नैमिषीया ऊचुः
विश्वास-प्रस्तुतिः
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
उत्पत्तिं विस्तरात् सूत ब्रूहि वैवस्वते ऽन्तरे ॥ १ ॥
मूलम्

स शप्तः शम्भुना पूर्वं दक्षः प्राचेतसो नृपः ।
किमकार्षोन्महाबुद्धे श्रोतुमिच्छाम साम्प्रतम् ॥ २ ॥

वक्ष्ये नारायणेनोक्तं पूर्वकल्पानुषङ्गिकम् ।
त्रिकालबद्धं पापघ्नं प्रजासर्गस्य विस्तरम् ॥ ३ ॥

विनिन्द्य पूर्ववैरेण गङ्गाद्वरे ऽयजद् भवम् ॥ ४ ॥

देवाश्च सर्वे भागार्थमाहूता विष्णुना सह ।
सहैव मुनिभिः सर्वैरागता मुनिपुङ्गवाः ॥ ५ ॥

दृष्ट्वा देवकुलं कृत्स्नं शङ्करेण विनागतम् ।
दधीचो नाम विप्रर्षिः प्राचेतसमथाब्रवीत् ॥ ६ ॥

ब्रह्मादयः पिशाचान्ता यस्याज्ञानुविधायिनः ।
स देवः साम्प्रतं रुद्रो विधिना किं न पूज्यते ॥ ७ ॥

सर्वेष्वेव हि यज्ञेषु न भागः परिकल्पितः ।
न मन्त्रा भार्यया सार्धं शङ्करस्येति नेज्यते ॥ ८ ॥

विहस्य दक्षं कुपितो वचः प्राह महामुनिः ।
शृण्वतां सर्वदेवानां सर्वज्ञानमयः स्वयम् ॥ ९ ॥

यतः प्रवृत्तिर्विश्वेषां यश्चास्य परमेश्वरः ।
सम्पूज्यते सर्वयज्ञैर्विदित्वा किल शङ्करः ॥ १० ॥

न ह्यं शङ्करो रुद्रः संहर्ता तामसो हरः ।
नग्नः कपाली विकृतो विश्वात्मा नोपपद्यते ॥ ११ ॥

ईश्वरो हि जगत्स्त्रष्टा प्रभुर्नारायणः स्वराट् ।
सत्त्वात्मको ऽसौ भगवानिज्यते सर्वकर्मसु ॥ १२ ॥

किं त्वया भगवानेष सहस्रांशुर्न दृश्यते ।
सर्वलोकैकसंहर्ता कालात्मा परमेश्वरः ॥ १३ ॥

यं गृणन्तीह विद्वांसो धार्मिका ब्रह्मवादिनः ।
सो ऽयं साक्षी तीव्ररोचिः कालात्मा शाङ्करीतनुः ॥ १४ ॥

एष रुद्रो महादेवः कपर्दे च घृणी हरः ।
आदित्यो भगवान् सूर्यो नीलग्रीवो विलोहितः ॥ १५ ॥

संस्तूयते सहस्रांशुः सामगाध्वर्युहोतृभिः ।
पश्यैनं विश्वकर्माणं रुद्रमूर्ति त्रयीमयम् ॥ १६ ॥

य एते द्वादशादित्या आगता यज्ञभागिनः ।
सर्वे सूर्या इति ज्ञेया न ह्यान्यो विद्यते रविः ॥ १७ ॥

एवमुक्ते तु मुनयः समायाता दिदृक्षवः ।
बाढमित्यब्रुवन् वाक्यं तस्य साहाय्यकारिणः ॥ १८ ॥

तमसाविष्टमनसो न पश्यन्ति वृषध्वजम् ।
सहस्रशो ऽथ शतशो भूय एव विनिन्द्यते ॥ १९ ॥

निन्दन्तो वैदिकान् मन्त्रान् सर्वभूतपतिं हरम् ।
अपूजयन् दक्षवाक्यं मोहिता विष्णुमायया ॥ २० ॥

देवाश्च सर्वे भागार्थमागता वासवादयः ।
नापश्यन् देवमीशानमृते नारायणं हरिम् ॥ २१ ॥

हिरण्यगर्भो भगवान् ब्रह्मा ब्रह्मविदां वरः ।
पश्यतामेव सर्वेषां क्षणादन्तरधीयत ॥ २२ ॥

अन्तर्हिते भगवति दक्षो नारायणं हरिम् ।
रक्षकं जगतां देवं जगाम शरणं स्वयम् ॥ २३ ॥

प्रवर्तयामास च तं यज्ञं दक्षो ऽथ निर्भयः ।
रक्षते भगवान् विष्णुः शरणागतरक्षकः ॥ २४ ॥

पुनः प्राह च तं दक्षं दधीचो भगवानृषिः ।
सम्प्रेक्ष्यर्षिगणान् देवान् सर्वान् वै ब्रह्मविद्विषः ॥ २५ ॥

अपूज्यपूजने चैव पूज्यानां चाप्यपूजने ।
नरः पापमवाप्नोति महद् वै नात्र संशयः ॥ २६ ॥

असतां प्रग्रहो यत्र सतां चैव विमानना ।
दण्डो देवकृतस्तत्र सद्यः पतति दारुणः ॥ २७ ॥

एवमुक्त्वा तु विप्रर्षिः शशापेश्वरविद्विषः ।
समागतान् ब्राह्मणांस्तान् दक्षसाहाय्यकारिणः ॥ २८ ॥

यस्माद् बहिष्कृता वेदा भवद्भिः परमेश्वरः ।
विनिन्दितो महादेवः शङ्करो लोकवन्दितः ॥ २९ ॥

भविष्यध्वं त्रयीबाह्याः सर्वे ऽपीश्वरविद्विषः ।
निन्दन्तो ह्यैश्वरं मार्गं कुशास्त्रासक्तमानसाः ॥ ३० ॥

मिथ्याधीतसमाचारा मिथ्याज्ञानप्रलापिनः ।
प्राप्य घोरं कलियुगं कलिजैः किल पीडिताः ॥ ३१ ॥

त्यक्त्वा तपोबलं कृत्स्नं गच्छध्वं नरकान् पुनः ।
भविष्यति हृषीकेशः स्वाश्रितो ऽपि पराङ्मुखः ॥ ३२ ॥

एवमुक्त्वा तु विप्रर्षिर्विरराम तपोनिधिः ।
जगाम मनसा रुद्रमशेषाघविनाशनम् ॥ ३३ ॥

एतस्मिन्नन्तरे देवी महादेवं महेश्वरम् ।
पतिं पशुपतिं देवं ज्ञात्वैतत् प्राह सर्वदृक् ॥ ३४ ॥

दक्षो यज्ञेन यजते पिता मे पूर्वजन्मनि ।
विनिन्द्य भवतो भावमात्मानं चापि शङ्कर ॥ ३५ ॥

देवाः सहर्षिभिश्चासंस्तत्र साहाय्यकारिणः ।
विनाशयाशु तं यज्ञं वरमेकं वृणोम्यहम् ॥ ३६ ॥

एवं विज्ञापितो देव्या देवो देववरः प्रभुः ।
ससर्ज सहसा रुद्रं दक्षयज्ञजिघांसया ॥ ३७ ॥

सहस्रशीर्षपादं च सहस्राक्षं महाभुजम् ।
सहस्रपाणिं दुर्धर्षं युगान्तानलसन्निभम् ॥ ३८ ॥

दंष्ट्राकरालं दुष्प्रेक्ष्यं शङ्खचक्रगदाधरम् ।
दण्डहस्तं महानादं शार्ङ्गिणं भूतिभूषणम् ॥ ३९ ॥

वीरभद्र इति ख्यातं देवदेवसमन्वितम् ।
स जातमात्रो देवेशमुपतस्थे कृताञ्जलिः ॥ ४० ॥

तमाह दक्षस्य मखं विनाशय शिवोस्त्विति ।
विनिन्द्य मां स यजते गङ्गाद्वारे गणेश्वर ॥ ४१ ॥

ततो बन्धुप्रयुक्तेन सिंहेनैकेन लीलया ।
वीरभद्रेण दक्षस्य विनाशमगमत् क्रतुः ॥ ४२ ॥

मन्युना चोमया सृष्टा भद्रकाली महेश्वरी ।
तया च सार्धं वृषभं समारुह्य ययौ गणः ॥ ४३ ॥

अन्ये सहस्रशो रुद्रा निसृष्टास्तेन धीमता ।
रोमजा इति विख्यातास्तस्य साहाय्यकारिणः ॥ ४४ ॥

शूलशक्तिगदाहस्ताष्टङ्कोपलकरास्तथा ।
कालाग्निरुद्रसङ्काशा नादयन्तो दिशो दश ॥ ४५ ॥

सर्वे वृषासनारूढाः सभार्याश्चातिभीषणाः ।
समावृत्य गणश्रेष्ठं ययुर्दक्षमखं प्रति ॥ ४६ ॥

सर्वे शम्प्राप्य तं देशं गङ्गाद्वारमिति श्रुतम् ।
ददृशुर्यज्ञदेशं तं दक्षस्यामिततेजसः ॥ ४७ ॥

देवाङ्गनासहस्राढ्यमप्सरोगीतनादितम् ।
वीणावेणुनिनादाढ्यं वेदवादाभिनादितम् ॥ ४८ ॥

दृष्ट्वा सहर्षिभिर्देवैः समासीनं प्रजापतिम् ।
उवाच भद्रया रुद्रैर्वोरभद्रः स्मयन्निव ॥ ४९ ॥

वयं ह्यनुचराः सर्वे शर्वस्यामिततेजसः ।
भागाभिलप्सया प्राप्ता भागान् यच्छध्वमीप्सितान् ॥ ५० ॥

भागो भवद्भ्यो देयस्तु नास्मभ्यमिति कथ्यताम् ।
तं ब्रूताज्ञापयति यो वेत्स्यामो हि वयं ततः ॥ ५१ ॥

एवमुक्ता गणेशेन प्रजापतिपुरः सराः ।
देवा ऊचुर्यज्ञभागे न च मन्त्रा इति प्रभुम् ॥ ५२ ॥

मन्त्रा ऊचुः सुरान् यूयं तमोपहतचेतसः ।
ये नाध्वरस्य राजानं पूजयध्वं महेश्वरम् ॥ ५३ ॥

ईश्वरः सर्वभूतानां सर्वभूततनुर्हरः ।
पूज्यते सर्वयज्ञेषु सर्वाभ्युदसिद्धिदः ॥ ५४ ॥

एवमुक्ता अपीशानं मायया नष्टचेतसः ।
न मेनिरे ययुर्मन्त्रा देवान् मुक्त्वा स्वमालयम् ॥ ५५ ॥

ततः स रुद्रो भगवान् सभार्यः सगणेश्वरः ।
स्पृशन् कराभ्यां ब्रह्मर्षि दधीचं प्राह देवताः ॥ ५६ ॥

मन्त्राः प्रमाणं न कृता युष्माभिर्बलगर्वितैः ।
यस्मात् प्रसह्य तस्माद् वो नाशयाम्यद्य गर्वितम् ॥ ५७ ॥

इत्युक्त्वा यज्ञशालां तां ददाह गणपुङ्गवः ।
गणेश्वराश्च सङ्क्रुद्धा यूपानुत्पाट्य चिक्षिपुः ॥ ५८ ॥

प्रस्तोत्रा सह होत्रा च अश्वं चैव गणेश्वराः ।
गृहीत्वा भीषणाः सर्वे गङ्गास्त्रोतसि चिक्षिपुः ॥ ५९ ॥

वीरभद्रो ऽपि दीप्तात्मा शक्रस्योद्यच्छतः करम् ।
व्यष्टम्भयददीनात्मा तथान्येषां दिवौकसाम् ॥ ६० ॥

भगस्य नेत्रे चोत्पाट्य करजाग्रेण लीलया ।
निहत्य मुष्टिना दन्तान् पूष्णश्चैवमपातयत् ॥ ६१ ॥

तथा चन्द्रमसं देवं पादाङ्गुष्ठेन लीलया ।
धर्षयामास बलवान् स्मयमानो गणेश्वरः ॥ ६२ ॥

वह्नेर्हस्तद्वयं छित्त्वा जिह्वामुत्पाट्य लीलया ।
जघान मूर्ध्नि पादेन मुनीनपि मुनीश्वराः ॥ ६३ ॥

तथा विष्णुं सहरुडं समायान्तं महाबलः ।
विव्याध निशेतैर्बाणैः स्तम्भयित्वा सुदर्शनम् ॥ ६४ ॥

समालोक्य महाबाहुरागत्य गरुडो गणम् ।
जघान पक्षैः सहसा ननादाम्बुनिधिर्यथा ॥ ६५ ॥

ततः सहस्रशो भद्रः ससर्ज गरुडान् स्वयम् ।
वैनतेयादभ्यधिकान् गरुडं ते प्रदुद्रुवुः ॥ ६६ ॥

तान् दृष्ट्वा गरुडो धीमान् पलायत महाजवः ।
विसृज्य माधवं वेगात् तदद्भुतमिवाभवत् ॥ ६७ ॥

अन्तर्हिते वैनतेये भगवान् पद्मसम्भवः ।
आगत्य वारयामास वीरभद्रं च केशवम् ॥ ६८ ॥
मूलम्
अन्तर्हिते वैनतेये भगवान् पद्मसम्भवः ।
आगत्य वारयामास वीरभद्रं च केशवम् ॥ ६८ ॥
विश्वास-प्रस्तुतिः
प्रसादयामास च तं गौरवात् परमेष्ठिनः ।
संस्तूय भगवानीशः साम्बस्तत्रागमत् स्वयम् ॥ ६९ ॥

वीक्ष्य देवाधिदेवं तं साम्बं सर्वगणैर्वृतम् ।
तुष्टाव भगवान् ब्रह्मा दक्षः सर्वे दिवौकसः ॥ ७० ॥

विशेषात् पार्वतीं देवीमीश्वरार्धशरीरिणीम् ।
स्तोत्रैर्नानाविधैर्दक्षः प्रणम्य च कृताञ्जलिः ॥ ७१ ॥

ततो भगवती देवी प्रहसन्ती महेश्वरम् ।
प्रसन्नमानसा रुद्रं वचः प्राह घृणानिधिः ॥ ७२ ॥

त्वमेव जगतः स्त्रष्टा शासिता चैव रक्षकः ।
अनुग्राह्यो भगवता दक्षश्चापि दिवौकसः ॥ ७३ ॥

ततः प्रहस्य भगवान् कपर्दे नीललोहितः ।
उवाच प्रणतान् देवान् प्राचेतसमथो हरः ॥ ७४ ॥

गच्छध्वं देवताः सर्वाः प्रसन्नो भवतामहम् ।
सम्पूज्यः सर्वयज्ञेषु न निन्द्यो ऽहं विशेषतः ॥ ७५ ॥

त्वं चापि शृणु मे दक्ष वचनं सर्वरक्षणम् ।
त्यक्त्वा लोकैषणामेतां मद्भक्तो भव यत्नतः ॥ ७६ ॥

भविष्यसि गणेशानः कल्पान्ते ऽनुग्रहान्मम ।
तावत् तिष्ठ ममादेशात् स्वाधिकारेषु निर्वृतः ॥ ७७ ॥

एवमुक्त्वा स भगवान् सपत्नीकः सहानुगः ।
अदर्शनमनुप्राप्तो दक्षस्यामिततेजसः ॥ ७८ ॥

अन्तर्हिते महादेवे शङ्करे पद्मसम्भवः ।
व्याजहार स्वयं दक्षमशेषजगतो हितम् ॥ ७९ ॥

किं तवापगतो मोहः प्रसन्ने वृषभध्वजे ।
यदाचष्ट स्वयं देवः पालयैतदतन्द्रितः ॥ ८० ॥

सर्वेषामेव भूतानां हृद्येष वसतीश्वरः ।
पश्यन्त्येनं ब्रह्मभूता विद्वांसो वेदवादिनः ॥ ८१ ॥

स आत्मा सर्वभूतानां स बीजं परमा गतिः ।
स्तूयते वैदिकैर्मन्त्रैर्देवदेवो महेश्वरः ॥ ८२ ॥

तमर्चयति यो रुद्रं स्वात्मन्येकं सनातनम् ।
चेतसा भावयुक्तेन स याति परमं पदम् ॥ ८३ ॥

तस्मादनादिमध्यान्तं विज्ञाय परमेश्वरम् ।
कर्मणा मनसा वाचा समाराधय यत्नतः ॥ ८४ ॥

यत्नात् परिहरेशस्य निन्दामात्मविनाशनीम् ।
भवन्ति सर्वदोषाय निन्दकस्य क्रिया यतः ॥ ८५ ॥

यस्तवैष महायोगी रक्षको विष्णुरव्ययः ।
स देवदेवो भगवान् महादेवो न संशयः ॥ ८६ ॥
मूलम्
यस्तवैष महायोगी रक्षको विष्णुरव्ययः ।
स देवदेवो भगवान् महादेवो न संशयः ॥ ८६ ॥
विश्वास-प्रस्तुतिः
मन्यन्ते ये जगद्योनिं विभिन्नं विष्णुमीश्वरात् ।
मोहादवेदनिष्ठत्वात् ते यान्ति नरकं नराः ॥ ८७ ॥

वेदानुवर्तिनो रुद्रं देवं नारायणं तथा ।
एकीभावेन पश्यन्ति मुक्तिभाजो भवन्ति ते ॥ ८८ ॥

यो विष्णुः स स्वयं रुद्रो यो रुद्रः स जनार्दनः ।
इति मत्वा यजेद् देवं स याति परमां गतिम् ॥ ८९ ॥

सृजत्येतज्जगत् सर्वं विष्णुस्तत् पश्यतीश्वरः ।
इत्थं जगत् सर्वमिदं रुद्रनारायणोद्भवम् ॥ ९० ॥

तस्मात् त्यक्त्वा हरेर्निन्दां विष्णावपि समाहितः ।
समाश्रयेन्महादेवं शरण्यं ब्रह्मवादिनाम् ॥ ९१ ॥

उपश्रुत्याथ वचनं विरिञ्चस्य प्रजापतिः ।
जगाम शरणं देवं गोपतिं कृत्तिवाससम् ॥ ९२ ॥

ये ऽन्ये शापाग्निनिर्दग्धा दधीचस्य महर्षयः ।
द्विषन्तो मोहिता देवं सम्बभूवुः कलिष्वथ ॥ ९३ ॥

त्यक्त्वा तपोबलं कृत्स्नं विप्राणां कुलसम्भवाः ।
पूर्वसंस्कारमहात्म्याद् ब्रह्मणो वचनादिह ॥ ९४ ॥

निपात्यमानाः कालेन सम्प्राप्यादित्यवर्चसम् ।
ब्रह्माणं जगतामीशमनुज्ञाताः स्वयम्भुवा ॥ ९५ ॥

समाराध्य तपोयोगादीशानं त्रिदशाधिपम् ।
भविष्यन्ति यथा पूर्वं शङ्करस्य प्रसादतः ॥ ९६ ॥

एतद् वः कथितं सर्वं दक्षयज्ञनिषूदनम् ।
शृणुध्वं दक्षपुत्रीणां सर्वासां चैव सन्ततिम् ॥ ९७ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चतुर्दशो ऽध्यायः