श्रीकूर्म उवाच
विश्वास-प्रस्तुतिः
स्वयम्भुवो विवृत्तस्य कालसङ्ख्या द्विजोत्तमाः ।
न शक्यते समाख्यातुं बहुवर्षैरपि स्वयम् ॥ १ ॥
मूलम्

कालसङ्ख्या समासेन परार्धद्वयकल्पिता ।
स एव स्यात् परः कालः तदन्ते प्रतिसृज्यते ॥ २ ॥

निजेन तस्य मानेन आयुर्वर्षशतं स्मृतम् ।
तत् पराख्यं तदर्धं च परार्धमभिदीयते ॥ ३ ॥

काष्ठा पञ्चदश ख्याता निमेषा द्विजसत्तमाः ।
काष्ठास्त्रिंशत् कला त्रिंशत् कला मौहूर्तिकी गतिः ॥ ४ ॥

तावत्सङ्ख्यैरहोरात्रं मुहूर्तैर्मानुषं स्मृतम् ।
अहोरात्राणि तावन्ति मासः पक्षद्वयात्मकः ॥ ५ ॥

तैः षड्भिरयनं वर्षं द्वे ऽयने दक्षिणोत्तरे ।
अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम् ॥ ६ ॥

दिव्यैर्वर्षसहस्रैस्तु कृतत्रेतादिसञ्ज्ञितम् ।
चतुर्युगं द्वादशभिः तद्विभागं निबोधत ॥ ७ ॥

चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च कृतस्य तु ॥ ८ ॥

त्रिशती द्विशती सन्ध्या तथा चैकशती क्रमात् ।
अंशकं षट्शतं तस्मात् कृसन्ध्यांशकं विना ॥ ९ ॥

त्रिद्व्येकसाहस्त्रमतो विना सन्ध्यांशकेन तु ।
त्रेताद्वापरतिष्याणां कालज्ञाने प्रकीर्तितम् ॥ १० ॥

एतद् द्वादशसाहस्त्रं साधिकं परिकल्पितम् ।
तदेकसप्ततिगुणं मनोरन्तरमुच्यते ॥ ११ ॥

ब्रह्मणो दिवसे विप्रा मनवः स्युश्चतुर्दश ।
स्वायम्भुवादयः सर्वे ततः सावर्णिकादयः ॥ १२ ॥

तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता ।
पूर्णं युगसहस्रं वै परिपाल्या नरेश्वरैः ॥ १३ ॥

मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै ।
व्याख्यातानि न सन्देहः कल्पं कल्पेन चैव हि ॥ १४ ॥

ब्राह्ममेकमहः कल्पस्तावती रात्रिरिष्यते ।
चतुर्युगसहस्रं तु कल्पमाहुर्मनीषिणः ॥ १५ ॥

त्रीणि कल्पशतानि स्युः तथा षष्टिर्द्विजोत्तमाः ।
ब्रह्मणः कथितं वर्षं पराख्यं तच्छतं विदुः ॥ १६ ॥

तस्यान्ते सर्वतत्त्वानां स्वहेतौ प्रकृतौ लयः ।
तेनायं प्रोच्यते सद्भिः प्राकृतः प्रतिसञ्चरः ॥ १७ ॥

ब्रह्मनारायणेशानां त्रयाणां प्रकृतौ लयः ।
प्रोच्यते कालयोगेन पुनरेव च सम्भवः ॥ १८ ॥

एवं ब्रह्मा च भूतानि वासुदेवो ऽपि शङ्करः ।
कालेनैव तु सृज्यन्ते स एव ग्रसते पुनः ॥ १९ ॥

अनादिरेष भगवान् कालो ऽनन्तो ऽजरो ऽमरः ।
सर्वगत्वात् स्वतन्त्रत्वात् सर्वात्मासौ महेश्वरः ॥ २० ॥

ब्रह्माणो बहवो रुद्रा ह्यन्ये नारायणादयः ।
एको हि भगवानीशः कालः कविरिति श्रुति ॥ २१ ॥

एकमत्र व्यतीतं तु परार्धं ब्रह्मणो द्विजाः ।
साम्प्रतं वर्तते तद्वत् तस्य कल्पो ऽयमष्टमः ॥ २२ ॥

यो ऽतीतः सप्तमः कल्पः पाद्म इत्युच्यते बुधैः ।
वाराहो वर्तते कल्पः तस्य वक्ष्यामि विस्तरम् ॥ २३ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चमो ऽध्यायः