श्रीकूर्म उवाच
विश्वास-प्रस्तुतिः
गते महेश्वरे देवे स्वाधिवासं पितामहः ।
तदेव सुमहत् पद्मं भेजे नाभिसमुत्थितम् ॥ १ ॥
मूलम्

अथ दीर्घेण कालेन तत्राप्रतिमपौरुषौ ।
महासुरौ समायातौ भ्रातरौ मधुकैटभौ ॥ २ ॥
मूलम्
अथ दीर्घेण कालेन तत्राप्रतिमपौरुषौ ।
महासुरौ समायातौ भ्रातरौ मधुकैटभौ ॥ २ ॥
विश्वास-प्रस्तुतिः
क्रोधेन महताविष्टौ महापर्वतविग्रहौ ।
कर्णान्तरसमुद्भूतौ देवदेवस्य शार्ङ्गिणः ॥ ३ ॥

तावागतौ समीक्ष्याह नारायणमजो विभुः ।
त्रैलोक्यकण्टकावेतावसुरौ हन्तुमर्हसि ॥ ४ ॥

तस्य तद् वचनं श्रुत्वा हरिर्नारायणः प्रभुः ।
आज्ञापयामास तयोर्वधार्थं पुरुषावुभौ ॥ ५ ॥

तदाज्ञया महद्युद्धं तयोस्ताभ्यामभूद् द्विजाः ।
व्यनयत् कैटभं विष्णुर्जिष्णुश्च व्यनयन्मधुम् ॥ ६ ॥

ततः पद्मासनासीनं जगन्नाथं पितामहम् ।
बभाषे मधुरं वाक्यं स्नेहाविष्टमना हरिः ॥ ७ ॥

अस्मान्मयोच्यमानस्त्वं पद्मादवतर प्रभो ।
नाहं भवन्तं शक्नोमि वोढुं तेजामयं गुरुम् ॥ ८ ॥

ततो ऽवतीर्य विश्वात्मा देहमाविश्य चक्रिणः ।
अवाच वैष्णवीं निद्रामेकीभूयाथ विष्णुना ॥ ९ ॥

सहस्रशीर्षनयनः शङ्खचक्रगदाधरः ।
ब्रह्मा नारायणाख्यो ऽसौ सुष्वाप सलिले तदा ॥ १० ॥

सो ऽनुभूय चिरं कालमानन्दं परमात्मनः ।
अनाद्यनन्तमद्वैतं स्वात्मानं ब्रह्मसञ्ज्ञितम् ॥ ११ ॥

ततः प्रभाते योगात्मा भूत्वा देवश्चतुर्मुखः ।
ससर्ज सृष्टिं तद्रूपां वैष्णवं भावमाश्रितः ॥ १२ ॥

पुरस्तादसृजद् देवः सनन्दं सनकं तथा ।
ऋभुं सनत्कुमारं च पुर्वजं तं सनातनम् ॥ १३ ॥

ते द्वन्द्वमोहनिर्मुक्ताः परं वैराग्यमास्थिताः ।
विदित्वा परमं भावं न सृष्टौ दधिरे मतिम् ॥ १४ ॥

तेष्वेवं निरपेक्षेषु लोकसृष्टौ पितामहः ।
बभूव नष्टचेता वै मायया परमेष्ठिनः ॥ १५ ॥

ततः पुराणपुरुषो जगन्मूर्तिर्जनार्दनः ।
व्याजहारात्मनः पुत्रं मोहनाशाय पद्मजम् ॥ १६ ॥

कच्चिन्न विस्मृतो देवः शूलपाणिः सनातनः ।
यदुक्तवानात्मनो ऽसौ पुत्रत्वे तव शङ्करः ॥ १७ ॥

अवाप्य सञ्ज्ञां गोविन्दात् पद्मयोनिः पितामहः ।
प्रजाः स्त्रष्टुमनास्तेपे तपः परमदुश्चरम् ॥ १८ ॥

तस्यैवं तप्यमानस्य न किञ्चित् समवर्तत ।
ततो दीर्घेण कालेन दुः खात् क्रोधो ऽभ्यजायत ॥ १९ ॥

क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ।
ततस्तेभ्यो ऽश्रुबिन्दुभ्यो भूताः प्रेतास्तथाभवन् ॥ २० ॥

सर्वांस्तानश्रुजान् दृष्ट्वा ब्रह्मात्मानमनिन्दन ।
जहौ प्राणांश्च भगवान् क्रोधाविष्टः प्रजापतिः ॥ २१ ॥

तदा प्राणमयो रुद्रः प्रादुरसीत् प्रभीर्मुखात् ।
सहस्रादित्यसङ्काशो युगान्तदहनोपमः ॥ २२ ॥

रोदमानं ततो ब्रह्मा मा रोदीरित्यभाषत ।
रोदनाद् रुद्र इत्येवं लोके ख्यातिं गमिष्यसि ॥ २३ ॥

अन्यानि सप्त नामानि पत्नीः पुत्रांश्चशाश्वतान् ।
स्थानानि चैषामष्टानां ददौ लोकपितामहः ॥ २४ ॥

भवः शर्वस्तथेशानः पशूनां पतिरेव च ।
भीमश्चोग्रो महादेवस्तानि नामानि सप्त वै ॥ २५ ॥

सूर्यो जलं मही वह्निर्वायुराकाशमेव च ।
दीक्षितो ब्राह्मणश्चन्द्र इत्येता अष्टमूर्तयः ॥ २६ ॥

स्थानेष्वेतेषु ये रुद्रं ध्यायन्ति प्रणमन्ति च ।
तेषामष्टतनुर्देवो ददाति परमं पदम् ॥ २७ ॥

सुवर्चला तथैवोमा विकेशी च तथा शिवा ।
स्वाहा दिशश्च दीक्षा च रोहिणी चेति पत्नयः ॥ २८ ॥

शनैश्चरस्तथा शुक्रो लोहिताङ्गो मनोजवः ।
स्कन्दः सर्गो ऽथ सन्तानो बुधश्चैषां सुताः स्मृताः ॥ २९ ॥

एवम्प्रकारो भगवान् देवदेवो महेश्वरः ।
प्रजाधर्मं च काम च त्यक्त्वा वैराग्यमाश्रितः ॥ ३० ॥

आत्मन्याध्य चात्मानमैश्वरं भावमास्थितः ।
पीत्वा तदक्षरं ब्रह्म शाश्वतं परमामृतम् ॥ ३१ ॥

प्रजाः सृजेति चादिष्टो ब्रह्मणा नीललोहितः ।
स्वात्मना सदृशान् रुद्रान् ससर्ज मनसा शिवः ॥ ३२ ॥

कपर्दिनो निरातङ्कान् नीलकण्ठान् पिनाकिनः ।
त्रिशूलहस्तानृष्टिघ्नान् महानन्दांस्त्रिलोचनान् ॥ ३३ ॥

जरामरणनिर्मुक्तान् महावृषभवाहनान् ।
वीतरागांश्च सर्वज्ञान् कोटिकोटिशतान् प्रभुः ॥ ३४ ॥

तान् दृष्ट्वा विविधान् रुद्रान निर्मलान् नीललोहितान् ।
जरामरणनिर्मुक्तान् व्याजहरा हरं गुरुः ॥ ३५ ॥

मा स्त्राक्षीरीदृशीर्देव प्रजा मृत्युविवर्जिताः ।
अन्याः सृजस्व भूतेश जन्ममृत्युसमन्विताः ॥ ३६ ॥

ततस्तमाह भगवान् कपर्दे कामशासनः ।
नास्ति मे तादृशः सर्गः सृज त्वमशुभाः प्रजाः ॥ ३७ ॥

स्वात्मजैरेव तै रुद्रैर्निवृत्तात्मा ह्यतिष्ठत ।
स्थाणुत्वं तेन तस्यासीद् देवदेवस्य शूलिनः ॥ ३८ ॥

ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः ।
स्त्रष्टृत्वमात्मसम्बोधो ह्यधिष्ठातृत्वमेव च ॥ ३९ ॥

अव्ययानि दशैतानि नित्यं तिष्ठन्ति शङ्करे ।
स एव शङ्करः साक्षात् पिनाकी परमेश्वरः ॥ ४० ॥

ततः स भगवान् ब्रह्मा वीक्ष्य देवं त्रिलोचनम् ।
सहैव मानसैः पुत्रैः प्रीतिविस्फारिलोचनः ॥ ४१ ॥

ज्ञात्वा परतरं भावमैश्वरं ज्ञानचक्षुषा ।
तुष्टाव जगतामेकं कृत्वा शिरसि चाञ्जलिम् ॥ ४२ ॥

नमस्ते ऽस्तु महादेव नमस्ते परमेश्वर ।
नमः शिवाय देवाय नमस्ते ब्रह्मरूपिणे ॥ ४३ ॥

नमो ऽस्तु ते महेशाय नमः शान्ताय हेतवे ।
प्रधानपुरुषेशाय योगाधिपतये नमः ॥ ४४ ॥
मूलम्
नमो ऽस्तु ते महेशाय नमः शान्ताय हेतवे ।
प्रधानपुरुषेशाय योगाधिपतये नमः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
नमः कालाय रुद्राय महाग्रासाय शूलिने ।
नमः पिनाकहस्ताय त्रिनेत्राय नमो नमः ॥ ४५ ॥

नमस्त्रिमूर्तये तुभ्यं ब्रह्मणो जनकाय ते ।
ब्रह्मविद्याधिपतये ब्रह्मविद्याप्रदायिने ॥ ४६ ॥

नमो वेदरहस्याय कालकालाय ते नमः ।
वेदान्तसारसाराय नमो वेदात्ममूर्तये ॥ ४७ ॥

नमो बुद्धाय शुद्धाय योगिनां गुरवे नमः ।
प्रहीणशोकैर्विविधैर्भूतैः वरिवृताय ते ॥ ४८ ॥

नमो ब्रह्मण्यदेवाय ब्रह्माधिपतये नमः ।
त्रियम्बकाय देवाय नमस्ते परमेष्ठिने ॥ ४९ ॥

नमो दिग्वाससे तुभ्यं नमो मुण्डाया दण्डिने ।
अनादिमलहीनाय ज्ञानगम्याय ते नमः ॥ ५० ॥

नमस्ताराय तीर्थाय नमो योगर्धिहेतवे ।
नमो धर्माधिगम्याय योगगम्याय ते नमः ॥ ५१ ॥

नमस्ते निष्प्रपञ्चाय निराभासाय ते नमः ।
ब्रह्मणे विश्वरूपाय नमस्ते परमात्मने ॥ ५२ ॥

त्वयैव सृष्टमखिलं त्वय्येव सकलं स्थितम् ।
त्वया संह्रियते विश्वं प्रधानाद्यं जगन्मय ॥ ५३ ॥

त्वमीश्वरो महादेवः परं ब्रह्म महेश्वरः ।
परमेष्ठी शिवः शान्तः पुरुषो निष्कलो हरः ॥ ५४ ॥

त्वमक्षरं परं ज्योतिस्त्वं कालः परमेश्वरः ।
त्वमेव पुरुषो ऽनन्तः प्रधानं प्रकृतिस्तथा ॥ ५५ ॥

भूमिरापो ऽनलो वायुर्व्योमाहङ्कार एव च ।
यस्य रूपं नमस्यामि भवन्तं ब्रह्मसञ्ज्ञितम् ॥ ५६ ॥

यस्य द्यौरभवन्मूर्धा पादौ पृथ्वी दिशो भुजाः ।
आकाशमुदरं तस्मै विराजे प्रणमाम्यहम् ॥ ५७ ॥

सन्तापयति यो विश्वं स्वभाभिर्भासयन् दिशः ।
ब्रह्मतेजोमयं नित्यं तस्मै सूर्यात्मने नमः ॥ ५८ ॥

हव्यं वहति यो नित्यं रौद्री तेजोमयो तनुः ।
कव्यं पितृगणानां च तस्मै वह्न्यात्मने नमः ॥ ५९ ॥

आप्यायति यो नित्यं स्वधाम्ना सकलं जगत् ।
पीयते देवतासङ्घैस्तस्मै सोमात्मने नमः ॥ ६० ॥

विभर्त्यशेषभूतानि यो ऽन्तश्चरति सर्वदा ।
शक्तिर्माहेश्चरी तुभ्यं तस्मै वाय्वात्मने नमः ॥ ६१ ॥

सृजत्यशेषमेवेदं यः स्वकर्मानुरूपतः ।
स्वात्मन्यवस्थितस्तस्मै चतुर्वक्त्रात्मने नमः ॥ ६२ ॥

यः शेषशयने शेते विश्वमावृत्य मायया ।
स्वात्मानुभूतियोगेन तस्मै विश्वात्मने नमः ॥ ६३ ॥

विभर्ति शिरसा नित्यं द्विसप्तभुवनात्मकम् ।
ब्रह्माण्डं यो ऽखिलाधारस्तस्मै शेषात्मने नमः ॥ ६४ ॥

यः परान्ते परानन्दं पीत्वा दिव्यैकसाक्षिकम् ।
नृत्यत्यनन्तमहिमा तस्मै रुद्रात्मने नमः ॥ ६५ ॥

यो ऽन्तरा सर्वभूतानां नियन्ता तिष्ठतीश्वरः ।
तं सर्वसाक्षिणं देवं नमस्ये भवतस्तनुम् ॥ ६६ ॥

यं विनिन्द्रा जितश्वासाः सन्तुष्टाः समदर्शिनः ।
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ ६७ ॥

यया सन्तरते मायां योगी सङ्क्षीणकल्मषः ।
अपारतरपर्यन्तां तस्मै विद्यात्मने नमः ॥ ६८ ॥

यस्य भासा विभातीदमद्वयं तमसः परम् ।
प्रपद्ये तत् परं तत्त्वं तद्रूपं परमेश्वरम् ॥ ६९ ॥

नित्यानन्दं निराधारं निष्कलं परमं शिवम् ।
प्रपद्ये परमात्मानं भवन्तं परमेश्वरम् ॥ ७० ॥

एवं स्तुत्वा महादेवं ब्रह्मा तद्भावभावितः ।
प्राञ्जलिः प्रणतस्तस्थौ गृणन् ब्रह्म सनातनम् ॥ ७१ ॥

ततस्तस्मै महादेवो दिव्यं योगमनुत्तमम् ।
ऐश्वर्यं ब्रह्मसद्भावं वैराग्यं च ददौ हरः ॥ ७२ ॥

कराभ्यां सुशुभाभ्यां च संस्पृश्य प्रणतार्तिहा ।
व्याजहरा स्वयं देवः सो ऽनुगृह्य पितामहम् ॥ ७३ ॥

यत्त्वयाभ्यर्थितं ब्रह्मन् पुत्रत्वे भवतो मम ।
कृतं मया तत् सकलं सृजस्व विविधं जगत् ॥ ७४ ॥

त्रिधा भिन्नो ऽस्म्यहं ब्रह्मन् ब्रह्मविष्णुहराख्यया ।
सर्गरक्षालयगुणैर्निष्कलः परमेश्वरः ॥ ७५ ॥

स त्वं ममाग्रजः पुत्रः सृष्टिहेतोर्विनिर्मितः ।
ममैव दक्षिणादङ्गाद् वामाङ्गात् पुरुषोत्तमः ॥ ७६ ॥

तस्य देवादिदेवस्य शम्भोर्हृदयदेशतः ।
सम्बभूवाथ रुद्रो ऽसावहं तस्यापरा तनुः ॥ ७७ ॥

ब्रह्मविष्णुशिवा ब्रह्मन् सर्गस्थित्यन्तहेतवः ।
विभज्यात्मानमेको ऽपि स्वेच्छया शङ्करः स्थितः ॥ ७८ ॥

तथान्यानि च रूपाणि मम मायाकृतानि तु ।
निरूपः केवलः स्वच्छो महादेवः स्वभावतः ॥ ७९ ॥

एभ्यः परतरो देवस्त्रिमूर्तिः परमा तनुः ।
माहेश्वरी त्रिनयना योगिनां शान्तिदा सदा ॥ ८० ॥

तस्या एव परां मूर्ति मामवेहि पितामह ।
शाश्वतैश्वर्यविज्ञानतेजोयोगसमन्विताम् ॥ ८१ ॥

सो ऽहं ग्रसामि सकलमधिष्ठाय तमोगुणम् ।
कालो भूत्वा न तमसा मामन्यो ऽभिभविष्यति ॥ ८२ ॥

यदा यदा हि मां नित्यं विचिन्तयसि पद्मज ।
तदा तदा मे सान्निध्यं भविष्यति तवानघ ॥ ८३ ॥

एतावदुक्त्वा ब्रह्माणं सो ऽभिवन्द्य गुरुं हरः ।
सहैव मानसैः पुत्रैः क्षणादन्तरधीयत ॥ ८४ ॥

सो ऽपि योगं समास्थाय ससर्ज विविधं जगत् ।
नारायणाख्यो भगवान् यथापूर्वं प्रिजापतिः ॥ ८५ ॥

मरीचिभृग्वङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ।
दक्षमत्रिं वसिष्ठं च सो ऽसृजद् योगविद्यया ॥ ८६ ॥

नव ब्रह्माण इत्येते पुराणे निश्चयं गताः ।
सर्वे ते ब्रह्मणा तुल्याः साधका ब्रह्मवादिनः ॥ ८७ ॥

सङ्कल्पं चैव धर्मं च युगधर्मांश्च शाश्वतान् ।
स्थानाभिमानिनः सर्वान् यथा ते कथितं पुरा ॥ ८८ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे देशमो ऽध्यायः