श्रीकूर्म उवाच
विश्वास-प्रस्तुतिः
अन्दके निगृहीते वै प्रह्लादस्य महात्मनः ।
विरोचनो नाम सुतो बभूव नृपतिः पुरा ॥ १ ॥
मूलम्

देवाञ्जित्वा सदेवेन्द्रान बहून् वर्षान् महासुरः ।
पालयामास धर्मेण त्रैलोक्यं सचराचरम् ॥ २ ॥

तस्यैवं वर्तमानस्य कदाचिद् विष्णुचोदितः ।
सनत्कुमारो भगवान् पुरं प्राप महामुनिः ॥ ३ ॥

दृष्ट्वा सिहासनगतो ब्रह्मपुत्रं महासुरः ।
ननामोत्थाय शिरसा प्राञ्जलिर्वाक्यमब्रवीत् ॥ ४ ॥

धन्यो ऽस्म्यनुगृहीतो ऽस्मि सम्प्राप्तो मे पुरातनः ।
योगीश्वरो ऽद्य भगवान् यतो ऽसौ ब्रह्मवित् स्वयम् ॥ ५ ॥

किमर्थमागतो ब्रह्मन् स्वयं देवः पितामहः ।
ब्रूहि मे ब्रह्मणः पुत्र किं कार्यं करवाण्यहम् ॥ ६ ॥

सो ऽब्रवीद् भगवान् देवो धर्मयुक्तं महासुरम् ।
द्रष्टुमभ्यागतो ऽहं वै भवन्तं भाग्यवानसि ॥ ७ ॥

सुदुर्लभा नीतिरेषा दैत्यानां दैत्यसत्तम ।
त्रिलोके धार्मिको नूनं त्वादृशो ऽन्यो न विद्यते ॥ ८ ॥

इत्युक्तो ऽसुरराजस्तं पुनः प्राह महामुनिम् ।
धर्माणां परमं धर्मं ब्रूहि मे ब्रह्मवित्तम ॥ ९ ॥

सो ऽब्रवीद् भगवान् योगी दैत्येन्द्राय महात्मने ।
सर्वगुह्यतमं धर्ममात्मज्ञानमनुत्तमम् ॥ १० ॥

स लब्ध्वा परमं ज्ञानं दत्त्वा च गुरुदक्षिणाम् ।
निधाय पुत्रे तद्राज्यं योगाभ्यासरतो ऽभवत् ॥ ११ ॥

स तस्य पुत्रो मतिमान् बलिर्नाम महासुरः ।
ब्रह्मण्यो धार्मिको ऽत्यर्थं विजिग्ये ऽथ पुरन्दरम् ॥ १२ ॥

कृत्वा तेन महद् युद्धं शक्रः सर्वामरैर्वृतः ।
जगाम निर्जितो विष्णुं देवं शरणमच्युतम् ॥ १३ ॥

तदन्तरे ऽदितिर्देवी देवमाता सुदुः खिता ।
दैत्येन्द्राणां वधार्थाय पुत्रो मे स्यादिति स्वयम् ॥ १४ ॥

तताप सुमहद् घोरं तपोराशिस्तपः परम् ।
प्रपन्ना विष्णुमव्यक्तं शरण्यं शरणं हरिम् ॥ १५ ॥

कृत्वा हृत्पद्मकिञ्जल्के निष्कलं परमं पदम् ।
वासुदेवमनाद्यन्तमानन्दं व्योम केवलम् ॥ १६ ॥

प्रसन्नो भगवान् विष्णुः शङ्खचक्रगदाधरः ।
आविर्बभूव योगात्मा देवमातुः पुरो हरिः ॥ १७ ॥

दृष्ट्वा समागतं विष्णुमदितिर्भक्तिसंयुता ।
मेने कृतार्थमात्मानं तोषयामास केशवम् ॥ १८ ॥

एवं स भगवान् कृष्णो देवमात्रा जगन्मयः ।
तोषितश्छन्दयामास वरेण प्रहसन्निव ॥ २४ ॥
मूलम्
एवं स भगवान् कृष्णो देवमात्रा जगन्मयः ।
तोषितश्छन्दयामास वरेण प्रहसन्निव ॥ २४ ॥
विश्वास-प्रस्तुतिः
प्रणम्य शिरसा भूमौ सा वब्रे वरमुत्तमम् ।
त्वामेव पुत्रं देवानां हिताय वरये वरम् ॥ २५ ॥

तथास्त्वित्याह भगवान् प्रपन्नजनवत्सलः ।
दत्त्वा वरानप्रमेयस्तत्रैवान्तरधीयत ॥ २६ ॥

ततो बहुतिथे काले भगवन्तं जनार्दनम् ।
दधार गर्भं देवानां माता नारायणं स्वयम् ॥ २७ ॥

समाविष्टे हृषीकेशे देवमातुरथोदरम् ।
उत्पाता जज्ञिरे घोरा बलेर्वैरोचनेः पुरे ॥ २८ ॥

निरीक्ष्य सर्वानुत्पातान् दैत्येन्द्रो भयविह्वलः ।
प्रह्लादमसुरं वृद्धं प्रणम्याह पितामहम् ॥ २९ ॥

पितामह महाप्राज्ञ जायन्ते ऽस्मत्पुरे ऽधुना ।
किमुत्पाता भवेत् कार्यमस्माकं किन्निमित्तकाः ॥ ३० ॥

निशम्य तस्य वचनं चिरं ध्यात्वा महासुरः ।
नमस्कृत्य हृषीकेशमिदं वचनमब्रवीत् ॥ ३१ ॥

यो यज्ञैरिज्यते विष्णुर्यस्य सर्वमिदं जगत् ।
दधारासुरनाशार्थं माता तं त्रिदिवौकसाम् ॥ ३२ ॥

यस्मादभिन्नं सकलं भिद्यते यो ऽखिलादपि ।
स वासुदेवो देवानां मातुर्देहं समाविशत् ॥ ३३ ॥

न यस्य देवा जानन्ति स्वरूपं परमार्थतः ।
स विष्णुरदितेर्देहं स्वेच्छयाद्य समाविशत् ॥ ३४ ॥

यस्माद् भवन्ति भूतानि यत्र संयान्ति सङ्क्षयम् ।
सो ऽवतीर्णो महायोगी पुराणपुरुषो हरिः ॥ ३५ ॥

न यत्र विद्यते नामजात्यादिपरिकल्पना ।
सत्तामात्रात्मरूपो ऽसौ विष्णुरंशेन जायते ॥ ३६ ॥

यस्य सा जगतां माता शक्तिस्तद्धर्मधारिणी ।
माया भगवती लक्ष्मीः सो ऽवतीर्णो जनार्दनः ॥ ३७ ॥

यस्य सा तामसी मूर्तिः शङ्करो राजसी तनुः ।
ब्रह्मा सञ्जायते विष्णुरंशेनैकेन सत्त्वभृत् ॥ ३८ ॥

इत्थं विचिन्त्य गोविन्दं भक्तिनम्रेण चेतसा ।
तमेव गच्छ शरणं ततो यास्यसि निर्वृतिम् ॥ ३९ ॥

ततः प्रह्लादवचनाद् बलिर्वैरोचनिर्हरिम् ।
जगाम शरणं विश्वं पालयामास धर्मतः ॥ ४० ॥

काले प्राप्ते महाविष्णुं देवानां हर्षवर्धनम् ।
असूत कश्यपाच्चैनं देवमातादितिः स्वयम् ॥ ४१ ॥

चतुर्भुजं विशालाक्षं श्रीवत्साङ्कितवक्षसम् ।
नीलमेघप्रतीकाशं भ्राजमानं श्रियावृतम् ॥ ४२ ॥

उपतस्थुः सुराः सर्वे सिद्धाः साध्याश्च चारणाः ।
उपेन्द्रमिन्द्रप्रमुखा ब्रह्मा चर्षिगमैर्वृतः ॥ ४३ ॥

कृतोपनयनो वेदानध्यैष्ट भगवान् हरिः ।
समाचारं भरद्वाजात् त्रिलोकाय प्रदर्शयन् ॥ ४४ ॥

एवं हि लौकिकं मार्गं प्रदर्शयति स प्रभुः ।
स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ ४५ ॥

ततः कालेन मतिमान् बलिर्वैरोचनिः स्वयम् ।
यज्ञैर्यज्ञेश्वरं विष्णुमर्चयामास सर्वगम् ॥ ४६ ॥

ब्राह्मणान् पूजयामास दत्त्वा बहुतरं धनम् ।
ब्रह्मर्षयः समाजग्मुर्यज्ञवाटं महात्मनः ॥ ४७ ॥

विज्ञाय विष्णुर्भगवान् भरद्वाजप्रचोदितः ।
आस्थाय वामनं रूपं यज्ञदेशमथागमत् ॥ ४८ ॥

कृष्णाजिनोपवीताङ्ग आषाढेन विराजितः ।
ब्राह्मणो जटिलो वेदानुद्गिरन् भस्ममण्डितः ॥ ४९ ॥

सम्प्राप्यासुरराजस्य समीपं भिक्षुको हरिः ।
स्वपादैर्विमितं देशमयाचत बलिं त्रिभिः ॥ ५० ॥

प्रक्षाल्य चरणौ विष्णोर्बलिर्भासमन्वितः ।
आचामयित्वा भृङ्गारमादाय स्वर्णनिर्मितम् ॥ ५१ ॥

उक्त्वैवं दैत्यसिंहं तं विष्णुः सत्यपराक्रमः ।
पुरन्दराय त्रैलोक्यं ददौ विष्णुरुरुक्रमः ॥ ६३ ॥

संस्तुवन्ति महायोगं सिद्धा देवर्षिकिन्नराः ।
ब्रह्मा शक्रो ऽथ भगवान् रुद्रादित्यमरुद्गणाः ॥ ६४ ॥

कृत्वैतदद्भुतं कर्म विष्णुर्वामनरूपधृक् ।
पश्यतामेव सर्वेषां तत्रैवान्तरधीयत ॥ ६५ ॥

सो ऽपि दैत्यवरः श्रीमान् पातालं प्राप चोदितः ।
प्रह्लादेनासुरवरैर्विष्णुना विष्णुतत्परः ॥ ६६ ॥

अपृच्छद् विष्णुमाहात्मयं भक्तियोगमनुत्तमम् ।
पूजाविधानं प्रह्लादं तदाहासौ चकार सः ॥ ६७ ॥

एष वः कथितो विप्रा वामनस्य पराक्रमः ।
स देवकार्याणि सदा करोति पुरुषोत्तमः ॥ ६९ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षोडशो ऽध्याय