०४

सूत उवाच

विश्वास-प्रस्तुतिः

श्रुत्वाऽश्रमविधिं कृत्सनमृषयो हृष्टमानसाः ।
नमस्कृत्य हृषीकेशं पुनर्वचनमब्रुवन् ॥ १ ॥

मूलम्

मुनय ऊचुः
विश्वास-प्रस्तुतिः

भाषितं भवता सर्वं चातुराश्रम्यमुत्तमम् ।
इदानीं श्रोतुमिच्छामो यथा सम्भवते जगत् ॥ २ ॥

कुतः सर्वमिदं जातं कस्मिंश्च लयमेष्यति ।
नियन्ता कश्च सर्वेषां वदस्व पुरुषोत्तम ॥ ३ ॥

श्रुत्वा नारायणो वाक्यमृषीणां कूर्मरूपधृक् ।
प्राह गम्भीरया वाचा भूतानां प्रभवाप्ययौ ॥ ४ ॥

श्रीकूर्म उवाच
विश्वास-प्रस्तुतिः

महेश्वरः परो ऽव्यक्तश्चतुर्व्यूहः सनातनः ।
अनन्तश्चाप्रमेयश्च नियन्ता विश्वतोमुखः ॥ ५ ॥

अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् ।
प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिन्तकाः ॥ ६ ॥

गन्धवर्णरसैर्हेनं शब्दस्पर्शविवर्जितम् ।
अजरं ध्रुवमक्षय्यं नित्यं स्वात्मन्यवस्थितम् ॥ ७ ॥

जगद्योनिर्महाभूतं परं ब्रह्म सनातनम् ।
विग्रहः सर्वभूतानामात्मनाधिष्ठितं महत् ॥ ८ ॥

अनाद्यन्तमजं सूक्ष्मं त्रिगुणं प्रभवाप्ययम् ।
असाम्प्रतमविज्ञेयं ब्रह्माग्रे समवर्तत ॥ ९ ॥

गुणसाम्ये तदा तस्मिन् पुरुषे चात्मनि स्थिते ।
प्राकृतः प्रलयो ज्ञेयो यावद् विश्वसमुद्भवः ॥ १० ॥

ब्राह्मी रात्रिरियं प्रोक्ता अहः सृष्टिरुदाहृता ।
अहर्न विद्यते तस्य न रात्रिर्ह्युपचारतः ॥ ११ ॥

निशान्ते प्रतिबुद्धो ऽसौ जगदादिरनादिमान् ।
सर्वभूतमयो ऽव्यक्तो ह्यन्तर्यामीश्वरः परः ॥ १२ ॥

प्रकृतिं पुरुषं चैव प्रविश्याशु महेश्वरः ।
क्षोभयामास योगेन परेण परमेश्वरः ॥ १३ ॥

यथा मदो नरस्त्रीणां यथा वा माधवो ऽनिलः ।
अनुप्रविष्टः क्षोभाय तथासौ योगमूर्तिमान् ॥ १४ ॥

स एव क्षोभको विप्राः क्षोभ्यश्च परमेश्वरः ।
स सङ्कोचविकासाभ्यां प्रधानत्वे ऽपि च स्थितः ॥ १५ ॥

प्रधानात् क्षोभ्यमाणाच्च तथा पुंसः पुरातनात् ।
प्रादुरासीन्महद् बीजं प्रधानपुरुषात्मकम् ॥ १६ ॥

महानात्मा मतिर्ब्रह्मा प्रबुद्धिः ख्यातिरीश्वरः ।
प्रज्ञाधृतिः स्मृतिः संविदेतस्मादिति तत् स्मृतम् ॥ १७ ॥

वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ।
त्रिविधो ऽयमहङ्कारो महतः सम्बभूव ह ॥ १८ ॥

अहङ्कारो ऽबिमानश्च कर्ता मन्ता च स स्मृतः ।
आत्मा च पुद्गलो जीवो यतः सर्वाः प्रवृत्तयः ॥ १९ ॥

पञ्चभूतान्यहङ्कारात् तन्मात्राणि च जज्ञिरे ।
इन्द्रियाणि तथा देवाः सर्वं तस्यात्मजं जगत् ॥ २० ॥

मनस्त्वव्यक्तजं प्रोक्तं विकारः प्रथमः स्मृतः ।
येनासौ जायते कर्ता भूतादींश्चानुपश्यति ॥ २१ ॥

वैकारिकादहङ्कारात् सर्गो वैकारिको ऽभवत् ।
तैजसानीन्द्रियाणि स्युर्देवा वैकारिका दश ॥ २२ ॥

एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् ।
भूततन्मात्रसर्गो ऽयं भूतादेरभवन् प्रजाः ॥ २३ ॥

भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्ज ह ।
आकाशं शुषिरं तस्मादुत्पन्नं शब्दलक्षणम् ॥ २४ ॥

आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह ।
वायुरुत्पद्यते तस्मात् तस्य स्पर्शो गुणो मतः ॥ २५ ॥

वायुश्चापि विकुर्वाणो रूपमात्रं ससर्ज ह ।
ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ॥ २६ ॥

ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह ।
सम्भवन्ति ततो ऽम्भांसि रसाधाराणि तानि तु ॥ २७ ॥

आपश्चापि विकुर्वन्त्यो गन्धमात्रं ससर्जिरे ।
सङ्घातो जायते तस्मात् तस्य गन्धो गुणो मतः ॥ २८ ॥

आकाशं शब्दमात्रं यत् स्पर्शमात्रं समावृणोत् ।
द्विगुणस्तु ततो वायुः शब्दस्पर्शात्मको ऽभवत् ॥ २९ ॥

रूपं तथैवाविशतः शब्दस्पर्शौ गुणावुभौ ।
त्रिगुणः स्यात् ततो वह्निः स शब्दस्पर्शरूपवान् ॥ ३० ॥

शब्द स्पर्शश्च रूपं च रसमात्रं समाविशन् ।
तस्माच्चतुर्गुणा आपो विज्ञेयास्तु रसात्मिकाः ॥ ३१ ॥

शब्दः स्पर्शश्च रूपं च रसो गन्धं समाविशन् ।
तसमात् पञ्चगुणा भूमिः स्थूला भूतेषु शब्द्यते ॥ ३२ ॥

शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः ।
परस्परानुप्रवेशाद् धारयन्ति परस्परम् ॥ ३३ ॥

एते सप्त महात्मानो ह्यन्योन्यस्य समाश्रयात् ।
नाशक्नुवन् प्रजाः स्त्रष्टुमसमागम्य कृत्स्नशः ॥ ३४ ॥

पुरुषाधिष्ठितात्वाच्च अव्यक्तानुग्रहेण च ।
महादादयो विशेषान्ता ह्मण्डमुत्पादयन्ति ते ॥ ३५ ॥

एककालसमुत्पन्नं जलबुद्बुदवच्च तत् ।
विशेषेभ्यो ऽण्डमभवद् बृहत् तदुदकेशयम् ॥ ३६ ॥

तस्मिन् कार्यस्य करणं संसिद्धिः परमेष्ठिनः ।
प्राकृते ऽण्डे विवृत्तः स क्षेत्रज्ञो ब्रह्मसञ्ज्ञितः ॥ ३७ ॥

स वै शरीरी प्रथमः स वै पुरुष उच्यते ।
आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ ३८ ॥

यमाहुः पुरुषं हंसं प्रधानात् परतः स्थितम् ।
हिरण्यगर्भं कपिलं छन्दोमूर्ति सनातनम् ॥ ३९ ॥

मेरुरुल्बमभूत् तस्य जरायुश्चापि पर्वताः ।
गर्भोदकं समुद्राश्च तस्यासन् परमात्मनः ॥ ४० ॥

तस्मिन्नण्डे ऽभवद् विश्वं सदेवासुरमानुषम् ।
चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ॥ ४१ ॥

अद्भिर्दशगुणाभिश्च बाह्यतो ऽण्डं समावृतम् ।
आपो दशगुणेनैव तेजसा बाह्यतो वृताः ॥ ४२ ॥

तेजो दशगुणेनैव बाह्यतो वायुनावृतम् ।
आकाशेनावृतो वायुः खं तु भूतादिनावृतम् ॥ ४३ ॥

भूतादिर्महता तद्वदव्यक्तेनावृतो महान् ।
एते लोका महात्मनः सर्वतत्त्वाभिमानिनः ॥ ४४ ॥

वसन्ति तत्र पुरुषास्तदात्मानो व्यवस्थिताः ।
ईश्वरा योगधर्माणो ये चान्ये तत्त्वचिन्तकाः ॥ ४५ ॥

सर्वज्ञाः शान्तरजसो नित्यं मुदितमानसाः ।
एतैरावरणैरण्डं सप्तभिः प्राकृतैर्वृतम् ॥ ४६ ॥

एतावच्छक्यते वक्तुं मायैषा गहना द्विजाः ।
विश्वास-प्रस्तुतिः

एतत् प्राधानिकं कार्यं यन्मया बीजमीरितम् ।
प्रजापतेः परा मूर्तिरितीयं वैदिकी श्रुतिः ॥ ४७ ॥

ब्रह्माण्डमेतत् सकलं सप्तलोकतलान्वितम् ।
द्वितीयं तस्य देवस्य शरीरं परमेष्ठिनः ॥ ४८ ॥

हिरण्यगर्भो भगवान् ब्रह्मा वै कनकाण्डजः ।
तृतीयं भगवद्रूपं प्राहुर्वेदार्थवेदिनः ॥ ४९ ॥

रजोगुणमयं चान्यद् रूपं तस्यैव धीमतः ।
चतुर्मुखः स भगवान् जगत्सृष्टौ प्रवर्तते ॥ ५० ॥

सृष्टं च पाति सकलं विश्वात्मा विश्वतोमुखः ।
सत्त्वं गुणमुपाश्रित्य विष्णुर्विश्वेश्वरः स्वयम् ॥ ५१ ॥

अन्तकाले स्वयं देवः सर्वात्मा परमेश्वरः ।
तमोगुणं समाश्रित्य रुद्रः संहरते जगत् ॥ ५२ ॥

एको ऽपि सन्महादेवस्त्रिधासौ समवस्थितः ।
विश्वास-प्रस्तुतिः

सर्गरक्षालयगुणैर्निर्गुणो ऽपि निरञ्जनः ।
एकधा स द्विधा चैव त्रिधा च बहुधा पुनः ॥ ५३ ॥

योगेश्वरः शरीराणि करोति विकरोति च ।
नानाकृतिक्रियारूपनामवन्ति स्वलीलया ॥ ५४ ॥

हिताय चैव भक्तानां स एव ग्रसते पुनः ।
विश्वास-प्रस्तुतिः

त्रिधा विभज्य चात्मानं त्रैकाल्ये सम्प्रवर्तते ।
सृजते ग्रसते चैव वीक्षते च विशेषतः ॥ ५५ ॥

यस्मात् सृष्ट्वानुगृह्णाति ग्रसते च पुनः प्रजाः ।
गुणात्मकत्वात् त्रैकाल्ये तस्मादेकः स उच्यते ॥ ५६ ॥

अग्रे हिरण्यगर्भः स प्रादुर्भूतः सनातनः ।
आदित्वादादिदेवो ऽसौ अजातत्वादजः स्मृतः ॥ ५७ ॥

पातियस्मात् प्रजाः सर्वाः प्रजापतिरिति स्मृतः ।
देवेषु च महादेवो माहदेव इति स्मृतः ॥ ५८ ॥

बृहत्त्वाच्च स्मृतो ब्रह्मा परत्वात् परमेश्वरः ।
वशित्वादप्यवश्यत्वादीश्वरः परिभाषितः ॥ ५९ ॥

ऋषिः सर्वत्रगत्वेन हरिः सर्वहरो यतः ।
अनुत्पादाच्च पूर्वत्वात् स्वयम्भूरिति स स्मृतः ॥ ६० ॥

नराणामयनो यस्मात् तेन नारायणः स्मृतः ।
हरः संसारहरणाद् विभुत्वाद् विष्णुरुच्यते ॥ ६१ ॥

भगवान् सर्वविज्ञानादवनादोमिति स्मृतः ।
सर्वज्ञः सर्वविज्ञानात् सर्वः सर्वमयो यतः ॥ ६२ ॥

शिवः स निर्मलो यस्माद् विभुः सर्वगतो यतः ।
तारणात् सर्वदुः खानां तारकः परिगीयते ॥ ६३ ॥

बहुनात्र किमुक्तेन सर्वं ब्रह्ममयं जगत् ।
अनेकभेदभिन्नस्तु क्रीडते परमेश्वरः ॥ ६४ ॥

इत्येष प्राकृतः सर्गः सङ्क्षेपात् कथितो मया ।
अबुद्धिपूर्वको विप्रा ब्राह्मीं सृष्टिं निबोधत ॥ ६५ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वंविभागे चतुर्थो ऽध्यायः