श्रीकूर्म उवाच
विश्वास-प्रस्तुतिः
एवं भूतानि सृष्टानि स्थावराणि चराणि च ।
यदा चास्य प्रजाः सृष्टा न व्यवर्धन्त धीमतः ॥ १ ॥
मूलम्

तमोमात्रावृतो ब्रह्मा तदाशोचत दुः खितः ।
ततः स विदधे बुद्धिमर्थनिश्चयगामिनीम् ॥ २ ॥

अथात्मनि समद्राक्षीत् तमोमात्रां नियामिकाम् ।
रजः सत्त्वं च संवृत्य वर्तमानां स्वधर्मतः ॥ ३ ॥

तमस्तद् व्यनुदत् पश्चात् रजः सत्त्वेन संयुतः ।
तत् तमः प्रतिनुन्नं वै मिथुनं समजायत ॥ ४ ॥

अधर्माचरणो विप्रा हिंसा चाशुभलक्षणा ।
स्वां तनुं स ततो ब्रह्मा तामपोहत भास्वराम् ॥ ५ ॥

द्विधाकरोत् पुनर्देहमर्धेन पुरुषो ऽभवत् ।
अर्धेन नारी पुरुषो विराजमसृजत् प्रभुः ॥ ६ ॥

नारीं च शतरूपाख्यां योगिनीं ससृजे शुभाम् ।
सा दिवं पृथिवीं चैव महम्ना व्याप्य संस्थिता ॥ ७ ॥

योगैश्वर्यबलोपेता ज्ञानविज्ञानसंयुता ।
यो ऽभवत् पुरुषात् पुत्रो विराडव्यक्तजन्मनः ॥ ८ ॥

स्वायम्भुवो मनुर्देवः सो ऽभवत् पुरुषो मुनिः ।
सा देवी शतरूपाख्या तपः कृत्वा सुदुश्चरम् ॥ ९ ॥

भर्तारं ब्रह्मणः पुत्रं मनुमेवानुपद्यत ।
तस्माच्च शतरूपा सा पुत्रद्वयमसूयत ॥ १० ॥

प्रियव्रतोत्तानपादौ कन्याद्वयमनुत्तमम् ।
तयोः प्रसूतिं दक्षाय मनुः कन्यां ददौ पुनः ॥ ११ ॥

आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम् ।
यज्ञश्च दक्षिणा चैव याभ्यां संवर्धितं जगत् ॥ १२ ॥

यज्ञस्य दक्षिणायां तु पुत्रा द्वादश जज्ञिरे ।
यामा इति समाक्यता देवाः स्वायम्भुवे ऽन्तरे ॥ १३ ॥

प्रसूत्यां च तथा दक्षश्चतस्त्रो विंशतिं तथा ।
ससर्ज कन्या नामानि तासां सम्यम् निबोधत ॥ १४ ॥

श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा ।
बुद्धिर्लज्जावपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी ॥ १५ ॥

पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः शुभाः ।
ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ॥ १६ ॥

ख्यातिः सत्यथ सम्भूतिः स्मृतिः प्रीतिः क्षमा तथा ।
सन्ततिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥ १७ ॥

भृगुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः ।
पुलस्त्यः पुलहश्चैव क्रतुः परमधर्मवित् ॥ १८ ॥

अत्रिर्वसिष्ठो वह्निश्च पितरश्च यथाक्रमम् ।
ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः ॥ १९ ॥

श्रद्धाया आत्मजः कामो दर्पो लक्ष्मीसुतः स्मृतः ।
धृत्यास्तु नियमः पुत्रस्तुष्ट्याः सन्तोष उच्यते ॥ २० ॥

पुष्ट्या लाभः सुतश्चापि मेधापुत्रः श्रुतस्तथा ।
क्रियायाश्चाभवत् पुत्रो दण्डः समय एव च ॥ २१ ॥

बुद्ध्या बोधः सुतस्तद्वदप्रमादो व्यजायत ।
लज्जाया विनयः पुत्रो वपुषो व्यवसायकः ॥ २२ ॥

क्षेमः शान्तिसुतश्चापि सुखं सिद्धिरजायत ।
यशः कीर्तिसुतस्तद्वदित्येते धर्मसूनवः ॥ २३ ॥

कामस्य हर्षः पुत्रो ऽभूद् देवानन्दो व्यजायत ।
इत्येष वै सुखोदर्कः सर्गो धर्मस्य कीर्तितः ॥ २४ ॥

जज्ञे हिंसा त्वधर्माद् वै निकृतिं चानृतं सुतम् ।
निकृत्यनृतयोर्जज्ञे भयं नरक एव च ॥ २५ ॥

माया च वेदना चैव मिथुनं त्विदमेतयोः ।
भयाज्जज्ञे ऽथ वै माया मृत्युं भूतापहारिणम् ॥ २६ ॥

वेदना च सुतं चापि दुः खं जज्ञे ऽथ रौरवात् ।
मृत्योर्व्याधिजराशोकतृष्णाक्रोधाश्च जज्ञिरे ॥ २७ ॥

दुः खोत्तराः स्मृता ह्येते सर्वे चाधर्मलक्षणाः ।
नैषां भार्यास्ति पुत्रो वा सर्वे ते ह्यूर्ध्वरेतसः ॥ २८ ॥

इत्येष तामसः सर्गो जज्ञे धर्मनियामकः ।
सङ्क्षेपेण मया प्रोक्ता विसृष्टिर्मुनिपुङ्गवा ॥ २९ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे ऽष्टमो ऽध्यायः