सूत उवाच
विश्वास-प्रस्तुतिः
प्रियव्रतोत्तानपादौ मनोः स्वायम्भुवस्य तु ।
धर्मज्ञौ सुमहावीर्यौ शतरूपा व्यजीजनत् ॥ १ ॥
मूलम्

ततस्तूत्तानपादस्य ध्रुवो नाम सुतो ऽभवत् ।
भक्तो नारायणे देवे प्राप्तवान् स्थानमुत्तमम् ॥ २ ॥

ध्रुवात् श्लिष्टिञ्च भव्यं च भार्या शम्भुर्व्यजायत ।
श्लिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्पषान् ॥ ३ ॥

वसिष्ठवचनाद् देवी तपस्तप्त्वा सुदुश्चरम् ।
आराध्य पुरुषं विष्णुं शालग्रामे जनार्दनम् ॥ ४ ॥

रिपुं रिपुञ्जयं विप्रं वृकलं वृषतेजसम् ।
नारायणपरान् शुद्धान् स्वधर्मपरिपालकान् ॥ ५ ॥

सो ऽजीजनत् पुष्करिण्यां वैरण्यां चाक्षुषं मनुम् ।
प्रजापतेरात्मजायां वीरणस्य महात्मनः ॥ ६ ॥

मनोरजायन्त दश नड्वलायां महौजसः ।
कन्यायां सुमहावीर्या वैराजस्य प्रजापतेः ॥ ७ ॥

ऊरुः पूरुः शतद्युम्नस्तपस्वी सत्यवाक् शुचिः ।
अग्निष्टुदतिरात्रश्च सुद्युम्नश्चाभिमन्युकः ॥ ८ ॥

ऊरोरजनयत् पुत्रान् षडाग्नेयी महाबलान् ।
अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं शिवम् ॥ ९ ॥

अङ्गाद् वेनो ऽभवत् पश्चाद् बैन्यो वेनादजायत ।
यो ऽसौ पृथुरिति ख्यातः प्रजापालो महाबलः ॥ १० ॥

येन दुग्धा मही पूर्वं प्राजानां हितकारणात् ।
नियोगाद् ब्रह्मणः सार्धं देवेन्द्रेण महौजसा ॥ ११ ॥

वेनपुत्रस्य वितते पुरा पैतामहे मखे ।
सूतः पौराणिको जज्ञे मायारूपः स्वयं हरिः ॥ १२ ॥

प्रवक्ता सर्वशास्त्राणां धर्मज्ञो गुणवत्सलः ।
तं मां नित्त मुनिश्रेष्ठाः पूर्वोद्भूतं सनातनम् ॥ १३ ॥

अस्मिन् मन्वन्तरे व्यासः कृष्णद्वैपायनः स्वयम् ।
श्रावयामास मां प्रीत्या पुराणं पुरुषो हरिः ॥ १४ ॥

मदन्वये तु ये सूताः सम्भूता वेदवर्जिताः ।
तेषां पुराणवक्तृत्वं वृत्तिरासीदजाज्ञया ॥ १५ ॥

स तु वैन्यः पृथुर्धोमान् सत्यसन्धो जितेन्द्रियः ।
सार्वभौमो महातेजाः स्वधर्मपरिपालकः ॥ १६ ॥

तस्य बाल्यात् प्रभृत्येव भक्तिर्नारायणे ऽभवत् ।
गोवर्धनगिरिं प्राप्य तपस्तेपे जितेन्द्रियः ॥ १७ ॥

तपसा भगवान् प्रीतः शङ्खचक्रगदाधरः ।
आगत्य देवो राजानं प्राह दामोदरः स्वयम् ॥ १८ ॥

मत्प्रसादादसन्दिग्धं पुत्रौ तव भविष्यतः ।
एकमुक्त्वा हृषीकेशः स्वकीयां प्रकृतिं गतः ॥ १९ ॥

वैन्यो ऽपि वेदविधिना निश्चलां भक्तिमुद्वहन् ।
अपालयत् स्वकं राज्यं न्यायेन मधुसूदने ॥ २० ॥

अचिरादेव तन्वङ्गो भार्या तस्य सुचिस्मिता ।
खिखण्डनं हविर्धानमन्तर्धाना व्यजायत ॥ २१ ॥

शिखण्डनो ऽभवत् पुत्रः सुशील इति विश्रुतः ।
धार्मिको रूपसम्पन्नो वेदवेदाङ्गपारगः ॥ २२ ॥

सो ऽधीत्य विधिवद् वेदान् धर्मेण तपसि स्थितः ।
मतिं चक्रे भाग्ययोगात् सन्न्यां प्रति धर्मवित् ॥ २३ ॥

स कृत्वा तीर्थसंसेवां स्वाध्याये तपसि स्थितः ।
जगाम हिमवत्पृष्ठं कदाचित् सिद्धसेवितम् ॥ २४ ॥

तत्र धर्मपदं नाम धर्मसिद्धिप्रदं वनम् ।
अपश्यद् योगिनां गम्यमगम्यं ब्रह्मविद्विषाम् ॥ २५ ॥

तत्र मन्दाकिनी नाम सुपुण्या विमला नदी ।
पद्मोत्पलवनोपेता सिद्धाश्रमविभूषिता ॥ २६ ॥

स तस्या दक्षिणे तीरे मुनीन्द्रैर्योगिभिर्वृतम् ।
सुपुण्यमाश्रमं रम्यमपश्यत् प्रीतिसंयुतः ॥ २७ ॥

मन्दाकिनीजले स्त्रात्वा सन्तर्प्य पितृदेवताः ।
अर्चयित्वा महादेवं पुष्पैः पद्मोत्पलादिभिः ॥ २८ ॥

ध्यात्वार्कंसंस्थमीशानं शिरस्याधाय चाञ्जलिम् ।
सम्प्रेक्षमाणो भास्वन्तं तुष्टाव परमेश्वरम् ॥ २९ ॥

रुद्राध्यायेन गिरिशं रुद्रस्य चरितेन च ।
अन्यैश्च विविधैः स्तोत्रैः शाम्भवैर्वेदसम्भवैः ॥ ३० ॥

अथास्मिन्नन्तरे ऽपश्यत् तमायान्तं महामुनिम् ।
श्वेताश्वतरनामानं महापाशुपतोत्तमम् ॥ ३१ ॥

भस्मसन्दिग्धसवाङ्गं कौपीनाच्छादनान्वितम् ।
तपसा कर्षितात्मानं शुक्लयज्ञोपवीतिनम् ॥ ३२ ॥

समाप्य संस्तवं शम्भोरानन्दास्त्राविलेक्षणः ।
ववन्दे शिरसा पादौ प्राञ्जलिर्वाक्यमब्रवीत् ॥ ३३ ॥

धन्यो ऽस्म्यनुगृहीतो ऽस्मि यन्मे साक्षान्मुनीश्वरः ।
योगीश्वरो ऽद्य भगवान् दृष्टो योगविदां वरः ॥ ३४ ॥

अहो मे सुमहद्भाग्यं तपांसि सफलानि मे ।
किं करिष्यामि शिष्यो ऽहं तव मां पालयानघ ॥ ३५ ॥

सो ऽनुगृह्याथ राजानं सुशीलं शीलसंयुतम् ।
शिष्यत्वे परिजग्राह तपसा क्षीणकल्पषम् ॥ ३६ ॥

सान्न्यासिकं विधिं कृत्स्नं कारयित्वा विचक्षणः ।
ददौ तदैश्वरं ज्ञानं स्वशाखाविहितं व्रतम् ॥ ३७ ॥

अशेषवेदसारं तत् पशुपाशविमोचनम् ।
अन्त्याश्रममिति ख्यातं ब्रह्मादिभिरनुष्ठितम् ॥ ३८ ॥

उवाच शिष्यान् सम्प्रेक्ष्य ये तदाश्रमवासिनः ।
ब्राह्मणान् क्षत्रियान् वैश्यान् ब्रह्मचर्यपरायणान् ॥ ३९ ॥

मया प्रवर्तितां शाखामधीत्यैवेह योगिनः ।
समासते महादेवं ध्यायन्तो निष्कलं शिवम् ॥ ४० ॥

इह देवो महादेवो रममाणः सहोमया ।
अध्यास्ते भगवानीशो भक्तानामनुकम्पया ॥ ४१ ॥

इहाशेषजगद्धाता पुरा नारायणः स्वयम् ।
आराधयन्महादेवं लोकानां हितकाम्यया ॥ ४२ ॥

इहैव देवमीशानं देवानामपि दैवतम् ।
आराध्य महतीं सिद्धिं लेभिरे देवदानवाः ॥ ४३ ॥

इहैव मुनयः पूर्वं मरीच्याद्या महेश्वरम् ।
दृष्ट्वा तपोबलाज्ज्ञानं लेभिरे सार्वकालिकम् ॥ ४४ ॥

तस्मात् त्वमपि राजेन्द्र तपोयोगसमन्वितः ।
तिष्ठ नित्यं मया सार्धं ततः सिद्धिमवाप्स्यसि ॥ ४५ ॥

एवमाभाष्य विप्रेन्द्रो देवं ध्यात्वा पिनाकिनम् ।
आचचक्षे महामन्त्रं यथावत् स्वार्थसिद्धये ॥ ४६ ॥

सर्वपापोपशमनं वेदसारं विमुक्तिदम् ।
अग्निरित्यादिकं पुण्यमृषिभिः सम्प्रवर्तितम् ॥ ४७ ॥

सो ऽपि तद्वचनाद् राजा सुशीलः श्रद्धयान्वितः ।
साक्षात् पाशुपतो भूत्वा वेदाभ्यासरतो ऽभवत् ॥ ४८ ॥

भस्मोद्धूलितसर्वाङ्गः कन्दमूलफलाशनः ।
शान्तो दान्तो जितक्रोधः सन्न्यासविधिमाश्रितः ॥ ४९ ॥

हविर्धानस्तथाग्नेय्यां जनयामास सत्सुतम् ।
प्राचीनबर्हिषं नाम्ना धनुर्वेदस्य पारगम् ॥ ५० ॥

प्राचीनबर्हिर्भागवान् सर्वशस्त्रभृतां वरः ।
समुद्रतनयायां वै दश पुत्रानजीजनत् ॥ ५१ ॥

प्रचेतसस्ते विख्याता राजानः प्रथितैजसः ।
अधीतवन्तः स्वं वेदं नारायणपरायणाः ॥ ५२ ॥

दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः ।
दक्षो जज्ञे महाभागो यः पूर्वं ब्रह्मणः सुतः ॥ ५३ ॥

स तु दक्षो महेशेन रुद्रेण सह धीमता ।
कृत्वा विवादं रुद्रेण शप्तः प्राचेतसो ऽभवत् ॥ ५४ ॥

समायान्तं महादेवो दक्षं देव्या गृहं हरः ।
दृष्ट्वा यथोचितां पूजां दक्षाय प्रददौ स्वयम् ॥ ५५ ॥

तदा वै तमसाविष्टः सो ऽदिकां ब्रह्मणः सुतः ।
पूजामनर्हामन्विच्छन् जगाम कुपितो गृहम् ॥ ५६ ॥

कदाचित् स्वगृहं प्राप्तां सतीं दक्षः सुदुर्मनाः ।
भर्त्रा सह विनिन्द्यैनां भर्त्सयामसा वै रुषा ॥ ५७ ॥

अन्ये जामातरः श्रेष्ठा भर्तुस्तव पिनाकिनः ।
त्वमप्यसत्सुतास्माकं गृहाद् गच्छ यथागतम् ॥ ५८ ॥

तस्य तद्वाक्यमाकर्ण्य सा देवी शङ्करप्रिया ।
विनिन्द्य पितरं दक्षं ददाहात्मानमात्मना ॥ ५९ ॥

प्रणम्य पशुभर्तारं भर्तारं कृत्तिवाससम् ।
हिमवद्दुहिता साभूत् तपसा तस्य तोषिता ॥ ६० ॥

ज्ञात्वा तद्भागवान् रुद्रः प्रपन्नार्तिहरो हरः ।
शशाप दक्षं कुपितः समागत्याथ तद्गृहम् ॥ ६१ ॥

त्यक्त्वा देहमिमं ब्रह्मन् क्षत्रियाणां कुलोद्भवः ।
स्वस्यां सुतायां मूढात्मा पुत्रमुत्पादयिष्यसि ॥ ६२ ॥

एवमुक्त्वा महादेवो ययौ कालासपर्वतम् ।
स्वायम्भुवो ऽपि कालेन दक्षः प्राचेतसो ऽभवत् ॥ ६३ ॥

एतद् वः कथितं सर्वं मनोः स्वायम्भुवस्य तु ।
विसर्गं दक्षपर्यन्तं शृण्वतां पापनाशनम् ॥ ६४ ॥

इति श्रीकूर्मपुराणे षट्माहस्त्र्यां संहितायां पूर्वविभागे त्रयोदशो ऽध्यायः