[[श्रीजगन्नाथवल्लभनाटकम् Source: EB]]
[
श्रीजगन्नाथवल्लभनाटकम्
(१)
पूर्वरागो नाम प्रथमोऽङ्कः
स्वराञ्चितविपञ्चिकामुरजवेणुसङ्गीतकं
त्रिभङ्गतनुवल्लरीवलितवल्गुहासोल्बणम् ।
वयस्यकरतालिकारणितनूपुरैरुज्ज्वलं
मुरारिनटनं सदा दिशतु शर्म लोकत्रये ॥१॥
अपि च –
स्मितं नु न सितद्युतितरलमक्षि नाम्भोरुहं
श्रुतिर्न च जगज्जये मनसिजस्य मौर्वीलता ।
मुकुन्दमुखमण्डले रभसमुग्धगोपाङ्गना
दृगञ्चलभवो भ्रमः शुभशताय ते कल्पताम् ॥२॥
अपि च –
कामं कामपयोनिधिं मृगदृशामुद्भावयन्निर्भरं
चेतःकैरवकाननानि यमिनामत्यन्तमुल्लासयन।
रक्षःकोककुलानि शोकविकलान्येकान्तमाकल्पयन्न्
आनन्दं वितनोतु वो मधुरिपोर्वक्त्रापदेशः शशी ॥३॥
नटरागेण (१)
मृदुलमलयजपवनतरलितचिकुरपरिगतकलपकम् ।
साचितरलितनयनमन्मथशङ्कुसङ्कुलचित्तसुन्दरीजनजनितकौतुकम् ॥
मनसिजकेलिनन्दितमानसम् ।
भजत मधुरिपुमिन्दुसुन्दरबल्लवीमुखलालसम् ॥ ध्रुवम् ॥
लघुतरलितकन्धरं हसितनवसुन्दरम्
गजपतिप्रतापरुद्रहृदयानुगतमनुदिनं
सरसं रचयति रामानन्दराय इति चारु ॥४॥
नन्द्यन्ते सूत्रधारःः अलमतिविस्तरेण । प्रिये ! इत इतः ।
(प्रविश्य) नटीः अज्ज एस ह्मि निअकिङ्करिअनं चरणपदिदं विलोअनपसदेहिं पसन्नहिआं कदुं भत्त परं पमनम् ।
सूत्रधारः (सहर्षम्)ः चिरसमयं विदग्धोचितवेशेन यौवनविलासमनुभवतु भवति ।
नटीः अज्जेन कुदो अहुदम्हि ?
सूत्रधारःः प्रिये न विदितं भवत्याः प्रसादकथनमेतत।
नटीः सम्पदि त सोदुं मम हिआं कुदुहलेहिं विप्फरिदं टत्तदि ।
सूत्रधारःः प्रिये शृणु । अद्य खलु वसन्तवसरावसरे तरुणभास्वद्विमुक्तदक्षिणदिग्विलासिनीस्तनमलयाचलावलम्बिवेणीभुजङ्गसङ्गिसमीरणमूर्छितविरहिनीजनजीवातुवयस्यास्वासवचःप्रसारे विकसितसितकिरणप्रसूने च विमलनभोवनप्रोज्जृम्भमान¬ नवनवोन्मीलितनिस्तलमुक्ताफलतुलिततरमुकुल¬ मध्यावलम्बिनी सासूयनिर्भरनिरीक्षमानविरहिनीजन¬ चञ्चललोचनाञ्चललताग्रवर्तिनी निरुपमकान्तिलक्ष्मीलुब्ध¬लक्ष्मीरमणावस्थानोचितचित्तदुग्धाब्धिना विभावादिपरिणतरसरसालमुकुलरसास्वादकोविदपुंस्कोकिलेन श्रीकण्ठहारसहचरगुणमुक्ताफलमण्डितहृदयेन किं बहुना ।
यन्नामापि निशम्य सन्निविशते सेकन्धरः कन्दरं
स्वं वर्गं कलवर्गभूमितिलकः सास्रं समुद्वीक्षते ।
मेने गुर्जरभूपतिर्जरदिवारण्यं निजं पट्टनं
वातव्यग्रपयोधिपोतगमिव स्वं वेद गौडेश्वरः ॥५॥
कायव्यूहविलास ईश्वरगिरेर्द्वैतं सुधादीधितेर्
निर्यासस्तु हिमाचलस्य यमकं क्षिराम्बुराशेरसौ ।
सारः शारदवारिदस्य किमपि स्वर्वाहिनीवारिणो
द्वैराज्यं विमलीकरोति सततं यत्कीर्तिराशिर्जगत॥६॥
यद्दानाम्बुकदम्बनिर्मितनदीसंश्लेषहर्षादसौ
रिङ्गत्तुङ्गतरङ्गनिःस्वनमिषात्प्रस्तौति यं वारिधिः ।
नित्यप्रस्तुतसप्ततन्तुभिरभिस्यूतां मनो नाकिनां
येनैतत्प्रतिमाच्छलेन यदमी मुञ्चन्ति न प्रङ्गनम् ॥७॥
तेन प्रतिभाटनृपघट
कालाग्निरुद्रेण श्रीमत्प्रतापरुद्रेण ।
श्रीहरिचरणमधिकृत्य
कमपि प्रबन्धमभिनेतुमदिष्टोऽस्मि ॥८॥
यदुक्तम्
मधुरिपुपदलीलाशाली तत्तद्गुणाढ्यं
सहृदयहृदयानां काममामोदहेतुम् ।
अभिनवकृतिमन्यच्छायया नो निबद्धं
समभिनय नटानां वर्य किञ्चित्प्रबन्धम् ॥९॥
नटीः तत्कथय ।
सूत्रधारःः कथं ? आराधनीयो विद्यानां निधिः । यतोऽस्मिन्नभिधातुकामो वाक्पतिरपि प्रतिपत्तिमूढः स्यात। (क्षणं विमृष्य) आं स्मृतम् ।
नटीः त किं सो ।
सूत्रधारःः प्रिये सर्वविद्यानादिविलासगाम्भीर्यमर्यादास्थैर्यप्रसादादिगुणरत्नाकारस्य सुरगुरुप्रणीतनीतिकदम्बकरम्बितमन्त्रस्राविकृतप्रगुणपृथ्वीश्वरस्य श्रीभवानन्दरायस्य तनुजेन श्रीहरिचरणालङ्कृतमानसेन श्रीरामानन्दरायेन कविना तत्तद्गुणालङ्कृतं श्रीजगन्नाथवल्लभनाम गजपतिप्रतापरुद्रप्रियं रामानन्दसङ्गीतनाटकं निर्मय समर्पितमभिनेष्यामि ।
तथा चायं कविः सविनयमिदमवदीत्–
न भवतु गुणगन्धोऽप्यत्र नाम प्रबन्धे
मधुरिपुपदपद्मोत्कीर्तनं नस्तथापि ।
सहृदयहृदयस्यानन्दसन्दोहहेतुर्
नियतमिदमतोऽयं निष्फलो न प्रयासः ॥१०॥
तदादिश्यन्तं कुशीलवा वर्णिकपरिग्रहाय ।
नटी (संस्कृतमाश्रित्य)ः यदाज्ञापयति स्वामी (पुरोऽवलोक्य) पश्य पश्य –
मृदुलमलयवाताचन्तवीचिप्रचारे
सरसि नवपरागैः पिञ्जरोऽयं क्लमेन ।
प्रतिकमलमधूनां पानमत्तो द्विरेफः
स्वपिति कमलकोशे निश्चलाङ्गः प्रदोशे ॥११॥
सूत्रधारःः (सहर्षम्) प्रिये साधु साधु मन्मनः कुतूहलजलनिधिविवर्ते निहितं भवत्या यतो गोपाङ्गनाशताधरमधुपाननिर्भरकेलिक्लमालसापघनः क्वचित्प्रौढवधूस्तनोपधनीयमण्डितहृदयपर्यङ्कशायी पीताम्बरो नारायणः स्मारितः ।
(नेपथ्ये)
द्वत्रिंशल्लक्षणैर्युक्तो
देवदेवेश्वरो हरिः ।
गोपालबालकैः सार्धं
जगाम यामुनवनम् ॥१२॥
केदाररागेण (२)
मृदुतरमरुतवेल्लितपल्लववल्लिवलितशिखण्डम् ।
तिलकविडम्बितमरकतमणितालबिम्बितशशधरखण्डम् ॥
युवतिमनोहरवेशम् ।
केलय कलानिधिमिव धरणीमनु परिणतरूपविशेषम् ॥ध्रुवम॥
खेलादोलयितमणिकुण्डलरुचिरुचिराननशोभम् ।
हेलातरलितमधुरविलोचनजनितवधूजनलोभम् ॥
गजपतिरुद्रनराधिपचेतसि जनयतु मुदमनुवारम् ।
रामानन्दरायकविभणितं मधुरिपुरूपमुदारम् ॥१३॥
सूत्रधारःः (सचकितम्) प्रिये मत्कनीयान्श्रीकृष्णवृन्दावनगमनमावेदयति । तद्वयमपि स्वनेपथ्योपचिताय याम । (इति निष्क्रान्तौ)
प्रस्तवना
(ततः प्रविशति यथानिर्दिष्टः कृष्णः ।)
कृष्णःः सखे रतिकण्डल ! पश्य पश्य ! रामणीयकं वृन्दावनस्य । तथा हि –
उद्दामद्युतिपल्लवावलिचलत्स्पृशोऽमी स्फुरद्
भृङ्गालिङ्गितपुष्पसञ्जनदृशो माद्यत्पिकानां रवैः ।
अरब्धोत्कलिका लताश्च तरवश्चालोलमौलिश्रीयः
प्रत्याशां मधुसम्पदादिव रसालापं मिथः कुर्वते ॥१४॥
विदूषकःः भो बयस्स तुज्झ एदं बुन्दानं रमनिज्जं मम उन भोअणालओ ज्जेब्ब । जथ्थ कहिम्पि सिहरिणि कहिम्पि रसाला कहिम्पि सुरहि घिओं कहिम्पि सालिभत्तम् ।
कृष्णःः सखे ।
वसन्तरागेण (३)
अपरिचितं तव रूपमिदं बत पश्यदिवोचितखेलम् ।
ललितविकस्वरकुसुमेचयैरिव हसति चिरादतिवेलम् ॥
कलय सखे भुवि सारम् ।
त्वदुपगमादिव सरसमिदं मम वृन्दावनमनुवारम् ॥ ध्रुवम् ॥
मृदुपवनाहतिचञ्चलपल्लवकरनिकरैरिव कामम् ।
नर्टितुमुपदिशतीव भवन्तं सन्ततमिदमभिरामम् ॥
सुखयतु गजपतिरुद्रमनोहरमनुदिनमिदमभिधानम् ।
रामानन्दरायकविरचितं रसिकजनं सुविधानम् ॥१५॥
सखे ! अतिमधुरोऽयं कोकिलानां रवः ।
विदूषकःः भो बास्स तुज्झ बंसिए रओ, इदो बि महुरो तदो बि अह्माणं कण्ठरओ । ता तुए बंसि बादिअदु मए भि कण्ठरओ कदब्बो ।
कृष्णःः यदभिरुचितं वयस्याय । (वंशीं वादयते ।)
विदूषकःः भो सुदो दे वम्सिरओ । ममाबि कण्ठरओ सुनिअदु । (इति मुखवैकृत्यपारुषं नदति ।) (तरुशिखरानवलोक्य) भो जिदमन्मेहिं तुज्झ बंसिए रएहिमेदे दासीए पुत्तऽ कोइला निहदं ठिदा । मह उण कण्ठरएहिं कहिं बि पलाइदा । ता बास्स मा गब्बो दे होदु ।
कृष्णःः सखे पश्य पश्य । केनाप्यकरुनेण भग्नानि नवाशोकपल्लवानि चेतः खेदयन्ति ।
विदूषकःः भो बयस्स मए दासिए धिदॉ गोबिऑ एथ्थ कुसुमाणि आहरन्ति । (सपरिहसम्) तुमं बि तदो ज्जेब एदं बुन्दऽणं ण मुञ्चसि ।
नेपथ्येः
वृन्दावने विहरतो मधुसूदनस्य
वेणुस्वनं श्रुतिपुटेन निपीय कामम् ।
उद्यन्मनोजशिथिलीकृतगाढलज्जा
राधा विवेश कुतुकेन सखीकदम्बम् ॥१६॥
गोण्डकिरीरागेण (४)
कलयति नयनं दिशि वलितम् ।
पङ्कजमिव मृदुमारुतचलितम् ॥
केलिविपिनं प्रविशति राधा ।
प्रतिपदसमुदितमनसिजबाधा ॥ ध्रुवम् ॥
विनिदधती मृदुमन्थरपादम् ।
रचयति कुञ्जरगतिमनुवादम् ॥
जनयतु रुद्रगजाधिपमुदितम् ।
रामानन्दरायकविगदितम् ॥१६॥
विदूषकःः (कर्णं दत्त्वा) भो सुष्ठु मए जनिदम् ।
कृष्णःः किं ?
विदूषकःः मं ज्जेव पुच्छसि ।
(ततः प्रविशति सखीभिरनुगम्यमाना राधिका मदनिका वनदेवता च ।)
विदूषकःः (पुरतोऽवलोक्य) भो बयस्स ! पेक्ख पेक्ख ! केणाबि इन्दऽलिएण सञ्चालिदो कणा पुत्तलिआ णिअर इध ज्जेब आअच्छदि । ता एदमेक्कं गोह्णिअ पलाइस्सं मम दरिद्द बडुअस्स एदाए ज्जेब किदाथ्थदा हुबिस्सदि । (इति स्वैरं स्वैरं धर्तुमुपसर्पति ।)
कृष्णःः धिङ्मूर्ख ! नायं कनकपुट्टलिकानिकरः । किन्तु गोपीकदम्बकमिदम् ।
विदूषकःः (निरूप्य विहस्य) सुष्ठु तुए तक्किदम् । त फलिदं दे बुन्दाअणागमणम् ।
कृष्णःः धिङ्मूर्ख ! किं फलं मम वृन्दावनागमनस्य ?
विदूषकःः एदाणं दासिए धीदानं सऽसदो बुन्दाअणनापल्लबाणं पदिबालनं त्ति भणामि ।
राधाः (पुरतोऽवलोक्य) अज्जे माणिए ! को एसो णीलुप्पलदलकोमलच्छै कणाणिअरबिच्छबसणो इसिअ अलम्बिअ कन्धरं महुरमहुरं बेणुं बादेइ ।
मदनिकाः सखि ! न जानासि यस्तव मया कथितः ?
सोऽयं युवा युवतिचित्तविहङ्गशाखी
साक्षादिव स्फुरति पञ्चशरो मुकुन्दः ।
यस्मिन्गते नयनयोः पथि सुन्दरीणां
नीविः स्वयं शिथिलतामुपयाति सद्यः ॥१७॥
कृष्णःः (मनागवलोक्य स्वगतम्) अहो शुभसमयजातत्वं कस्यचिद्वस्तुनः । तथा हि –
यदपि न कमलं निशाकरो वा
भवति मुखप्रतिमो मृगेक्षणायाः ।
रचयति न तथापि जातु ताभ्याम्
उपमीतिरन्यपदे पदं यदस्य ॥१८॥
विदूषकःः जनिदं मए दासिए धीदाएहिं गोबिआहिमुक्कण्ठिदहिअओ सम्बुत्तो भवम् । त एहि एदाणं दंशणपथादो गदुअ सिहरिणीहिं रसालाहिं बि अप्पाणं निब्बुदं करेह्म । पेक्ख मज्झण्णो जादो ।
कृष्णःः सखे ! सम्यगुपलक्षितम् । तथा हि –
कथमिव परिखिन्ना व्योममात्रा प्रयातुं
यदिह गलितवेगा वाजिनो यूयमित्थम् ।
इति विततकरान्तः सन्नुपालब्धुमश्वान्
गगनमिव मिमीते मध्यमध्यास्य भानुः ॥१९॥
विदूषकःः (अकुञ्चितलोचनं चिरं निरीक्ष्य) बास्स मए बण्णिदब्बो रैमण्डलो । अरोबिअ च्चक्कभमिं भमिदो जह बिस्सकम्मणा सूरो । अज्जबि तह सक्कारं भमिदं रैमण्डलं तक्केमि ।
मदनिकाः सखि ! चिरविहारपरिश्रान्तासि । तदेहि गच्छाव । (इति निष्क्रान्तः सर्वे ।)
इति पूर्वरागो नाम प्रथमोऽङ्कः
.*******************************************
.
(२)
भावपरीक्षा नाम द्वितीयोऽङ्कः
(ततः प्रविशति मदनिका ।)
मदनिकाः (पुरतोऽवलोक्य) कथमियमशोकमञ्जरी ।
अशोकमञ्जरीः देइ बन्दिज्जसि । गहिदकज्जभारब्ब किं पि चिन्तान्ती कहिं पथ्थिदासि ।
मदनिकाः वत्से ! महती खल्वियं वार्ता ।
अशोकमञ्जरीः कथं बिअ ?
मदनिकाः वत्से ! न जानासि प्रियसखीं राधामादाय कुसुमविहारार्थं गताः स्मः ?
अशोकमञ्जरीः अध इं तथ्थ ।
मदनिकाः तत्राशोकतरुमूले तया लोचनातिथीकृतोऽयं मुकुन्दः ।
अशोकमञ्जरीः न क्खु विलसिदं किं पि कुसुमाउहेन ?
मदनिकाः अथ किम् ।
अशोकमञ्जरीः ता एथ्थ किं पडिबन्नं तथ्थ भोदिए ?
मदनिकाः अयि सरले ! तत्रापि प्रष्टव्यास्मि ।
अशोकमञ्जरीः अणुसरिदब्बो मुउन्दो ।
मदनिकाः अथ किम् ।
अशोकमञ्जरीः अध कधं ताए लज्जातरलाए हिआं तुए ण्णादम् ।
मदनिकाः बच्छे !
तावदेव त्रपावर्म
बलानां हृदये स्थिरम् ।
यावद्विषमबाणस्य
न पतन्ति शिलीमुखाः ॥१॥
अशोकमञ्जरीः तहबि किं ताए ज्जेब स्फुडीकिदं तुम्हेहिं बा अणुमिदम् ।
मदनिकाः मयैवानुमितम् ।
अशोकमञ्जरीः कधं बिअ ।
मदनिकाः
शशिनि नयनपातो नादरादुन्मदानां
रुतमनु च पिकानां कर्णरोधश्छलेन ।
प्रतिवचनमपार्थं यत्सखीनां कथासु
स्मरविलसितमस्यास्तेन किञ्चित्प्रतीतम् ॥२॥
गान्धाररागेण
हरि हरि चन्दनमारुतपिकरुतमनु तनुरतनुविकारम् ।
तिरयितुमिव सा कति कति सहसा रचयति न शिशुविहारम् ॥
उपनतमनसिजबाधा ।
अभिनवभावभरानपि दधाति शिव शिव सीदति राधा ॥ ध्रुवम् ॥
अविधयनिश्चलनयनयुगलगलदम्बुकणाननुवारम् ।
रहसि हठादुपयाति सखीमनु रचयति सौहृदसारम् ॥
गजपतिरुद्रमनोहारमहरहरिदमनु रसिकसमाजम् ।
रामानन्दरायकविभणितं विहरतु हरिपदभाजम् ॥३॥
मदनिकाः त्वं पुनः कुत्र प्रस्थितासि ?
अशोकमञ्जरीः अहं पि ताए भणिदा सहि अहिणा पौमदल सेज्जा पज्जुस्सुअम्हि ता उबणेहि तारिसाइं पौमदलाइमदो तदथ्थं पथ्थिदह्मि ।
मदनिकाः (स्वगतम्) अये अतिनिष्ठुरं विलसति पुष्पचापः श्रुतं मया ।
स दक्षिणानिलकुहूरुतभृङ्गनाद
व्याजृम्भमाणमदना सुचिरं विचार्यम् ।
किञ्चित्सखीं शशिमुखीं सुमुखी विविक्ते
पर्याकुलाक्षरमिदं निजगाद राधा ॥४॥
तोडीवराडीरागेण
विदलितसरसिजदलचयशयने ।
वारितसकलसखीजननयने ॥
वलते मनो मम सत्वरवचने ।
पूरय काममिमं शशिवदने ॥ ध्रु ॥
अभिनवविषकिषलयचयवलये ।
मलयजरसपरिषेवितनिलये ॥
सुखयतु रुद्रगजाधिपचित्तम् ।
रामानन्दरायकविभणितम् ॥५॥
मदनिकाः साधय शिवाः सन्तु ते पन्थानः । अहमपि मुकुन्दमनुसरिष्यामि ।
अशोकमञ्जरीः त वन्दिज्जसि । (इति निष्क्रान्ता ।)
मदनिकाः (परिक्रम्य आकाशे लक्ष्यं बद्ध्वा) भोः शुकाः ! जानीत कुत्रायं द्रष्टव्यो मुकुन्दः ? किं ब्रूत ? भाण्डीरतरुमूले शशिमुखीद्वितीयः प्रतिवसतीति ? भवतु । नियोजिता मयैव तत्र शशिमुखी । (प्रेत्य) किं ब्रूत त्वं कुत्र प्रस्थितासीति ? तत्रैवात्मानमपवार्य श्रोतव्योऽयं वृत्तान्तः । इति तत्रैव गच्छामि । (इति निष्क्रान्ता ।)
विष्कम्भकह।
(ततः प्रविशति शशिमुखीद्वितियः कृष्णः ।)
कृष्णःः इत इतः ।
शशिमुखीः (अनङ्गपात्रिकामर्पयति ।)
कृष्णःः (वाचयति)
सुइरं विज्झसि हिआं लम्भै माणो क्खु दुज्जसं बलिअम् ।
दीससि सालदिससु तुमं दीसै माणो ण कुत्ताबि ॥६॥
कृष्णःः (स्वगतम्) अये अतिभूमिं गतोऽस्य रागः । तदाकलयाम्यौदास्येनास्य हृदयस्थैर्यम् । (प्रकाशं सावहित्थम्) सखि !
को वायं मदनाभिधः कथमितः किं वापराद्धं तया ?
येनायं विदयं दुनोति सुदृशं कंसस्य किं कोऽप्यसौ ?
(साटोपम्) तदादेशय क्वासौ ?
अद्यैनं भुजयुग्ममात्रशरणः संमर्द्य बालामिमाम्
अव्यग्रां रचयामि किं मयि सती त्रासो व्रजस्त्रीजने ॥७॥
विदूषकः (आपाटिक्षेपेण प्रविश्य)ः भो बयस्स न क्खु एसो कंसस्स को बि अहं ज्जेब्ब माणाभिओ ता तुए किं मह बह्मणस्स कादब्बं ?
कृष्णःः धिङ्मूर्ख ! अलं परिहासेन ।
विदूषकःः भोअदि अह्माणं पिअबास्सस्स हथ्थे लड्डुअजुअलं तुए दादब्बम् । पिअबास्स तथ्थ गदुअ माणं निराकरिस्सदि ।
मदनिकाः (कर्णं दत्त्वा) अये निसृष्टार्थेयं दूती । यतः –
इयं तत्तद्वचो वृन्दा
वने माधवसन्निधौ ।
राधारूपकथाव्याजाद्
उवाचासत्तिकोविदा ॥८॥
(निरूप्य विहस्य)
अमुष्याः प्रोन्मीलत्कमलमधुधारा इव गिरो
निपीय क्षीवत्वं गत इव चलन्मौलिरधिकम् ।
उदञ्चत्कामोऽपि स्वहृदयकलागोपनपरो
हरिः स्वैरं स्वैरं स्मितसुभगमूचे कथमयम् ॥९॥
तद्भवतु अतिभूमिं गतो रागो माधुर्यमवहाति ।
कृष्णःः (पुनरपि पात्रिकां वाचयित्वा) सखि सम्यागिदं नावकलितम् ।
गोपालबालकवृतो यमुनातटान्ते
वृन्दावने किमपि केलिकलां भजामि ।
कस्मादियं दिशि दिशि स्फुटरूपभाजम्
मामेव पश्यति कुरङ्गकिशोरनेत्रा ॥१०॥
समगुर्जरीराग
गोपकुमारसमजमिमं सखि पृच्छ कदा नु गतोऽहम् ।
कथमिव ममनुपश्यति दिशि दिशि कथमिव कलयति मोहम् ॥
सखि परिहर वचनविलासम् ।
गोपशिशूनां विदितमिदं मम जनयति गुरुपरिहासम् ॥ ध्रुवम् ॥
यदि च कुलाचलयापि कुलस्थितिरनया परिहरणीया ।
किमिति तदा रतिरतिविकला बाले किल करणीया ॥
गजपतिरुद्रमुदे मधुसूदनवचनमिदं रसिकेषु ।
रामानन्दरायकविभणितं जनयतु मुदमखिलेषु ॥११॥
शशिमुखीः (स्वगतम्) अहो पिअसहिए अथ्थाणाणुरॉ ता किमेथ्थ कदब्बम् ।
विदूषकःः भो किमेदाए दुट्ठगोबीधीदाए भणिदाए बास्स ! पेक्ख पेक्ख ।
रैअरचलिद हंसी मग्गै च्छाअं कमलगुच्छस्स ।
मारुअधुआरात्ता पेक्खसि जं तं निआरेदि ॥१२॥
कृष्णःः (स्वगतम्) अहो वचनभङ्गी धूर्तस्य । (प्रकाशम्) धिङ्मूर्ख ! किमप्रस्तुतमालपसि ।
विदूषकःः भो बास्स ! मए ज्जेब्ब पथ्थुदं भणिदम् ।
मदनिकाः (स्वगतम्) सर्वथा कृतार्थासि अये राधिके !
शशिमुखीः (प्रकाशम्) महाभाअ असरिसं तुह्मारिसाण अनुगदबञ्चणम् ।
कृष्णःः भद्रे ! अन्यदप्याकलय ।
दयितो दयितस्तस्या
बालेयं कुलपालिका ।
अकाण्डे किमसौ मुग्धे
धत्तामाचारविप्लवम् ॥१३॥
विदूषकःः भोदि अह्माणं पिअबास्सो धम्मसरणो ता ओसरदु भोदी । (कृष्णस्य हृदि हस्तं दत्त्वा) भोदि म उत्तम्म सा ज्जेब्ब पिअबास्सस्स हिअए कुरकुराअदि । ता मए ज्जेव फुडं कदब्बं सब्बम् । (कर्णे) भो बास्स ! तुह्मेहिं पि सा सिबिणे बर सहस्सं दिट्ठा । एम्हिं कीस अथ्थिज्जन्तो अप्पा अत्थाबिज्जदि ।
कृष्णःः धिङ्मूर्ख ! मम स्वप्नवृत्तान्तः कथं त्वया ज्ञातः ?
विदूषकःः सिबिने बि किं परिहरसि तहिं ज्जेब्ब अह्मेहिं पि दित्थम् ।
कृष्णःः (स्वगतम्) यद्यप्यनेन वाचाटबटुना परिहासशीलतयालपितं तथापि सद्वादो वृत्तः । भवतु । तथापि जिज्ञासनीयस्वभावा हि बालारमण्यः । (प्रकाशम्) भद्रे ! तन्निवर्त्यतामसादृशात्साहसादियं बाला । (विदूषकं प्रति) वयस्य ! तदेहि । वयमपि वत्साहारणाय यामः । भद्रे ! त्वमपि सानुनयामेनां निवर्तयेति ।
मल्लाररागेण
शशिनि न रागं भजते नलिनी ।
रविमनु नैव वृषस्यति रजनी ॥
शशिमुखि वारय वारिजवदनम् ।
अनुचितविषयविकस्वरमदनम् ॥ ध्रुवम् ॥
कुलवनितानामिदमाचरितम् ।
परपुरुषाधिगमे गुरुदूरितम् ॥
स यदि गणयति न कुलचरित्रम् ।
किमिति वयं कलयाम न चित्रम् ॥
उदयतु रुद्रगजाधिपहृदये ।
रामानन्दभणितमतिसदये ॥१४॥
(इति निष्क्रान्ताः सर्वे ।)
इति भावपरीक्षा नाम द्वितीयोऽङ्कः
***************************************
.
(३)
भावप्रकाशनामा तृतीयोऽङ्कः
(ततः प्रविशति अशोकमञ्जरी)
अशोकमञ्जरीः अए सुदं मए माणिआए बणदेअदाए ससिमुहीए सद्धं किम्पि रहस्सं कुणन्ती माहवीलदामण्डबसऽसे पिअसही चिट्ठदि ता पेक्खिअ गमिस्सम् । (अग्रतोऽवलोक्य समुपसर्प्य च ।) अए एदॉ लहु लहु किम्पि जम्पन्ति ता ण जुज्जदि एत्थ परिसिदुम् । (इति निष्क्रान्ता ।)
(ततः प्रविशति शशिमुखीमदनिकाभ्यां प्रबोध्यमाना राधा ।)
राधाः (दीर्घमुष्णं च निश्वस्य) सच्चकं ज्जेब्ब परिहिदम्हि माहवेन ।
समगुज्जरिराग
कुलवनितजनधृतमाचारम् ।
तृणवदगणयं गलितविचारम् ॥
शिव शिव किं वाचरितमशस्तम् ।
विधिरधुना वद वशयतु कस्तम् ॥ ध्रुव ॥
शिशुरपि युवतिरिवाहितभावा ।
विगलितलज्जितामहमिव का वा ॥
गजपतिरुद्रमुदे समुदीतम् ।
रामानन्दरायकविगीतम् ॥१॥
शशिमुखीः विण्णादो जेब्ब सब्बो बुत्तन्तो ता सां जेब्ब बिआरीअदु ।
राधाः (संस्कृतमाश्रित्य)
श्रावं श्रावं सुसामश्रुतिसमितपरब्रह्म वंशीप्रसूतम्
दार्शं दार्शं त्रिलोकीवरतरुणकलाकेलिलावण्यसारम् ।
ध्यायं ध्यायं समुद्यद्द्युमणिकुमुदिनीबन्धुरोचिः सरोचिश्
छायां श्रीकान्तसङ्गं दहति मम मनो मां कुकूलाग्निदाहम् ॥२॥
शशिमुखीः सहि मुञ्च अथ्थाणागहम् । (संस्कृतमाश्रित्य)
यद्यद्व्यञ्जितमञ्जनप्रतिकृतौ कृष्णे त्वदर्थं मया
तत्तत्तेन निवारितं शिशुदशाभावप्रकाशैरलम् ।
आस्तामुत्कलिकाप्रसूनविगलन्माध्वीकनद्धं विषं
कृष्णध्यानमितोऽन्यतः सुवदने सङ्कल्पमाकल्पय ॥३॥
सहविरागेण
हीनं पतिं भजते रमणी ।
केशरिणां किमु कलयति हरिणी ॥
राधिके परिहर माधवरागमये ॥ ध्रुवम् ॥
क्षिणे शशिनि च कुमुदवनीयम् ।
भजति न भावं किमु रमणीयम् ॥
सुखयतु गजपतिरुद्रनरेशम् ।
रामानन्दरायगीतमनिशम् ॥४॥
राधाः (सास्रम्) देवि मदनिके कः प्रकारः ?
प्रेमच्छेदरुजोऽवगच्छति हरिर्नायं न च प्रेम वा
स्थानास्थानमवैति नापि मदनो जानाति नो दुर्बलाः ।
अन्यो वेद न चान्यदुःखमखिलं नो जीवनं वाश्रवं
द्वित्रान्येव दिनानि यौवनमिदं हा हा विधे का गतिः ? ॥४॥
मदनिकाः कथमेवमुत्ताम्यसि ? यतः –
समाकृष्टा दूरात्किमपि यदि सा केतकिवन
प्रसूनेनोन्मीलत्सुरभिभरसारेण नियताम् ।
अथ भ्रामं भ्रामं रजसि रसमालोक्य न मनाग्
अपि प्रान्तप्राप्ता परिहरति तन्नो मधुकरी ॥५॥
राधाः (धैर्यमवलम्ब्य, ”परित्यक्त एव” इत्यर्धोक्तेन ससाध्वसोत्कम्पम्) देवि ! नायं ममापराधः –
यदा यटो दैवान्मधुरिपुरसौ लोचनपथं
तदास्माकं चेतो मदनहतकेनाहृतमभूत।
(क्षणं स्थित्वा दीर्घमुष्णं च निःश्वस्य ।)
पुनर्यस्मिन्नेष क्षणमपि दृशोरेति पदवीं
विधास्यामस्तस्मिन्नखिलघटिका रत्नखचिताः ॥६॥
मदनिकाः (स्वगतम्) अतिभूमिं गतोऽस्या अनुरागस्तदतिप्रियकथनेनान्यमनसं रचयामि । (प्रकाशम्) वत्से ! पश्य पश्य –
योऽयं त्वया स्वकरपुष्करसिक्तमूलः
संवर्धितः सुतनुबालरसालशाखी ।
जातः स ते मुकुलदन्तुरमौलिरीषन्
मन्ये तदेव मधुपाः प्रियमालपन्ति ॥७॥
राधाः (सत्रासोत्कम्पम्) हला शशिमुखि ! स्मर्तव्यास्मि ।
मदनिकाः (स्वगतम्) अहो केयमनर्थपरम्परा स्वयमुपस्थिता । (प्रकाशम्) वच्छे मातिविक्लवा भूः । उपलक्षितमेवास्य सानुरागहृदयम् ।
देशागरागेण
सरसकथासु कथं पुलकाचितमाननकमलमजस्रम् ।
कलयत चारुहसितनववलितं परिहृतकेलिसहस्रम् ॥
मुग्धे ! परिहर सङ्कितमधिकमये ॥ ध्रुवम् ॥
अदरमधुरमिममनुवेलं कथमालपति ससारम् ।
सुमुखि ! सखीं तव तदपि मनो बत कलयति किमु न विचारम् ॥
गजपतिरुद्रनराधिपहृदये वसतु चिरं रससारे ।
रामानन्दरायकविभणितं परिचितकेलिविचारे ॥८॥
राधाः देवि !
अनुमितमम्बुपयोदे
तनुपरिकलिता दावानलज्वाला ।
वपुरतिललितं बाला
शिव शिव भविता कथं हरिणी ॥९॥
मदनिकाः वत्से नियोजितापि मया माधवी तत्परिज्ञानाय त्वत्प्रतिच्छन्दकसनाथचित्रफलकहस्ता ।
(ततः प्रविशति चित्रफलकहस्ता माधवी ।)
माधवीः देवि ! वन्दे ।
मदनिकाः वच्छे स्वागतम् । तेऽपि विदितं रहस्यं ?
माधवीः अथ किम् ।
मदनिकाः तदावेदय ।
माधवीः फलकमावेदयति ।
राधाः (सलज्जं फलकं याचते ।)
माधवीः देहि मे परितोषकम् ।
मदनिकाः (स्वगतम्)
ध्रुवं तदस्या हृदयं प्रतीत्य
स्फुटं मुकुन्दोऽपि चकार रागम् ।
भग्नः कदाचिद्यदयं प्रमदात्
प्रेमाङ्कुरो योजयितुं न शक्यः ॥१०॥
(प्रकाशम्) वच्छे, उपनय फलकम् ।
माधवीः (मनाग्दर्शयित्वाञ्चलेनाच्छदयति ।)
शशिमुखीः (बलाद्गृहित्वावलोकयति ।) अए कधमेदैमक्खराइं ? (इति वाचयति ।)
मा सङ्किष्ठः सुमुखि विमुखीभावमेतस्य न स्याद्
आनन्दाय प्रथममुकुला पद्मिनी कस्य कामम् ।
आघ्रयैव प्रशिथिलधृतिर्गन्धमस्यास्तथपि
नालम्बेत क्षणमपि युवा किं नु मध्यस्थभावम् ॥११॥
माधवीः सहि वद्धसे पियाणुराएण ।
राधाः (दीर्घमुष्णं च निःश्वस्य ।) हला कहिं दाणीमह्मानमीरिसं भाअधेअं ? (मदनिकां प्रति) एत्थ को अत्थो ।
मदनिकाः
तवैतदेव हृदयं प्रतीत्य
स्फुटं मुकुन्दोऽपि चकार रागम् ।
भग्नः कदाचिद्यदयं प्रमदात्
प्रेमाङ्कुरो योजयितुं न शक्यः ॥१२॥
तद्वत्से मातिविक्लवा भूः । फलितोऽस्माकं मनस्कारतरुः ।
राधाः अज्जबि न पच्चेमि त एत्थ भोदि ज्जेब्ब सरनम् ।
मदनिकाः एषाहं चलितास्मि । तदनुमन्यस्व ।
राधाः (सप्रणामं संस्कृतमाश्रित्य) भगवति !
निकुञ्जोऽयं गुञ्जन्मधुकरकदम्बाकुलतरः
प्रयातः प्रायोऽयं चरमगिरिशृङ्गं दिनमणिः ।
मरुन्मन्दं मन्दं तरलयति मल्लीमधुकरान्
किमन्यद्वक्तव्यं विधुरपि विधाता समुदयम् ॥१३॥
कर्णातरागेण
मञ्जुतरगुञ्जदलिकुञ्जमतिभीषणम् ।
मन्दमरुदन्तरागगन्धकृतदूषणम् ॥
सकलमेतदीरितम् ।
किं च गुरुपञ्चशरचञ्चलं मम जीवितम् ॥ ध्रुवम् ॥
मत्तपिकदत्तरुजमुत्तमाधिकारं वनम् ।
सङ्गसुखमङ्गमपि तुङ्गभयभजनम् ॥
रुद्रनृपमाशु विदधातु सुखसङ्कुलम् ।
रामपदधामकविरायकृतमुज्ज्वलम् ॥१४॥
मदनिकाः वत्से ! अस्मिन्बकुलपदपोपकण्ठे द्रष्टव्यास्मि (इति निष्क्रान्ता । इतरा अपि निष्क्रान्ताः ।)
इति श्रीजगन्नाथवल्लभनाटके
भावप्रकाशो नाम
तृतीयोऽङ्कः
॥३॥
***************************************
.
(४)
राधाभिसारनामा चतुर्थोऽङ्कः
(ततः प्रविशति मदनिका ।)
मदनिकाः अये श्रुतं मदनामञ्जरीमुखाद्यद्बकुलपादपोपकण्ठे बटुद्वितीयो वसति मुकुन्दः । तत्तत्रैव गच्छामीति । (पुरतोऽवलोक्य) अये मुकुन्दोऽयं बटुना सह किमपि मन्त्रयन्सविषादमास्ते तद्ध्रुवमेव विलसितमत्र कुसुमशायकेन । तन्माधवीगुच्छान्तरिता शृणोमीत्यात्मानमपवार्य स्थिता ।
(ततः प्रविशति मदनावस्थां नटयन्विदूषकेन सहालपन्कृष्णह।)
मदनिकाः (स्वगतम्)
मालवरागेण
वदनमिदं विधुमण्डलमधुरं विधुरं बत सुचिरेण ।
कलयदनङ्गशराहतिमनिशं नलिनमिवेन्दुकरेण ॥
माधववपुरतिखेदम् ।
जनयति चेतसि शतधा भेदम् ॥ ध्रुवम् ॥
परिहृतहारं हृदयमुदारं धूसरितं विरहेन ।
मरकतशैलशिलातलमाहतमहह किमिन्दुकरेण ॥
गजपतिरुद्रं सुकृतसमुद्रं शशिकिरणादपि शीतम् ।
रामानन्दरायकविभणितं सुखयतु रुचिरं गीतम् ॥१॥
कृष्णःः
स चेदुत्पललोचना सहचरीवक्त्रेण मे निर्भरं
प्रेमाणं प्रकटीचकार तदयं हासो मया कल्पितः ।
हा हा शुक्तिधिया महामणिरभूत्त्यक्तो मया दैवतो
यायाल्लोचनगोचरं पुनरियं पुण्यैरगण्यैर्मम ॥२॥
विदूषकःः भो बास्स ! भणिदं जेब्ब मए मा एसा अणुराइणी परिहरीअदु त्ति । एणहिं कीस उत्तम्मसि ? भोअणेच्छाए निउत्ताए लड्डुअमोदएहिं किं कादब्बं ? ता एत्थ अहं जेब्ब उबॉ ।
कृष्णःः कथमिव ?
विदूषकःः अहं बह्मणो मन्तमबटिअ अबटिअ इममाआड्ढैस्सम् ।
कृष्णःः ज्ञातं ते ब्राह्मण्यम् । तदाकलय मदनिकाम् ।
(प्रविश्य) मदनिकाः स्वस्ति वत्साय ।
कृष्णःः (पुरतोऽवलोक्य) कथमियं मदनिका । (सप्राश्रयम्) देवि ! स्वागतं ते ?
मदनिकाः (सस्मितम्) महभाग ! मुखचन्द्रदर्शनेन ।
विदूषकःः कुसुमसरब्बथिदो अम्हाणं पिअबास्सो । ता आणीअदु सा जेब्ब गोबकुमारिआ ।
कृष्णःः (सलज्जम्) धिङ्मूर्ख ! मैवं भण ।
विदूषकःः अह्मे बह्मणा उज्जुआ फुडं जेब्ब भणामो ।
मदनिकाः (सस्मितम्) वत्स, अपि नाम अमिथ्यावचनोऽसि ।
विदूषकःः अध इम् । पेक्खध पेक्खध एदाइं पौमपत्ताइम् । (इति मर्मरपत्राणि दर्सयति । संस्कृतमाश्रित्य ।)
दुःखिवराडीरागेण
नलिनवनं वनमालीकृते कृतमुज्झितकुसुमपलासम् ।
पल्लवमपि वृन्दावनमनु कलयसि ललितविकासम् ॥
सरले पश्यसि किमु न हि कृष्णम् ।
त्वयि निहिताशां गलितविलासं चातकमिव घनतृष्णम् ॥ ध्रु ॥
विधुमिव वीक्ष्य विधुन्तुदमानय चपलमिति प्रतिवेलम् ।
वदति कथं वद यदि मदनो हृदि न वसति विरचितखेलम् ॥
गजपतिरुद्रमुदं तनुतामिति रामानन्दरायसुगीतम् ।
निभृतमनोभवविशिखपराभवहरिविरहेण समेतम् ॥३॥
मदनिकाः किमेतावता ?
विदूषकःः तुं पि पिअबास्सो जादो जाणिदम्पि ण जाणासि ता सां जेब्ब गदुअ मए आणिदब्बा । अहं पि णिसिट्ठत्थो दूदो । (इति गन्तुमिच्छति ।)
कृष्णःः (उत्तरीये गृह्णाति ।)
मदनिकाः वत्स कृष्ण ! किमिति मय्येव गोपयसि ?
कृष्णःः देवि, किञ्चित्प्रष्टव्यासि ।
मदनिकाः विश्रब्धमभिधीयताम् ।
कृष्णःः
तवास्यादेतस्या वदनरुचमाकर्ण्य शशिनः
कृतावज्ञा यस्मादयमपि रुजं तद्वितनुताम् ।
तदङ्गेनासङ्गं भजत इति यो मे बहुमतः
कथं सोऽपि प्राणैर्मम मलयवातो विहरति ॥४॥
मदनिकाः (स्वगतम्) कृतार्थास्माकं मनोरथेन सार्धं राधिका तदस्या अपि विरहावस्थां प्रकाशयामि । (प्रकाशम्) वत्स सापि लावण्यमात्रशेषा कल्याणी । तथा हि,
शिलापट्टे हैमे तुहिमकिरणं चन्दनरसैर्
इयं तन्वी पिष्टा तनुमनु विलेपं मृगयते ।
क्षणं स्थित्वा हा हा सरसविशिनीपात्रशयने
समुत्तस्थौ यावाê ज्वलति न चिरान्मर्मरमिदम् ॥५॥
समतोदिरागेण
निरवधिनयनसलिलभवसादे ।
पतितकृषा परिचलति न पादे ॥
माधव गुरुतरमनसिजबाधा ।
हरि हरि कथमपि जीवति राधा ॥ ध्रुवम् ॥
निवससि चेतसि कथमिव वामम् ।
शिव शिव शमयसि तदपि न कामम् ॥
गजपतिरुद्रनृपतिमविगीतम् ।
सुखयतु रामानन्दसुगीतम् ॥६॥
विदूषकःः भोदि साहसियॉ गोबिऑ होन्ति त्ति तक्केमि । जं चन्दचन्दनेहिमणुलेबणं मग्गेन्ति । अह्माणं पिअबास्सो उण चन्दं पेक्खिअ दिणार बिअ उलूओ कहिं बि ओबवारिदसरीरो णाणजुअलं मुद्दिअ चिट्ठदि । चन्दणाणं बाअं पि लम्भिअ सिद्धतन्तं बिअ भुअङ्गो इदो तदो ओसरेदि ।
कृष्णःः (स्वगतम्) साधु भणितम् । (प्रकाशम्) धिङ्मूर्ख ! मातिवाचालो भव ।
मदनिकाः एतस्य हृदयपरीक्षणाय कति कति प्रकाशिता न धर्माः ।
कृष्णःः (स्वगतं साटङ्कम्) अपि नाम निवृत्तेयं मदभिलाषतः ।
मदनिकाः तदस्तु ।
यदा नासौ दोषं गणयति गुरूणां कुवचने
न वा तोषं धत्ते सरसवचने नर्मसुहृदाम् ।
विषाभं श्रीखण्डं कलयति विधुं पावकसमं
तदस्यास्तद्वृत्तं त्वयि गदितुमत्राहमगमम् ॥७॥
कृष्णःः (सोच्छ्वासम्)
त्वं चेदवञ्चनपरे स्मरवारिराशेर्
उद्धर्तुमेषि तदकारणवत्सलासि ।
तत्केशरद्रुमनिकुञ्जगृहे प्रसाद्य
तामानयस्व नयकोविदतां तनुष्व ॥८॥
मदनिकाः वत्स ! सत्यमेवेदम् ।
विदूषकहः भोदि उज्जुए ! सच्चकं जेब्ब एदमेत्थ अहं जेब्ब पडिभू बह्मणो ।
कृष्णःः अलमन्यथा सम्भावनया । कुरु मत्प्रतिकारम् ।
मदनिकाः इयं प्रस्थितास्मि स्वस्ति वत्साय । (इति निष्क्रान्ता ।)
(ततः प्रविशति सङ्केतोचितवेषा राधिका ।)
राधाः सहि महवि ! विप्पलम्भिदाह्मि भवदीहिम् ।
कामकेलिरागेण
तिमिरतिरोहितसरणी ।
गिरिषु दरीषु ममेव हि धरणी ॥
चिरयति किं सखि देवि ।
विधिरपि मयि किमु न हि हितसेवी ॥ ध्रुवम् ॥
अतिवहितमतिभीमम् ।
विफलमिदं किमु गहनमसीमम् ॥
सुखयतु रुद्रगजेशम् ।
रामानन्दरायकृतमनिशम् ॥९॥
माधवीः सखि ! अलमन्यथा सम्भावनया । आगतामिव देवीमवधारय ।
(ततः प्रविशति मदनिका ।)
मदनिकाः वत्से ! दिष्ट्या वर्धसे ।
राधाः (सहर्षोच्छ्वासम्) देवि ! अध को तत्थ बुत्तन्तो ।
मदनिकाः बलवति मदनज्वरे यः स्यात।
राधाः कधं बिअ ?
मदनिकाः
इन्दुं निन्दति चन्दनं विकिरति प्रलम्बकं मुञ्चति
प्रालेयात्त्रसति प्रियं परिजनं नाभाषते सम्प्रति ।
गोविन्दस्तव विप्रयोगविधुरः किं किं न व चेष्टते
त्वत्कुञ्जोदरतल्पकल्पनपरं राधे तमाराधय ॥१०॥
(अथ निकुञ्जे कृष्णः ।)
कृष्णःः सखे कथं चिरयति मदनिका । (साटङ्कम्)
इयं तन्वी पीनस्तनजघानभरालसगतिर्
विदूरे कुञ्जोऽयं मम रचितसङ्केतवसतिः ।
स्वतो भीरुर्बाला गहनमपि घोरान्धतमसं
कथं कारं सा मामभिसरतु को मेऽत्र शरणम् ॥११॥
(क्षणं चिन्तां नटयित्वा दीर्घमुष्णं च निःश्वस्य ।)
किमेषा मत्वा मामपरिचितभावं विमुखतां
प्रयाता विश्वासं किमु सहचरीवाचि न गता ।
अथ भ्रान्ता वर्त्मन्यतितिमिरभाजीह विपिने
न शक्ता तन्वङ्गी स्मरशरहता वा प्रचलितुम् ॥१२॥
(पुरतोऽवलोक्य) अये कथमुदितप्रायोऽयं चन्द्रः । तथा हि
यथेदं कोकानां प्रसरतितरं काकुविरुतं
यथा स्फीतं स्फीतं भवति परितः कैरवकुलम् ।
यथा मूर्च्छान्मूर्च्छात्प्रतिपतमिदं वारिजवनं
तथा शङ्के चन्द्रः प्रथमगिरिवीथ्यं विहरति ॥१३॥
(सखेदम्)
सख्या वाचि कथञ्चन प्रतियाति बालान्धकारोचिते
नैषा वेषभरेण वा गतवती वर्त्मन्यथार्धे मम ।
अस्मिन्शक्रदिशं शशाङ्कहतके सन्दूषयत्युन्मना
नागन्तुं न च गन्तुमद्य चतुरा किं वा करिष्यत्यसौ ॥१४॥
(सविनयाञ्जलिं बद्ध्वा)
रे पूर्वपर्वत सखे कृपया मम त्वं
तुङ्गान्यमूनि तनु शृण्गशतानि कामम् ।
याते विलोचनपथं शशिनि प्रयाणो
विघ्नो भवेन्मृगदृशो मम जीविते च ॥१५॥
विदूषकःः (कर्णं दत्त्वा) भो सुणीअदु किं रुणु रुणु सद्दं कुणै ।
(नेपथ्ये)
तन्मञ्जीररवः किमेष किमु वा भृङ्गावलीनिस्वनस्
तत्काञ्चीरणितं नु मन्मथवतां किं सारसानां रुतम् ।
एवं कल्पयतो विकल्पमचिरादालम्ब्य सख्यः करं
गोविन्दस्य निकुञ्जकेलिसदने भूषाभवद्राधिका ॥१६॥
मलवश्रीरागेण
चिकुरतरङ्गकफेनपतलमिव कुसुमं दधति कामम् ।
नतदपसव्यदृशा दिशतीव च नर्तितुमतनुमवामम् ॥
राधा माधवविहारा ।
हरिमुपगच्छति मठरपदगतिलघुलघुतरलितहारा ॥ ध्रु ॥
शङ्कितलज्जितरसभरचञ्चलमधुरदृगन्तलवेन ।
मधुमथनं प्रति समुपहरन्ती कुवलयदामरसेन ॥
गजपतिरुद्रनराधिपमधुनातनमदनं मधुरेण ।
रामानन्दरायकविभणितं सुखयतु रसविसरेण ॥१७॥
विदूषकःः (पुरतोऽवलोक्य) भो बास्स ! अम्हेहिं जिदमेसा तत्थभोदी आअच्छदि त्ति लक्खीअदि ।
(ततः प्रविशति मदनिका ।)
मदनिकाः वत्सौ सम्पन्नश्चिरेण सुहृदां मनोरथः । तन्मामनुमन्यस्व स्थानान्तरवासगमनाय ।
विदूषकःः मं पि निउञ्जान्तरवासगमणस्स ।
(इति निष्क्रान्तः सर्वे ।)
इति श्रीजगन्नाथवल्लभनाटके
राधाभिसारो नाम
चतुर्थोऽङ्कः
॥४॥
*********************************************
.
(५)
राधासङ्गमनामा पञ्चमोऽङ्कः
(ततः प्रविशति शशिमुखी ।)
शशिमुखीः अए अज्ज निउञ्जे कल्लाणाहिनिवेसाणं को बुत्तन्तो त्ति ण जाणीअदि । ता देईमणु सरिअ जाणिस्सम् । (पुरतोऽवलोक्य) अए कधमेसा निद्दामुउलिदलोअणा लहु लहु इध जेब्ब आअच्छदि ।
(संस्कृतमाश्रित्य)
स्वैरं स्वैरं कथमपि दृशौ मन्दनिष्पन्द तारे
विन्यस्यन्ति शिथिलितभुजद्वन्द्वसन्नामितांशा ।
मन्दन्यासस्खलितचरणा व्यस्तमन्जीरघोषा
देवी निद्राकुलतरतनुर्मोदमाविष्करोति ॥१॥
सुखसिन्धुडारागेण
दरमुकुलारुणलोचनमानन इह गतकान्तिविकाशे ।
कमलमिवारुणमुषसि विधावनुबिम्बितमम्बुसकाशे ॥
किमिदमियं प्रविशन्ती ।
भजति मनो मम रतिविरताविव वनिता कापि चलन्ती ॥ ध्रुवम् ॥
शिथिलभुजामृदुरणितकनकमणिकङ्कणमिदमनुवारम् ।
विसकलपादनिवेशनिवारितनूपुरललितविहारम् ॥
गजपतिरुद्रनराधिपहृदये मुदमिदमातनुतेति ।
रामानन्दरायकविभणितं विलसति रसिकजनेऽति ॥२॥
(ततः प्रविशति यथोक्तवेषा) मदनिका (चक्षुषि विमृज्य पुरतोऽवलोक्य)ः अहो रमणीयता वसन्तयामिनीपरिणामस्य । तथा हि –
इतो मन्दं मन्दं सरसिजवनीवातलहरी
ततश्चूतास्वादप्रमुदितपिकानां कलकलः ।
क्वचित्फुल्लां वल्लीमनु मधुकराणां स्वरकथा
कुतश्चित्कोकानां मृदुमधुरमानन्दलपितम् ॥३॥
(द्वित्राणि पदानि परिक्रम्य आनन्दमभिनीय ।)
उद्दामस्मरचातुरीपरिचयादन्योन्यरागादिमां
रात्रिं जागरितानि सद्मनि युवद्वन्द्वानि यच्चेरते ।
तत्तेषां श्वसितानिलेन तुलनामासादयिष्यन्निव
प्रोन्मीलत्कमलावलीषु वलते श्रीखन्दवीथिमरुत॥४॥
(पुरतोऽवलोक्य सविस्मयम् ।)
चकितचकितं क्वापि क्वापि प्रमोदनिरन्तरं
क्वचन वनिताकुण्ठोत्कण्ठं निधाय विलोचने ।
कलयति तथावस्थामेषा रथाङ्गकुटुम्बिनी
भवति न यया चान्तेवासी विदग्धवधूजनः ॥५॥
(क्षणमन्यतो गत्वा साश्चर्यम्) अये ! अतिरमणीयमिदं वर्तते । तथा हि –
उन्मीलत्कमलोदरे मधुभरे दृष्ट्वानुबिम्बं निजं
मन्वाना दयितं कथञ्चिदधुना नोत्कण्ठया धावति ।
उत्कण्ठोपनतं पुनः सहचरं दृष्ट्वा विलक्षा मुहुर्
न स्थातुं न च गन्तुमत्र चतुरा भृङ्गी चिरं भ्राम्यति ॥६॥
शशिमुखीः इयम् अतिप्राभातिकरमणीयकाहृतचित्ततया न मामवलोकयति । तदुपष्र्त्य वन्दे । (इत्युपष्र्त्य) देवि ! वन्द्यसे ।
मदनिकाः कथं शशिमुखि वत्से मे चिरमन्यचित्ततया नावधारितासि ?
शशिमुखीः देवि कथं निद्राकुलामिव भगवतीं तर्कयामि ।
मदनिकाः वत्से ! इवेति कथं तथैव ?
शशिमुखीः अथ कथमिव ?
मदनिकाः
राधामधवयोरद्य
निकुञ्जमधितिष्ठितोः ।
तत्तत्कुतुकितलोकान्
निशेयमतिवाहिता ॥७॥
शशिमुखीः अथ कीदृशस्तत्रत्यो वृत्तान्तः ?
मदनिकाः शृणु । (नयने प्रमृज्य) वत्से ! जानासि निकुञ्जप्रवेषावधि ।
शशिमुखीः अध किम् ।
मदनिकाः तदनन्तरम्,
यः स्तम्भो मुरविद्विसः समभवत्तेनपि मनो
माध्यस्थ्यं परिशङ्कते भयमनोजन्मत्रपानिर्भरम् ।
कामेषुव्रजपक्षवातविसरप्राप्तोदयो न क्षणाद्
अश्वासं हरिणीदृशो वितनुते तस्य प्रकम्पो यदि ॥८॥
शशिमुखीः प्रियं मे प्रियं कृतार्थास्मि ।
मदनिकाः इतः परमपि सुहृदां कृतार्थता ।
शशिमुखीः अपि नाम दृष्टं देव्या अन्यदपि ।
मदनिकाः समस्तमेव ।
शशिमुखीः ततस्ततः ।
मदनिकाः वत्से !
साशङ्कं समनोभवप्रहसितं सापत्रपं सस्मयं
सासूयं समनोहरात्मकपदं सप्रेम सोत्कण्ठितम् ।
राधाया मधुसूदनस्य च तदा कुञ्जे तदासीद्रतं
येनासीन्मदनोऽपि विस्मयरसस्निग्धान्तरो निर्भरम् ॥९॥
अहीररागेण
मृदुमञ्जीररवानुगतं गतमनया शयनसमीपम् ।
मधुरिपुनापि पदानि कियन्त्यपि चलितं कियदनुरूपम् ॥
शशिमुखी किं तव बत कथयामि ।
राधामाधवकेलिभरादहमद्भुतमकलयामि ॥ ध्रुवम् ॥
मिलितमिदं किल तनुयुगलं पुनराप न कञ्चन भेदम् ।
विषमशराशुगकीलितमिव सखि गलितचिरन्तनखेदम् ॥
नखररदावलिखण्डितमपि गुरुनिःश्वसितायतभीतम् ।
रुद्रगजाधिपमुदमातनुतां रामानन्दरायसुगीतम् ॥१०॥
शशिमुखीः देवि ! असम्बद्द्धमिवेदं प्रतिभाति माम् ।
मदनिकाः कथमिव ?
शशिमुखीः तयोः कथमीदृशं सौरतकौशलं जातम् ।
मदनिकाः अयि सरले !
उपदिशति गुरुर्गुरुप्रयत्नात्
तदपि च कालवशात्प्रयाति पाकम् ।
इति किल नियताः समस्तविद्याः
सुरतकलाः स्वत एव सम्भवन्ति ॥११॥
अत्रान्तरे सुरतकेलिकलासु तासु
प्रायेण शिक्षित इवैष शशी चिरेण ।
योग्यं ततः किमपि कर्तुमिव प्रकामं
संसेवते स्म चरमां दिशमादरेण ॥१२॥
शशिमुखीः सम्प्रति च कल्याणिनोः –
अभिमतसुरतप्रमोदलक्स्मी
परिचयनिर्वृतिमायतोश्चिरेण ।
नखपददशनाङ्कचारुभूषा
ललिततमं वपुरीक्षितुं मनो मे ॥१३॥
(ततः प्रविशति सत्वरा राधिका कतिचिद्दूरे कृष्णश्च ।)
राधाः (पुरतोऽवलोक्य) आपसन्नाइं दिशां मुहाईम् । ता कधमोबारिदसरीरा गमिस्सम् । (सत्वरं द्वित्राणि पदानि परिक्रम्य वलितग्रीवमवलोकते ।)
कृष्णःः (क्षणं निर्वर्ण्य) अहो भयमन्मथसंवलना मृगाक्षी ।
द्वित्रान्येव पदानि गच्छति जवाद्द्वित्रानि मन्दं पुनस्
त्रासोत्कम्पमथापि पश्यति दिशः साकूटमेताः पुनः ।
यो न स्यादपि गोचरे नयनयोर्नेदिष्टमेतं जनं
सम्प्रत्येति पदे पदे व्यवहितं मामन्तिकेऽपि प्रिया ॥१४॥
राधाः (पुनः सत्वरं परिक्रामति ।)
मदनिकाः वत्से ! पश्य पश्य पुरतो राधिकां कतिचिद्दूरे माधवं च । इयं हि
न व्यालादपि सम्बिभेति पुरतः स्थाणोर्यथा दूरतो
नोद्विग्ना करिगर्जितादपि यथा काकावलीनिःस्वनात।
नैवेयं तिमिरेऽपि मुह्यतितरं कामं प्रकाशे यथा
तन्मन्ये विरहेऽपि नैव विधुरा कान्तस्य योगे यथा ॥१५॥
ललितरागेण
अभिमतगाढमनोरथसमुचितरतिपतिसमरविशेषे ।
विजयपरजयपरिचयविमुषितचेतसि वलदभिलाषे ॥
लुलितमनोहरदेह ।
कथयति परिचयमियमतिनिपुणं मृदुपदकमललवेह ॥
कुसुमशरासनशरनिकरध्वनिमणित मनोहरघोषे ।
गुणपरिपाटितया परिकल्पितनखदशनक्षतदोषे ॥
गजपतिरुद्रनराधिपविदिते रसिकजनाहिततोषे ।
रामानन्दरायकविभणिते हृदयं कुरुत विदोषे ॥१६॥
तदतिभयकतरेयं वत्सा । तदुपष्र्त्य सम्भावयामास्तावदेनाम् । (इत्युपष्र्त्य) वत्से स्वागतं ते ।
राधाः (ससम्भ्रममवलोक्य) अत्र कधमेसा देई । (स¬लज्जं वन्दते ।)
(नेपथ्ये कलकलः) अब्रह्मण्यमब्रह्मण्यम् ।
(सर्वाः श्रुतिमभिनयन्ति ।)
(पुनर्नेपथ्ये)
शृङ्गाभ्यां च खुराञ्चलेन च बलादेष क्षमामुल्लिखन्
कल्पान्तस्तनयित्नुगर्जितघनध्वनैर्दिशो दारयन।
उल्कार्चिह्प्रतिमल्लमक्षियुगलं क्रोधादिवान्दोलयन्न्
एष व्यापदि मज्जयन्व्रजमभूद्दैवादरिष्टोऽग्रतः ॥१७॥
(सर्वे निकुञ्जोदरे आत्मानमपवार्य पश्यन्ति ।)
कृष्णःः (साटोपमुपसर्पन्) अभयं घोषनिवासिनाम् । (सगर्वं बाहुमुद्यम्य)
दृप्यद्दानवशीर्णशैलवलयक्षौणीमहालम्बने
वैरिव्याकुलशक्रशान्तिकमखप्रोद्दामयूपेऽपि च ।
अस्मिन्कृष्णभुजेऽपि जाग्रति भयं नित्यं तदेकाश्रयान्
घोषस्थानपि सम्स्पृशेदहह किं प्राणैर्मम क्रीडति ॥१८॥
(इति साटोपं परिक्रामति ।)
(नेपथ्ये) भोः कष्टं कष्टम् ।
याभ्यां गिरीणामपि शृङ्गवत्त्वं
सोढुं न शक्तेन विदारितास्ते ।
तयोरनेनोत्पलकोमलाङ्गो
लक्ष्यीकृतो बालतनुर्मुकुन्दः ॥१९॥
मदनिकाः (विलोक्य सास्रम्)
अद्य क्षौणी सहस्व भारमतुलं देव जयाशा कुतः
श्रीदेवि व्रतमाचर व्रजजनाः क्वानन्दवार्तापि वः ।
मातर्देवकि किं भविष्यसि गता नन्दादयो राधिके
शून्यं ते जगदद्य जातमधुना हा हा हताः स्मो वयम् ॥२०॥
राधाः (श्रुतिमभिनीय सातङ्कम्) हद्धि हद्धि मह मन्द¬भाईणाए एआरिसं दुद्देब्बविलसिदं जादम् ।
शशिमुखीः सखि समाश्वसिहि समाश्वसिहि । एष खलु मुकुन्दह।
(नेपथ्ये)
यत्रोन्मीलति मीलितं त्रिभुवनं यत्रोन्नमत्यानतं
यस्मिन्भ्राम्यति न भ्रमन्ति वियति प्रायेण वाता अपि ।
क्सिप्त्वा कन्दुकलीलया तमधुना वृन्दावनाद्दूरतो
हत्वारिष्टमरिष्टमेतदकरोत्श्रीमान्मुकुन्दो जगत॥२१॥
(ततः प्रविशति कृष्णः । सर्वाः सस्प्र्हमालोकयन्ति ।)
मदनिकाः अहो रामणीयकं जयश्रीभूषणस्य वत्सस्य । तथा हि –
विस्रस्तालकवल्लरीपरिमिलत्स्वेदोदबिन्दूत्कर
व्यालिप्तालिक चन्दनः क्रमगलत्केकिच्छदोत्तंसकः ।
पदक्षेपसमुच्छलत्क्षितिरजोरम्याङ्गरागश्चिराद्
आनन्दं वितनोत्ययं नयनोराविर्भवन्माधवः ॥२२॥
(उपष्र्त्य) दिष्ट्या दृष्टोऽसि वत्स जयश्रीस्वयंवरालिङ्गितः ।
कृष्णःः (दृष्ट्वा सहर्षम्) देवि ! स्वागतं ते ।
मदनिकाः स्वागतमधुना वत्सेन जयश्रीभूषणेन दृष्टेन तद्वत्स क्षणमिह बकुलपादपोपवीथ्यां विश्रम्यताम् ।
कृष्णःः यदभिरुचितं देव्यै । (इत्युपविशति ।)
मदनिकाः (सस्नेहमङ्गं स्पृशति) वत्स कृतदुष्करकर्मणः किमपि परितोषकं दित्सामि ।
कृष्णःः यदभिरुचितं देव्यै ।
मदनिकाः (निष्क्रम्य राधामादाय प्रविश्य) वत्स !
नवाभिसङ्गविधुरां
त्रासोन्मीलितलोचनाम् ।
मधुरालोकनेनैनं
सम्भावय चिरादिव ॥२३॥
कृष्णःः (सस्पृहमालोकयति ।)
मदनिकाः वत्से !
क्रूरसङ्गरपरिश्रमोल्लसत्
स्वेदबिन्दुनिकरैः करम्बितम् ।
अञ्चलेन निजवाससः प्रियं
वीजय प्रियगिराभिनन्द्य च ॥२४॥
(राधा सस्पृहं वीजयति ।)
मदनिकाः इतः परं किं ते प्रियं सम्पादयामि ?
कृष्णःः देवि ! इतः परं किमपि प्रियमस्ति ?
पञ्चेषोर्विशिखावलीभिरभितो निस्तक्ष्यमाणेन चेद्
आनन्दैकनिदानमेणनयना प्राप्ता प्रसादात्तव ।
भूयात्सायमालम्भि काचन दृशोः पीयूषधारा मया
किं वातः परमस्ति देवि भुवने किञ्चित्प्रियं मादृशाम् ॥२५॥
मङ्गलगुज्जरिरागेण
परिणतशारदशशधरवदना ।
मिलिता पाणितले गुरुमदना ॥
देवि किमिह परमस्ति मदिष्टम् ।
बहुतरसुकृतफलितमनुदिष्टम् ॥ ध्रुवम् ॥
पिकविधुमधुमधुपावलिचरितम् ।
रचयति मामधुना सुखभरितम् ॥
प्रणयतु रुद्रनृपे सुखममृतम् ।
रामानन्दभणितहरिरमितम् ॥२६॥
तथापीदमस्तु –
श्रद्धाबद्धमतिर्मम प्रतिदिनं गोपललीलस्य यः
संसेवेत रहस्यमेतदतुलं लीलामृतं लोलधिः ।
तस्मिन्मद्गतमानसे किल कृपादृष्ट्या भवत्या सदा
भाव्यं येन निजेप्सितां व्रजवने सिद्धिं समाप्नोति सः ॥२७॥
मदनिकाः तथास्तु । (इति निष्क्रान्ताः सर्वे ।)
इति श्रीजगन्नाथवल्लभनाटके
राधासङ्गमो नाम
पञ्चमोऽङ्कः
॥५॥
इति श्रीरामानन्दरायकविसार्वभौमविरचितं
श्रीजगन्नाथवल्लभनाटकं समाप्तम्
*************************************************************
]