सूत उवाच
विश्वास-प्रस्तुतिः
भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया ।
देवौ धाताविधातारौ मेरोर्जामातरौ तथा ॥ १ ॥
मूलम्

आयतिर्नियतिर्मेरोः कन्ये चैव महात्मनः ।
धाताविधात्रोस्ते भार्ये तयोर्जातौ सुतावुभौ ॥ २ ॥

प्राणश्चैव मृकण्डुश्च मार्कण्डेयो मृकण्डुतः ।
तथा वेदशिरा नाम प्राणस्य द्युतिमान् सुतः ॥ ३ ॥

मरीचेरपि सम्भूतिः पौर्णमासमसूयत ।
कन्याचतुष्टयं चैव सर्वलक्षणसंयुतम् ॥ ४ ॥

तुष्टिर्ज्येष्ठा तथा वृष्टिः कृष्टिश्चापचितिस्तथा ।
विरजाः पर्वश्चैव पौर्णमासस्य तौ सुतौ ॥ ५ ॥

क्षमा तु सुषुवे पुत्रान् पुलहस्य प्रजापतेः ।
कर्दमं च वरीयांसं सहिष्णुं मुनिसत्तमम् ॥ ६ ॥

तथैव च कनीयासं तपोनिर्धूतकल्पषम् ।
अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्पषान् ॥ ७ ॥

सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् ।
स्मृतिश्चाङ्गिरसः पुत्रीर्जज्ञे लक्षणसंयुताः ॥ ८ ॥

सिनीवालीं कुहूं चैव राकामनुमतिं तथा ।
प्रीत्यां पुलस्त्यो भगवान् दत्तात्रिमसृजत् प्रभुः ॥ ९ ॥

पूर्वजन्मनि सो ऽगस्त्यः स्मृतः स्वायम्भुवे ऽन्तरे ।
वेदबाहुं तथा कन्यां सन्नतिं नाम नामतः ॥ १० ॥

पुत्राणां षष्टिसाहस्त्रं सन्ततिः सुषुवे क्रतोः ।
ते चोर्ध्वरेतसः सर्वे बालखिल्या इति स्मृताः ॥ ११ ॥

वसिष्ठश्च तथोर्जायां सप्तपुत्रानजीजनत् ।
कन्यां च पुण्डरीकाक्षां सर्वेशोभासमन्विताम् ॥ १२ ॥

रजोहश्चोर्ध्वबाहुश्च सवनश्चानघस्तथा ।
सुतपाः शुक्र इत्येते सप्त पुत्रा महौजसः ॥ १३ ॥

यो ऽसौ रुद्रात्मको वह्निर्ब्रह्मणस्तनयो द्विजाः ।
स्वाहा तस्मात् सुतान् लेभे त्रीनुदारान् महौजसः ॥ १४ ॥

पावकः पवमानश्च शुचिरग्निश्च ते त्रयः ।
निर्मथ्यः पवमानः स्याद् वैद्युतः पावकः स्मृतः ॥ १५ ॥

यश्चासौ तपते सूर्यः शुचिरग्निस्त्वसौ स्मृतः ।
तेषां तु सन्ततावन्ये चत्वारिंश्च पञ्च च ॥ १६ ॥

पावकः पवमानश्च शुचिस्तेषां पिता च यः ।
एते चैकोनपञ्चाशद् वह्नयः परिकीर्तितः ॥ १७ ॥

सर्वे तपस्विनः प्रोक्ताः सर्वे यज्ञेषु भागिनः ।
रुद्रात्मकाः स्मृताः सर्वे त्रिपुण्ड्राङ्कितमस्तकाः ॥ १८ ॥

अयज्वानश्च यज्वानः पितरो ब्रह्मणः स्मृताः ।
अग्निष्वात्ता बर्हिषदो द्विधा तेषां व्यवस्थितिः ॥ १९ ॥

तेभ्यः स्वधा सुतां जज्ञे मेनां वैतरणीं तथा ।
ते उभे ब्रह्मवादिन्यौ योगिन्यौ मुनिसत्तमाः ॥ २० ॥

असूत मेना मैनाकं क्रौञ्चं तस्यानुजं तथा ।
गङ्गा हिमवतो जज्ञे सर्वलोकैकपावनी ॥ २१ ॥

स्वयोगाग्निबलाद् देवीं लेभे पुत्रीं महेश्वरीं ।
यथावत् कथितं पूर्वं देव्या माहात्म्यमुत्तमम् ॥ २२ ॥

एषा दक्षस्य कन्यानां मयापत्यानुसन्ततिः ।
व्याख्याता भवतामद्य मनोः सृष्टिं निबोधत ॥ २३ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वादशो ऽध्यायः