास पुत्रान् वै कुण्डपायिनः ॥ ४ ॥

असितस्यैकपर्णायां ब्रह्मिष्ठः समपद्यत ।
नाम्ना वै देवलः पुत्रो योगाचार्यो महातपाः ॥ ५ ॥

शाण्डिल्यानां परः श्रीमान् सर्वतत्त्वार्थवित् सुधीः ।
प्रसादात् पार्वतीशस्य योगमुत्तममाप्तवान् ॥ ६ ॥

शाण्डिल्या नैध्रु वारैभ्यास्त्रयः पक्षास्तु काश्यपाः ।
नरप्रकृतयो विप्राः पुलस्त्यस्य वदामि वः ॥ ७ ॥

तृणबिन्दोः सुता विप्रा नाम्ना त्विलविला स्मृता ।
पुलस्त्याय स राजर्षिस्तां कन्यां प्रत्यपादयत् ॥ ८ ॥

ऋषिस्त्वैलविलिस्तस्यां विश्रवाः समपद्यत ।
तस्य पत्न्यश्चतस्त्रस्तु पौलस्त्यकुलवर्धिकाः ॥ ९ ॥

पुष्पोत्कटा च राका च कैकसी देववर्णिनी ।
रूपलावण्यसम्पन्नास्तासां वै शृणुत प्रजाः ॥ १० ॥

ज्येष्ठं वैश्रवणं तस्य सुषुवे देवरूपिणी ।
कैकसी जनयत् पुत्रं रावणं राक्षसाधिपम् ॥ ११ ॥

कुम्भकर्णं शूर्पणखां तथैव च विभीषणम् ।
पुष्पोत्कटा व्यजनयत् पुत्रान् विश्रवसः शुभान् ॥ १२ ॥

महोदरं प्रहस्तं च महापार्श्वं खरं तथा ।
कुम्भीनसीं तथा कन्यां राकायां शृणुत प्रजाः ॥ १३ ॥

इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा दश ।
सर्वे तपोबलोत्कृष्टा रुद्रभक्ताः सुभीषणाः ॥ १४ ॥

पुलहस्य मृगाः पुत्राः सर्वे व्यालाश्च दंष्ट्रिणः ।
भूताः पिशाचाः सर्पाश्च शूकरा हस्तिनस्तथा ॥ १५ ॥

अनपत्यः क्रतुस्तस्मिन् स्मृतो वैवस्वते ऽन्तरे ।
मरीचेः कश्यपः पुत्रः स्वयमेव प्रजापतिः ॥ १६ ॥

भृगोरप्यभवच्छुक्रो दैत्याचार्यो महातपाः ।
स्वाध्याययोगनिरतो हरभक्तो महाद्युतिः ॥ १७ ॥

अत्रेः पत्न्यो ऽभवन् बह्व्यः सोदर्यास्ताः पतिव्रताः ।
कृशाश्वस्य तु विप्रेन्द्रा घृताच्यामिति मे श्रुतम् ॥ १८ ॥

स तासु जनयामास स्वस्त्यात्रेयान् महौजसः ।
वेदवेदाङ्गनिरतांस्तपसा हतकिल्बिषान् ॥ १९ ॥

नारदस्तु वसिष्ठाय ददौ देवीमरुन्धतीम् ।
ऊर्ध्वरेतास्तत्र मुनिः शापाद् दक्षस्य नारदः ॥ २० ॥

हर्यश्वेषु तु नष्टेषु मायया नारदस्य तु ।
शशाप नारदं दक्षः क्रोधसंरक्तलोचनः ॥ २१ ॥

यस्मान्मम सुताः सर्वे भवतो मायया द्विज ।
क्षयं नीतास्त्वशेषेण निरपत्यो भविष्यति ॥ २२ ॥

अरुन्धत्यां वसिष्ठस्तु शक्तिमुत्पादयत् सुतम् ।
शक्तेः पराशरः श्रीमान् सर्वज्ञस्तपतां वरः ॥ २३ ॥

आराध्य देवदेवेशमीशानं त्रिपुरान्तकम् ।
लेभे त्वप्रतिमं पुत्रं कृष्णाद्वैपायनं प्रभुम् ॥ २४ ॥

द्वैपायनाच्छ्रको जज्ञे भगवानेव शङ्करः ।
अंशांशेनावतीर्योर्व्यां स्वं प्राप परमं पदम् ॥ २५ ॥

भूरिश्रवाः प्रभुः शम्भुः कृष्णो गौरश्च पञ्चमः ।
कन्या कीर्तिमती चैव योगमाता धृतव्रता ॥ २६ ॥

एते ऽत्र वंश्याः कथिता ब्राह्मणा ब्रह्मवादिनाम् ।
अत ऊर्ध्वं निबोधध्वं कश्यपाद्राजसन्ततिम् ॥ २७ ॥