ऋषय ऊचुः
विश्वास-प्रस्तुतिः
वर्णा भगवतोद्दिष्टाश्चत्वारो ऽप्याश्रमास्तथा ।
इदानीं क्रममस्माकमाश्रमाणां वद प्रभो ॥ १ ॥
मूलम्

ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।
क्रमेणैवाश्रमाः प्रोक्ताः कारणादन्यथा भवेत् ॥ २ ॥

उत्पन्नज्ञानविज्ञानो वैराग्यं परमं गतः ।
प्रव्रजेद् ब्रह्मचर्यात् तु यदिच्छेत् परमां गतिम् ॥ ३ ॥

दारानाहृत्य विधिवदन्यथा विविधैर्मखैः ।
यजेदुत्पादयेत् पुत्रान् विरक्तो यदि सन्न्यसेत् ॥ ४ ॥

अनिष्ट्वा विधिवद् यज्ञैरनुत्पाद्य तथात्मजम् ।
नगार्हस्थ्यं गृहीत्यक्त्वा सन्न्यसेद् बुद्धिमान् द्विजः ॥ ५ ॥

अथ वैराग्यवेगेन स्थातुं नोत्सहते गृहे ।
तत्रैव सन्न्यसेद् विद्वाननिष्ट्वापि द्विजोत्तमः ॥ ६ ॥

अन्यथा विविधैर्यज्ञैरिष्ट्वा वनमथाक्षयेत् ।
तपस्तप्त्वा तपोयोगाद् विरक्तः सन्न्यसेद् यदि ॥ ७ ॥

वानप्रस्थाश्रमं गत्वा न गृहं प्रविशेत् पुनः ।
न सन्न्यासी वनं चाथ ब्रह्माचर्यं न साधकः ॥ ८ ॥

प्राजापत्यां निरूप्येष्टिमाग्नेयीमथवा द्विजः ।
प्रव्रजेत गृही विद्वान् वनाद् वा श्रुतिचोदनात् ॥ ९ ॥

प्रकर्तुमसमर्थो ऽपि जुहोतियजतिक्रियाः ।
अन्धः पङ्गुर्दरिद्रो वा विरक्तः सन्न्यसेद् द्विजः ॥ १० ॥

सर्वेषामेव वैराग्यं सन्न्यासाय विधीयते ।
पतत्येवाविरक्तो यः सन्न्यासं कर्तुमिच्छति ॥ ११ ॥

एकस्मिन्नथवा सम्यग् वर्तेतामरणं द्विजः ।
श्रद्धावनाश्रमे युक्तः सो ऽमृतत्वाय कल्पते ॥ १२ ॥

न्यायागतधनः शान्तो ब्रह्मविद्यापरायणः ।
स्वधर्मपालको नित्यं सो ऽमृतत्वाय कल्पते ॥ १३ ॥

ब्रह्मण्याधाय क्रमाणि निःसङ्गः कामवर्जितः ।
प्रसन्नेनैव मनसा कुर्वाणो याति तत्पदम् ॥ १४ ॥

ब्रह्मणा दीयते देयं ब्रह्मणे सम्प्रदीयते ।
ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम् ॥ १५ ॥

नाहं कर्ता सर्वमेतद् ब्रह्मैव कुरुते तथा ।
एतद् ब्रह्मार्पणं प्रोक्तमृषिभिः तत्त्वदर्शिभिः ॥ १६ ॥

प्रीणातु भगवानीशः कर्मणानेन शाश्वतः ।
करोति सततं बुद्ध्या ब्रह्मार्पणमिदं परम् ॥ १७ ॥

यद्वा फलानां सन्न्यासं प्रकुर्यात् परमेश्वरे ।
कर्मणामेतदप्याहुः ब्रह्मार्पणमनुत्तमम् ॥ १८ ॥

कार्यमित्येव यत्कर्म नियतं सङ्गवर्जितम् ।
क्रियते विदुषा कर्म तद्भवेदपि मोक्षदम् ॥ १९ ॥

अन्यथा यदि कर्माणि कुर्यान्नित्यमपि द्विजः ।
अकृत्वा फलसन्न्यासं बध्यते तत्फलेन तु ॥ २० ॥

तस्मात् सर्वप्रयत्नेन त्यक्त्वा कर्माश्रितं फलम् ।
अविद्वानपि कुर्वोत कर्माप्नोत्यचिरात् पदम् ॥ २१ ॥

कर्मणा क्षीयते पापमैहिकं पौर्विकं तथा ।
मनः प्रसादमन्वेति ब्रह्म विज्ञायते ततः ॥ २२ ॥

कर्मणा सहिताज्ज्ञानात् सम्यग् योगो ऽबिजायते ।
ज्ञानं च कर्मसहितं जायते दोषवर्जितम् ॥ २३ ॥

तस्मात् सर्वप्रयत्नेन तत्र तत्राश्रमे रतः ।
कर्माणीश्वरतुष्ट्यर्थं कुर्यान्नैष्कर्म्यमाप्नुयात् ॥ २४ ॥

सम्प्राप्य परमं ज्ञानं नैष्कर्म्यं तत्प्रसादतः ।
एकाकी निर्ममः शान्तो जीवन्नेव विमुच्यते ॥ २५ ॥

वीक्षते परमात्मानं परं ब्रह्म महेश्वरम् ।
नित्यानन्दं निराभासं तस्मिन्नेव लयं व्रजेत् ॥ २६ ॥

तस्मात् सेवेत सततं कर्मयोगं प्रसन्नधीः ।
तृप्तये परमेशस्य तत् पदं याति शाश्वतम् ॥ २७ ॥

एतद् वः सथितं सर्वं चातुराश्रम्यमुत्तमम् ।
न ह्येतत् समतिक्रम्य सिद्धिं विन्दति मानवः ॥ २८ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे तृतीयो ऽध्यायः