सूत उवाच
विश्वास-प्रस्तुतिः
एतच्छ्रुत्वा तु वचनं नारदाद्या महर्षयः ।
प्रणम्य वरदं विष्णुं पप्रच्छुः संशयान्विता ॥ १ ॥
मूलम्

कथितो भवता सर्गो मुख्यादीनां जनार्दन ।
इदानीं संशयं चेममस्माकं छेत्तुमर्हसि ॥ २ ॥

कथं स भगवानीशः पूर्वजो ऽपि पिनाकधृक् ।
पुत्रत्वमगच्छम्भुर्ब्रह्मणो ऽव्यक्तजन्मनः ॥ ३ ॥

कथं च भगवाञ्जज्ञे ब्रह्मा लोकपितामहः ।
अण्डजो जगतामीशस्तन्नो वक्तुमिहार्हसि ॥ ४ ॥

शृणुध्वमृषयः सर्वे शङ्करस्यामितौजसः ।
पुत्रत्वं ब्रह्मणस्तस्य पद्मयोनित्वमेव च ॥ ५ ॥

अतीतकल्पावसाने तमोभूतं जगत् त्रयम् ।
आसीदेकार्णवं सर्वं न देवाद्या न चर्षयः ॥ ६ ॥

तत्र नारायणो देवो निर्जने निरुपप्लवे ।
आश्रित्य शेषशयनं सुष्वाप पुरुषोत्तमः ॥ ७ ॥

सहस्रशीर्षा भूत्वा स सहस्राक्षः सहस्रपात् ।
सहस्रबाहुः सर्वज्ञश्चिन्त्यमानो मनीषिभिः ॥ ८ ॥

पीतवासा विशालाक्षो नीलजिमूतसन्निभः ।
महाविभूतिर्योगात्मा योगिनां हृदयालयः ॥ ९ ॥

कदाचित् तस्य सुप्तस्य लीलार्थं दिव्यमद्भुतम् ।
त्रैलोक्यसारं विमलं नाभ्यां पङ्कजमुद्वभौ ॥ १० ॥

शतयोजनविस्तीर्णं तरुणादित्यसन्निभम् ।
दिव्यगन्धमयं पुण्यं कर्णिकाकेसरान्वितम् ॥ ११ ॥

तस्यैवं सुचिरं कालं वर्तमानस्य शार्ङ्गिणः ।
हिरण्यगर्भो भगवांस्तं देशमुपचक्रमे ॥ १२ ॥

स तं करेण विश्वात्मा समुत्थाप्य सनातनम् ।
प्रोवाच मधुरं वाक्यं मायया तस्य मोहितः ॥ १३ ॥

अस्मिन्नेकार्णवे घोरे निर्जने तमसावृते ।
एकाकी को भवाञ्छेते ब्रूहि मे पुरुषर्षभ ॥ १४ ॥

तस्य तद् वचनं श्रुत्वा विहस्य गरुडध्वजः ।
उवाच देवं ब्रह्माणं मेघगम्भीरनिः स्वनः ॥ १५ ॥

भो भो नारायणं देवं लोकानां प्रभवाप्ययम् ।
महायोगेश्वरं मां त्वं जानीहि पुरुषोत्तमम् ॥ १६ ॥

मयि पश्य जगत् कृत्स्नं त्वां च लोकपितामहम् ।
सपर्वतमहाद्वीपं समुद्रैः सप्तभिर्वृतम् ॥ १७ ॥

एवमाभाष्य विश्चात्मा प्रोवाच पुरुषं हरिः ।
जानन्नपि महायोगी को भवानिति वेधसम् ॥ १८ ॥

ततः प्रहस्य भगवान् ब्रह्मा वेदनिधिः प्रभुः ।
प्रत्युवाचाम्बुजाभाक्षं सस्मितं श्लक्ष्णया गिरा ॥ १९ ॥

अहं धाता विधाता च स्वयम्भूः प्रपितामहः ।
मय्येव संस्थितं विश्वं ब्रह्माहं विश्वतोमुखः ॥ २० ॥

श्रुत्वा वाचं स भगवान् विष्णुः सत्यपराक्रमः ।
अनुज्ञाप्याथ योगेन प्रविष्टो ब्रह्मणस्तनुम् ॥ २१ ॥

त्रलोक्यमेतत् सकलं सदेवासुरमानुषम् ।
उदरे तस्य देवस्य दृष्ट्वा विस्मयमागतः ॥ २२ ॥

तदास्य वक्त्रान्निष्क्रम्य पन्नगेन्द्रनिकेतनः ।
अजातशत्रुर्भगवान् पितामहमथाब्रवीत् ॥ २३ ॥

भवानप्येवमेवाद्य शाश्वतं हि ममोहरम् ।
प्रविश्य लोकान् पश्यैतान् विचित्रान् पुरुषर्षभ ॥ २४ ॥

ततः प्रह्लादनीं वाणी श्रुत्वा तस्याभिनन्द्य च ।
श्रीपतेरुदरं भूयः प्रविवेश कुशध्वजः ॥ २५ ॥

तानेव लोकान् गर्भस्थानपश्यत् सत्यविक्रमः ।
पर्यटित्वा तु देवस्य ददृशे ऽन्तं न वै हरेः ॥ २६ ॥

ततो द्वाराणि सर्वाणि पिहितानि महात्मना ।
जनार्दनेन ब्रह्मासौ नाभ्यां द्वारमविन्दत ॥ २७ ॥

तत्र योगबलेनासौ प्रविश्य कनकाण्डजः ।
उज्जहारात्मनो रूपं पुष्कराच्चतुराननः ॥ २८ ॥

विरराजारविन्दस्थः पद्मगर्भसमद्युतिः ।
ब्रह्मा स्वयम्भूर्भगवान् जगद्योनिः पितामहः ॥ २९ ॥

समन्यमानो विश्वेशमात्मानं परमं पदम् ।
प्रोवाच पुरुषं विष्णुं मेघगम्भीरया गिरा ॥ ३० ॥

किं कृतं भवतेदानीमात्मनो जयकाङ्क्षया ।
एको ऽहं प्रबलो नान्यो मां वै को ऽबिभविष्यति ॥ ३१ ॥

श्रुत्वा नारायणो वाक्यं ब्रह्मणो लोकतन्त्रिणः ।
सान्त्वपूर्वमिदं वाक्यं बभाषे मधुरं हरिः ॥ ३२ ॥

भवान् धाता विधाता च स्वयम्भूः प्रपितामहः ।
न मात्सर्याभियोगेन द्वाराणि पिहितानि मे ॥ ३३ ॥

किन्तु लीलार्थमेवैतन्न त्वां बाधितुमिच्छया ।
को हि बाधितुमन्विच्छेद् देवदेवं पितामहम् ॥ ३४ ॥

न ते ऽन्यथावगन्तव्यं मान्यो मे सर्वथा भवान् ।
सर्वमन्वय कल्याणं यन्मयापहृतं तव ॥ ३५ ॥

अस्माच्च कारणाद् ब्रह्मन् पुत्रो भवतु मे भवान् ।
पद्मयोनिरिति ख्यातो मत्प्रियार्थं जगन्मय ॥ ३६ ॥

ततः स भगवान् देवो वरं दत्त्वा किरीटिने ।
प्रहर्षमतुलं गत्वा पुनर्विष्णुमभाषत ॥ ३७ ॥

भवान् सर्वात्मको ऽनन्तः सर्वेषां परमेश्वरः ।
सर्वभूतान्तरात्मा वै परं बह्म सनातनम् ॥ ३८ ॥

अहं वै सर्वलोकानामात्मा लोकमहेश्वरः ।
मन्मयं सर्वमेवेदं ब्रह्माहं पुरुषः परः ॥ ३९ ॥

नावाभ्यां विद्यते ह्यन्यो लोकानां परमेश्वरः ।
एका मूर्तिर्द्विधा भिन्ना नारायणपितामहौ ॥ ४० ॥

तेनैवमुक्तो ब्रह्माणं वासुदेवो ऽब्रवीदिदम् ।
इयं प्रतिज्ञा भवतो विनाशाय भविष्यति ॥ ४१ ॥

किं न पश्यसि योगेशं ब्रह्माधिपतिमव्ययम् ।
प्रधानपुरुषेशानं वेदाहं परमेश्वरम् ॥ ४२ ॥

यं न पश्यन्ति योगीन्द्राः साङ्ख्या अपि महेश्वरम् ।
अनादिनिधनं ब्रह्म तमेव शरणं व्रज ॥ ४३ ॥

ततः क्रुद्धो ऽम्बुजाभाक्षं ब्रह्मा प्रोवाच केशवम् ।
भवान् न नूनमात्मानं वेत्ति तत् परमक्षरम् ॥ ४४ ॥

ब्रह्माणं जगतामेकमात्मानं परमं पदम् ।
नावाभ्यां विद्यते ह्यन्यो लोकानां परमेश्वरः ॥ ४५ ॥

सन्त्यज्य निद्रां विपुलां स्वमात्मानं विलोकय ।
तस्य तत् क्रोधजं वाक्यं श्रुत्वा विष्णुरभाषत ॥ ४६ ॥

मा मैवं वद कल्याण परिवादं महात्मनः ।
न मे ऽस्त्यविदितं ब्रह्मन् नान्यथाहं वदामिते ॥ ४७ ॥

किन्तु मोहयति ब्रह्मन् भवन्तं पारमेश्वरी ।
मायाशेषविशेषाणां हेतुरात्मसमुद्भावा ॥ ४८ ॥

एतावदुक्त्वा भगवान् विष्णुस्तूष्णीं बभूव ह ।
ज्ञात्वा तत् परमं तत्त्वं स्वमात्मानं महेश्वरम् ॥ ४९ ॥

कुतो ऽप्यपरिमेयात्मा भूतानां परमेश्वरः ।
प्रसादं ब्रह्मणे कर्तुं प्रादुरासीत् ततो हरः ॥ ५० ॥

ललाटनयनो ऽनन्तो जटामण्डलमण्डितः ।
त्रिशूलपाणिर्भगवांस्तेजसां परमो निधिः ॥ ५१ ॥

दिव्यां विशालां ग्रथितां ग्रहैः सार्केन्दुतारकैः ।
मालामत्यद्भुताकारां धारयन् पादलम्बिनीम् ॥ ५२ ॥

तं दृष्ट्वा देवमीशानं ब्रह्मा लोकपितामहः ।
मोहितो माययात्यर्थं पीतवाससमब्वीत् ॥ ५३ ॥

क एष पुरुषो ऽनन्तः शूलपाणिस्त्रिलोचनः ।
तेजोराशिरमेयात्मा समायाति जनार्दन ॥ ५४ ॥

तस्य तद् वचनं श्रुत्वा विष्णुर्दानवमर्दनः ।
अपश्यदीश्वरं देवं ज्वलन्तं विमले ऽम्भसि ॥ ५५ ॥

ज्ञात्वा तत्परमं भावमैश्वरं ब्रह्मभावनम् ।
प्रोवाचोत्थाय भगवान् देवदेवं पितामहम् ॥ ५६ ॥

अयं देवो महादेवः स्वयञ्ज्योतिः सनातनः ।
अनादिनिधनो ऽचिन्त्यो लोकानामीश्वरो महान् ॥ ५७ ॥

शङ्करः शम्भुरीशानः सर्वात्मा परमेश्वरः ।
भूतानामधिपो योगी महेशो विमलः शिवः ॥ ५८ ॥

एष धाता विधाता च प्रधानपुरुषेश्वरः ।
यं प्रपश्यन्ति यतयो ब्रह्मभावेन भाविताः ॥ ५९ ॥

सृजत्येष जगत् कृत्स्नं पाति संहरते तथा ।
कालो भूत्वा महादेवः केवलो निष्कलः शिवः ॥ ६० ॥

ब्रह्माणं विदधे पूर्वं भवन्तं यः सनातनः ।
वेदांश्च प्रददौ तुभ्यं सो ऽयमायाति शङ्करः ॥ ६१ ॥

अस्यैव चापरां मूर्ति विश्वयोनिं सनातनीम् ।
वासुदेवाभिधानां मामवेहि प्रपितामह ॥ ६२ ॥
मूलम्
अस्यैव चापरां मूर्ति विश्वयोनिं सनातनीम् ।
वासुदेवाभिधानां मामवेहि प्रपितामह ॥ ६२ ॥
विश्वास-प्रस्तुतिः
किं न पश्यसि योगेशं ब्रह्माधिपतिमव्ययम् ।
दिव्यं भवतु ते चक्षुर्येन द्रक्ष्यसि तत्परम् ॥ ६३ ॥

लब्ध्वा शैवं तदा चक्षुर्विष्णोर्लोकपितामहः ।
बुबुधे परमेशानं पुरतः समवस्थितम् ॥ ६४ ॥

स लब्ध्वा परमं ज्ञानमैश्वरं प्रपितामहः ।
प्रपेदे शरणं देवं तमेव पितरं शिवम् ॥ ६५ ॥

ओङ्कारं समनुस्मृत्य संस्तभ्यात्मानमात्मना ।
अथर्वशिरसा देवं तुष्टाव च कृताञ्जलिः ॥ ६६ ॥

संस्तुतस्तेन भगवान् ब्रह्मणा परमेश्वरः ।
अवाप परमां प्रीतिं व्याजहार स्मयन्निव ॥ ६७ ॥

मत्समस्त्वं न सन्देहो मद्भक्तश्च यतो भवान् ।
मयैवोत्पादितः पूर्वं लोकसृष्ट्यर्थमव्ययम् ॥ ६८ ॥

त्वमात्मा ह्यादिपुरुषो मम देहसमुद्भवः ।
वरं वरय विश्वात्मन् वरदो ऽहं तवानघ ॥ ६९ ॥

स देवदेववचनं निशम्य कमलोद्भवः ।
निरीक्ष्य विष्णुं पुरुषं प्रणम्याह वृषध्वजम् ॥ ७० ॥

भगवन् भूतभव्येश महादेवाम्बिकापते ।
त्वामेव पुत्रमिच्छामि त्वया वा सदृशं सतम् ॥ ७१ ॥

मोहितो ऽस्मि महादेव मायया सूक्ष्मया त्वया ।
न जाने परमं भावं याथातथ्येन ते शिव ॥ ७२ ॥

त्वमेव देव भक्तानां भ्राता माता पिता सुहृत् ।
प्रसीद तव पादाब्जं नमामि शरणं गतः ॥ ७३ ॥

स तस्य वचनं श्रुत्वा जगन्नाथो वृषध्वजः ।
व्याजहार तदा पुत्रं समालोक्य जनार्दनम् ॥ ७४ ॥

यदर्थितं भगवता तत् करिष्यामि पुत्रक ।
विज्ञानमैश्वरं दिव्यमुत्पत्स्यति तवानघ ॥ ७५ ॥

त्वमेव सर्वभूतानामादिकर्ता नियोजितः ।
तथा कुरुष्व देवेश मया लोकपितामह ॥ ७६ ॥
मूलम्
त्वमेव सर्वभूतानामादिकर्ता नियोजितः ।
तथा कुरुष्व देवेश मया लोकपितामह ॥ ७६ ॥
विश्वास-प्रस्तुतिः
एष नारायणो ऽनन्तो ममैव परमा तनुः ।
भविष्यति तवेशानो योगक्षेमवहो हरिः ॥ ७७ ॥

एवं व्याहृत्य हस्ताभ्यां प्रीतात्मा परमेश्वरः ।
संस्पृश्य देवं ब्रह्माणं हरिं वचनमब्रवीत् ॥ ७८ ॥

तृष्टो ऽस्मि सर्वथाहन्ते भक्त्या तव जगन्मय ।
वरं वृणीष्वं नह्यावां विभिन्नौ परमार्थतः ॥ ७९ ॥

श्रुत्वाथ देववचनं विष्णुर्विश्वजगन्मयः ।
प्राह प्रसन्नया वाचा समालोक्य चतुर्मुखम् ॥ ८० ॥

एष एव वरः श्लोघ्यो यदहं परमेश्वरम् ।
पश्यामि परमात्मानं भक्तिर्भवतु मे त्वयि ॥ ८१ ॥

तथेत्युक्त्वा महादेवः पुनर्विष्णुमभाषत ।
भवान् सर्वस्य कार्यस्य कर्ताहऽमधिदैवतम् ॥ ८२ ॥

मन्मयं त्वन्मयं चैव सर्वमेतन्न संशयः ।
भवान् सोमस्त्वहं सूर्यो भवान् रात्रिरहं दिनम् ॥ ८३ ॥

भवान् प्रकृतिरव्यक्तमहं पुरुष एव च ।
भवान् ज्ञानमहं ज्ञाता भवान् मायाहमीश्वरः ॥ ८४ ॥

भवान् विद्यात्मिका शक्तिः शक्तिमानहमीश्वरः ।
यो ऽहं सुनिष्कलो देवः सो ऽपि नारायणः परः ॥ ८५ ॥

त्वामनाश्रित्य विश्वात्मन् न योगी मामुपैष्यति ।
पालयैतज्जगत् कृत्स्नं सदेवासुरमानुषम् ॥ ८६ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे नवमो ऽध्यायः