श्रीकूर्म उवाच
विश्वास-प्रस्तुतिः
आसीदेकार्णवं घोरमविभागं तमोमयम् ।
शान्तवातादिकं सर्वं न प्रज्ञायत किञ्चन ॥ १ ॥
मूलम्

एकार्णवे तदा तस्मिन् नष्टे स्थावरजङ्गमे ।
तदा समभवद् ब्रह्मा सहस्राक्षः सहस्रपात् ॥ २ ॥

सहस्रशीर्षा पुरुषो रुक्मवर्णस्त्वतीन्द्रियः ।
ब्रह्मा नारायणाख्यस्तु सुष्वाप सलिले तदा ॥ ३ ॥

इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति ।
ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम् ॥ ४ ॥

आपो नारा इति प्रोक्ता नाम्ना पूर्वमिति श्रुतिः ।
अयनं तस्य ता यस्मात् तेन नारायणः स्मृतः ॥ ५ ॥

तुल्यं युगसहस्रस्य नैशं कालमुपास्य सः ।
शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात् ॥ ६ ॥

ततस्तु सलिले तस्मिन् विज्ञायान्तर्गतां महीम् ।
अनुमानात् तदुद्धारं कर्तुकामः प्रजापतिः ॥ ७ ॥

जलक्रीडासु रुचिरं वाराहं रुपमास्थितः ।
अधृष्यं मनसाप्यन्यैर्वाङ्मयं ब्रह्मसञ्ज्ञितम् ॥ ८ ॥

पृथिव्युद्धरणार्थाय प्रविश्य च रसातलम् ।
दंष्ट्रयाभ्युज्जहारैनामात्माधारो धराधरः ॥ ९ ॥

दृष्ट्वा दंष्ट्राग्रविन्यस्तां पृथिवीं प्रथितपौरुषम् ।
अस्तुवञ्जनलोकस्थाः सिद्धा ब्रह्मर्षयो हरिम् ॥ १० ॥

नमस्ते देवदेवाय ब्रह्मणे परमेष्ठिने ।
पुरुषाय पुराणाय शाश्वताय जयाय च ॥ ११ ॥
मूलम्
नमस्ते देवदेवाय ब्रह्मणे परमेष्ठिने ।
पुरुषाय पुराणाय शाश्वताय जयाय च ॥ ११ ॥
विश्वास-प्रस्तुतिः
नमः स्वयम्भुवे तुभ्यं स्त्रष्ट्रे सर्वार्थवेदिने ।
नमो हिरण्यगर्भाय वेधसे परमात्मने ॥ १२ ॥

नमस्ते वासुदेवाय विष्णवे विश्वयोनये ।
नारायणाय देवाय देवानां हितकारिणे ॥ १३ ॥
मूलम्
नमस्ते वासुदेवाय विष्णवे विश्वयोनये ।
नारायणाय देवाय देवानां हितकारिणे ॥ १३ ॥
विश्वास-प्रस्तुतिः
नमो ऽस्तु ते चतुर्वक्त्रे शार्ङ्गचक्रासिधारिणे ।
सर्वभूतात्मभूताय कूटस्थाय नमो नमः ॥ १४ ॥

नमो वेदरहस्याय नमस्ते वेदयोनये ।
नमो बुद्धाय शुद्धाय नमस्ते ज्ञानरूपिणे ॥ १५ ॥

नमो ऽस्त्वानन्दरूपाय साक्षिणे जगतां नमः ।
अनन्तायाप्रमेयाय कार्याय करणाय च ॥ १६ ॥

नमस्ते पञ्चबूताय पञ्चभूतात्मने नमः ।
नमो मूलप्रकृतये मायारूपाय ते नमः ॥ १७ ॥
मूलम्
नमस्ते पञ्चबूताय पञ्चभूतात्मने नमः ।
नमो मूलप्रकृतये मायारूपाय ते नमः ॥ १७ ॥
विश्वास-प्रस्तुतिः
नमो ऽस्तु ते वराहाय नमस्ते मत्स्यरूपिणे ।
नमो योगाधिगम्याय नमः सकर्षणाय ते ॥ १८ ॥

नमस्त्रिमूर्तये तुभ्यं त्रिधाम्ने दिव्यतेजसे ।
नमः सिद्धाय पूज्याय गुणत्रयविभाविने ॥ १९ ॥

तमो ऽस्त्वादित्यवर्णाय नमस्ते पद्मयोनये ।
नमो ऽमूर्ताय मूर्ताय माधवाय नमो नमः ॥ २० ॥

त्वयैव सृष्टमखिलं त्वय्येव लयमेष्यति ।
पालयैतज्जगत् सर्वं त्राता त्वं शरणं गति ॥ २१ ॥

इत्थं स भगवान् विष्णुः सनकाद्यैरभिष्टुतः ।
प्रसादमकरोत् तेषां वराहवपुरीश्वरः ॥ २२ ॥

ततः संस्थानमानीय पृथिवीं पृथिवीपतिः ।
मुमोच रूपं मनसा धारयित्वा प्रिजापतिः ॥ २३ ॥

तस्योपरि जलौघस्य महती नौरिव स्थिता ।
विततत्वाच्च देहस्य न मही याति सम्प्लवम् ॥ २४ ॥

पृथिवीं तु समीकृत्य पृथिव्यां सो ऽचिनोद् गिरीन् ।
प्राक्सर्गदग्धानखिलांस्ततः सर्गे ऽदधन्मनः ॥ २५ ॥

इति श्रीकूर्मपुराणे षटसाहस्त्र्यां संहितायां पूर्वविभागे षष्ठो ऽध्यायः