श्रीकूर्म उवाच
विश्वास-प्रस्तुतिः
एवं सृष्ट्वा परीच्यादीन् देवदेवः पितामहः ।
सहैव मानसैः पुत्रैस्तताप परमं तपः ॥ १ ॥
मूलम्

तस्यैवं तपतो वक्त्राद् रुद्रः कालाग्निसन्निभः ।
त्रिशूलपाणिरीशानः प्रदुरासीत् त्रिलोचनः ॥ २ ॥

अर्धनारीनरवपुः दुष्प्रेक्ष्यो ऽतिभयङ्करः ।
विभजात्मानमित्युक्त्वा ब्रह्मा चान्तर्दधे भयात् ॥ ३ ॥

तथोक्तो ऽसौ द्विधा स्त्रीत्वं पुरुषत्वमथाकरोत् ।
बिभेद पुरुषत्वं च दशधा चैकधा पुनः ॥ ४ ॥

एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ।
कपालोशादयो विप्रा देवकार्ये नियोजिताः ॥ ५ ॥

सौम्यासौम्यैस्तथा शान्ताशान्तैः स्त्रीत्वं च स प्रभुः ।
बिभेद बहुधा देवः स्वरूपैरसितैः सितैः ॥ ६ ॥

ता वै विभूतयो विप्रा विश्रुताः शक्तयो भुवि ।
लक्ष्म्यादयो याभिरीशा विश्वंव्याप्नोति शाङ्करी ॥ ७ ॥

विभज्य पुररीशानी स्वात्मानं शङ्कराद् विभोः ।
महादेवनियोगेन पितामहमुपस्थिता ॥ ८ ॥

तामाह भगवान् ब्रह्मा दक्षस्य दुहिता भव ।
सापि तस्य नियोगेन प्रादुरासीत् प्रजापतेः ॥ ९ ॥

नियोगाद् ब्रह्मणो देवीं ददौ रुद्राय तां सतीम् ।
दक्षाद् रुद्रो ऽपि जग्राह स्वकीयामेव शूलभृत् ॥ १० ॥

प्रजापतिं विनिन्द्यैषा कालेन परमेश्वरी ।
मेनायामभवत् पुत्री तदा हिमवतः सती ॥ ११ ॥

स चापि पर्वतवरो ददौ रुद्राय पार्वतीम् ।
हिताय सर्वदेवानां त्रिलोकस्यात्मनो ऽपि च ॥ १२ ॥

सैषा माहेश्वरी देवी शङ्करार्धशरीरिणी ।
शिवा सती हैमवती सुरासुरनमस्कृता ॥ १३ ॥
मूलम्
सैषा माहेश्वरी देवी शङ्करार्धशरीरिणी ।
शिवा सती हैमवती सुरासुरनमस्कृता ॥ १३ ॥
विश्वास-प्रस्तुतिः
तस्याः प्रभावमतुलं सर्वे देवाः सवासवाः ।
विन्दन्ति मुनयो वेत्ति शङ्करो वा स्वयं हरिः ॥ १४ ॥

एतद् वः कथितं विप्राः पुत्रत्वं परमेष्ठिनः ।
ब्रह्मणः पद्मयोनित्वं शङ्करस्यामितौजसः ॥ १५ ॥

इत्याकर्ण्याथ मुनयः कूर्मरूपेण भाषितम् ।
विष्णुना पुनरेवैनं प्रणता हरिम् ॥ १६ ॥

कैषा भगवती देवी शङ्करार्धशरीरिणी ।
शिवा सती हैमवती यथावद् ब्रूहि पृच्छताम् ॥ १७ ॥

तेषां तद् वचनं श्रुत्वा मुनीनां पुरुषोत्तमः ।
प्रत्युवाच महायोगी ध्यात्वा स्वं परमं पदम् ॥ १८ ॥

पुरा पितामहेनोक्तं मेरुपृष्ठे सुशोभनम् ।
रहस्यमेतद् विज्ञानं गोपनीयं विशेषतः ॥ १९ ॥

साङ्ख्यानां परमं साङ्ख्यं ब्रह्मविज्ञानमुत्तमम् ।
संसारार्णवमग्नानां जन्तूनामेकमोचनम् ॥ २० ॥

या सा माहेश्वरी शक्तिर्ज्ञानरूपातिलालसा ।
व्योमसञ्ज्ञा परा काष्ठा सेयं हैमवती मता ॥ २१ ॥

शिवा सर्वगतानान्ता गुणातीता सुनिष्कला ।
एकानेकविभागस्था ज्ञानरूपातिलालसा ॥ २२ ॥
मूलम्
शिवा सर्वगतानान्ता गुणातीता सुनिष्कला ।
एकानेकविभागस्था ज्ञानरूपातिलालसा ॥ २२ ॥
विश्वास-प्रस्तुतिः
अनन्या निष्कले तत्त्वे संस्थिता तस्य तेजसा ।
स्वाभाविकी च तन्मूला प्रभा भानोरिवामला ॥ २३ ॥

एका माहेश्वरी शक्तिरनेकोपाधियोगतः ।
परावरेण रूपेण क्रीडते तस्य सन्निधौ ॥ २४ ॥

सेयं करोति सकलं तस्याः कार्यमिदं जगत् ।
न कार्यं नापि करणमीश्वरस्येति सूरयः ॥ २५ ॥

चतस्त्रः शक्तयो देव्याः स्वरूपत्वेन संस्थिताः ।
अधिष्ठानवशात् तस्याः शृणुध्वं मुनिपुङ्गवाः ॥ २६ ॥

शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्चेतिताः स्मृतः ।
चतुर्व्यूहस्ततो देवः प्रोच्यते परमेश्वरः ॥ २७ ॥

अनया परया देवः स्वात्मानन्दं समश्नुते ।
चतुर्ष्वपि च वेदेषु चतुर्मूर्तिर्महेश्वरः ॥ २८ ॥

अस्यास्त्वनादिसंसिद्धमैश्वर्यमतुलं महत् ।
तत्सम्बन्धादनन्ताया रुद्रेण परमात्मना ॥ २९ ॥

सैषा सर्वेश्वरी देवी सर्वभूतप्रवर्तिका ।
प्रोच्यते भगवान् कालो हरिः प्राणो महेश्वरः ॥ ३० ॥

तत्र सर्वमिदं प्रोतमोतं चैवाखिलं जगत् ।
स कालो ऽग्निर्हरो रुद्रो गीयते वेदवादिभिः ॥ ३१ ॥

कालः सृजति भूतानि कालः संहरते प्रजाः ।
सर्वे कालस्य वशगा न कालः कस्यचिद् वशे ॥ ३२ ॥

प्रधानं पुरुषस्तत्त्वं महानात्मा त्वहङ्कृतिः ।
कालेनान्यानि तत्त्वानि समाविष्टानि योगिना ॥ ३३ ॥

तस्य सर्वजगत्सूतिः शक्तिर्मायेति विश्रुता ।
तयेदं भ्रामयेदीशो मायावी पुरुषोत्तमः ॥ ३४ ॥

सैषा मायात्मिका शक्तिः सर्वाकारा सनातनी ।
वैश्वरूप्यं महेशस्य सर्वदा सम्प्रकाशयेत् ॥ ३५ ॥

अन्याश्च शक्तयो मुख्यास्तस्य देवस्य निर्मिताः ।
ज्ञानशक्तिः क्रियाशक्तिः प्राणशक्तिरिति त्रयम् ॥ ३६ ॥

सर्वासामेव शक्तीनां शक्तिमन्तो विनिर्मिताः ।
माययैवाथ विप्रेन्द्राः सा चानादिरनन्तया ॥ ३७ ॥

सर्वशक्त्यात्मिका माया दुर्निवारा दुरत्यया ।
मायावी सर्वशक्तीशः कालः कालकारः प्रभुः ॥ ३८ ॥

करोति कालः सकलं संहरेत् काल एव हि ।
कालः स्थापयते विश्वं कालाधीनमिदं जगत् ॥ ३९ ॥

लब्ध्वा देवाधिदेवस्य सन्निधिं परमेष्ठिनः ।
अनन्तस्याखिलेशस्य शम्भोः कालात्मनः प्रभोः ॥ ४० ॥

प्रधानं पुरुषो माया माया चैवं प्रपद्यते ।
एका सर्वगतानन्ता केवला निष्कला शिवा ॥ ४१ ॥

एका शक्तिः शिवैको ऽपि शक्तिमानुच्यते शिवः ।
शक्तयः शक्तिमन्तो ऽन्ये सर्वशक्तिसमुद्भवाः ॥ ४२ ॥

शक्तिशक्तिमतोर्भेदं वदन्ति परमार्थतः ।
अभेदं चानुपश्यन्ति योगिनस्तत्त्वचिन्तकाः ॥ ४३ ॥

शक्तयो गिरजा देवी शक्तिमन्तो ऽथ शङ्करः ।
विशेषः कथ्यते चायं पुराणे ब्रह्मवादिभिः ॥ ४४ ॥

भोग्या विश्वेश्वरी देवी महेश्वरपतिव्रता ।
प्रोच्यते भगवान् भोक्ता कपर्दे नीललोहितः ॥ ४५ ॥

मन्ता विश्वेश्वरो देवः शङ्करो मन्मथान्तकः ।
प्रोच्यते मतिरीशानी मन्तव्या च विचारतः ॥ ४६ ॥

इत्येतदखिलं विप्राः शक्तिशक्तिमदुद्भवम् ।
प्रोच्यते सर्ववेदेषु मुनिभिस्तत्त्वदर्शिभिः ॥ ४७ ॥

एतत् प्रदर्शितं दिव्यं देव्या माहात्म्यमुत्तमम् ।
सर्ववेदान्तवेदेषु निश्चितं ब्रह्मवादिभिः ॥ ४८ ॥

एकं सर्वगतं सूक्ष्मं कूटस्थमचलं ध्रुवम् ।
योगिनस्तत् प्रपश्यन्ति महादेव्याः परं पदम् ॥ ४९ ॥

आनन्दमक्षरं ब्रह्म केवलं निष्कलं परम् ।
योगिनस्तत् प्रपश्यन्ति महादेव्याः परं पदम् ॥ ५० ॥

परात्परतरं तत्त्वं शाश्वतं शिवमच्युतम् ।
अनन्तप्रकृतौ लीनं देव्यास्तत् परमं पदम् ॥ ५१ ॥

शुभं निरञ्जनं शुद्धं निर्गुणं द्वैतवर्जितम् ।
आत्मोपलब्धिविषयं देव्यास्तत् परमं पदम् ॥ ५२ ॥

सैषा धात्री विधात्री च परमानन्दमिच्छताम् ।
संसारतापानखिलान् निहन्तीश्वरसंश्रया ॥ ५३ ॥

तस्माद् विमुक्तिमन्विच्छन् पार्वतीं परमेश्वरीम् ।
आश्रयेत् सर्वभावानामात्मभूतां शिवात्मिकाम् ॥ ५४ ॥

लब्ध्वा च पुत्रीं शर्वाणीं तपस्तप्त्वा सुदुश्चरम् ।
सभार्यः शरं यातः पार्वतीं परमेश्वरीम् ॥ ५५ ॥

तां दृष्ट्वा जायमानां च स्वेच्छयैव वराननाम् ।
मेना हिमवतः पत्नी प्राहेदं पर्वतेश्वरम् ॥ ५६ ॥

पश्य बालामिमां राजन् राजीवसदृशाननाम् ।
हिताय सर्वभूतानां जाता च तपसावयोः ॥ ५७ ॥

सो ऽपि दृष्ट्वा ततः पुत्रीं तरुणादित्यसन्निभाम् ।
कपर्दिनीं चतुर्वक्त्रां त्रिनेत्रामतिलालसाम् ॥ ५८ ॥

अष्टहस्तां विशालाक्षीं चन्द्रावयवभूषणाम् ।
निर्गुणां सगुणां साक्षात् सदसद्व्यक्तिवर्जिताम् ॥ ५९ ॥

प्रणम्य शिरसा भूमौ तेजसा चातिविह्वलः ।
भीतः कृताञ्जलिस्तस्याः प्रोवाच परमेश्वरीम् ॥ ६० ॥

का त्वं देवि विशालाक्षि शशाङ्कावयवाङ्किते ।
न जाने त्वामहं वत्से यथावद् ब्रूहि पृच्छते ॥ ६१ ॥

गिरीन्द्रवचनं श्रुत्वा ततः सा परमेश्वरी ।
व्याजहार महाशैलं योगिनामभयप्रदा ॥ ६२ ॥

मां विद्ध परमां शक्तिं परमेश्वरसमाश्रयाम् ।
अनन्यामव्ययामेकां यां पश्यन्ति मुमुक्षवः ॥ ६३ ॥

अहं वै सर्वभावानात्मा सर्वान्तरा शिवा ।
शाश्वतैश्वर्यविज्ञानमूर्तिः सर्वप्रवर्तिका ॥ ६४ ॥

अनन्तानन्तमहिमा संसारार्णवतारिणी ।
दिव्यं ददामि ते चक्षुः पश्य मे रूपमैश्वरम् ॥ ६५ ॥

एतावदुक्त्वा विज्ञानं दत्त्वा हिमवते स्वयम् ।
स्वं रूपं दर्शयामास दिव्यं तत् पारमेश्वरम् ॥ ६६ ॥

कोटिसूर्यप्रितीकाशं तेजोबिम्बं निराकुलम् ।
ज्वालामालासहस्राढ्यं कालानलशतोपमम् ॥ ६७ ॥

दंष्ट्राकरालं दुर्धर्ष जटामण्डलमण्डितम् ।
त्रिशूलवरहस्तं च घोररूपं भयानकम् ॥ ६८ ॥

प्रशान्तं सौम्यवदनमनन्ताश्चर्यसंयुतम् ।
चन्द्रावयवलक्ष्माणं चन्द्रकोटिसमप्रभम् ॥ ६९ ॥

किरीटिनं गदाहस्तं नूपुरैरुपशोभितम् ।
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ ७० ॥

शङ्खचक्रधरं काम्यं त्रिनेत्रं कृत्तिवाससम् ।
अण्डस्थं चाण्डबाह्यस्थं बाह्यमाभ्यन्तरं परम् ॥ ७१ ॥

सर्वशक्तिमयं शुभ्रं सर्वाकारं सनातनम् ।
ब्रह्मोन्द्रोपेन्द्रयोगीन्द्रैर्वन्द्यमानपदाम्बुजम् ॥ ७२ ॥

सर्वतः पाणिपादान्तं सर्वतो ऽक्षिशिरोमुखम् ।
सर्वमावृत्य तिष्ठन्तं ददर्श परमेश्वरम् ॥ ७३ ॥

दृष्ट्वा तदीदृशं रूपं देव्या माहेश्वरं परम् ।
भयेन च समाविष्टः स राजा हृष्टमानसः ॥ ७४ ॥

आत्मन्याधाय चात्मानमोङ्कारं समनुस्मरन् ।
नाम्नामष्टसहस्रेण तुष्टाव परमेश्वरीम् ॥ ७५ ॥

शिवोमा परमा शक्तिरनन्ता निष्कलामला ।
शान्ता माहेश्वरी नित्या शाश्वती परमाक्षरा ॥ ७६ ॥

अचिन्त्या केवलानन्त्या शिवात्मा परमात्मिका ।
अनादिरव्यया शुद्धा देवात्मा सर्वगाचला ॥ ७७ ॥

एकानेकविभागस्था मायातीता सुनिर्मला ।
महामाहेश्वरी सत्या महादेवी निरञ्जना ॥ ७८ ॥

काष्ठा सर्वान्तरस्था च चिच्छक्तिरतिलालसा ।
नन्दा सर्वात्मिका विद्या ज्योतीरूपामृताक्षरा ॥ ७९ ॥

शान्तिः प्रतिष्ठा सर्वेषां निवृत्तिरमृतप्रदा ।
व्योममूर्तिर्व्योमलया व्योमाधाराच्युतामरा ॥ ८० ॥

अनादिनिधनामोघा कारणात्मा कलाकला ।
क्रतुः प्रथमजा नाभिरमृतस्यात्मसंश्रया ॥ ८१ ॥

प्राणेश्वरप्रिया माता महामहिषघातिनी ।
प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥ ८२ ॥

सर्वशक्तिकलाकारा ज्योत्स्ना द्योर्महिमास्पदा ।
सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ॥ ८३ ॥

अनादिरव्यक्तगुहा महानन्दा सनातनी ।
आकाशयोनिर्योगस्था महायोगेश्वरेश्वरी ॥ ८४ ॥

महामाया सुदुष्पूरा मूलप्रकृतिरीश्वरी ।
संसारयोनिः सकला सर्वशक्तिसमुद्भवा ॥ ८५ ॥

संसारपारा दुर्वारा दुर्निरोक्ष्या दुरासदा ।
प्राणशक्तिः प्रणविद्या योगिनी परमा कला ॥ ८६ ॥

महाविभूतिर्दुर्धर्षा मूलप्रकृतिसम्भवा ।
अनाद्यनन्तविभवा परार्था पुरुषारणिः ॥ ८७ ॥

सर्गस्थित्यन्तकरणी सुदुर्वाच्या दुरत्यया ।
शब्दयोनिः शब्दमयी नादाख्या नादविग्रहा ॥ ८८ ॥

प्रधानपुरुषातीता प्रधानपुरुषात्मिका ।
पुराणी चिन्मयी पुंसामादिः पुरुषरूपिणी ॥ ८९ ॥

भूतान्तरात्मा कूटस्था महापुरुषसञ्ज्ञिता ।
जन्ममृत्युजरातीता सर्वशक्तिसमन्विता ॥ ९० ॥

व्यापिनी चानवच्छिन्ना प्रधानानुप्रवेशिनी ।
क्षेत्रज्ञशक्तिरव्यक्तलक्षणा मलवर्जिता ॥ ९१ ॥

अनादिमायसम्भिन्ना त्रितत्त्वा प्रकृतिर्गुहा ।
महामायासमुत्पन्ना तामसी पौरुषी ध्रुवा ॥ ९२ ॥

व्यक्ताव्यक्तात्मिकाकृष्णा रक्ताशुक्ला प्रसूतिका ।
अकार्या कार्यजननी नित्यं प्रसवधर्मिणी ॥ ९३ ॥

सर्गप्रलयनिर्मुक्ता सृष्टिस्थित्यन्तधर्मिणी ।
ब्रह्मगर्भा चतुर्विशा पद्मनाभाच्युतात्मिका ॥ ९४ ॥

वैद्युती शाश्वती योनिर्जगन्मातेश्वरप्रिया ।
सर्वाधारा महारूपा सर्वैश्वर्यसमन्विता ॥ ९५ ॥

विश्वरूपा महागर्भा विश्वेशेच्छानुवर्तिनी ।
महीयसी ब्रह्मयोनिर्महालक्ष्मीसमुद्भावा ॥ ९६ ॥

महाविमानमध्यस्था महानिद्रात्महेतुका ।
सर्वसाधारणी सूक्ष्मा ह्यविद्या पारमार्थिका ॥ ९७ ॥

अनन्तरूपानन्तस्था देवी पुरुषमोहिनी ।
अनेकाकारसंस्थाना कालत्रयविवर्जिता ॥ ९८ ॥

ब्रह्मजन्मा हरेर्मूर्तिर्ब्रह्मविष्णुशिवात्मिका ।
ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया ॥ ९९ ॥

वैराग्यैश्वर्यधर्मात्मा ब्रह्ममूर्तिर्हृदिस्थिता ।
अपांयोनिः स्वयम्भूतिर्मानसी तत्त्वसम्भवा ॥ १०० ॥

ईश्वराणी च शर्वाणी शङ्करार्धशरीरिणी ।
भवानी चैव रुद्राणी महालक्ष्मीरथाम्बिका ॥ १०१ ॥

महेश्वरसमुत्पन्ना भुक्तिमुक्तिफलप्रदा ।
सर्वेश्वरी सर्ववन्द्या नित्यं मुदितमानसा ॥ १०२ ॥

ब्रह्मेन्द्रोपेन्द्रनमिता शङ्करेच्छानुवर्तिनी ।
ईश्वरार्धासनगता महेश्वरपतिव्रता ॥ १०३ ॥

सकृद्विभाविता सर्वा समुद्रपरिशोषिणी ।
पार्वती हिमवत्पुत्री परमानन्ददायिनी ॥ १०४ ॥

गुणाढ्या योगजा योग्या ज्ञानमूर्तिर्विकासिनी ।
सावित्रीकमला लक्ष्मीः श्रीरनन्तोरसि स्थिता ॥ १०५ ॥

सरोजनिलया मुद्रा योगनिद्रा सुरार्दिना ।
सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥ १०६ ॥

वाग्देवी वरदा वाच्या कीर्तिः सर्वार्थसाधिका ।
योगीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥ १०७ ॥

गुह्यविद्यात्मविद्या च धर्मविद्यात्मभाविता ।
स्वाहा विश्वम्भरा सिद्धिः स्वधा मेधा धृतिः श्रुतिः ॥ १०८ ॥

नीतिः सुनीतिः सुकृतिर्माधवी नरवाहिनी ।
अजा विभावरी सौम्या भोगिनी भोगदायिनी ॥ १०९ ॥

शोभा वंशकरी लोला मालिनी परमेष्ठिनी ।
त्रैलोक्यसुन्दरी रम्या सुन्दरी कामचारिणी ॥ ११० ॥

महानुभावा सत्त्वस्था महामहिषमर्दनी ।
पद्ममाला पापहरा विचित्रा मुकुटानना ॥ १११ ॥

निर्यन्त्रा यन्त्रवाहस्था नन्दिनी भद्रकालिका ।
आदित्यवर्णा कौमारी मयूरवरवाहिनी ॥ ११२ ॥

आदित्यवर्णा कौमारी मयूरवरवाहिनी ॥ ११३ ॥

वृषासनगता गौरो महाकाली सुरार्चिता ।
अदितिर्नियता रौद्री पद्मगर्भा विवाहना ॥ ११४ ॥

विरूपाक्षी लेलिहाना महापुरनिवासिनी ।
महाफलानवद्याङ्गी कामपूरा विभावरी ॥ ११५ ॥

विचित्ररत्नमुकुटा प्रणतार्तिप्रभञ्जनी ।
कौशिकी कर्षणी रात्रिस्त्रिदशार्तिविनाशिनी ॥ ११६ ॥

बहुरूपा सुरूपा च विरूपा रूपवर्जिता ।
भक्तार्तिशमनी भव्या भवभावविनाशनी ॥ ११७ ॥

निर्गुणा नित्यविभवा निः सारा निरपत्रपा ।
यशस्विनी सामगीतिर्भवाङ्गनिलयालया ॥ ११८ ॥

दीक्षा विद्याधरी दीप्ता महेन्द्रविनिपातिनी ।
सर्वातिशायिनी विद्या सर्वसिद्धिप्रदायिनी ॥ ११९ ॥

सर्वेश्वरप्रिया तार्क्ष्या समुद्रान्तरवासिनी ।
अकलङ्का निराधारा नित्यसिद्धा निरामया ॥ १२० ॥

कामधेनुर्बृहद्गर्भा धीमती मोहनाशिनी ।
निः सङ्कल्पा निरातङ्का विनया विनयप्रदा ॥ १२१ ॥

ज्वालामालासहस्राढ्या देवदेवी मनोन्मनी ।
महाभगवती दुर्गा वासुदेवसमुद्भवा ॥ १२२ ॥
मूलम्
ज्वालामालासहस्राढ्या देवदेवी मनोन्मनी ।
महाभगवती दुर्गा वासुदेवसमुद्भवा ॥ १२२ ॥
विश्वास-प्रस्तुतिः
महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा ।
ज्ञानज्ञेया जरातीता वेदान्तविषया गतिः ॥ १२३ ॥

दक्षिणा दहना दाह्या सर्वभूतनमस्कृता ।
योगमाया विभावज्ञा महामाया महीयसी ॥ १२४ ॥

सन्ध्या सर्वसमुद्भूतिर्ब्रह्मवृक्षाश्रयानतिः ।
बीजाङ्कुरसमुद्भूतिर्महाशक्तिर्महामतिः ॥ १२५ ॥

ख्यातिः प्रज्ञा चितिः संवित् महाभोगीन्द्रशायिनी ।
विकृतिः शांसरी शास्त्री गणगन्धर्वसेविता ॥ १२६ ॥

वैश्वानरी महाशाला देवसेना गुहप्रिया ।
महारात्रिः शिवानन्दा शची दुः स्वप्ननाशिनी ॥ १२७ ॥

इज्या पूज्या जगद्धात्री दुर्विज्ञेया सुरूपिणी ।
गुहाम्बिका गुणोत्पत्तिर्महापीठा मरुत्सुता ॥ १२८ ॥

हव्यवाहान्तरागादिः हव्यवाहसमुद्भवा ।
जगद्योनिर्जगन्माता जन्ममृत्युजरातिगा ॥ १२९ ॥

बुद्धिमाता बुद्धिमती पुरुषान्तरवासिनी ।
तरस्विनी समाधिस्था त्रिनेत्रा दिविसंस्थिता ॥ १३० ॥

सर्वेन्द्रियमनोमाता सर्वभूतहृदि स्थिता ।
संसारतारिणी विद्या ब्रह्मवादिमनोलया ॥ १३१ ॥

ब्रह्माणी बृहती ब्राह्मी ब्रह्मभूता भवारणिः ।
हिरण्मयी महारात्रिः संसारपरिवर्तिका ॥ १३२ ॥

सुमालिनी सुरूपा च भाविनी तारिणी प्रभा ।
उन्मीलनी सर्वसहा सर्वप्रत्ययसाक्षिणी ॥ १३३ ॥

सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ।
सत्त्वशुद्धिकरी शुद्धिर्मलत्रयविनाशिनी ॥ १३४ ॥

जगत्प्रिया जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ।
निराश्रया निराहारा निरङ्कुरवनोद्भवा ॥ १३५ ॥

चन्द्रहस्ता विचित्राङ्गी स्त्रग्विणी पद्मधारिणी ।
परावरविधानज्ञा महापुरुषपूर्वजा ॥ १३६ ॥

विद्येश्वरप्रिया विद्या विद्युज्जिह्वा जितश्रमा ।
विद्यामयी सहस्राक्षी सहस्रवदनात्मजा ॥ १३७ ॥

सहस्ररश्मिः सत्त्वस्था महेश्वरपदाश्रया ।
क्षालिनी सन्मयी व्याप्ता तैजसी पद्मबोधिका ॥ १३८ ॥

महामायाश्रया मान्या महादेवमनोरमा ।
व्योमलक्ष्मीः सिहरथा चेकितानामितप्रभा ॥ १३९ ॥

वीरेश्वरी विमानस्था विशोकाशोकनाशिनी ।
अनाहता कुण्डलिना नलिनी पद्मवासिनी ॥ १४० ॥

सदानन्दा सदाकीर्तिः सर्वभूताश्रयस्थिता ।
वाग्देवता ब्रह्मकला कलातीता कलारणिः ॥ १४१ ॥

ब्रह्मश्रीर्ब्रह्महृदया ब्रह्मविष्णुशिवप्रिया ।
व्योमशक्तिः क्रियाशक्तिर्ज्ञानशक्तिः परागतिः ॥ १४२ ॥

क्षोभिका बन्धिका भेद्या भेदाभेदविवर्जिता ।
अभिन्नाभिन्नसंस्थाना वंशिनी वंशहारिणी ॥ १४३ ॥

गुह्यशक्तिर्गुणातीता सर्वदा सर्वतोमुखी ।
भगिनी भगवत्पत्नी सकला कालकारिणी ॥ १४४ ॥

सर्ववित् सर्वतोभद्रा गुह्यातीता गुहारणिः ।
प्रक्रिया योगमाता च गङ्गा विश्वेश्वरेश्वरी ॥ १४५ ॥

कपिला कापिला कान्ताकनकाभाकलान्तरा ।
पुण्या पुष्करिणी भोक्त्री पुरन्दरपुरस्सरा ॥ १४६ ॥

पोषणी परमैश्वर्यभूतिदा भूतिभूषणा ।
पञ्चब्रह्मसमुत्पत्तिः परमार्थार्थविग्रहा ॥ १४७ ॥

धर्मोदया भानुमती योगिज्ञेय मनोजवा ।
मनोहरा मनोरक्षा तापसी वेदरूपिणी ॥ १४८ ॥
मूलम्
धर्मोदया भानुमती योगिज्ञेय मनोजवा ।
मनोहरा मनोरक्षा तापसी वेदरूपिणी ॥ १४८ ॥
विश्वास-प्रस्तुतिः
वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ।
योगेश्वरेश्वरी माता महाशक्तिर्मनोमयी ॥ १४९ ॥

विश्वावस्था वियन्मूर्तिर्विद्युन्माला विहायसी ।
किन्नरी सुरभी वन्द्या नन्दिनी नन्दिवल्लभा ॥ १५० ॥

भारती परमानन्दा परापरविभेदिका ।
सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ॥ १५१ ॥

अचिन्त्याचिन्त्यविभवा हृल्लेखा कनकप्रभा ।
कूष्माण्डी धनरत्नाढ्या सुगन्धा गन्धायिनी ॥ १५२ ॥

त्रिविक्रमपदोद्भूता धनुष्पाणिः शिवोदया ।
सुदुर्लभा धनाद्यक्षा धन्या पिङ्गललोचना ॥ १५३ ॥

शान्तिः प्रभावती दीप्तिः पङ्कजायतलोचना ।
आद्या हृत्कमलोद्भूता गवां मता रणप्रिया ॥ १५४ ॥

सत्क्रिया गिरिजा शुद्धा नित्यपुष्टा निरन्तरा ।
दुर्गाकात्यायनीचण्डी चर्चिका शान्तविग्रहा ॥ १५५ ॥

हिरण्यवर्णा रजनी जगद्यन्त्रप्रवर्तिका ।
मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ॥ १५६ ॥

रत्नमाला रत्नगर्भा पृथ्वी विश्वप्रमाथिनी ।
पद्मानना पद्मनिभा नित्यतुष्टामृतोद्भवा ॥ १५७ ॥

धुन्वती दुः प्रकम्प्या च सूर्यमाता दृषद्वती ।
महेन्द्रभगिनी मान्या वरेण्या वरदर्पिता ॥ १५८ ॥

कल्याणी कमला रामा पञ्चभूता वरप्रदा ।
वाच्या वरेश्वरी वन्द्या दुर्जया दुरतिक्रमा ॥ १५९ ॥

कालरात्रिर्महावेगा वीरभद्रप्रिया हिता ।
भद्रकाली जगन्माता भक्तानां भद्रदायिनी ॥ १६० ॥

कराला पिङ्गलाकारा नामभेदामहामदा ।
यशस्विनी यशोदा च षडध्वपरिवर्तिका ॥ १६१ ॥

शङ्खिनी पद्मिनी साङ्ख्या साङ्ख्ययोगप्रवर्तिका ।
चैत्रा संवत्सरारूढा जगत्सम्पूरणीन्द्रजा ॥ १६२ ॥

शुम्भारिः खेचरीस्वस्था कम्बुग्रीवा कलिप्रिया ।
खगध्वजी खगारूढा परार्घ्या परमालिनी ॥ १६३ ॥

ऐश्वर्यवर्त्मनिलया विरक्ता गरुडासना ।
जयन्ती हृद्गुहा रम्या गह्विरेष्ठा गणाग्रणीः ॥ १६४ ॥

सङ्कल्पसिद्धा साम्यस्था सर्वविज्ञानदायिनी ।
कलिकल्पषहन्त्री च गुह्योपनिषदुत्तमा ॥ १६५ ॥

निष्ठा दृष्टिः स्मृतिर्व्याप्तिः पुष्टिस्तुष्टिः क्रियावती ।
विश्वामरेश्वरेशाना भुक्तिर्मुक्तीः शिवामृता ॥ १६६ ॥

लोहिता सर्पमाला च भीषणी वनमालिनी ।
अनन्तशयनानन्या नरनारायणोद्भवा ॥ १६७ ॥
मूलम्
लोहिता सर्पमाला च भीषणी वनमालिनी ।
अनन्तशयनानन्या नरनारायणोद्भवा ॥ १६७ ॥
विश्वास-प्रस्तुतिः
नृसिंही दैत्यमथनी शङ्खचक्रगदाधरा ।
सङ्कर्षणसमुत्पत्तिरम्बिकापादसंश्रया ॥ १६८ ॥

महाज्वाला महामूर्तिः सुमूर्तिः सर्वकामधुक् ।
सुप्रभा सुस्तना गौरी धर्मकामार्थमोक्षदा ॥ १६९ ॥

भ्रूमध्यनिलया पूर्वा पुराणपुरुषारणिः ।
महाविभूतिदा मध्या सरोजनयना समा ॥ १७० ॥
मूलम्
भ्रूमध्यनिलया पूर्वा पुराणपुरुषारणिः ।
महाविभूतिदा मध्या सरोजनयना समा ॥ १७० ॥
विश्वास-प्रस्तुतिः
अष्टादशभुजानाद्या नीलोत्पलदलप्रभा ।
सर्वशक्त्यासनारूढा धर्माधर्मार्थवर्जिता ॥ १७१ ॥

वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया ।
विचित्रगहनाधारा शाश्वतस्थानवासिनी ॥ १७२ ॥

अशेषदेवतामूर्तिर्देवता वरदेवता ।
गणाम्बिका गिरेः पुत्री निशुम्भविनिपातिनी ॥ १७३ ॥

अवर्ण वर्णरहिता निवर्णा बीजसम्भवा ।
अनन्तवर्णानन्यस्था शङ्करी शान्तमानसा ॥ १७४ ॥

अगोत्रा गोमती गोप्त्री गुह्यरूपा गुणोत्तरा ।
गौर्गोर्गव्यप्रिया गौणी गणेश्वरनमस्कृता ॥ १७५ ॥

सत्यमात्रा सत्यसन्धा त्रिसन्ध्या सन्धिवर्जिता ।
सर्ववादाश्रया सङ्ख्या सङ्ख्ययोगसमुद्भवा ॥ १७६ ॥

असङ्ख्येयाप्रमेयाख्या शून्या शुद्धकुलोद्भवा ।
बिन्दुनादसमुत्पत्तिः शम्भुवामा शशिप्रभा ॥ १७७ ॥

विसङ्गा भेदरहिता मनोज्ञा मधुसूदनी ।
महाश्रीः श्रीसमुत्पत्तिस्तमः पारे प्रतिष्ठिता ॥ १७८ ॥

त्रितत्त्वमाता त्रिविधा सुसूक्ष्मपदसंश्रया ।
शान्त्यतीता मलातीता निर्विकारा निराश्रया ॥ १७९ ॥

शिवाख्या चित्तनिलया शिवज्ञानस्वरूपिणी ।
दैत्यदानवनिर्मात्री काश्यपी कालकल्पिका ॥ १८० ॥

शास्त्रयोनिः क्रियामूर्तिश्चतुर्वर्गप्रदर्शिका ।
नारायणी नरोद्भूतिः कौमुदी लिङ्गधारिणी ॥ १८१ ॥

कामुकी ललिता भावा परापरविभूतिदा ।
परान्तजातमहिमा बडवा वामलोचना ॥ १८२ ॥
मूलम्
कामुकी ललिता भावा परापरविभूतिदा ।
परान्तजातमहिमा बडवा वामलोचना ॥ १८२ ॥
विश्वास-प्रस्तुतिः
सुभद्रा देवकी सीता वेदवेदाङ्गपारगा ।
मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥ १८३ ॥

अमृत्युरमृता स्वाहा पुरुहूता पुरुष्टुता ।
अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥ १८४ ॥

हिरण्या राजती हैमी हेमाभरणभूषिता ।
विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥ १८५ ॥

महानिद्रासमुद्भूतिरनिद्रा सत्यदेवता ।
दीर्घाककुद्मिनी हृद्या शान्तिदा शान्तिवर्धिनी ॥ १८६ ॥

लक्ष्म्यादिशक्तिजननी शक्तिचक्रप्रवर्तिका ।
त्रिशक्तिजननी जन्या षडूर्मिपरिर्जिता ॥ १८७ ॥

सुधामा कर्मकरणी युगान्तदहनात्मिका ।
सङ्कर्षणी जगद्धात्री कामयोनिः किरीटिनी ॥ १८८ ॥

ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी ।
प्रद्युम्नदयिता दान्ता युग्मदृष्टिस्त्रिलोचना ॥ १८९ ॥

मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा ।
वृषावेशा वियन्माता विन्ध्यपर्वतवासिनी ॥ १९० ॥

हिमवन्मेरुनिलया कैलासगिरिवासिनी ।
चाणूरहन्तृतनया नीतिज्ञा कामरूपिणी ॥ १९१ ॥

वेदविद्याव्रतस्नाता धर्मशीलानिलाशना ।
वीरभद्रप्रिया वीरा महाकालसमुद्भवा ॥ १९२ ॥

विद्याधरप्रिया सिद्धा विद्याधरनिराकृतिः ।
आप्यायनी हरन्ती च पावनी पोषणी खिला ॥ १९३ ॥

मातृका मन्मथोद्भूता वारिजा वाहनप्रिया ।
करीषिणी सुधावाणी वीणावादनतत्परा ॥ १९४ ॥
मूलम्
मातृका मन्मथोद्भूता वारिजा वाहनप्रिया ।
करीषिणी सुधावाणी वीणावादनतत्परा ॥ १९४ ॥
विश्वास-प्रस्तुतिः
सेविता सेविका सेव्या सिनीवाली गरुत्मती ।
अरुन्धती हिरण्याक्षी मृगाङ्का मानदायिनी ॥ १९५ ॥

वसुप्रदा वसुमती वसोर्धारा वसुन्धरा ।
धाराधरा वरारोहा वरावरसहस्रदा ॥ १९६ ॥
मूलम्
वसुप्रदा वसुमती वसोर्धारा वसुन्धरा ।
धाराधरा वरारोहा वरावरसहस्रदा ॥ १९६ ॥
विश्वास-प्रस्तुतिः
श्रीफला श्रीमती श्रीशा श्रीनिवासा शिवप्रिया ।
श्रीधरा श्रीकरी कल्या श्रीधरार्धशरीरिणी ॥ १९७ ॥

अनन्तदृष्टिरक्षुद्रा धात्रीशा धनदप्रिया ।
निहन्त्री दैत्यसङ्घानां सिहिका सिहवाहना ॥ १९८ ॥

सुषेणा चन्द्रनिलया सुकीर्तिश्छिन्नसंशया ।
रसज्ञा रसदा रामा लेलिहानामृतस्त्रवा ॥ १९९ ॥

नित्योदिता स्वयञ्ज्योतिरुत्सुका मृतजीवनी ।
वज्रदण्डा वज्रजिह्वा वैदेवी वज्रविग्रहा ॥ २०० ॥

मङ्गल्या मङ्गला माला मलिना मलहारिणी ।
गान्धर्वो गारुडी चान्द्री कम्बलाश्वतरप्रिया ॥ २०१ ॥

सौदामिनी जनानन्दा भ्रुकुटीकुटिलानना ।
कर्णिकारकरा कक्ष्या कंसप्राणापहारिणी ॥ २०२ ॥

युगन्धरा युगावर्ता त्रिसन्ध्या हर्षवर्धनी ।
प्रत्यक्षदेवता दिव्या दिव्यगन्धा दिवापरा ॥ २०३ ॥

शक्रासनगता शाक्री साध्वी नारी शवासना ।
इष्टा विशिष्टा शिष्टेष्टा शिष्टाशिष्टप्रपूजिता ॥ २०४ ॥

शतरूपा शतावर्ता विनता सुरभिः सुरा ।
सुरेन्द्रमाता सुद्युम्ना सुषुम्ना सूर्यसंस्थिता ॥ २०५ ॥

समीक्ष्या सत्प्रतिष्ठा च निवृत्तिर्ज्ञानपारगा ।
धर्मशास्त्रार्थकुशला धर्मज्ञा धर्मवाहना ॥ २०६ ॥

धर्माधर्मविनिर्मात्री धार्मिकाणां शिवप्रदा ।
धर्मशक्तिर्धर्ममयी विधर्मा विश्वधर्मिणी ॥ २०७ ॥

धर्मान्तरा धर्ममेघा धर्मपूर्वा धनावहा ।
धर्मोपदेष्ट्री धर्मत्मा धर्मगम्या धराधरा ॥ २०८ ॥

कापाली शाकला मूर्तिः कला कलितविग्रहा ।
सर्वशक्तिविनिर्मुक्ता सर्वशक्त्याश्रयाश्रया ॥ २०९ ॥

प्रधानपुरुषेशेशा महादेवैकसाक्षिणी ।
सदाशिवा वियन्मूर्तिर्विश्वमूर्तिरमूर्तिका ॥ २१० ॥

एवं नाम्नां सहस्रेण स्तुत्वासौ हिमवान् गिरिः ।
भूयः प्रणम्य भीतात्मा प्रोवाचेदं कृताञ्जलिः ॥ २११ ॥

यदेतदैश्वरं रूपं घोरं ते परमेश्वरि ।
भीतो ऽस्मि साम्प्रतं दृष्ट्वा रूपमन्यत् प्रदर्शय ॥ २१२ ॥

एवमुक्ताथ सा देवी तेन शैलेन पार्वती ।
संहृत्य दर्शयामास स्वरूपमपरं पुनः ॥ २१३ ॥

नीलोत्पलदलप्रख्यं नीलोत्पलसुगन्धिकम् ।
द्विनेत्रं द्विभुजं सौम्यं नीलालकविभूषितम् ॥ २१४ ॥

रक्तपादाम्बुजतलं सुरक्तकरपल्लवम् ।
श्रीमद् विशालसंवृत्तललाटतिलकोज्ज्वलम् ॥ २१५ ॥

भूषितं चारुसर्वाङ्गं भूषणैरतिकोमलम् ।
दधानमुरसा मालां विशालां हेमनिर्मिताम् ॥ २१६ ॥

ईषत्स्मितं सुविम्बोष्ठं नूपुरारावसंयुतम् ।
प्रसन्नवदनं दिव्यमनन्तमहिमास्पदम् ॥ २१७ ॥

तदीदृशं समालोक्य स्वरूपं शैलसत्तमः ।
भीतिं सन्त्यज्य हृष्टात्मा बभाषे परमेश्वरीम् ॥ २१८ ॥

अद्य मे सफलं जन्म अद्य मे सफलं तपः ।
यन्मे साक्षात् त्वमव्यक्ताप्रसन्ना दृष्टिगोचरा ॥ २१९ ॥

त्वया सृष्टं जगत् सर्वं प्रधानाद्यन्त्वयि स्थितम् ।
त्वय्येव लीयते देवि त्वमेव च परा गतिः ॥ २२० ॥

वदन्ति केचित् त्वामेव प्रकृतिं प्रकृतेः पराम् ।
अपरे परमार्थज्ञाः शिवेति शिवसंश्रये ॥ २२१ ॥

त्वयि प्रधानं पुरुषो महान् ब्रह्मा तथेश्वरः ।
अविद्या नियतिर्माया कलाद्याः शतशो ऽभवन् ॥ २२२ ॥

त्वं हि सा परमा शक्तिरनन्ता परमेष्ठिनी ।
सर्वभेदविनिर्मुक्ता सर्वेभेदाश्रया निजा ॥ २२३ ॥

त्वामधिष्ठाय योगेशि महादेवो महेश्वरः ।
प्रधानाद्यं जगत् कृत्स्नं करोति विकरोति च ॥ २२४ ॥

त्वयैव सङ्गतो देवः स्वमानन्दं समश्नुते ।
त्वमेव परमानन्दस्त्वमेवानन्ददायिनी ॥ २२५ ॥

त्वमक्षरं परं व्योम महज्ज्योतिर्निरञ्जनम् ।
शिवं सर्वगतं सूक्ष्मं परं ब्रह्मा सनातनम् ॥ २२६ ॥

त्वं शक्रः सर्वदेवानां ब्रह्मा ब्रह्मविदामसि ।
वायुर्बलवतां देवि योगिनां त्वं कुमारकः ॥ २२७ ॥

ऋषीणां च वसिष्ठस्त्वं व्यासो वेदविदामसि ।
साङ्ख्यानां कपिलो देवो रुद्राणामसि शङ्करः ॥ २२८ ॥

आदित्यानामुपेन्द्रस्त्वं वसूनां चैव पावकः ।
वेदानां सामवेदस्त्वं गायत्री छन्दसामसि ॥ २२९ ॥

अध्यात्मविद्या विद्यानां गतीनां परम् गतिः ।
माया त्वं सर्वशक्तीनां कालः कलयतामसि ॥ २३० ॥

ओङ्कारः सर्वगुह्यानां वर्णानां च द्विजात्तमः ।
आश्रमाणां च गार्हस्थ्यमीश्वराणां महेश्वरः ॥ २३१ ॥

पुंसां त्वमेकः पुरुषः सर्वभूतहृदि स्थितः ।
सर्वोपनिषदां देवि गुह्योपनिषदुच्यते ॥ २३२ ॥

ईशानश्चासि कल्पानां युगानां कृतमेव च ।
आदित्यः सर्वमार्गाणां वाचां देवि सरस्वती ॥ २३३ ॥

त्वं लक्ष्मीश्चारुरूपाणां विष्णुर्मायाविनामसि ।
अरुन्धती सतीनां त्वं सुपर्णः पततामसि ॥ २३४ ॥

सूक्तानां पौरुषं सूक्तं ज्येष्ठसाम च सामसु ।
सावित्री चासि जप्यानां यजुषां शतरुद्रियम् ॥ २३५ ॥

पर्वतानां महामेरुरनन्तो भोगिनामसि ।
सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि ॥ २३६ ॥

ॐ नमस्ते महादेवि नमस्ते परमेश्वरि ।
नमो भगवतीशानि शिवायै ते नमो नमः ॥ २५० ॥
मूलम्
ॐ नमस्ते महादेवि नमस्ते परमेश्वरि ।
नमो भगवतीशानि शिवायै ते नमो नमः ॥ २५० ॥
विश्वास-प्रस्तुतिः
त्वन्मयो ऽहं त्वदाधारस्त्वमेव च गतिर्मम ।
त्वामेव शरणं यास्ये प्रसीद परमेश्वरि ॥ २५१ ॥

मया नास्ति समो लोके देवो वादानवो ऽपि वा ।
जगन्मातैव मत्पुत्री सम्भूता तपसा यतः ॥ २५२ ॥

एषा तवाम्बिका देवि किलाभूत पितृकन्यका ।
मेनाशेषजगन्मातुरहो वुण्यस्य गौरवम् ॥ २५३ ॥

पाहि माममरेशानि मेनया सह सर्वदा ।
नमामि तव पादाब्जं व्रजामि शरणं शिवाम् ॥ २५४ ॥

अहो मे सुमहद् भाग्यं महादेवीसमागमात् ।
आज्ञापय महादेवि किं करिष्यामि शङ्करि ॥ २५५ ॥

एतावदुक्त्वा वचनं तदा हिमगिरीश्वरः ।
सम्प्रेक्षणमाणो गिरिजां प्राञ्जलिः पार्श्वतो ऽभवत् ॥ २५६ ॥

अथ सा तस्य वचनं निशम्य जगतो ऽरणिः ।
सस्मितं प्राह पितरं स्मृत्वा पशुपतिं पतिम् ॥ २५७ ॥

शृणुष्व चैतत् परमं गुह्यमीश्वरगोचरम् ।
उपदेशं गिरिश्रेष्ठ सेवितं ब्रह्मवादिभिः ॥ २५८ ॥

यन्मे साक्षात् परं रूपमैश्वरं दृष्टमद्भुतम् ।
सर्वशक्तिसमायुक्तमनन्तं प्रेरकं परम् ॥ २५९ ॥

शान्तः समाहितमना दम्भाहङ्कारवर्जितः ।
तन्निष्ठस्तत्परो भूत्वा तदेव शरणं व्रज ॥ २६० ॥

भक्त्या त्वनन्यया तात पद्भावं परमाश्रितः ।
सर्वयज्ञतपोदानैस्तदेवार्चय सर्वदा ॥ २६१ ॥

तदेव मनसा पश्य तद् ध्यायस्व जपस्व च ।
ममोपदेशात् संसारं नाशयामि तवानघ ॥ २६२ ॥
मूलम्
तदेव मनसा पश्य तद् ध्यायस्व जपस्व च ।
ममोपदेशात् संसारं नाशयामि तवानघ ॥ २६२ ॥
विश्वास-प्रस्तुतिः
अहं वै मत्परान् भक्तानैश्वरं योगमास्थितान् ।
संसारसागरादस्मादुद्धराम्यचिरेण तु ॥ २६३ ॥

ध्यानेन कर्मयोगेन भक्त्या ज्ञानेन चैव हि ।
प्राप्याहं ते गिरिश्रेष्ठ नान्यथा कर्मकोटिभिः ॥ २६४ ॥

श्रुतिस्मृत्युदितं सम्यक् कर्म वर्णाश्रमात्मकम् ।
अध्यात्मज्ञानसहितं मुक्तये सततं कुरु ॥ २६५ ॥

धर्मात् सञ्जायते भक्तिर्भक्त्या सम्प्राप्यते परम् ।
श्रुतिस्मृतिभ्यामुदितो धर्मो यज्ञादिको मतः ॥ २६६ ॥

नान्यतो जायते धर्मो वेदाद् धर्मो हि निर्बभौ ।
तस्मान्मुमुक्षुर्धर्मार्थो मद्रूपं वेदमाश्रयेत् ॥ २६७ ॥

ममैवैषा परा शक्तिर्वेदसञ्ज्ञा पुरातनी ।
ऋग्यजुः सामरूपेण सर्गादौ सम्प्रवर्तते ॥ २६८ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकादशो ऽध्यायः