१५

सूत उवाच

विश्वास-प्रस्तुतिः

प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा ।
ससर्ज देवान् गन्धर्वान् ऋषींश्चैवासुरोरगान् ॥ १ ॥

मूलम्

यदास्य सृजमानस्य न व्यवर्धन्त ताः प्रजाः ।
तदा ससर्ज भूतानि मैथुनेनैव धर्मतः ॥ २ ॥

असिक्न्यां जनयामास वीरणस्य प्रजापतेः ।
सुतायां धर्मयुक्तायां पुत्राणां तु सहस्रकम् ॥ ३ ॥

तेषु पुत्रेषु नष्टेषु मायया नारदस्य सः ।
षष्टिं दक्षो ऽसृजत् कन्या वैरण्यां वै प्रजापतिः ॥ ४ ॥

ददौ स दश धर्माय कश्यपाय त्रयोदश ।
विंशत् सप्त च सोमाय चतस्त्रो ऽरिष्टनेमिने ॥ ५ ॥

द्वे चैव बहुपुत्राय द्वे कृशाश्वाय धीमते ।
द्वे चैवाङ्गिरसे तद्वत् तासां वक्ष्ये ऽथ निस्तरम् ॥ ६ ॥

अरुन्धती वसुर्जामी लम्बा भानुर्मरुत्वती ।
सङ्कल्पा च मुहूर्ता च साध्या विश्वा च भामिनी ॥ ७ ॥

धर्मपत्न्यो दश त्वेतास्तासां पुत्रान् निबोधत ।
विश्वाया विश्वदेवास्तु साध्या साध्यानजीजनत् ॥ ८ ॥

मरुत्वन्तो मरुत्वत्यां वसवो ऽष्टौ वसोः सुताः ।
भानोस्तु भानवश्चैव मुहूर्ता वै मुहूर्तजाः ॥ ९ ॥

लम्बायाश्चाथ घोषो वै नागवीथी तु जामिजा ।
विश्वास-प्रस्तुतिः

पृथिवीविषयं सर्वमरुन्दत्यामजायत ।
सङ्कल्पायास्तु सङ्कल्पो धर्मपुत्रा दश स्मृताः ॥ १० ॥

आपो ध्रुवश्च सोमश्च धरश्चैवानिलो ऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवो ऽष्टौ प्रकीर्तिताः ॥ ११ ॥

आपस्य पुत्रो वैतण्ड्यः श्रमः श्रान्तो धुनिस्तथा ।
ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकालनः ॥ १२ ॥

सोमस्य भगवान् वर्चा धरस्य द्रविणः सुतः ।
पुरोजवो ऽनिलस्य स्यादविज्ञातगतिस्तथा ॥ १३ ॥

कुमारो ह्यनलस्यासीत् सेनापतिरिति स्मृतः ।
विश्वास-प्रस्तुतिः

देवलो भगवान् योगी प्रत्यूषस्याभवत् सुतः ।
विश्वकर्मा प्रभासस्य शिल्पकर्ता प्रजापतिः ॥ १४ ॥

अदितिर्दितिर्दनुस्तद्वदरिष्टा सुरसा तथा ।
विश्वास-प्रस्तुतिः

सुरभिर्विनता चैव ताम्र क्रोधवशा इरा ।
कद्रुर्मुनिश्च धर्मज्ञा तत्पुत्रान् वै निबोधत ॥ १५ ॥

अंशो धाता भगस्त्वष्टा मित्रो ऽथ वरुणोर्ऽयमा ।
विवस्वान् सविता पूषा ह्यंशुमान् विष्णुरेव च ॥ १६ ॥

तुषिता नाम ते पूर्वं चाक्षुषस्यान्तरे मनोः ।
वैवस्वते ऽन्तरे प्रोक्ता आदित्याश्चादितेः सुताः ॥ १७ ॥

दितिः पुत्रद्वयं लेभे कश्यपाद् बलसंयुतम् ।
हिरण्यकशिपुं ज्येष्ठं हिरण्याक्षं तथापरम् ॥ १८ ॥

हिरण्यकशिपुर्दैत्यो महाबलपराक्रमः ।
विश्वास-प्रस्तुतिः

आराध्य तपसा देवं ब्रह्माणं परमेष्ठिनम् ।
दृष्ट्वालेभेवरान् दिव्यान् स्तुत्वासौ विविधैः स्तवै ॥ १९ ॥

अथ तस्य बलाद् देवाः सर्व एव सुरर्षयः ।
बाधितास्ताडिता जग्मुर्देवदेवं पितामहम् ॥ २० ॥

शरण्यं शरणं देवं शम्भुं सर्वजगन्मयम् ।
विश्वास-प्रस्तुतिः

ब्रह्माणं लोककर्तारं त्रातारं पुरुषं परम् ।
कूटस्थं जगतामेकं पुराणं पुरुषोत्तमम् ॥ २१ ॥

स याचितो देववरैर्मुनिभिश्च मुनीश्वराः ।
सर्वदेवहितार्थाय जगाम कमलासनः ॥ २२ ॥

मूलम्

स याचितो देववरैर्मुनिभिश्च मुनीश्वराः ।
सर्वदेवहितार्थाय जगाम कमलासनः ॥ २२ ॥

विश्वास-प्रस्तुतिः

संस्तूयमानः प्रणतैर्मुनीन्द्रैरमरैरपि ।
क्षीरोदस्योत्तरं कूलं यत्रास्ते हरिरीश्वरः ॥ २३ ॥

दृष्ट्वा देवं जगद्योनिं विष्णुं विश्वगुरुं शिवम् ।
ववन्दे चरणौ मूर्ध्ना कृताञ्जलिरभाषत ॥ २४ ॥

ब्रह्मोवाच
विश्वास-प्रस्तुतिः

त्वं गतिः सर्वभूतानामनन्तो ऽस्यखिलात्मकः ।
व्यापी सर्वामरवपुर्महायोगी सनातनः ॥ २५ ॥

त्वमात्मा सर्वभूतानां प्रधानं प्रकृतिः परा ।
वैराग्यैश्वर्यनिरतो रागातीतो निरञ्जनः ॥ २६ ॥

त्वं कर्ता चैव भर्ता च निहन्ता सुरविद्विषाम् ।
त्रातुमर्हस्यनन्तेश त्राता हि परमेश्वरः ॥ २७ ॥

इत्थं स विष्णुर्भगवान् ब्रह्मणा सम्प्रबोधितः ।
प्रोवाचोन्निद्रपद्माक्षः पीतवासासुरद्विषः ॥ २८ ॥

किमर्थं सुमहावीर्याः सप्रजापतिकाः सुराः ।
इमं देशमनुप्राप्ताः किं वा कार्यं करोमि वः ॥ २९ ॥

देवा ऊचुः
विश्वास-प्रस्तुतिः

हिरण्यकशिपुर्नाम ब्रह्मणो वरदर्पितः ।
बाधते भगवन् दैत्यो देवान् सर्वान् सहर्षिभिः ॥ ३० ॥

अवध्यः सर्वभूतानां त्वामृते पुरुषोत्तम ।
हन्तुमर्हसि सर्वेषां त्वं त्रातासि जगन्मय ॥ ३१ ॥

श्रुत्वा तद्दैवतैरुक्तं स विष्णुर्लोकभावनः ।
वधाय दैत्यमुख्यस्य सो ऽसृजत् पुरुषं स्वयम् ॥ ३२ ॥

मेरुपर्वतवर्ष्माणं घोररूपं भयानकम् ।
शङ्खचक्रगदापाणिं तं प्राह गरुडध्वजः ॥ ३३ ॥

हत्वा तं दैत्यराजं त्वं हिरण्यकशिपुं पुनः ।
इमं देशं समागन्तुं क्षिप्रमर्हसि पौरुषात् ॥ ३४ ॥

निशम्य वैष्णवं वाक्यं प्रणम्य पुरुषोत्तमम् ।
महापुरुषमव्यक्तं ययौ दैत्यमहापुरम् ॥ ३५ ॥

विमुञ्चन् भैरवं नादं शङ्खचक्रगदाधरः ।
आरुह्य गरुडं देवो महामेरुरिवापरः ॥ ३६ ॥

मूलम्

विमुञ्चन् भैरवं नादं शङ्खचक्रगदाधरः ।
आरुह्य गरुडं देवो महामेरुरिवापरः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

आकर्ण्य दैत्यप्रवरा महामेघरवोपमम् ।
समाचचक्षिरे नादं तदा दैत्यपतेर्भयात् ॥ ३७ ॥

असुरा ऊचुः
विश्वास-प्रस्तुतिः

कश्चिदागच्छति महान् पुरुषो देवचोदितः ।
विमुञ्चन् भैरवं नादं तं जानीमो ऽमरार्दन ॥ ३८ ॥

ततः सहासुरवरैर्हिरण्यकशिपुः स्वयम् ।
सन्नद्धैः सायुधैः पुत्रैः प्रह्रादाद्यैस्तदा ययौ ॥ ३९ ॥

दृष्ट्वा तं गरुडासीनं सूर्यकोटिसमप्रभम् ।
पुरुषं पर्वताकारं नारायणमिवापरम् ॥ ४० ॥

दुद्रुवुः केचिदन्योन्ममूचुः सम्भ्रान्तलोचनाः ।
अयं स देवो देवानां गोप्ता नारायणो रिपुः ॥ ४१ ॥

अस्माकमव्ययो नूनं तत्सुतो वा समागतः ।
विश्वास-प्रस्तुतिः

इत्युक्त्वा शस्त्रवर्षाणि ससृजुः पुरुषाय ते ।
तानि चाशेषतो देवो नाशयामास लीलया ॥ ४२ ॥

तदा हिरण्यकशिपोश्चत्वारः प्रथितौजसः ।
विश्वास-प्रस्तुतिः

पुत्रा नारायणोद्भूतं युयुधुर्मेघनिः स्वनाः ।
प्रह्रादश्चाप्यनुह्रादः संह्रादो ह्राद एव च ॥ ४३ ॥

प्रह्रादः प्राहिणोद् ब्राह्ममनुह्रादो ऽथ वैष्णवम् ।
संह्रादश्चापि कौमारमाग्नेयं ह्राद एव च ॥ ४४ ॥

तानि तं पुरुषं प्राप्य चत्वार्यस्त्राणि वैष्णवम् ।
न शेकुर्बाधितुं विष्णुं वासुदेवं यथा तथा ॥ ४५ ॥

अथासौ चतुरः पुत्रान् महाबाहुर्महाबलः ।
प्रगृह्य पादेषु करैः सञ्चिक्षेप ननाद च ॥ ४६ ॥

विमुक्तेष्वथ पुत्रेषु हिरण्यकशिपुः स्वयम् ।
पादेन ताडयामास वेगेनोरसि तं बली ॥ ४७ ॥

स तेन पीडितो ऽत्यर्थं गरुडेन तथाऽशुगः ।
विश्वास-प्रस्तुतिः

अदृश्यः प्रययौ तूर्णं यत्र नारायणः प्रभुः ।
गत्वा विज्ञापयामास प्रवृत्तमखिलं तथा ॥ ४८ ॥

सञ्चिन्त्य मनसा देवः सर्वज्ञानमयो ऽमलः ।
नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं तथा ॥ ४९ ॥

नृसिंहवपुरव्यक्तो हिरण्यकशिपोः पुरे ।
आविर्बभूव सहसा मोहयन् दैत्यपुङ्गवान् ॥ ५० ॥

दंष्ट्राकरालो योगात्मा युगान्तदहनोपमः ।
विश्वास-प्रस्तुतिः

समारुह्यात्मनः शक्तिं सर्वसंहारकारिकाम् ।
भाति नारायणो ऽनन्तो यथा मध्यन्दिने रविः ॥ ५१ ॥

दृष्ट्वा नृसिंहवपुषं प्रह्रादं ज्येष्ठपुत्रकम् ।
वधाय प्रेरयामास नरसिहस्य सो ऽसुरः ॥ ५२ ॥

इमं नृसिंहवपुषं पूर्वस्माद् बहुशक्तिकम् ।
सहैव त्वनुजैः सर्वैर्नाशयाशु मयेरितः ॥ ५३ ॥

तत्सन्नियोगादसुरः प्रह्रादो विष्णुमव्ययम् ।
युयुधे सर्वयत्नेन नरसिंहेन निर्जितः ॥ ५४ ॥

ततः सञ्चोदितो दैत्यो हिरण्याक्षस्तदानुजः ।
ध्यात्वा पशुपतेरस्त्रं ससर्ज च ननाद च ॥ ५५ ॥

तस्य देवादिदेवस्य विष्णोरमिततेजसः ।
न हानिमकरोदस्त्रं यथा देवस्य शूलिनः ॥ ५६ ॥

दृष्ट्वा पराहतं त्वस्त्रं प्रह्रादो भाग्यगौरवात् ।
मेने सर्वात्मकं देवं वासुदेवं सनातनम् ॥ ५७ ॥

सन्त्यज्य सर्वशस्त्राणि सत्त्वयुक्तेन चेतसा ।
ननाम शिरसा देवं योगिनां हृदयेशयम् ॥ ५८ ॥

स्तुत्वा नारायणैः स्तोत्रैः ऋग्यजुः सामसम्भवैः ।
निवार्य पितरं भ्रातृन् हिरण्याक्षं तदाब्रवीत् ॥ ५९ ॥

अयं नारायणो ऽनन्तः शाश्वतो भगवानजः ।
पुराणपुरुषो देवो महायोगी जगन्मयः ॥ ६० ॥

मूलम्

अयं नारायणो ऽनन्तः शाश्वतो भगवानजः ।
पुराणपुरुषो देवो महायोगी जगन्मयः ॥ ६० ॥

विश्वास-प्रस्तुतिः

अयं धाता विधाता च स्वयञ्ज्योतिर्निरञ्जनः ।
प्रधानपुरुषस्तत्त्वं मूलप्रकृतिरव्ययः ॥ ६१ ॥

ईश्वरः सर्वभूतानामन्तर्यामी गुणातिगः ।
गच्छध्वमेनं शरणं विष्णुमव्यक्तमव्ययम् ॥ ६२ ॥

एवमुक्ते सुदुर्बुद्धिर्हिरण्यकशिपुः स्वयम् ।
प्रोवाच पुत्रमत्यर्थं मोहितो विष्णुमायया ॥ ६३ ॥

अयं सर्वात्मना वध्यो नृसिंहो ऽल्पपराक्रमः ।
समागतो ऽस्मद्भवनमिदानीं कालचोदितः ॥ ६४ ॥

विहस्य पितरं पुत्रो वचः प्राह महामतिः ।
मा निन्दस्वैनमीशानं भूतानामेकमव्ययम् ॥ ६५ ॥

कथं देवो महादेवः शाश्वतः कालवर्जितः ।
कालेन हन्यते विष्णुः कालात्मा कालरूपधृक् ॥ ६६ ॥

ततः सुवर्णकशिपुर्दुरात्मा विधिचोदितः ।
निवारितो ऽपि पुत्रेण युयोध हरिमव्ययम् ॥ ६७ ॥

संरक्तनयनो ऽन्तो हिरण्यनयनाग्रजम् ।
नखैर्विदारयामास प्रह्रादस्यैव पश्यतः ॥ ६८ ॥

हते हिरण्यकशिपौ हिरण्याक्षो महाबलः ।
विसृज्य पुत्रं प्रह्रादं दुद्रुवे भयविह्वलः ॥ ६९ ॥

अनुह्रादादयः पुत्रा अन्ये च शतशो ऽसुराः ।
नृसिंहदेहसम्भूतैः सिंहैर्नोता यमालयम् ॥ ७० ॥

ततः संहृत्य तद्रूपं हरिर्नारायणः प्रभुः ।
स्वमेव परमं रूपं ययौ नारायणाह्वयम् ॥ ७१ ॥

गते नारायणे दैत्यः प्रह्रादो ऽसुरसत्तमः ।
अभिषेकेण युक्तेन हिरण्याक्षमयोजयत् ॥ ७२ ॥

स बाधयामास सुरान् रणे जित्वा मुनीनपि ।
लब्ध्वान्धकं महापुत्रं तपसाराध्य शङ्करम् ॥ ७३ ॥

देवाञ्जित्वा सदेवेन्द्रान् बध्वाच धरणीमिमाम् ।
नीत्वा रसातलं चक्रे वन्दीमिन्दीवरप्रभाम् ॥ ७४ ॥

ततः सब्रह्मका देवाः परिम्लानमुखश्रियः ।
गत्वा विज्ञापयामासुर्विष्णवे हरिमन्दिरम् ॥ ७५ ॥

स चिन्तयित्वा विश्वात्मा तद्वधोपायमव्ययः ।
सर्वेदेवमयं शुभ्रं वाराहं वपुरादधे ॥ ७६ ॥

गत्वा हिरण्यनयनं हत्वा तं पुरुषोत्तमः ।
दंष्ट्रयोद्धारयामास कल्पादौ धरणीमिमाम् ॥ ७७ ॥

त्यक्त्वा वराहसंस्थानं संस्थाप्य च सुरद्विजान् स्वामेव प्रकृतिं दिव्यां ययौ विष्णुः परं पदम् ॥ ७८ ॥
विश्वास-प्रस्तुतिः

तस्मिन् हते ऽमररिपौ प्रह्रादौ विष्णुतत्परः ।
अपालयत् स्वकंराज्यं भावं त्यक्त्वा तदाऽसुरम् ॥ ७९ ॥

इयाज विधिवद् देवान् विष्णोराराधने रतः ।
निः सपत्नं तदा राज्यं तस्यासीद् विष्णुवैभवात् ॥ ८० ॥

ततः कदाचिदसुरो ब्राह्मणं गृहमागतम् ।
तापसं नार्चयामास देवानां चैव मायया ॥ ८१ ॥

स तेन तापसो ऽत्यर्थं मोहितेनावमानितः ।
शशापासुरराजानं क्रोधसंरक्तलोचनः ॥ ८२ ॥

मूलम्

स तेन तापसो ऽत्यर्थं मोहितेनावमानितः ।
शशापासुरराजानं क्रोधसंरक्तलोचनः ॥ ८२ ॥

विश्वास-प्रस्तुतिः

यत्तद्वलं समाश्रित्य ब्राह्मणानवमन्यसे ।
सा भक्तिर्वैष्णवी दिव्या विनाशं ते गमिष्यति ॥ ८३ ॥

इत्युक्त्वा प्रययौ तूर्णं प्रह्रादस्य गृहाद् द्विजः ।
मुमोह राज्यसंसक्तः सो ऽपि शापबलात् ततः ॥ ८४ ॥

बाधयामास विप्रेन्द्रान् न विवेद जनार्दनम् ।
पितुर्वधमनुस्मृत्य क्रोधं चक्रे हरिं प्रति ॥ ८५ ॥

तयोः समभवद् युद्धं सुघोरं रोमहर्षणम् ।
नारायणस्य देवस्य प्रह्रादस्यामरद्विषः ॥ ८६ ॥

कृत्वा तु सुमहद् युद्धं विष्णुना तेन निर्जितः ।
विश्वास-प्रस्तुतिः

पुर्वसंस्कारमाहात्म्यात् परस्मिन् पुरुषे हरौ ।
सञ्जातं तस्य विज्ञानं शरण्यं शरणं ययौ ॥ ८७ ॥

ततः प्रभृति दैत्येन्द्रो ह्यनन्यां भक्तिमुद्वहन् ।
नारायणे महायोगमवाप पुरुषोत्तमे ॥ ८८ ॥

हिरण्यकशिपोः पुत्रे योगसंसक्तचेतसि ।
अवाप तन्महद् राज्यमन्धको ऽसुरपुङ्गवः ॥ ८९ ॥

हिरण्यनेत्रतनयः शम्भोर्देहसमुद्भवः ।
मन्दरस्थामुमां देवीं चकमे पर्वतात्मजाम् ॥ ९० ॥

पुरा दारुवने पुण्ये मुनयो गृहमेधिनः ।
ईश्वराराधनार्थाय तपश्चेरुः सहस्रशः ॥ ९१ ॥

ततः कदाचिन्महति कालयोगेन दुस्तरा ।
अनावृष्टिरतीवोग्रा ह्यासीद् भूतविनाशिनी ॥ ९२ ॥

समेत्य सर्वे मुनयो गौतमं तपसां निधिम् ।
अयाचन्त क्षुधाविष्टा आहारं प्राणधारणम् ॥ ९३ ॥

स तेभ्यः प्रददावन्नं मृष्टं बहुतरं बुधः ।
सर्वे बुबुजिरे विप्रा निर्विशङ्केन चेतसा ॥ ९४ ॥

गते तु द्वादशे वर्षे कल्पान्त इव शङ्करी ।
बभूव वृष्टिर्महती यथापूर्वमभूज्जगत् ॥ ९५ ॥

ततः सर्वे मुनिवराः समामन्त्र्य परस्परम् ।
महर्षि गौतमं प्रोचुर्गच्छाम इति वेगतः ॥ ९६ ॥

निवारयामास च तान् कञ्चित् कालं यथासुखम् ।
उषित्वा मद्गृहे ऽवश्यं गच्छध्वमिति पण्डिताः ॥ ९७ ॥

ततो मायामयीं सृष्ट्वा कृशां गां सर्व एव ते ।
समीपं प्रापयामासुगौतमस्य महात्मनः ॥ ९८ ॥

सो ऽनुवीक्ष्य कृपाविष्टस्तस्याः संरक्षणोत्सुकः ।
गोष्ठे तां बन्धयामास स्पृष्टमात्रा ममार सा ॥ ९९ ॥

स शोकेनाभिसन्तप्तः कार्याकार्यं महामुनिः ।
न पश्यति स्म सहसा तादृशं मुनयो ऽब्रुवन् ॥ १०० ॥

गोवध्येयं द्विजश्रेष्ठ यावत् तव शरीरगा ।
तावत् ते ऽन्नं न भोक्तव्यं गच्छामो वयमेव हि ॥ १०१ ॥

तेन ते मुदिताः सन्तो देवदारुवनं शुभम् ।
जग्मुः पापवशं नीतास्तपश्चर्तुं यथा पुरा ॥ १०२ ॥

स तेषां मायया जातां गोवध्यां गौतमो मुनिः ।
केनापि हेतुना ज्ञात्वा शशापातीवकोपनः ॥ १०३ ॥

भविष्यन्ति त्रयीबाह्या महापातकिभिः समाः ।
बभूवुस्ते तथा शापाज्जायमानाः पुनः पुनः ॥ १०४ ॥

सर्वे सम्प्राप्य देवेशं शङ्करं विष्णुमव्ययम् ।
अस्तुवन् लौकिकैः स्तोत्रैरुच्छिष्टा इव सर्वगौ ॥ १०५ ॥

देवदेवौ महादेवौ भक्तानामार्तिनाशनौ ।
कामवृत्त्या महायोगौ पापान्नस्त्रातुमर्हथः ॥ १०६ ॥

तदा पार्श्वस्थितं विष्णुं सम्प्रेक्ष्य वृषभध्वजः ।
किमेतेषां भवेत् कार्यं प्राह पुण्यैषिणामिति ॥ १०७ ॥

ततः स भगवान् विष्णुः शरण्यो भक्तवत्सलः ।
गोपतिं प्राह विप्रेन्द्रानालोक्य प्रणतान् हरिः ॥ १०८ ॥

वेदबाह्ये पुरुषे
पुण्यलेशो ऽपि शङ्कर ।
सङ्गच्छते महादेव
धर्मो वेदाद् विनिर्बभौ ॥ १०९ ॥

मूलम्

न वेदबाह्ये पुरुषे पुण्यलेशो ऽपि शङ्कर ।
सङ्गच्छते महादेव धर्मो वेदाद् विनिर्बभौ ॥ १०९ ॥

विश्वास-प्रस्तुतिः

तथापि भक्तवात्सल्याद्
रक्षितव्या महेश्वर ।
अस्माभिः सर्व एवेमे
गन्तारो नरकानपि ॥ ११० ॥

मूलम्

तथापि भक्तवात्सल्याद् रक्षितव्या महेश्वर ।
अस्माभिः सर्व एवेमे गन्तारो नरकानपि ॥ ११० ॥

विश्वास-प्रस्तुतिः

तस्माद् वै वेदबाह्यानां
रक्षणार्थाय पापिनाम् ।
विमोहनाय शास्त्राणि
करिष्यामो वृषध्वज ॥ १११ ॥

मूलम्

तस्माद् वै वेदबाह्यानां रक्षणार्थाय पापिनाम् ।
विमोहनाय शास्त्राणि करिष्यामो वृषध्वज ॥ १११ ॥

विश्वास-प्रस्तुतिः

एवं संबोधितो रुद्रो
माधवेन मुरारिणा ।
चकार मोहशास्त्राणि
केशवो ऽपि शिवेरितः ॥ ११२ ॥

मूलम्

एवं सम्बोधितो रुद्रो माधवेन मुरारिणा ।
चकार मोहशास्त्राणि केशवो ऽपि शिवेरितः ॥ ११२ ॥

विश्वास-प्रस्तुतिः

कापालं नाकुलं वामं
भैरवं पूर्वपश्चिमम् ।
पञ्चरात्रं पाशुपतं
तथान्यानि सहस्रशः ॥ ११३ ॥

मूलम्

कापालं नाकुलं वामं भैरवं पूर्वपश्चिमम् ।
पञ्चरात्रं पाशुपतं तथान्यानि सहस्रशः ॥ ११३ ॥

विश्वास-प्रस्तुतिः

सृष्ट्वा तान् ऊचतुर् देवौ
कुर्वाणाः शास्त्रचोदितम् ।
पतन्तो निरये घोरे
बहून् कल्पान् पुनः पुनः ॥ ११४ ॥

मूलम्

सृष्ट्वा तानूचतुर्देवौ कुर्वाणाः शास्त्रचोदितम् ।
पतन्तो निरये घोरे बहून् कल्पान् पुनः पुनः ॥ ११४ ॥

विश्वास-प्रस्तुतिः

जायन्तो मानुषे लोके
क्षीणपापचयास्ततः ।
ईश्वराराधनबलाद्
गच्छध्वं सुकृतां गतिम् ।
वर्तध्वं मत्प्रसादेन
नान्यथा निष्कृतिर्हि वः ॥ ११५ ॥

मूलम्

जायन्तो मानुषे लोके क्षीणपापचयास्ततः ।
ईश्वराराधनबलाद् गच्छध्वं सुकृतां गतिम् ।
वर्तध्वं मत्प्रसादेन नान्यथा निष्कृतिर्हि वः ॥ ११५ ॥

विश्वास-प्रस्तुतिः

एवमीश्वरविष्णुभ्यां चोदितास्ते महर्षयः ।
आदेशं प्रत्यपद्यन्त शिरसासुरविद्विषोः ॥ ११६ ॥

चक्रुस्ते ऽन्यानि शास्त्राणि तत्र तत्र रताः पुनः ।
शिष्यानध्यापयामासुर्दर्शयित्वा फलानि तु ॥ ११७ ॥

मोहयन्त इमं लोकमवतीर्य महीतले ।
चकार शङ्करो भिक्षां हितायैषां द्विजैः सह ॥ ११८ ॥

कपालमालाभरणः प्रेतभस्मावगुण्ठितः ।
विमोहयंल्लोकमिमं जटामण्डलमण्डितः ॥ ११९ ॥

निक्षिप्य पार्वतीं देवीं विष्णावमिततेजसि ।
नियोज्याङ्गभवं रुद्रं भैरवं दुष्टनिग्रहे ॥ १२० ॥

दत्त्वा नारायणे देवीं नन्दिनं कुलनन्दिनम् ।
संस्थाप्य तत्र गणपान् देवानिन्द्रपुरोगमान् ॥ १२१ ॥

प्रस्थिते ऽथ महादेवे विष्णुर्विश्वतनुः स्वयम् ।
स्त्रीरूपधारी नियतं सेवते स्म महेश्वरीम् ॥ १२२ ॥

ब्रह्मा हुताशनः शक्रो यमो ऽन्ये सुरपुङ्गवाः ।
सिषेविरे महादेवीं स्त्रीवेशं शोभनं गताः ॥ १२३ ॥

नन्दीश्वरश्च भगवान् शम्भोरत्यन्तवल्लभः ।
द्वारदेशे गणाध्यक्षो यथापूर्वमतिष्ठत ॥ १२४ ॥

एतस्मिन्नन्तरे दैत्यो ह्यन्धको नाम दुर्मतिः ।
आहर्तुकामो गिरिजामाजगामाथ मन्दरम् ॥ १२५ ॥

सम्प्राप्तमन्धकं दृष्ट्वा शङ्करः कालभैरवः ।
न्यषेधयदमेयात्मा कालरूपधरो हरः ॥ १२६ ॥

मूलम्

सम्प्राप्तमन्धकं दृष्ट्वा शङ्करः कालभैरवः ।
न्यषेधयदमेयात्मा कालरूपधरो हरः ॥ १२६ ॥

विश्वास-प्रस्तुतिः

तयोः समभवद् युद्धं सुघोरं रोमहर्षणम् ।
शूलेनोरसि तं दैत्यमाजघान वृषध्वजः ॥ १२७ ॥

ततः सहस्रशो दैत्यः ससर्जान्धकसञ्ज्ञितान् ।
नन्दिषेणादयो दैत्यैरन्धकैरभिनिर्जिताः ॥ १२८ ॥

घण्टाकर्णो मेघनादश्चण्डेशश्चण्डतापनः ।
विनायको मेघवाहः सोमनन्दी च वैद्युतः ॥ १२९ ॥

सर्वे ऽन्धकं दैत्यवरं सम्प्राप्यातिबलान्विताः ।
युयुधुः शूलशक्त्यृष्टिगिरिकूटपरश्वधैः ॥ १३० ॥

भ्रामयित्वाथ हस्ताभ्यां गृहीतचरणद्वयाः ।
दैत्येन्द्रेणातिबलिना क्षिप्तास्ते शतयोजनम् ॥ १३१ ॥

ततो ऽन्धकनिसृष्टास्ते शतशो ऽथ सहस्रशः ।
कालसूर्यप्रतीकाशा भैरवं त्वभिदुद्रुवुः ॥ १३२ ॥

हा हेति शब्दः सुमहान् बभूवातिभयङ्करः ।
युयोध भैरवो रुद्रः शूलमादाय भीषणम् ॥ १३३ ॥

दृष्ट्वान्धकानां सुबलं दुर्जयं तर्जितो हरः ।
जगाम शरणं देवं वासुदेवमजं विभुम् ॥ १३४ ॥

सो ऽसृजद् भगवान् विष्णुर्देवीनां शतमुत्तमम् ।
देवीपार्श्वस्थितो देवो विनाशायामरद्विषाम् ॥ १३५ ॥

तथान्धकसहस्रं तु देवीभिर्यमसादनम् ।
नीतं केशवमाहात्म्याल्लीलयैव रणाजिरे ॥ १३६ ॥

दृष्ट्वा पराहतं सैन्यमन्धको ऽपि महासुरः ।
पराङ्मुखोरणात् तस्मात् पलायत महाजवः ॥ १३७ ॥

ततः क्रीडां महादेवः कृत्वा द्वादशवार्षिकीम् ।
हिताय लोके भक्तानामाजगामाथ मन्दरम् ॥ १३८ ॥

सम्प्राप्तमीश्वरं ज्ञात्वा सर्व एव गणेश्वराः ।
समागम्योपतस्थुस्तं भानुमन्तमिव द्विजाः ॥ १३९ ॥

प्रविश्य भवनं पुण्यमयुक्तानां दुरासदम् ।
ददर्श नन्दिनं देवं भैरवं केशवं शिवः ॥ १४० ॥

प्रणामप्रवणं देवं सो ऽनुगृह्याथ नन्दिनम् ।
आघ्राय मूर्धनीशानः केशवं परिषस्वजे ॥ १४१ ॥

दृष्ट्वा देवी महादेवं प्रीतिविस्फारितेक्षणा ।
ननाम शिरसा तस्य पादयोरीश्वरस्य सा ॥ १४२ ॥

निवेद्य विजयं तस्मै शङ्करायाथ शङ्करी ।
भैरवो विष्णुमाहात्म्यं प्रणतः पार्श्वगो ऽवदत् ॥ १४३ ॥

श्रुत्वा तद्विजयं शम्भुर्विक्रमं केशवस्य च ।
समास्ते भगवानीशो देव्या सह वरासने ॥ १४४ ॥

ततो देवगणाः सर्वे मरीचिप्रमुखा द्विजाः ।
आजग्मुर्मन्दरं द्रुष्टं देवदेवं त्रिलोचनम् ॥ १४५ ॥

येन तद् विजितं पूर्वं देवीनां शतमुत्तमम् ।
समागतं दैत्यसैन्यमीश्दर्शनवाञ्छया ॥ १४६ ॥

दृष्ट्वा वरासनासीनं देव्या चन्द्रविभूषणम् ।
प्रणेमुरादराद् देव्यो गायन्ति स्मातिलालसाः ॥ १४७ ॥

प्रणेमुर्गिरिजां देवीं वामपार्श्वे पिनाकिनः ।
देवासनगतं देवं नारायणमनामयम् ॥ १४८ ॥

दृष्ट्वा सिंहासनासीनं देव्या नारायणेन च ।
प्रणम्य देवमीशानं पृष्टवत्यो वराङ्गनाः ॥ १४९ ॥

कन्या ऊचुः
विश्वास-प्रस्तुतिः

कस्त्वं विभ्राजसे कान्त्या केयं बालरविप्रभा ।
को ऽन्वयं भ्ति वपुषा पङ्कजायतलोचनः ॥ १५० ॥

निशम्य तासां वचनं वृषेन्द्रवरवाहनः ।
व्याजहार महायोगी भूताधिपतिरव्ययः ॥ १५१ ॥

अहं नारायणो गौरी जगन्माता सनातनी ।
विभज्य संस्थितो देवः स्वात्मानं बहुधेश्वरः ॥ १५२ ॥

न मे विदुः परं तत्त्वं देवाद्या न महर्षयः ।
एको ऽयं वेद विश्वात्मा भवानी विष्णुरेव च ॥ १५३ ॥

अहं हि निष्क्रियः शान्तः केवलो निष्परिग्रहः ।
मामेव केशवं देवमाहुर्देवीमथाम्बिकाम् ॥ १५४ ॥

एष धाता विधाता च कारणं कार्यमेव च ।
कर्ता कारयिता विष्णुर्भुक्तिमुक्तिफलप्रदः ॥ १५५ ॥

भोक्ता पुमानप्रमेयः संहर्ता कालरूपधृक् ।
स्त्रष्टा पाता वासुदेवो विश्वात्मा विश्वतोमुखः ॥ १५६ ॥

कृटस्थो ह्यक्षरो व्यापी योगी नारायणः स्वयम् ।
तारकः पुरुषो ह्यात्मा केवलं परमं पदम् ॥ १५७ ॥

सैषा माहेश्वरी गौरी मम शक्तिर्निरञ्जना ।
सान्ता सत्या सदानन्दा परं पदमिति श्रुतिः ॥ १५८ ॥

अस्याः सर्वमिदं जातमत्रैव लयमेष्यति ।
एषैव सर्वभूतानां गतीनामुत्तमा गतिः ॥ १५९ ॥

तयाहं सङ्गतो देव्या केवलो निष्कलः परः ।
पश्याम्यशेषमेवेदं यस्तद् वेद स मुच्यते ॥ १६० ॥

तस्मादनादिमद्वैतं विष्णुमात्मानमीश्वरम् ।
एकमेव विजानीध्वं ततो यास्यथ निर्वृतिम् ॥ १६१ ॥

मन्यन्ते विष्णुमव्यक्तमात्मानं श्रद्धयान्विताः ।
ये भिन्नदृष्ट्यापीशानं पूजयन्तो न मे प्रियाः ॥ १६२ ॥

द्विषन्ति ये जगत्सूतिं मोहिता रौरवादिषु ।
पच्यमाना न मुच्यन्ते कल्पकोटिशतैरपि ॥ १६३ ॥

तसमादशेषभूतानां रक्षको विष्णुरव्ययः ।
यथावदिह विज्ञाय ध्येयः सर्वापदि प्रभुः ॥ १६४ ॥

श्रुत्वा भगवतो वाक्यं देव्यः सर्वगणेश्वराः ।
नेमुर्नारायणं देवं देवीं च हिमशैलजाम् ॥ १६५ ॥

प्रार्थयामासुरीशाने भक्तिं भक्तजनप्रिये ।
भवानीपादयुगले नारायणपदाम्बुजे ॥ १६६ ॥

ततो नारायणं देवं गणेशा मातरो ऽपि च ।
न पश्यन्ति जगत्सूतिं तद्भुतमिवाभवत् ॥ १६७ ॥

तदन्तरे महादैत्यो ह्यन्धको मन्मथार्दितः ।
मोहितो गिरिजां देवीमाहर्तुं गिरिमाययौ ॥ १६८ ॥

अथानन्तवपुः श्रीमान् योगी नारायणो ऽमलः ।
तत्रैवाविरभूद् दैत्यैर्युद्धाय पुरुषोत्तमः ॥ १६९ ॥

कृत्वाथ पार्श्वे भगवन्तमीशो युद्धाय विष्णुं गणदेवमुख्यैः । शिलादपुत्रेण च मातृकाभिः स कालरुद्रो ऽभिजगाम देवः ॥ १७० ॥ त्रिशूलमादाय कृशानुकल्पं स देवदेवः प्रययौ पुरस्तात् । तमन्वयुस्ते गणराजवर्या जगाम देवो ऽपि सहस्रबाहुः ॥ १७१ ॥ रराज मध्ये भगवान् सुराणां विवाहनो वारिदवर्णवर्णः । तदा सुमेरोः शिखराधिरूढ- स्त्रिलोकदृष्टिर्भगवानिवार्कः ॥ १७२ ॥ जगत्यनादिर्भगवानमेयो हरः सहस्राकृतिराविरासीत् । त्रिशूलपाणिर्गगने सुघोषः पपात देवोपरि पुष्पवृष्टिः ॥ १७३ ॥ समागतं वीक्ष्य गणेशराजं समावृतं देवरिपुर्गणेशैः । युयोध शक्रेण समातृकाभि- र् गणैरशेषैरमपप्रधानैः ॥ १७४ ॥ विजित्य सर्वानपि बाहुवीर्यात् स संयुगे शम्भुमनन्तधाम । समाययौ यत्र स कालरुद्रो विमानमारुह्य विहीनसत्त्वः ॥ १७५ ॥
विश्वास-प्रस्तुतिः

दृष्ट्वान्धकं समयान्तं भगवान् गरुडध्वजः ।
व्याजहार महादेवं भैरवं भूतिभूषणम् ॥ १७६ ॥

हन्तुमर्हसि दैत्येशमन्धकं लोककण्टकम् ।
त्वामृते भगवान् शक्तो हन्ता नान्यो ऽस्य विद्यते ॥ १७७ ॥

त्वं हर्ता सर्वलोकानां कालात्मा ह्यैश्वरी तनुः ।
स्तूयते विविधैर्मन्त्रर्वेदविद्भिर्विचक्षणैः ॥ १७८ ॥

स वासुदेवस्य वचो निशम्य भगवान् हरः ।
निरीक्ष्य विष्णुं हनने दैत्यन्द्रस्य मतिं दधौ ॥ १७९ ॥

जगाम देवतानीकं गणानां हर्षमुत्तमम् ।
स्तुवन्ति भैरवं देवमन्तरिक्षचरा जनाः ॥ १८० ॥

जयानन्त महादेव कालमूर्ते सनातन ।
त्वमग्निः सर्वभूतानामन्तश्चरसि नित्यशः ॥ १८१ ॥

त्वं यत्रज्ञस्त्वं वषट्कारस्त्वं धाता हरिरव्ययः ।
त्वं ब्रह्मा त्वं महादेवस्त्वं धाम परमं पदम् ॥ १८२ ॥

ओङ्कारमूर्तिर्योगात्मा त्रयीनेत्रस्त्रिलोचनः ।
महाविभूतिर्देवेशो जयाशेषजगत्पते ॥ १८३ ॥

ततः कालाग्निरुद्रो ऽसौ गृहीत्वान्धकमीश्वरः ।
त्रिशूलाग्रेषु विन्यस्य प्रननर्त सतां गतिः ॥ १८४ ॥

दृष्ट्वान्धकं देवगणाः शूलप्रोतं पितामहः ।
प्रणेमुरीश्वरं देवं भैरवं भवमोचकम् ॥ १८५ ॥

अस्तुवन् मुनयः सिद्धा जगुर्गन्धर्विकिन्नराः ।
अन्तरिक्षे ऽप्सरः सङ्घा नृत्यन्तिस्म मनोरमाः ॥ १८६ ॥

संस्थापितो ऽथशूलाग्रे सो ऽन्धको दग्धकिल्बिषः ।
उत्पन्नाखिलविज्ञानस्तुष्टाव परमेश्वरम् ॥ १८७ ॥

अन्धक उवाच नमामि मूर्ध्ना भगवन्तमेकं समाहिता यं विदुरीशतत्त्वम् । पुरातनं पुण्यमनन्तरूपं कालं कविं योगवियोगहेतुम् ॥ १८८ ॥ दंष्ट्राकरालं दिवि नृत्यमानं हुताशवक्त्रं ज्वलनार्करूपम् । सहस्रपादाक्षिशिरोभियुक्तं भवन्तमेकं प्रणमामि रुद्रम् ॥ १८९ ॥ जयादिदेवामरपूजिताङ्घ्रे विभागहीनामलतत्त्वरूप । त्वमग्निरेको बहुधाभिपूज्यसे वाय्वादिभेदैरखिलात्मरूप ॥ १९० ॥ त्वामेकमाहुः पुरुषं पुराणम् आदित्यवर्णं तमसः परस्तात् । त्वं पश्यसीदं परिपास्यजस्त्रं त्वमन्तको योगिगणाभिजुष्टः ॥ १९१ ॥ एको ऽन्तरात्मा बहुधा निविष्टो देहेषु देहादिविशेषहीनः । त्वमात्मशब्दं परमात्मतत्त्वं भवन्तमाहुः शिवमेव केचित् ॥ १९२ ॥ त्वमक्षरं ब्रह्म परं पवित्र- मानन्दरूपं प्रणवाभिधानम् । त्वमीश्वरो वेदपदेषु सिद्धः स्वयं प्रभो ऽशेषविशेषहीनः ॥ १९३ ॥ त्वमिन्द्ररूपो वरुणाग्निरूपो हंसः प्राणो मृत्युरन्तासि यज्ञः । प्रजापतिर्भगवानेकरुद्रो नीलग्रीवः स्तूयसे वेदविद्भिः ॥ १९४ ॥ नारायणस्त्वं जगतामथादिः पितामहस्त्वं प्रपितामहश्च । वेदान्तगुह्योपनिषत्सु गीतः सदाशिवस्त्वं परमेश्वरो ऽसि ॥ १९५ ॥ नमः परस्तात् तमसः परस्मै परात्मने पञ्चपदान्तराय । त्रिशक्त्यतीताय निरञ्जनाय सहस्रशक्त्यासनसंस्थिताय ॥ १९६ ॥ त्रिमूर्तये ऽनन्दपदात्ममूर्ते जगन्निवासाय जगन्मयाय । नमो ललाटार्पितलोचनाय नमो जनानां हृदि संस्थिताय ॥ १९७ ॥ फणीन्द्रहाराय नमो ऽस्तु तुभ्यं मुनीन्द्रसिद्धार्चितपादयुग्म । ऐश्वर्यधर्मासनसंस्थिताय नमः परान्ताय भवोद्भवाय ॥ १९८ ॥ सहस्रचन्द्रार्कविलोचनाय नमो ऽस्तु ते सोम सुमध्यमाय । नमो ऽस्तु ते देव हिरण्यबाहो नमो ऽम्बिकायाः पतये मृडाय ॥ १९९ ॥ नमो ऽतिगुह्याय गुहान्तराय वेदान्तविज्ञानसुनिश्चिताय । त्रिकालहीनामलधामधाम्ने नमो महेशाय नमः शिवाय ॥ २०० ॥
विश्वास-प्रस्तुतिः

एवं स्तुवन्तं भगवान् शूलाग्रादवरोप्य तम् ।
तुष्टः प्रोवाच हस्ताभ्यां स्पृष्ट्वाथ परमेश्वरः ॥ २०१ ॥

प्रीतो ऽहं सर्वथा दैत्य स्तवेनानेन साम्प्रतम् ।
सम्प्राप्य गाणपत्यं मे सन्निधाने वसामरः ॥ २०२ ॥

अरोगश्छिन्नसन्देहो देवैरपि सुपूजितः ।
नन्दीश्वरस्यानुचरः सर्वदुः खविवर्जितः ॥ २०३ ॥

एवं व्याहृतमात्रे तु देवदेवेन देवताः ।
गणेश्वरा महादेवमन्धकं देवसन्निधौ ॥ २०४ ॥

सहस्रसूर्यसङ्काशं त्रिनेत्रं चन्द्रचिह्नितम् ।
नीलकण्ठं जटामौलिं शूलासक्तमहाकरम् ॥ २०५ ॥

दृष्ट्वा तं तुष्टुवुर्दैत्यमाश्चर्यं परमं गताः ।
उवाच भगवान् विष्णुर्देवदेवं स्मयन्निव ॥ २०६ ॥

स्थाने तव महादेव प्रभावः पुरुषो महान् ।
नेक्षते ऽज्ञानजान् दोषान् गृह्णाति च गुणानपि ॥ २०७ ॥

इतीरितो ऽथ भैरवो गणेशदेवपुङ्गवैः ।
सकेशवः सहान्धको जगाम शङ्करान्तिकम् ॥ २०८ ॥

निरीक्ष्य देवमागतं सशङ्करः सहान्धकम् ।
समाधवं समातृकं जगाम निर्वृतिं हरः ॥ २०९ ॥

प्रगृह्य पाणिनेश्वरो हिरण्यलोचनात्मजम् ।
जगाम यत्र शैलजा विमानमीशवल्लभा ॥ २१० ॥

विलोक्य सा समागतं भवं भवार्तिहारिणम् ।
अवाप सान्धकं सुखं प्रसादमन्धकं प्रति ॥ २११ ॥

अथान्धको महेश्वरीं ददर्श देवपार्श्वगाम् ।
पपात दण्डवत्क्षितौ ननाम पादपद्मयोः ॥ २१२ ॥

नमामि देववल्लभामनादिमद्रिजामिमाम् ।
यतः प्रधानपूरुषौ निहन्ति याखिलं जगत् ॥ २१३ ॥

विभाति या शिवासने शिवेन साकमव्यया ।
हिरण्मये ऽतिनिर्मले नमामि तामिमामजाम् ॥ २१४ ॥

यदन्तराखिलं जगज्जगन्ति यान्ति सङ्क्षयम् ।
नमामि यत्र तामुमामशेषबेदवर्जिताम् ॥ २१५ ॥

न जायते नहीयते न वर्धते च तामुमाम् ।
नमामि या गुणातिगा गिरीशपुत्रिकामिमाम् ॥ २१६ ॥

क्षमस्व देवि शैलजे कृतं मया विमाहतः ।
सुरासुरैर्यदर्चितं नमामि ते पदाम्बुजम् ॥ २१७ ॥

इत्थं भगवती गौरी भक्तिनम्रेण पार्वती ।
संस्तुता दैत्यपतिना पुत्रत्वे जगृहे ऽन्धकम् ॥ २१८ ॥

ततः स मातृभिः सार्धं भैरवो रुद्रसम्भवः ।
जगामानुज्ञया शम्भोः पातालं परमेश्वरः ॥ २१९ ॥

यत्र सा तामसी विष्णोर्मूर्तिः संहारकारिका ।
समास्ते हरिरव्यक्तो नृसिंहाकृतिरीश्वरः ॥ २२० ॥

ततो ऽनन्ताकृतिः शम्भुः शेषेणापि सुपूजितः ।
कालाग्निरुद्रो भगवान् युयोजात्मानमात्मनि ॥ २२१ ॥

युञ्जतस्तस्य देवस्य सर्वा एवाथ मातरः ।
बुभुक्षिता महादेवं प्रणम्याहुस्त्रिशूलिनम् ॥ २२२ ॥

मातर ऊचुः
विश्वास-प्रस्तुतिः

बुभुक्षिता महादेव अनुज्ञा दीयतां त्वया ।
त्रैलोक्यं भक्षयिष्यामो नान्यथा तृप्तिरस्तिनः ॥ २२३ ॥

एतावदुक्त्वा वचनं मातरो विष्णुसम्भवाः ।
भक्षयाञ्चक्रिरे सर्वं त्रैलोक्यं सचराचरम् ॥ २२४ ॥

ततः स भैरवो देवो नृसिंहवपुषं हरिम् ।
दध्यौ नारायणं देवं क्षणात्प्रादुरभूद्धरिः ॥ २२५ ॥

विज्ञापयामास च तं भक्षयन्तीह मातरः ।
निवारयाशु त्रैलोक्यं त्वदीया भगवन्निति ॥ २२६ ॥

संस्मृता विष्णुना देव्यो नृसिंहवपुषा पुनः ।
उपतस्थुर्महादेवं नरसिंहाकृतिं च तम् ॥ २२७ ॥

सम्प्राप्य सन्निधिं विष्णोः सर्वाः संहारकारिकाः ।
प्रददुः शम्भवे शक्तिं भैरवायातितेजसे ॥ २२८ ॥

अपश्यंस्ता जगत्सूतिं नृसिंहमथ भैरवम् ।
क्षणादेकत्वमापन्नं शेषाहिं चापि मातरः ॥ २२९ ॥

व्याजहार हृषीकेशो ये भक्ताः शूलपाणिनः ।
ये च मां संस्मरन्तीह पालनीयाः प्रयत्नतः ॥ २३० ॥

ममैव मूर्तिरतुला सर्वसंहारकारिका ।
महेश्वरांशसम्भूता भुक्तिमुक्तिप्रदा त्वियम् ॥ २३१ ॥

अनन्तो भगवान् कालो द्विधावस्था ममैव तु ।
तामसी राजसी मूर्तिर्देवदेवश्चतुर्मुखः ॥ २३२ ॥

सो ऽयं देवो दुराधर्षः कालो लोकप्रकालनः ।
भक्षयिष्यति कल्पान्ते रुद्रात्मा निखिलं जगत् ॥ २३३ ॥

या सा विमोहिका मूर्तिर्मम नारायणाह्वया ।
सत्त्वोद्रिक्ताजगत् कृत्स्नं संस्थापयति नित्यदा ॥ २३४ ॥

स हि विष्णुः परं ब्रह्म परमात्मा परा गतिः ।
मूलप्रकृतिरव्यक्ता सदानन्देति कथ्यते ॥ २३५ ॥

इत्येवं बोधिता देव्यो विष्णुना विश्वमातरः ।
प्रपेदिरे महादेवं तमेव शरणं हरिम् ॥ २३६ ॥

एतद् वः कथितं सर्वं मयान्धकनिबर्हणम् ।
माहात्म्यं देवदेवस्य भैरवस्यामितौजसः ॥ २३७ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चदशो ऽध्यायः