विश्वास-प्रस्तुतिः
बलेः पुत्रशतं त्वासीन्महाबलपराक्रमम् ।
तेषां प्रधानो द्युतिमान् बाणो नाम महाबलः ॥ १ ॥
मूलम्

सो ऽतीव शङ्करे भक्तो राजा राज्यमपालयत् ।
त्रैलोक्यं वशमानीय बाधयामास वासवम् ॥ २ ॥

ततः शक्रादयो देवा गत्वोचुः कृत्तिवाससम् ।
त्वदीयो बाधते ह्यस्मान् बाणो नाम महासुरः ॥ ३ ॥

व्याहृतो दैवदैः सर्वैर्देवदेवो महेश्वरः ।
ददाह बाणस्य पुरं शरेणैकेन लीलया ॥ ४ ॥

दह्यमाने पुरे तस्मिन् बाणो रुद्रं त्रिशूलिनम् ।
ययौ शरणमीशानं गोपतिं नीललोहितम् ॥ ५ ॥

मूर्धन्याधाय तल्लिङ्गं शाम्भवं भीतवर्जितः ।
निर्गत्य तु पुरात् तस्मात् तुष्टाव परमेश्वरम् ॥ ६ ॥

संस्तुतो भगवानीशः शङ्करो नीललोहितः ।
गाणपत्येन बाणं तं योजयामास भावतः ॥ ७ ॥
मूलम्
संस्तुतो भगवानीशः शङ्करो नीललोहितः ।
गाणपत्येन बाणं तं योजयामास भावतः ॥ ७ ॥
विश्वास-प्रस्तुतिः
तारस्तथा शम्बरश्च कपिलः शङ्करस्तथा ।
स्वर्भानुर्वृषपर्वा च प्राधान्येन प्रकीर्तिताः ॥ ८ ॥

सुरसायाः सहस्रं तु सर्पाणामभवद् द्विजाः ।
अनेकशिरसां तद्वत् खेचराणां महात्मनाम् ॥ ९ ॥

अरिष्टा जनयामास गन्धर्वाणां सहस्रकम् ।
अनन्ताद्या महानागाः काद्रवेयाः प्रकीर्तिताः ॥ १० ॥

ताम्रा च जनयामास षट् कन्या द्विजपुङ्गवाः ।
शुकीं श्येनीं च भासीं च सुग्रीवाङ्गृध्रिकां शुचिम् ॥ ११ ॥

गास्तथा जनयामास सुरभिर्महिषीस्तथा ।
इरा वृक्षलतावल्लीस्तृणजातीश्च सर्वशः ॥ १२ ॥

खसा वै यक्षरक्षांसि मुनिरप्सरसस्तथा ।
रक्षोगणं क्रोधवशा जनयामास सत्तमाः ॥ १३ ॥

तयोश्च गरुडो धीमान् तपस्तप्त्वा सुदुश्चरम् ।
प्रसादाच्छूनिलः प्राप्तो वाहनत्वं हरेः स्वयम् ॥ १४ ॥

आराध्य तपसा रुद्रं मह्देवं तथारुणः ।
सारथ्ये कल्पितः पूर्वं प्रीतेनार्कस्य शम्भुना ॥ १५ ॥

एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः ।
वैवस्वते ऽन्ते ह्यस्मिञ्छृण्वतां पापनाशनाः ॥ १६ ॥

सप्तविंशत् सुताः प्रोक्ताः सोमपत्न्यश्च सुव्रताः ।
अरिष्टनेमिपत्नीनामपत्यानीह षोडश ॥ १७ ॥

बहुपुत्रस्य विदुषश्चतस्त्रो विद्युतः स्मृताः ।
तद्वदङ्गिरसः पुत्रा ऋषयो ब्रह्मसत्कृताः ॥ १८ ॥

एते युगसहस्रान्ते जायन्ते पुनरेव हि ।
मन्वन्तरेषु नियतं तुल्यैः कार्यैः स्वनामभिः ॥ १९ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे सप्तदशो ऽध्यायः