[[श्रीविदग्धमाधवः Source: EB]]
[
श्रीरूपगोस्वामिप्रभुपादप्रणीतः
श्रीविदग्धमाधवः
श्रीलश्रीयुक्तविश्वनाथचक्रवर्तिकर्तृकटीकासमेतः ।
श्रीविदग्धमाधवः
(
१)
प्रथमोऽङ्कः
श्रीश्रीकृष्णचैतन्यचन्द्राय नमः ।
वेणुनादविलासः
सुधानां चान्द्रीणां माधुरीमोन्माददमनी
दधाना राधादिप्रणयघनसारैः सुरभिताम् ।
समन्तात्सन्तापोद्गमविषमसंसारसरणिः
प्रणीतां ते तृष्णां हरतु हरिलीलाशिखरिणी ॥१॥
अपि च –
अनर्पितचरिं चिरात्करुणयावतिर्णः कलौ
सम्पर्यितुमुन्नतोज्ज्वलरसां स्वभक्तिश्रियम् ।
हरिः पुरटसुन्दरद्युतिकदम्बसन्दीपितः
सदा हृदयकन्दरे स्फुरतु वः शचिनन्दनः ॥२॥
(
नान्द्यन्ते)
सुत्रधारःः अलमतिविस्तरेण । भो भोः ! समाकर्ण्यताम् । अद्याहं स्वप्नान्तरे समादिष्टोऽस्मि भक्तावतारेण भगवता श्रिशङ्करदेवेन यथा, "
अये ताण्डवकलापण्डित ! इह किल बल्लवीचक्रचेतोवृत्तिमकरीविहारमकरालयस्य निरवद्यवेणुवादनविद्यास्वाध्यायसिद्धीनां प्रथमाध्यापकस्य सुगन्धिपुष्पावलिसौन्दर्यतुण्डिलायामरविन्दबान्धवनन्दिनीतिरान्तःकाननलेखायामवलम्बितमत्तपुंस्कोकिललीलस्य परमानन्दवर्धिनि गोवर्धननितम्बे सम्भृतनव्याम्बुदाडम्बरस्य किशोरशिरोमणेर्नन्दनन्दनस्य प्रेमभराकृष्टहृदयो नानादिग्देशतः साम्प्रतं रसिकसम्प्रदायो वृन्दावनविलोकनोत्कण्ठया केशितिर्थोपकण्ठे समीयिवान।
स च धन्यः ।
कृतं गोपीवृन्दैरिह भगवतो मार्गणमभूद्
इहासित्कालिन्दीपुलिनवलये रासरभसः ।
इति श्रावं श्रावं चरितामासकृद्गोकुलपतेर्
लुठन्नुद्बाष्पोऽयं कथमपि दिनानि क्षपयति ॥३॥
तदिदानिमेतस्य भक्तवृन्दस्य मुकुन्दविश्लेषोद्दीपनेन बहिर्भवन्तः प्राणाः कमपि तस्यैव केलिसुधाकल्लोलिनीमुल्लासयता परिरक्षणिया भवता । मत्कृपैव ते सामग्रीं समग्रयिष्यति" इति । तेनादिय जगद्गुरोरस्य निदेशमेवानुवर्तिष्ये ।
पारिपार्श्विकः (प्रविश्य) ः भाव,
भवता निबद्धस्य विदग्धमाधवनाम्नो नवीननाटकस्य प्रयोगानुसारेण गृहीतभूमिकाः कुशीलवा रङ्गप्रवेशाय तत्रभवन्तमनुज्ञापयन्ति ।
सुत्रधारःः मारिष ! निर्मितः किमिति तन्नाटकपरिपाटीभिर्वर्णिकापरिग्रहः । (क्षणं विमृश्य) भवतु,
ममास्मिन्सन्दर्भे यदपि कविता नातिललिता
मुदं धास्यन्त्यस्यां तदपि हरिगन्धाद्बुधगणाः ।
अपः शालग्रामाप्लवनगरिमोद्गारसरसाः
सुधीः को वा कौपीरपि नमितमुर्धा न पिबति ॥४॥
पारिपार्श्विकः भाव,
रङ्गलक्ष्मीकौशलस्तुतिभिरेव सभ्यानभ्यार्थयामहे । यदमी विद्यादिभिर्देवानपि तानुपालब्धुमुत्सहन्ते किमुत नटानस्मान॥
सुत्रधारःः मारिष,
कृतमेतया वृथोपचारचर्यया,
यतः
अप्रेक्ष्य क्लममात्मनो विदधति प्रीत्या परेषां प्रियं
लज्जन्ते दूरितोद्यमादिव निजस्तोत्रानुबन्धादपि ।
विद्यावित्तकुलादिभिश्च यदमी यान्ति क्रमान्नम्रतां
रम्या कापि सतामियं विजयते नैसर्गिकी प्रक्रिया ॥५॥
(
समन्तादवलोक्य,
सहर्षमुच्चैः) हंहो बल्लवसिंहप्रियाः । भगवद्धर्मज्ञगोष्ठीगुरूणामपि युष्माकं समक्षं किमप्येष विवक्षमाणस्ताण्डविको निरपत्रपाणां पदवीमारोढुमुपक्रमते । तदिमां क्षमध्वं चापलारभटिम् । (इति सप्राणमं पश्यन्)
अभिव्यक्ता मत्तः प्रकृतिलघुरूपादपि बुधा
विधात्री सिद्धार्थान्हरिगुणमयी वः कृतिरियम् ।
पुलिन्देनाप्यग्निः किमु समिधमुन्मथ्यजनितो
हिरण्यश्रेणीनामपहरति नान्तःकलूषताम् ॥६॥
तदिदानीमभीष्टदेवं भगवन्तमनुस्मृत्य नृत्यमाधुरीमुल्लासयामि । (इत्यञ्जलिं बद्ध्वा)
प्रपन्नमधुरोदयः स्फुरदमन्दवृन्दाटवी
निकुञ्जमयमण्डपप्रकरमध्यबद्धस्थितिः ।
निरङ्कुशकृपाम्बुधिर्व्रजविहाररज्यन्मनाः
सनातनतनुः सदा मयि तनोतु तुष्टिं प्रभूः ॥७॥
पारिपार्श्विकःः भाव,
पश्य पश्य !
भक्तानामुदगादनर्गलधियां वर्गो निसर्गोज्ज्वलः
शीलैः पल्लवितः स बल्लववधूबन्धोः प्रबन्धोऽप्यसौ ।
लेभे चत्वरतां च ताण्दवविधेर्वृन्दाटवीगर्भभूर्
मन्ये मद्विधपुण्यमण्डलपरीपाकोऽयमुन्मिलति ॥८॥
तत्त्वरस्व रसमाधुरिपरिवेषणाय ।
सुत्रधारःः मारिष,
नीरसावलीवैमुख्याद्विशङ्कमानो मन्थर इवास्मि ।
पारिपार्श्विकःः भाव,
कृतमत्र शङ्कया । यतः ।
उदासतां नाम रसानभिज्ञाः
कृतौ तवामी रसिकाः स्फुरन्ति ।
क्रमेलकैः काममुपेक्षितेऽपि
पिकाः सुखं यान्ति परं रसाले ॥९॥
तदारभ्यतां सामाजिकचेतश्चमत्काराय गान्धर्वब्रह्मविद्या ।
सुत्रधारःः मारिष,
पश्य पश्य ।
सोऽयं वसन्तसमयः यस्मिन्
पुर्णं तमिश्वरमुपोढनवानुरागम् ।
गुढग्रहा रुचिरया सह राधयासौ
रङ्गाय सङ्गमयिता निशि पौर्णमासि ॥१०॥
(
नेपथ्ये)ः अये नर्तकसामन्तसार्वभौम ! कथं भवतः कर्णपुरीभूता बाढं निगूढेयं सन्दर्भमञ्जरी,
यदहं राधया सार्धमिश्वरं तं सङ्गमयिष्यामीति।
सुत्रधारः (सविस्मयं नेपथ्याभिमुखमवलोक्य) अहो,
कथमित एव भगवति पौर्णमासि । पश्य पश्य ।
वहन्ति काषायाम्बरमुरसि सान्दीपनिमुनेः
सवित्री सावित्रीसमरुचिरलं पाण्डुरकचा ।
सुरर्षेः शिष्येयं परिजनवती नन्दभवनाद्
इतो मन्दं मन्दं स्फुटमुटजवीथीं प्रविशति ॥११॥
तदावामप्यग्रतः करणीयं वर्णिकाङ्गीकारमालोचयाव । (इति निष्क्रान्तौ)
प्रस्तावना
(
ततः प्रविशति सपरिजना पौर्णमासि ।)
पौर्णमासी (“अये नर्तकसामन्त” इति पठित्वा) ः हन्त वत्से नान्दीमुखि ! किमपि कमनीयं गायता स्फुटमानन्दितास्मि नटेन्द्रेण ।
नान्दिः भावदि । किं जहत्थमेदं ?
पौर्णमासी ः
सम्भाव्यते फलमलम्बितमूलपुष्टेस्
तत्तादृशं क्व मम भाग्यतरोर्वरोरु ।
येनानयोः सुभगयोरुचिता भवेयं
शृङ्गारमाङ्गलिकयोर्नवसाङ्गमाय ॥१२॥
नान्दिः भावदि,
ज{
इ}
विसहाणुणन्दिणी राहिआ तुए कह्णेण सङ्गमणिज्जा,
तदो सङ्गमाणुउलबासं गोउलमुज्झिअ सान्तणुबाससण्णे भाणुतित्थे किं ति एषा सङ्गोबिअ रक्खिदासी ।
पौर्णमासी ः वत्से,
नृशंसतः कंसभूपतेः शङ्कया ।
नान्दिः भावदि,
तहबि कहं रण्णा विण्णादा राही ?
पौर्णमासी ः राधासौन्दर्यवृन्दमेव विज्ञापने निदानम् । यतः –
लोकोत्तरा गुणश्रिः
प्रथयति परितो निगूढमपि वस्तु ।
पिहितामपि प्रयत्नाद्
व्यनक्ति कस्तुरिकां गन्धः ॥१३॥
नान्दिः भावदि,
जसोआधत्तीए मुहुराए अप्पणो णत्तिणी राहिआ गोउलमज्झे आणिअ जडिलापुत्तस्स अहिमण्णुणो हत्थे उब्बाहिदा त्ति,
तादिसं जेब्ब असमञ्जसमापडिदम् । जं कह्णादो अण्णेन पुरिसेण तादिसीणं करप्फंसणं तदो कधं तुमं तुमं णिच्चिन्दा बिअ दीससि ?
पौर्णमासी ः तस्यैव हेतोः ।
नान्दिः कहं बिअ ।
पौर्णमासी (विहस्य) ः तद्वञ्चनाद्यर्थमेव स्वयं योगमायया मिथ्यैव प्रत्यायितं तद्विधानामुद्वाहादिकम् । नित्यप्रेयस्य एव खलु ताः कृष्णस्य ।
नान्दि (सहर्षम्) ता बाढं तुमं णिच्चिन्दासि संबुत्ता,
जमेसा अज्ज गोउलमज्झे आणिदा ।
पौर्णमासी ः वत्से,
सत्यं ब्रवीषि । कंसतश्चिन्ता मे शैथिल्यमिवोपलब्धा,
किन्तु दुष्टाभिमन्युतः स्फुटमन्या साम्प्रतमजनिष्ट ।
नान्दिः केरिसि सा ?
पौर्णमासी ः
बल्लविनवलतासु रङ्गिणं
कृष्णभृङ्गमधिगत्य मत्सरी ।
राधिकापुरटपद्मिनीमयं
नेतुमिच्छति पुनर्वनान्तरम् ॥१४॥
नान्दिः एत्थबि जोअमाआ ज्जेब्ब समाहाणं करिस्सदि ।
पौर्णमासी ः पुत्रि,
को जानाति स्वतन्त्रायास्तस्याश्चरितं ?
यत ईदृशेऽर्थे सा तटस्थायते ।
नान्दिः अण्णो बा एत्थ कोबि उबॉत्थि जेण एसो पडिबद्धो भवे ।
पौर्णमासी ः वत्से,
तत्र मया प्रतिभुवा भवन्त्या युक्तिमाधुरिमेदुरेण वागर्गलेन निसर्गादगम्भीरोऽयं विष्कम्भितोऽस्ति ।
नान्दि (सहर्षम्) भावदि,
कंसस्स गोमण्डलज्झक्खो गोअड्ढणो कह्णाणुसारिणा चन्दाअलीचरित्तेण कुदो न कुप्पै ?
पौर्णमासी ः पुत्रि,
राजकुलोपलब्धेन गौरवेण गर्वितोऽयं व्यक्तमपि तन्न श्रद्दधाति ।
नान्दिः कहं कह्णेन पढमं से सङ्गमो संबुत्तो ?
पौर्णमासी ः पुत्रि,
सङ्गमे खलु गाढानुरागितैव दूती बभूव । मदुद्यमानां केवलमजनिष्ट पिष्टपेषिता ।
नान्दिः अज्जे,
तुह कहमेरिसी भाअविसेसभाविदा गाढाणुराइदा उप्पण्णा,
जमप्पणो अहिट्ठदे अह्मि अणुप्पण्णे कह्णे उज्जैणीमुज्झिअ पढमं च्चेअ गोउलं लद्धासि ।
पौर्णमासी ः पुत्रि,
गुरुपादानामुपदेशप्रसादेन ।
नान्दिः एत्थ वसन्तिं तुमं महाभॉ संदिबणी किं क्खु जाणादि ?
पौर्णमासी ः अथ किम् । यतस्तेन मधुमङ्गलाभिधः स्वपुत्रो ममात्र परिचर्यार्थं प्रेषितः ।
नान्दिः महुमङ्गलो तुए सुट्ठु अणुग्गहीदो जमेसो णन्दणाण{
इ}
न्दीअरचन्दस्स सहारदा महूसबे णिउत्तो ।
पौर्णमासी ः पुत्रि,
मम सर्वस्वरूपाया राधायाः कृष्णेऽनुरागविस्ताराय त्वं च नियुज्यसे ।
नान्दि (सानन्दम्) ः भावदि,
अदिभूमिं गदो से कह्णे अनुरॉ ।
पौर्णमासी ः कथमेतल्लक्षितं ?
नान्दिः जदा कहापसङ्गे एसा कह्ण त्ति णामं सुणादि,
तदा रोमाञ्चिदा कम्पि भाअं विन्दै ।
पौर्णमासी ः पुत्रि,
युक्तमिदम् । तथा हि
तुण्डे ताण्डविनि रतिं वितनुते तुण्डावलिलब्धये
कर्णक्रोदकडम्बिनि घटयते कर्णार्बुदेभ्यः स्पृहाम् ।
चेतःप्राङ्गणसङ्गिनि विजयते सर्वेन्द्रियानां कृतिं
नो जाने जनिता कियब्धिरमृतैः कृष्णेति वर्णद्वयि ॥१५॥
नान्दिः अज्जे,
दोहिं ललिदाविसाहाहिं सहीहिं सद्धं राहा सूरमाराहेहि । चन्दाअलि उण प{
उ}
मासेब्बापहुदीहिं सद्धं चण्डिअम् । ता तक्केमि देअदापसाअणिप्पादिओ इमाणमीरिसो कह्णे अनुरॉ ।
पौर्णमासी ः
दैवतसेवा केवलम्
इह वनयात्रानुसारिणी मुद्रा ।
व्रजसुभ्रुवास्तु कृष्णे
सहजः प्रेमा स जागर्ति ॥१६॥
नान्दिः सच्चं राहीए साहाबिअं च्चेअ पेम्मं तत्थबि सहीणं कोसलमुद्दीअणम् ।
पौर्णमासी ः पुत्रि,
मद्गिरा सन्दिश्यतामालेख्यविचक्षणा विशाखा यथेयं स्वसखीनेत्रारविन्दयोरानन्दनाय नन्दसूनोः प्रतिच्छन्दं निर्माति ।
नान्दिः जह आणबेदि भावदी ।
पौर्णमासी ः मयापि मोदकवृन्ददानापदेशाद्वृन्दाटवीमध्यमासाद्य राधेति मङ्गलाक्षरमाधुर्येण माधवकर्णयोर्द्वन्द्वमानन्दियाम् ।
नान्दिः अज्जे,
पेक्ख पेक्ख एसो राममहुमङ्गलसिरिदामपहुदीहिं सहारेहिं सद्धं गोउलादो णिक्कमिअ बुन्दाअणं गच्छन्तो कह्णोसिणिद्धेहिं पिदरेहिं जसोआणन्देहिं लालिज्जै ।
पौर्णमासी (विलोक्य सहर्षम् ।)
अयं नयनदण्डितप्रवरपुण्दरिकप्रभः
प्रभाति नवजागुदद्युतिविडम्बिपिताम्बरः ।
अरण्यजपरिष्क्रियादमितदिव्यवेशादरो
हरिण्माणिमनोहरद्युतिभिरुज्ज्वलाङ्गो हरिः ॥१७॥
तदहं मोदकसम्पादनाय गच्छेयम् । त्वं विशाखां याहि ।
(
इति निष्क्रान्ते)
विष्कम्भकः ।
(
ततः प्रविशति यथानिर्दिष्टः कृष्णः ।)
श्रीकृष्णः (पुरस्तादवलोक्य सानन्दम्)
श्रेणीभूतवपुःश्रियामभिमुखे गोमण्डलीणां क्रमद्
आसां स्फाटिकगण्डशैलपटलीपाण्डुत्विषां व्याजतः ।
शाङ्के ज्ञातगुणा पुरन्दरपुराच्चस्कन्द मन्दाकिनी
वृन्दारण्यविहारिधन्ययमुनासेवाप्रमोदार्थिनी ॥१८॥
नन्दः वत्स,
साधु वर्णितम् । किन्तु गोष्ठलक्ष्मीरपि पृष्ठतः प्रेक्ष्यतामिति । (परावृत्य)
विशालैर्गोशालैर्बहुशिखरशाखाविततिभिः
परीतैः सम्बाधीकृतसविधमम्भोधिगहनम् ।
समृद्धामागोवर्धनकटकमाकालियह्रदं
श्रियं बिभ्रद्गोष्ठं स्फुरति परितस्तावकमिदम् ॥१९॥
कृष्णः ः सखे मधुमङ्गल! दूरमनुयातोऽस्मि तातेन । तदविलम्बमम्बया सार्धं गोष्ठं प्रविश्यताम् ।
यशोदाः जाद ! कित्ति अवरण्णेबि गोट्ठं ण सुमरसि जं परमादरेण मए रन्धिदाइं पच्चहं सीअलीहोन्ति मिट्ठण्णाइम् ।
मधुमङ्गलः ः गोउलेस्सरि,
सुणाहि । (इति सन्कृतेन)
गोभ्यः शपे किमपि दूसणमस्य नास्ति
(
इति वागुपक्रमे कृष्णः सस्नेहमेनं पश्यति ।)
मधुमङ्गलः ः
ताभिर्यदेष रभसादभिकृष्यमाणः
कुञ्जं विशत्यधिककेलिकलोत्सुकाभिः (इति वगसमप्तौ)
कृष्णः (सापत्रपमात्मगतम्) ः व्यक्तमेष बालिशो बल्लवीभिरिति वक्ष्यति । तदेनं संज्ञाया निवारयामि । (इति शिरस्तिरो धुनयति ।)
मधुमङ्गलः ः भो बास्स,
किंति मे निबारेसि ?
जं णिच्चिदमज्ज अज्जाया अग्गदो एदं बिण्णबिस्सम् ।
कृष्णः (स्वगतम्) ः हन्त हन्त,
लज्जाजाले जाल्मधियाहं पतितोऽस्मि ।
मधुमङ्गलः ः पिताम्बरस्त्वरितमम्ब सुहृद्घटाभिः ॥२०॥
कृष्णः (सानन्दमात्मगतम्) ः कथमन्यदेवास्य हृद्गतं ?
यशोदाः बच्छ महुमङ्गल ! सच्चं सच्चम् । ललिदापहुदीओ गोबबालिऑ यह इदं कहेन्ति ता डिम्भेहिं हदह्मि ।
नन्दःः कुटुम्बिनि ! कच्चिदनुरूपा निरूपितास्ति गोकुले काचिद्बालिका यामुद्वाहयामो वत्सम् ।
यशोदाः अज्ज,
दुद्धमुहस्स बच्छस्स को क्खु दाणीमुब्बाहे ओसरो ।
मधुमङ्गलः (अपवार्य) ः बास्स,
सच्चं दुद्धमुहोऽसि जं दुद्धलुद्धाइं गोबकिसोरीसहस्साइं तुज्झ मुहं पिअन्ति ।
(
कृष्णः स्मितं करोति ।)
नन्दःः वत्स,
पश्य पश्य—
अहह कमलगन्धेरत्र सौन्दर्यवृन्दे
विनिहितनयनेयं त्वन्मुखेन्दोर्मुकुन्द ।
कुचकलशमुखाभ्यामम्बरक्नोपमम्बा
तव मुहुरतिहर्षाद्वर्षति क्षिरधाराम् ॥२१॥
(
इति श्रिकृष्णमालिङ्ग्य साननदम्)
जितचन्द्रपरागचन्द्रिका
नलदेन्दीवरचन्दनश्रियम् ।
परितो मयि शैत्यमाधुरिं
वहति स्पर्शमहोत्सवस्तव ॥२२॥
कृष्णः ः तात,
बुभुक्षाकृष्टमपि मत्प्रतीक्षया स्वयं तस्तम्भे गोकदम्बकम् । तन्निवर्तेतां तत्रभवन्तौ ।
नन्दःः यथाह वत्सः । (इति सस्नेहं कृष्णमवलोकयन्सभार्यो निष्क्रान्तः ।)
कृष्णः (पुरोऽवलोक्य)
सुगन्धौ माकन्दप्रकरमकरन्दस्य मधुरे
विनिस्यन्दे वन्दीकृतमधुपवृन्दं मुहुरिदम् ।
कृतान्दोलं मन्दोन्नतिभिरनिलैश्चन्दनगिरेर्
ममानन्दं वृन्दाविपिनमतुलं तुन्दिलयति ॥२३॥
रामःः श्रिदामन्,
पश्य पश्य ।
वृन्दावनं दिव्यलतापरीतं
लताश्च पुष्पस्फुरिताग्रभाजः ।
पुष्पाण्यपि स्फीतमधुव्रतानि
मधुव्रताश्च श्रुतिहारिगीताः ॥२४॥
कृष्णः ः सखे मधुमङ्गल,
भवद्विधानामासत्तिशंसिभिर्वंशीगीतैरानन्दयामि वृन्दाटवीवास्तव्यान। (इत्यधरे वेणुं विन्यस्यति ।)
रामः (साश्चर्यम्) ः हन्त,
परस्परविपर्यस्तस्वभावानामपि भावानां धर्मविपर्ययः पश्यत ।
जातस्तम्भतया पयांसि सरितां काठिन्यमापेदिरे
ग्रावाणो द्रवभावसंवलनतः साक्षादमी मार्दवम् ।
स्थैर्यं वेपथुना जहुर्मुहुरगाज्जाड्याद्गतिं जङ्गमां
वंशीं चुम्बति हन्त यामुनतटीक्रीडाकुटुम्बे हरौ ॥२५॥
मधुमङ्गलः ही ही अच्चरिअमच्चरिअं –
पौरदरगलन्दच्छीरकल्लोलिणीहिं
णाकुसुमलदाणं हन्त सोअं कुणन्ती ।
पिबिअ महुरबंशीणादपीऊसपूरं
फुरै गरुअसौक्खत्थम्भिदा धेणुपत्ति ॥२६॥
(
इति कृष्णं हस्तेन चालयन्) भो पिअबास्स,
कीस णिब्भरं गब्बाएसि । एदाए च्चेअ वेणुजादीए एसा उम्मादिआ पैदी । एत्थ उण णिमित्तमेत्तं क्खु तुमम् ।
(
आकाशे)ः
रुन्धन्नम्बुभृतश्चमत्कृतिपरं कुर्वन्मुहुस्तुम्बुरुं
ध्यानादन्तरयन्सनन्दनमुखान्विस्मापयन्वेधसम् ।
औत्सुक्यावलिभिर्बलिं चटुलयन्भोगिन्द्रमाघूर्णयन्
भिन्दन्नण्डकटाहभीतिमभितो बभ्राम वंशीध्वनिः ॥२७॥
रामः (सहर्षमूर्ध्वमवलोक्य स्वगतम्) ः कथं मेघान्तरितोऽयं सुरर्षिः पद्यमुपवीणयामास । (पुनराकाशे कलकलः)
मधुमङ्गलः (ऊर्ध्वमवलोक्य सभयम्) ः अब्बह्मण्णमब्बह्मण्णम् । भो भो,
पलाअह्म पलाअह्म ।
श्रीदामाः बाउल ! किंति णिरग्गलं पलबसि ।
मधुमङ्गलः (ऊर्ध्वमवलोक्य सभयम्) अरे मुक्ख गोआलिआ,
किं ण पेक्खसि ?
एसो समारूढहंसो णग्गेण भुअङ्गधारिणा केणबि बेदालेण सद्धं चौम्मुहो कोबि जक्खो रक्खसो वा आअच्छदि । (पुनर्वीक्ष्य सोत्कम्पम् ।) हि माणहे,
एदे अ अच्छीहिं पूरिदसब्बङ्गं कंपि दाणामग्गेकदुअ अबरे असुरा गाणमाक्कमन्दि । ता संकेमि हदकंसस्स किंकरा हुबिस्सन्दि । (इति सत्रासं कृष्णकक्षान्तरे शिरस्तिरयति ।)
कृष्णः (स्वगतम्) ः कथमेते वेणुनादमाधुरीभिराकृष्टाः पयोदवीथीमवगाहन्ते दिशामधीशाः । (इति पुनर्वेणुं क्वणयति) ः
मधुमङ्गलः (विलोक्य सोच्छ्वासमात्मगतम्) एदे दुट्ठदाणऽ बास्सस्स वेणुसद्दमेत्तेण बिह्मला भविअ सज्झसेण मुज्झन्ति । ता जीइदो ह्मि । (इति साटोपं परिक्रम्य प्रकाशम् ।) रे रे दुट्ठा असुरा,
चिट्ठद चिट्ठद । एसो हं साबेण चाबेण वा तुह्माणं मुण्डाइं खण्डेमि । (इति दण्डमुद्यम्य मुहुरूर्ध्वं कूर्दति ।)
रामः (विहस्य) ः वयस्य,
मैवं ब्रवीः । एतौ हि भगवन्तौ हरहिरण्यगर्भौ । सव्यतश्चामि पुरन्दरादयो वृन्दारकाः ।
मधुमङ्गलः (सुष्ठु समाश्वस्य) भो,
जाणन्तेण च्चेअ मए एदं पडिहसिदम् । तदो तुह्मेमिं क्खु रक्खसबुद्धिए भिलुएहिं पलाइदुं पौत्तम् ।
कृष्णः (स्मित्वा) ः हंहो देवानाम्प्रिय ! निजामेव जाल्मतां तेषु सङ्क्रामयसि ।
रामःः पश्यत पश्यत ।
अष्टाभिः श्रुतिपुटकैर्
नववैणवकाकलिं कलयन।
शतधृतिरपि धृतिमुक्तो
मरालपृष्ठे मुहुर्लुठति ॥२८॥
आकाशे (पुनर्वीणागीतिः)
उदिते हरिवक्त्रेण्दौ
वेणुनादसुधामुचि ।
हन्त रुद्रसमुद्रेण
स्वमर्यादा विलङ्घिता ॥२९॥
रामः (सोत्कण्ठं)ः
मुरलीकलापरिमलानाकर्ण्य घूर्णत्तनोर्
एतस्याक्षिसहस्रतः सुरपतेरश्रुणि सस्रुर्भुवि ।
चित्रं वारिधरान्विनापि तरसा यैरद्य धारामयैर्
दूरात्पश्यत देवमातृकमभूद्वृन्दाटवीमण्डलः ॥३०॥
कृष्णः (स्वगतम्) ः पुराणानाममीषां पुरस्ताद्विहारे सङ्कुचन्ति मे चेतोवृत्तयः । तदग्रे यामि । (इति तरूणामन्तरमासाद्य प्रकाशम् ।) सखे मधुमङ्गल,
पश्य पश्य माधवियां वनमाधुरीम् ।
क्वचिद्भृङ्गीगीतं क्वचिदनिलभङ्गीशिशिरता
क्वचिद्वल्लीलास्यं क्वचिदमलमल्लीपरिमलः ।
क्वचिद्धाराशाली करकफलपालीरसभरो
हृषीकाणां वृन्दं प्रमदयति वृन्दावनमिदम् ॥३१॥
मधुमङ्गलः ः भो बास्स,
एदाए दुट्ठभिङ्गीभाङ्करीए किं मे कोदूहलं तुज्झ बुन्दाडैए । अहं क्खु चौब्बिहेहिमण्णेहिं सब्बेन्दिअहारिणीं गोउलेस्सरीए रसबैं ज्जेब्ब दट्ठुण रञ्जेमि ।
कृष्णः ः वयस्य,
वन्दस्व वृन्दाटवीमेव । स्फुटमस्याः पुराणवल्लरीभिरपि तवाभीष्टं फलमुल्लासयितुं समर्थ्यते ।
मधुमङ्गलः ः भो पिअबास्स ! तुमं सच्चबादि त्ति सब्बलोएहिं भणिज्जसि । ता इमस्स तुज्झ वाणस्स मए परिक्खा कादब्बा । (इत्यञ्जलिं बद्ध्वा) भो बल्लरीओ,
एसो हं बन्देमि । बुहु खिदो मे बास्सो । ता देन्तु खण्डलड्डुआइम् ।
(
प्रविश्य मोदकपूर्णपात्रहस्ता पौर्णमासि ।)
पौर्णमासी ः चन्द्रानन कृष्ण ! गृहाण रसज्ञामोदकानभून्मोदकाः ।
रामः (सस्मितम्) वयस्य,
दृष्टा जरद्वल्लरीवदान्यता ।
पौर्णमासी ः सङ्कर्षण ! जरद्बल्लवीवदान्यतेति भण्यताम् ।
कृष्णः ः आर्ये,
केयं जरद्बल्लवी ?
पौर्णमासी ः चन्द्रमुख,
मुखरा ।
कृष्णः ः तया किमकाण्दे खण्डलड्डुकानि समर्पितानि ?
पौर्णमासी ः नप्त्री तावदेतया अभिमन्योः पाणौ परिणायिता । तदुत्सवाभिरूपः समुदाचारोऽयमनुसास्रे ।
कृष्णः ः केयं नप्त्री ?
पौर्णमासी ः राधिकाभिधा काचिदानन्दकौमुदी ।
कृष्णः (सरोमाञ्चं स्वगतम्) श्रुतं नूनमम्बयोः संवादे शश्वदस्याः सौष्ठवम् । (इति कम्पमानो व्रीडां नाटयति ।)
पौर्णमासी (स्वगतम्) ः कृष्णं विलक्षमवेक्ष्य नूनं रामः सव्याजामासौ सव्यतः प्रयाति ।
कृष्णः (पुनरात्मगतम्) ः विक्रियां सङ्गोपयितुं प्रसङ्गान्तरमङ्गीकुर्याम् । (प्रकाशम्) आर्ये ! अद्य मधुवासरे त्वयापि काचिन्महोत्सवलक्ष्मीरलङ्क्रियताम् । पश्य जरद्वल्लीश्रेणिरियं फुल्ला पल्लविता च ।
पौर्णमासी (सस्मितम्) नागर ! तवैव महोत्सवानामवसरोऽयं प्रवृत्तः । यदत्र पुष्पाणां पल्लवानां च तृष्णया बल्लवानां विलासिन्यः समेष्यन्ति ।
कृष्णः (सस्मितं तिर्यगवेक्ष्य ।) आर्ये ! ततः किं ?
पौर्णमासी (विहस्य) ः विलासिन्! स्ववासनानुसारादन्यथा मा शङ्किष्ठाः । परमेवमभिप्रायास्मि । ततस्तासां शून्येषु सद्मसु सखिभिस्ते सुखमपहर्तव्यानि गव्यानि ।
कृष्णः ः धूर्ते ! किं परिहस्यते ?
पश्य कोमलमञ्जरीमवचिन्वतीनां बल्लवीनां मण्डलेन खण्डितानि मे वृन्दाटवीशाखिविटपानि । तदेतास्ते निवारणीयाः ।
पौर्णमासी ः मोहन ! नव्यस्तवकोत्तंसिना भवतैव समुल्लासितोऽयं कुसुमेशुरागो बल्लवीनाम् । ताः कथमितो निवार्यतां ?
कृष्णः (स्मित्वा) ः अयि बलाकावलक्षकेशि । कथोपक्रमाद्वक्रमेव पन्थानमधिरूढासि,
यदपराधिकास्वपि बल्लवीषु पक्षपातं न मुञ्चसि ।
पौर्णमासी ः सुन्दर ! सम्प्रति सराधिकाः खलु बल्लव्यः कथमपराधिकाः सन्तु । तेन ते प्रियस्य पुन्नागस्यापि सुमनस्तेयं हठेन करिष्यन्ति ।
कृष्णः (स्वगतम्) ः हन्त,
कथं मणोहारिणी सैव दैवात्पुनरावर्तते राधिकावार्ता ।
मधुमङ्गलः (स्वगतम्) ः कधं राही त्ति णाम मेत्तेण उन्मणाएदि एसो । (प्रकाशम्) भो बास्स ! मा क्खु इमाए उबरि णिब्भरं सत्तिण्णो होहि ।
कृष्णः (सप्रणयरोषम्) धिग्वाचाल ! कुत्राहं सतृष्णः ?
मधुमङ्गलः ः भो,
मा कुप्पह । सरसाए मनोहरालीए उबरि त्ति भणामि ।
कृष्णः ः सखे,
भ्रान्तोऽसि । नेमानि मनोहराख्यानि किन्तु मौक्तिकाख्यानि लड्डुकानि ।
मधुमङ्गलः (विहस्य) ः पिअबास्स,
ण क्खु अहं भमिसीले राहाचक्केद्वट्टामि । कुदो भमिस्सम् ।
पौर्णमासी (स्वगतम्) ः सत्यं परिहस्यते बटुना । यदेष भावोद्वृत्तचेतोवृत्तितया वैलक्ष्यभागभिलक्ष्यते तदद्य पुर्णकांअस्मि । (प्रकाशम्) सुन्दर,
कृतमत्रोत्कण्ठया । सा विष्णुपदवीथीसञ्चारिणी राधा नृलोके केन लभ्यतां ?
कृष्णः (सस्मितं विष्णुपदवीथीमवेक्ष्य राममनुसर्पन्) ः आर्य ! व्यतीतेयं मध्याह्नमर्यादा । ततः कालिन्दीतिरेऽवतीर्य समापायन्तु भवन्तः पशूनां पानियतृष्णाम् । स्वदयन्तु च स्वादूनि लड्डुकानि । मया तु सुहृत्तमाभ्यां श्रिदामसुबलाभ्यां सह मुहूर्तमग्रतो विश्रमितव्यम् ।
(
रामः सखिभिः सह निष्क्रान्तः ।)
पौर्णमासी (स्वगतम्) ः मयापि प्रतिच्छन्दस्य सिद्धिमवधारयितुं गन्तव्यम् । (इति कृष्णमभिनन्द्य परिक्रामति ।)
कृष्णः (पदान्तरे स्थित्वा) ः सखे श्रिदामन्! किं दृष्टपूर्वा ते जगदपूर्वा राधा ।
(
श्रीदामा सलज्जस्मितं मुखमवाञ्चयति) ः
सुबलःः बास्स,
दिट्ठपूब्बेत्ति किमेत्तिअं भणासि ?
ण इमस्स बहिणि क्खु एसा ।
कृष्णः ः तदेहि । क्षणमत्र कदम्बसम्बाधे रोधसि निविश्य राधानुधावनादुद्वेगिचेतो वंशीवादनविनोदेनायतः क्षिपामि ।
(
इति निष्क्रान्ताः ।)
पौर्णमासी (परिक्रम्य पुरः पश्यन्ति पश्यन्ति सानन्दम् ।) कथमित एव वयस्यया विहस्यमाण विक्रीडति मे वत्सेयं राधिका । (इति लतान्तरे स्थित्वा) ः
बलादक्ष्नोर्लक्ष्मीः कवलयति नव्यं कुवलयं
मुखोल्लासः फुल्लं कमलवनमुल्लङ्घयति च ।
दशां कष्टामष्टापदम् अपि नयत्याङ्गिकरुचिर्
विचित्रं राधायाः किमपि किल रूपं विलसति ॥३२॥
तदेतयोर्निर्मलनर्मगोष्ठिप्रतिबन्धं परिहन्ती वीरुन्निरुद्धेनाध्वना विशाखां यामि । (इति निष्क्रान्ता ।)
(
ततः प्रविशति ललितयानुगम्यमाना राधिका ।)
राधिका ः हला ललिदे ! किं करेदि अज्जिया ?
ललिता ः सहि,
तुह सुरदेअस्स पुआकिदे एसा तमालतले वेदिआं णिम्मादि ।
राधिका (पुरोऽवलोक्य) हला ललिदे,
सङ्केमि सा च्चेअ एसा बुन्दाड{
इ}
जाए माहुरी तुए पुणो पुणो मम वण्णिअदि ।
ललिता ः हला,
सा ज्जेब्ब एसा कह्णस्स लीलारुक्खबाडिआ ।
राधिका (सौत्सुक्यमात्मगतम्) ः अहो महुरत्तं दोणमच्छराणम् । (प्रकाशम्) सहि,
कस्स त्ति भणासि ।
ललिता (साकुतस्मितम्) ः हला,
भणामि कह्णस्स त्ति ।
राधिका (पुनः स्वगतम्) ः हन्त जस्स णामाबि बामाचित्तमित्थं मोहेदि । सो क्खु किदिसो वा णामि त्ति । (इति सावहित्थं प्रकाशम्) हला,
इमाइं निउञ्जोबरि पुञ्जिदाइं गुञ्जाफलाइं बिइणिस्सम् ।
ललिता (सपरिहासम्,
संस्कृतेन) ः
देहं ते भुवनान्तरालविरलच्छायाविलासास्पदं
मा कौतूहलचाञ्चलाक्षि लतिकाजाले प्रवेशं क्र्ठाः ।
नव्यामञ्जनपुञ्जमञ्जुलरुचिः कुञ्जेचरी देवता
कान्तां कान्तिभिरङ्कितामिह वने निःशङ्कमाकर्षति ॥३३॥
राधिका (किञ्चिद्भितेव परावृत्य सनर्मस्मितम्) ः सहि ललिदे,
ताए देअदाए णुमं तुममाअड्ढिदासि जमेदं जाणासि ।
ललिता (विहस्य) ः हला,
कीस ममेसा आअड्ढदु । ण क्खु अहं तुमं बिअ कान्तीहिमङ्किदा ।
(
नेपथ्ये वंशीध्वनिः ।)
राधिका (निशम्य चमत्कारं स्वगतम्) ः अम्महे,
इमस्स मोहणत्तणं सद्दस्स । (इति वैवश्यं नाटयति ।)
ललिता (विलोक्य स्वगतम्) हुं,
एसा कोमलाङ्गी कुरङ्गी पढमं जाले णिपडिदा ।
राधिका (प्रयत्नेन धैर्यमालम्ब्य स्वगतम्) ः अबि णाम णं सद्दामिअपुरमुग्गिरन्तं जणं पेक्खिस्सम् ।
ललिता (उपसृत्य) ः हला राहि,
अत्थि मदुबरि तुह विसद्धबुद्धी ।
राधिका ः हला,
कीस एब्बं भणासि ?
तुमं जेब्ब तत्थ पमाणम् ।
ललिता ः कधेदु पिअसहि किंति अकाण्डे विवसा असि तुमं ?
राधिका (सलज्जम्,
संस्कृतेन) ः
नादः कदम्बविटपान्तरतो विसर्पन्
को नाम कर्णपदवीमविशन्न जाने ।
हा हा कुलीनगृहिणीगणगर्हणीयां
येनाद्य कामपि दशां सखि लम्भितास्मि ॥३४॥
ललिता ः हला,
एसो मुरलीरओ ।
राधिका (सव्यथम्,
संस्कृतेन) ः
अजडः कम्पसम्पादी
शास्त्रादन्यो निकृन्तनः ।
तापनोऽनुष्णताधारी
को वायं मुरलीरवः ॥३५॥
(
इत्युद्वेगं नाटयन्ती) हला,
णाहं मुरलीणाअस्स अणहिण्णा । ता अलं विप्पलम्भेण । फुडमेसो केण बि महाणाअरेण कोबि मोहणमन्तो पढीअदि ।
(
प्रविश्य चित्रपटहस्ता विशाखा ।)
विशाखा (राधामवधारयन्ती स्वगतम्) ः दाणिमण्णादिसि एसा लक्खीअदि । ता णूणं कणःअस्स वंसीआए डंसिदा । होदु,
पुच्छिस्सम् । (इत्युपसृत्य प्रकाशम्,
संस्कृतेन ।)
क्षोणीं पङ्किलयन्ति पङ्कजरुचोरक्ष्णोः पयोबिन्दवः
श्वासास्ताण्डवयन्ति पाण्डुवदने दूरादुरोजांशुकम् ।
मूर्तिं दन्तुरयन्ति सन्ततममी रोमाञ्चपुञ्जाश्च ते
मन्ये माधवमाधुरी श्रवणयोरभ्यासमभ्याययौ ॥३६॥
राधिका (अनाकर्णितकेनैव सोत्कम्पम्) ः ललिदे,
पुणो एसो ज्जेब्ब कोबि सद्दो विक्कमदि ।
ललिता (संस्कृतेन) ः
एष स्थैर्यभुजङ्गसङ्घदमनासङ्गे विहङ्गेश्वरो
व्रिडाव्याधिधुराविधूननविधौ तन्वङ्गि धन्वन्तरिः ।
साध्वीगर्वभराम्बुराशिचुलुकारम्भे तु कुम्भोद्भवः
कालिन्दीतटमण्डलीषु मुरलीतुण्डाद्ध्वनिर्धावति ॥३७॥
राधिका ः सहि,
जादा मह हिअए काबि गुरुई बेअणा । ता गदुअ सुपिस्सम् ।
विशाखा ः हला राहि ! तुह बेअणाबिद्धंसणं किम्पि एदमोसहं मह हत्थे बट्टदि । ता सेवेहि णम् ।
राधिका ः विशाखे,
एहि । अङ्गणोबकण्ठे फुल्लकण्णिआरमण्डलीच्छाअमज्झासिअ पेक्खह्मे ।
(
इति निष्क्रान्तः सर्वे ।)
इति श्रीविदग्धमाधवे
वेणुनादविलासो नाम
प्रथमोऽङ्कः
॥१॥
*****************************************************************
.
(
२)
द्वितीयोऽङ्कः
मन्मथलेखा
(
ततः प्रविशति नान्दीमुखी ।)
नान्दीमुखीः आदिट्ठह्मि तत्तहोदिए पौर्णमासिए,
जधा—
अ{
इ}
णन्दिमुहि,
सुदं मए निब्भरा असुत्थसरीरा मे बच्छा राही । ता गदुअ जाणीहि से तत्तं त्ति । तदो मुहराघरं गमिस्सम् । (इति परिक्रम्य पुणः पश्यन्ति ।) कहमिध ज्जेब्ब कन्दन्ती मुहरा आअच्छ{
इ}
।
मुखरा ः हद्धी हद्धी,
हदह्मि मन्दभाइणि ।
नान्दीमुखीःअज्जे मुहरे,
कीस रोअसि ?
मुखरा (विलोक्य) ः बच्छे,
राहीसन्दाबेण ।
नान्दीमुखीः केरिसं चेट्ठ{
इ}
राही ?
मुखरा ः बच्छे,
बाउला भविअ किं बि पलब{
इ}
। (इति संस्कृतेन)
क्रुराणामलिनां कुलैर्मलिनया कृत्यं न मे मालया
बालाहं किमु नर्मणस्तव पदं दूरीभव प्राङ्गणात।
इत्यादीनि दुरक्षराणि परितः स्वप्ने तथा जागरे
जल्पन्ति जलजेक्षणा क्षपयति क्लेशेन रात्रिन्दिवम् ॥१॥
नान्दीमुखी (स्वगतम्) ः उवसग्गकिदा न क्खु एरिसी पलाबमुद्दा । ता दिट्ठिआ विक्कमिदमेत्थ कह्णविलासेण ।
मुखरा ः बच्छे,
अहं गदुअ भावदिं बिण्णबिस्सम् । तुमं बेदसीकुञ्जमुबसप्पिअ राहिअं पेच्छ ।
(
इति निष्क्रान्ते ।)
(
ततः प्रविशति सखिभ्यामुपास्यमाना राधा ।)
राधिका (सोद्वेगं स्वगतम्) ः हदहिआ ! जस्स पडिच्छन्ददंसणमेत्तादो इरिसी दुरूहसङ्गमा उबत्थिदा दे अबस्था त्थ बि पुणो राअं बहसि ।
उभेः हला राही ! आमएहिन्तो विलक्खणो दे बेअणाणुबन्धे लक्खिअदि । ता कीस अह्मेसु तत्तं ण कधेसि ।
(
राधिका निःश्वस्य वक्त्रं व्यावर्तयति ।)
विशाखा (पुरोऽभिगम्य,
संस्कृतेन)
चिन्तासन्ततिरद्य कृन्तति सखि स्वान्तस्य किं ते धृतिं
किं वा सिञ्चति ताम्रमम्बरमतिस्वेदाम्भसां डम्बरः ।
कम्पश्चम्पकगौरि लुम्पति वपुःस्थैर्यं कथं वा बलात्
तथ्यं ब्रूहि न मङ्गला परिजने सङ्गोपनाङ्गीकृतिः ॥२॥
राधिका (सासुयम्) अ{
इ}
णिट्ठुरे बिसाहे,
तुममेब्बं पुच्छन्ती बि ण लज्जसि ।
विशाखा (सशङ्कम्) हला,
कहिं पि अबरद्धह्मि त्ति ण सुमरामि ।
राधिका ः अ{
इ}
णिक्किबे,
कीस एब्बं भणासि ?
सुमरिअ पेक्ख ।
विशाखा ः हला,
गरुएण बि प्पणिहाणेण ण मे सुमरणं होदि ।
राधिका ः उम्मत्ते,
गहणे इमस्सिमच्छाहिदाणलकुण्डे तुमं ज्जेब्ब मह पक्खेबणी ।
विशाखा ः कधं बिअ ।
राधिका (सेर्ष्यम्) अ{
इ}
मिच्छासरले ! आलेक्खगदभुअङ्गसङ्गिणि ! चिट्ठ चिट्ठ ! (इति सवैवश्यं संस्कृतेन)
वितन्वानस्तन्वा मरकतरुचीनां रुचिवतां
पटान्निष्क्रान्तोऽभूद्धृतशिखण्डो नवयुवा ।
(
इत्यर्धोक्तौ वाक्स्तम्भं णटयति । सख्यौ सभ्रूभान्गमन्योऽन्यं पश्यतः ।)
भ्रुवं तेन क्षिप्त्वा किमपि हसतोन्मादितमतेः
शशी वृत्तो वह्निः परमहह वह्निर्मम शशी ॥३॥
ललिता ः हला,
किमेसो सिविण्णस्स विलासो ?
राधिका (संस्कृतेन) ः
किं स्वप्नस्य विलक्षणा गतिरियं किं जागरस्याथवा
किं रात्रेरुपसत्तिरेव रभसादह्नः किमह्नाय वा ।
इत्थं श्यामलचन्द्रिकापरिचयस्पन्देन सन्दीपितैर्
अन्तःक्षोभकुलैरहं परिवृता प्रज्ञातुमज्ञाभवम् ॥४॥
विशाखा (साकुतम्) हला राही,
णुणमेसो दे चित्तविब्भमो जेब्ब क्खणिओ ।
राधिका (साभ्यसुयम्) अ{
इ}
अविसद्धे,
विरमेहि,
कीस अप्पणो दोसं झम्पिदुं प{
उ}
त्तासि ? (
इति संस्कृतेन)
कृतां भक्तिच्छेदैर्घुसृणघनचर्चामधिवहन्
पुनर्लब्धो लुब्धः प्रियकतरुमूले चटुलधीः ।
लपन्त्याः साक्षेपं नहि नहि नहीति स्मितमुखो
हठान्मे दुर्लीलः स किल भुजवल्लीदलमधात॥५॥
ततश्च—
दरोन्मीलन्नीलोत्पलदलरुचस्तस्य निविडाद्
विरूढानां सद्यः करसरसिजस्पर्शकुतुकात।
वहन्ती क्षोभाणां निवहमिह नाज्ञासिषमिदं
क्व वाहं का वाहं चकर किमहं वा सखि तदा ॥६॥
(
इति वैवश्यं नाटयति स्वगतम् ।) अ{
इ}
दुट्ठहिआ मक्कड,
कह्णो वैणविओ सामलकिसोरो त्ति तिणेसु पुरिसेसु राअं वहन्तो बि तुमं ण लज्जसि । ता दाणिमप्पाणं बाबादिअ पामरं तुमं हदासं करिस्सम् ।
ललिता ः हन्त हन्त ! हतमम्महसचिवस्स वसन्तस्स विप्फुजिदेण दुसिदा एदे परिसरा दीसन्ति । ता किमेत्थ सरणं ?
राधिका (संस्कृतेन) ः
विक्रीडन्तु पटीरपर्वततटीसंसर्गिणो मारुताः
खेलन्तः कलयन्तु कोमलतरं पुंस्कोकिलाः काकलीम् ।
संरम्भेण शिलीमुखा ध्वनिभृतो विध्यन्तु मन्मानसं
हास्यन्त्याः सखि मे व्यथां परममी कुर्वन्ति साहायकम् ॥७॥
उभे (सास्रम्) ः हला,
एदाहिं घोरचिन्ताहिं कीस किलिम्मसि । अह्मेहिं तक्किदमदिमेत्तदुल्लहो ण क्खु दे हिआट्ठिदो अत्थो ।
राधिका (निःश्वस्य संस्कृतेन) ः
इयं सखि सुदुःसाध्या राधा हृदयवेदना ।
कृता यत्र चिकित्सापि कुत्सायां पर्यवस्यति ॥८॥
ता विण्णवेमि इमस्सिमोसरे जधा सुदिढमेक्कं लदापासं लहेमि तधा सिणेहस्स णिक्किदिं करेध ।
उभे (सव्यथम्) ः हला,
एब्बं दारुणं भणन्ती मा क्खु सहीणं जीविदं लुम्पेहि । णं पच्चासण्णा दे अहीट्ठसिद्धी ।
राधिका ः सहिओ,
ण जाणीध इमाए हदराहीए हिआदुट्ठत्तणम्,
जमेब्बं मतेध ।
उभे ः कधिदं जेब्ब सब्बं पिअसहिए ।
राधिका ः णहु णहु,
गुरुई लज्जा णिबारेदि ।
सख्यौः हला,
अप्पसऽसदो बि गुरुओ अह्मेसु तुह सिणिहो लक्खीअदि । ता बहिरङ्गाए लज्जाए को एत्थ अणुरोहो ।
राधिका (संस्कृतेन) ः
एकस्य श्रुतमेव लुम्पति मतिं कृष्णेति नामाक्षरं
सान्द्रोन्मादपरम्परामुपनयत्यन्यस्य वंशीकलः ।
एष स्निग्धघनद्युतिर्मनसि मे लग्नः पटे वीक्षणात्
कष्टं धिक्पुरुषत्रये रतिरभून्मन्ये मृतिः श्रेयसी ॥९॥
उभे (सहर्षम्) हला,
कधं तुह्मादिसीणं गोउलसुन्दरीणं गोउलिन्दणन्दणमुज्झिअ अपरंस्सि अणुरॉ संभवदि । ता सुणाहि । एक्को ज्जेब्ब एसो महाणाअरो कह्णो ।
राधिका (सोच्छ्वासमात्मगतम्) हिआ,
समासस्स समासस्स । दाणिं जादा तुह जिअलोअनिवासलालसा ।
उभे (संस्कृतेन) ः
सा सौरभ्योर्मिपरिदिग्धदिगन्तरापि
बन्ध्यं जनुः सुतनु गन्धफली बिभर्ति ।
राधे न विभ्रमभरः क्रियते यदङ्के
कामं निपीतमधुना मधुसूदनेन ॥१०॥
नान्दिमुखी(परिक्रम्य) ः कहमग्गदो जेब्ब एसा राही । (इत्युपसृत्य) जादु जादु पिअसहि ।
राधिका (सावहित्थम्) सहि,
कुसलं भवदीए ।
नान्दिमुखीः तुह उल्लाहत्तणे जादे (इति राधां निभाल्य स्वगतम् ।) अप्पेक्खिअ च्चेअ मए पढमं णिट्टङ्किदम् । तहबि पुच्छिस्सम् । (प्रकाशम्,
संस्कृतेन)
न मुग्धे वैदग्धीगरिमपरिदिग्धा तव मतिर्
विरामो नेदानीमपि वपुषि बाल्यस्य वयसः ।
कमप्यन्तःक्षोभं प्रथयसि तथापि त्वमथवा
सखि ज्ञातं वृन्दावनमदनविस्फूर्जितमिदम् ॥११॥
ललिता ः अ{
इ}
अलिआसङ्किणि ! सीदलदक्खिणाणिलहेतुअं कम्पपुलां पेक्खिअ कीस दूसहं परिवादं देसि ।
नान्दिमुखी (सस्मितम्,
संस्कृतेन) ः
रोमाञ्चः परिचेष्यते कथमयं नास्माभिरुत्कम्पवान्
दुष्कीर्तिं नहि दक्षिणाय मरुते दाक्षिण्यशुन्ये वद ।
एतन्मन्मथकोटिसम्भ्रमभरैर्बम्भ्रोम्यते सुभ्रुवः
स्वान्ते नागरचक्रवर्तिनयनप्रान्तस्य लीलायितम् ॥१२॥
ता सच्चं कहेहि । कदा एदाए पच्चक्खिकिदो गोउलाणन्दो ।
विशाखा ः एवमेदम् ।
नान्दिमुखी (संस्कृतेन) ः
दरविचलितबाल्या वल्लभा बान्धवानां
विहरसि भवने त्वं पत्युरामोदपात्री ।
अहह पशुपरामाकामिनो मोहनत्वं
त्वमपि यदमुनान्तर्बाढमुन्मादितासि ॥१३॥
ता अहं भावदिं तुवरेदुं गमिस्सम् । (इति निष्क्रान्ता) ः
राधिका (विमृश्य,
संस्कृतेन)
सा कल्याणी कुलयुवतिभिः शीलिता धर्मशैली
द्रागस्माभिः कथमविनयोत्फुल्लमुल्लङ्घनीया ।
(
इत्यर्धोक्ते । पुनः सोत्कण्ठम् ।)
हा दृग्भङ्गीपरिमलकलाकर्मठोऽयं कथं वा
हातुं शक्यः पशुपनगरीनागरीनागरेन्द्रः ॥१४॥
(
ततः प्रविशति नान्दीमुखीमुखराभ्यामनुगम्यमाना पौर्णमासी ।)
पौर्णमासी ः मुखरे,
किमदुःसाधबाधा तर्किता त्वया राधा ?
मुखरा ः भावदि,
सुणाहि ।
अग्रे वीक्ष्य शिखण्डखण्डमचिरादुत्कम्पमालम्बते
गुञ्जानां च विलोकनान्मुहुरसौ सास्रं परिक्रोशति ।
नो जाने जनयन्नपूर्वनटनक्रीडाचमत्कारितां
बालायाः किल चित्तभूमिमविशत्कोऽयं नवीनग्रहः ॥१५॥
पौर्णमासी (स्वगतम्) ः सोऽयमुद्दण्डस्य नवानुरागराशेः कोऽपि चण्डिमा । (प्रकाशम्) मुखरे,
साधु विज्ञातम् । यदत्र दानवकुलावतंसाः कंसादयो राधामन्विष्यन्ति । तेन कोऽप्ययमङ्गनाग्रहो बालामाविवेश ।
मुखरा ः भावदि,
को एत्थ पडिआरो ?
पौर्णमासी ः अयि दानवारेर्दृष्टिरेव ।
मुखरा ः भावदि,
कुडिला क्खु जडिला एदं णाहिणंदिस्सदि ।
पौर्णमासी ः मुखरे ! सा खलु मद्गिरा सन्दिश्यताम्—
जटिले ! मा शङ्किष्ठाः । कृष्णमात्मविद्ययैव सङ्घटयिष्यामीति ।
(
मुखरा नमस्कृत्य निष्क्रान्ता ।)
पौर्णमासी (उपसृत्य) ः वत्से,
निजाभीष्टलाभेन कृतार्थीभुयाः ।
(
राधा सावहित्थं प्रणमति ।)
पौर्णमासी (स्वगतम्) ः
भजन्त्याः सव्रीडं कथमपि तदाडम्बरघटाम्
अपह्नोतुं यत्नादपि नवमदामोदमधुरा ।
अधीरा कालिन्दीपुलिनकलभेन्द्रस्य विजयं
सरोजाक्ष्याः साक्षाद्वदति हृदि कुञ्जे तनुवनी ॥१६॥
(
पुनर्निरूप्य जनान्तिकम् ।) ः हन्त नान्दीमुखि ! निर्भरगभीरप्रेमोर्मिनिर्मितमनःक्षोभा किमप्येषा विचेष्टते । तदियमवधार्यतामनुरागविरस्य कापि दुर्विबोधगभीरविक्रमवैचित्रि । तथा हि—
प्रत्याहृत्य मुनिः क्षणं विषयतो यस्मिन्मनो धित्सते
बालासौ विषयेषु धित्सति ततः प्रत्याहरन्ती मनः ।
यस्य स्फूर्तिलवाय हन्त हृदये योगी सुमुत्कण्ठते
मुग्धेयं किल तस्य पश्य हृदयान्निष्क्रान्तिमाकाङ्क्षति ॥१७॥
नान्दीमुखीः भावदि,
इरिसस्स भाअस्स विण्णाने मुढह्मि ।
पौर्णमासी ः वत्से सत्यमात्थ । दुर्गमोऽयं गाढानुरागविवर्तः । श्रूयताम् ।
पीडाभिर्नवकालकूटकटुतागर्वस्य निर्वासनो
निःस्यन्देन मुदां सुधामाधुरीमाहङ्कारसङ्कोचनः ।
प्रेमा सुन्दरि नन्दनन्दनपरो जागर्ति यस्यान्तरे
ज्ञायन्ते स्फुटमस्य वक्रमधुरास्तेनैव विक्रान्तयः ॥१८॥
तदेहि,
भावमस्याः परीक्षेवहि । (इत्युपसृत्य) वत्से,
किमपि प्रष्टव्यासि ।
पतिः प्रेमोदात्तः सुचरितकथा गोकुलपुरे
प्रसिद्धा ते शुद्धे जनिरपि च लक्ष्मीवति कुले ।
अपूर्वा कुर्वाणा मतिमिह महासाहसमयिं
सुहृद्भ्यस्त्वं लज्जामपि किमिव राधे न भजसि ॥१९॥
(
राधिका कातर्यमभिनीय सलज्जं ललिताकर्णमूले लगति ।)
ललिता ः अज्जे,
विण्णवेदि राही । (इति संस्कृतेन ।)
दोषोद्गारं त्वमपि कुरुषे हा मयि व्याकुलायां
पादेभ्यस्ते भगवति शपे नापराध्यामि साध्वि ।
पर्णैः कर्णोत्पलवलयिभिस्ताड्यमानोऽपि धूर्तो
न श्यामात्मा मम तनुपरिष्वङ्गरङ्गं जहाति ॥२०॥
पौर्णमासी (सेर्ष्यमिवालोक्य) ः मुग्धे ! किमन्यां प्रौढमुद्रां नोद्दण्डयसि ?
राधिका (सरोषं संस्कृतेन) ः
क्रोशन्त्यां करपल्लवेन बलवान्सद्यः पिधत्ते मुखं
धावन्त्यां भयभाजि विस्तृतभुजो रुन्धे पुरः पद्धतिम् ।
पादान्ते विलुठत्यसौ मयि मुहुर्दष्टाधरायां रुषा
मातश्चण्डि मया शिखण्डमुकुटादात्माभिरक्ष्यः कथम् ॥२१॥
पौर्णमासी (स्वगतम्) ः निष्कम्पतया बद्धमूलोऽयं प्रेमपलाशी । (प्रकाशम्)
त्वया नीतो वामः फलकमिलदङ्गो मधुरिपुः
सुखाशाभिः क्रीडाकुतुकिनि कुतो नेत्रपदवीम् ।
कुकुलाग्निज्वालापटलकटुकेलिर्यदधुना
दशेयं हन्त त्वां ज्वलयति हिमानिव नलिनिम् ॥२२॥
राधा (कृष्णमुद्दिश्य सोपालम्भमात्मगतम्)
शिशिरय दृशौ दृष्ट्वा दिव्यं किशोरमितीक्षितः
परिजनगिरां विश्रम्भात्त्वं विलासफलाङ्कितः ।
शिव शिव कथं जानीमस्त्वामवक्रधियो वयं
निविडबडवावह्निज्वालाकलापविकासिनम् ॥२३॥
पौर्णमासी (सस्नेहमालोक्य ।) वत्से,
क्षणमेकान्ते निविश्य पुष्पेषु लेखो निर्मीयताम् । यथायं कृष्णाय स्वसखिभ्यां समर्प्यते ।
(
राधा सखीभ्यां सह निष्क्रण्ता ।)
पौर्णमासी (परिक्रम्य) ः नान्दीमुखि ! कृष्णोऽपि नातिदूरे भविष्यति,
यदत्र दक्षिणतो नैचिकीनिकुरम्बस्य हम्बारवाडम्बरोऽयमम्बरमाक्रामति । तदहं स्नाहार्थं व्रजामि । (इति निष्क्रान्ते ।)
(
ततः प्रविशति) कृष्णः (सोद्वेगम्) ः
यदवधि तदकस्मादेव विस्मायिताक्षं
नवतडिदभिरामं धाम साक्षाद्बभूव ।
तदवधि चिरचिन्ताचक्रसक्ता विरक्तिं
मम मतिरुपभोगे योगिनीव प्रयाति ॥२४॥
(
पुरोऽनुसृत्य) ः हन्त,
रङ्गणमाल्यामुपनेतुं प्रस्थितो वयस्यः कथं विलम्बते ?
(
प्रविश्य माल्यहस्तः) मधुमङ्गलः ः कधमज्ज दुम्मणाएदि पिअबास्सो । होदु । पसङ्गदो जाणिस्सम् । (इति परिक्रम्य कृष्णं पश्यन्स्वगतम्,
संस्कृतेन)
फुल्लप्रसूनपटलैस्तपनीयवर्णाम्
आलोक्य चम्पकलतां किल कम्पतेऽसौ ।
शङ्के निरङ्कनवकुङ्कुमपङ्कगौरी
राधास्य चित्तफलके तिलकीबभूव ॥२५॥
(
इत्युपसृत्य) भो गेण्ह (इति माल्यं निवेदयति)
कृष्णः (अनाकर्णितकेनैव)
कनकाद्रिनिकेतकेतकी
कालिकाकल्पकलेवरद्युतिः ।
हृदि सा मुदिरालिमेदुरे
चपला मां किमलङ्करिष्यति ॥२६॥
मधुमङ्गलः (स्वगतम्) ः फलिदं मे तक्केण । (प्रकाशमुच्चैः) भो पिअबास्स । संमुहे विक्कोसन्दं बि कीस मं ण पेच्छसि ?
कृष्णः (सावहित्थम्) सखे,
चम्पकलताया लावण्याकृष्टेन मया नोपदृष्टोऽसि ।
मधुमङ्गलः ः सच्चं च्चेअ भणासि,
किं तु संचारिणिए चम्पालदाए ।
कृष्णः ः सखे,
कामामसम्भाव्यश्चम्पकलतायाः सञ्चारः ।
मधुमङ्गलः ः बास्स,
क्खणं विरमेदु बङ्कत्तणम् । उज्जुअं कहेहि कहं सुण्णहिअओ सि त्ति ।
कृष्णः (सस्मितम्) सखे,
मालां विना ।
मधुमङ्गलः ः बालं त्ति भण ।
कृष्णः ः मुधेयं ते विशङ्का ।
मधुमङ्गलः (संस्कृतेन आश्रित्य)
न जानीषे मुर्ध्नश्च्युतमपि शिखण्डं यदखिलं
न कण्ठे यन्माल्यं कलयसि पुरस्तात्कृतमपि ।
तदुन्नीतं वृन्दावनकुहरलीलाकलभ हे
स्फुटं राधानेत्रभ्रमरवरवीर्योन्नतिरियम् ॥२७॥
कृष्णः (स्वगतम्) ः कथं निखिलमेव तर्कितं धूर्तेन ?
तदलं प्रतार्य । (प्रकाशम्) सखे,
यथार्थमात्थ । तदाकर्ण्यताम् ।
मम राधा निसर्गस्थं,
प्रतीपमनयन्मनः ।
महाज्यैष्ठीव सहसा,
प्रवाहं सौरसैन्धवम् ॥२८॥
मधुमङ्गलः ः णूणमच्छीणं दे पच्चक्खीभूदा एसा ।
कृष्णः ः अथ किम् । सुबलतः सा परिचिक्ये च । (इत्यौत्सुक्यमभिनीय)
भ्रमद्भ्रूवल्लीकैः प्रतिदिशमपाङ्गस्य वलनैः
कुरङ्गीभ्यो भङ्गीभरमुपदिशन्तीमिव दृशोः ।
ततस्तां बिम्बौष्ठीं कलयति मयि क्रोधविकटो
मनोजन्मा पौष्पं धनुरनुपमं सज्जमकरोत॥२९॥
मधुमङ्गलः अबि णाम संबुत्तमण्णोण्णदंसणं ?
कृष्णः ः नहि नहि—
तस्याः सखे मुखतुषारमयूखबिम्बे
दूरान्ममाक्षिपदवीमधिरूढमात्रे ।
निर्बन्धतः शपथकोटिभिरम्बयाहं
नीतः क्षणादहह सद्मनि भोजनाय ॥३०॥
मधुमङ्गलः ः बास्स,
चिट्ठन्ति बहुलॉ बल्लवसुन्दरिओ । तदबि कीस एकाए राहिए निब्भरमणुरज्जसि ?
कृष्णः ः सखे,
राधायामसाधारणि कापि माधुरी । तथा हि—
तस्याः कान्तिद्युतिनि वदने मञ्जुले चाक्षियुग्मे
तत्रास्माकं यदवधि सखे दृष्टिरेषा निविष्टा ।
सत्यं ब्रूमस्तदवधि भवेदिन्दुमिन्दीवरं च
स्मारं स्मारं मुखकुटिलताकारिणीयं हृणीया ॥३१॥
मधुमङ्गलः ः दंसणदो पढमं ज्जेब्ब तत्थ तुज्झ रॉ मए तक्किदो त्थि । ता किं त्ति लावण्णोबाहिओ त्ति भणासि ।
कृष्णः ः सखे सत्यमात्थ । स्वचित्ताभिनिवेशादेव तस्यां कोऽपि महिमोन्नाहः प्रतीयते । तथा हि—
यत्र प्रकृत्या रतिरुत्तमाहां
तत्रानुमेयः परमोऽनुभावः ।
नैसर्गिकी कृष्णमृगानुवृत्तिर्
देशस्य हि ज्ञापयति प्रशस्तिम् ॥३२॥
नेपथ्ये ः सहि सारिए,
दिट्ठो तुए एत्थ बल्लविन्दंअन्दणो ।
कृष्णः ः सखे,
नेदीयानयं सुकुमारिकण्ठध्वनिरुदञ्चति । तदत्र तुष्णिमास्वहे ।
(
ततः प्रविशतो ललिताविशाखा)
ललिता ः पेक्ख एसो दिट्ठिआ पुरदो कह्णो । ता उपसप्पह्मे । (इत्युभे तथा कृत्वा ।) जादु जादु गोउलाणन्दो ।
कृष्णः ः सखि ललिते ! शङ्के मनोहारिकुसुमपत्रमादातुमद्य वृन्दाटवीमध्ये अवतीर्णासि ।
ललिता ः विण्णादं बि णुणमाआरेण संगोबेसि जं दादुं ति ण भणासि । ता गेण्ह णं कण्णिआरकोरापत्तम् । (इत्यनङ्गलेखं कृष्णकरेऽर्पयति ।)
कृष्णः (स्वगतम्) ः चेतः ! समाश्वसिहि समाश्वसिहि । त्वदभीष्टबीजस्याङ्कुरोऽयमिति शङ्के ।
मधुमङ्गलः ः भो ललिदे ! किमिमिणा अक्खराणं पत्तेण सक्कराणां पत्तं समप्पेहि ।
कृष्णः ः सखे,
वाचय पत्रम् । कदाचिदेतन्नः कर्णरसायनस्य पात्रीभवति ।
मधुमङ्गलः ः भो बास्स,
दिट्ठा तुह्म गोआलजादिए वदाण्णदा । णमह्म बह्मणजादिं जेब्ब गौरएण वन्दामि,
जं तहिं दिअहे जण्णिअबह्मणिहिं च{
उ}
विहेण अण्णेन भोइदह्म । (इति लेखं वाचयति ।)
धरिअ पडिच्छन्दगुणं
सुन्दर मह मन्दिरे तुमं वससि ।
तह तह रुन्धसि बलिअं
जह जह च{
इ}
दा पलाएमि ॥३३॥
कृष्णः ः सखे,
दुरधिगमार्था तावदियं गाथा । तेन पुनर्भण्यताम् ।
(
मधुमङ्गलस्तथा करोति ।)
कृष्णः (सानन्दं स्वगतम्) ः कुलस्त्रियो हि धर्मभीरवो भवन्ति । तदुपेक्षया भावनिष्ठां निष्टङ्कयामि । (इति संरम्भमभिनीय प्रकाशम् ।) हंहो ! पश्यत पश्यत !
स्निग्धैरेभिः सखिभिरखिलैर्धेनुवृन्दानुसारी
नारीवार्ताविमुखहृदयः काननान्ते चरामि ।
मां स्वैरिण्यस्तदपि यदिमा दूषयन्ति प्रकामं
तद्विज्ञप्तिं द्रुतमिह जरद्गोपगोष्ठ्यां करिष्ये ॥३४॥
(
इति कृत्रिमामर्षेण द्रुतं परिक्रामति ।)
मधुमङ्गलः (स्मितमावृत्य) ः भो बह्मऽरिसिहामणे ! क्खणं णिवट्टिअ इमॉ दुम्मुहगोइऑ पच्चुत्तरेण णिज्जित्तिअ बिड्डाबेहि । अहं क्खु एदं सब्बं धिट्ठाणं बुत्तन्तं गोउलेसरिए विण्णविस्सम् । (इति पाणौ धृत्वा व्यावर्तयति ।)
(
उभे परस्परमवेक्ष्य वैलक्ष्यं नाटयतः) ः
कृष्णः ः सखि विशाखे,
चातुरक्षिकं प्रेक्षणमपि नास्ति । कुतस्तावत्परितो रोधनं ?
तदनुयामि । केनाप्यपरेण नागरेण तस्याः स्वान्तमुच्चालितम् ।
विशाखा (संस्कृतेन आश्रित्य) ः
कस्तादृग्व्रजमण्डलेऽथ वलते शक्यो गरियानसौ
येनोच्चालयितुं बलात्कुलवतीचेतोगिरिग्रामणीः ।
इत्यस्माभिरवक्रविक्रमलवादुत्क्षिप्तगोवर्धनो
हेतुस्त्वं किल पङ्कजाक्ष पटुभिस्तत्रासि निष्टङ्कितः ॥३५॥
मधुमङ्गलः ः अ{
इ}
बाआलिए! चिट्ठ चिट्ठ ! दिट्ठो मए उक्खित्तदण्डमण्डलेहिं गोबेहिं गोवड्ढणो धरिदो । तुमं कीस एक्कं ज्जेब्ब पिअबास्सं संभावेसि ?
कृष्णः ः ललिते,
अलमतिप्रसङ्गेन । तन्निवर्तस्व ।
ललिता ः सुंदर,
सब्बगोउलसुहकारिणो बि तुअत्तो कधं सा एका ज्जेब्ब दुक्खमरिहदि बरीअसी ?
कृष्णः ः
सङ्गी मे मधुमङ्गलो न सहते धर्माध्वनो विच्युतिं
श्रिदामा परिमार्गयन्मम नहि च्छिद्राणि निद्रायति ।
कंसः शास्ति खलः क्षितिं कथमतो मुग्धे विधेयं मया
निःशङ्कं कुलसुन्दरीपरिभवज्ज्वालामहासाहसम् ॥३६॥
ललिता (समार्षं संस्कृतेन) ः
अन्तःक्लेशकलङ्कितः किल वयं यामोऽद्य याम्यं पुरीं
नायं वाञ्चनसञ्चयप्रणयिनं हासं तथाप्युज्झति ।
अस्मिन्सम्पुटिते गभीरकपटैराभिरपल्लिविटे
हा मेधाविनि राधिके तव कथं प्रेमा गरियानभूत॥३६॥
(
इति रोदिति)
मधुमङ्गलः ः अ{
इ}
मुद्धे,
सालसत्थविसारओ जस्स अह्मारिसो अमच्चो होइ सोबि किमेदं धम्ममदिक्कमिस्स{
इ} ?
ता अलमरण्णरुदिदेण ।
विशाखा (स्वगतम्) ः णं राहीए गुञ्जाअलिअं कह्णस्स देंती इङ्गिदं लक्खेमि । (प्रकाशम्,
संस्कृतेन)
उदीर्णरागेण करम्बितान्तरा
परिस्फुरत्कृष्णमुखी गुणाञ्चिता ।
गुञ्जावली मञ्जुतरावलम्बतां
सा राधिकेयं तव कण्ठसङ्गमम् ॥३८॥
(
इति कण्ठे स्वयमर्पयति ।)
कृष्णः (स्मित्वा सकपटेर्ष्यम्) ः
रागिणमपि सुकठोरं
सुवृत्तमपि मुहुरुदीर्णमालिन्यम् ।
युवतीनामिव भावं
नहि गुञ्जाहारमिच्छामि ॥३९॥
(
इत्यजाननिव कण्ठादवतार्य रङ्गणमालिकामर्पयति ।)
विशाखा (स्वगतम्) ः इमस्स भमो बि अह्माणं मङ्गलो संबुत्तो । (इति वस्त्रेण संवृणोति ।)
ललिता ः हला,
गोबिआकोडिभुअङ्गस्स इमस्स अक्खलिदमच्चरिअं बह्मचरिअं दिट्ठिआ पाडिभूदम् । ता अह्मेबि गदुअ तं तमत्थाणानुराइणिं राहीअं निवट्टावेह्म ।
विशाखा ः सहि,
जुत्तं मन्तेसि । (इत्युभे परिक्रामतः ।)
ललिता ः बिसाहे,
तुमं गदुअ इमाए रङ्गणमालिआए पिअसहिमासासेहि । अहं क्खु एदं बुत्तन्तं भावदीए बिणिवेदिस्सम् ।
(
इति निष्क्रान्ते ।)
मधुमङ्गलः ः भो बास्स ! आदरिज्जंतं बि अप्पाणं कीस आदराबेसि ?
इदं क्खु पच्चाद्दाबपब्बताहिरोहणस्स अहिरोहिणीणिम्माणं दाव ।
कृष्णः ः सखे,
सत्यं ब्रविषि । साहसिक्यं हसितेनैवानुष्ठितम् ।
मधुमङ्गलः ः पेक्ख गोइजुअलं नेत्तपहमदिक्कमिदम् ।
श्रुत्वा निष्ठुरतां ममेन्दुवदना प्रेमाङ्कुरं भिन्दती
स्वान्ते शान्तिधुरां विधाय विधुरे प्रायः पराञ्चिष्यति ।
किं वा पामरकामकार्मुकपरित्रस्ता विमोक्ष्यत्यसून्
हा मौग्ध्यात्फलिनी मनोरथलता मृद्वी मयोन्मूलिता ॥४०॥
मधुमङ्गलः ः दाणीं किमेत्थ सरणं ?
कृष्णः ः सखे,
प्रत्यनङ्गलेखं विना नान्यत्पश्यामि शरणम् ।
मधुमङ्गलः ः किमेत्थ लेहसाहणम् ।
कृष्णः ः वशिकारक्रियाप्रशस्तो रागवान्जवानिर्यासः ।
मधुमङ्गलः ः एहि,
उड्ड्रमहाड{
इ}
ंमण्डिदं णादिदूरे पक्कंदणतीत्थं गच्छह्म । (इति निष्क्रान्तौ ।)
(
ततः प्रविशति विशाखया प्रबोध्यमाना राधा ।)
राधा (सखेदं,
संस्कृतेन) ः
यस्योत्सङ्गसुखाश्रया शिथिलता गुर्वी गुरुभ्यस्त्रपा
प्राणेभ्योऽपि सुहृत्तमाः सखि तथा यूयं परिक्लेशिताः ।
धर्मः सोऽपि महान्मया न गणितः साध्वीभिरध्यासितो
धिग्धैर्यं तदुपेक्षितापि यदहं जीवामि पापीयसी ॥४१॥
(
इति मूर्च्छति)
विशाखा (ससम्भ्रमम्) सहि,
समास्सस समास्सस । (इति रङ्गणमालां घ्राणेऽर्पयति ।)
राधिका (संज्ञां लब्ध्वा) ः हला,
किमेदमच्चरिअं जं संमोहणं बि पबोहेदि ?
विशाखा (माल्यं निवेद्य,
संस्कृतेन) ः
अङ्गोत्तीर्णविलेपनं सखि समाकृष्टिक्रियायां मणि
र्मन्त्रो हन्त मुहुर्वशीकृतिविधौ नामास्य वंशीपतेः ।
निर्माल्यस्रगियं महौषधिरिह स्वान्तस्य सम्मोहने
नासां कस्तिसृणां गृणाति परमाचिन्त्यां प्रभावावलीम् ॥४२॥
राधिका (स्वगतम्) ः एवंगुणेण इमिणा उबेक्खिदं बि णं हदसरिरं कधमज्जबि णिल्लज्जाहं धारेमि । ता कालिअहदपवेसोबाअमणुसरिस्सम् । (प्रकाशम्) बिसाहे,
बिण्णबेहि गुरुअणं जं बारहाइच्चतीत्थं गदुअ सुरमच्चिदुकामह्मि ।
विशाखा ः साहु सुमराइदं पिअसहिए जमज्जाए जडिलाए अहं बि एदं ज्जेब्ब दाणिमादिट्ठह्मि । ता एहि । (इत्युभे परिक्रामतः ।)
राधिका (सव्यामोहम्) ः
मं परिहर{
इ}
मुउंदो तह बि दुरासा विरोहिणी डह{
इ}
।
मह सहि गहीरणीरा सरणं बहिणी किदंतस्स ॥४३॥
विशाखा ः हला,
पेक्ख पत्थाणे मङ्गलसुआणाइं स{
उ}
णाइम् । ता एब्बं मा भण ।
राधिका (पुरो दृष्ट्वा) ः हला,
कथमेसा पूब्बदिसामुहे आ आलिई सञ्झा दीस{
इ}
।
विशाखा ः ण क्खु संझा । पेक्ख पक्कन्दणे सुरस्स बल्लहा परिफुल्लिदा ओड्रराई राअदि । ता इमस्स अग्घं कादुं णमवचिणह्म । (इत्युभे कुरुतः) ः
(
ततः प्रविशति बटुना सह कृष्णः ।)
कृष्णः ः सखे,
सेयं राधाधरकान्तितस्करी जवाराजिः ।
मधुमङ्गलः ः अदो णं णिप्पिडिअ निम्माहि पच्चणङ्गलेहम् ।
कृष्णः (परिकम्प्य सविस्मयम्) ः
एषा नान्तिकवर्तिनि सुरगिरेरैलावृति हन्त भुर्
अग्रे किं कलयामि काञ्चनरुचामुद्गारगौरिर्दिशः ।
आं ज्ञातं मणिनूपुरध्वनिभरादालिजनालङ्कृता
कान्तिनां कुलदेवता विलसितुं वृन्दाटवीं विन्दति ॥४४॥
मधुमङ्गलः ः हन्त भोः ! मग्गिज्जंतह्मि बाउरासाहणे कुरङ्गी सां हत्थं गदा ।
कृष्णः (सानन्दम्) ः सखे,
साधु विज्ञातम् । तदत्र वृक्षान्तरितौ शृणुवः किमसौ प्रस्तौति । (इति तथा स्थितौ ।)
राधिका (विशाखामालिङ्ग्य सास्रम्) ः हला,
एसो जणो कधापसङ्गे सां सुमरिदब्बो ।
विशाखा (सबष्पम्) ः सहि,
अक्खीणधीरत्तनादिगुणा भणिज्जसि । ता किं त्ति एब्बमुब्बिग्गासि ?
राधिका ः सहि,
णिग्गुणीकिदह्मि तिणा धुत्तेण । (इति संस्कृतेन)
यस्योरस्तटमण्डलं धृतिनदिरोधक्रियापण्डितं
वक्त्रेण्दुः कुलधर्मपङ्कजवनिसङ्कोचदीक्षाव्रति ।
दोर्युपौ नितरामुदञ्चितचिरव्रिडाभिदाराध्वरौ
हा कष्टं निखिलङ्गिला सखि दृशोर्भङ्गीभुजङ्गि तु सा ॥४५॥
कृष्णः ः प्रिये,
त्वन्माधुर्येण माधवश्च जडीकृत्य निर्गुणामवस्थां नीतोऽयम् ।
राधिका (आकाशे अञ्जलिं बद्ध्वा,
संस्कृतेन) ः हन्त भो बकीहन्तः !
गृहान्तःखेलन्त्यो निजसहजबाल्यस्य बलनाद्
अभद्रं भद्रं वा किमपि हि न जानीमहि मनाक।
वयं नेतुं युक्ताः कथमशरणां का अपि दशां
कथं वा न्याय्या ते प्रथयितुमुदासीनपदवी ॥४६॥
कृष्णः ः प्रिये,
कः खलु जिजीविषुर्जीवातुभूतायां सिद्धौषधीलतायामुदास्ते ।
राधिका (निःश्वस्य) हला,
एसा पिआ मे एकाअलि तुए अप्पणो कण्ठे धारणिज्जा । (इति कण्ठादेकावलिमुत्तारयति ।)
विशाखा (हठान्निवार्य) ः हला,
एब्बमणुचिट्ठती किं त्ति मं डहसि ?
जं ललिदं पडिक्खिअ निरुज्जमह्मि । (इति रोदिति)
राधिका (संस्कृतेन) ः
अकारुण्यः कृष्णो यदि मयि तवागः कथमिदं
मुधा मा रोदीर्मे कुरु परमिमामुत्तरकृतिम् ।
तमालस्य स्कन्धे विनिहितभुजवल्लरिरियं
यथा वृन्दारण्ये चिरमविचला तिष्ठति तनुः ॥४७॥
कृष्णः (सास्रम्) ः सखे,
दृष्टानुरागस्य साधिष्ठता ।
राधिका (स्वगतम्) ः तुवरावेदि मं कावि घणुक्कण्ठा । (प्रकाशम्) हला । सुरमच्चिअ किं पि अब्भत्थिदुकामाह्मि । ता जाव सिणाणं कदुअ णिबुत्ता भवे,
तुममेत्थ पुप्फमवचिणेहि । (इति तिर्थाभिमुखं द्वित्राणि पदानि गत्वा पुनरात्मगतम् ।) ः हन्त,
सो तिल्लोकमोहणो मुहचन्दो पुणो मए न दिट्ठो । (इति सोत्कण्ठं निवृत्य प्रकाशम् ।) हला,
पसीद पसीद । दंसेहि तं पडिच्छन्दाम् ।
विशाखा ः सहि,
णत्थि अत्थ चित्तफलाम् ।
राधिका (सव्यथम्) ः तदो पणिनाणेण णं पच्चखीकरिस्सम् । (इति ध्यानं नटयति)
कृष्णः ः सखे,
पीतमपीतपूर्वमुन्मादकं श्रोत्रमाध्विकम् । तदग्रतो गच्छावः ।
(
इति उभौ तथा कुरुतः ।)
विशाखा (विलोक्य सानन्दं ससम्भ्रमम्) ः दिट्ठिआ तुज्झ सुहज्झाणेण फलिदम् । ता झत्ति उग्घाडेहि लोअणम् ।
(
राधिका दृशं दरोन्मील्य चमत्कारं नाटयति ।)
विशाखा (संस्कृतेन) ः
यदर्थं सङ्कीर्णे पतसि हतकन्दर्पकदने
मृदुं वा दुर्वारे ज्वलयसि तनुं प्रेमदहने ।
अखण्डेनापिडं सखि नवशिखण्डेन कलयन्
विलासी सोऽयं ते स्फुरति पुरतो जीवितपतिः ॥४८॥
राधिका ः अम्महे सिविणस्स माहुरि ।
विशाखा ः अविसद्धे,
एसो दे अपुब्बो सिविणो जो णिद्दाए विणा बि णिप्पणो ।
कृष्णः ः
असौ दृग्भङ्गीभिः कुसुमशरमान्गिकृतशरं
सृजन्ति दन्तिन्द्रक्रमणकमनियालसगतिः
अदूरे रम्भोरुरिह वदनबिम्बस्य सुषमा
समारम्भादम्भोरुहमाधुरीमाणं दमयति ॥४९॥
राधिका (कृष्णे दृगन्तं नर्तयन्ति स्वगतम्) ः साहु रे हिआ,
साधु दिट्ठिआ मुहुत्तं विलम्बिदम् ।
कृष्णः (स्मित्वा) ः धूर्ते विशाखे ! समन्तान्मृग्यमाणा दिष्ट्या त्वमत्र दृष्टासि । यदद्य भवत्या रूपसादृश्यादपाकिमगुञ्जाहारेण मां प्रतार्य दुर्लभा मे रङ्गणमालिकापनीता ।
मधुमङ्गलः ः भो णं राहीए कण्ठादो दीसतीमप्पणो रङ्गणमालिअं सां जेब्ब आअड्डिअ गेण्ह ।
कृष्णः ः सखे,
जानतापि भवता किमिदमन्याय्यमुपन्यस्तम् । न खलु स्वप्नेऽपि मया कामिनीस्पर्शः स्मर्यते ।
राधिका (स्वगतम्) ः इमस्स परिहासो बि एसो संकिदाए मम सच्चो पडिभादि ।
विशाखा (विहस्य) ः अयि वराङ्गणातरङ्गिणिनां महासाअर,
चिट्ठ चिट्ठ । दाणिं बि इमाइं दीसंत्ति तुज्झ अङ्गेसु ताणं चिण्हाइम् । (इति संस्कृतेन)
आकृष्टानि कटाक्षभङ्गीभिरलं गोपाङ्गनानां त्वया
रक्तान्यत्र मनांसि याहि निमिषोन्मुक्तानि नेत्राण्यपि ।
तान्येतानि भवान्नवाञ्जनतनो गुञ्जावलिनां छलात्
पिञ्छानां च सदा प्रसाधनधिया सन्धारयन्नन्दसि ॥५०॥
कृष्णः (सहर्षमात्मगतम्) ः
प्रमदरसतरङ्गस्मेरगण्डस्थलायाः
स्मरधनुरनुबन्धिभ्रूलतालास्यभाजः ।
मदकलचलभृङ्गीभ्रान्तिभङ्गीं दधानो
हृदयमिदमदाङ्क्षीत्पक्ष्मलाक्ष्याः कटाक्षः ॥५१॥
(
नेपथ्ये)ः णत्तिणि बिसाहे ।
कृष्णः ः कथमखाण्डे जरापाण्डुरेयं जटिला ।
(
प्रविश्य) जटिला (पुरो दृष्ट्वा स्वगतम्) ः कहमेत्थ कह्णो ? (
प्रकाशम्) बिसाहे,
किंति इमानि धुअगन्धरत्तचन्दनाइं तुए विसुमरिदाइम् ।
कृष्णः (स्वगतम्) ः
चन्द्रिकां चन्द्रलेखायाश्चकोरे पातुमुद्यते ।
पिधानं विदधे हन्त शरदम्भोदरावलि ॥५२॥
(
प्रकाशम्) मातुर्मातुलाणि,
प्रणमामि ।
जटिलाः मोहण,
बल्लाकिशोरिउले अवङ्कदिट्ठि होहि ।
मधुमङ्गलः (विहस्य) ः भो दधिचिहड्डकक्कसे,
एसो सब्बदो उदारदिट्ठि च्चेअ मज्झ पिअवास्सो । तुमं क्खु केअरच्छि । तावप्पाणमासंसेहि ।
जटिलाः भो किशोरिभुअङ्ग,
कीस तुममाअदोसि ।
कृष्णः ः आर्ये,
लोकोत्तरानुरागचमत्कारिणियं सुजवालक्ष्मिः कं वा नाकर्षति ?
जटिला (स्वगतम्) ः णुणं भावदीए विज्जापहावसंभाविदा इमस्स एत्थ उबसत्ति । (प्रकाशम्) मोहण,
झत्ति इदो गच्छेहि ।
कृष्णः ः अयि जल्पाकि वृद्धे ! किमित्याकुलासि ?
स्वच्छन्दतो गच्छेयम् ।
जटिला (कुटिलं विलोक्य,
संस्कृतेन)
निर्धौतानां निखिलधरणीमाधुरीणां धुरीणा
कल्याणी मे निवसति वधूः पश्य पार्श्वे नवोढा ।
अन्तर्गोष्ठे चटुल नटयन्नत्र नेत्रत्रिभागं
निःशङ्कस्त्वं भ्रमसि भविता नाकुलत्वं कुतो मे ॥५३॥
कृष्णः ः मृषाशङ्किनि वृद्धे ! मा प्रलापं कृथाः । यावदेतां ते वधूमाकर्णयं तावन्मान्यां भावयामि ।
जटिलाः बिसाहे,
किंति एत्तिअ विलम्बिदासि ।
विशाखा (स्मित्वा) ः अज्जे,
णं दुल्ललिदं कुरङ्गं पेक्खन्ती विह्मिदह्मि । (इति सदृष्टिक्षेपम्)
अकरुण मुक्किअ चङ्गं कुरङ्ग पेम्मेण सङ्गदं हरिणिम् ।
विहलं कुद्दणचडुलो तुमं बणादो बणं भमसि ॥५४॥
जटिलाः अ{
इ}
अत्थाणदुरग्गहे,
मुञ्च कुरङ्गकोदुहलम् ।
मधुमङ्गलः ः पिअबास्स,
पेक्ख । एसो सतिण्णो बि कीरजुआणो णं महुरां दाडिमीं ण पडिपज्ज{
इ}
।
कृष्णः (स्मित्वा) ः
हृदि ताडितोऽपि दाडिमि सुमनोरागेण ते रुचिं वहता ।
पक्त्रिमरसासि किं वा नेति शुकः शङ्कयोदास्ते ॥५५॥
(
विशाखा सदृग्भङ्गं राधिकामवलोकते ।)
राधिका (स्वगतम्) ः हिआ,
समस्सस्स समस्सस्स । (इति सखेदमपवार्य,
संस्कृतेन)
पीतं नवागमृतमद्य हरेरशङ्कं
न्यस्तं मयाद्य वदने न दृगञ्चलं च ।
रम्ये चिरादवसरे सखि लब्धमात्रे
हा दुर्विधिर्विरुरुधे जरती च्छलेन ॥५६॥
जटिला (स्वगतम्) ः अह्महे कह्णदिट्ठिणो माहम्भम् । जं वहुए सो उवसग्गो तह णत्थि । (प्रकाशम्) बिसाहे,
पेक्ख—
अदिक्कमदि मज्झण्हो । ता तुरिदं सुरमण्डवं पविस्सह्म ।
कृष्णः ः सखे,
कौमुदीयं पौर्णमासीमनुवर्तते । तदेहि तामेव प्रतिपद्येवहि ।
(
इति निष्क्रान्तौ ।)
इति श्रीविदग्धमाधवे
मन्मथलेखा नाम
द्वितीयोऽङ्कः
॥२॥
**********************************************************************
.
(
३)
तृतीयोऽङ्कः
राधासङ्गः
(
ततः प्रविशति ललितयानुगम्यमाना पौर्णमासि ।)
पौर्णमासी ः वत्से,
नूनं मत्तस्त्रपमाणो नाभिनन्दति नन्दकुमारस्ते सखिसङ्गमम् ।
ललिता ः भावदि,
दुब्बोहं क्खु लूत्तराणां चित्तं ण झत्ति बिअसदि ।
पौर्णमासी (पुरोऽवलोक्य) ः वत्से,
पश्य कदम्बवाटिकायां मधुमङ्गलेन सार्धं समङ्गलं वर्धते मधुमर्दनः । (पुनर्निरूप्य)
परांऋष्टाङ्गुष्ठत्रयमसितरत्नैरुभयतो
वहन्ती सङ्कीर्णौ मणिभिररुनैस्तत्परिसरौ ।
तयोर्मध्ये हीरोज्ज्वलविमलजम्बूनदमयी
करे कल्याणीयं विहरति हरेः केलिमुरली ॥१॥
(
ततः प्रविशति यथानिर्दिष्टः कृष्णः) ः
कृष्णः (सानुतापम्) ः
त्रपया नितरां पराङ्मुखी
सहसा स्मेरमुखी धृताञ्चला ।
गमिताद्य हठेन राधिका
न कथं हन्त मया भुजान्तरम् ॥२॥
(
निःश्वस्य) सखे मधुमङ्गल,
खञ्जरीटदृशः सा विलासमञ्जरी चोरयति मे चित्तचञ्चरीकम् । (इत्यौत्सुक्यं नाटयन्)
छिन्नः प्रियो मणिसरः सखि मौक्तिकानि
वृत्तान्यहं विचिनुयामिति कैतवेन ।
मुग्धं विवृत्य मयि हन्त दृगन्तभङ्गीं
राधा गुरोरपि पुरः प्रणयाद्व्यतानीत॥३॥
पौर्णमासी (दूरत एव कृष्णं निर्वर्ण्य,
साशन्कम्) ः
अक्ष्णोर्द्वन्द्वं प्रसरति दरोद्घूर्णतारं मुरारेः
श्वासाः क्ÿ
प्तां किल विचकिलैर्मालिकां म्लापयन्ति ।
केयं धन्या वसति रमणी गोकुले क्षिप्रमेतां
नीतस्तिव्रामयमपि यया कामपि ध्याननिष्ठाम् ॥४॥
अथवा कृतां सन्देहेन । वत्सा राधिकैव खल्वत्र कारणम् ।
कृष्णः (पौर्णमासीं पश्यन्नुपसृत्य) ः भगवति,
प्रणमामि ।
पौर्णमासी ः नागर,
गोपिस्तनतटिष्वलम्पटीभव ।
कृष्णः (किञ्चिद्विहस्य) ः कृतं पिष्टपेषिणिभिराशिर्भिर्यदहमेव गोपिति प्रसिद्धां श्यामां वल्लीमपि न पाहिपल्लवेन स्पृशामि ।
मधुमङ्गलः (विहस्य) ः भोः,
किमह्माणं सामाए,
गुअरि ज्जेब्ब मग्गिज्ज{
इ}
।
पौर्णमासी (सनर्मस्मितम्) ः
गोपेश्वरस्य तनयोऽसि नयोपपन्नः
ख्यातस्तथा व्रजकुले भुजयोर्बलेन ।
लीलाशतैस्तदपि किं कुलयोषितस्त्वम्
उन्मादमुद्वहसि माधव राधिकायाः ॥५॥
मधुमङ्गलः ः अ{
इ}
बिबरीदवादिणि बुड्ढिए,
चिट्ठ चिट्ठ ।
तुज्झ राहीआए ज्जेब्ब एसो अह्म पिअबास्सो उम्मादिओ ।
जं सेहरसिङ्गवेत्ता{
इ}
दाणिं कहिं विभट्टाइं ति ण जाणादि ॥६॥
कृष्णः (सलज्जम्) ः आर्ये,
वाचाटोऽयं बटुर्मृषा जल्पति । किन्तु निश्चितं ते व्याहरामि । न तासु मच्चित्तरागस्त्वद्गोपीषु । तदत्र तत्त्वतः पृच्छ्यतामयम् ।
मधुमङ्गलः ः अज्जे ! सच्चं सच्चम् । अह्मपिअबास्सहिआस्स अज्जवि रॉ तुह्मगोइआणमङ्गेसु ण मए दिट्ठोत्थि । पत्थुद ताणमङ्गरॉ ज्जेब्ब इमस्स हिअये दिस{
इ}
।
कृष्णः (सप्रणयरोषम्) ः धिण् मूर्ख ! विश्रम्भादादृतोऽपि जिह्मतां न जहासि ।
पौर्णमासीः सत्यमाह बटुः । तथा हि—
कामं सद्गुणमण्डलाश्रयतया तन्वन्महिष्ठां रुचिं
वैचित्रीभरभाक्सदा शुभदशाश्रेणिश्रियामास्पदम् ।
वंशीहुङ्कृतिलीलया शिथिलतामेणिदृशां नीयते
वासः कंसनिसूदनाद्य भवता देहेषु गेहेष्वपि ॥७॥
मधुमङ्गलः ः अज्जे किं बि जाणासि जं वंशीहुंकिदिलीलाए त्ति भणासि । दिट्ठं तहिं दिअहे कण्णऽनं तीरट्टिदाइमम्बराइमप्पणो हत्थेण उक्खिविअ इमिणा क्खन्धे णिक्खित्ताइम् ।
कृष्णः (सभ्रूभङ्गं बटुमावार्य) ः आर्ये,
हुङ्कारादपि तथाभावाद्भवद्गोपिकानामभिव्यक्तः साध्वीभावप्रभावः ।
ललिता (संस्कृतेन) ः
केनापि धूर्तपतिना खलु शिक्षितोऽसि
मन्त्रं वशीकरणकारणमौषधं वा ।
पुण्योज्ज्वलान्यखिलगोपविलासिनीनां
येन त्वया गृहसुखानि विलुण्ठितानि ॥८॥
मधुमङ्गलः ः सच्चं कहेदि ललिदा । अण्णधा मन्तादिमन्तरेण पव्वदुत्तुङ्गा महादाणऽ णविन्दीवरादो बि सोम्मसीदलप{
इ}
दिण कधमिमिणा संहरिज्जन्ति ।
ललिता ः अज्ज,
जस्स सुमरनं बि तथा सन्तावनं तमेदमप्पणो बास्सं मा क्खु सीअलं भण ।
मधुमङ्गलः ः भो बास्स,
पैदिसीदलो बि तुमां गोइआहिमुण्णो त्ति भणिज्जसि । ता प्पंसिअ जानिस्सम् । (इति कृष्णवक्षसि हस्तं न्यस्य ससंभ्रमम् ।) अहो,
सच्चं ज्जेब्ब कहेदि ललिदा । (क्सणं विमृश्य) । ललिदे,
विण्णादं विण्णादम् । तुह राहिआ च्चेअ णुणमुण्णा जाए हिआवट्ठिणीए चन्दकोडिसीदलो बि एस उण्णीकिदो ।
ललिता ः अज्ज,
एत्थ राअपट्टपत्थरहिअए ताए दुरन्तपेम्मसौकुमज्जहूदाए मह सहिए कुदो पवेसो सम्भाविअदि ।
मधुमङ्गलः (सरोषम्) ः चबले,
अह्मबास्सो तदो बि तुह्मसहीदो बिर्ब्भरं सिणेहकोमलो जमेसो बञ्चिदणिन्दो जोइन्दो बिअ एक्कग्गचित्तो णं ज्जेब्ब सब्बदा चिन्तेइ ।
कृष्णः (सापत्रपम्) ः धिग्बालिश,
कृतमलीकेन नर्मपुञ्जेन ।
ललिता (स्वगतम्) ः दिट्ठिआ वड्ढदि पिअसही ।
पौर्णमासीः सुन्दर,
विश्राम्यतु नर्ममुद्रा । आकर्णय मद्विवक्षितम् ।
हित्वा दूरे पथि धवतरोरन्तिकं धर्मसेतोर्
भङ्गोदग्रा गुरुशिखरिणं रंहसा लङ्घयन्ती ।
लेभे कृष्णार्णव नवरसा राधिकावाहिनि त्वां
वाग्वीचिभिः किमिव विमुखीभावमस्यास्तनोषि ॥९॥
मधुमङ्गलः ः अ{
इ}
शुद्धबुद्धिए अज्जबि एदं च्चेअ पुच्छसि । पेक्ख कुअन्ताणं हदकोकिलाणं वित्तसणत्थं मए एदं पुप्फकोअण्डं णिम्मिदम् ।
पौर्णमासीः चन्द्रानन,
सापि वत्सा ।
आलीनां प्रतिहाररोधनविधौ वीक्ष्य प्रयत्नावलिं
बाला तर्कितमाधवीपरिमलस्फूर्तिर्भयाद्वेपते ।
किं चालोक्य सुधांशुकान्तसलिलस्यन्दानलिन्दे क्षणाद्
एणाङ्कोदयशङ्किनी विकलतामातन्वती मुर्च्छति ॥१०॥
कृष्णः (स्वगतम्) ः हन्त,
कठोरोऽयं दशाविवर्तः ।
पौर्णमासीः सुन्दर !
प्रणयिषु मिलितेषु प्रेमभाजामुपेक्षा
घटयति कटुपाकान्युच्चकैर्दूषणानि ।
दिनमणिरनुरागी प्रोज्झ्य सन्ध्यां रक्तां
तमसि निखिलमुग्रे मज्जयत्येष लोकम् ॥११॥
(
कृष्णः सलज्जं नम्रीभवति ।)
पौर्णमासी (पुनर्निभाल्य,
सानन्दं स्वगतम्) ः दिष्ट्यायं स्मितालिङ्गितमङ्गीकुर्वन्दक्षिणं न्यमिलयदीक्षणम् । (प्रकाशम्) गोकुलानन्द ! पुरस्तादियं माकन्दवेदी स्वयमलङ्कर्तव्या निमीलति हेलिबिम्बे सख्योरेकतरा त्वामभीष्टदेशं प्रापयति ।
कृष्णः (सापत्रपम्) ः यथाह भगवती । (इति सवयस्यो निष्क्रान्तः ।)
पौर्णमासी ः पुत्रि ललिते,
कामं निर्वृतास्मि । तदेहि । राधामनुसरावः । (इत्युभे परिक्रामतः ।)
(
ततः प्रविशति विशाखया सह सङ्कथयन्ति राधा ।)
राधिका (संस्कृतेन) ः
सखि जल्पितनारिकेलनीरं
स्मितकर्पूरवृतं हरेर्निपीय ।
तनुसङ्गसुधां विना न तस्य
ग्लपिताहं गरलेन जीवितास्मि ॥१२॥
विशाखा ः अ{
इ}
अविण्णादणिअमाहाद्म्ये,
तादिसो तुह राअस्स गरिमा जेन सो क्खु सामसुन्दरो बि वाधं रत्तिकिदो तधा बि अप्पणो मालिण्णं सङ्कसि ।
राधिका (पुनः संस्कृतेन)
नालिकिनीं निशि घनोत्कलिकामशङ्कं
क्षिप्त्वावृतीरतनुवन्यगजः क्षुणत्ति ।
अत्रानुरागिणी चिरादुदितेऽपि भानौ
हा हन्त किं सखि सुखं भविता वराक्याः ॥१३॥
पौर्णमासी (पुरो राधां द्र्ष्ट्वा) ः पुत्रि ललिते,
सख्यास्तव प्रेमोक्तिमुद्रामुद्घाटयितुमुत्कण्ठितास्मि । तद्भवत्या तुष्निमेव भवितव्यम् ।
ललिता ः जमानावेदि तत्थ होदु ।
पौर्णमासी (राधामुपेत्य सकैतवविषादम्) ः
भवदङ्गसान्गविषये प्रियोक्तिभिर्
मुहुरर्थितोऽपि मदिराक्षि माधवः ।
मनुते मनागपि न हीति हृद्व्यथा
प्रतिकारयुक्तिरपरा विधीयताम् ॥१४॥
राधिका(सव्यामोहम्) ः अलमेत्थ लज्जिदेण । (इत्यञ्जलिं बद्ध्वा)
अब्भंलिहह्मि डहने लडहं रङ्गणलदं लिहन्तह्मि ।
का पडिआरे जुत्ती मुक्किअ सामलघणुल्लासम् ॥१५॥
पौर्णमासीः
जरत्यास्त्वं नप्त्री स तु कमलया लालितपदः
कथङ्कारं तस्मै मुहुरसुलभाय स्प्रःअयसि ।
प्रसीद व्याहारे मम रचय चेतो दिविचरं
गृहीतुं पाणिभ्यां विधुमहह मा भूत्कुतुकिनी ॥१६॥
राधिका (सगद्गदं संस्कृतेन) ः
मया ते निर्बन्धान्मुरजयिनि रागः परिहृतो
मयि स्निग्धे किन्तु प्रथय परमाशिस्ततिमिमाम् ।
मुखामोदोद्गारग्रहिलमतिरद्यैव हि यतः
प्रदोषारम्भे स्यां विमलवनमालामधुकरी ॥१७॥
विशाखा ः भावदि,
परित्ताहि परित्ताहि । इअमुत्तानिदणेत्ता किंपि दारुणं दसाविसेसं लहेदि राही ।
पौर्णमासी (सवेगम्) ः हा धिक्! केयं बलादाकृष्टा महाविपत्कालसर्पी ? (
इति सदयं राधामालिङ्ग्य) । वत्से ! समाश्वसिहि समाश्वसिहि । भावाव्यक्तये प्रोत्थापितासि । तदिदं यथार्थमाकर्ण्यताम् ।
अमितविभवा यस्य प्रेक्षालवाय भवादयो
भुवनगुरवोऽप्युत्कण्ठाभिस्तपांसि वितन्वते ।
अहह गहनादिष्टानां ते फलं किमभीष्टुवे
सुतनु स तनुर्जज्ञे कृष्णस्तवेक्षणतृष्णया ॥१८॥
ललिता (संस्कृतेन) ः
त्वद्वार्तोत्तरगीतगुम्फितमुखो वेणुः समन्तादभूत्
त्वद्वेषोचितशिल्पकल्पनमयी सर्वा बभूव क्रिया ।
त्वन्नामानि बभूवुरस्य सुरभीवृन्दानि वृन्दाटवी
राधे त्वन्मयवल्लिमण्डलघना जाताद्य कंसद्विषः ॥१९॥
राधिका (समाश्वस्य स्वगतम्) ः चञ्चल हे चित्त,
अज्जबि ण पत्तिआएसि ।
पौर्णमासीः पुत्रि ललिते,
बाढं प्रगल्भासि । तद्विशाखा यावन्माकन्दमूलान्मुकुन्देन सह प्रत्यावर्तते तावदत्र मया तु स्वकृत्याय गन्तव्यम् ।
(
इति तिस्रो निष्क्रान्ताः)
विशाखा (दूरं परिक्रम्य) ः सो माकन्दो एसो पुरो दिस{
इ}
जत्थ कह्णो ।
(
ततः प्रविशति कृष्णः) ।
कृष्णः (सोत्कण्ठं प्रतीचीमवलोक्य) ः
सद्यस्तप्तहिरण्यपिण्डमधुरं चण्डत्विषो मण्डलं
सङ्गं हन्त तरङ्गिणीरतिगुरोरङ्गीचकाराम्भसि ।
द्रागेतान्यपि घूकनेत्रपटली सिद्धाञ्जनक्षोदतां
बिभ्रन्ति द्विपविभ्रमाणि रुरुधुर्ध्वान्तानि वृन्दावनम् ॥२०॥
(
सौत्सुक्यं पन्थानमुद्वीक्ष्य) । कथमद्यापि सखि काचिन्नेत्राध्वनि मे नावततार ? (
इति परावृत्य प्राचीं पश्यन्)
सान्द्राः सुप्तकुमुद्वतीकुलवधूनिद्राभिदाकोविदाः
कुर्वाणाः कलुषश्रियं परिभवातङ्केन पङ्केजिनीम् ।
संरम्भादभिसारिकाभिरसकृद्व्याक्रुष्यमाणोद्गमा
भासः शीतकरस्य हन्त हरितं पूर्वां परिष्कुर्वते ॥२१॥
(
इति वैयग्र्यं नाटयति)
ध्यात्वा धर्मं धृतिमुदयिनीं किं बबन्धाद्य राधा
तीव्राक्षेपैः किमुत गुरुभिर्लम्भिता वा निवृत्तिम् ।
किं वा कष्टामभजत दशां तामविस्पन्दमन्दाम्
इन्दौ विन्दत्युदयमपि यन्नाजगामाद्य दूती ॥२२॥
विशाखा (लतान्तरे सोद्ग्राविकम्) ः एसो णुणमुक्कण्ठाए मह ज्जेब्ब पावीं विलोएदि कंहो । ता क्खणं परिहसिस्सम् ।
कृष्णः (सानन्दम्) इयं विशाखापि चञ्चलपञ्चसाखा सखि मिलिता । (इत्युपसृत्य) सखि तवोपलम्भात्तामेव रम्भोरुं लब्धामवैमि यद्विशाखाराधयोरद्वैतम् ।
(
विशाखा मुखमानमय्य मौनमालम्बते ।)
कृष्णः ः सखि,
किमत्र तूष्णीमसि ?
विशाखा ः चन्दमुह,
मन्दभाइणी ह्मि । ता किं विण्णविस्सं ?
कृष्णः (सशङ्कम्) ः किमर्थमिदं ?
विशाखा ः सुन्दर,
ण मे सरस्स{
इ}
निस्सरदि । होदु । तधा बि संवरिदुं ण जुत्तमिदम् । (इति मुखवैकृत्यमभिनीय) । भो भट्टिदारा,
सा पिअसहि अहिमण्णुणा हदासेण महुरापत्तणम्मि । (इत्यर्धोक्ते शुष्कं रोदिति) ।
कृष्णः (सव्यथम्) ः कदा नाम नीता ?
विशाखा ः जदा भावदि तुह्म सऽसं लद्धा ।
कृष्णः (सखेदम्) ः विशाखे,
कथङ्कारं निता ?
विशाखा ः तुहम्मि भाअं तक्किअ ।
कृष्णः ः कथं स तर्कितः ?
विशाखा ः लूत्तरीहोन्तो अत्थो ण कस्स तक्कणिजो होइ ।
कृष्णः ः
ग्लपयति वपुर्दुःशीलो मे बलान्मलयानिलो
विकिरति करैरिन्दुः क्षोदं तुषाग्निभवं रुषा ।
मदनहतकस्तर्जत्येष स्फुटैरलिहुङ्कृतैस्
त्रुटिरपि विना राधां नेतुं मया न हि शक्यते ॥२३॥
(
इति व्यामोहं नाटयति) ।
विशाखा (सखेदं ससंभ्रमम्) ः गोउलानन्द,
समास्सस समास्सस,
मए क्खु परिहसिदम् । स तबस्सिणि ताए रङ्गणमालिआए रक्खिदपराणत्थि ।
कृष्णः (समाश्वस्य) ः धूर्ते,
भद्रेण कदर्थितोऽस्मि ।
विशाखा ः अप्पणो गुणं ण सुमरसि ।
कृष्णः ः सखि वर्ण्यतां प्रेम्णामङ्कः प्रियायाः ।
विशाखा (संस्कृतेन) ः
दूरादप्यनुशङ्गतः श्रुतिमिते त्वन्नामधेयाक्षरे
सोन्मादं मदिरेक्षणा विरुवती धत्ते मुहुर्वेपथुम् ।
आः किं वा कथनीयमन्यदपि ते दैवाद्वराम्भोधरे
दृष्टे तं परिरब्धुमुत्सुकमतिः पक्षद्वयीमिच्छति ॥२४॥
कृष्णः ः तदेहि । सत्वरमेव प्रेयसीं प्रेक्षावहि ।
(
इति परिक्रामतः) ।
(
ततः प्रविशति ललितयाराध्यमाना राधा) ।
राधा (सखेदम्,
संस्कृतेन) ः
प्रत्यूहेन पराहता नु किमभूद्गन्तुं सखि क्षमा
तस्याः किन्तु निवेदितेन हि हरिर्विश्रम्भमाभ्याययौ ।
हा हन्त प्रतिकुलतां मयि गतः किं वा विधिर्दारुणो
यद्दूराद्वनमालिकापरिमलो प्यद्यापि नासाद्यते ॥२४॥
विशाखा (पुरोऽनुसृत्य,
संस्कृतेन) ः
नम्रीकृत्य शिरो मुहुस्तरुवृतामालोकते वर्तनीम्
उत्थाय क्षणमासनात्पुनरहो निषीदत्यसौ ।
द्वित्राण्येत्य पदानि वीक्ष्य ललितां भूयः परावर्तते
पश्याग्रे तव सङ्गमोत्सुकतया राधा परिक्लाम्यति ॥२५॥
कृष्णः ः
वदनदीप्तिविधूतविधुदया
कुमुदधामधुरामधुरस्मिता ।
नखजितोद्दुरियं हरिणेक्षणा
तृणयति क्षणदामुखमाधुरिम् ॥२६॥
राधिका (सकातर्यं संस्कृतेन) ः
दृग्भङ्गीनां किमु परिमलैः प्रेयसीभिर्निरुद्धः
किं वा स्वैरी मयि विहितवानुद्धतायामुपेक्षाम् ।
हा चान्द्रीभिर्द्युतिभिरभितो ग्रस्यमानेऽपि लोके
प्राप्तो नायं यदिह लतिकामन्दिरे नन्दसूनुः ॥२७॥
कृष्णः (पुरोऽनुसृत्य) ः अहो,
साधीयान्प्रसादः पौर्णमास्याः,
यदियमामोदयति कौमुदी ।
राधिका (चमत्कृतिमभिनीय स्वगतम्) ः हुं,
एत्तिअ भाअधेआणं भाअणं संवुत्तो एस जणो । (इति वैवश्यमालम्बते) ।
विशाखा (संस्कृतेन) ः
अहो धन्या गोप्यः कलितनवनर्मोक्तिभिरलं
विलासैरानन्दं दधति मधुरैर्या मधुभिदः ।
धिगस्तु स्वं भाग्यं मम यदिह राधा प्रियसखी
पुरस्तस्मिन्प्राप्ते निविडजडिमाङ्गी विलुठति ॥२८॥
ललिता ः अ{
इ}
लज्जालुए राहिए,
अग्गदो एसो दे माणसहंसहरो णाअरो । ता मा क्खु सज्झसेण बिह्मला होहि । जं पगब्भदा जेब्ब अज्ज कज्जसाहिणी ।
(
इति राधिकां बलादिवाकृष्य कृष्णान्तिकमासाद्य च संस्कृतेन) ।
विदूरादालोक्य प्रबलतरतृष्णातरलितः
सखीचेतोहंसस्तव वदनपद्मे निपतितः ।
भ्रमद्भ्रूपाशाभ्यां कितव तमबध्नादिह भवान्
किमस्मासु न्याय्या व्यवसितिरियं ते विसदृशी ॥२९॥
कृष्णः (स्मित्वा) ः ललिते,
मद्विधाः खल्वबलार्थहारिणो न भवन्ति ।
विशाखा ः धम्मिअ,
सच्चं सच्चम् । भद्दकालितीत्थकलम्बो ज्जेब्ब एत्थ पमाणम् ।
कृष्णः ः सखि ललिते,
मद्विशुद्धौ कथं वः प्रतीतिः ?
ललिता ः छुइल्ल ! परिक्खाविहाणेण ।
कृष्णः ः वामे,
कामं कथ्यतां परीक्षा । मम भ्राजिष्णुरयं कीर्तिशुभ्रांशुर्न मृषा कलङ्कीकर्तुं शक्यते ।
ललिता (संस्कृतेन) ः
त्वमुन्नद्धे राधास्तनकनककुम्भान्तरमिलत्
तनूजालीकालोरगयुवतिमूर्धप्रणयिणि ।
यदि क्षोभोन्मुक्तः कलयसि करं नायकमणौ
ततस्ते ध्वस्ताङ्कः प्रचरति यशोमण्डलशशि ॥३०॥
कृष्णः (कृत्रिमं त्रासमभिनीय) ः हन्त निष्ठुरे,
नाम्नैव ललितासि । यदल्पीयसी तावदर्थे गरीयसीं सर्पघटाख्यं परीक्षामुपक्षिपसि ।
राधिका (सप्रणयेर्ष्यम्) ः ललिदे,
चिट्ठ चिट्ठ । (इति सभ्रूभङ्गमवलोक्यते) ।
ललिता ः बिसाहे,
णट्ठघणुद्देसकारिणिं मं कीस तज्जति राहिआ ।
विशाखा ः ललिदे,
इमाए हिआट्ठिदमाउदं मए जाणीअदि ।
ललिता ः तं कधेइ । सुणिस्सम् ।
विशाखा (संस्कृतेन आश्रित्य) ः
स्पृशन्तं यो मेघानघमनघकर्मा तमवधीद्
विषज्वालाजालोन्मदमदमयत्कालीयमहिम् ।
अकार्षीद्गोपेन्द्रद्रुहमजगरं दिव्यपुरुषं
भुजङ्गाचार्येऽस्मिन्किमिव घटते पन्नगघटः ॥३१॥
ललिता (विहस्य) ः हला राहि,
अप्पणो परिअररूबाए ण जाणासि माहाप्पमिमाए,
पेक्ख । तथा हि—
अबि गरुडस्स सिहामणिमुरगवहुगव्वहारिविरुदस्स ।
पहब{
इ}
सहि मोहेदुं तुह णारोमाअलिभुअगि ॥३२॥
राधिका (सप्रणयरोषम्) ः अ{
इ}
धिट्ठे ललिदे,
एत्थ आणबिअ मं विडम्बेसि । ता गदुअ बुड्ढिआणं गोईणं विण्णविस्सम् । (इति गन्तुमिच्छति)
ललिता ः अ{
इ}
मुद्धे । णं साहुं चोरं वा जाणिअ जाहि । (इति पटाञ्चलमाददाति ।)
कृष्णः ः चण्डि ललिते ! यद्यतो दुराग्रहान्न विश्रान्तासि,
ततः करवाणि परीक्षाम् । (इति राधामनुसर्पति ।)
ललिता (विलोक्य) ः छ{
इ}
ल्ल,
चिट्ठ चिट्ठ । विण्णदं विण्णदम् । (इति संस्कृतेन)
प्रारब्धे पुरतः परीक्षणविधौ त्रासानुविद्धस्य ते
खिन्नोऽयं करपल्लवस्तरलतां कम्पोद्गमैः पुष्पयति ।
रोमाञ्चं शिखिपिच्छचुडनिबिडं मूर्तिश्च धत्ते ततो
ज्ञातस्त्वं ननु पश्यतो हरपुरिसाम्राज्यधौरेयकः ॥३३॥
कृष्णः (सङ्कुचन्नम्रिभुय) ः हन्त,
धिगौरवं गौरिणं यदहमेव चौरिकृतोऽस्मि ।
ललिता ः छ{
इ}
ल्ल,
दिट्ठिआ अप्पणो मुहेण अङ्गीकिदम् ।
कृष्णः ः सखि,
सौहृदेनोपदिश्यतां मे श्रेयसः पन्थाः ।
ललिता (संस्कृतमाश्रित्य) ः
गतानां राधायाः स्तनगिरितटे योगमभितो
विविक्ते मुक्तानां त्वमिह तरलिभुय तरसा ।
विशुद्धानां मध्ये प्रविश सरणार्थि सहृदया
भजन्ते साद्गुण्यादपि पृथुलदोषं हि पुरुषम् ॥३४॥
कृष्णः ः सखि साधूपदिष्टं त्वया । (इति सानन्दमुपसृत्य पानौ राधां दधाति ।)
राधिका (सगद्गदम्) ः सुन्दर,
अजुत्तं तुज्झ एदम् । (इति पाणिमाच्छिद्य शाखिनां तिरोदधाति ।)
कृष्णः (राधामप्रेक्ष्य सशङ्कम्) ः हन्त सख्यौ,
क्व वां प्रियसखी ?
उभेः मोहण,
णिरुविअ भणिस्सह्म । (इति शाखिप्र्ष्ठमासाद्य) हला राही । णम्मसिलं कनःअं परिहसिदुं लद्धो ओसरो । ता क्खणं सावहित्था होइ ।
राधिका (सव्याजं भ्रुवौ विभुज्य) ः ललिदे,
परिहसिदुं ति किं भणासि । जमीरिसं साहसं ण क्खु मारिसीए जुत्तम् । ता पत्थिदह्मि ।
ललिता (कृष्णमभ्युपेत्य) ः चन्दाणण ! अह्मपिअसही किम्पि विण्णविदुकामा बिभाएदि ।
कृष्णः ः सखि,
वशवर्तिनि जने न खलु भीतिरवकाशं लभते । तन्निकाममाज्ञापयतु ।
ललिता (संस्कृतमाश्रित्य) ः
चेतस्ताम्यति मे भयोर्मिभिरलं पाणिद्वयं कम्पते
कण्ठः सज्जति हन्त घूर्णति शिरः स्विद्यन्ति गात्राण्यपि ।
गोष्ठाखण्डल चण्डसाहसविधौ तेनास्मि नाहं क्षमा
यद्दूरादभिसारितो निशि भवानेतन्मम क्षाम्यतु ॥३५॥
कृष्णः (स्वगतम्) ः न जाने नर्मतो धर्मतो वायं गिरां गरिमा ।
राधिका (किञ्चिदाविर्भुय) ः सहि ! तुण्णं पत्थाबेहि णम् । जाव कोबि ण पेक्खदि ।
कृष्णः (सखेदमात्मगतम्) ः चपलप्रेमाणो हि बालारमण्यः । तत्किमिवासम्भाव्यं नाम ? (
प्रकाशम्) ः
त्वयाहुतः पार्श्वे प्रणयनिकुरम्बेण रभसाद्
असिद्धार्थो राधे भवितुमिह युक्तः कथमहम् ।
श्रियाकृष्टः कृष्णायसमणिरयस्कान्तशिलया
स्फुटं तामस्पृष्ट्वा भजति किमदूरे स्थगितताम् ॥३६॥
ललिता ः गोउलाणंद,
राहिअं कीस उबालहेसि । णं धम्महदां च्चेअ उबालह,
जो क्खु हदासो दोणं णिब्भराणुरत्ताणमन्तरे पडिबन्धीहोदि ।
कृष्णः ः पश्य पश्य ।
सखि निर्भरमनुरक्ताः
प्रणयिनमनुयान्ति धर्ममपि हित्वा ।
इयमतिरागिणी प्राची
चुम्बति विधुमिन्द्रनाथापि ॥३७॥
ललिता ः तुह्माणं प{
उ}
त्तरे का णाम पहबदि ?
ता इदो विजान्तु सामिपादाए ।
राधिका (साकुतमनुसृत्य) ः ललिदे,
अप्पणो मुहेण किंवि विण्णविअ णं निवट्ठाव{
इ}
स्सम् । (इति ललितामवेक्ष्य संस्कृतेन) ः
समन्तान्मे कीर्तिर्मुखरितसतीमण्डलमुखा
कलङ्केनोन्मुक्तं कुलमविकलश्रीरपि पतिः ।
चलच्चिल्लीलीलाजितमदनधन्वोद्धतिरयं
तदस्मिन्नारम्भे हृदयमफलं विक्लवयति ॥३८॥
कृष्णः (राधां निरूप्य सोच्छ्वासमात्मगतम्) ः
धावन्त्याः श्रुतिशष्कुलीपरिसरं सङ्गादपाङ्गादपाङ्गश्रियो
धत्ते हीरककुण्डलं मरकतोत्तंसद्युतिं सुभ्रुवः ।
वागन्तः स्मितभाग्विभाति तदिदं साङ्के सखीशिक्षया
वैमुख्यं किल कृत्रिमं विलसति क्लान्तिं मनो मा स्म गाः ॥३९॥
ललिता (कृष्णमुखमालोक्य जनान्तिकम्) ः बिसाहे,
इङ्गिदेण लक्खेमि । उण्णिदमिमिणा अह्माणं रहस्सम् ।
विशाखा ः अध इम् ।
कृष्णः (सस्मितम्) ः ललिते,
कृतमत्र वञ्चनचातुरीप्रपञ्चेन । न हि लतया प्रसारितास्तन्तवो गन्धसिन्धुरस्य बन्धनाय प्रभवन्ति ।
विशाखा ः सहि राहि,
णिप्फलं बिलम्बेसि । झत्ति किदत्थीकुण अप्पणो पिअजणम् ।
कृष्णः (सानुरागम्)
कर्णद्वन्द्वमिदं रुतैरिह कुहूकण्ठस्य कुण्ठीकृतं
सद्यः कोमलभारतीपरिमलेनोल्लाघय श्लाघया ।
निःशङ्कं किल शीतलीकुरु परिरम्भेण रम्भोरु मे
गम्भीरस्मरवह्नितापलहरीपात्राणि गात्राण्यपि ॥४०॥
विशाखा ः सुन्दर,
एसा भावदी लज्जा राहिआरूबेण उत्तिण्ण । ता जाव णं चाडुबंधेण संमुहीकदुअ समप्पेह्म ताव भवन्तेण सोम्मसीअलबुत्तिणा होदब्बम् ।
कृष्णः (सादरम्) ः
अयमत्र निसर्गशीतलः
सखि राधाकुचयोरवस्थितिम् ।
नवकाञ्चनकुम्भयोरहं
स्फुरदिन्दीवरदामवद्भजे ॥४१॥
(
इति मन्दं मन्दं राधामुपसर्पति ।)
राधिका (किञ्चिदुपसृत्य) ः सहि बिसाहे,
सुट्ठु भीदह्मि । ता किंत्ति ममुबेक्खसि ?
ललिता ः राहे,
एसा बिसाहेति विक्खादा कधं तुमं पच्छादिअ रक्खिदुं पहवदु,
ता रक्खणक्खमं णं बणमालिअं ज्जेब्ब भजेहि । जमेसा आअट्टिदशिलीमुहा दीस{
इ}
।
राधिक (सप्रणयरोषम्) ः अ{
इ}
दुम्मुहि ललिदे,
सिद्धा च्चेअ तुज्झ मणोरधा,
तहबि ण निवुत्तासि ।
विशाखा ः हला राही,
सब्बाणं गोउलजणाणमभादाणसत्त्रे दीक्खिदो कह्णो । ता इदो किंत्ति भाएसि ।
कृष्णः ः सुन्दरि राधे,
त्वमेव सुष्ठु बलिष्ठासि । ततः कथं मत्तस्तव भीतिः ?
तथा हि—
अहीनो भ्रूगुच्छः कुटिलवलनैर्वेष्टयति मां
खरस्ते नेत्रान्तो मयि वितनुते ताडनविधिम् ।
प्रलम्बः केशान्तो हरति हठवृत्त्या मम बलं
भजद्भिस्त्वामेतैरहमिह जितैरस्मि विजितः ॥४२॥
ललिता ः कह्ण,
कुदो इमाए बलिट्ठत्तणं जमप्पणो धणं तुअत्तो मोआबिदुं ण समत्था ?
विशाखा (संस्कृतेन) ः
विधत्ते कंसारिः सखि परमहंसालिषु रतिं
मनोहंसेन्द्रं ते कथमपि न निर्मोक्ष्यति ततः ।
बधानामुं सद्यस्तमपि भुजवल्लीविलसितैः
शठे कः क्षेमार्थि सुमुखि नहि शाठ्यं घटयति ॥४३॥
राधिका (साभिसूयम्) ः पाबे विसाहिए ! तुमं बि ललिदाए बिसलदाए मारुदेण दूसिदासि ।
कृष्णः ः सखि ललिते,
स्वप्रसादामृते काममदत्तावगाहनया कथमद्यापि तटस्थीकृतोऽस्मि राधया ?
ललिता ः कह्ण,
मुञ्च चादूरीबित्थारम् । ण क्खु चन्दाअली बिअ झत्ति वाअमेत्तएण सुलहप्पसादा अह्मपिअसही ।
कृष्णः ः कथं सुलभस्ते सखीप्रसादः ?
ललिता ः सेआसण्ताणेन ।
कृष्णः (सानन्दम्,
राधां पश्यन्) ः
किं चन्दनेन कुचयो रचयामि चित्रम्
उत्तंसयामि कवरीं तव किं प्रसूनैः ।
अङ्गानि लङ्गिमतरङ्गि करेण किं वा
संवाहयाम्यतनुखेदकरम्बितानि ॥४४॥
(
इत्यग्रे परिक्रामति ।)
राधिका (सलीलमपक्रम्य साङ्गुलितर्जनम्) ः पामरि,
सुमरिस्ससि ओसरे । ता एसा घरं गच्छन्ति जिह्माणं तुह्माणं हत्थादो अप्पाणं मोआव{
इ}
स्सम् ।
ललिता (पटाञ्चलमाकृष्य) ः
सहि राहि जाहि न घरं परहत्थे पत्थिदह्मि णिअहंसे ।
अ{
इ}
बहिरे हिरण्णं देसि कुदो अञ्चले गंठिम् ॥४५॥
राधिका ः मुञ्चेहि मुञ्चेहि अञ्चलम् । इदो गदुअ अज्जिअं विण्णविस्सम् ।
(
नेपथ्ये) ः हन्त णत्तिणि ललिदे,
कहिं दे पिअसहि राहिआ ?
ललिता ः हन्त,
एसा अज्जिआ मुहरा इध ज्जेब्ब आअच्छदि ।
कृष्णः (सशङ्कम्) ः ततो दवीयान्भवितास्मि । (इति तथा स्थितः ।)
मुखरा (प्रविश्य पुरो दृष्टिं निक्षिप्य साशङ्कमात्मगतम्) ः जो क्खु दूरदो कोबि णीलिमपुञ्जो मरादत्थह्मं बिडम्बंतो दिट्ठिं मे आअ[उ]दि । णूणं सो एसो कह्नो भवे जमऊब्बं किम्पि सोरभं पसप्प[इ] । (इति कृष्णान्तिकमनुसर्पति ।)
कृष्णः ः आर्ये ! (इत्यर्धोक्ते)—
मुखरा (सकपटाक्रोषम्) ः को क्खु अज्जे अज्जे त्ति खुलखुलाएदि ?
कृष्णः ः आर्ये मुखरे ! सुखं वर्धसे ।
मुखरा ः मोहण ! जाव तुह वंशिआए मुअत्तणं ण संवुत्तं ताव कुदो अह्माणं सुहं ?
कृष्णः ः आर्ये,
किं तेऽपराध्यति वंशी ?
मुखराः पुच्छ इमॉ सव्वगोउल बालिऑ जॉ कण्णसीहं पविसंतम्मि बंशिआफुक्कारारम्भे बारं बारं णिवारिज्जन्तीओ बि बणे धाअन्ति ।
कृष्णः (विहस्य) ः मुखरे,
सत्यं यथार्थनामासि ।
मुखराः मोहण,
पदोसे तुज्झ एत्थ पवेसो मं सङ्काउलं करेदि ।
कृष्णःः मुखरे,
कृतमत्र शङ्कया । यदद्य पौर्णमास्या मे वर्णितं तवात्र चत्वराङ्के चङ्क्रमीति काप्यद्भूता हरिणीति ।
मुखराः णाअर,
पहादे पेच्छिसस्सि । णं दाणिं साहेहि ।
कृष्णःः हन्त वृद्धे ! गड्डविषाणकठोरे ! विश्रब्धमास्यताम् । एषोऽहं व्रजामि । (इति शाखिनामन्तर्दधाति ।)
मुखराः ललिदे,
सच्चं गदो कह्णो ।
ललिताः अध इम् ।
कृष्णः (स्वगतम्) ः घूर्णाकुलेयं जरती । तदत्र तुष्णीमेत्य राधापटाञ्चलमकर्षयामि । (इति तथा करोति ।)
मुखरा (चक्षुषी विकाश्य साक्रोषम्) ः धिट्टि ललिदे,
अग्गदो एसो पीदम्बरो कह्णो राहीसाडिअञ्चलमाअड्ढंतो बिअ दीस{
इ}
। ता कीस तुमं मं पदारेसि मं ?
(
कृष्णः सशङ्कं किञ्चिदपसर्पति ।)
ललिता (स्वगतम्) ः रत्तिअन्धिअं बुड्ढिअं बञ्चेमि । (प्रकाशं संरम्भमभिनीय संस्कृतेन ।)
मुधा शङ्कामन्धे जरति कुरुषे यामुनतटे
तमालोऽयं चामीकरकलितमूले निवसति ।
समीरप्रेङ्खोलादतिचटुलशाखाभुजतया
वयस्याया येन स्तनवसनमास्फालितमभूत॥४५॥
मुखरा (स्वगतम्) ः असच्चं ण कहेइ । (प्रकाशम्) वत्से,
घुम्माउलह्मि । ता घरं गदुअ सुविस्सम् । (इति निष्क्रान्ता ।)
विशाखाः हला राहि ! कह्णस्स मुहमण्डलुमीलिदं घम्मजलबिंदुजालं णिआञ्चलेण अबणेहि ।
राधिका (सभ्रूभङ्गम्) ः बिसाहे,
तुमं जेब्ब अबणेहि । जा क्खु आकोमारमिमस्सिं ब्बदे ग्गहिददिक्खासि ।
विशाखाः राधे,
कण्ठट्ठिदा दे रङ्गणमालिआ भणादि । मा कुप्प । तुमं बि तह दिक्खाविहाणेण कारिज्जन्तसङ्कल्पासि ।
कृष्णः (रङ्गणमालां दृष्ट्वा सश्लाघम्) ः
शङ्के चिरात्किमपि रङ्गणपुष्पसङ्घः
पुण्यं पुरा परमतीर्थवरे व्यधत्त ।
यस्मान्ममाप्यसुलभे मदिराक्षि साक्षाद्
अङ्गीचकार तव वक्षसि सङ्गसौख्यम् ॥४८॥
राधिका ः हला बिसाहे,
जा क्खु मह कण्ठादो बलेण आअड्ढिअ नीदा तुए अणग्घा गुञ्जाअली सा दाणिं समप्पीअदु । एसा सुक्खा अप्पणो रङ्गणमालिआ गेण्हिअदु ।
विशाखाः गोउलाणंद ! गुञ्जाहारकिदे मह कुप्प{
इ}
पिअसही ।
कृष्णःः राधे,
सन्निधेहि । तव कण्ठे गुञ्जावलिमादधामि । (इत्युपसर्पति ।)
ललिता (सस्मितमात्मगतम्) ः गुञ्जाहारसमप्पणमिसेण राहीकञ्चुअञ्चलं प्फंसदि कह्णो ।
(
राधिका सभ्रूविक्षेपं परावर्तते ।)
विशाखाः हला राहे,
जं लद्धुमुक्कण्ठासि तं किं क्खु लद्धासि ।
राधिका (बिम्बाधरं सण्दश्य) ः धिट्ठे,
चिट्ठ चिट्ठ । (इति लीलारविन्देन ताडयति) ।
विशाखा (विहस्य) ः सामासङ्किणि,
मा कुप्प । गुञ्जाहारं पुच्छेमि ।
कृष्णःः
क्व तपस्तथा ममास्ते
लीलाम्बुजहतिमवाप्नुयाम् ।
येन मां चञ्चलेन ताडय
लोचनकमलाञ्चलेनापि ॥४७॥
ललिताः
हरिणो समप्पिअ तणुं किबिणासि कधं दरावलोअम्मि ।
दिण्णे चिन्ताराणे ण संपुडम्मि ग्गहो जुत्ती ॥४८॥
राधिका ः ललिदे,
एब्बं जप्पंति गुरुलोएसु मा क्खु इमं जणमबरद्धं करेहि ।
विशाखाः सहि,
कीस सङ्केसि । णं भावदी जेब्ब एत्थ समाहाणे दक्खा ।
ललिता (सहर्षमात्मगतम्) दिट्टिआ पिअसही हसिदाअबाङ्गतरङ्गेण कह्णमालिङ्गदि ।
विशाखा (संस्कृतेन) ः ललिते,
पश्य पश्य ।
शशी व्योमोत्सङ्गं शशिनमभितः कान्तिलहरी
पुरो वृण्दारण्यं सुमुखि सहसा कान्तिलहरीम् ।
हरिर्वृण्दारण्यं हरिमपि किलेयं तव सखी
सखीं प्रेम्णः पूरो निजसुषमयामण्डयदयम् ॥४९॥
ललिताः हद्धी हद्धी । बिसाहे पेक्ख ससिकांतमणिपसुदेहिं जलपुरेहिं सुरपुअणवेइपुरदो किदाइं विलुप्पिअन्ति अलेवणमण्डलाइं ता एहि । णं पुप्फकेआरिअं णेह्म ।
कृष्णःः प्रिये,
नेदानिमपि वाम्याद्विरामस्ते । (इत्यञ्चलं गृह्णाति ।)
राधिका ः मुञ्चेहि मुञ्चेहि । सहीओ ममाआबेंति ।
कृष्णःः कठोरे ! मय्यत्र माङ्गीकुरु भङ्गुरताम् ।
राधिका (सस्मितम्) ः देइ सरस्स{
इ},
वन्दिज्जसि जं सच्चा ज्जेब्ब पाडासि ।
कृष्णः (किञ्चिद्विहस्य) ः
पद्मिन्यास्ते सुमुखि परमप्रेमसौरभ्यपूरो
दूरोत्सर्पी यदवधि मुदा कृष्णभृङ्गेन भेजे ।
आक्रान्तोऽयं तव नवमुखाम्भोजमाध्वीकपान
प्रत्याशाभिस्तदवधि रुवन्संभ्रमी बम्भ्रमीति ॥५०॥
किं च—
मुक्तानामुपलाभ्यामेव कुचयोः सालोक्यमालोक्य ते
हित्वा सङ्गमहं समस्तसुहृदां कैवल्यमासेदिवान।
वैषम्यं तिलमप्यनाश्रितवतोः सान्द्रामृतस्यन्दिभिर्
मां पुर्णं कुरु तन्वि तुर्णमनयोः सायुज्यदानोत्सवैः ॥५१॥
कृष्णःः प्रिये,
पश्य पश्य ।
अपां पत्युः पुष्टिकरणरसपाकः कुमुदिनि
कदम्बानामङ्गज्वरहरणशितौषधिघटः ।
मृगाङ्कोऽयं कोकिपरिषदभिचाराध्वराधुरा
पुरोग्नाः कालिन्दिपरिसरपरिष्कारमकरोत॥५२॥
तदेतां वासन्तिकाकान्तिमण्डितमण्डलस्य चन्द्रमसश्चन्द्रिकाचक्रचुम्बितं विचरावो निकुञ्जचन्द्रशालिकाम् । (इति निष्क्रान्तौ) ।
(
इति निस्क्रान्ताः सर्वे ।)
इति श्रीविदग्धमाधवे
राधासङ्गो नाम
तृतीयोऽङ्कः
॥३॥
****************************************************************
.
(
४)
चतुर्थोऽङ्कः
वेणुहरणः
(
ततः प्रविशति नान्दीमुखी) ः
नान्दीमुखीः भणिदह्मि ललिदाए—
हला णांदीमुहि,
गोमण्डले गोट्ठं प{
इ}
ट्ठे एह्निं कह्णो तुबरंत गोअड्ढणाहिमुहं पत्थिदो । ता तुमं तत्थ गदुअ सुअलं बिण्णबेहि,
जधा एसो ओसरे णिअबास्सस्स राहिअं सुमराबेदि त्ति । (परिक्रम्य) कधमेत्थ प{
उ}
मा आअच्छ{
इ}
।
(
प्रविश्य) पद्मा ः हला णान्दिमुहि,
कामं कुसलासि । ता कंपि उवाअं कधेहि जेण उब्बिग्गं चन्दाअलीमासासेमि ।
नान्दीमुखीः किं से उब्बेअकारणम् ।
पद्मा ः हला,
जाणासि ज्जेब्ब तुमं जधा पदोसे सब्बं क्खु गोउलं विब्भमेण कह्णो पच्चहं रञ्जेदि ।
नान्दीमुखीः अध इम् ।
पद्मा ः संपदं दाव एत्थ दक्खिणे गोट्ठद्धे इमस्स गन्धो बि दुल्लहो ।
नान्दीमुखीः हला,
मा दुणेहि । (संस्कृतेन)
दृष्टं बिम्बितधातुचित्ररचनं शैब्या ललाटं मया
श्यामाकुन्तलचामरं च विलुठद्वन्यस्रजोड्डामरम् ।
गुञ्जाहारलतार्धमञ्जुरधुना भद्राभुजान्तस्तथा
तथ्यं विद्धि स नागरीगुरुरभूद्गोवर्धनस्यातिथिः ॥१॥
(
नेपथ्ये) ः
कृत्वा वंशीमखिलजगतीगीतसङ्गीतभङ्गी
साङीभावप्रथमवसतिं सङ्गिनीं वामपाणौ ।
एष प्रेम्णा व्रजति नयनानन्दनो नन्दसूनुर्
मन्दं गोवर्धनशिखरिणः कन्दरामन्दिराय ॥२॥
नान्दीमुखीः प{
उ}
मे,
तुममिमिणा बुत्तन्तेण चन्दाअलिअं सुहाबेहि । अहं सुबलमणुसरिस्सम् । (इति निश्क्रान्ता) ः
पद्मा (पुनः पश्यन्ति) ः एसा करालाए एज्जिआए चित्तमणुबट्टन्ती बणदेअदा बुन्दा चन्दाअलिअं सच्छलं णिवारेदि ।
(
नेपथ्ये) ः
किं राधेव दुरन्तमिच्छसि बलादुन्मादमालम्बितुं
मुग्धे मानय माननीयजरतीवाक्यं बहिर्मा व्रज ।
एष स्मेरविलोचनञ्चलरुचा चापल्यमुल्लासयन्न्
आयाति व्रजसुन्दरीगणमनोमाणिक्यहारी हरिः ॥३॥
(
प्रविश्य) चन्द्रावली (सौत्सुक्यं समन्तादवलोक्य) ः कधं बुन्दाए अलिअं बिअ व्याहरीअदि । कुदो एत्थ कह्णो ? (
इति खेदं नाटयति ।)
पद्मा (उपसृत्य,
संस्कृतेन) ः
न सन्तापं स्वान्ताद्दवयसि कथं दावविशमं
घनस्वाशैः किं वा मलिनयसि बिम्बाधरमपि ।
वनान्तान्केकाभिः सखि शिखरिकक्षे मुखरयन्
सखीस्थल्याः कल्याण्यभजदुपशल्यं यदुपतिः ॥४॥
चन्द्रावली (विलोक्य) कधं पिअसही प{
उ}
मा ? (
इति गाधमालिङ्ग्य) अबि णाम अक्खलिदं भणिदासि ।
पद्मा ः अध इम् ।
(
ततः प्रविशति सुबलेनानुगम्यमानः कृष्णः ।)
कृष्णः ः पश्य पश्य—
अकलिततापस्तरणेर्
अस्तशिरोवीथिभिस्तिरोधानात।
अस्फुटतिमिरविजृम्भः
प्रथयति तोषं निशारम्भः ॥५॥
सुबलः ः बास्स,
अज्ज गोदोहणं बि अणवेक्खिअ सलालसो बिअ किंत्ति एत्थ लद्धोसि ।
कृष्णः ः सखे,
मयूरं वर्णयता केनचित्प्रियां चन्द्रावलीं स्मारितोऽस्मि ततस्तद्विलोकनाय लालसेयम् ।
सुबलःः केरिसं मोरवण्णणं ?
कृष्णः ः
उन्मदेन पुरतः शिखण्डिना
ताण्डवे पृथुनि मण्डलीकृताम् ।
पश्य निन्दितमहेन्द्रकार्मुकां
कृष्णचन्द्र चलचन्द्रकावलीम् ॥६॥
सुबलःः तदो आअड्ढणं बंसीकलमुल्लासेहि ।
(
कृष्णो वक्त्रे वेणुं विन्यस्यति ।)
चन्द्रावली (निशम्य सघूर्णम्) ः सब्बदा सुण्णंती बि अस्सुदारी बिअ बिह्माबेदि दुम्मुही मुरली ।
कृष्णः ः सखे सुबल,
अद्य चन्द्रावलीप्रसादे त्वया ममानुकूलेन भवितव्यम् ।
सुबलःः अध इम् ।
पद्मा ः हला,
पेक्ख । एसो वेणुसण्णाए तुमं तुवरावेदि गोउलेन्दणन्दणो ।
चन्द्रावली (विलोक्य संस्कृतेन) ः
सखि मुरलि विशालच्छिद्रपुर्णा
लघुरतिकठिना त्वं ग्रन्थिला नीरसासि ।
तदपि भजसि शश्वच्चुम्बनानन्दसान्द्रं
हरिकरपरिरम्भं केन पुण्योदयेन ॥७॥
कृष्णः (पुरो दृष्ट्वा,
सानन्दम्) सखे,
सेयं मम लोचनेन्दीवरचन्द्रिका चन्द्रावली । (इति सादरमुपेत्य) प्रिये,
चन्द्रस्तव मुखबिम्बं
चन्द्रा नखराणि कुण्डले चन्द्रौ ।
नवचन्द्रस्तु ललाटं
सत्यं चन्द्रावलि त्वमसि ॥८॥
(
चन्द्रावली लज्जते ।)
कृष्णः ः प्रिये,
दुष्टदानवदमनाभिनिवेशात्त्वन्मुखचन्द्रमप्रेक्षमाणस्य यातयामा भवन्त्योऽपि न यातयामा भवन्ति ममामूर्यामिन्यः ।
चन्द्रावलीः सुन्दर,
भमरस्स बिअ णवणवाणुसारिणी दे प{
इ}
दी कधं चिरासङ्गणीरसासु प{
उ}
मिणीसु अहिरमदु ।
कृष्णः ः प्रिये चन्द्रावलि ! प्रतिपदालोके त्वं सर्वेषां नवनवासि । तदद्य निर्वापय विरहोत्तापं परिश्वङ्गरसेन ।
पद्मा ः पिअसहीबिरहेण कुदो तुह्म ताबुप्पत्ति ?
सुबलःः अ{
इ},
मा क्खु एब्बं भण । एसो चन्दाअलिबिरहेण संतत्तो सीदलाए जलधाराए कच्छे देहं णिक्खिबिअ सतिण्हो चओरो बिअ णं ज्जेब्ब चन्दाअलिअं सब्बदो पच्छ{
इ}
बास्सो ।
कृष्णः ः प्रिये,
श्रूयताम्—
विपिनान्तरे मिलन्ती
मधुररसा शितलस्पर्शा ।
अमृतमयी त्वद्विरहे
समजनि मम तापनुत्तये राधा ॥९॥
(
इति ससम्भ्रमम्) धारा धारा ।
चन्द्रावली (साभ्यसूयम्) ः गच्छेहि,
राहिअं ज्जेब्ब सेबेहि ।
कृष्णः ः प्रिये,
धारेत्यवदम् ।
चन्द्रावली ः जादं कधं दोण्णं बण्णाणं बिबरीदत्तणं ?
कृष्णः ः प्रिये,
द्वयोर्वर्णयोः कर्णयोर्वा विपरीतत्वमित्यस्मिन्नस्ति विचारः ।
चन्द्रावली (रोषारुणं मुखमानमय्य) ः अ{
इ}
दानसौण्ड । अलमेदाए अबहित्थाए । अज्ज अप्पणो मणहारिणो सुबण्णजुअलस्स बिण्णासादो साहुमाहुरीपुरिदकण्णह्मि किदा ।
कृष्णः ः
यथार्थेयं वाणी तव चकितसारङ्गनयने
सुवर्णालङ्कारो मधुरयति यत्ते श्रुतियुगम् ।
मुखेन्दोरन्तस्ते बहिरपि सुवर्णच्युतिरियं
मम श्रोत्रद्वन्द्वं नयनयुगलं चाकुलयति ॥१०॥
पद्मा ः हला अप्पणो अदिट्ठं सुमरन्ति मा खिज्जेहि । जुत्तो राहाणुरत्तस्स इमस्स राहाणाममयि सङ्कधा ।
चन्द्रावली (निश्वस्य) ः सहि प{
उ}
मे,
एवं ण्णेदम् ।
कृष्णः ः प्रिये,
बाढमनाशङ्कनीयमेवेदम् । यतः—
तस्य षोडशकलस्य षोडशी
वल्लभा स्फुरति या नभस्तले ।
राधया सुवदने कथं तया
सङ्गतिर्भुवि ममाद्य संभवेत॥११॥
पद्मा ः च{
उ}
स्सट्ठिकलासालिणो दे ण क्खु सा बि सोलहकलबल्लहा दुल्लहा ।
कृष्णः (सप्रश्रयमवलोक्य) ः
चन्द्रावलीवदनपुष्करसङ्गिगण्ड
चन्द्रावलीकतरतर्ककलङ्किताङ्गौ ।
शङ्काकुलोऽत्र कलयन्कमलायताक्षि
सं काकुलोलहृदयः प्रविशामि नाहम् ॥१२॥
चन्द्रावली (सव्याजप्रसादम्) ः देओ,
णं क्खु गोउलजणजिअणभुदस्स दे सब्बसुहकारिदागुणं का क्खु हदबुद्धिआ ण सहदि ?
ता णिप्फलेण सङ्कोएण सादङ्को होहि ।
कृष्णः (स्वगतम्) ः गरिष्ठामपि मन्युमुद्रां धीरेयं मुखमाधुर्येण निह्नुते । (प्रकाशम्) प्रिये कृतमनेन गौरवविशोद्गारेण । रोषोक्तिमाध्वीकमेव वरं वरिष्ठम् ।
चन्द्रावलीः गोउलाणन्द,
तुह्म पुरदो मुहं दंसेदुं ण पहवामि । जं प्रगब्भं बाहरंति अबरद्धम्मि । ता घरं गमिस्सम् ।
कृष्णः (सानुनयम्) ः प्रिये,
प्रसीद प्रसीद । बद्धोऽयमञ्जलिः ।
चन्द्रावलीः सुहा,
उज्जुअं ब्बाहरंतीं कीस मामलिअं सङ्कसि ?
ता अणुजाणेहि मं भद्दऽलीदंसणस्स । (इति पद्मया सह निश्क्रान्ता ।)
कृष्णः ः सखे,
महानुभावामेतां मच्चित्तमहाकाशचन्द्रावलीमपि बलियस्तमःकन्दलीभिरवस्कन्दितामालोक्य निरालोकोऽस्मि ।
सुबलःः पिअबास्स,
किंति एब्बं भणासि ?
सा क्खु अदक्खिणा ण दिट्ठ ।
कृष्णः ः सखे,
बाढं दुरूहा महीयसां प्रकृतिः । तथेदानीम्—
न्यविशत नयनान्ते कापि सारल्यनिष्ठा
वचसि च विनयेन स्तोत्रभङ्गी न्यवात्सीत।
अजनि च मयि भूयान्सम्भ्रमस्तेन तस्या
व्यवृणुत हृदि मन्युं सुस्ठु दाक्षिण्यमेव ॥१३॥
तदेहि मनोहारिणि,
तस्मिन्केशरकुञ्जे निविश्य चन्द्रावलीसङ्गमोपायमङ्गीकरोमि । (इति परिक्रम्य) सखे,
सेयं बकुलावलिमञ्जुला निकुञ्जवीथी । पश्य पश्य ।
स्फुरति सरो दक्षिणतः
सव्ये वापी समन्ततः कल्या ।
इति केशराटवीयं
प्रमदं नीराधिका कुरुते ॥१४॥
सुबलः (स्वगतम्) ः लद्धो मए ओसरो । (प्रकाशम्) बास्स,
सराहिआ ज्जेब्ब तुह पमदं कुण{
इ}
किंत्ति णिराहिआ त्ति भणासि ?
कृष्णः (सुबलमालिङ्ग्य) ः सखे,
सत्यं ब्रवीषि । तदद्य राधिका यथेमां केशरनिकुञ्जलक्ष्मीमलङ्करोति तथा मद्गिरा सण्दिश्यतां ललिता ।
सुबलःः जमाणबेदि पिअबास्स । (इति निश्क्रान्तः ।)
(
ततः प्रविशति पद्मा मधुमङ्गलश्च ।)
मधुमङ्गलः ः प{
उ}
मे,
मए अज्ज वास्सेण चाडुआरिणा अणुनिदा बि चन्दावलि ण पसण्ण ।
पद्मा ः अध इम् ।
मधुमङ्गलः ः णं बास्सो बि बिसण्ण बट्ट{
इ}
| ता जुत्ता दोणं सङ्गमे अह्माणं सहऽरिदा |
पद्मा ः अज्ज,
अदो ज्जेब्ब मए अणुसरिदोसि ।
मधुमङ्गलः (पुरो दृष्ट्वा) ः प{
उ}
मे,
पेक्ख एसो पिअबास्सो छप्पदमेत्तसहॉ केसरकुडुङ्गे किंपि मन्तेदि ।
पद्मा ः अज्ज,
लदाजालेहिमन्तरिदा भविअ सुणह्म किमेसो भणादि त्ति । (इति तथा स्थितौ ।)
कृष्णः (राधां स्मरन्सोत्कण्ठम्) ः
प्रसरति यद्भ्रूचापे
श्लथज्यमकरोत्स्मरो धनुः पौष्पम् ।
माधुरीममणिमञ्जुषा
भुषायै मे प्रिया सास्तु ॥१५॥
मधुमङ्गलः ः प{
उ}
मे,
एसो उक्कण्थाए तुज्झ पिअसहीं च्चेअ बण्णेदि । ता एहि । तुरिदं गदुअ णं समाणेह्म ।
पद्मा ः अज्ज,
सुट्ठु णिट्ठङ्किदं सुणह्म जं बहुवल्लहो एसो ।
कृष्णः (पुनः सौत्सुक्यम्)
सा मुखसुषमा निर्जित
राकाचन्द्रावली लसन्मध्या । (इत्यर्धोक्ते)
मधुमङ्गलः ः प{
उ}
मे,
अलमिदमिमादो परेण सुदेण तुण्णं गच्छह्म ।
पद्मा ः जुत्तं कधेसि । (इत्युभौ जवेन दूरं परिक्रामतः ।)
कृष्णः ः
मुहुराधास्यति राधा
मदुरसि रसिका आत्मानम् ॥१६॥
पद्मा ः अज्ज,
एब्बं भणामि । माणिणिए पिअसहिए सां समाअमेण लाहवं होदि । ता परावट्टिअ कह्णं बिण्णबेहि ।
मधुमङ्गलः ः सोहणं मन्तेसि । (इति कृष्णान्तिकमासाद्य) पिअबास्स,
पच्छण्णेण भविअ सब्बं दे आअण्णिदं मए उक्खण्ठाबाणम् । ता आणबेहि । तं ज्जेब्ब तुज्झ बल्लहं तुरिअं समाणेमि ।
कृष्णः (सश्लाघमालिङ्ग्य) ः सखे,
मदनुग्रहेण शीघ्रमानय ।
(
मधुमङ्गलः परिक्रम्य पद्मया सह निश्क्रान्तः ।)
कृष्णः ः अहो परमोत्कण्ठानां प्रेम्णामुत्कण्ठाकारित्वम् ।
भ्रमरेऽपि गुञ्जति निकुञ्जकोटरे
मनुते मनस्तु मणिनूपुरध्वनिम् ।
अनिलेन चञ्चति तृणाञ्चलेऽपि ताम्
पुरतः प्रियामुपगतां विशङ्कते ॥१७॥
(
ततः प्रविशति पद्मामधुमङ्गलाभ्यां सङ्गता चन्द्रावली ।)
चन्द्रावलीः हला प{
उ}
मे,
किमेसो बौलकुण्डगो दिस{
इ}
।
पद्मा ः अध इम् । ता तुण्णमेहि । (इति परिक्रामति)
कृष्णः (नूपुरध्वनिमाकर्ण्य) ः हन्त,
भूरिशो भ्रामितोऽस्मि भ्रमरीझङ्कारैः । तदलं वृथा प्रत्युद्गमसम्भ्रमेण । (इत्युद्वेगं नाटयन्)
पुरः फलायामाशायां
जनः कामं विडम्ब्यते ।
आसन्ने हि घनारम्भे
द्विगुणं रन्ति चातकः ॥१८॥
(
पुनरुत्कर्णो भवन्) कथमभ्यर्णे भूषणशिञ्जितं श्रूयते ? (
इत्युद्ग्रीविकां दत्त्वा ससम्भ्रमम्) सत्यमसौ मिलिता मे प्रेयसी । (इति तरसा चन्द्रावलीपार्श्वमागत्य)
हृद्भृङ्गजङ्गमलता
मङ्गलभा राधिका मयोन्मुदिता । (इत्यर्धोक्ते)
(
चन्द्रावली सेर्ष्यं मधुमङ्गलमालोकते ।)
मधुमङ्गलः ः सहि चन्दाअलि,
मङ्गलभारेण अधिआसि त्ति पिअबास्सो तुमं ज्जेब्ब बण्णेदि ।
कृष्णः (सवैलक्ष्यम् आत्मगतम्) ः हन्त,
कथमनेन चन्द्रावलिरेवाभिसारिता ?
भवतु,
बटुनोक्तमेव निर्वाहयामि । (प्रकाशम्)
सुहृदनुरागवितन्द्रा
चन्द्रावलिरञ्जसालम्भि ॥१९॥
(
चन्द्रावली सलज्जं कृष्णकण्ठे वैजयन्तीं विन्यस्यति ।)
कृष्णः (सानन्दम्) ः
एकं प्रयाति परिचर्य चकोरराजी
चन्द्रं प्रिये निजमनोरथपूरपूर्तिम् ।
चन्द्रावली किमु ममाक्षिचकोरयोस्त्वं
प्रीतिं द्वयोरपि न धास्यसि सेव्यमाना ॥२०॥
मधुमङ्गलः (सगर्वम्) ः भो बास्स,
दिट्टा तुए मज्झविलक्खणा बिअक्खणदा,
जो क्खु अनन्तगुणसालिणाबि तुए मोआइदुं ण पारिदो सो पिअसहिए माणगण्ठि णागुणधारिणा मए मोआबिदो ।
कृष्णः ः वयस्य,
त्वमुद्दण्डकुसुमकोदण्डविलासषाड्गुण्ये महासान्धिविग्रहिकोऽसि ।
पद्मा ः अज्ज,
पुरो पफुल्लाइं मल्लिपुप्फाइं पप्फुरन्ति । ता एहि,
इमानि गेण्हह्म । (इत्युभौ निश्क्रान्तौ ।)
कृष्णः (स्वगतम्) ः कुञ्जेऽस्मिन्नागतमात्रां राधां तर्कयामि । तदन्यतः प्रस्थास्ये । (प्रकाशम्) प्रिये,
पुरस्तान्नातिदूरे नागररङ्गोचिता नागकेसराटवी । तदत्रैवानुसरावः । (इति निश्क्रान्तौ ।)
(
ततः प्रविशति ललितया सह सङ्कथयन्ती राधा ।)
राधाः हला,
पेक्ख पेक्ख । अन्दऽरेहिं घोलिदं सब्बं दिसामुहम् ।
ललिता ः पिअसहि,
तिमिराहिसारोचिदेहिं सामलप्पसाहणेहिं मण्डिदो किं क्खु तुए अप्पा ।
राधिका ः अध इम् ।
ललिता (विलोक्य सस्मितं संस्कृतेन) ः
धम्मिल्लोपरि नीलरत्नरचितो हारस्त्वया रोपितो
विन्यस्तः कुचकुम्भयोः कुवलयश्रेणिकृतो गर्भगः ।
अङ्गे कल्पितमञ्जनं विनिहिता कस्तूरिका नेत्रयोः
कंसारेरभिसारसम्भ्रमभरान्मन्ये जगद्विस्मृतम् ॥२१॥
राधिका ः हला,
मुञ्चेहि परिहासम् । तुरिअमुद्देसेहि केसरकुण्डगमग्गम् ।
ललिता ः इदो इदो पिअसहि । (इति परिक्रामन्ती सशङ्कं संस्कृतेन)
तिमिरमसिभिः संवीताङ्ग्यः कदम्बवनान्तरे
सखि मुररिपुं पुण्यात्मानः सरन्त्यभिसारिकाः ।
तव तु परितो विद्युद्वर्णास्तनुद्युतिसूचयो
हरि हरि घनध्वान्तान्येताः स्ववैरिणी भिन्दते ॥२२॥
राधिका ः अलमिमिणा उबालम्भेण । पेक्ख पच्चासण्णो बौलकुण्डगो । (इति संभ्रमादुपसृत्य सपरामर्शम्,
संस्कृतेन)
विदूरान्न घ्राणं मदयति मुरारेः परिमलो
न कुञ्जोऽयं तस्य स्फुरति नखरद्योतनिकरैः ।
ततः शङ्के कस्मिन्नपि रहसि वल्लीवलयिते
परिहासाकाङ्क्षी प्रियसखि निलीनस्तव सखा ॥२३॥
ललिता ः हला,
एहि । बामदो कदम्बकुण्डगं बिइणुह्म ।
राधिका (तथा कुर्वती) ः अ{
इ}
छ{
इ}
ल्ल,
दिट्ठोसि दिट्ठोसि,
कीस अङ्गेहिमङ्गाइं सङ्गोबेसि । (इति समन्तान्मृगयति ।)
ललिता ः सहि,
मुञ्च मग्गणग्गहम् । एहि केलिकुण्डगकप्पणं कुणह्म ।
राधिका (संस्कृतेन) ः
रचय बकुलपुष्पैस्तोरणं केलिकुञ्जे
कुरु वरमरविन्दैस्तल्पमिन्दीवराक्षि ।
उपनय शयनान्तं साधु माध्वीकपात्रं
सहचरि हरिरद्य श्लाघतां कौशलं ते ॥२४॥
ललिता (तथा कृत्वा) ः हला,
पेक्ख । कह्णो विलम्बेदि । ता कुञ्जं पविसिअ णं पडिबालेह्म ।
राधिका (परिक्रम्य उद्वेगं नाटयन्ती,
संस्कृतेन) ः
रुद्धः क्वापि सखीहितार्थपरया शङ्के हरिः पद्मया
प्राप्तः कुञ्जगृहं यदेष न तमीयामेऽप्यतिक्रामति ।
पौलोमिरतिबन्धुदिण्मुखमासन्हा हन्त सण्तर्पयन्न्
उन्मिलत्यभिसारलुब्धरमणीगोत्रस्य शत्रुः शशी ॥२५॥
(
इत्युभे निश्क्रान्ते । ततः प्रविशति कृष्णः ।)
कृष्णः (समन्तादवलोक्य)—
आसङ्गः कुमुदाकरेषु शिथिलो भृङ्गावलीनामभूद्
वीक्षन्ते निजकोटराङ्कितममी क्षौणीरुहं कौशिकाः ।
सङ्कोचोन्मुखतां प्रयाति शनकैरौत्तानपादेर्द्युतिः
किं भानुर्ननु पूर्वपर्वततटीमारोढुमुत्कण्ठते ॥२६॥
(
इति परिक्रम्य) न जाने नवीनविप्रलम्भेन सम्भृतनिर्भरसंरम्भा किं नाम प्रतिपत्स्यतेऽद्य राधा । (विमृश्य) भवतु । केशरेण नागकेशरं प्रतिपादयिष्ये । तदमूनि नागकेशराणि विचिनोमि । (इति तथा कृत्वा पुरोऽनुसर्पन्)
कपटी स लताकुटीमिमां
सखि नागादधुनापि माधवः ।
इति जल्पपरीतया तया
क्लमदीर्घा गमिता कथं तमी ॥२७॥
(
परिक्रम्य बकुलकुञ्जं पश्यन्सविशादम्)
तम्बूलं घनसारसंस्कृतमदः क्षिप्तं पुरो राधया
हारी हन्त हरिण्मणिस्तवकितो हारोऽयमुत्सारितः ।
पौष्पी चेयमुदारे सौरभमयी चूडा नखैः खण्डिता
तस्याः शंसति विप्रलम्भजनितं कुञ्जोऽयमन्तःक्लमम् ॥२८॥
(
इत्यग्रतो गत्वा) इयमेव राधायः सूर्याराधनवेदिका । तदस्याः पार्श्वमासादयामि । (इति परिक्रामति ।)
(
ततः प्रविशति सखीभ्यामनुगम्यमाना राधा ।)
राधा (पुरो विलोक्य) ः हला ललिदे,
पेक्ख बेइआणेदिट्ठो सो तुज्झ छ[इ]ल्लो ।
ललिता ः सहि,
कञ्चणपडिमेब्ब कठोरा होहि ।
कृष्णः ः पुरस्तादेषा सहपरिवारा प्रिया । तदिदमुट्टङ्कयामि । (इत्युपसृत्य) ललिते,
साधु साधु । दृष्टं तव गरिष्ठमत्र दुर्मन्त्रतन्त्रचर्यायामाचार्यत्वम् । यदद्य भवत्या केशरनिकुञ्जवेद्यामहमुज्जागरव्रतदीक्षां परिग्राहितोऽस्मि ।
ललिता (ससाम्भ्रमं संस्कृतेन) ः अहो वैपरित्यम्,
अहो वैपरित्यम् ।
केशरनिकुञ्जकुहरे
कुहक वसन्ती सखी त्वया रहिते ।
श्रितनवपल्लवतल्पा
त्रुटिमपि कल्पाधिकां मेने ॥२९॥
कृष्णः (कपटेनाटोपं नाटयन्) ः अहो,
दम्भभरारम्भेषु गाम्भिर्यमस्याः । (इति नागकेसराण्युद्धाट्य दर्शयन्)
अरतिं मम निशि पश्यन्
न क्लाम्यन्नागकेशरोऽप्यसकृत।
विगलन्मधुभिः कुसुमैर्
एभिर्नेत्रैरिवोदस्रैः ॥३०॥
ललिता ः अम्महे,
धुत्ततणं,
जं ब[उ]लबाइणा केसरेण दाणिं नाअकेसरो विक्खावीअदि ।
कृष्णः (सव्याजनिर्वेदम्) ः ललिते,
विश्राम्यतु तवेयं शब्दार्थस्यान्यथाकल्पनेन वञ्चनचञ्चुता । अथवा कस्ते दोशः ?
दृष्टदोषाभिरपि गौराङ्गीभिः सौहार्द्यमभिलष्यता मयैवापरद्धम् ।
विशाखा ः को क्खु गौरङ्गीणं दिट्ठो तुए दोसो ?
कृष्णः ः पश्य पश्य—
नवरसधारिणि मधुरे
धरणीसण्तापहारिविस्फुरणे ।
विदधति न कृष्णमुदिरे
गौर्यः क्षणरोचिषः स्थैर्यम् ॥३१॥
विशाखा ः तस्मिं कुलिसकुडकठोरचेट्ठिदे ताणं कोमलाणं जुत्ता ज्जेब्ब तधा प{
उ}
त्ति ।
ललिता ः बिसाहे,
सुणाहि कंपि गाहम् । (इति भृङ्गं दर्शयन्ति ।)
चम्पालदं सिणिद्धं णाकञ्चणकांतिकुसुमगौराङ्गीम् ।
मुक्किअ धाब{
इ}
भमरो चबला बिअ सामला होंति ॥३२॥
कृष्णः (स्मित्वा) ः सत्यं वाग्मिनामसि राज्ञी ।
ललिता (अपवार्य) हला,
सुट्ठु णीसङ्केन,
वाणाडोबेण अणबरद्धं ज्जेब्ब णं तक्केमि ।
कृष्णः ः
वाम्याद्भवेन्न विरतिर्नवयौवनानां
वामभ्रुवामिति जनश्रुतिरव्यलीका ।
चाटूनि कर्तुमुचितानि विमुच्य खिन्नं
मां प्रत्युताद्य यदमूरपरञ्जयन्ति ॥३३॥
ललिता (अपवार्य) ः हला,
सच्चमुज्जाअरक्खिन्नो कह्णो । ता पसीद ।
राधिका (कृष्णमपङ्गेनावलोक्य) ः मुद्धाणं बञ्चणकलाबिअद्धो सि ।
कृष्णः (सानन्दम्) ः फुल्लकेशरकलापेनामुना धम्मिल्लश्रीस्तवालङ्क्रियताम् । बद्ध्यतां मा विन्दतु मम प्रयासः । (इति पुटिकामुद्घाट्य) प्रिये,
पश्यामूनि सुगन्धिनामग्रेसराणि केशराणि यैरहं सद्यः सुवासितोऽस्मि ।
राधिका (सनर्मस्मितम्) णुणं चन्दाअलिपरिमलेण वासिदोसि तुमम् ।
कृष्णः ः प्रिये,
पारिहसितान्यपि ते वचांसि न कदाचिदपि व्यभिचरन्ति । यदद्य मदङ्गतस्चन्द्रावलीसौरभ्यमुदञ्चति ।
राधिका (सस्मितम्) ः समप्पेहि पुप्फाइम् । (इति पटाञ्चलं प्रशरयति)
कृष्णः (राधामुखं प्रेक्ष्य स्वगतम्) ः हन्त,
विभ्रममण्डितस्य चिल्लीकोदण्डस्य ताण्डावकला ।
विशाखा (जनान्तिकम्) ः ललिदे,
पेक्ख पेक्ख । सम्मोहणेण राहीए कडक्खबाणेण लक्खिकिदो पुप्फपुडिआए सद्धमञ्चले दिण्णंपि वेणुं न जाणादि कह्णो ।
ललिता (संस्कृतेन) ः
निद्रागमोऽपि सखि नन्दसुतस्य हर्तुं
यां शक्नुवन्ति न पराः पशुपालबालाः ।
धन्या कटाक्षकलया किल मोहयन्ती
तां राधिकाद्य पुरतो मुरलीं जहार ॥३४॥
राधिका (अपवार्य,
संस्कृतेन) ः
या निर्माति निकेतकर्मरचनारम्भे करस्तम्भनं
रात्रौ हन्त करोति कर्षणविधिं या पत्युरङ्कादपि ।
गौरीणां कुरुते गुरोऋ अपि पुरो या नीवीविध्वंसनं
धूर्ता गोकुलमङ्गलस्य मुरली सेयं ममाभुद्वशा ॥३५॥
(
नेपथ्ये) अरे कुरङ्गओ,
दिट्ठो तुह्मेहिं पिअबास्सो ?
कृष्णः ः कथं मिलत्येष मधुमङ्गलः ?
(
प्रविश्य माल्यहस्तः) मधुमङ्गलः ः सुदं सुबलमुहादो जमज्ज णिउञ्जमज्झे राहिआ जागरिदा आसि । ता गदुअ णं पोच्छाह{
इ}
स्सम् । (इत्युपसृत्य,
संस्कृतेन)
अविरलवनमालालङ्कृतस्निग्धमूर्तिः
स्फुरितकटककान्तिर्धातुभिर्मण्डिताङ्गः ।
अखिलभुवनतुङ्गो नेत्रभङ्ग्या विकृष्टः
कथमिव सखि राधे कृष्णशैलस्त्वयाभूत॥३६॥
(
राधिका स्मयते ।)
कृष्णः ः प्रिये,
वेत्ति मे तमस्तमीसंभवं वयस्योऽयम् ।
राधिका ः अज्ज,
दंसिदमज्ज सिणेहदक्खिणं जं कान्तारसिन्धुसन्तारकोसलाइं सिक्खाबिदह्म ।
मधुमङ्गलः ः सहि,
साहु अह्मे उबालहिज्जह्म,
जेहिं चलंतीं बि बल्लीं तुमं तक्किअ बणे बसन्तेहिं सादङ्कं जाअरिदम् । तुह्मे क्खु सलाह{
इ}
ज्ज{
इ},
जाहिं पिअबास्ससणाहं बि कुञ्जमणिबन्धेण सुण्णा घरे पबिसन्तीहिं णिरादङ्कं सुत्तम् ।
राधिका ः अज्ज,
किमेब्बं भणासि ? (
इति संस्कृतेन)
निकुञ्जं कंसारेर्बत नखरचन्द्रावलिरुचि
च्छताग्रस्तं नाग्रे मुहुरपि यदा प्रेक्षितमभूत।
तदा सद्यः प्रोद्यह्विधुहतकविक्रान्तिहतया
मया लब्धारण्ये क्लमनिवहपूर्णा परिणतिः ॥३७॥
मधुमङ्गलह्(स्वगतम्) ः अहो कहं कुडङ्गसङ्गदा चन्दाअलि बि राहिआए दिट्ठात्थिता बञ्चनं मुक्किअ णमुक्करिस{
इ}
स्सम् । (प्रकाशं संस्कृतेन)
क्लान्तेन ते वदनचन्द्रमनकलय्य
कल्याणि गोकुलपुरन्दरनन्दनेन ।
चन्द्रावली…
(
चन्द्रावलीत्यर्धोक्ते कृष्णो भ्रूसंज्ञया निवारयति । सर्वाः परस्परं साकूतमवलोकयन्ति ।)
मधुमङ्गलह्(स्वगतम्) ः हन्त हन्त किदं मए बह्मनबतुओचिदं चबलम् ।
कृष्णः (विभाव्य) ः विभावरीभवं मे वरीयः कष्टं बाष्परुद्धकण्ठोऽयं संवृत्तः । तदहमेव वाक्यं समापयामि । (इति स्मित्वा)
चन्द्रावलीननयनान्ततया किलास्य
सादृश्यतः कथमपि क्षपिता क्षपेयम् ॥३८॥
मधुमङ्गलहः पिअबस्स सब्बण्णोसि । किं त्ति मह हिआट्ठिदं पज्जर्द्धं णं जाणिस्ससि ।
ललिता ः राहे अज्ज बि सन्दिद्धासि । पेक्ख पेक्ख रतिबिलासपिसुनाइं णाअरस्स चङ्गाइमङ्गाइम् । (इति सेर्ष्यं संस्कृतेन)
बाले गोकुलयौवतस्तनतटीदत्तार्धनेत्रादितः
कामं श्यामशिलाविलासिहृदयाच्चेतः परावर्तय ।
विद्मः किं न हि यद्विकृष्य कुलजाः केलिभिरेष स्त्रियो
धूर्तः सङ्कुलयन्कलङ्कततिभिर्निःशङ्कमुन्मुञ्चति ॥३९॥
राधिका ः हद्धी हद्धी सुत्थु विडम्बिदह्मि ।
कृष्णः ः प्रिये,
मुधैव मं दूषयसि ।
राधिका (सोपलम्भम्,
संस्कृतेन) ः
मुक्तान्तर्निमिषं मदीयपदवीमालोक्यमानस्य ते
जाने केशररेणुभिर्निपतितैः शोणीकृते लोचने ।
शीतैः काननवायुभिर्विरचितो बिम्बाधरे च व्रणः
सङ्कोचं त्यज देव दैवहतया न त्वं मया दूष्यसे ॥४०॥
कृष्णः ः प्रिये तवाधीनस्य मे सङ्कोचोऽप्यलङ्करयैव ।
राधिका ः साहीणो सब्बलोअविक्खादोसि । कधं ममाहीणो हुबिस्ससि ?
कृष्णः ः तवाधीनो नाहमेव केवलोऽस्मि,
किन्तु ते मम दशावताराश्च । तथा हि,
चञ्चन्मीनविलोचनासि कमठोत्कृष्टस्तनी सङ्गता
क्रोडेन स्फुरता तवायमधरः प्रह्लादसंवर्धनः ।
मध्योऽसौ बलिबन्धनो मुखरुचा रामास्त्वया निर्जिता
लेभे श्रीघनताड्य मानिनि मनस्यङ्गीकृता कल्किता ॥४१॥
राधिका ः हला ललिदे,
आअण्णिदं तुए ?
ललिता ः कह्ण तुह ओदारा तुअम्मि ज्जेब्ब सन्ति । जमेदाणं चिन्हाइं दीसन्ति । (इति संस्कृतेन)
वन्यान्तर्गुरुचापलं कठिनता गोसङ्गतिः पाणिज
क्रौर्यं दम्भरुचिः सुचण्डिमधुरा लङ्केशविध्वंसनम् ।
अश्रान्तोन्मदलौल्यमिष्टकदनं निस्त्रिंशलीलोन्नतिर्
मीनेन्द्राद्यवतारतः स्फुटममी भ्राजन्ति भागास्त्वयि ॥४२॥
कृष्णः (सस्मितम्) ः सखे,
पश्य पश्य—
ललिताजनि दुर्ललिता
बभूव राधा दुराराधा ।
तप्ते मयि न च्छायां
शशाक कर्तुं विशाखेयम् ॥४३॥
(
इति बतोः करान्मल्लीदाम गृहीत्वा सचाटुप्रणामम् ।)
स्रगियमुरुगुणा ते चित्तवीथीव राधे
शुचिरतिसुकुमारी काममामोदिनी च ।
नखपदशशिरेखाधाम्नि पुष्णातु कान्तिं
तव कुचशिवमूर्ध्नि स्वर्धुनीविभ्रमेण ॥४४॥
(
इति भ्रूसंज्ञया विशाखामनुकूलयन्माल्यं समर्पयति ।)
विशाखा (माल्यं निवेदयन्ती संस्कृतेन) ः
यस्मिन्नेत्रसरोरुहङ्गनभुवः प्रप्ते विदूरं मनक्
सद्यस्ते निमिसोऽपि यति तुलनं तन्वङ्गि मन्वन्तरैः ।
वृन्दारण्यकदम्बमण्डपतटक्रीडाभराखण्डले
तस्मिन्ककुपरायणे तव कथं काम्यानि वाम्यान्यपि ॥४५॥
राधिका (साभ्यसूयम्) ः अबेहि निबुद्धिए,
अबेहि ।
कृष्णः ः
धूलिधूसरितचन्द्रकञ्चलश्
चन्द्रकान्तमुखि वल्लभो जनः ।
अर्पयन्मुहुरयं नमस्क्रियां
भिक्षते तव कटाक्षमाधुरीम् ॥४६॥
ललिता ः राहे,
झत्ति कन्दरं परावट्टेहि । पुट्ठदो आआरेदि अज्जिआ ।
(
राधिका तथा करोति ।)
(
प्रविश्य) मुखरा (कृष्णं विलोक्य संस्कृतेन) ः
वनासक्तं चेतः प्रणयति गृहाद्यो विरमयन्
वरेण्यं बन्धूनां प्रणयमपि विस्मारयति यः ।
महाधूर्तश्रेणीगुणगरिमविस्तारणगुरोः
करोत्सङ्गे तस्य त्वमपि सरले पुत्रि पतिता ॥४७॥
मधुमङ्गलह्(जनान्तिकं) ः भो बास्स मारुदबाआलीकिदमुही तुज्झं बंशीब्ब बुड्ढिआ पत्ता । ता एत्थ किं बिलम्बसे ?
कृष्णः ः सखे,
क्व मे वंशी ?
मधुमङ्गलहः सां ज्जेब्ब जाणासि कहिं त्ति ?
कृष्णः ः स्फुटं राधिकयैव हृतेयम् । तदेनां विना कथं प्रस्थानमुचितम् ।
मधुमङ्गलह्(सपरिहासम्) ः भो इदं क्खु अह्माणं गुरुअं भाअधेअं जमिमाहिं मोहिनीहिं तुमं चोरिआ ण सङ्गोबिदोसि । ता चिट्ठदु बरागी मुरलिआ । अत्ताणं घेत्तूण पलाअह्म ।
कृष्णः (सस्मितम्) ः रे वाचाल ! तिष्ठ तिष्ठ । (इति परिक्रम्य)
सुन्दरि बिन्दुच्युतके
तव नैपुण्यं बभूव पुण्येन ।
शशिमुखि वशीकृताभूद्
वंशी मम यत्त्वया त्वरया ॥४८॥
राधिका (सभ्रूभङ्गम्) ः मुञ्चेहि णं भङ्गीए कलङ्कारोबणम् । का जणादि तुह्म वंसिआम् ।
ललिता (संस्कृतेन) ः
न काचिद्गोपीनां भवति परवित्तप्रणयिनी
सतीनामस्माकं न वद परिवादं ननु मुधा । (इत्यर्धोक्ते)
कृष्णः ः सखि ललिते,
प्रसीद प्रसीद । दर्शय सख्यौ दाक्षिण्यम् ।
ललिताः
अलं जल्पैरेभिर्व्रज निजनिकेतं द्रुतमितो
वयं किं संवृत्तास्तव कितव वेणोः प्रतिभुवः ॥४९॥
राधिका (वृद्धामासद्य) ः अज्जे दिट्ठं तुए अप्पणणत्तणो चरित्तम् । जमेसो अह्माणं चोरिआपरिबादं देदि ।
मुखरा (ससंरम्भम्) ः रे कह्णड सच्चं मए विण्णादम् । जं णत्तिअं,
मह तुमं बिदम्बेदुं लद्धोसि ।
मधुमङ्गलहः अ{
इ}
निट्ठुरसंसिणी णिब्बंशिए बंशिअं हरिअ तुज्झ णत्तिणी तुमं दुग्गं लद्धा ।
कृष्णः ः आर्ये मुखरे,
सत्यमाह वयस्यः ।
मुखरा ः अ{
इ}
राहिए अबि किं सच्चमेदं ?
राधिका ः अज्जे बुन्दाबणे इन्धणाणं किं महग्घदा जादा जं हत्थमेत्ता वंशकट्ठिआ अह्मेहिं हारदब्बा ।
कृष्णः (स्मित्वा) ः हन्त पीते प्रचण्डदेवि,
यदि वेणुं न जहर्थास्ततः कथं तद्वर्तायां स्मितकुट्मलोल्लासादुत्फुल्लकपोला दोलायितदृगन्तासि ।
मुखरा (सक्रोशम्) ः चञ्चल,
अहिमण्णुणो सधम्मिणी तुज्झ बन्दनिज्जा,
तहबि परिहसिज्ज{
इ}
।
मधुमङ्गलहः मुहरे,
एसो जण्णोपबीदस्स सबामि । दिट्ठं मए पुहबीबिलग्गसेहरेण अज्ज राहिआ बन्दिदा पिअबास्सेन ।
मुखरा (सानन्दम्) ः तदो इमस्स धम्मो बड्ढिस्सदि ।
(
सर्वे स्मितं कुर्वन्ति ।)
मुखरा ः कह्णड इमिणा तुज्झ चाबलेण खिज्जिस्सदि बल्लबिन्दो नन्दो,
ता गदुअ गोमण्डलं सम्भालेहि ।
कृष्णः ः आर्ये,
विना वेणुं विप्रकृष्टाया धवलावलेराकृष्टिर्दुर्घटा ।
ललिता ः कह्ण,
अबलावलिणो ति कीस उज्जुअं न कधेसि ।
कृष्णः ः ललिते,
वृद्धयाद्य सबला यूयम् । ततः कथमिदं कथयिष्यामि ।
मुखरा (सरोषं संस्कृतेन) ः
नवीनाग्रे नप्त्री चटुल न हि धर्मात्तव भयं
न मे दृष्टिर्मध्येदिनमपि जरत्याः पटुरियम् ।
अलिन्दात्त्वं नन्दात्मज न यदि रे यासि तरसा
ततोऽहं निर्दोषा पथि कियति हंहो मधुपुरी ॥५०॥
मधुमङ्गलह्(सरोषम्) ः दुम्मुहि बुड्ढिए ! तुज्झ कंसदो किमह्मे भाएह्म जं महुपुरामासन्नं कहेसि ।
मुखरा (सव्यजम्) ः अरे चिट्ठ चिट्ठ ! एसाहं णत्तिणिअं घेत्तूण राअसहं पत्थिदोह्मि । (इति राधादिभिरनुगम्यमाना निष्क्रान्ता ।)
कृष्णः ः सखे समागच्छ । कालिन्दीकच्छमुपेत्य गवामुद्देशं करवावः । (इति परिक्रम्य । वलितग्रीवं पस्यन्सोच्छ्वासम्)
मुद्रां धैर्यमयीं क्षणं वितनुते तारुण्य लक्ष्मीं क्षणम्
सोपेक्षाः क्षणमातनोति भणितीरौत्सुक्यभाजः क्षणम् ।
शुद्धां दृष्टिमितः क्षणं प्रणयते प्रेङ्खत्कटाक्षां क्षणम्
रोषेण प्रणयेन चाकुलितधी राधा द्विधा भिद्यते ॥५१॥
(
इति निष्क्रान्ताः सर्वे ।)
इति श्रीविदग्धमाधवे
वेणुहरणनामकश्
चतुर्थोऽङ्कः
॥४॥
*****************************************************************
.
(
५)
पञ्चमोऽङ्कः
राधाप्रसादनः
(
ततः प्रविशति पौर्णमासी ।)
पौर्णमासी ः
स्नेहः शोककृशानोर्
विनोदसदनं सदेति नातथ्यम् ।
स्निग्धाद्य राधिकायां
यदहं तेनासु दग्धास्मि ॥१॥
(
पुरोऽवलोक्य) केयं मधुमङ्गलसङ्गिनी मामभिवर्तते ? (
पुनर्निभाल्य)
अजनितशासनभङ्गा
स्थिरजङ्गममण्डलैः स्ववने ।
निखिलप्राणिरुतज्ञा
विन्दति पुरतः कथं वृन्दा ॥२॥
(
प्रविश्य) वृन्दा मधुमङ्गलश्च ः अम्ब वन्दे ।
पौर्णमासी ः स्वस्ति युवाभ्याम् ।
वृन्दा ः भगवति,
कथं सोचन्त्यसि ?
पौर्णमासी ः वत्से ! विदग्धपुङ्गवस्याङ्गसङ्गमलक्ष्मानि राधिकायामभिलक्ष्य मन्युमानभिमन्युः सम्प्रति मधुपुर्यां सकुटुम्बो वस्तुमुत्कण्ठते । तत्रापि तदम्बा तदीर्ष्याजम्बालावलीजृम्भायां कादम्बिनीभावमालम्ब्य राधामरालीमुद्वेजयति । तेनाद्य शोचामि ।
वृन्दा ः पौर्णमासीशुभाशीश्चन्द्रिकैव विघ्नान्धकारसंहारिणी ।
मधुमङ्गलः ः अज्जे ! कहं राहोपरि तुज्झ वरिट्ठं पेम्मं ?
पौर्णमासी ः वत्स,
सत्यमपि भूरिणि प्रेमोदयकारणे तस्यामनन्यापेक्षि ममेदं प्रेम ।
वृन्दा ः युक्तमिदम्,
यतः—
जगति किल विचित्रे कुत्रचिन्निस्चलात्मा
भवति निरभिसन्धिः कस्यचित्प्रेमबन्धः ।
विलसति समुदीर्णे कुम्भजे खञ्जनाली
कलितवती तथास्तां हन्त नाशं प्रयाति ॥३॥
मधुमङ्गलः ः केरिसं निराहिसन्धिनो पेम्मस्स चिन्हं ?
पौर्णमासी ः
स्तोत्रं यत्र तटस्थतां प्रकटयच्चित्तस्य धत्ते व्यथां
निन्दापि प्रमदं प्रयच्छति परीहासश्रियं बिभ्रती ।
दोषेण क्षयितां गुणेन गुरुतां केनाप्यनातन्वती
प्रेम्णः स्वारसिकस्य कस्यचिदियं विक्रीडति प्रक्रिया ॥४॥
मधुमङ्गलः ः एब्बं रूबं क्खु दोणं राहामाहवाणं पेम्म ।
पौर्णमासी ः वत्स किमुच्यते ?
माधुर्यसंसर्गिनो नैसार्गिकस्य परस्परवल्लभानां विदग्धमिथुनानां प्रेमशृङ्खलबन्धस्य परमोत्कर्षरेखायां दृष्टान्तः किल राधामाधवयोर्भावामृतभूमा ।
वृन्दा ः भगवति श्रूयतां —
यष्टिं वस्ति न पाणिना कलयितुं शृङ्गे न सङ्गार्थितं
धत्ते धातुभिरङ्गमण्डनमयीं नाङ्गीकरोति क्रियाम् ।
पर्णं वादयते न घूर्णितमनस्तीरे कृतान्तस्वसुः
किन्तूत्क्लाम्यति मुक्तविभ्रमगुणग्रामोऽद्य दामोदरः ॥५॥
पौर्णमासी (सखेदम्) ः किमिदं ?
मधुमङ्गलः ः ललिदाकौडिल्लेण ।
पौर्णमासी ः नूनं ललिताया हठानुवर्तितमना वर्तते राधा ।
वृन्दा ः अथ किम् ।
पौर्णमासी ः न जाने क्व खल्वद्य ललितादयः ।
वृन्दा ः तासामुद्देशाय मया सुबलः प्रेषितोऽस्ति ।
(
प्रविश्य) सुबलः ः अज्जे बंदेमि ।
पौर्णमासी ः सुबल ! क्व दृष्टा राधादयः ?
सुबलःः मुहराघरोबान्तवट्ठिनो रसालस्स मूले ।
पौर्णमासी ः वत्स मधुमङ्गल ! तूर्णमनुसृत्य राधिकामभिसारयन्त्यस्मि । तदेतया सूक्तिचन्द्रिकया त्वमानन्दय मुकुन्दम् ।
(
मधुमङ्गलः सहर्षं निष्क्रान्तः ।)
वृन्दा (जनान्तिकम्) ः सुबल मय समर्पितं पद्यं त्वया किं नाम विशाखायां सञ्चारितं ?
सुबलःः अध इम् ।
पौर्णमासी ः वृन्दे,
यावत्प्रसाद्य प्रसाध्य च राधां सञ्चरयामि तावदधुना युवाभ्यां पुरः कदम्बनिकुञ्जे विश्राम्यताम् ।
(
वृन्दा सुबलेन सह निष्क्रान्ता ।)
पौर्णमासी (परिक्रम्य) ः कथं ललितेयमायाति ?
ललिता ः भावदि ! तुह्म सऽसं गच्छंती ह्मि ।
पौर्णमासी ः किमर्थं ?
ललिता ः अज्जे ! तिण्ण धूत्तेन पुणो पुणो अबरञ्जिदाबि पिअसही लाहवममण्णिअ सुट्ठु उक्कण्ठेदि । ता किं करिस्सम् ।
पौर्णमासी ः वत्से,
मुञ्च मुधा कालुष्यम् । नापराध्यति माधवः । किन्तु मधुमङ्गलप्रमादितैव वः खेदाय बभूव ।
ललिता (स्वगतम्) ः ममाबि एब्बं नन्दीमुहीए कथिदम् । (प्रकाशम्) अज्जे,
पेक्ख एस राही रसालस्स मूले कम्पंती किम्पि जप्पदि ।
(
ततः प्रविशति सानुतापं) राधा (संस्कृतेन) ः
कर्णान्ते न कृता प्रियोक्तिरचना क्षिप्रं मया दूरतो
मल्लीदाम निकामपथ्यवचसे रुषः कल्पितः ।
क्षोनिलग्नसिखण्डशेखरामसौ नाभ्यर्थयन्नीक्षितः
स्वान्तं हन्त ममाद्य तेन खदिराङ्गारेण दन्दह्यते ॥६॥
पौर्णमासी ः पुत्रि,
प्रच्छन्नमुपसृत्य शृणुवः प्रेमविलासम् । (इत्युभे तथा स्थिते ।)
राधिका (सचपलं पुनः संस्कृतेन) ः
धन्यास्ता हरिणीदृशः स रमते याभिर्नवीनो युवा
(
पुनः सशङ्कं)
स्वैरं चापलमाकलय्य ललिता मां हन्त निन्दिष्यति ।
(
पुनः सौत्सुक्यं)
गोविन्दं परिरब्धुमिन्दुवदनं हा चित्तमुत्कण्ठते
(
पुनः सामर्षं)
धिग्वामं विधिमस्तु येन गरलं मानाभिधं निर्ममे ॥७॥
ललिता (स्वगतं) ः अदक्खिणे,
चिट्ठ चिट्ठ ! सां जेब्ब कह्णं निराकदुअ भङ्गीए मं दूसेसि ।
राधिका (भ्र्ङ्गीमवेक्ष्य संस्कृतेन) ः
कृमिरपि नमितात्मा हन्त वृन्दावनेऽस्मिन्
कलयति निजमौलौ बर्हमौलेर्निदेशम् ।
अनुनयति मुहुर्मां नेतुकामा निलीयं
यदमलमधुरोक्तिस्तस्य दृष्टिं शठस्य ॥८॥
पौर्णमासी (सनर्मस्मितम्) ः निखिलमेव वृन्दातवीप्राणिवृन्दं दूतीभूतमियं मन्यते महामानिनी ।
राधिका (प्रेमावेशं नाटयन्ती सचमत्कारम्) ः कधमेसो मं मोट्टिअं परिरद्धुमुबसण्णो कह्णो ।
पौर्णमासी ः गम्भीरानुरागविवर्तोऽयम् । यदस्यां माधवस्य विस्फुरणम् ।
राधिका (सहुङ्कारं परावृत्य) ः हंत भो बङ्ककलाशालि चंदाअलीकोडचिरासङ्गभङ्गुरकुडङ्ग अवेहि अवेहि । एसो तुमं परिहबिस्ससि मए । (इति कर्णोत्पलं क्षिपन्ती संस्कृतेन)
यमुनातीरकदम्बाः
सम्प्रति मम हन्त साक्षिणो यूयम् ।
एष बलान्मामबलां
गोकुलधूर्तः कदर्थयति ॥९॥
पौर्णमासी ः ललिते,
परां कोटिमधिरूढा राधिकोत्कण्ठा । तदियं त्वरितमभिसार्यताम् ।
ललिता (परिक्रम्य) ः हला राहि ! एक्का ज्जेब्ब किं मंतेसि ?
राधिका (ललिदामालोक्य स्वगतम्) ः कधं सच्चं जेब्ब एक्कह्मि । जं कह्णो न दिस{
इ}
। (इति सौत्सुक्यम्) हला ललिदे !
परतणुपवेसविज्जा कहमिह सामेण कामिणा पढिदा ।
मम हिअए माणग्गी पबिसिअ निब्बारिदो जेण ॥१०॥
(
प्रविश्य) विशाखा ः हला सुबलहत्थादो लद्धा इअं पत्तिआ ।
ललिता (गृहीत्वा वचयति) ः
मेध्योऽपि माधविक्कया मधुपो यदेष
क्षिप्तः स्वयं प्रचलता नवपल्लवेन ।
तस्याः खलु क्षितिरियं सुषमाक्षयेण
नन्दत्ययं तु विरुवन्नरविन्दिनीषु ॥११॥
राधिका (सविषादं संस्कृतेन) ः
अजनि विमुखः सङ्के पङ्केरुहाक्षि विचक्षणो
मयि मधुरिपुर्दोषश्रेणीविहारवनश्रियाम् ।
अकलितरसः सूचीविद्धो रजःप्रसरान्धधीर्
न मधुपयुवा किं केतक्यां विरक्तिमुपैष्यति ॥१२॥
पौर्णमासी ः न हि चन्द्रेण चन्द्रिकाया मोक्षः कदापि सम्भवति ?
विशाखा ः हला समस्सस्स समस्सस्स । तुह उक्कण्ठिदं तक्किअ मए कह्णप{
उ}
त्तिं विण्णादुं णांदीमुही पेसिदत्थि ।
(
प्रविश्य) नान्दिमुखी (संस्कृतेन) ः
मृदुरपि निसर्गतस्त्वं
कथमार्द्रे माधवे कठोरासि ।
अथवा नवनवनीतपुटी
हिमद्रवे कक्खटा प्रैक्षि ॥१३॥
राधिका ः हला,
अबि णाम सुहं वट्टदि माहवो ।
नान्दिमुखी (संस्कृतेन) ः
क्षणमपि न सुहृद्भिर्नर्मगोष्ठीं विधत्ते
रचयति न च चूडां चम्पकानां चयेन ।
परमिह मुरवैरी योगिवन्मुक्तभोगस्
तव सखि मुखचन्द्रं चिन्तयन्निर्वृणोति ॥१४॥
राधिका (विशाखां परिष्वज्य संस्कृतेन) ः
भूयो भूयः कलिविलसितैः सापराधापि राधा
श्लाघ्येनाहं यदघरिपुणा बाढमङ्गीकृतास्मि ।
तत्र क्षामोदरि किमपरं कारणं वः सखीनां
दत्तामोदां प्रगुणकरुणामञ्जरीमन्तरेण ॥१५॥
नेपथ्येः
गर्वोदग्राः कलमविकलं तन्वतामन्यपुष्टाः
निस्प्रत्यूहं मृगयुवतयः शष्पमास्वादयन्तु ।
सीमन्तिन्यो गृहनयमयिं शीलयन्तु प्रणालीं
धूर्तो वेणुर्विहरति करे नाद्य पीताम्बरस्य ॥१६॥
राधिका (वंशीमुद्घाट्य सोपलम्भं संस्कृतेन) ः
सद्वंशतस्तव जनिः पुरुषोत्तमस्य
पाणौ स्थितिर्मुरलीके सरलासि जात्या ।
कस्मात्त्वया सखि गुरोर्विषमा गृहीता
गोपाङ्गनागणविमोहनमन्त्रदीक्षा ॥१७॥
विशाखा ः हला अच्चरिआ इअं बंशी जं मारुदाहिमुहीकिदा सां सद्दाएदि ।
राधिका ः सहि परिक्खस्सं । (इति तथा करोति ।)
विशाखा ः सुणिज्ज{
उ}
महुरा काअली ?
ललिता ः सम्बरेहि सम्बरेहि,
मा सुणादु कह्णस्स परिबारो ।
(
प्रविश्य) वृन्दा (प्रच्छन्नम्) ः भगवति न कदपि वंशी देयेति श्रुतं मया ललितादुर्मन्त्रितम् ।
पौर्णमासी ः वत्से युक्तिमायत्यां करिष्यामि ।
(
प्रविश्य) जटिला ः णूणमिध कह्णेण मिलिदं जं मुरली वदिता । (विलोक्य) अम्मो,
कहं बारिसहाणविहत्थे कह्णस्स वंशी । ता निह्णुदं गदुअ णं गेहिस्सम् । (इति सहसोपसृत्य सामर्सम्) अयि दुब्बिणीदगोआलपुत्तिए ! मुञ्चेहि मुरलिअम् । (इत्याकृष्य गृह्णाति ।)
ललिता ः हद्धी पमादो हद्धी पमादो ! कधं बुड्ढिआए अतक्किदं मुरली आअड्ढिदा ?
जटिलाः नं क्खु भावदीए पौण्णमासीए दंस{
इ}
स्सं जा मज्झ भणिदं ण पत्थिआएदि ।
पौर्णमासी ः पुत्रि वृन्दे ! गहनं कष्टमापतितम् । पश्य जटिला ममोटजदिशं प्रयाति ।
वृन्दा ः भगवति ! मा चिन्तय । क्षिप्रमहं मुरलीं लुण्ठयामि । (इति निष्क्रान्ता ।)
ललिता (सभयमनुसृत्य) ः अज्जे,
कीस अलिअं सङ्कसि ?
जमेसा कालिंदीकुलह्मि अह्मेहि लद्धा ।
जटिला (सरोषम्) ः चपले ! दुम्मंतिणि चिट्ठ चिट्ठ !
(
प्रविश्य) सुबलःः अज्जे जडिले,
पेक्ख दहिलम्पडा मक्कडी तुज्झ घरं पबिस{
इ}
।
जटिला (साचिग्रीवमालोक्य) ः सुबल सच्चं कहेसि । मक्खणचोरिणी क्खु एषा मक्कडी । (इति परावृत्य धावन्ती निष्क्रान्ता ।)
पौर्णमासी ः नूनं वृन्दया प्रेरितास्ति कक्खटी नाम जरन्मर्कटीयम् ।
सुबलःः णांदीमुहि ! पेक्ख पेक्ख ! पक्खित्तेन वेणुणा मूढजडिलाए मक्कडी ताडिदा ।
पौर्णमासी (सहर्षम्) ः दिष्ट्या मुरलीमादाय कक्खटीयं कदम्बमधिरूढा ।
(
सर्वाः प्रहर्षं नाटयन्ति ।)
(
प्रविश्य) जटिला ः हद्धी हद्धी बच्छ सुअल ! हत्थादो मे मुरली गदा । ता तुज्झ निमञ्छणं जामि । समप्पेहि मे बंशिअम् ।
सुबलःः अज्जे,
जहत्थणामा एसा कक्खडी केअलं तुज्झ बहिणीपुत्तादो विसालादो भाएदि । ता गोअड्ढणसिङ्गे खेलंतं नं गदुअ अभ्यत्थेहि ।
(
जटिला निष्क्रान्ता ।)
पौर्णमासी ः दिष्ट्या व्याजेन जरतीं दूरमपसार्य धूर्तोऽयं भ्रूविभ्रमेण ललितां त्वरयति ।
ललिता (नेत्रान्तं कूणयन्ती) ः हला राहि,
एहि । बेणुं मग्गह्मे ।
राधिका (स्वगतम्) ः दिट्ठिआ अहिसारेदि मम् ।
(
प्रविश्यापटीक्षेपेण) मुखरा ः बिसाहे,
अहिमण्णु संदिस{
इ}—
अज्ज जोइसिआणमुबदेसेण मए गोमङ्गला णाम चण्डी पूअणिआ । ता पूअणोबहारं घेत्तूण तुमं चेट्ठरुक्खस्स तले राहिअं लम्भेहि त्ति ।
राधिका (सखेदमपवार्य) ः हंत हंत ! दुद्देबस्स पाडिउल्लम् । (इति ललितामुखमीक्षते ।)
ललिता ः हला सच्चनामा एसो अहिमण्णु । ता गदुअ पूअणोबहारं संबादेह्म ।
(
इति सर्वा निष्क्रान्ताः ।)
पौर्णमासी (सुबलमनुसृत्य सव्यथम्) ः वत्स,
दुःसमाधानेयं गतिरुपस्थिता । तदद्य वृन्दया सह गत्वा समाश्वास्यतां त्वया पाटवेन पुण्डरीकाक्षः । मया तु प्रमाणिकपुरन्ध्रीणां गोष्ठीमासाद्य जटिलाकौटिल्यं वर्णयिष्यते । (इति निष्क्रान्ता ।)
सुबलः (परिक्रम्य) ः एसा तमालतले डाहिणहत्थगहिदबंशिआ बुंदा चिट्ठ{
इ}
।
(
प्रविश्य) वृन्दा ः भोः सुबल,
विलोकितसर्वार्थास्मि । तदलं तद्वार्तया ।
सुबलःः बुंदे,
तुरिअमेहि । वेणुं जेब्ब उबहरह्म ।
(
इत्युभौ परिक्रमतह्) ः
सुबलःः बुंदे महुमङ्गलेण बड्ढिदुक्कण्ठो पिअबास्सो मग्गं ज्जेब पेक्खन्तो चिट्ठ{
इ}
| ता ण जाणे अकिदत्थाणमह्मानं तत्थ गमणे तस्स क दसा भवे |
वृन्दा ः सुबल ! सत्यं ब्रवीषि । पश्यायं पुन्नागतरोरुपकण्ठे समुत्कण्ठते कंसारिः ।
सुबलःः बुंदे ! तदो भणामि चिन्तेहि जुत्तिम् ।
वृन्दा (विमृष्य) ः सुबल,
गोविन्दस्य क्षणं विनोदाय चिन्तितोपायास्मि । तदेहि,
तन्निष्पत्तये त्वरां भजावः । (इति निष्क्रान्तौ ।)
(
ततः प्रविशति मधुमङ्गलेनोपास्यमानः) कृष्णः (सौत्सुक्यम्) ः
राधा पुरः स्फुरति पश्चिमतश्च राधा
राधाधिसव्यमिह दक्षिणतश्च राधा ।
राधा खलु क्षितितले गगने च राधा
राधामयी मम बभूव कुतस्त्रिलोकी ॥१८॥
मधुमङ्गलः ः पिअबास्स भावदीए अहिसारिदं दाणिं जेब्ब पेक्खिस्ससि राहिअम् ।
कृष्णः ः
करेणान्तस्तुष्ट्या सुललितमवष्टभ्य ललिता
कराङ्गुष्ठं राधा भृशमभिसरन्ती सरभसम् ।
किमद्य स्मेराक्षी स्मरपरिमलोल्लासिवलय
ध्वनिर्मां निर्मास्यत्यनुपमचमत्कारचटुलम् ॥१९॥
मधुमङ्गलः ः भो भो मा उत्तम्म । कङ्कणझणक्कारो सुच्च{
इ}
।
(
नेपथ्ये) हला ललिदे,
पेक्ख ! सो एसो पुण्णाअरुक्खो दीस{
इ}
| (पुनस्तत्रैव) सहि राहे धिट्ठभमरजम्पिदं पेक्ख णम् | ता क्खणमिध ज्जेब्ब चिट्ठह्म |
मधुमङ्गलः (सचपलम्) ः भो पिअबास्स बामदो किं ण पेच्छसि । एसा ललिदाए सद्धं राहिआ समाअदा ।
कृष्णः (सोत्कण्ठम्) ः दिष्ट्या साक्षादद्य मदीक्षणयोः सौख्यं विस्तार्यते सख्या ।
मधुमङ्गलः (सगर्वम्) ः भो कीस न वित्थरिदब्बं जत्थ अहं बिअड्ढो दूदोह्मि ।
कृष्णः ः सखे पुरःस्थयोर्मत्प्रिययोर्निर्व्यलीकता नाद्याप्यवधारिता । यदाभ्यां न सन्निधीयते ।
मधुमङ्गलः ः पिअबास्स सुट्ठु पसन्नां राहिं जाणीहि । जं साडिअञ्चलझम्पिदा मुरली झलक्क{
इ}
।
कृष्णः (सस्नेहम्) ः
विधुरेति दिवा विरूपतां
शतपत्रं बत शर्वरीमुखे ।
इति केन सदा श्रियोज्ज्वलं
तुलनामर्हति मत्प्रियाननम् ॥२०॥
(
इति सकौतुकमनुसर्पति ।)
(
नेपथ्ये) ः
बारिसहाण{
इ}
लच्छी इयं पुरो रा{
इ}
णी समुग्गम{
इ}
।
चन्दाअलीकुडुम्बचओर माहब सुप्पसहम् ॥२१॥
मधुमङ्गलः ः ललिदे भमिदासि । न क्खु चओरो । पेक्ख एसो रहङ्गिरमनो जेन वरिसहन{
इ}
लच्छी कमिज्ज{
इ}
।
(
नेपथ्ये पुनरन्यतः) ः भो कह्ण सुणाहि ।
मधुमङ्गलः (विलोक्य ससङ्कम्) ः एसा डाहिणे बिसालस्स बहिणी सारङ्गी णाम बालिआ ।
कृष्णः ः सखे,
मा शङ्किष्ठाः । सुष्ठु बालिकेयम् ।
(
प्रविश्य) सारङ्गीः भो कह्ण सुणाहि । बुड्ढिआ मुहरा भणादि—
कीस तुए मम णत्तिणी अलिअं दूसिज्ज{
इ}
| जं तुज्झ बंसिअ अह्मेहिं कक्खिडाहत्थे दिट्ठा | ता मग्गेहि णं त्ति |
कृष्णः ः सारङ्गिके विज्ञापय मुखरां यदहं लब्धमुरलीकोऽस्मि ।
(
नेपथ्ये) हला ! पच्छण्णा होहि पच्छण्णा होहि ।
सारङ्गी (नेपथ्याभिमुखमवलोक्य सेर्ष्यम्) ः हला राहिए चेच्चरुक्खस्स तले तुममाआरेदि मे भादुओ । ता तत्थ किं त्ति ण गदासि ?
(
नेपथ्ये) हदासे साहासारङ्गमुहि सारङ्गिए ! तुमं बि दुदिअ जडिला संवुत्ता । ता बुड्ढसद्दूलस्स तुण्डकोडरे पडेहि ।
सारङ्गी (सामर्षम्) ः ललिदे ओल्लट्टिअ मं जेब्ब तुमं तज्जसि । ता अहं गदुअ माउसिआए जडिलाए बिण्णविस्सम् । (इति निष्क्रान्ता) ः
मधुमङ्गलः (सावज्ञम्) ः सारङ्गी जादु णाम । बालिआपलाबे कस्स बीसम्भो ?
(
नेपथ्ये) सखि राहे ! मुञ्च मुञ्च ।
मधुमङ्गलः ः सुणाहि संकिदेण किं भणादि ललिदा ।
(
पुनर्नेपथ्ये) ः
किं तस्करीं युवतिमनधनस्य वंशीम्
अङ्के करोषि विकिर त्वरया विदूरे ।
एषा प्रयातु वनिताम्बरतस्कराय
योग्येन सङ्गमिह गच्छतु वस्तु योग्यम् ॥२२॥
कृष्णः (स्मित्वा) ः सखे पश्येयमञ्चलाद्वंशीं बलादिवाकृष्य पुरस्ताच्चिक्षेप । तदिमां गृहाण । (मधुमङ्गलस्तथा करोति ।)
(
नेपथ्ये दूरतह्) ः अम्मो सारङ्गिए असच्चं ण भणिदम् ।
कृष्णः (सव्यथम्) ः सखे पश्य ! पुरो निष्ठुरेयमुपस्थिता जरती ।
मधुमङ्गलः ः हंत साअणकह्णभुअङ्गीब्ब कूरमुही एसा रोसावेसेण जट्ठिं खिपंत्ति परुसं गज्ज{
इ}
जडिला ।
(
नेपथ्ये) ः भो दुक्कुलाङ्गारधूमलेहे,
पच्चहं बञ्चेसि दाणीं का प{
उ}
त्ती ?
मधुमङ्गलः ः हद्धी हद्धी ! कालीब्ब कम्प{
इ}
राहिआ ।
(
नेपथ्ये) अज्जे पसीद पसीद । ण क्खु अह्मे अबरज्झह्म ।
मधुमङ्गलः ः भो बास्स ! पेक्ख राहिअं हत्थे घेत्तूण ललिदाए समं पत्थिदा बुड्ढिआ ।
कृष्णः (सखेदम्) ः सखे,
न जाने किमद्य प्रतिपद्यते कठोरेयं जटिला । तदुपसृत्य तत्त्वमवधार्यताम् । (मधुमङ्गलो निष्क्रान्तः) ः
कृष्णः (निःश्वास्य) ः
व्यक्तिं गते मम रहस्यविनोदवृत्ते
रुष्टो लघिष्ठहृदयस्तरसाभिमन्युः ।
राधां निरुध्य सदने विनिगूहते वा
हा हन्त लम्भयति वा यदुराजधानीम् ॥२३॥
मधुमङ्गलः ः भो पिअबास्स,
अच्चरिअम् । णूणं राहिआ काम्पि विज्जां जाण{
इ}
।
कृष्णः ः कथ्यतां कीदृशी विद्या ?
मधुमङ्गलः ः कुलबुड्ढाहीरीमण्डले णिविट्टाए भावदीए अग्गदो विक्कोसंती जडिला राहिअं णीदा ।
कृष्णः ः ततस्ततः ?
मधुमङ्गलः ः तदो दिट्ठं मए सिणेहेण विक्खोहिदासु तासु सब्बासु राहिऑग्गुण्ठणमुच्छारिअ हसंतो सुबलो संवुत्तो ।
कृष्णः (स्मित्वा) ः ततस्ततः ?
मधुमङ्गलः ः तदो हासकोलाहले उबरदे रुट्ठाहिं सब्बाहिं निब्भच्छिदा लज्जाए णदमुही जडिला पलाइदा ।
कृष्णः ः कथ्यताम्—
तयोर्द्वितीया कथमभूत्?
मधुमङ्गलः ः राहिआए कण्णे पडिदेण केण बि मंतेण पढमं जेब्ब सा बुंदा किदा ।
कृष्णः ः सखे न राधिकायाः खल्वियं विद्या,
किन्तु तामभिमन्युना समाहूतामवधार्य मद्विनोदाय वृन्दया प्रणीतमिदं कौतूहलम् ।
मधुमङ्गलः (साट्टहासम्) ः भो सच्चं बिअ कहेसि । दिट्ठं मए पुणो बि बुंदाए णिम्मिदो राहाबेसो सुअलो मुहराघरे प्पबिसदि ।
(
नेपथ्ये) ः
दधाना मध्याह्नज्वलदरुणकान्तप्रतिमया
वपुस्तुल्यं गण्डस्थलतुलितकारण्डवरुचिः ।
कृशाङ्गीयं निद्रापरिमलदरिद्राक्षिकवला
सखी राधा बाधां हरिविरहखिन्ना प्रथयति ॥२४॥
कृष्णः (सदृष्टिक्षेपम्) ः सखे,
दिष्ट्या कीरेणामुना समाश्वासितोऽस्मि ।
मधुमङ्गलः ः णूणं बुंदाभासिदमनुकरेदि कीरो ।
कृष्णः ः सखे द्रष्टुमिच्छामि तादृशौ वृन्दासुबलौ । ततस्त्वर्यताम् ।
(
मधुमङ्गलो वंशीं कृष्णकरे निक्षिप्य परिक्रमति ।)
कृष्णः ः सुविच्युतां वंशीमुपलब्धोऽस्मि । तदेनां पूरयामि । (इति तथा करोति ।)
मधुमङ्गलः (क्षणमुत्कर्णो भवन्,
संस्कृतेन) ः
मनोहारी कोऽपि प्रतिमुखविसारी मृदुतया
विरावोऽयं वर्यां श्रवणपरिचर्यां रचयति ।
ततः कर्णोत्तंसीकृतचटुलवंशीकलरुतिर्
निराटङ्का शङ्के मिलति कलविङ्कावलिरितः ॥२५॥
(
पुनर्विलोक्य) ही ही । सद्दसाधम्मेण पदारिदो ह्मि,
जं कङ्कणसिञ्जिदं क्खु एदम् ।
राधिका ः
अमिअं पिअसि सुमहुरं
वमसि रुअं विस्समोहनं विसमम् ।
तुज्झ न दूसणमधबा
मुरलि जदो दारुणासि किदा ॥२६॥
ललिता ः हला,
पुरदो पुण्णाअस्स मूले कह्णो राअदि ।
मधुमङ्गलः (विलोक्य सहर्षम्) ः दूरे मग्गणिज्जो अत्थो कहं सां जेब्ब हत्थे उबत्थिदो । (इति परावृत्य) पिअबास्स पेक्ख—
बुंदाए सद्धं सुबलो तुज्झ सण्णिहिं लद्धो ।
कृष्णः (सस्नेहमालोक्य) ः हन्त प्रिये सख्यौ ! प्रविष्टा मे दृष्टिः प्रकाममामोदते । (इति परिक्रम्य) भो सखीनां शिखामणे तरसा सन्निधीयताम् ।
राधिका (सस्मितमपवार्य) ः हला ललिदे,
मं क्खु सुअलं जेब्ब जाणादि दे बास्सो ।
कृष्णः ः सखे मधुमङ्गल ! पश्य संविधानकस्य किमपि सौऽ
थवम्,
यदसौ साक्षादग्रतो राधिकैव सवयस्या प्रतिभाति ।
ललिता ः हला राहे,
अपरिफुल्लो एसो सुरबल्लहो ।
मधुमङ्गलः (सेर्स्यम्) ः ठग्गिनि बुंदे,
अज्ज बि किं त्ति अह्माणं पुरदो राही त्ति भणासि । सुअल त्ति उज्जुअं कहेहि ।
कृष्णः ः सखे मा त्वमेवं ब्रवीः । प्रकामं राधाभिधानं धिनोति माम् । तदनेनाहमप्यामन्त्रयिष्ये । (इति सन्निधाय) सखि राधे,
परिष्वजस्व मां क्षणमहं तदेव प्रियाभिमर्षसौख्यमनुभवामि ।
ललिता (राधां पृष्ठतः कृत्वा) ः णाअर,
तत्थ गदुअ सुबलं जेब्ब अलिङ्गेहि । अलमिमिणा दम्भमुद्दापओएण ।
मधुमङ्गलः (सरोषम्) ः बुंदे,
तुमं प{
इ}
दीएबि णूणं ललिदा संबुत्ता,
जं पज्जूस्सुअं पिअबास्सं बारेसि ।
(
प्रविश्य) वृन्दा ः सखि राधे ! त्वद्भुजवल्लरीस्पर्शकामोऽयं पुरस्ताद्पुन्नागः । तदेनं दोहददानेनोत्फुल्लय ।
मधुमङ्गलः (सविस्मयम्) ः बास्स,
दिट्टं बुंदाए इंदजालम् । (इति सकौतुकमवेक्ष्य) इंदजालिनि बुंदे,
घणाइदी बी धूमलेहा बिअड्ढसारङ्गं कड्ढिदुं णारिहदि ।
वृन्दा ः आर्य,
तडिद्दामकण्ठीयं कादम्बिनी प्रतीयताम् ।
कृष्णः (निभाल्य सविस्मयम्) ः कथं सत्यमेवानय रङ्गणमलिकया दुस्त्यजकण्ठीयं प्रिया मे वार्षभानवी ।
मधुमङ्गलः ः अ{
इ}
देइ बुंदे,
पसीद पसीद । मा क्खु बुड्ढिं मोहेहि । जं रह चैच्चरुक्खतले पत्थिद ।
वृन्दा ः आर्य,
रङ्गणमालिकास्पर्शानभिज्ञकण्ठी कृत्रिमैव राधिका विशाखया सार्धं तत्र गता ।
कृष्णः (राधामवलोक्य) ः
तवानुकारात्सुबलं दिदृक्षुणा
मया त्वमाप्ता पुरतः सुदुर्लभा ।
सादृश्यतः काचमिवाभिलष्यता
प्रेमाग्रभूमिर्वणिजा हरिण्मणिः ॥२८॥
राधिका ः चिट्ठ चिट्ठ । विण्णादो सि ।
ललिता ः जल{
इ}
सही मह राही मंदा जं होइ णीलिणीराआ कह्ण । तुमं णंदसि जं धण्णो हलिद्दारॉ सि ।
कृष्णः ः
रोहिण्यधरशोभया विहरसे ज्येष्ठासि वामभ्रुवं
वाण्या राजसि चित्रया परिजनेष्वार्द्रां धियं यच्छसि ।
राधे त्वं श्रवणोत्तरेति परितस्तारोदयोल्लासिनी
नाश्लेषार्पणदीक्षिते मयि कथं दाक्षिण्यमातिष्ठसि ॥२९॥
वृन्दा ः
मुधा मानोन्नाहाद्ग्लपयसि किमङ्गानि कठिने
रुषं धत्से किं वा प्रियपरिजनाभ्यर्थनविधौ ।
प्रकामं ते कुञ्जालयगृहपतिस्ताम्यति पुरः
कृपालक्ष्मीवन्तं चटुलय दृगन्तं क्षणमिह ॥३०॥
कृष्णः ः
कठोरा भव मृद्वी वा प्राणास्त्वमसि राधिके ।
अस्ति नान्या चकोरस्य चन्द्रलेखां विना गतिः ॥३१॥
राधाः सच्चं माइणं बि तुमं बिमोहणो सि । (इति सशब्दं क्रन्दति ।)
ललिता (संस्कृतेन) ः
धारा बाष्पमयी न याति विरतिं लोकस्य निर्मित्सतः
प्रेमास्मिन्निति नन्दनन्दनरतं लोभोन्मनो मा कृथाः ।
इत्थं भूरि निवारितापि तरले मद्वाचि साचीकृत
भ्रूद्वन्द्वा न हि गौरवं त्वमकरोः किं नाद्य रोदिष्यसि ॥३२॥
(
कृष्णः करारविन्देन राधिकाश्रुबिन्दूनपसारयति ।)
राधिका ः मुद्धजणे बि बङ्कं बवहरण्तो कीस ण लज्जसि ?
कृष्णः ः
स्मरक्रीडालुब्धः पशुपरमणीषु स्फुटमहं
तथाप्यक्ष्णोर्वर्तिस्त्वमसि मम दिव्याञ्जनमयी ।
तपाद्याः किं भृङ्गः पृथुलं ऋतुलक्ष्मीर्न भजते
रसोल्लासादेनं तदपि हि मधुश्रीर्मदयति ॥३३॥
वृन्दा ः सखि,
यथार्थं वक्ति वनमाली ।
कृष्णः ः प्रिये,
त्वया सहचर्या वनविहारमङ्गीकर्तुमिच्छामि ।
वृन्दा ः तेनाहं सखीवृन्दामवधापयामि । (इति परितः पस्यन्ती)
स्मितं वितनु माधवि प्रथय मल्लि हासोद्गमं
मुदा विकस पाटले पुरटयूथि निद्रां त्यज ।
प्रसीद शतपत्रिके भज लवङ्गवल्ली श्रियं
दधातु सह राधया हरिरयं विहारस्पृहाम् ॥३४॥
मधुमङ्गलः ः ही ही । कहं कांतारजक्खिणीए बाआमात्तएण उप्फुल्लीकिअं वल्लीमण्डलम् ।
कृष्णः ः सखे,
चित्तमामोदयन्ति पुष्पमोदवत्यो मे वीरुधः ।
मधुमङ्गलः ः बास्स तुह्माणं सब्बॉ चित्तमामोदेन्ति लदॉ । मम उण एक्का हेमजूही ज्जेब्ब जं गोउलेसरीए संकिअं गब्बघिअं बिअ त्थबां धारेदि ।
ललिता (स्मित्वा) ः अज्ज,
तदो क्खु पाडा दे रसण्णदा ।
मधुमङ्गलः (सेर्स्यम्) ः बास्स,
पेक्ख पेक्ख—
इमॉ रत्तॉ बि बङ्ककिंसुअकलिऑ गोइऑ बिअ मं ण सुहाबेंति ।
ललिता ः बुंदे,
एदे वल्लऽ बिअ पेक्खीअंतु जबात्थबऽ जे क्खु लोअणलोहणिज्जा बि णामोदं बित्थारेंति ।
मधुमङ्गलः (सरोषम्) ः जाणाह्म तुह्माणं गोइआणं कम्म जा रसकुम्भं बि दिढं णिम्महिअ सिणेहं कड्ढंति ।
वृन्दा (स्मित्वा) ः सखि ललिते !
ये दण्डपाशभाजः
स्फुटं वहन्तो मनःशिलाकल्पम् ।
कान्तारमाश्रयन्ते
तेभ्यो वः क्षेममुल्लसतु ॥३५॥
कृष्णः (स्मित्वा) ः वृन्दे,
ज्ञातं ज्ञातम् । बुद्धिं मुर्च्छयता कूर्चिकालोभेन गोपिकाञ्चलग्राहिणी त्वं कृतासि ।
(
नेपथ्ये) ः
कस्तूरिकेव दूरवच्छदसङ्गमेयं
गोपीततिर्मदमयी किल पिच्छिला च ।
दाक्षिण्यतस्तनुभृतामनुरञ्जनोऽयं
वसन्तवायुरिव हन्त मुरान्तकारी ॥३६॥
कृष्णः (पृष्ठतो दृष्टिं क्षिप्त्वा) ः साधु भो कीरराज ! साधु !
मधुमङ्गलः ः विहङ्गपुङ्गा ! च{
उ}
द्दहबिज्जाबिअक्खणो दीहाउ होहि ।
ललिता ः हण्डे चण्डाल कीर ! पाण्डससाअणतुण्डराहुणो पाघुणो होदु दे पिण्डससी ।
कृष्णः ः सखे,
तूर्णमस्मै समर्पय पाकिमानि दाडिमीबीजानि ।
मधुमङ्गलः ः भो बुंदाबणबिहप्पए ! दाडिमीबीएहिंतो बि सुट्ठु कंतं ललिदाए
दंतपंतिं दे दाइस्सम् ।
(
पुनर्नेपथ्ये)
चञ्चल सञ्झाघणो बिअ मुहुत्त राअं तणोदि दे सामी ।
बह{
इ}
सिणेहं राही केअलं णब्बणाणीअपुत्तीब्ब ॥३७॥
ललिता (सानन्दम्) ः सहि सारिए सोहग्गबदि होहि । जं पच्चुत्तरेण निज्जिदो तुए दुम्मुहो कीरो ।
कृष्णः (स्वगतम्) ः ध्रुवं वृन्दयेदमध्यापितं कौशलं विहङ्गयोर्द्वन्द्वम् ।
मधुमङ्गलः (सक्रोधम्) ः हञ्जे ! भञ्जेमि दे तीक्कजप्पिणं चञ्चुपूडम् । (इति सव्याजं दण्डं क्षिपति ।)
राधिका ः हन्त कधमुड्डीणं बाबदूअं बिहङ्गमिहुणं ?
कृष्णः (राधामवेक्ष्य) ः
सेवन्ते तरुगेहिनः सुमनसां वृन्दैर्मधुस्यन्दिभिर्
यत्रोत्फुल्ललतावधूभिरभितः सङ्गत्य भृङ्गातिथीन।
संवीता पशुभिस्तथा खगकुलैः खेलद्भिरव्याहतं
न स्यात्कस्य सुकण्ठि सेयमधिकानन्दाय वृन्दाटवी ॥३८॥
अथवा—
हरिणीर्विडम्बयसि नेत्रखेलया
ललितैर्लताः पिककुलं कलोक्तिभिः ।
शिखिनश्च कुन्तलकलापविभ्रमैर्
इति ते पुरः किमिव मे वनश्रिया ॥३९॥
वृन्दा ः पश्य पश्य—
विरतोर्मिरियं सुनीरजा
धृतशुद्धोज्ज्वलसत्त्वसन्ततिः ।
स्फुटकृष्णरुचिर्यमादृता
मुनिगोष्ठीव चकास्ति भनुजा ॥४०॥
कृष्णः ः प्रिये ! पश्य पश्य !
स्मितरुचिविराजितं ते
मुखमिव नीरजयत्यधीराक्षि ।
नीरजबान्धवदुहितुर्
नीरजराजी मरुद्भ्रमिता ॥४१॥
वृन्दा (परिक्रम्य नीरजान्याहृत्य च) ः पुण्डरीकाक्ष स्तोकोत्फुल्लमिदं गृहाण लीलापुण्डरीकम् । तथावतंसोचितं च कोकनदद्वन्द्वम् ।
कृष्णः (सहर्षमादाय) ः वृन्दे रक्तोत्पले राधाकर्णयोराधानेन श्रियं लभताम् । (इति तथा कृत्वा सकौतुकम्) हन्त पुण्डरीककोसे चञ्चरीको वर्तते ।
वृन्दा ः
मधुपः कमलेन सार्धमुद्यन्
मकरन्देन मुकुन्दमाससाद ।
सरसेषु विनिर्मितो हि सङ्गः
परमानन्दभरोन्नतिं तनोति ॥४२॥
कृष्णः ः प्रिये ! पश्य पश्य !
अस्मिन्मदीयकरसङ्गिनि पुण्डरीक
कोषे क्षणं किल विलम्ब्य शिलीमुखोऽयम् ।
कर्णावलम्बि तव कोकनदं प्रपेदे
कं वा बलान्न हि हरत्यनुरागलक्ष्मीः ॥४३॥
(
राधिका सम्भ्रमं नाटयन्ती भुजलतां क्षिपति ।)
कृष्णः (स्फुटं विहस्य) ः
कर्णोत्तंसितरक्तपङ्कजजुषो भृङ्गीपतेर्झङ्क्रिया
भ्रान्तेनाद्य दृगञ्चलेन दधती भृङ्गावलीविभ्रमम् ।
त्रासान्दोलितदोर्लतान्तविलसच्चूडाझणत्कारिणी
राधे व्याकुलतां गतापि भवती मोदं ममाधास्यति ॥४४॥
राधिका (सत्रासं चेलाञ्चलमुदञ्चयन्ती) ः अज्जबि कधं न चलदि धिट्ठो ।
कृष्णः ः
मधुराक्षि मुधाद्य सम्भ्रमेण
क्षिप चेलाञ्चलमञ्जसा न भूयः ।
पिबतु श्रवणोत्पलोद्गतं ते
मधुपोऽयं मधुमङ्गलं कृशाङ्गि ॥४५॥
मधुमङ्गलः ः भो बास्स ! कीस बह्माणं मं महुबेण पिबाएसि ? (
इति दण्डेन भ्रमरं ताडयति ।)
राधिका (सश्लाघम्) ः अज्ज पिअङ्करो ममासि संबुत्तः ।
मधुमङ्गलः ः कहं महुसूअनो तक्कालं जेब्ब तिरोहिदो जं कुदो बि ण लक्खिज्ज{
इ}
।
राधिका (सव्यमोहम्) ः हद्धी हद्धी । कहिं गदो महुमहनो ? (
इति संस्कृतेन)
समजनि दवाद्वित्रस्तानां किमार्तरवो गवां
मयि किमभवद्वैगुण्यं वा निरङ्कुशमीक्षितम् ।
व्यरचि निभृतं किं वाहूतिः कयाचिदभीष्टया
यदिह सहसा मामत्याक्षीद्वने वनजेक्षणः ॥४६॥
(
कृष्णः संज्ञया सर्वान्निवार्य स्मितं करोति ।)
राधिका (संस्कृतेन) ः हन्त—
वासन्तीभिरयं न मे कचभरः कंसारिणोत्तंसितस्
तस्योरःस्थलचुम्बिचम्पकचयैर्नागुम्फि माल्यं मया ।
मल्लीभिश्च निरर्गलं परिहसन्नायं बलात्ताडितः
प्रारम्भेऽद्य वनोत्सवस्य विरहच्छद्मा दवः प्रोदगात॥४७॥
वृन्दा (अपवार्य) ः काममन्धं कारिणीयं प्रेमबन्धकन्दली या खलु विस्पष्टमपि नानुसन्धापयति ।
राधिका ः सहि बुंदे,
रक्खेहि मम् । (इति त्रासं नाटयन्ती ।)
सप्पी सप्प{
इ}
भिङ्गपंतिमिसदो काली रसालाङ्कुरे
रत्तासोअसिरे बिरेह{
इ}
तधा पुप्फच्छलादो सिही ।
सिङ्गे किंसुअसाहिणो अ कलिआदम्भेण सम्भेदिणी
मं भेदुं कुसुमाउहस्स बल{
इ}
कुराद्ध चन्दाअली ॥४८॥
(
इति वैवश्यं नाटयति ।)
कृष्णः (सम्भ्रमादभ्युपेत्य पाणिं गृह्णन्नुच्चैह्) ः सुकुमरि,
किमकाण्डे कातरासि ?
यतः—
त्वन्मुखलक्ष्मीग्लपिता
चन्द्रावलीरिह बिभेति पूर्णापि ।
प्रणयान्धे तव कर्तुं
किमर्धचन्द्रावली क्षमते ॥४९॥
राधिका (सधैर्यं लज्जं नाटयन्ती स्वगतम्) ः कधमच्छिलग्गं ज्जेब्ब हारिदं मण्णंती खिण्णह्मि ?
कृष्णः ः प्रिये ! पश्य पश्य !
परिणतवरबीजस्पर्धिदन्तोरुभासः
कुसुममुपहसन्त्यास्तन्वि दन्तच्छदेन ।
फलविजयिकुचायास्त्वद्भयाद्दाडिमीयं
मृदुलपवनदोलादम्भतः कम्पतेऽद्य ॥५०॥
वृन्दा ः सखि राधे,
निर्वर्णय तव कर्णिकोचितकोरकं कर्णिकारममुम् ।
राधिका ः णाकण्णिआरकुसुमे भमरो रसलोहणिच्चलो भादि ।
कृष्णः ः काञ्चनमञ्चनिविष्टो रसराजोऽयं शरीरीव ॥५१॥
राधिका ः पेक्ख पेक्ख—
उद्धूरमारंदमत्ता
रुद्धे सारेण गंधविसारेण ।
इह मञ्जुलमल्लिगेण
रोलम्बा हंत गुञ्जंति ॥५२॥
(
कृष्ण उद्धूरमकरन्देत्यादि पठति ।)
वृन्दा ः पीतातिसूक्ष्मशिखर चम्पककलिकेयमायता भाति ।
कृष्णः ः मानवतीहृन्मथनी हैमी कामस्य शक्तिरिव ॥५३॥
मधुमङ्गलः ः भो बास्स एस कमस्स सत्ति न होइ । पेक्ख जडिलाखित्त स हरिअलगोरि ल{
उ}
दिअ ।
(
प्रविश्य) जटिलाः अरे जिह्म बह्मण ! एत्थ ल{
उ}
डी मए बिसुमरिदा ।
राधिका (अपवार्य सभयम्) ः सहि,
परित्ताहि परित्ताहि ! एसा कालरत्तीब्ब दारुणी बुड्ढिया मं दिट्ठवदी । (इति ललितावृन्दाभ्यं निष्क्रान्ता ।)
कृष्णः (अपवार्य) ः
मम सङ्गमामृतरसं
न जिघृक्षति न च जिहासति प्रकटम् ।
जटिलाव्याघ्रीचकिता
तृषिता राधाकुरङ्गीयम् ॥५४॥
मधुमङ्गलः ः भो सरमालङ्गुलकुडिले ! घेप्प अप्पणो जुट्ठिम् ।
जटिला (यष्टिमादाय) ः अरे सुबल,
कीस तुमं बहूदिआवेसेण मं सदा बिडम्बेसि ?
कृष्णः (स्वगतम्) ः दिष्ट्या सुबलतया ज्ञानमभूत। (प्रकाशं सनर्मस्मितम्) जटिले,
गुरुभ्यः शपमानोऽस्मि । राधिकैव साधयति । न खल्वसौ सुबलः ।
जटिलाः रे धुत्तबिअक्खणाहं सब्बं परिक्खिदुं खमह्मि । ता अलमेत्थ ठग्गत्तणेण । (इति निष्क्रान्ता)
कृष्णः ः सखे समागच्छ । गोकुलमेव प्रविशावः । (इति निष्क्रान्तौ)
(
इति निष्क्रान्ताः सर्वे ।)
इति श्रीविदग्धमाधवे
राधाप्रसादनो नाम
पञ्चमोऽङ्कः
॥५॥
****************************************************************
.
(
६)
षष्ठोऽङ्कः
श
रद्विहारः
(
ततः प्रविशति जटिला ।)
जटिला ः सुदं मए अज्ज पीअपडेण किदुत्तरीआ बहु घरे चिट्ठ{
इ}
। ता गदुअ जहत्थं णिद्धार{
इ}
स्सम् । (परिक्रम्य पश्यन्ती) कधमेसा विसाहा घुम्मिअ घुम्मिअ अलिन्दे पद{
इ}
। ता सद्द{
इ}
स्सम् । (इत्युपसृत्य) बिसाहे,
जादो एक्कप्पहरो तहबि घुम्मसि ।
(
प्रविश्य) विशाखा (स्वगतम्) ः सम्पदं रासमहूसबगब्बासु सब्बरीसु कुदो निद्दागन्धोबि अह्मानम् । ता जुत्तं जेब्ब घुम्मणम् । (इति हठाद्दृशौ विकाश्य प्रकाशम्) अज्जे अज्ज भावदीए निदेसेण देअदासदणे अह्मे दीण्णजाअर ह्म ।
जटिला (स्वगतम्) ः अहो जेब्ब प्पदोसे बहूए सेज्जा सुण्णा आसि । (प्रकाशम्) बिसाहे आआरेहि बहूअम् ।
विशाखा ः हला राहे इदो इदो ।
(
प्रविश्य) राधा (चक्सुसु विम्र्ज्य सजृम्भम्) बिसाहे बढं णिद्दाउलह्मि । (इति दृष्टिं दरोद्घाट्य सशङ्कं स्वगतम्) कधमिध ज्जेब्ब अज्जा ।
जटिला (राधां निर्वर्ण्य स्वगतम्) ः हद्धी हद्धी । सच्चं ज्जेब्ब एदं पीअम्बरम् ।
राधिका (जनान्तिकम्) ः हला सुदं मए सारङ्गीमुहादो जं निसीधे बुड्ढिआए तस्सिं बिलासपुलिणे गदमासि । ता णूणमह्मे तत्थ दिट्ठह्म ।
विशाखा ः नहु नहु । जं कधिदं बुंदाए तुमं घेत्तूण तिरोहिदे कह्ने तथा अह्मेसु दोसु सहीसु सशङ्कं तुह उद्देशस्स गदासु एसा बुड्ढी उबट्ठिदा ।
राधिका ः तदो कीस इअं कोहभाङ्करीए दिट्ठीए मं पेक्खंती चिट्ठदि ?
जटिला (सेर्ष्यम्) ः मिच्छाजप्पिणि बिसाहे किं णाम अंधासि तुमं ?
विशाखा (राधां विलोक्य सखेदं जनान्तिकम्) ः अ{
इ}
बिलासबिह्मले किं क्खु इदं ?
राधिका (स्वं वक्सो निरीक्ष्य ससम्भ्रमम्) ः हला तुमं जेब्ब सरणम् ।
विशाखा (जटिलामवेक्ष्य संस्कृतेन) ः
मुदा क्षिप्तैः पर्वोत्तरलहृदयाभिर्युवतिभिः
पयःपूयैः पीतीकृतमतिहरिद्राद्रवमयैः ।
दुकूलं दोर्मूलोपरि परिदधानां प्रियसखीं
कथं राधामार्ये कुटिलितदृगन्तं कलयसि ॥१॥
जटिला (सविश्रम्भम्) ः बिसाहे तुए ज्जेब्ब चञ्चलाए मम पुत्तघरं विणासिदं जं जोबणांधाणं गोईणं मज्झे बहूडिआ निज्ज{
इ}
।
विशाखा ः अज्जे किं त्ति मं तुममुबालहेसि ?
नमुबसण्णं दीअमालिआपब्बलच्छीमुबालहेहि जाए सब्बमाबालबुड्ढं गोउलं ज्जेब्ब उम्मादिदम् ।
जटिला ः वत्से सच्चं कहेसि । अज्ज रत्तिमि दिथ्थं मए सव्वॉ गोउलकिसोरिओ तत्थ पुलिने उम्मत्तिभविअ किं पि चिट्ठंदि ।
(
विशाखा सदृग्भङ्गं राधिकामीक्षते ।)
जटिला (सदैन्यम्) ः अ{
इ}
बिसाहे ! पसीद पसीद । एस अङ्गुलिसिहरं मुहे णिक्खिबिअ अब्भत्थेमि । ता ह्म एक्कमणुग्गहं करेहि ।
विशाखा (सप्रश्रयम्) ः अज्जे किं त्ति एब्बं भणासि ?
णिकाममाणबेहि ।
जटिला ः बच्छे तुमं बिसुद्धसि । ता कह्णस्स हत्थादो रक्खेहि बहूडिअम् ।
विशाखा ः अज्जे णिच्चिंता होहि,
जं ललिदा क्खु एत्थ दक्ख बिअक्खणा अ ।
जटिला ः कहिं गदा ललिदा ?
विशाखा ः पेक्ख,
प{
उ}
माए सममिध जेब्ब एसा आअच्छदि ।
जटिला ः अहमुप्पलिआ णिप्पादणस्स गमिस्सम् । (इति निष्क्रान्ता ।)
(
प्रविश्य पद्मया सह) ललिताः सहि प{
उ}
मे कुदो आअच्छसि ?
पद्मा ः हला कह्णस्स सऽसादो ।
ललिताः कहिं कह्णो ?
पद्मा ः मालदीबाडिआपेरंते ।
ललिताः किं कुणदि ।
पद्मा ः महुमङ्गलदुदिओ बिहरदि ।
ललिता (सपरिहासस्मितम्) ः हला,
किं णाम संपूरिदाहिट्ठासि ?
पद्मा (विहस्य) ः मा अण्णधा सम्भावेहि । मए मालदीसेहरो एक्को गण्ठिअ तस्स उबहारीकिदो । (स्मृतिमभिनीय) हला ! कधिदं मे कह्णेण—
प{
उ}
मे ! तुमं जधा संतदं मालं समप्पेसि,
एब्बं ललिदा बि मे विचित्तडाउलच्छिम् । ता एसा लेहापत्तिआ तुए तस्स हत्थे देआ त्ति । (इति पत्रिकामर्पयति ।)
ललिता (गृहीत्वा स्वगतम्) ः कदाबि कह्णस्स मए चाउरॉ ण समप्पिदोत्थि । ता एत्थ अबरेण केणाबि रहस्सेण होदब्बम् । (इति प्रकाशं पत्रिकां वाचयति ।)
त्वया मुक्तगिरिः पाणौ
ममातुच्छपदस्थितिः ।
निधीयतामधीराक्षि
रागिधातुपरिच्छदः ॥२॥
(
इति क्षणं विमृश्य स्वगतम्) राधा मम पाणौ निधीयताम् । एब्बं सङ्केदेण इमिणा आणत्तम् । (प्रकाशम्) सहि तथा करिस्सम् । ता अग्गदो राहिअमापुच्छिअ साहेहि ।
पद्मा (राधिकामुपेत्य सनर्मस्मितम्) ः हला राहे दिट्ठिआ निब्बिबादं जादम् । जधा गोउलिंदणंदणेण अह्माणमंसुआइमबहारिदाइं तधा अह्मेहिं पि तस्स इदं पीदंसुअम् ।
ललिता (स्मित्वा) ः अ{
इ}
णिल्लज्जि ! कुङ्कुमपङ्कपिञ्जरिदं पिअसहीए उत्तरीअं पेक्खिअ किं त्ति अनत्थमासङ्कसि ?
पद्मा (सस्मितम्) हला राहे अणुजाणीहि मम् । तुरीअं सहित्थलीं गदुअ कह्णस्स लीलां गाअंतिं पिअसहीं चन्दाअलीअं सुहाब{
इ}
स्सम् ।
विशाखा (विहस्य) ः प{
उ}
मे धण्णॉ तुह्मे जाहिमदंसणे बि कह्णस्स बिलासगीदिहिं पिअसही चन्दाअली सुहाबीअदि ।
पद्मा ः बिसाहे तुह्मेहिं कीस तथा न किज्ज{
इ}
।
विशाखा ः अ{
इ}
कुदो अह्मानमिदिसं भाआधेअं ?
पद्मा ः हला कधं णत्थि ?
विशाखा ः मुद्धे ! कह्णस्स णाममेत्ते पत्थुदे सही राहिआ बिक्खुब्भदि ।
पद्मा (स्वगतम्) ः सपक्खे पेमुक्करिसो इमाए बिक्खाबिदो । होदु । (प्रकाशम्) बिसाहे,
तुह्मे ज्जेब्ब सुट्ठु सुहिणीओ । अह्मानं क्खु का बि दुक्खदसा अनुबट्ठ{
इ}
।
ललिता ः प{
उ}
मे क्खु तुह्माणं किं पि दुक्खं सम्भविअदि ।
पद्मा ः हला ललिदे,
मा एब्बं भण । जं हारगण्ठणकेसपसाहणबिम्बाहररञ्जणपहुदीहिं चन्दाअलीए नेपच्छाइं सब्बदा कुणंतीणमह्मानं दुक्खजालस्स अंतो णत्थि ।
विशाखा (विहस्य) ः हला प{
उ}
मे ! सच्चं तुह्माणं बहूइं दुक्खाइम् । अह्मानमुण एक्कं ज्जेब्ब ।
पद्मा ः हला,
किं तं ?
विशाखा ः प{
उ}
मे जा का बि मच्चदुल्लहा आगासतारा प्पफुरदि । तत्थ जादाहिलासस्स कस्स बि कालिंदीकुलणंदिणो समदस्स गंधकलहींदस्स सब्बदा अब्भत्थणाकदत्थणम् ।
ललिता (स्मित्वा) ः बिसाहे,
अण्णं बि एक्कं गरुअं दुक्खं तुए कधं बिसुमरिदं ?
विशाखा ः ललिदे,
किं तं सुमराबेहि ।
ललिता ः अ{
इ}
उज्जुए राहीए पाअपल्लाह्मि जावाराअस्स क्खणे क्खणे बिराणम् ।
विशाखा (सहसम्) ः अलिआसङ्किणि ललिदे,
विरमेहि विरमेहि । कह्णस्स उत्तमंगे ढाउणं रॉ ज्जेब्ब रेहदि ण क्खु जावऽणम् ।
राधिका (सलज्जम्) ः हला प{
उ}
मे ! इमाणं दुम्मुहीणं प्पलाबमनाअण्णिअ तुण्णं पिअसहीं चंदाअलिअं ज्जेब्ब जाहि ।
पद्मा ः जध आदिसदि पिअसही । (इति निष्क्रान्ता ।)
ललिता (स्वगतम्) ः एह्निं कह्णस्स आण्णं करिस्सम् । (प्रकाशम्) हला राहे एहि । पुप्फमबचिणिअ भाबंतं सूरं पूअह्म ।
राधिका (स्वगतम्) ः दिट्ठिआ हिआट्ठिदो ज्जेब्ब मे कामो इमाए उबणीदो जं कह्णस्स दंसणमेत्थ सम्भवे । (प्रकाशम्) जधाहिरोअदि पिअसहीए । (इति निष्क्रान्ता ।)
(
ततः प्रविशति मधुमङ्गलेनोपास्यमानः कृष्णः ।)
कृष्णः ः
नवस्तवकवल्लरीचटुलगन्धवन्दीकृत
भ्रमद्भ्रमरझङ्कृतिप्लुतमुदग्रगुञ्जार्बुदम् ।
शरत्कृशकलिन्दजापुलिनवृन्दसंवर्धितं
परिस्फुरति चन्द्रकस्थगितमद्य वृन्दावनम् ॥३॥
(
पुनर्निभाल्य सानन्दम्)
शरदि मुखरिताशास्तारनादावलीभिर्
वलदविचलनेत्राः पश्य वृन्दावनेऽद्य ।
विदधति रणरङ्गं वासितासङ्गहेतोः
सरभसमुरुशृङ्गैः सङ्गवे पुङ्गवेन्द्राः ॥४॥
मधुमङ्गलः (सर्वतो विलोक्य) ः
तुह सङ्गमेण णूणं मुउन्द बुंदाडई घनच्छाआ ।
उअ दम्भेण कुरुण्डाभरस्स पीदम्बरं धर{
इ}
॥५॥
कृष्णः (स्वगतम्) ः किमद्य निष्टङ्कितसङ्केतलेखार्थय पूर्णमनोरथीकरिष्येऽहं ललितया । हन्त शारदमाधुरीसन्दोहसन्दालितपि वृन्दाटवीकक्षा खञ्जनाक्षिविप्रकर्षादानन्दबिन्दुमपि न मे सन्दधाति । तद्वेणुसङ्केतं सञ्चरयामि । (इति तथा कुर्वन्)
दिव्यो रथाङ्गि समयः सखि सङ्गमस्य
जज्ञे वराङ्गि तरसा कुरु पक्षपातम् ।
अध्वानमर्धनयनेन विलोकमानः
शोकादयं सहचरस्तव रौरवीति ॥६॥
मधुमङ्गलः ः भो बास्स,
किमेदमपूब्बं बादितं ?
कृष्णः ः सखे,
कुरङ्गीलोकनार्थं ममायमुद्यमः ।
मधुमङ्गलः ः सच्चं क्खु कधिदम् । किं तु एक्कमक्खरमण्णधा किअम् ।
कृष्णः ः सखे,
साधु विदितं कुरङ्गीलोचनार्थमेव ।
(
नेपथ्ये)
पिबन्तीनां वंशीरवमिह गवां कर्णचुलुकैः
पयह्पुरा दूराद्दिशि दिशि तथा शुश्रुवुरमी ।
अकाले पुष्प्यद्भिस्तरुभिरभितः शोभितमिदं
यथा वृन्दारण्यं दधिमयनदीमातृकमभूत॥७॥
कृष्णः ः सखे दक्षिणतः पश्य पश्य ।
तुङ्गस्ताम्रोरुशृङ्गः स्फुरदरुणखुरो रम्यपिङ्गेक्षणश्रीः
कण्ठव्यालम्बिघण्टो धरणिविलुठितोच्चण्डलाङ्गुलदण्डः ।
सोऽयं कैलासपाण्डुद्युतिरतुलककुन्मण्डलो नैचिकीनां
चक्रे भाति प्रियो मे परिमलतुलितोत्फुल्लपद्मः ककुद्मी ॥८॥
(
ततः प्रविशति सखीभ्यामनुगम्यमाना राधा ।)
राधा (स्वगतम्) ः जदो दिसादो वेणुसद्दो आअदो सा दिसा मोहिदाए मए ण भालिदा ।
ललिता (सोत्प्रासस्मितम्) ः हला राहिए,
कीस अकांडे हरिणकण्णीब्ब तुमं जादासि ?
राधिका ः ललिदे,
किं त्ति अप्पणो धम्मं परस्स अप्पेसि ?
सच्चं तुमं ज्जेब्ब हरिणी जं कलसद्देण हरिज्जन्ती दीससि ।
ललिता ः राहे,
तुमं क्खु हरिणी जं रङ्गिणी नाम हरिणी तुह्म सही ।
राधिका (स्वगतम्) ः दिट्ठिआ एसा काबि सोरब्भधारा पुरो बाडिआदो दूदीब्ब ममाअड्ढदि । (इति सव्याजं पुरः प्रयाति ।)
विशाखा (स्मित्वा) ः हला राहे ! कीस तुमं भिङ्गीब्ब किम्पि गंधं सप्पसि ।
राधिका ः बिसाहे ! अग्गदो फुल्लाइं कुसुमाइं दीसन्ती । ता एदाइं घेत्तूण तं मित्तं पूअ{
इ}
स्सम् ।
ललिता ः सच्चं मित्तस्य अणुराअं तुमं तरलेदि । सो दाब गहणचरस्स ज्जेब्ब न क्खु गाणचरस्स ।
राधिका (सप्रणयरोषम्) ः अ{
इ}
अदक्खिणे कमलबंधुं कधेमि ।
ललिता ः सहि,
कीस आआरं सङ्गोबेसि ?
विशाखा ः ललिदे,
सपत्तीभाएण ईसा च्चेअ सङ्गोबेदि,
ण उण पिअसही ।
राधा (सभ्रूभङ्गम्) ः अ{
इ}
वामे ! अत्तणो हिआट्ठिदमत्थं परमुण्डे कीस पाडेसि ?
ता तुबरेहि । जं णादिदूरे ज्जेब्ब सो तुह्माणं बिम्बाहरकण्डुखण्डणो ।
ललिता ः राहे,
आकोमारमह्माणमक्खडिदं कुलङ्गणाब्बदं बुंदाबणलदॉ ज्जेब्ब जाणेन्ति । ता आत्तणो मुहेण किं कध{
इ}
स्सह्म ?
राधिका (विहस्य) ः अ{
इ}
प{
इ}
ब्बदे ! जनेन्ति जनेन्ति । तदो ज्जेब्ब कल्लि तुह भुअबल्लिणो अङ्के सङ्कमिदं दिट्ठं मए मारकुण्डललञ्छणम् । तधा ज्जेब्ब विसाहाए तप्फतुलिओबरि प्फुडिदं सिहण्डकिरीडम् ।
ललिता (स्मित्वा) ः परपरिबादिनि ! अबेहि अबेहि ।
विशाखा ः राहे ! कित्तिअं झम्पिस्ससि ?
ण क्खु चन्दालोए चन्दकान्तसिला अप्पसिण्णा होदुं पहबदि ।
राधिका (पुरो सचमत्कारम्) ः ललिदे ! तुण्णमणुजाणेहि,
पलाइस्सम् । (इत्युत्कम्पते)
ललिता (सशङ्कम्) ः राधे,
कीस भाएसि ?
राधिका (साभ्यसूयम्) ः अ{
इ}
वङ्के ! अलमलिएण इमिणा उज्जुअत्तणेण । णूणमिमस्स लम्पडस्स हत्थे पक्खेदुं मं दूरमाणीदासि ।
ललिता (निपुणं निभाल्य स्वगतम्) ः णूणं दूरदो विलोइज्जन्तं तमालं ज्जेब्ब इअं कह्णं मन्नेदि । (प्रकाशम्) हुं,
दाणीं कधं पलाइस्ससि ?
लद्धो मए ओसरो । (इति राधामाकर्षति ।)
राधिका (सकातर्यम्) सहि बिसाहे ! परित्ताहि परित्ताहि । सरणाअदह्मि ।
विसखाः अ{
इ}
पेम्मुब्भमिदे ! कधं तिल्लोकं ज्जेब्ब दे कह्णएदि । पेक्ख एसो पलासी,
ण क्खु तुज्झ विलासी !
कृष्णः ः कथं नेदानीमपि प्रत्यासन्ना तन्वङ्गी ?
तन्मुरलीमीरयामि । (इति तथा कुर्वन्) ः
अयि सुधाकरमण्डलि मण्डय
त्वमटवीं मृदुपदविसर्पणैः ।
उदयशैलतटीनिहितेक्षणो
ननु चकोरयुवा परितप्यते ॥९॥
विशाखा (स्वयं धैर्यमवष्टभ्य) ः हला राहे ! कीस तुमं भमन्ति कलम्बमोलम्बेसि ?
ललिता ः सहि बंशिए ! बारं बारं तुमं बंदेमि,
जमुग्घाडिदरहस्सा तुए राही किदा ।
(
राधिका सलज्जमवहित्थं नाटयति ।)
ललिता (संस्कृतेन) ः
विशद्भिः कर्णान्ते तव विसृमरैरद्य मुरली
कलैरूरुस्थम्भो गुरुरजनि रम्भोरु तरसा ।
विलुप्ताभूद्दृष्टिर्नयनजलवृष्टिव्यतिकरैः
प्रणीताभिर्यत्नात्तदलमवहित्थलहरीभिः ॥१०॥
विशाखा ः ललिदे,
को दाणीमवहित्थाए ओसरो ? (
संस्कृतेन)
त्रपाभिचरणक्रमे परमसिद्धिराथर्वणि
अमरानलसमिन्धने सपदि सामिधेनिध्वनिः ।
तथात्मपरमात्मनोरुपनिषन्मयी सङ्गमे
विलासमुरलीभरा विरुतिरद्य वैरायते ॥११॥
राधिका (सक्षोभम्) ः सहि,
सच्चं कधेसि । अह्माणं वैरिणी संबुत्ता दारुणी बंसिआ,
ता उबालहिस्सम् । (इति संस्कृतेन)
सूतिस्ते धनुषश्च वंशवरतो वन्दे तयोरन्तिमं
विद्धे येन जनस्तनुं विहरयन्नान्तश्चिरं ताम्यति ।
विद्धानां हृदि मारपत्रिविषमैर्ध्वानेषुभिर्नस्त्वया
क्रूरे वंशी न जीवनं न च मृतिर्घोराविरासीद्दशा ॥१२॥
कृष्णः (पुरो विलोक्य सानन्दम्) ः
भविता सविधेऽत्र राधिका
यदियं रिङ्गति रङ्गिणी पुरः ।
मृगलञ्छनलेखयेव या
मृगमूर्तिर्न तया वियुज्यते ॥१३॥
(
पुनर्निरूप्य) सखे,
ज्ञतं ज्ञतम् । नासौ राधिकान्यङ्कुः ,
यद्निरङ्को नेदीयानिन्दुः । (इति विस्मयमभिनीय)
अङ्कात्परित्यज्य पुरः कुरङ्गं
शङ्के सुधांशुर्भुवमाससाद । (पुनर्निभाल्य)
आं ज्ञतमुत्फुल्लविलासवृन्दाइर्
आनन्दि राधावदनं चकास्ति ॥१४॥
(
इत्यग्रे सरति ।)
मधुमङ्गलः (सपरिहासम्) ः भो बास्स मा धव । लहु लहु जाहि । अहवा तुमं किं त्ति दुषिज्जसि जं धूत्तकिसोरीहिं दुट्ठमंतेण उम्मादिदो सि । ता इमस्सिं जोग्गे ओसरे तुमं निबारिअ सिणेहस्स णिक्किदं करिस्सम् । (इति पाणिमाददाति ।)
कृष्णः ः सखे,
साधु चेस्तसे यदद्य राधिकोपसर्पणे कम्पेन कृतविघ्नस्य मे दत्तहस्तावलम्बोऽसि । (इति परिक्रम्य)
इयमतितृषितं वरानुरगो
ज्वलसुमनाः कमनीयपत्रलेखाः ।
मम वरतनुराचकर्ष चित्तं
मधुपमशोकलतेव पुष्पिताग्रा ॥२६॥
राधिका (कृष्णमपाङ्गेन विलोक्य स्वगतं संस्कृतेन) ः
नवमनसिजलीलाभ्रान्तनेत्रान्तभजः
स्फुटकिशलयभङ्गीसङ्गिकर्णाञ्चलस्य ।
मिलितमृदुलमौलेर्मालया मालतीनां
मदयति मम मेधां माधुरी माधवस्य ॥२७॥
विशाखा (विहस्य संस्कृतेन) ः
वशीचक्रे कृष्णस्तव परिमलैरेव बलिभिर्
विलासानां वृन्दं कथमिव मुधा कन्दलयसि ।
जये पाणौ दत्ते रणपटुभिरग्रेसरभटैः
स्वयं को विक्रान्तिं पुनरिह जिगीषुः प्रणयति ॥२८॥
राधिका ः अ{
इ}
दुम्मुहि ! एत्तिअह्मि सङ्कडे ममारोबिअ अज्जबि ण बीसन्तासि । ता णिक्किबहिआं तुममुज्झिअ अहं सिणिद्धं पिअसहीं ललिदं चरणं पबिसामि । (इति तथा कृत्वा संस्कृतेन)
अत्रायान्तं चलमपि हरिं लोकयन्ती बलिष्ठां
तामालम्ब्य प्रियसखि घने नास्मि कुञ्जे निलीना ।
ललिता (सनर्मस्मितं संस्कृतेन)
अस्मान्मुग्धे हृदयनिहितादद्य पीताम्बरात्ते
शक्तो नान्यः कुचपरिचये मत्पुरो मा व्यथिष्ठाः ॥२९॥
कृष्णः (सानन्दम्) ः कल्याणि काले लब्धासि । (इति राधामुपसर्पति ।)
ललिता (साटोपं परिक्रम्य कृष्णं वारयन्ती) ः छ{
इ}
ल्ल ! णहु णहु एसा तुह्म परिहासजोग्गा अह्माणं पिअसही । ता अबेहि अबेहि ।
कृष्णः (सस्मितम्) ः ललिते,
नेदं गोष्ठाङ्गनम् । पश्य—
वृन्दाटवीकुक्षिरसौ । तन्नेह वः प्रभविष्णुता ।
ललिता ः कह्ण,
अण्णॉ तॉ क्खु मुद्धिऑ जॉ तुअत्तो बि सुट्ठु भाएन्ति । एसाह्मि पसिद्धा ललिदा ।
(
राधिका चलापङ्गेन कृष्णं विलोक्य कम्पं नाटयति ।)
ललिता ः राहे,
कीस सज्झसेण कम्पसि जमेसा जीअदि ललिदा ।
राधिका ः ललिदे,
गहिदाइं बन्धुगपुप्फाइम् । ता एहि,
कालिन्दीतीरं गच्छह्म ।
कृष्णः ः कठोरे ! कथमाहृतबन्धुजीवा दूरं गन्तुमुद्यतासि ? (
इति पन्थानमावृन्वन्)
परीतं शृङ्गेण स्फुटतरशिलाश्यामलरुचं
चलद्वेत्रं वंशव्यतिकरलसन्मेखलममुम् ।
अतिक्रम्योत्तुङ्गं धरणिधरमग्रे कथमितस्
त्वया गन्तुं शक्या तरणिदुहितुस्तीरसरणीम् ॥१९॥
राधिका (वक्रं विलोक्य हुं कुर्वती) ः णाअर मम दोसो णत्थि । दाणीमेसा गोउलेसरीमनुसरिस्सम् ।
कृष्णः ः राधे,
किं विभीषिकया । कामं गम्यताम् । तद्भुजमूलस्थं पीतदुकूलमेव ममानुकूलम् । (इति राधां दिधीर्षति ।)
राधिका (भ्रूकुटिमाबध्य संस्कृतेन) ः
साध्वीनां धूरि धार्या ललितासङ्गेन गर्विता चास्मि ।
हितमालपामि माधव पथि माद्य भुजङ्गतां रचय ॥२०॥
कृष्णः ः ललिते,
किमश्रावि वाग्भङ्गिरस्याः ?
तदहं नापराध्यामि । (इति भुजदण्डावुद्दण्डयति ।)
ललिता (राधां पृष्ठतः कृत्वा) ः कह्ण ! सब्बलोअसालहनिज्जगुणोबि तुमं गोउलिन्दस्स णन्दणो सि । ता णेदं दे दुल्लीलतणमह्मेसु जोग्गम् ।
मधुमङ्गलः ः अ{
इ}
गब्बिदे ! किं ति बुंदाअनं बिद्धंसिअ तुह्मेहिमह्म पिअबास्स पुप्फाइं हरिस्सन्ति ।
कृष्णः ः सखे तूर्णं गणयासां पुष्पाणि यथा तत्सङ्ख्यया कण्ठतो हरमणीनाहरामि ।
मधुमङ्गलः ः पिअबास्स ! किदं गणणम् । ता रत्ताणं पुप्फाणं परिवट्टेन प{
उ}
मरागाइं गेण्ह । पण्डुराणमुण हीरमौत्तिआइम् ।
कृष्णः ः सखे पर्यालोचयम् । नामूनि पुष्पमूल्यतुल्यानि । ततः कथमेभिरेव पर्याप्तिः ?
मधुमङ्गलः (सकाकुप्रपञ्चम्) ः बास्स ! एसो अनुगदो बह्मनो अब्भत्थेदि । ता इमेहिं ज्जेब्ब सन्तुट्ठो होहि ।
कृष्णः ः यथा ब्रवीषि,
वयस्य ।
ललिता (विहस्य) ः अज्ज स्सामिणो जोग्गो ज्जेब्ब अमाच्चो सि ।
विशाखा (सालीकसम्भ्रमम्) कह्ण,
दूरे चिट्ठेहि ।
कृष्णः ः कुटिले,
किमिति ?
विशाखा ः पेक्ख । संरम्भेण सङ्गरं गमिदा चन्दहासमुल्लासेदि अह्मपिअसही राहा ।
कृष्णः (स्मित्वा) ः मुग्धे पश्य । अहं च प्रपञ्चितगाढरोमाञ्चकञ्चुकोऽस्मि । तदयत्नं रामारत्नं हरिष्यामि । (इति राधामुपसर्पति ।)
ललिता (संरम्भमभिनीय) ः कह्ण,
पेक्खामि दे साहसम् । राहिआच्छाअं पि तुमं फंसेहि ।
कृष्णः ः सखे,
नूनं ललितारूपेण महाभैरवीयं प्रादुर्भूता ।
राधिका ः हला कल्लाणी होहि । (इति ललितां साकूटमालिङ्गति ।)
कृष्णः (जनान्तिकम्) ः ललिते,
विमुञ्च काठिण्यम् ।
ललिता ः उक्कोअं मे देहि ।
कृष्णः (स्मित्वा) ः ललिते सत्यं ते ब्रवीमि राधामपि विप्रलभ्य सायमनङ्गसङ्गरे त्वामेव प्रतिरीरयिष्ये ।
ललिता (सरोसं परावृत्य) ः अबेहि विदूसा अबेहि ।
कृष्णः ः कथयोत्कोचं यत्र ते तुष्टिः ।
ललिता ः णाअर ! पुप्फमग्गणरङ्गेण बुंदाबणं भम्मन्ती दूएदि मे पिअसही । ता दिब्बपुप्फेहिं णमलंकदुअ सुहाबेहि ।
कृष्णः (स्मित्वा) ः यथाभिरोचते तुभ्यम् । (इति परिक्रम्य दर्पारभटीं नाटयन्) ललिते,
बाढं विक्रुश्यताम् । न त्वां तृणाय मन्ये । (इति राधिकाहारमाक्रष्टुं करं प्रसारयति ।)
ललिता (वामं विलोक्य सस्मितम्) ः छ{
इ}
ल्ल ! सूरदेअपूजा किदे किदसिणाणं पिअसहीमकिदसिणाणो क्खु तुमं मा फंसेहि ।
कृष्णः ः अयि मदन्धे समन्तादुल्लसिनि प्रखेदम्बुपुरे मयि कथं कृतमहभिसेकं न पश्यसि ।
ललिता (राधामन्तरयन्ति समन्थर्यम्) हला उद्दण्डकलतमालघोलेन वनखन्देन इमस्स पान्दद दुसह किद । ता अह्मे हरं रक्खिदुं क्खणं सोम्म होह्म ।
मधुमङ्गलः ः हिहि निज्जिदॉ गब्बिदगिओविऑ । (इति न्र्त्यति) ः
राधिका ः अ{
इ}
मुद्धे ललिदे भावन्तस्स उवसनं तुए अज्ज किं विसुमरिदम् ।
मधुमङ्गलः ः एहि राहिए केअलं तुह्मे ज्जेब्ब उवसनं कुराधा त्ति मा गब्बएब्ब जमह्मेपि उवसनं करेह्म ।
विशाखा ः अज्ज किदिसं तम् ।
मधुमङ्गलः ः भोदि बिसाहे सुणाहि । गन्धपुप्फपुरस्सरं निउञ्जवेदिअमज्झे उज्जारनभुइत्थं तदेकग्गचित्तदाए कङ्कननं सद्दोवसनम् ।
(
सर्वाः स्मयन्ते) ः
मधुमङ्गलः (सस्लघं संस्कृतेन) ः
कृष्णः ः अयि मदान्धे ! समन्तादुल्लासिनि प्रस्वेदाम्बुपूरे मयि कथं कृतमहाभिषेकं न पश्यसि ?
ललिता (राधामन्तरयन्ती समान्थर्यम्) ः हला उद्दण्डकालतमालमण्डलघोलेण बणखण्डेण इमस्स पाण्डदा दुस्सहा किदा । ता अह्मे हारं रक्खिदुं क्खणं सोम्मा होह्म ।
विशाखा ः कीदिसं सोम्मा होह्म ?
मधुमङ्गलः ः हीही णिज्जिदॉ गब्बिदगोइऑ । (इति नृत्यति ।)
राधिका ः अ{
इ}
मुद्धे ललिदे ! भावन्तस्स उबासणं तुए अज्ज किं विसुमरिदं ?
मधुमङ्गलः ः देइ राहिए ! केअलं तुह्मे ज्जेब्ब उबासणं करेध त्ति मा गब्बाएध जमह्मे बि उबासणं करेह्म ।
विशाखा ः अज्ज कीदिसं तं ?
मधुमङ्गलः ः भादि बिसाहे,
सुणाहि । गन्धपुप्फपुरोसरं णिउञ्जबेदिआमज्झे उज्जाअरणभूइट्ठं तदेक्कग्गचित्तदाए कङ्कणणेउराणं सद्दोबासणम् ।
(
सर्वाः स्मयन्ते ।)
मधुमङ्गलः (सश्लाघं संस्कृतेन) ः
आडम्बरोज्ज्वलगतिर्वरकुञ्जरक्तः
स्वैरी परिस्फुरितपुष्करचारुहस्तः ।
धन्यासि सुन्दरि यया मृदुलं हसन्त्या
वन्दीकृतस्तरलबल्लवकुञ्जरोऽयम् ॥२१॥
कृष्णः ः प्रिये—
रुचिरसहचरीणां वीथिभिः सेव्यमाना
मदमृदुलमरालीरम्यलीलागतिः श्रीः ।
शशिमुखि गतनिद्रं कुर्वती मामिदानीं
शरदिव भवतीयं लोकलक्ष्मीं तनोति ॥२२॥
तदर्वाचीनेन हरिलावण्यशृङ्गारेण भवतीमलङ्कुर्वाणः शारदीं श्रियमवध्यायामि ।
मधुमङ्गलः (संस्कृतेन) ः
बालानुज कलापिनामवकलय्य कालज्ञतां
मनः किल बलीयसीं मम बिभर्ति विस्मेरतम् ।
यदद्य शरदागमे तव विलोक्य लीलोत्कटं
किरन्ति रुचिमण्डलीजुषममी शिखण्डावलीम् ॥२३॥
कृष्णः ः सखे ! साधु लक्षितं तन्मौलिकल्पनाय चन्द्रकानाहरामि । (इति बटुना सह तथा करोति ।)
राधिका ः सहि ललिदे ! जत्थ दिण्णभारा अहं णिच्चिन्तह्मि सा तुमं ज{
इ}
सोम्मासि तदो जाव कह्णो दूरे गदो ताव कङ्केल्लिकुडङ्गं पबेसिस्सम् । (इति तथा स्थिता ।)
कृष्णः ः सखे,
निर्मितं प्रचलाकशलाकाभिः किरीटं खञ्जरीटनेत्रायाः सीमन्तसीमनि विन्याससौभाग्यमालम्बताम् । (इति परिक्रम्य) ललिते,
क्व सा ते प्रियसखी ?
ललिता ः आत्तणो घरं गदा ।
कृष्णः ः निष्ठुरे,
तिष्ठ तिष्ठ । तूर्णमसौ ते धूर्ततागर्वमपहरामि । (इति समन्तात्पश्यन्सहर्षम्) वयस्य पश्य—
सहसेयमवाप्ता गौराङ्गी प्रिया । (इत्युपसर्पति ।)
मधुमङ्गलः (विहस्य) ः भो बास्स ! चक्कवादेण तिणाबट्टेण भामिदस्स दे अज्जबि णूणं भमो ण गदो । पेक्ख,
एसा पीदपराअपुञ्जपिञ्जरिदा त्थलणलिणी ।
कृष्णः (निरूप्य) ः सखे,
सत्यं ब्रवीषि । (इत्यन्यतो गत्वा) भो सखे,
पश्य कुङ्कुमाङ्गि निष्टङ्कितमिदानीमेव लब्धा । (इति दिधीर्षुः प्रधावति ।)
मधुमङ्गलः (सहस्ततलमुच्चैर्विहस्य) ः भो बास्स एत्थ तुज्झ अबराहो णत्थि । किंतु पेम्मलहरीए ज्जेब्ब । जाए सब्बा बुन्दाड{
इ}
राहिआ णिम्मिदा ।
कृष्णः (सवैलक्ष्यं विलोक्य) ः कथमुत्फुल्लेयं सहचरी । (पार्श्वतो विलोक्य) ललिताङ्गि ललिते,
इतो वाम्यपर्वतादवरोहन्ती कान्तारमितस्य ददस्व मे हस्तावलम्बम् ।
ललिता (स्मित्वा) ः सुन्दर,
विसाहं पुच्छेहि । एसा क्खु णं जाणादि । (इति संज्ञां नाटयती) ः
कृष्णः (सहर्षमपवार्य) ः सखे पश्य—
विशाखायाः परोक्षं किञ्चित्तिरोऽवलम्बन्ती ललिता भ्रूसंज्ञया कदम्बकुञ्जं सूचयति । तदत्र नास्ति मनागपि सन्दिग्धता । (इति परिक्रम्य सदर्पस्मितम्) प्रिये,
विलोकितासि । निर्गम्यताम् । (इत्युद्ग्रीविकं कृत्वा सहासम्) ललिते,
साधु साधु । जतं तव धूर्ततालतिकायाः साफल्यमिदम् ।
मधुमङ्गलः ः बास्स,
एसा मए ज्जेब्ब लद्धा तुह राहा ।
कृष्णः (सकौतुकम्) ः वयस्य,
ललितेव कच्चिदविश्रम्भणीयभणितिर्नास्ति ।
मधुमङ्गलः ः गाअत्तीए सबामि ।
कृष्णः (सविश्रम्भम्) ः सखे,
क्व सा दर्शय शीघ्रम् ।
मधुमङ्गलः ः तुह्म हत्थगदं ज्जेब्ब णं करेमि । ता देहि मे परितोसिअम् ।
(
कृष्णः सश्लाघं मालतीमालया मण्डयति ।)
मधुमङ्गलः ः घेप्पिज्ज{
उ}
एसा । (इति राधेति वर्णद्वयीभाजां पत्रलेखामर्पयति ।)
कृष्णः (स्मित्वा) ः सखे,
सत्यमनेनापि भवदर्पितेन तर्पितोऽस्मि । यतः—
क्रमात्कक्षामक्ष्णोः परिसरभुवं वा श्रवणयोर्
मनागध्यारूढं प्रणयिजनानामक्षरपदम् ।
कमप्यन्तस्तोषं वितरदविलम्बादनुपदं
निसर्गाद्विश्वेषां हृदयपदवीमुत्सुकयति ॥२४॥
(
इति परावृत्य दक्षिणतो विकाशन्तमशोकमवलोक्य सविस्मयम्)
शङ्के सङ्कुलितान्तराद्य निविडक्रीडानुबन्धेच्छया
कुञ्जे वञ्जुलशाखिनः शशिमुखी लीना वरीवर्ति सा ।
नो चेदेष तदङ्घ्रिसङ्गमविनाभावादकाले कथं
पुष्पामोदनिमन्त्रितालिपटलीस्तोत्रस्य पात्रीभवेत॥२५॥
राधिका (सप्रणयेर्ष्यम्) तुअत्तो भएण ज्जेब्ब पलाइदो ह्मि । एत्थ बि मं विदम्बेदुं लद्धोसि ।
कृष्णः (सात्मश्लाघम्) ः दृष्टा मे गभीरपटवारभटी यतस्तिरोधानविद्यापहारेण निर्जिता यूयम् ।
ललिता (संस्कृतेन) ः हन्त भो वाङ्मात्रजितकाशिन्!
अस्मिन्नेकसरोजसम्भवकृतस्तोत्रोऽसि वृन्दावने
राधा भूरिहिरण्यगर्भरचितप्रत्यङ्गकान्तिस्तवा ।
हस्तोदस्तमहिधरस्त्वमसकृन्नेत्रान्तभङ्गीच्छटा
कृष्टोच्चैर्धरणीधर मम सखी तद्वीर माहङ्कृथः ॥२६॥
कृष्णः ः ललिते,
निलीने मयि विलोकिते नातथ्यं तव विकत्थनं भवतिनं विदङ्करवनि ।
सर्वाः ः एब्बं होदु ।
कृष्णः ः इयमुत्तरस्चञ्चरीकसञ्चयरोचिरुल्लासिश्यामलपलाशगुच्छा दूरतस्तापिञ्छविच्छोली । तदेषा सवर्णतया सखीभावमापन्ना मामत्र सङ्गोपयिष्यति । (इति सवयस्यो निष्क्रान्तः ।)
ललिता ः हला रहे,
कह्णस्स अदंसणेण मा उत्तम्म । णं दिट्ठं जेब्ब जाणेहि । ता विजुत्त अह्मे सब्बदो पसप्पह्म ।
राधिका ः जधा भणादि पिअसही ।
(
इति तिस्रस्तथा कुर्वन्ति ।)
राधिका (उत्तरां वनलेखामासाद्य सविमर्शम्) ः णूणं कह्णो एत्थ पत्तो हुबिस्सदि जं मं पेक्खन्तो दक्खिणं प{
इ}
ट्ठो । (इति परिक्रम्य संस्कृतेन)
स हरिति भवतीभिः स्वान्तहारी हरिण्यो
हरिरिह किमपाङ्गातिथ्यसङ्गी व्यधायि ।
यदनुरणितवंशीकाकलीभिर्मुखेभ्यः
सुखतृणकवला वः सामिलीढाः स्खलन्ति ॥२७॥
(
पुरोऽभ्युपेत्य समन्तात्पश्यन्ती संस्कृतेन)
यदगलितमरन्दं वर्तते शाखिवृन्दं
मिलति च यदलब्धप्रेमघूर्णा खगाली ।
तदिह नहि सिखण्डोत्तंसिनी सा प्रविष्टा
निखिलभुवनचेतोहारिणी कापि विद्या ॥२८॥
(
इति सव्यतः परिक्रम्य संस्कृतेन)
विघूर्णन्तः पौष्पं न मधु लिहतेऽमी मधुलिहः
शुकोऽयं नादत्ते कलितजडिमा दाडिमफलम् ।
विघूर्णा पर्णाग्रं चरति हरिणीयं न हरितं
पथानेन स्वामी तदिभवरगामी ध्रुवमगात॥२९॥
(
पुरो गत्वा) एसा बामदो काली तमालाली दीस{
इ}
। (इति साचिकन्दरं निभाल्य संस्कृतेन)
नैसर्गिकान्यपि निरर्गलचापलानि
हित्वाद्य सङ्कुलतनुः पुलकाङ्कुरेण ।
दृष्टिं चिरेण परिरब्धतमालशाखा
शाखामृगीततिरियं किमधस्तनोति ॥३०॥
ता एसा मञ्जुला ताबिञ्छणिउञ्जसालिआ पेक्खिदब्बा ।
(
प्रविश्य) कृष्णः (स्वगतम्) ः सत्यमस्याश्चित्तचत्वरसङ्गत्वरी प्रेमावलिरेव मदुद्देशदूती । यदविलम्बितं विज्ञातभूयिष्ठोऽस्मि संवृत्तः । ततः स्थाणुरिव निश्चलं तिष्ठामि । (इति तथा स्थितः ।)
राधिका (मूर्धानमानमय्य कृष्णं पश्यन्ती सव्याजम्) एत्थ कह्णो णत्थि ।
कृष्णः (स्वगतम्) ः दिष्ट्या न दृष्टोऽस्मि ।
राधिका (सस्मितम्) एसो णीलमणिकीलो ज्जेब्ब रेहदि ।
कृष्णः ः नूनं घनान्धकारतो नाहं प्रत्यभिज्ञातः ।
राधिका ः अह्महे उज्जलदा इन्दणीलकीलस्स ।
कृष्णः (सहर्षमपवार्य) ः
रे ध्वान्तमण्डल सखे शरणागतोऽस्मि
विस्तारयस्व तरसा निजवैभवानि ।
अभ्यासमभ्युपागतापि मुहुर्यथासौ
नवैति मां नवकुरङ्गतरङ्गिनेत्रा ॥३१॥
राधिका (स्मित्वा) ः अच्चरिअमच्चरिअम् । इमस्स नीलोबलस्स अन्तराले पडिबिम्बिदा चंदाअली लक्खीअदि ।
कृष्णः (स्मितं कृत्वा स्वगतम्) कथं संविदाना खलु नर्मातनोति । (इत्युत्थाय प्रकाशम्) प्रिये सत्यमात्थ । यदयं त्वदास्यचन्द्रो मे हृद्वृत्तितरङ्गेषु बिम्बितश्चन्द्रावली बभूव ।
राधिका ः अम्महे कहं तुमं जेब्ब । तदो नेदमच्चरिअम् ।
कृष्णः ः विलासिनि ! किमनेन विश्लेषसम्पाद्येन केलिनर्मणा । तदेहि । दानगन्धिना कुसुमवृन्देषु पूर्णमूर्धनि सप्तपर्णकुञ्जे क्षणं विश्रम्य सौख्यमनुभवावः । (इति तथा स्थितौ ।)
ललिता ः विसाहे,
पेक्ख । कह्णेण सङ्गदा पिअसही । जं तस्स पदेहिं सम्मिलिदाइमेदाए पदाइं दिसन्ति ।
विशाखा (पदाङ्काननुसृत्य संस्कृतेन) ः
प्रियसखि परिरम्भानाभिमुख्यानुबन्धाद्
असदृशविनिवेशान्नर्मलौल्योर्जितानि ।
इयमविषममन्दन्यासतो जल्पगोष्ठीं
पदततिरिह राधाकृष्णयोरातनोति ॥३२॥
मधुमङ्गलः ः घेप्पिज्ज{
उ}
एसा । (इति राधेति वर्णद्वयीभाजां पत्रलेखामर्पयति ।)
कृष्णः (स्मित्वा) ः सखे सत्यमनेनापि भवदर्पितेन तर्पितोऽस्मि । यतः—
क्रमात्कक्षामक्ष्णोः परिसरभुवं व श्रवणयोर्
मनागध्यारूढं प्रणयिजनानामक्षरपदम् ।
कमप्यन्तस्तोषं वितरदविलम्बादनुपदं
निसर्गाद्विश्वेषां हृदयपदवीमुत्सुकयति ॥२४॥
(
इति परावृत्य दक्षिणतो विकाशन्तमशोकमवलोक्य सविस्मयम्)
शङ्के सङ्कुलितान्तराद्य निविडक्रीडानुबन्धेच्छया
कुञ्जे वञ्जुलशाखिनः शशिमुखी लीना वरीवर्ति सा ।
नो चेदेष तदङ्घ्रिसङ्गमविनाभावादकाले कथं
पुष्पामोदनिमन्त्रितालिपटलीस्तोत्रस्य पात्रीभवेत॥२५॥
राधिका (सप्रणयेर्ष्यम्) तुअत्तो भएण ज्जेब्ब पलाइदो ह्मि । एत्थ बि मं विदम्बेदुं लद्धोसि ।
कृष्णः(सात्मश्लाघम्) ः दृष्टा मे गभीरपटवारभटी यतस्तिरोधानविद्यापहारेण निर्जिता यूयम् ।
ललिता (संस्कृतेन) ः हन्त भो वाङ्मात्रजितकाशिन्!
अस्मिन्नेकसरोजसम्भवकृतस्तोत्रोऽसि वृन्दावने
राधा भूरिहिरण्यगर्भरचितप्रत्यङ्गकान्तिस्तवा ।
हस्तोदस्तमहिधरस्त्वमसकृन्नेत्रान्तभङ्गीच्छटा
कृष्टोच्चैर्धरणीधर मम सखी तद्वीर माहङ्कृथः ॥२६॥
कृष्णःः ललिते,
निलीने मयि विलोकिते नातथ्यं तव विकत्थनं भवतिनं विदङ्करवनि ।
सर्वाःः एब्बं होदु ।
कृष्णःः इयमुत्तरस्चञ्चरिकसञ्चयरोचिरुल्लसिस्य्मलपलसगुलुछ्ह दुरतस्तपिच्छविच्छोलि । तदेस सवर्णतय सखिभवमपन्न ममत्र सङ्गोपयिस्यति । (इति सवयस्यो निष्क्रान्तह्) ।
ललिताः हला रहे कह्णस्स अदम्सनेन मा उत्तम्म । नं दित्थं जेब्ब जनेहि । ता विजुत्त असब्बदो उपसप्पह्म ।
राधिका ः जध भनदि पिअसही ।
(
इति तिस्रं तथा कुर्वन्ति) ।
राधिका(उत्तरां वनलेखामासाद्य सविमर्शम्) ः ण्ञ्णं कह्णो एत्थ पत्तो हुबिस्सदि जं मं पेक्खन्तो दक्खिणं प{
इ}
ट्ठो । (इति परिक्रम्य संस्कृतेन)
स हरिति भवतीभिः स्वान्तहारी हरिण्यो
हरिरिह किमपाङ्गातिथ्यसङ्गी व्यधायि ।
यदनुरणितवंशीकाकलीभिर्मुखेभ्यः
सुखतृणकवला वः सामिलीढाः स्खलन्ति ॥२७॥
(
पुरोऽभ्युपेत्य समन्तात्पश्यन्ती संस्कृतेन)
यदगलितमरन्दं वर्तते शाखिवृन्दं
मिलति च यदलब्धप्रेमघूर्णा खगाली ।
तदिह नहि सिखण्डोत्तंसिनी सा प्रविष्टा
निखिलभुवनचेतोहारिणी कापि विद्या ॥२८॥
(
इति सव्यतः परिक्रम्य संस्कृतेन)
विघूर्णन्तः पौष्पं न मधु लिहतेऽमी मधुलिहः
शुकोऽयं नादत्ते कलितजडिमा दाडिमफलम् ।
विघूर्णा पर्णाग्रं चरति हरिणीयं न हरितं
पथानेन स्वामी तदिभवरगामी ध्रुवमगात॥२९॥
(
पुरो गत्वा) एसा बामदो काली तमालाली दीस{
इ}
। (इति साचिकन्दरं निभाल्य संस्कृतेन)
नैसर्गिकान्यपि निरर्गलचापलानि
हित्वाद्य सङ्कुलतनुः पुलकाङ्कुरेण ।
दृष्टिं चिरेण परिरब्धतमालशाखा
शाखामृगीततिरियं किमधस्तनोति ॥३०॥
ता एसा मञ्जुला ताबिञ्छणिउञ्जसालिआ पेक्खिदब्बा ।
(
प्रविश्य) कृष्णः (स्वगतम्) ः सत्यमस्याश्चित्तचत्वरसङ्गत्वरी प्रेमावलिरेव मदुद्देशदूती । यदविलम्बितं विज्ञातभूयिष्ठोऽस्मि संवृत्तः । ततः स्थाणुरिव निश्चलं तिष्ठामि । (इति तथा स्थितः ।)
राधिका (मूर्धानमानमय्य कृष्णं पश्यन्ती सव्याजम्) एत्थ कह्णो णत्थि ।
कृष्णः (स्वगतम्) ः दिष्ट्या न दृष्टोऽस्मि ।
राधिका (सस्मितम्) एसो णीलमणिकीलो ज्जेब्ब रेहदि ।
कृष्णःः नूनं घनान्धकारतो नाहं प्रत्यभिज्ञातः ।
राधिका ः अह्महे उज्जलदा इन्दणीलकीलस्स ।
कृष्णः (सहर्षमपवार्य) ः
रे ध्वान्तमण्डल सखे शरणागतोऽस्मि
विस्तारयस्व तरसा निजवैभवानि ।
अभ्यासमभ्युपागतापि मुहुर्यथासौ
नवैति मां नवकुरङ्गतरङ्गिनेत्रा ॥३१॥
राधिका (स्मित्वा) ः अच्चरिअमच्चरिअम् । इमस्स नीलोबलस्स अन्तराले पडिबिम्बिदा चंदाअली लक्खीअदि ।
कृष्णः (स्मितं कृत्वा स्वगतम्) कथं संविदाना खलु नर्मातनोति । (इत्युत्थाय प्रकाशम्) प्रिये सत्यमात्थ । यदयं त्वदास्यचन्द्रो मे हृद्वृत्तितरङ्गेषु बिम्बितश्चन्द्रावली बभूव ।
राधिका ः अम्महे कहं तुमं जेब्ब । तदो नेदमच्चरिअम् ।
कृष्णःः विलासिनि ! किमनेन विश्लेषसम्पाद्येन केलिनर्मणा । तदेहि । दानगन्धिना कुसुमवृन्देषु पूर्णमूर्धनि सप्तपर्णकुञ्जे क्षणं विश्रम्य सौख्यमनुभवावः । (इति तथा स्थितौ ।)
ललिताः विसाहे,
पेक्ख । कह्णेण सङ्गदा पिअसही । जं तस्स पदेहिं सम्मिलिदाइमेदाए पदाइं दिसन्ति ।
विशाखा (पदाङ्काननुसृत्य संस्कृतेन) ः
प्रियसखि परिरम्भानाभिमुख्यानुबन्धाद्
असदृशविनिवेशान्नर्मलौल्योर्जितानि ।
इयमविषममन्दन्यासतो जल्पगोष्ठीं
पदततिरिह राधाकृष्णयोरातनोति ॥३२॥
कृष्णः ः प्रिये,
नातिदूरे कोमलोऽयं कञ्चिध्वनिरुदञ्चति । ततस्तूष्णीं शृणुवः ।
विशाखा ः हला बित्थिण्णवल्लिमण्डलकुण्डलिदे बि बणखण्डे पिअसहीए कधं कह्णो तुरितं लद्धो ?
ललिता ः
गुरुअं रम{
इ}
जहिं जो ण तस्स सो होइ दुल्लहो भुअणे ।
म{
उ}
लओह्मि रसाले कलकण्ठी तक्खणं मिल{
इ}
॥३३॥
कृष्णः ः प्रिये,
प्रत्यासन्ने तव सख्यौ । तदुभे परिहसिष्यन्नन्तरितो भवामि । (इति तथा स्थितः ।)
ललिता (परिक्रम्य पुरो राधामालोक्य च सहर्षम्) ः हला,
कुदो सो णाअरो ?
राधिका (सस्मितम्) ः का क्खु तं जाणादि ?
ललिता (सनर्मस्मितं संस्कृतमाश्रित्य) ः
कचा मुक्ता मुक्तावलिरपि ययौ निर्गुणदशां
विशुद्धं ते दन्तच्छदयुगमभूद्दान्तहृदये ।
अबन्धासीत्काञ्ची तदिव सखि युक्तासि हरिणा
सतीनां वः कृत्यं किमुचितमिदं गोकुलभुवम् ॥३४॥
कृष्णः (पुरोऽनुसृत्य) ः ललिते,
नाहमपराध्यामि सख्यै । वने सङ्गोपितोऽस्मि ।
ललिता ः किं त्ति पिअसहीए सङ्गोबणिज्जो तुमं ?
कृष्णः ः सुन्दरि,
निजकन्दर्पकलाप्रागल्भ्यस्यापलापाय । (इत्यङ्गुल्या दर्शयन्) पश्य पश्य—
कठोराग्रैर्भूयो व्रणमजनयद्वक्षसि नखैर्
बलादाक्रामन्ती व्यकिरदपि मां पिञ्छरचनाम् ।
विकृष्य छिन्नाङ्गीमकृतवनमालां च रुचिराम्
इदानीं जानीते न किमपि पुरस्ते प्रियसखी ॥३५॥
राधा (सापत्रपम्) ः हुमप्पणा कदुअ परं दूसेदुं पत्तिदोसि ।
(
नेपथ्ये) जटिला फुडमञ्जरीहिम् (इत्यर्धोक्ते)
राधिका (सत्रासम्) ः अच्चहिदमच्चहिदम् । भाङ्करी बुड्ढिआ । ता तुरिअं पलाएह्म । (इति सखीभ्यां सह निष्क्रान्ता ।)
(
पुनर्नेपथ्ये) ः बिहूतिमन्ता पराअपुञ्जेण हरभट्टा बिअ सबाए प्फुरन्ति सत्तच्छदप्पारा ।
कृष्णः (सवैलक्ष्यम्) ः हन्त हन्त सप्तपर्णं वर्णयता जटिलेति कटूद्गारेण बतुना कदर्थितोऽस्मि । तदग्रे सुहृन्मण्डलमेव प्रयामि । (इति निष्क्रान्तः ।)
इति श्रीविदग्धमाधवे
शरद्विहारो नाम
षष्ठोऽङ्कः
॥६॥
******************************************************************
.
(
७)
सप्तमोऽङ्कः
गौरीविहारः
(
ततः प्रविशति वृन्दा ।)
वृन्दा (समन्तादवलोक्य) ः
कदम्बालीजृम्भापरिमलभरोद्गारिपवना
स्फुटद्यूथी यूथीकृतमधुपगानप्रणयिनी ।
नटत्केकीस्तोमा मृदुलयवसश्यामलिमभूस्
तपान्तेऽद्य स्वान्तं मम रसयति द्वादशवनी ॥१॥
(
नेपथ्ये दृष्टिं निक्षिप्य) कथमसौ पौर्णमासी निजपर्नकुतिरोपान्तवटिकायामभिमन्युना सङ्कथयन्ती वर्तते । तदहं क्षणमत्रैव तिष्ठेयम् ।
(
प्रविश्य तथाभूता) पौर्णमासी ः वत्साभिमन्यो ! किमर्थं प्रातरेवाहमुपसादितास्मि ?
अभिमन्युः ः भाबदि,
तुज्झ आणं गेह्णिदुम् ।
पौर्णमासी ः कस्मिन्नर्थे ?
अभिमन्युः ः बारिसहनविए महुरापत्थाने ।
पौर्णमासी (सव्यथम्) ः कस्तत्र हेतुः ?
अभिमन्युः ः दोण्णं राहामाहवाणं चाबलं जेब्ब ।
पौर्णमासी ः वीर ! केन तवेदं वर्णितं ?
अभिमन्युः ः पिअबास्सेन गोबड्ढनेन ।
पौर्णमासी ः वत्साभिमन्यो ! चतुरंमन्योऽपि त्वमनार्यबुद्धिरसि । येन भोजेन्द्र वल्लभस्य कौटिल्यचक्रेण विभ्रम्यसे ।
अभिमन्युः ः अदिपसिद्धा एसा प{
उ}
त्ती केण वा ण कहिज्ज{
इ}
।
पौर्णमासी ः पुत्र ! नूनं कर्णेजपानामुपजापेन लुप्तविवेकोऽसि । तदाकर्णय ।
अभिमन्युः ः आणबेहि ।
पौर्णमासी ः वत्स ! येन लावण्यगन्धलवलुब्धेन कंसशार्दूलेन स्वयमेव राधामृगी मृग्यते । तस्य दारुणस्य कंसशार्दूलस्य हस्तोपरि न्याय्यः कथमस्याः प्रक्षेपः ?
अभिमन्युः ः भावदि ! तत्थ का चिन्ता ?
सो क्खु कुसली होदु सुहित्तमो गोबड्ढनो जेण विज्जामाहुरीहिं महुरिन्दो बसिकीओ ।
पौर्णमासी (सखेदं क्षणमनुध्याय) ः हंहो धन्यानां मूर्धन्य ! गोविन्दमातुर्मातुलेयोऽसि । कथमल्पायुषां गोकुलद्वेषिणां मण्डलपातितामालम्बसे । तदद्य कयापि मर्यादया त्वं पर्यापयितुमिच्छामि ।
अभिमन्युः ः आणबेदु तत्थहोदि ।
पौर्णमासी ः वत्स,
सा काचिन्मत्सरकल्पितापि किंवदन्ती यदि त्वया नातथ्यतया प्रतीयते ततः स्वयमेव चक्षुषोरपरोक्षीकृत्य यथेष्टं चेष्टनीयम् ।
अभिमन्युः (सप्रश्रयम्) ः भावदि सिरोगहिदं दे निदेसकुसुमम् ।
पौर्णमासी (सानन्दम्) ः सोमानन,
गोमानत्र भूयः ।
अभिमन्युः ः भावदि,
अम्ब मं पुणो पुणो भणादि—
पुत्त चन्दाअलीचण्डिआच्चणेण गोअड्ढनो जहात्थणामा संबुत्तो । ता बहुडिया तत्थ दिक्खा किज्ज{
उ}
त्ति ।
पौर्णमासी ः मङ्गलमते ! सर्वमङ्गलाराधाने दीक्षितमविलम्बमेव वार्षभानवीं विद्धि ।
अभिमन्युः ः भावदि,
अणुकम्पिदोह्मि । (इति निष्क्रान्तः) ः
वृन्दा (परिक्रम्य) ः वन्दे भगवतीम् ।
पौर्णमासी (विलोक्य शुभाशीर्भिरभिवन्द्य च) ः वत्से कामं कृतार्थासि । तदावेदय राधामाधवयोर्निकुञ्जकेलिमाधुरीम् ।
वृन्दा ः
सर्वस्वं प्रथमरसस्य यः प्रथीयान्
कंसारेरुदयति राधाय विलासः ।
वक्तुं को विरमति तं जनः समन्ताद्
आनन्दस्तिरयति चेद्गिरां न वृत्तिम् ॥२॥
पौर्णमासी (सानन्दम्) ः पुत्रि वृन्दे !
हरिरेष न चेदवातरिष्यन्
मथुरायां मधुराक्षि राधिका च ।
अभविष्यदियं वृथा विसृष्टिर्
मकराण्कस्तु विशेषतस्तदात्र ॥३॥
तदद्य गोष्ठमध्ये तवोपसत्तिर्मां विस्मापयति ।
वृन्दा ः भगवति त्वरते कोऽपि मां गरीयानर्थः । तदत्र ललितामपेक्षमानास्मि ।
पौर्णमासी ः कीदृशोऽयं ?
वृन्दा ः पूर्वेद्युरादिष्टास्मि गोविन्देन,
यथा—
आहर गौरीतीर्थे,
मधुश्रियं तत्र रन्तुमिच्छामि ।
पद्मावलम्बिकरया,
प्रियया पद्मावतंसिकया ॥४॥
पौर्णमासी ः युक्तमादिष्टम्,
यदद्य सौभाग्यपूर्णिमा । तथा हि—
प्रसूनैरद्भुतैः कान्ता
कान्तेन श्रावणीदिने ।
प्रसाधिता प्रसिद्धेन
सौभाग्येन विवर्धते ॥५॥
ततस्ततः ?
वृन्दा ः ततश्च तद्वृत्ते शारिकामुखतः सखीसंसदि सञ्चारिते पद्यार्थतस्तर्कितराधार्थसिद्धिरपि पद्मा ललितां कतक्षयन्ती हथादवादीत्—
उत्फुल्लमूर्तेः सममुल्लसन्त्यास्
चन्द्रावलेश्चन्द्रकमण्डलेन ।
म्लास्यन्ति सौभाग्यभरप्रभाभिर्
गर्वान्धगोपीवदनाम्बुजानि ॥६॥
पौर्णमासी (विहस्य) ः ततस्ततः ?
वृन्दा ः ततश्च स्मेरया दृष्टिमुद्रयैव तामधीरामवधीरयन्ती ललिता मया सह राधामुपसाद्य कल्ये प्रस्थानाय तामतिसम्भ्रमं लम्भयामास । पश्य वृत्तेऽद्य यामे सेयं नाजगाम ।
(
प्रविश्य) ललिता ः सहि बुंदे ! जुत्तं गब्बाइदं प{
उ}
माए । दाणिं जाणिदम् । तत्थ पत्थाणे कुदो अह्मानं जोग्गदा ।
पौर्णमासी ः पुत्रि,
कथमेवं ?
ललिता ः भावदि तुह्म पुरदो अह्मानं तिणा दोहग्गसल्लेण किमुग्घादिदेण ।
पौर्णमासी ः वत्से सुश्रूषुरस्मि । वर्ण्यताम् ।
ललिता (सास्रम्) ः अज्जे ! गोरपट्टसुत्तेण गन्थिदा एक्का दिब्बमाला पिअसहिए कह्णस्स दिण्णा । सा अह्मेहिं प{
उ}
मिआ धम्मिल्ले तक्कालं ज्जेब्ब दिट्ठा ।
पौर्णमासी ः स्थाने ग्लानिरियम् । बाढमसाम्प्रतमेतद्गोविन्दस्य ।
वृन्दा ः शान्तममङ्गलम् ।
पौर्णमासी ः वृन्दे कथ्यतां किं नामेदम् ।
वृन्दा ः वर्णितं मे मनुष्यवाक्यया तया कक्खटिकया कदम्बशाखायां मालामालम्ब्य कालिन्दीमवगाढे वनमालिनी सम्प्रवृत्ते च केतकीपरागचक्रचण्डे मरुन्मण्डले पद्मा किलेमां जहार । मरुतस्तु मुधा कलङ्कं जगामेति ।
ललिता ः धुत्ते मुञ्च णं वञ्चणम् ।
वृन्दा ः पुष्पमञ्जरीभ्यः शपे ।
ललिता (विश्रभ्य) ः हला सच्चं सच्चम् । अह्म पुरदो अप्पणो सोहग्गं विक्खेवेन्ति प{
उ}
मिआ मालं बिबरेदि । कह्णमित्ताणमग्रतो ऊण णं संबरेदि ।
पौर्णमासी ः पुत्रि ललिते ! स्फुटमत्र पूर्णिमायां युष्माकमनुद्यमाय पद्मया तां छद्मचातुरीं प्रसार्य गौरीतीर्थं चन्द्रावली लम्भिता ।
वृन्दा ः युक्तमाह भगवती । तदद्य गौरीतीर्थे राधिकोपनीतिः कल्याणी मे न प्रतिभाति ।
(
प्रविश्य) विशाखा ः बुंदे कल्लाणी पडिभादि त्ति भणाहि ।
वृन्दा ः कथमेवं ?
विशाखा ः गोउलेसरिमुहादो अज्ज सोहग्गपुण्णिमामाकण्णिअ करालाए चन्दाअली अप्पभत्तुनो मल्लस्स पासे पत्थाबीअदि ।
ललिता (सहर्षम्) ः बिसाहे,
इट्ठदेओ सरोअणाहो दे पसीददु । ता तुबरीअदु ।
पौर्णमासी ः पुत्रि वृन्दे ! कामप्यद्यतनीमभिमन्योर्दारुणां दुर्मन्त्रितमुद्रां राधायामावेद्य मयाप्यस्याः शङ्कापङ्कावलीसङ्कलनाय गौरीतीर्थे भवितव्यम् ।
वृन्दा ः भगवति ! पूर्वेण गौरीतीर्थं लवङ्गकुडुङ्गस्य प्राङ्गणे सविशाखया राधया सार्धं साधयतु तत्रभवती । तावदावां माधवमासादयावः ।
(
पौर्णमासी विशाखया सह निष्क्रान्ता) ः
ललिता (वृन्दया सह परिक्रम्य) ः हला पेक्खिअदु डाहिणे एसा दूरदो सेब्बाए समं जप्पन्ती प{
उ}
मा ।
वृन्दा ः सखि नासङ्गतं व्याहरेद्विशाखा । (इत्यग्रतो गत्वा सविमर्षम्) ः सखि परमौत्सुक्यसम्भूतेन भूरिणा सम्भ्रमेण सम्भेदिते राधिकाविनयमनिर्धार्य तूर्णमावां विदूरमागते । तदत्र गङ्गापारे पौर्णमासीं क्षणं प्रतिपालयावः । (इति निष्क्रान्ते ।)
(
ततः प्रविशतः पद्मासैब्ये ।)
पद्मा ः सहि सेब्बे ! मा क्खु दुम्मणा होहि ।
शैब्या ः प{
उ}
मे परमाहिट्ठस्स अलाहणेण सलाहबं चित्तं समाधादुं न क्खमह्मि ।
(
नेपथ्ये) प{
उ}
मे चन्दाअली अनिज्ज{
उ}
गोअड्ढणस्स पासह्मि झत्ति णिब्बट्ठ{
इ}
बच्छा जह कुसुमेहिं सुणेबत्था ।
शैब्या ः प{
उ}
मे सुदं जमज्जिआ कराला तं ज्जेब्ब जप्पगरलं पुणो उग्गिरदि ।
पद्मा ः हला अमिअं क्खु एबं जं पिबिअ उबलद्धबलह्मि जादा ।
शैब्या (सवैलक्ष्यम्) ः हला,
कधं बिअ ?
पद्मा ः मुद्धिए,
गोअड्ढणस्स गिरिनो पसे जेब्ब तं गौरितीत्थम् ।
शैब्या (सहर्षम्) ः हला ! सालत्थपण्डिदासि । ता उत्थेहि । चन्दाअलीअं तत्थ णेह्म ।
पद्मा ः पढमं च्चेअ चन्दाअली मए चालिदा । ता तुबरेहि णमनुसरह्म ।
(
इत्युभे परिक्रामतः ।)
शैब्या ः प{
उ}
मे,
गौरीकिदे जो क्खु सम्पादिदो सो कहिमुबहारो ?
पद्मा ः महुमङ्गलहत्थे समप्पिदोत्थि ।
शैब्या ः प{
उ}
मे,
बिबक्ख{
उ}
लस्स उक्करिसं तक्किअ उत्तमामि ।
पद्मा ः मा क्खु उत्तम्म । जमेताए मालाए दंसिदाए निरज्झबसॉ किदो मए बिबक्खपक्खो ।
(
शैब्या सहर्षं पद्मामलिङ्गति ।)
पद्मा ः
सौहाग्गपुण्णिमाहे गौरीतीत्थह्मि फुल्लिदे महुणा ।
अज्ज रमन्तीं हरिणा सुहेण चन्दाअलीं पेक्ख ॥७॥
(
नेपथ्ये सौहाग्गपुण्णिमाहे इत्यादि पठ्यते ।)
शैब्या (साद्भुतं विलोक्य) ः हला ! इमाए मुहं बङ्किकदुअ बिहच्छस्सरेण पढन्तीए कक्खदिआए अह्मे उबहासिज्जह्म ।
पद्मा (सस्मितम्) ः दुट्ठे मक्कडि ! तुण्डं दे डहिस्सम् ।
(
नेपथ्येः) प{
उ}
मिए चिट्ठ चिट्ठ । सुण्णं तुज्झ घरं गदुअ णाणीआइं गिलिस्सम् ।
शैब्या ः हला सच्चं गिलिस्सदि,
जमेसा तं ज्जेब्ब पढन्ती धाइदा ।
पद्मा ः मा चिन्तेहि,
घरे अज्जिअ कराला चिट्ठदि । (इति परिक्रम्य संस्कृतेन) पश्य पश्य—
साचीकृताङ्गमिह सव्यकरेण यष्टिं
विष्टभ्य वृत्तसरलामुपकक्षकूपम् ।
तिष्ठन्नधो विटपिनः पशुवृन्दचारी
रीरीति गीतिमधुना सुबलस्तनोति ॥८॥
शैब्या (परिक्रम्य) ः हला पुब्बेण सङ्करिसणकुण्डं चन्दाअली दीस{
इ}
।
पद्मा (सहर्षं संस्कृतेन) ः
अयं पुरः स्मेरमुखारविन्दः
प्रयाणलीलाकृतकुम्भीनिन्दः ।
कलेवरद्योतिहृताक्षितन्द्रश्
चन्द्रावलीं विन्दति कृष्णचन्द्रः ॥९॥
(
ततः प्रविशति कृष्णश्चन्द्रावली च ।)
कृष्णः (वर्त्मावरुध्य) ः प्रिये,
दिष्ट्याद्य सौन्दर्यमकरन्दभ्र्ङ्गारायितासि ममाक्षिभ्र्ङ्गयोः ।
चन्द्रावली ः मुञ्च मुञ्च मग्गम् । जं गौरीतीत्थं गदुअ कच्चाअणिअमच्चिस्सम् ।
कृष्णः (सस्मितम्) ः
लब्धं मामवलोक्य तन्वि पुरतो रोमालिरभ्युद्गता
नेत्रे पद्यविधिं क्षरज्जलभरे प्रीत्यार्पयाञ् चक्रतुः ।
वक्षश्च स्खलदुत्तरीयमदिशद्दिव्यासनं सम्भ्रमाद्
वामायास्तव दक्षिणः परिकरो दिष्ट्याद्य वृत्तो मयि ॥१०॥
सख्यः (उपसृत्य) ः सहि,
सन्ति भूरिणो मग्गा,
ता एकस्सिं णिरुद्धे णिरुद्धा न होह्म ।
चन्द्रावलि (साचिग्रीवमालोक्य) ः हला,
दिट्ठिआ तुह्मेहिं सहिदह्मि संबुत्ता ।
कृष्णः (स्वगतम्) ः कथमद्य राधाभिसिसारयिषोर्ममान्तिके चन्द्रावलिरुपस्थिता ?
पद्मा (जनान्तिकम्) ः चन्दमुह ! प{
उ}
माबलम्बिकराए त्ति तुज्झ मनोरधं सुणिअ च्छलेण मए चन्दाअली लम्भिदा ।
कृष्णः (स्वगतम्) ः आं ज्ञातम् । पद्ममण्डनमभिलष्यता मयैव दत्तान्तरासि । किं ते दूषणं ? (
प्रकाशम्) सखि,
प्रसिद्धैव पद्मायाः पद्मनाभपक्षपातिता ।
पद्मा ः अहो तुरिअं गौरीतीत्थं लम्भेहि चन्दाअलिअम् ।
कृष्णः (स्वगतम्) ः चन्द्रावलेरागतिरेव राधिकोद्यमप्रतिबन्धिनी वृत्ता । तदेनामेव निर्व्यलीकभावां तावत्प्रमोदयन्स्वं मनो विनोदयामि । (प्रकाशम्)
धृतपद्मोत्सवसन्ततिर्
अलब्धदोषोदय सदा स्फुरति ।
सखि कृष्णपक्षपूर्णा
चन्द्रावलिरद्भुता त्वमसि ॥११॥
(
इत्यग्रे परिक्रम्य) कुरङ्गाक्षि ! पश्य काननस्य कमनीयताम् ।
पद्मा ः हला,
एसो पुरदो सुरङ्गनाम कह्णस्स कुरङ्गो । जस्स घरिणि स किदत्थि रङ्गिणी नाम कुरङ्गि ।
कृष्णः (सचकितं नेपथ्ये कर्णं दत्त्वा स्वगतम्) ः नूनमागता राधा यदयं रङ्गिणीकण्ठध्वनिर्दरोदञ्चति ।
पद्मा ः कधमेसो सुरङ्गो दक्खिणाहिमुहं धाइदो ?
कृष्णः (पुनरात्मगतम्) ः निष्टङ्कितमेव रङ्गिणीकण्ठशब्देनायमाकृष्टः कुरङ्गो गौरीतीर्थं जगाम । सङ्कर्षणतीर्थतीरवनलेखायां विलम्बमानः क्षणमुदर्कं तर्कयामि ।
पद्मा ः
णाप{
उ}
मिणीसहस्समहमहणरसुत्तरङ्गवित्थारी ।
पेक्ख गोउलं बिअ पुरो सरोअरं रेह{
इ}
प्फारम् ॥१२॥
कृष्णः ः प्रिये ! पश्य पश्य !
मित्रे विचित्रमनुरागभरं वहन्ति
संवर्धितालिनिकरा स्वरसोदयेन ।
सत्कर्णिकोज्ज्वलरुचिर्भुवने समन्ताल्
लक्ष्मीं तनोति भवतीव सरोजिनीयम् ॥१३॥
शैब्या ः नं मणोहरं प{
उ}
मिणीं कीस कलाणिहिमलाणं करेदि ।
पद्मा (चन्द्रामुपदिश्य साकूटम्) ः
सुराणुरत्तहिऽ इअं प{
उ}
मिणी पसारिदामो आ ।
इधण तुमं क्खणारॉ ताराहीस क्खिबेहि करम् ॥१४॥
कृष्णः ः पद्मे नात्र तारापतिरपराध्यति । यदियं पद्मिनी चञ्चलया पद्मया सायं मुच्यमाना म्लायति ।
चन्द्रावलि (सस्मितं पुरो विलोक्य संस्कृतेन) ः
समदमधुपलौल्योत्सेकमालोक्य शङ्के
विहसति लतिकालीपुष्पशोभाभरेण ।
विसृजति मकरन्दच्छद्मना बाष्पबिन्दून्
इयमतिमृदुरेका स्नेहतः स्वर्णयूथी ॥१५॥
कृष्णः ः प्रिये ! पश्य पश्य !
अयमुच्चशिरः कदम्बराजः
स्फुरदिन्दिन्दिरवृन्दावन्दिगीतः ।
सुरभीकुलपुच्छचामराली
मरुदावीजितविग्रहश्चकास्ति ॥१६॥
चन्द्रावलि ः अह्महे ललिदा बुंदाबनलच्छी ।
(
ततः प्रविशति ललिता वृन्दा च ।)
ललिता (पुरो दृष्ट्व सव्यथम्) ः कक्खडं पुरदो सङ्कडमेदम् ।
वृन्दा ः हन्त दुर्लङ्घ्यशासना किल कराला । तत्कथमद्य पद्मयात्र चन्द्रावलिरुपनीता ?
ललिता ः हला,
सालविज्जाबिअड्ढासि,
ता कड्डेहि इदो कह्णम् ।
वृन्दा ः
स्वस्य प्रेममणीनां
गौरवभाजामियं वरा पात्री ।
हरिणा परिहरणीया
कथं नु चन्द्रावली भविता ॥१७॥
ललिता (संस्कृतेन) ः
यस्योपलभ्य गन्धं
गौरवकुलमाशु चौरवद्भ्रमति ।
उद्भटमनुरागभटं
तं रञ्जितनागरं नौमि ॥१८॥
वृन्दा ः सखि,
युक्तं ब्रवीषि । किन्तु दाक्षिण्यमुद्रेयं चन्द्रावल्यां कृष्णस्य ततः खल्वमुं दुराकर्षं कथयामि ।
ललिता ः बुंदे,
सच्चं भणासि । ता इमस्सिमच्चहिदे किं सरणं ?
वृन्दा ः प्रथमं गोष्ठीमाविश्य तत्त्वमवधारयावः ।
(
इत्युभे परिक्रामतः ।)
शैब्या (विलोक्य जनान्तिकम्) ः हला प{
उ}
मे ! हन्त णूणं गौरीतीत्थे राही सङ्गदा । पेक्ख तद्दिसादो ललिदा मिलदि ।
पद्मा ः का दे हाणी ?
जमिमिणा दुप्परिहरा पिअसही ।
ललिता (उपसृत्य) ः हला चन्दाअलि ! वल्लहासिणेहाणहिण्णस्स कुरङ्गी सङ्घभुअङ्गस्स कुरङ्गस्स घरे ण क्खु अह्मेहिं रङ्गिणीबासणिज्जा । जमिमिणा मासब्भन्तरे बि सा कालसारकुमारी ण सुमरीअदि ता एत्थ तुमं सक्खिणीं कादुमाअदह्मि ।
(
चन्द्रावली स्मयते ।)
कृष्णः (स्वगतम्) ः हन्त मदर्थमागता ललिता । (चन्द्रावलिमालोक्य छलमालम्ब्य प्रकाशम्) ललिते,
हृदयेङ्गितमविज्ञाय मुधा सुरङ्गमुपालभसे । तदेष सन्देशस्त्वया तस्यामावेद्यताम्—
हरिणाभिलष्यमाणा
सारङ्गरमणी सदा त्वमत्रासि ।
तदमूं त्वद्वशहृदयं
हृदयङ्गमलोचने विद्धि ॥१९॥
पद्मा (जनान्तिकम्) ः कह्ण अप्पणो पिअं जणं लद्धो सि । ता जुत्तमजोग्गाणमह्माणं विसज्जणम् ।
कृष्णः ः
करवाणि हन्त दिव्यं
दिव्याङ्गि मदोन्नतासु गोपीषु ।
अनुरागितां सखि दधे
राधागन्धिषु न वामासु ॥२०॥
पद्मा (सदर्पस्मितम्) ः सहि ललिदे ! अच्चरिअमच्चरिअं ! तुमं क्खु अणुराहा भणिज्जसि । ता कीस अज्ज राहिआए उअदां बिना उदिदासि ।
ललिता (संस्कृतेन) ः
रोलम्बीनिकुरम्बं
चुम्बति गण्डं पिपासया तस्य ।
सरति तृषार्ता सरसीं
स करीन्द्रस्तं पुनर्न हि सा ॥२१॥
पद्मा ः
एक्कं धीमदि सेब्बे पहेलिअं मे सहेलि जाणीहि ।
चित्तफलाम्मि लिहिदा का रेह{
इ}
माहबस्स सदा ॥२२॥
शैब्या ः सहि चन्दाअली ।
वृन्दा (सस्मितम्) ः साधु विज्ञातम् । चन्द्रमण्डलावलिमण्डलेन चित्रं खलु रमापतेः फलकं शतचन्द्रमाचक्ष्यते ।
कृष्णः (स्वगतम्) ः अवदातशीलेयं चन्द्रावली सलज्जमपसव्ये कथं प्रयाति ?
ललिता ः
मह ब्बाहरेहि बुंदे पहेलिअं दिब्बपहेलिविण्णाणे ।
पिअसहि किमहिक्खाए लिक्खिज्ज{
इ}
माहवो भुअणे ॥२३॥
वृन्दा ः सखि ! राधाभिख्यया ।
कृष्णः ः युक्तमिदं यद्वैशाखपर्यायौ माधवराधौ ।
पद्मा ः सेब्बे,
अलं पहेलिआपसङ्गेन । सुहाबेहि कमलिक्खणरसेहिमत्ताणाम् ।
शैब्या (कमलाकारं विलोक्य) ः
भमरस्स ताब पमदं पदोसमुदिदा कुमुद्ददी कुण{
इ}
।
जाब इअं प{
उ}
माली बिन्द{
इ}
णहु दिट्ठिमेदस्स ॥२४॥
पद्मा ः हला,
सच्चं भणासि । तथा हि,
विज्जोदन्ती राहा पेक्खिज्ज{
इ}
ताब तारालीहिम् ।
गाणे तमालसामे ण जाब चन्दाअली प्फुर{
इ}
॥२५॥
ललिता (विहस्य संस्कृतेन) ः
सहचरि वृषभानुजाया प्रादुर्भावे वरत्विषोपगते ।
चन्द्रावलीशतान्यपि भवन्ति निर्धूतकान्तीनि ॥२६॥
कृष्णः (स्मित्वा) ः किं वाचाटतया ?
सन्निकृष्टस्य सुरभेः सौराभ्यमनुभूयताम् ।
वृन्दा (सस्मितम्) ः
उल्लसति फुल्लगात्री
का वल्ली नात्र माधवेऽभ्युदिते ।
तन्नामतः प्रसिद्धां
तथापि तां माधवीं नौमि ॥२७॥
पद्मा (सवैमनस्यं परिक्रम्योच्चैह्) ः हला चन्दाअलि,
धूत्तगोट्ठीरङ्गे सङ्गमिअ विग्घेसजणणीपूअणे कीस सिढिलासि ।
कृष्णः (सोपालम्भम्) ः
चन्द्रावलीं मामनुरुध्यमानां
रुणद्धि पद्मे भवती बलेन ।
मल्लीं तमालाभिमुखं मिलन्तीं
हिंस्रेव वल्ली पुरतः कराला ॥२८॥
(
प्रविश्य) कराला ः चिट्ठध रे चिट्ठध ! दिट्ठिआ मग्गे च्चेअ लद्धात्थ ।
(
सर्वः परवृत्य सम्भ्रमं नाटयन्ति ।)
शैब्या (अपवार्य) ः हद्धी हद्धी । कधमेत्थ अह्मे विण्णादा बुड्ढिआए ?
कराला ः अम्मो सच्चं च्चेअ जप्पिदं ताए णवणीअलम्पडाए बुड्ढमक्कदिए ।
(
पद्मा सखेदं शैब्यामुखमीक्षते ।)
ललिता (स्वगतं) ः बुड्ढमक्कडी कक्खडिए सक्करारक्खिदं मक्खणं दे दाइस्सम् ।
कृष्णः (अपवार्य) ः प्रिये,
तिरोधानाय स्थानमपि ते न पश्यामि,
यतः—
सव्ये गिरिः स्फुरति दुर्गमतुङ्गशृङ्गो
गाः पालयत्यहह दक्षिणतस्तथार्यः ।
भूः पृष्ठतो विरहिता वृतिभिः पुरस्तात्
क्रूरा विवेश जरती कतमात्र युक्तिः ॥२९॥
चन्द्रावलि (स्वगतम्) ः हन्त हन्त ! अकण्डकक्कसाए भब्बिदब्बदा चण्डालीए चण्डिमा ।
कराला (संरम्भमभिनीय) ः पेच्छध भो पेच्छध इमस्स कुसुम्भतेल्लकज्जलजालकालस्स कालभुअङ्गभाङ्कर लोअनञ्चलस्स सञ्चलस्स भुअङ्गत्तणं जं बारहमग्गं गमिदो इमिणा सालाणं गोउलकुलङ्गणाणं मङ्गलो कुलधम्मो । (इति सशिरःकम्पं दृशौ विस्फार्य) अरे सामालया कस्स एसा जाअत्ति जाणासि । सुणाहि रे णिसङ्क सुणाहि । जो क्खु भोइंदस्स दुदिओ अप्पा तस्स महामल्लस्स ।
कृष्णः ः करालिके,
ततः किं ?
कराला (सक्रोधम्) ः सच्चं सच्चं तुमं बणमज्झे अप्पणं दुदिअं राअणं जाणासि । सो च्चेअ राअ{
उ}
लगामी गोट्ठणाहो अप्पणो ललाडं ताडिस्सदि ।
कृष्णः ः कराले,
तुभ्यं शपे । चन्द्रावलीं विलोक्य साध्वसं गतोऽहमुद्वेगमासादयामि ।
कराला (चन्द्रावलीं विलोक्य सामर्षम्) ः ह णिउञ्जूज्जारिणि ! आकोमरसिक्खिदकह्णाहिसारकोसले ! संरम्भून्नद्धगोबिआसहस्सजुट्ठाहरबिम्बातिण्णमेत्तबिद्धंसिदकुलब्बदे ! चिट्ठ चिट्ठ । किं दाणीं भाएसि ।
ललिता ः अज्जे,
को क्खु दोसो जीअणणाहाणुगदाए पच्चिमादिसाए । को बा दोसाबहारिणो सुरस्स । किन्तु एदाणमरूढराआणं दोणं रातमुप्पादिअ सङ्गमकारिणीए सञ्झकुट्टिणीए च्चेअ पदोसाणुबन्धिदा ।
कराला ः जादे सच्चं कधेसि । (इति प्रौढमाटोपं नाटयन्ती) हञ्जे प{
उ}
मिए परघरविघट्टिणि ! कुट्टिणीकम्मलम्पडे धिट्टिमण्डलचक्कबट्टिणि मह हत्थादो कहं मुक्किस्ससि । (इति यष्टिमुद्यच्छते ।)
पद्मा (परावृत्य) ः अज्जे,
ण जाणे कीस क्खिज्जसि । अह्मेहिं तुज्झ सासणं च्चेअ किज्जन्तमत्थि ।
वृन्दा (स्वगतम्) ः नूनं धूर्तया शब्दच्छलमालम्बितं पद्मया । (प्रकाशम्) आर्ये,
शैलमल्लयोर्नामाद्वैतेन भ्रान्तेयं मुग्धा बाला । तदद्य क्षम्यताम् ।
(
कराला यष्टिं विमुञ्चति ।)
पद्मा (स्वगतम्) ः ललिदे,
चिट्ठ चिट्ठ । तुह निक्कदं कादुमेसा जडिलं गच्छन्ती ह्मि । (इति निष्क्रान्ता ।)
कराला (चन्द्रावलिमालोक्य) ः एहि भोः कुडुङ्गकुडुम्बिनि ,
एहि । (इति चन्द्रावलीमादाय शैब्यया सह निष्क्रान्ता ।)
कृष्णः (सोच्छ्वासम्) ः वृन्दे,
नूनं साधितार्थासि ।
वृन्दा ः माधव रूपिणी माधवलक्ष्मीर्गौरीतीर्थे खेलति । तया चोपधौतिकं सर्वस्वमिदं दरोन्मुद्रितं गन्धफलीद्वन्द्वम् ।
कृष्णः (सानन्दमादाय) ः वृन्दे,
यावद्गवां चारणे वयस्यानवस्थाप्य तत्रानुसरामि तावद्भवतीभ्यामग्रतः प्रस्थीयताम् । (इति निष्क्रान्तः ।)
वृन्दा (परिक्रम्य) ः ललिते पुरः सम्भालय कदम्बसम्राजम् । (इत्युपेत्य) हन्त हन्त—
शङ्के पङ्कजसम्भवोऽपि भवतः सौभाग्यभङ्गीभारं
वक्तुं न क्षमते कदम्बनृपते वृन्दातवीद्योतिनः ।
पुष्पैर्यस्य रमासहोदरतयाप्युद्भासुरं कौस्तुभं
दुर्लीलैरवहेलयद्भिरभितः शौरेरुरश्छाद्यते ॥३०॥
ललिता (पुरो विलोक्य) ः बुंदे,
इअं विसाहादुदिआ भाबदी माअन्दकुडङ्गे प्रच्छन्नं चिट्ठदि ।
वृन्दा (लवङ्गलतान्तिके राधां विलोक्य) ः ललिते,
पश्य पश्य—
किमितः सुषमा वपुष्मति
किमभिव्यक्तिरलं गुनश्रियः ।
अथवा प्रणयाभिसम्पदः
किमियं मूर्तिरुदेति राधिका ॥३१॥
(
पुनर्निर्वर्ण्य)
कर्णालङ्कृतकमला
कुण्टलवेणिशिखरोच्चलत्कमला ।
करकमलाश्रितकमला
विडम्बयत्यलमसौ कमलाम् ॥३२॥
(
नेपथ्ये)
कर्णान्दोलितमुग्धगन्धफलिकाद्वन्द्वः कदम्बस्रजा
संवीतो मुरलीकरम्बितकरश्चूडाञ्चले चन्द्रिका ।
दूरादेष मनःशिलातिलकिना भालेन बिभ्रद्द्युतिं
मूर्तः खेलति हन्त नन्दगृहिणीवात्सल्यलक्ष्मीरसः ॥३३॥
ललिता ः णूणं भावदीए दूरे दिट्ठो माहबो जं वण्णीएदि ।
वृन्दा ः ललिते,
सत्यमविदूरवर्ती मधुवैरी । तथा हि—
सखि कुन्दलीकृतशिखण्डमण्डलो
नटतीह ताण्डविकहूतिरण्डजः ।
न कदापि कृष्णमुदिरेक्षणं विना
मदिरेक्षणे क्षणमपि श्वसित्यसौ ॥३४॥
ललिता ः सखि,
दक्खिणेण पुण्णाअसण्डं पेक्ख णम् ।
वृन्दा (विलोक्य सहर्षम्) ः
चक्रं वशीकृतवतः किल नैचिकीनां
वंशीनिनादमधुना मधुसूदनस्य ।
आभीरशेखरगतिं प्रतिपादयन्ती
शोभा बभूव परमा परमस्य यष्टिः ॥३५॥
ललिता ः न बुत्तं दाणिं पि दोण्णमण्णोण्णदंसणम् । केअलं रङ्गिणिअं पेक्खिअ लाङ्गकुडङ्गं लहेदि कह्णो ।
वृन्दा ः पश्य पश्य—
विसृमरान्परिते हरिमूर्तितः
परिमलानुपलभ्य कलावती ।
इयमितः सखि पुण्ड्रकमण्डपे
स्मितमुखी तनुवल्लीमपावृनोत॥३६॥
(
पुनर्निरूप्य सकौतुकम्)
व्यक्तिं गताभिरभितो भुवि पंशुलायां
सद्यः पदाङ्कततिभिः कथिताध्वनोऽयम् ।
पश्चादुपेत्य नयने किल राधिकायाः
कम्प्रेण पाणियुगलेन हरिर्दधार ॥३७॥
ललिता ः हन्त हन्त एसा पुल{
इ}
दङ्गी वामा लीलाकमलेण ताडेदि कमलेक्खणम् ।
वृन्दा ः पश्य पश्य—
भ्रूभेदः स्मितसंवृतो न हि न हीत्युक्तिर्मदेनाकुला
विश्रान्तोद्धति पाणिरोधरचनं शुष्कं तथा क्रन्दनम् ।
सृष्टो यः सखि राधया मुहुरयं सङ्गोपनोपक्रमो
भावस्तेन हृदि स्थितो मुरभिदि व्यक्तः समन्तादभूत॥३८॥
ललिता (संस्कृतेन) ः
प्रातिकूल्यमिव यद्विवृणोति
राधिका रदनखार्पणोद्धूरा ।
केलिकर्मणि गता प्रगल्भतां
तेन तुष्टिमतुलां हरिर्ययौ ॥३९॥
वृन्दा (विहस्य) ः
नैरञ्जन्यमुपेयतुः परिगलोन्मोदाश्रुणी लोचने
स्वेदोद्धूतविलेपनं किल कुचद्वन्द्वं जहौ रागिताम् ।
योगौत्सुक्यमगाद्दूरः स्फुरदिति प्रेक्ष्योदयं सङ्गिनां
राधे नीविरियं तव श्लथगुणा शङ्के मुमुक्षां दधे ॥४०॥
ललिता ः कधमेदं बिअड्ढमिउनं माहवीकुण्डङ्गन्तरिदं संबुत्तम् ।
वृन्दा ः
राधामाधवयोर्मेध्यां
केलिमाध्वीकमाधुरीम् ।
धयन्नयनभ्र्ङ्गेण
कस्तृप्तिमधिगच्छति ॥४१॥
ललिता ः हला एदे गलन्तमरन्दं पि माहविपुप्फसन्दोहं मुक्किअ कीसं भिङ्गा पुब्बाहिमुहं धाअन्ति ।
वृन्दा ः सखि,
विमुच्य माधवीमण्डपं नागरमण्डलोत्तंसौ प्रस्थितौ तयोरामोदमनुसर्पन्तः षट्पदा धावन्ति । तदेहि लतामन्दिरालोकनेन नन्दयावश्चक्षुसी । (इति परिक्रम्य) ललिते,
पश्य पश्य—
मनोहारी हारस्खलितमणिभिस्तारतरलैः
परिम्लायन्माल्यो मिलितपुरटालङ्कृतिकणः ।
अयं कुञ्जस्तल्पीकृतकुसुमपुञ्जप्रणयवान्
समन्तादुत्तुङ्गं पिशुनयति रङ्गं मुरभिदः ॥४२॥
ललिता (निपुणं निरूप्य संस्कृतेन) ः
कृष्णाङ्गसङ्गममिलद्घुसृणाङ्गरागा
राधापदस्खलदलक्तकरक्तपार्श्वा ।
सिन्दूरबिन्दुचितघर्मजलोक्षितेयं
धूना धिनोति नयने मम पुष्पशय्या ॥४३॥
वृन्दा (सविस्मयम्) ः
चिक्रीड या रजसि रञ्जितसूत्रनद्ध
गोकर्णमात्रचिकुरा नवबिद्धकर्णी ।
सेयं कुतः प्रवरविभ्रमकौशलानि
राधाध्यगीष्ट बत वैरजितं जिगाय ॥४४॥
ललिता (पूर्वतः प्रेक्ष्य) ः बुंदे,
पेक्ख णादिदूरे सराहा माहबो ।
वृन्दा ः शृणुवः,
किमाह संस्कृतेन राधा ?
(
नेपथ्ये) ः
कुरु कुवलयं कर्णोत्सङ्गे लवङ्गमभङ्गुरं
विकिर चिकुरस्यान्तर्मल्लीस्रजं क्षिप वक्षसि ।
अनघजघने कादम्बीं मे प्रलम्बय मेखलां
कलयति न मामालीवृन्दं हरे निरलङ्कृतम् ॥४५॥
वृन्दा (स्मितं कृत्वा) ः
वहन्ती मञ्जिष्ठारुणिततनुसूत्रोज्ज्वलरुचीन्
नखाङ्कान्खेलोर्मिस्खलितशिखिपक्षावलिरियम् ।
स्फुरन्मुक्तातुल्यैरलघुघनघर्माम्बुभिरलं
समृद्धा मे मेधां मधुमथनमूर्तिर्मदयति ॥४६॥
(
ततः प्रविशति कृष्णः प्रसाधिताङ्गी राधा च ।)
कृष्णः ः
नीतं ते पुनरुक्ततां भ्रमरकैः कस्तूरिकापत्रकं
नेत्राभ्यां विफलीकृतं कुवलयद्वन्द्वं च कर्णापितम् ।
हारश्च स्मितकान्तिभङ्गिभिरलं पिष्टानुपेषीकृतः
किं राधे तव मण्डनेन नितरामङ्गैरसि द्योतिता ॥४७॥
उभे (उपसृत्य) ः सुन्दर इदं परममञ्जुलं वसन्तिकुसुममण्डनम् ।
कृष्णः (स्तवकितद्वन्द्वमादाय सहर्षम्) ः
ध्येयेन मुक्तवृन्दास्य
काम्यमाना मुहुर्मया ।
युक्ता त्वमतिमुक्तानां
श्रेण्या सुश्रोणि सेवितुम् ॥४८॥
(
इति राधामवतंसयति ।)
नेपथ्ये ः
अनुपरमति यामे काममह्नस्तृतीये
जलदसमयलक्ष्मीर्यौवनोज्जृम्भणेऽद्य ।
नवयवसकदम्बैस्तर्पितानां कदम्बः
कलयति सुरभीनां गोकुलायाभिमुख्यम् ॥४९॥
ललिता ः राहे अनुजाणेहि । रत्तिमण्डनत्थं दुल्लहं बसन्तकुसुमं गेह्णिस्सम् । (इति निष्क्रान्ता ।)
कृष्णः (स्मित्वा जनान्तिकम्) ः वृन्दे किञ्चिद्विनोदं विधातुकामोऽस्मि । तदत्र प्रियायाः प्रत्यायितेयं पुरो द्रुमाधिरूढा कक्खटी त्वया मत्पक्षग्राहिणी क्रियताम् ।
वृन्दा ः भवतु,
यतिष्ये ।
कृष्णः (राधामवेत्य) ः प्रिये चन्द्रा… (इत्यर्धोक्ते कृत्रिमसम्भ्रमं नाटयति ।)
राधिका (सखेदम्) ः हद्धी हद्धी । कधमेब्बं सुणन्तं बि ण मे फुडिदं कण्णजुअलं ?
वृन्दा (स्वगतम्) ः पिच्छिकाभ्रमणेन कक्खटिकमुन्माद्य हरेरभीष्टं व्याहारयिष्ये । (इत्यलक्षितं तथा कृत्वा प्रकाशम्) सखि,
रङ्गे मा भज वैमुख्यम् ।
कृष्णः ः प्रिये चन्द्रानने,
किमित्यकाण्डे विमनस्कासि ?
(
नेपथ्ये) सामिणि इमिणा तुज्झ मुद्धत्तणेण ललिदा न जीबिस्सदि ।
राधिका (ऊर्ध्वमालोक्य स्वगतम्) ः णीसंदेहह्मि किदा कक्खडिआए । (प्रकाशम्) पाण्डं क्खु कुलिसबिप्फूज्जिदं कधं डिण्डिमाडम्बरेण संवरणिज्जं होदु । (इति पराङ्मुखी भवति ।)
कृष्णः (अपवार्य) ः
समरोद्धुरकामकार्मुकश्री
विजयिभ्रूयुगमाकुलाक्षिपद्माम् ।
विधुरीकृतमप्यतिक्रुधाग्रे
मम राधावदनं मनो धिनोति ॥५०॥
(
इति राधापटाञ्चलमुच्चाल्य) सुन्दरि ! मधुरेण समाप्यतां मधुविहारकौतुकम् ।
(
पुनर्नेपथ्ये) हद्धी हद्धी ! भो प{
उ}
मासिक्खे दुट्ठसारसि तुमं पि मं कडक्खसि । ता कीस पराणं धारेमि ?
राधिका (निशम्य सरोषमपसर्पन्ती) ः बुंदे ! परं केत्तिअं विडम्बिदह्मि । ता झत्ति बारेहि नं कबडपरिपाडीणाटासूत्तधारं भुअणमारारम्भिमुरलीसिक्खाणीसङ्कं करालिआनत्तिणीकीलाकुरङ्गम् ।
कृष्णः (सानन्दस्मितम्) ः सखि वृन्दे ! प्रसादय राधाम् ।
वृन्दा ः प्रियसखि राधे ! विदग्धवधूनां मूर्धन्यसि । तदकाण्डे कठोरमानकाण्डेन नापसारय वल्लभकृष्णसारम् ।
राधिका (बाढमवज्ञामभिनीय) ः एत्थ अवत्थादुं ण जुत्तह्मि । (इति निष्क्रान्त) ः
कृष्णः ः वृन्दे,
बलीयसि रोषानले साममाध्वीकमुद्दीपनायैव । तदलमत्रानुयात्रया ।
वृन्दा ः किमत्र युक्तं ?
कृष्णः ः वृन्दे,
वरवर्णिनीवेशेन राधां प्रसाधयितुमिच्छामि । तदत्र भवत्या समाधानमध्यवसीयताम् ।
(
वृन्दा सङ्गीकारं स्मितं करोति ।)
कृष्णः ः सखि,
गौराङ्गरागसङ्गतं वराङ्गनावेशसाधनं कथमत्राभिलिप्स्ये ?
(
प्रविश्य) मधुमङ्गलः ः पिअबास्स,
अत्थि गौरीघरे तहाविहबेससमग्गी जा प{
उ}
माए मह हत्थे समप्पिदा ।
कृष्णः (सहर्षम्) ः वृन्दे,
गौरीगृहगम्भीरिकायां भविष्यामि । तदात्मभगिनीभावेन सम्भावनीयोऽहम् । (इति सवयस्यो निष्क्रान्तः ।)
वृन्दा (परिक्रम्य दूरे दृष्टिं क्षिपन्ती) ः
चम्पकलवङ्गबकुलान्य्
अवचिन्वन्त्योर्वयस्ययोरत्र ।
स्फुटमिदमेव सलज्जं
राधावृत्तं निवेदयति ॥५१॥
(
प्रविश्य तथविधा) राधा ः सहि,
तदो हमणुणेदुं प{
उ}
त्तं णमबहीरिअ एत्थ पत्तह्मि ।
ललिता ः राहे,
न क्खु तुमह्मि कह्णस्स गोत्तक्खलिदं सिबिणे बि सम्भावीअदि । ता प{
इ}
दिपमत्ताणं पसूणं पलाबे किदबीसम्भा तुमं बञ्चिदासि ।
विशाखा ः हद्धी हद्धी ! ललिदे,
पेक्ख—
अज्ज सोहग्गपुण्णिमाहे आरद्धसङ्घरिसा बलिणो पडिपक्खा । ता विडम्बिदा ह्म देबेण ।
ललिता ः बिसाहे सच्चं कहेसि । एत्थ महुसवे ज{
इ}
अह्माणं मुहमालिण्णं सब्बत्तीओ पेक्खिस्सन्ति तदो सोल्लुण्ठं कडुक्खन्तीओ हसिस्सन्ति ।
राधिका (स्वगतम्) ः साहु सहीओ मन्तेन्ति । ता किमेत्थ सरणं ?
वृन्दा (उपसृत्य) ः ललिते,
रामानुजस्य निदेशेन राममुपनेतुं प्रस्थितास्मि ।
ललिता ः किं त्ति ?
वृन्दा ः वसन्तश्रीदर्शनाय ।
विशाखा ः सहि बुंदे,
क्खणं बिलम्बिअ कुण संधिम् ।
वृन्दा ः सत्यं जानीहि—
मया दुष्करोऽद्य सन्धिः ।
विशाखा ः कधं बिअ ?
वृन्दा ः पृच्छतामात्मसखी,
ययाद्य कटूक्तिभिरपरञ्जितः कञ्जेक्षणः ।
राधिका (निःस्वस्य) ः हला बुंदे,
तुमं च्चेअ गदी ।
वृन्दा (सव्याजरोषम्) ः
असूया चण्डाली हृदि पदमिता चण्डि विविशुर्
न वाचस्ते पथ्याः श्रुतिसरणिसीमाञ्चलमपि ।
इदानीमौदास्यं वशगमदिराक्षिततिरगान्
मुकुन्दो निर्द्वन्द्वीभव सखि मुधा निःश्वसिसि किम् ॥५२॥
ललिता ः कहिं सो क्खु मोहणो ?
वृन्दा ः गौरीसद्मनि ।
ललिता ः किं करेदि ?
वृन्दा ः निकुञ्जविद्यया सार्धं गोष्ठीं तनोति ।
तिस्रः ः सहि,
का क्खु णिउञ्जविज्जा ?
वृन्दा (स्फुटं विहस्य) ः अहो मौग्ध्यं किशोरीणां,
यदमूरतिप्रसिद्धामपि निकुञ्जविद्यां न विदन्ति !
तिस्रः (सलज्जम्) ः सहि कधेहि सच्चम् । ण जाणीह्म ।
वृन्दा ः हन्त भो विशुद्धाः ! का नाम सा गोकुले बल्लवबलिकास्ति या खलु स्वसारं मे भाण्डीरदेवतां न जानीते ।
ललिता ः बुंदे,
देहि तुमं मन्तं जेण एदं वेसम्मं सुहोदक्कं भवे ।
वृन्दा ः सखि,
गोकुलानन्दनिगूढविश्रम्भमणिमञ्जुषेयं निकुञ्जविद्या । तदेनां भजेम ।
(
इति सर्वाः परिक्रमन्ति ।)
राधिका ः बुंदे एदं च्चेअ गौरीमण्डबम्;
ता एत्थ पविसिअ सण्णाए कड्ढे णिउञ्जविज्जाम् ।
वृन्दा (कृतोद्ग्रीविकमालोक्य स्वगतम्) ः हन्त गौरीमिव किशोरीं द्वारि पश्यामि । (प्रकाशम्) सख्यः,
केवलमेकत्र भाण्डीरदेवतैव शिखण्डेन कुण्डलं कुर्वती वर्तते ।
तिस्रः ः असच्चसंसिनि,
चिट्ठ चिट्ठ । जमेसो ताण्डविअसिहण्डी पङ्गणे चिट्ठदि ।
वृन्दा ः हन्त भो दाक्षिण्यशून्याः ! स्वयमागत्य समीक्ष्यताम् । किमत्रानुमानेन ?+++
ललिता ः हला फुडं तन्दाउलदा चन्द{
इ}
णो जादा,
जं णिक्कुमन्तो चन्दामण्डली इमिणा ण लक्खिदो ।
राधिका ः हला,
घरं पविसिअ णिउञ्जविज्जां पुच्छह्म ।
(
इति सर्वाः प्रवेशं नाटयन्ती ।)
(
प्रविश्य) जटिला ः भणिदह्मि पेम्मेण प{
उ}
माए—
अज्जे जडिले ! दिट्ठिआ बड्ढसि । गोअड्ढणो बिअ तुह्म पुत्तो बि गोकोडीसरो हुबिस्सदि । जं दिट्ठं मए अज्ज गौरीतित्थे राहिए गौरी आराहीअदि त्ति । ता गदुअ बहूदिहमासिसाहिं बड्ढयिस्सम् । (इति परिक्रम्य रङ्गिणीमङ्गने दृष्ट्व सानन्दम्) साहु प{
उ}
मे साहु । असच्चभासिणी नासि । (पुनर्निभाल्य सखेदम्) हद्धी हद्धी । कहं गौरीसिंहस्स सिरे तण्डविओ चिट्ठ{
इ}
। ता परावट्टिअ पुत्तमाणिस्सम् । (इति धावन्ती निष्क्रान्ता ।)
राधिका (जनान्तिकम्) ः सहिओ,
पेक्खध लूत्तरं किं पि गौरीए सौन्दरिअम् ।
सख्यौ ः हला सच्चं सच्चम् । ठाने कह्णस्स पेम्मवीसह्मसंभाविदा एसा ।
राधिका ः णमदिट्ठपूब्बं संभासिदुं ससंभमह्मि । (इत्यपत्रपं नाटयति ।)
(
नेपथ्ये) यामि वृन्दे ! नूनं राधया नाहं परिचीये । मया तु सहस्रधेयमनुभूयमानास्ति ।
वृन्दा (स्वगतम्) ः चित्रं साक्षादङ्गनाकण्ठध्वनिरेवायम् ।
राधिका ः बुंदे,
ण जाणे कीस पसहं णिउञ्जविज्जाए सिणिज्झदि मे हिआम् ।
वृन्दा ः सखि,
तत्त्वं जाने । न चित्रमिदं यदसावपि चिरं त्वय्यनुरज्यति ।
राधिका (सानन्दमनुसृत्य) ः हला णिउञ्जविज्जे ! कहिं सो तुह णिउञ्जनाअरो ?
(
नेपथ्ये) सखि,
कस्तं जनो जानाति ?
ललिता ः सहि णिउञ्जविज्जे,
मुंचेहि परिहासच्छलम् । अप्पवग्गो दे अह्मारिसो जणो ।
(
नेपथ्ये)
बाढं तत्त्वमविज्ञाय
तप्यमानः कृशानुना ।
कथं शारदपद्माक्षि
पारदः परिलभ्यते ॥५३॥
वृन्दा (जनान्तिकम्)
स्मेरा कपोलपाली
शंसति दूत्यं निकुञ्जविद्यायः ।
राधे मृदुलय तदिमां
स्नेहेनाभ्यज्य भव्येन ॥५४॥
राधिका ः हला णिउञ्जविज्जे ! कीस बुंदेब्ब णाणुबद्धसि सिणेहबन्धं ?
(
नेपथ्ये)
विधिः पद्मे पादौ नवकदलिके सक्थियुगलीं
मृणाले दोर्द्वन्द्वं तव शशिनमापाद्य वदनम् ।
मृदूनामर्थानां न कठिनमवष्टम्भकं ऋते
स्थितिः स्यादित्यत्र व्यधित हृदयं नूनमशनिम् ॥५५॥
राधिका ः बुंदे,
पेक्ख साणुराअहासं परिहसिज्जामि णिउञ्जविज्जाए । ता गदुअ मिलिस्सम् । (इति निष्क्रान्ता ।)
वृन्दा ः
गोकुलरामाप्रेयसि
निकुञ्जविद्ये कठोरधीस्त्वमसि ।
यत्प्रवणामपि पुरतः
परिरभ्य सखीं न रञ्जयसि ॥५६॥
विशाखा ः इअं राही णिउञ्जविज्जं परिरद्धुं भुअवल्लीमुल्लासेंती पेम्मबीसद्धं जप्पदि ।
(
नेपथ्ये) हला भाण्डीरदेअदे ! पेक्ख—
गोउलपवेसवेला पच्चसीअदि । ता करिज्ज{
उ}
तृण्णमह्मेसु लीलारङ्गसङ्गमिदो कह्णस्स प्पसॉ ।
ललिता ः बुंदे,
एसा तुज्झ बहिणी राहिअं परिरम्भिअ चुम्बेदि ।
विशाखा (सशङ्कम्) ः दिट्ठा णिल्लज्जिआए तुज्झ णिउञ्जविज्जाए पुरिसधम्मलुद्धदा । जमेसा राहाबक्खोरुहे णहरङ्कुरमप्पेदि ।
वृन्दा (सस्मितम्) ः सखि माभ्यसूयं कृथाः । प्रेमोत्कर्षविलासोऽयम् ।
(
प्रविश्य सोत्कम्पा) राधिका (सभ्रूभङ्गम्) ः बुंदे जुत्तं जुत्तमह्मेसु तुह्म जिह्मत्तणम् ।
वृन्दा (विहस्य) ः सखि,
न वेद्मि किं तवाकूतम् ।
सख्यौ (सस्मितम्) ः बुंदे,
विण्णादा दे मोहिणीभूदा णिउञ्जविज्जा ।
(
ततः प्रविशति सपुत्रा) जटिला ः बच्छ अहिमण्णो,
पेक्ख पङ्गणे रङ्गिणी तह तण्डविओ बि सिहण्डी चिट्ठ{
इ}
।
अभिमन्युः ः अम्ब सच्चं कहेसि । जं दिट्ठं मए गोबमण्डलेण सद्धमेक्को ज्जेब्ब गोउलं प{
इ}
ट्ठो ।
जटिला ः बच्छ,
एसा विसारिणी काबि सोरब्भधारा ज्जेब्ब तं साहसिअमिहुणमेत्थ कहेइ ।
अभिमन्युः ः अम्ब भवदीए निदेसो बि मए पडिपालिदो अज्ज संबुत्तो । ता दाणीं राहिअं महुरापुरे ण{
इ}
स्सम् ।
जटिला ः पुत्त दिट्ठिआ एक्कदुआरं घरम् । ता दुआरभित्तिए लग्गा भविअ सुणह्म पत्थावम् । (इति तथा स्थितौ ।)
(
प्रविश्य) कृष्णः (सस्मितम्) ः राधे ! मा स्म कार्षीरतिदुर्लभेऽस्मिन्नर्थे प्रार्थनम् ।
राधिका (सनर्मस्मितम्) ः अ{
इ}
देइ पसीद पसीद ।
अभिमन्युः (गृहं प्रविश्य) ः हुं साहसिणि,
पच्चक्खं हत्थाहत्थि गहीदासि ।
कृष्णः (स्वगतम्) ः हन्त ! स्वरादभिमन्युमभिज्ञाय कातरेयं प्रिया यष्टिवद्भूमौ निपपात ।
जटिला (सविस्मयमङ्गुल्या दर्शयन्ती) ः बच्छ लूत्तरेण लाअण्णझारेण का एसा गौरी घरमुज्जलेइ ?
अभिमन्युः (विमृष्य) ः अम्ब देइ पसीद पसीद त्ति भणिअ राहीए दण्डप्पणामो किदत्थि । ता एसा दिब्बरूपा महेसमहिसी फुडं पादुब्भूदा ।
कृष्णः (सहर्षमात्मगतम्) ः गौरीनेपथ्यं मम सुष्ठु पथ्यं बभूव ।
सख्यौ (सानन्दम्) ः गोबुत्तम तुह्माणमम्मेडिदेण अह्मेहिमाराहिज्जन्ती गौरी पडिमादो णिक्कमिदा ।
अभिमन्युः ः बिसाहे,
किं दाणीं देइपादे सुदुल्लहं राहिए अब्भत्थिदम् ।
कृष्णः ः वीराभिमन्यो ! दारुणं किमपि सङ्कटं तवोपस्थितम् । तन्निवृत्तिमियं याचते ।
अभिमन्युः (ससङ्कम्) ः भावदि,
केरिसं तं ?
कृष्णः ः वृन्दे,
तदभिव्यक्तये सङ्कुचन्ति मे वचनानि । ततस्त्वय कथ्यताम् ।
वृन्दा ः मानिन्नभिमन्यो,
परश्वस्त्वं भोजेश्वरेण भैरवाय सायमुपहारीकर्तव्योऽसि ।
जटिला (सवैक्लव्यम्) ः देइ ! पसीद पसीद । जीअपुत्तिअं मं करेहि ।
राधिका (सहर्षमुत्थाय) ः देइ,
पसीद पसीद ।
कृष्णः (स्मित्वा) ः राधे,
वर्णितमेव ते । यदद्य दूर्निवारमिदम् ।
राधिका (सकाकुभरं प्रणम्य) ः हन्त बल्लवीउलदेअदे,
किं पि असक्कं दे णत्थि । ता तुए णाहेण अबिप्पओअं पसादीकदुअ अणुगेहीअदु एसो जणो ।
कृष्णः (स्मित्वा) ः
वशीकृतात्मास्मि वशीन्द्रदुष्करैस्
तवाद्य राधे नवभक्तिदामभिः ।
तदिष्टसिद्धिं कृतगोकुलस्थितिः
सदा मदाराधनतस्त्वमाप्स्यसि ॥५७॥
अभिमन्युः (सोच्छ्वासम्) ः अ{
इ}
भत्तजणबच्छले ! कदा बि महुराहिमुही मए ण राहिआ कादब्बा । ता इह बसन्ती तुममेसा आराहेदु ।
जटिला (राधामलिङ्ग्य) ः अ{
इ}
गोउलणन्दिणि रक्खिदह्मि ।
वृन्दा (अभिमन्युमवेक्ष्य) ः
विध्वंसयति हि पुंसां
साध्वीपरिवादितायूंषि ।
परदेवतात्र गौरी
भावग्राहिण्यसौ वदतु ॥५८॥
कृष्णः ः धन्याभिमन्यो ! कल्याणसाधिका ते राधिका । तदस्यां नाविश्रब्धेन भवितव्यं भवता ।
अभिमन्युः ः देइ राहीवेसं कदुअ सुबलेण अम्बा मे परिहसिज्ज{
इ}
| तं पेक्खिअ मच्छरी अणहिण्णो मिच्छाहिसत्तिमुप्पाबेदि |
ललिता ः अहिमण्णो दिट्ठिआ सां च्चेअ बीसत्थोसि ।
अभिमन्युः ः अम्ब एहि मह घरम् । सब्बस्स{
इ}
ं महुरपुरे णेदुं णिजुत्तं जनं णिवरेह्म । (इत्यम्बया सह हरिं प्रणम्य निष्क्रान्तः ।)
सख्यौ (राधामाश्लिष्य सास्रम्) ः ह पिअसहि ! कधं पामरेहिं तुमं महुरापुरे णेदुं णिच्चिदासी ।
(
प्रविश्य) पौर्णमासी (सानन्दस्मितम्) ः
अङ्गरागेण गौराङ्गी
हिरण्यद्युतिहारिणी ।
मामग्रे रञ्जयत्येषा
निकुञ्जकुलदेवता ॥५९॥
कृष्णः (परिक्रम्य) ः भगवति वन्दे ।
पौर्णमासी ः आशीःसतम् । हन्त यसोदमतः ! दिष्ट्या भवताद्य संवर्धितास्मि यदहं राधिकाविश्लेषवेदनानामनभिज्ञीकृत ।
कृष्णः ः
उत्तीर्णा परमभयाद्बभूव राधा
निर्बाधाजनि जरती गतधीशुचिः ।
निःशङ्कं प्रमदमितास्तथाद्य सख्यः
कर्तव्यं भगवति किं प्रियं तवास्ति ॥६०॥
पौर्णमासी (सानन्दास्रम्) ः गोकुलबन्धो ! बाढमवन्ध्यजन्मास्मि कृता । तथापि किञ्चिदभ्यर्थये—
प्रथयन्गुणवृन्दामाधुरीम्
अधिवृन्दावनकुञ्जकन्दरम् ।
सह राधिकया भवान्सदा
शुभमभ्यस्यतु केलिविभ्रमम् ॥६१॥
किं च—
अन्तःकन्दलितादरः श्रुतिपुटीमुग्धाटयन्सेवते
यस्ते गोकुलकेलिनिर्मलसुधासिन्धूत्थबिन्दुमपि ।
राधामाधविकामधोर्माधुरीमा स्वाराज्यमस्यार्जयन्
साधीयान् भवदीयपादकमले प्रेमोर्मिरुन्मीलतु ॥६२॥
कृष्णः (स्मित्वा) ः भगवति तथास्तु । तदेहि । गोदोहावसाने मामप्रेक्ष्य चिन्तयिष्यन्तौ पितरावविलम्बं गोकुलं प्रविश्य नन्दयावः । (इति निष्क्रान्तः ।)
(
इति निष्क्रान्ताः सर्वे ।)
इति श्रीविदग्धमाधवे
गौरीविहारो नाम
सप्तमोऽङ्कः
॥७॥
ग्रन्थसमप्तिः
राधाविलासं वीताङ्कं
चतुःषष्टिकलाधरम् ।
विदग्धमाधवं साधु
शीलयन्तु विचक्षणाः ॥१॥
नन्दसिन्धुबाणेन्दु
सङ्ख्ये संवत्सरे गते ।
विदग्धमाधवं नाम
नाटकं गोकुले कृतम् ॥२॥
शान्तश्रियः परमभागवताः समन्ताद्
द्वैगुण्यपुञ्जमपि सद्गुणतां नयन्ति ।
दोषावलिमपरितापितया मृदूनि
ज्योतींषि विष्णुपदभाञ्जि विभूषयन्ति ॥३॥
समाप्तमिदं विदग्धमाधवनाटकं
=+=
]