वृषभानुजा

[[वृषभानुजा Source: EB]]

[

[TABLE]

काव्यमाला।
<MISSING_FIG href="../books_images/U-IMG-1726745906Screenshot2024-09-19165916.png"/>

कायस्थ1कुलोद्भवमथुरादासविरचिता
वृषभा2नुजा।
<MISSING_FIG href="../books_images/U-IMG-1726745945Screenshot2024-09-19165652.png"/>

प्रथमोऽङ्कः।

**कपोले पत्त्रालीं पुलकिनि विधातुं व्यवसितः
स्वयं श्रीराधायाः करकलितवर्तिर्मधुरिपुः।
यदासीत्तद्वक्त्रे3 निहितनयनः कम्पितभुज

स्तदेतत्सामर्थ्यं तदभिनवरूपस्य जयति॥१॥**

अपि च।

सुधाधाम्नः कान्तिस्तव वदनपङ्केरुहगुणै-
र्जितेव म्लानत्वं व्रजति सहसा प्राणदयिते।
वदत्येवं कान्ते दिवसविरहातङ्कचकिता
मुधा सुप्ता राधा तव दिशतु4 नित्यं प्रियशतम्॥२॥

अपि च।

वामांशस्थलचुम्बिकुण्डलरुचा जातोत्तरीयच्छविं
वंशीगीतिभवत्त्रिभङ्गवपुषं भ्रूलास्यलीलाकुलम्5

किंचित्स्रस्तशिखण्डशेखरमतिस्निग्धालिनीलालकं
राधादिप्रमदाशतावृतमहं वन्दे किशोराकृतिम्॥३॥

अपि च।

नीलाम्भोरुहकोशकोमलतनुं स्मेराननं मालिनं
सुस्निग्धं दधतं दुकूलयुगलं वाग्वैभवस्यास्पदम्।
स्वीयानां मुदितामृतेन हृदयं संतर्पयन्तं सदा
राधाकेलिकथासु संततरतं ध्यायामि कृष्णा6भिधम्॥४॥

(नान्द्यन्ते)

** सूत्रधारः**— अलमतिव्याहृतेन। अद्य खलु बल्लवविलासिनीभिर्विनिद्रा-रविन्दवदनामो7दि-परिमलवाहिनीभिः पद्मिनीभिरिव विलोभ्यमानमानसहंसस्य श्रीवृष8भानुनन्दिनीपादपद्मरजोर-ञ्जितोपान्तेन मायूरमुकुटेनालंकृतमौलेः समद9कलहंसकामिनीकुलकोलाहलेन पुलिनवलयेन मुखरमेखलया परिगतनितम्बबिम्बेनेव विराजितायास्तपनतनयाया वेलाव10नान्तलतामण्डपेषु समारब्धकन्दर्पकेलिकलाकलापस्य यशोदानन्दयोर्नयनानन्दजननस्य त्रिभुवनविलोभनीयाभिनव-किशोरवयसः श्रीराधामोहनस्य वृन्दारण्यान्तर्गतानां विहारवनस्थलीनामवलोकनसुखमनुभवितु-मनेकदेशान्तरादुपस्थितेन साधुजनवृन्देन समाहूय सादरमभिहितोऽस्मि। यथा— अस्मत्प्रिय-सुहृदातिप्रबलया भगवद्भक्त्या कायस्थकुलावतंसतामुपगतेन जहुकन्यकाकालिन्दीतीरावलग्ने मध्यदेशशिरःशेखरभूते सुवर्णशेखरनाम्नि नगरे समवाप्तपरार्ध्यजन्मना श्रीमथुरादासेन या विरचिता विदग्धजनहृदयकुमुदानन्दैककौमुदी वृषभानुजा नामापूर्वनाटिका सा भवताभिनेतव्या। यावन्नेपथ्यविधानं रचयित्वा यथासमीहितं समाचरामि। (परितो विलोक्य। सानन्दम्।) अये, सुहृद्भूयिष्ठेयं परिषत्कौतुकापहृतचित्तवृत्तिर्लक्ष्यते। सर्वथा11 भो व्रजेन्द्रनन्दनलीलामृतरसाविष्टचित्तचञ्चरीकाः, क्षणं दत्तावधाना भवत। सोऽहं रङ्गतरङ्गनामधेयो”) तस्य

कवेरमृतरसनिष्यन्दिसूक्तीनां चरितार्थता। स्थाने चास्मत्कलाकलापविन्यासविलासानां प्रवृत्तिरिति। (पुनः सर्वतो विलोक्य। साशङ्कम्।) ननु तस्य12 कवेर्धर्मानभिज्ञः कश्चिदिह न भवेत्। (विचिन्त्य ) भवतु।

ये वाञ्छन्ति भवच्छिदच्छमतयो ज्ञानं परं मुक्तये
ते सायुज्यपदं व्रजन्तु सुतरां श्रान्ताः स्वविस्मारकम्।
ये वैकुण्ठपतेश्च वासवसतौ स्निग्धाः स तैः सेव्यता-
मेते तत्सुहृदो जयन्ति रसिका राधाधवाराधने॥५॥

तदिदानीं गृहं गत्वा जायामाहूय रङ्गमङ्गलानि संपादयामि। (परिक्रम्य नेपथ्याभिमुखमवलोक्य च।) आर्ये, इतस्तावत्।

(प्रविश्य)

** नटी—** अज्जउत्त, इअह्मि। आणवेदु अज्जो को णिओओ अणुचिट्ठीअदु त्ति। (क)

** सूत्रधारः—** आर्ये, वृषभानुजाप्रयोगाभिनयविलोकनाय कुतूहलिनः पारिपदाः। हृतहृदयोऽस्मि सहजसुहृदामेतेषां प्रीतिप्रकर्षेण प्रेमपुरःसरेण च सततमालापेनेति13

कदा वृन्दारण्ये नवघननिभं नन्दतनयं
परीतं गोपीभिः क्षणरुचिमनोज्ञाभिरभितः।
गमिष्यामस्तोषं नयनविषयीकृत्य कृतिनो
वयं प्रेमोद्रेकस्खलितगतयो वेपथुभृतः॥६॥

तेन हि सत्वरमारभ्यतां गीतक14महोत्सवः।

** नटी—** (साश्चर्यम्।) -अज्जउत्त, देसन्तरादो आअदेहिं एदेहिं सह पढम-

______________________________________________

(क)आर्यपुत्र, इयमस्मि। आज्ञापयत्वार्यः को नियोगोऽनुष्ठीयतामिति।

______________________________________________

नटस्तेन कविना कृतामभ्यर्थनामुदाहर्तुकामः। (प्रणिपत्य।) प्रयोगबन्धः सरसः कवीनां दृष्टो भवद्भिर्बहुशः सुकान्तः। गुणेन शून्योऽपि मम प्रबन्धः कृष्णप्रसङ्गादवलोकनीयः॥ (सर्वतो निर्वर्ण्य।)’ इति ख- पुस्तकपाठः.

दंसणेण जेव्व कुदो दे ईरिसी पीई संवृत्ता। जं अज्ज भोअणादिअं विणाहिणन्दसि। (क)

** सूत्रधारः**— आर्ये, कुत ईदृशी प्रीतिः संवृत्तेत्यलमाशङ्कितेन। यतः।

हेतुर्नैसर्गिकः कोऽपि प्रीतेर्यदि न वर्तते।
मालती मधुरास्तीति मधुपः केन शिक्ष्यते॥७॥

(नेपथ्ये।)

साधु भरताधिराज, साधु। सत्यमेवैतत्। कः संशयः। (‘हेतुर्नैसर्गिकः कोऽपि’ (१।७) इति पठति।)

** सूत्रधारः**— (समाकर्ण्य। नेपथ्याभिमुखमवलोक्य च।) आर्ये, किमत्र कालातिपातेन। नन्वेष विरचितवृन्दावेषः समागत एव ममान्तेवासी मधुरप्रियो गृहीतत15त्सहचरीवनरक्षिकाभूमिकश्च सखा मे रङ्गमङ्गलः। तदावामपि गत्वा रङ्गप्रवेशाय संनद्धीभवावः।

(इति निष्क्रान्तौ।)

इति प्रस्तावना।

(ततः प्रविशति यथानिर्दिष्टा वृन्दा वनरक्षिका च।)

** वृन्दा—** सत्यमेवैतत्। कः संशयः। (‘हेतुर्नैसर्गिकः कोऽपि’ इति पुनः पठति।) अन्यथा राधाकृष्णयोः कुमुदिनीकुमुदबान्धवयोरिव कथं तादृशी प्रीतिः। (क्षणं विमृश्य) सखि वनरक्षिके, मयाप्यस्मिन्व्यतिकरे किंचिदिव साधु विहितम्।

** वनरक्षिका**— आवेदेदु भअवदी कथं विअ। (ख)

** वृन्दा—** सखि, समाकर्ण्यताम्। गता यदृच्छयाहं वृषभानुगोपनिकेतनम्। तत्तनयां राधां सुमृष्टमणिकुट्टिमे प्राङ्गणैकप्रदेशे कन्यकासहस्रमध्य-

_______________________________________
(क)आर्यपुत्र, देशान्तरादागतैरेतैः सह प्रथमदर्शनेनैव कुतस्त ईदृशी प्रीतिः संवृत्ता। यदद्य भोजनादिकमपि नाभिनन्दसि।

(ख)आवेदयतु भगवती कथमिव।
_______________________________________

वर्तिनीं कुमारीभावोचितानेकलीलारसमनुभवन्तीं परिस्फुरन्त्या निजाङ्गकान्त्या काञ्चनमयीमिव कुर्वतीं स्वपरिसरभुवं विदूरादेवावलोक्य मनसि कृतवत्यस्मि।

**वनरक्षिका—**तदो तदो। (क)

** वृन्दा—** इयं हि

आत्मानुरूपरमणीयगुणेन तन्वी
सौदामिनीव रुचिरेण नवाम्बुदेन।
नन्दात्मजेन सह येन लभेत योगं
यत्नः स एव निपुणोऽत्र मया विधेयः॥८॥

** वनरक्षिका—** भअवदि, तुह मुहचन्दादो विणिग्गदं इमं राहामोहणमिहुणस्स अण्णोण्णव्वइअरकधासुधारसं सुदिसुत्तिआएहिं समापिबन्तीं आमूलादो आकण्णेदुं तुवरेदि मं तुवाणुग्गहजणिदो मणोरहो। (ख)

** वृन्दा—**

अत्रान्तरे स वृषभानुरुपाजगाम
श्रुत्वा ममागमनमाशु तयानुयातः।
वत्से समानय करौ सबहुप्रणामं
तामित्यभाषत ततश्च मया स उक्तः॥९॥

महाभाग, किमायासयसि महानुभावामेनाम्। यतः।

इयमतिललिताङ्गी रोचिपामग्रभूमिः
कुसुमशरजयश्री रूपसीमान्तलेखा।
ध्रजपति16तनयस्य प्रेमपात्री भवित्री
भवति17 तव नितान्तं वाञ्छितानां विधात्री॥१०॥

__________________________________________

(क)ततस्ततः।

(ख)भगवति, तव मुखचन्द्राद्विनिर्गतमिमं राधामोहनमिथुनस्यान्योन्यव्यतिकरकथासुधारसं श्रुतिशुक्तिकाभ्यां समापिबन्तीमामूलादाकर्णयितुं त्वरयति मां तवानुग्रहजनितो मनोरथः।

__________________________________________

** वनरक्षिका—** भअवदि, सा महाणुभावा राहिआ एदं आकण्णिअ तदो कीरिसी संवुत्ता। (क)

** वृन्दा—** मुग्धतया स्नेहरसानभिज्ञापि सा मदभिहितमुपश्रुत्य मुहुः श्रुतिपरिसरं प्रियवचनमाकर्णयितुमिवोपगतेन तिर्यगपाङ्गेन चक्षुपा मामवलोकयन्ती तत्कालोपजातलज्जयेव किंचिदवनतमुखी स्थिता।

** वनरक्षिका—** अध गोउलेन्दणन्दणस्स वि अणुराओ के विहिणा समुल्लासिदो भअवदीए। (ख)

** वृन्दा—** सखि, श्रूयताम्। तदाहमिति चिन्तितवती। यदेनां महाभागां स्पृशतीव लज्जादिभावः कृतकृत्याहं संप्रति गोकुलं गत्वा बल्लवेन्द्रनन्दनस्यापि कर्णपथमुपनयाम्यप्रतिममाधुरीं दधानं राधाभिधानं केनचित्प्रसङ्गेन।

** वनरक्षिका—**तदो तदो। (ग)

** वृन्दा—** ततो मुहूर्तादिव गोकुलमुपगत्य कलरुतैरुन्मत्तमधुकरकुलैरभ्यर्थ्यमानमकरन्द-स्योपवनसहकारस्य वेदिकायां क्षणं स्थित्वा सविस्मयं तस्य प्रदेशस्य रामणीयकं18 निरूपितवत्यस्मि। तथा हि।

क्वचिद्वैढूर्यस्य19 द्युतिमभिनवैः शाद्वलचयैः
क्वचित्सद्यः सूतैस्तरुकिसलयैर्विद्रुमरुचिम्।
क्वचिन्मुक्ताकान्तिं सितमुकुलकैर्यत्परिसरे
हरत्येषा भूमिर्नयनसुभगं गोकुलमिदम्॥११॥

अपि च।

यस्योपान्ते तपनतनयातीरमासाद्य वत्सा
वीताशङ्कैःसह खगमृगैर्मन्दमन्दं चरन्ति।

____________________________________________

(क)भगवति, सा महानुभावा राधिकैतदाकर्ण्य ततः कीदृशी संवृत्ता।

(ख)अथ गोकुलेन्द्रनन्दनस्यापि अनुरागः केन विधिना समुल्लासितो भगवत्या।

(ग)ततस्ततः।

____________________________________________

गोशालाभिर्बहुभिरभितः20 कल्पिताभिः किलोच्चैः
प्राकारस्य श्रियमविरलां यच्च कामं बिभर्ति॥१२॥

धन्याः21 खल्वेते यदत्र गोपरूपधारिणो मुनय इव विगतान्याभिलाषचिन्ताः प्रेमोपरक्तचेतसः सततमस्य नन्दसूनोर्निमेषपराङ्मुखेन चक्षुषा मुखपङ्कजमापिबन्तो निवसन्ति।

**वनरक्षिका—**तदो तदो। (क)

वृन्दा— एवमादिकं चिन्तयन्त्यामेव मयि परिजनादुपलभ्य मदागमनं गोपाधिपतिर्नन्दः सत्वरमुपागतः। सबहुमानं च मामितस्ततः संचरद्युवतिजनसहस्रमणिनूपुररवाहूतानां गृहदीर्घिकाकलहंससारसानां निनादैर्मनोहरम्, प्रस्फुरत्पताकाकोटिविलिखितनभस्तलाभि-रायामिनीभिरुच्चैर्मणिस्तम्भसहस्रमुद्वहन्तीभिरतितुङ्गशालाभिरभिभूषितम्, देहलीवलयविनिर्मित-नीलरत्नकिरणान्प्रमृष्टमणिकुट्टिमे प्राङ्गणे निपतितान्प्रत्यग्रदूर्वाप्रतानशङ्कया सलीलमालिह-द्भिश्चटुलबालवत्सशतैः समुपशोभितम्, कैश्चिद्रत्नभित्तिषु संक्रान्तात्मप्रतिबिम्बकान्युद्वीक्ष्योद्वीक्ष्य कदाचित्समालिङ्गितुमायासितबाहुभिः कदाचिदन्तःशून्यं मुधा मुकुलीकृताङ्गुलिदलं करकमलं गृह्यतामेतदिति संज्ञया प्रहितमनन्तरमाकृष्योपहसद्भिः कदाचित्स्वयमुपरचित-मुखभङ्गिविकारतयात्मानं विडम्ब्यमानमधिगम्य समुपजाताभिषङ्गमङ्गुल्या तर्जयद्भिः कदाचित्स्वरत्न22मालिकालंकृतानि संभाव्य ससंभ्रमं निजकण्ठदेशं स्पृशद्भिः कैश्चिदनुसृत-भवनमृगशावकैः कैश्चिन्मुक्ताफलशकलप्रदानानन्दितकलहंसपोतकैः कैश्चिद्वनचरोपनीत-दाडिमीफलप्रणयिभिरनेकलीलामनोहरिभिर्गोपकुमारकैर्विराजितम्, समुन्नतस्तनतट-प्रेङ्खोलितस्थूलमुक्ताफलदामभिः प्रचलत्कनकवलयानुविद्धविविधरत्नोन्मुखमयूखैर्नखत्विषा विभिन्नैर्व्योमाभोगं सेन्द्रायुधमिव कुर्वतीभिः सरभसान्दोलनसंक्षोभोत्सर्पितैर्बिन्दुविसरैर्दुर्दिन-तामिवोत्पादयन्तीभिर्गोपवधूभिर्मथ्यमानदधिसमुज्जृम्भितेन तासां

__________________________________________

(क)ततस्ततः।

__________________________________________

च जघनतटास्फालनरणितमणिकिंकिणीझङ्काररवपीवरेण मङ्गलगीतिस्निग्धगम्भीर-सप्तस्वरोप-बृंहितेन वियद्व्यापिना निर्घोषेण जलदसंपदमुत्प्रेक्ष्य ससंभ्रममुन्मुक्तकेकानां कलापिकदम्बकानां प्रमोदनर्तितैरलंकृतम्, अनेकशुकसारिकाभिरुद्धुष्यमाणकृष्णाद्भुतचरित्रम्, एकदेशविनिहितै-रनेकरसपूर्णैः सुवर्णरजतादिभाजनसहस्त्रैरुद्भासितम्, एकदेशे च मनोहारिणा क्रीडापर्वतकेन विराजमानमेकदेशे च हुताशनमुपर्युपरि स्थापिताभिः पयःपरिपूरितपात्रपङ्क्तिभिर्दिवसेऽपि भुवि विस्फूर्जिततारकावलीभिरिव संशोभमानम्, सर्वसिद्धीनामुपत्तिस्थानभूतं स्वभवनं नीतवान्।

वनरक्षिका— (स्वगतम्।) अहो ससिरिअत्तणं णन्दगेहस्स। अह वा सअललोअणिवासो भअवं वासुदेवो सअं जत्थ पडिवसइ तत्थ किं अच्चरिअं। (प्रकाशम्।) तदो तदो। (क)

वृन्दा— तस्यैवंविधस्याङ्गणमध्यभागेऽशेषभुवनश्रियः प्रासादस्येव पारिजातस्याधस्तादलंकृत-पद्मरागवेदिकां प्रस्फुरन्तीभिर्निजाभरणप्रभाभिरावृतविग्रहां वनगमनकामं सुतं प्रहर्षगर्भस्निग्ध-मधुरैर्वचोभिर्लालयन्तीं तत्रभवतीं यशोदाम्— (इति वागसमाप्तावेव।)

वनरक्षिका— (प्रेमविशेषेण बाष्पपूरोपरुद्धकण्ठा कथंकथमपि।) भअवदि, ताए महाभाआए सिणेहसिणिद्धमहुरवअणस्सवणत्थं सवणाइं मे आउलीहोन्ति23’ ख.")। ता वण्णेदु भअवदी। (ख)

वृन्दा— तद्यथा।

त्वन्मुखाम्बुजविलोकनं विना नो मुहूर्तमपि नेतुमुत्सहे।
त्वां कथं हि विपिनेऽनुवासरं प्रेष्य तात बत धारयाम्यसून्॥१३॥

_________________________________________

(क)अहो सश्रीकत्वं नन्दगेहस्य। अथ वा सकललोकनिवासो भगवान्वासुदेवः स्वयं यत्र प्रतिवसति तत्र किमाश्चर्यम्। ततस्ततः।

(ख)भगवति, तस्या महाभागायाः स्नेहस्निग्धमधुरवचनश्रवणार्थं श्रवणौ मे आकुलीभवतः। तद्वर्णयतु भगवती।

_________________________________________

** वनरक्षिका**— (सविस्मयमात्मगतम्।) हन्त, पआसिदो एत्थ पेम्मसंवलिदवच्छलरसो। (प्रकाशम्।) तदो तदो। (क)

वृन्दा— (विलोक्य।) भक्तिप्रवणेन मनसा प्रणामं ग(कृ)तवत्यस्मि।

** वनरक्षिका—** तदो केण प्पसङ्गेण समक्खं पिदिरीणं कण्हस्स कण्णावदंसीकिदं राहाअभिधाणत्तवअं भअवदीए। (ख)

** वृन्दा—** ततश्च समुचितातिथिसत्कारसंभारैरुपकल्पितोपचारां मां व्रजेश्वरः सप्रश्रयम् ‘कच्चित्कमुद्देश्यमनुगृह्येहागमनं भगवत्याः’ इत्यपृच्छत्। ततश्चावनतकन्धराहं तदा तं प्रति ‘भगवन्, अस्मिन्व्रजमण्डले24 संचरमाणाहं राधाभिधां वृषभानुगोपतनयामतिशयशीलरूपसंपन्नां सर्वलक्षणोपेततयातिधीरप्रकृतितया च विडम्बयन्तीमिव श्रियं विलोक्य रूपमाधुर्यवयःसदृशतया तव सूनोरनुस्मरन्समुपजातदर्शनकुतूहला चात्रायाता’ इत्यवदम्25

वनरक्षिका— तदो तदो। (ग)

वृन्दा— अस्मिंश्चान्तरे समुदपादि महान्कलकलः। तमाकर्ण्येति चिन्तितं मया— यदेष आपूर्यमाणशङ्खसहस्ररवपूरित26दिक्चक्रवालं समभिहन्यमानभेरीमृदङ्गकाहलानकमन्द्र-माङ्गलिकनिध्वानमधुकरम् ‘इदमागृह्यताम्, इदमानीयताम्, इत एवागम्यताम्’ एवंप्रायैर्गोप-कुमाराणां ससंभ्रमालापैर्मुखरितरथ्यामुखं समुल्लसति कोलाहलः। तत्तर्कयामि वनमभि प्रस्थितः कृष्णः।

** वनरक्षिका—** तदो तदो। (घ)

___________________________________________

(क)हन्त, प्रकाशितोऽत्र प्रेमसंवलितवात्सल्यरसः। ततस्ततः।

(ख)तदा केन प्रसङ्गेन समक्षं पित्रोः कृष्णस्य कर्णावतंसीकृतं राधाभिधानस्तबकं भगवत्या।

(ग)ततस्ततः।

(घ)ततस्ततः।

___________________________________________

** वृन्दा**—तदा च परिक्रम्यावलोक्य तं निर्व्याजसुन्दरं27 मनसि28 विचारितवत्यस्मि। तथा हि।

भूषाविभूषणमपि स्फुरदङ्गकान्त्या
माङ्गल्यमेतदिति यं जननी यशोदा।
प्रायः प्रसाधितवती न तु दीप्तिबुद्ध्या
सोऽयं सुहृत्परिवृतः समुपैति कृष्णः॥१४॥

(वनरक्षिका सप्रेमातिशयं तत्पादयोः पतति।)

** वृन्दा—**(पादावाक्षिप्य।) सखि, इदानीं गत्वा कार्यान्तरमनुतिष्ठावः।

(इति निष्क्रान्ते।)

इति विष्कम्भकः।
_________

(ततः प्रविशति श्रीकृष्णः प्रियालापश्च।)

कृष्णः—(स्वगतम्।) हन्त, यस्या अभिधानमात्राकर्णनादेवाकुलीभूतं चेतः परवशतामुपैति। दुर्लभदर्शनां तामनालोक्य कथमात्मानं विनोदयिष्ये तावत्। भवत्वेवम्। (प्रकाशम्।) सखे प्रियालाप।

** प्रियालापः—** आणवेदु भवं। (क)

** कृष्णः—**

संरुद्धा न भवेदियं समुदितैर्यावत्सुहृन्मण्डलै-
र्वृन्दारण्यविहारभूमिरभितस्तावत्पुरस्ताद्वयम्।
वीक्ष्यैनां सफलप्रसूनसुभगां भृङ्गाङ्गनानिःस्वनां
नृत्यासक्तशिखण्डिमण्डिततरुं तृप्तिं व्रजामो मुदा॥१५॥

** प्रियालापः—** साहु भणिदं पिअवअस्सेण। अण्णो वि को वि अधिअदररमणिज्जो कोदुअविसेसो तस्सिं पदेसे संभावीअदि त्ति। (ख)

** कृष्णः—** (साभिलाषम्।) क इव।

_____________________________________________

(क)आज्ञापयतु भवान्।

(ख)साधु भणितं प्रियवयस्येन। अन्योऽपि कोऽप्यधिकतररमणीयः कौतुकविशेषस्तस्मिन्प्रदेशे संभाव्यत इति।

_____________________________________________

** प्रियालापः—** सुदं29 क्खु मए— एदेसु महुवासरेसु विसहाणुपुरादो भाणुणन्दिणी-मज्जणव्ववदेसेण मअणमहूसवं माणेदुं पभादे राहापमुहो कुमारिआअणो वुन्दाडइणि-उञ्जवीहिआसंणिवेसं आअच्छदि। (क)

** कृष्णः—** (सस्पृहम्।) ततस्ततः।

** प्रियालापः**—तहिं उण वालतमालविडवमूले पडिट्ठाविदकुसुमाउहस्स णिवत्तिदपूआसक्कारो विविहसुउमारकुसुमेहिं अत्ताणअं मण्डिअ जहासुहं लीलारसं च णिव्विसिअ सघरमग्गं अलंकरेदि त्ति। (ख)

** कृष्णः**—(सपुलकमात्मगतम्।) कथित29मम्बातातयोः समीपे भगवत्या वृन्दयाप्येतत्संबन्धि रहस्यम्। निवेदयति च निमित्तं किंचिदुच्छ्वसितेन मम बाहुरिति सत्वरमनुसरामि तावत्।

** प्रियालापः**— (कृष्णं किंचिदन्यादृशमालोक्यात्मगतम्) गाढं उक्कण्ठिदो लख्खीअदि एसो। होदु। एव्वं दाव \। (प्रकाशम्) भो वअस्स, कं दाणिं मं उवेक्खिअ तूण्हीभूदो सि तुमम्। (ग)

** कृष्णः**— किमपि चिन्तयता मया न संभावितोऽसि।

** प्रियालापः**— (विहस्य।) सुदिमग्गेण हिअए पविट्ठं विसहाणुकुमारिअं चिन्तअता त्ति किं30’ ख.”) ण भणासि। (घ)
______________________________________________
(क)श्रुतं खलु मया— एतेषु मधुवासरेषु वृषभानुपुरतो भानुनन्दिनीमज्जनव्यपदेशेन मदनमहोत्सवं मानयितुं प्रभाते राधाप्रमुखः कुमारिकाजनो वृन्दाटवीनिकुञ्जवीथिकासंनिवेशमागच्छति।
(ख)तत्र पुनर्बालतमालविटपमूले प्रतिष्ठापितकुसुमायुधस्य निवर्तितपूजासत्कारो विविधसुकुमारकुसुमै-रात्मानं मण्डयित्वा यथासुखं लीलारसं च निर्विश्य स्वगृहमार्गमलंकरोतीति।
(ग)गाढमुत्कण्ठितो लक्ष्यत एषः। भवतु। एवं तावत्। भो वयस्य, कथमिदानीं मामुपेक्ष्य तूष्णींभूतोऽसि त्वम्।
(घ)श्रुतिमार्गेण हृदये प्रविष्टां वृषभानुकुमारिकां चिन्तयतेति किं न भणसि।
_____________________________________________________

** कृष्णः—** (स्वगतम्।) लक्षितोऽस्मि धूर्तेन बटुना। (स्मित्वा प्रकाशम्।) तदविलम्बेनैवादेशय वृन्दाटवीमार्गम्।

** प्रियालापः—** (परिक्रम्य) एदु एदु पिअवअस्सो। एदं क्खु णादिदूरे रमणिज्जं वृन्दावणम्। (क)

** कृष्णः—** (परिक्रामन्। पुरो विलोक्य31 सहर्षम्।) अहो अभिरामता वृन्दारण्यस्य। वयस्य, पश्य पश्य।

इदं मधुरगीतिभिर्मधुकराङ्गनानां सखे
कलापिकुलनर्तितैः पिककदम्बकोलाहलैः।
लतानववधूलसत्किसलयानुरागोद्गमै-
र्ममागमनमङ्गलं परितनोति मन्ये वनम्॥१६॥

अपि च।

भृङ्गालीनयनैर्निमेषविमुखं दूरात्समालोक्य मा-
मानन्दाश्रुजलं स्रवन्ति विगलन्माध्वीकबिन्दुच्छलात्।
आह्वानं मलयानिलप्रचलितैः शाखाग्रहस्तैश्च मे
सप्रेम प्रथयन्त्युपायनफलैर्नम्राः किलैते द्रुमाः॥१७॥

तद्वृन्दावननिवासिनां मनोरथसिद्धये त्वरिततरमुपगच्छावः।

** प्रियालापः—**(सस्मितम्।) कथं अत्तणो वि मणोरहसिद्धी फुडं णकहीअदि। (ख)

** कृष्णः—** (स्मित्वा।) अलं परिहास्येन32। गच्छाग्रतः।

(प्रियालापो नाट्येन तथा करोति।)

कृष्णः— (परिक्रम्य समन्ततो निरूप्य।) सखे प्रियालाप, परिश्रान्तोऽस्मि। मुहूर्तकमेतेषु मधुमासकुसुमसमृद्धिमधुपानमत्तमधुकरनिकरमधुरझङ्कारमुखरेषु मज्जदङ्गनाजनकदम्बनय-नाञ्जनप्रसरसंपर्कतयातितरां श्यामायमानैः
___________________________________
(क)एत्वेतु प्रियवयस्यः। एतत्खलु नातिदूरे रमणीयं वृन्दावनम्।
(ख)कथमात्मनोऽपि मनोरथसिद्धिः स्फुटं न कथ्यते।
___________________________________

संसर्पितसीमन्तसिन्दूरप्रवाहलोहितीकृतैः स्तनतटावगलितनवकुङ्कुम-पङ्कपुञ्जपिञ्जरितैरति-विमलतया प्रतिमागतैरम्बरतलोल्लसितैरिवेन्द्रायुधशतैस्तरङ्गलेखानिवहैः संशोभिते यमुनाम्भसि समुन्मिषत्कुवलयकह्लारमकरन्दबिन्दुनिकुरम्बकरम्बित33मतिशिशिरशीकरासारमुद्व34हता लुलित-पल्लवाङ्गुलिलतालास्यलीलोपदेशदक्षेण दक्षिणानलेन संसेवितेषु लतानिकुञ्जेषु परिश्रममपनया-वस्तावत्।

** प्रियालापः—** (अपवार्य।) कुदो तस्सिं कण्णारअणे समुप्पण्णाणुराअस्स दे परिस्समा-वणअणम्। (प्रकाशम्।) जं भवं आणवेदि। (क)

(उभौ परिक्रम्योपविशतः।)

(नेपथ्ये।)

चम्पअलदे, उवहर कुसुमाइं। (ख)

** प्रियालापः—** (पुरः कर्णंदत्वा किंचिदिव परिवर्तितकन्धरो नातिप्रकाशम्।) तुवरदु तुवरदु पिअवअस्सो। इमस्सिं माहवीमण्डवे मुद्धकण्णआणं मिदुसद्दोसुणीअदि। (ग)

(कृष्णः समुपसृत्य लतारन्ध्रे किंचिदाकुञ्चितचक्षुः सहर्षकौतुकं स्थितो विलोकयति।)

(ततः प्रविशति ससखीजना राधा।)

** राधा—** हला तमालिए, कुसुमावचअणिमित्तं गदा मे पिअसही चम्पअलदा अज्ज वि ण पडिणिउत्ता। (घ)\।
_________________________________
(क)कुतस्तस्मिन्कन्यारत्ने समुत्पन्नानुरागस्य ते परिश्रमापनयनम्। यद्भवानाज्ञापयति।
(ख)चम्पकलते, उपहर कुसुमानि।
(ग)त्वरयतु त्वरयतु प्रियवयस्यः। अस्मिन्माधवीमण्डपे मुग्धकन्यानां मृदुशब्दः श्रूयते।
(घ)हला तमालिके, कुसुमावचयनिमित्तं गता मे प्रियसखी चम्पकलताद्यापि न प्रतिनिवृत्ता।
_________________________________

(प्रविश्य पुष्पपूर्णपर्णपुटहस्ता सस्मिता )

** चम्पकलता—**पिअसहि राहे, दिट्ठिआ वड्ढसे। कुसुमिदा दाणिं णो मणोरहलदा। (क)

राधा— (सभ्रूभङ्गम्।) अइ कीरिसो मणोरहो। (ख)

** चम्पकलता—** जदि35 कुतूहलं तदो अवहिदं सुणादु पिअसही। अज्ज णिसावसाणे दिट्ठो को वि सिविणो मए। विसुमरिदो आसि। (ग)

राधा— तदो तदो। (घ)

चम्पकलता— संपदं कुसुमावचअकिदे परिक्कमन्तीए36 कावि सुवण्णजूहिआ तमालसंगदा पुलोइदा। (ङ)

(राधा सलज्जमिव स्मेरमुखी तमालिकां सस्नेहं विलोकयति।)

(चित्तज्ञा37)

तमालिका— (चम्पकलतां प्रति।) सहि, तदो किम्। (च)

** चम्पकलता—**सरिसदंसणेण मे सिमिदिपहं आरोहिदो त्ति। (छ)

** प्रियालापः—**(स्वगतम्) दृढं विमुद्धो क्खु एसो राहारूवलावण्णबिब्भमेहिं एत्थ। भोदु। एव्वम्। (समीपतरमागत्योत्सर्पितमुखः साकूतम्।) भो वअस्स,
________________________________________

(क)प्रियसखि राधे, दिष्ट्या वर्धसे। कुसुमितेदानीं नो मनोरथलता।
(ख)अयि, कीदृशो मनोरथः।
(ग)यदि कुतूहलं तदावहितं शृणोतु प्रियसखी। अद्य निशावसाने दृष्टः कोऽपि स्वप्नो मया। विस्मृत आसीत्।
(घ)ततस्ततः।
(ङ)सांप्रतं कुसुमावचयकृते परिक्रामन्त्या कापि सुवर्णयूथिका तमालसंगता प्रलोकिता।
(च)सखि, ततः किम्।
(छ)सदृशदर्शनेन मे स्मृतिपथमारोहितोऽस्ति।
________________________________________

चिरं इह ट्ठिदेण तुए जं एव्वं पुलोईअदि इन्दीवलकोमलं लोअणजुअलं दे अलसत्तणं नो वअच्छदि। (क)

** कृष्णः—** (किंचि38द्विवर्त्याव्यक्तमिव।) सखे, ब्रवीमि भूतार्थम्।

गच्छति न तृप्तिमेतत्सुललितमस्याः समापिबद्रूपम्।
नयनयुगं मम नूनं प्रतिसमुपैति सफलतां चैवम् ॥ १८॥

** प्रियालापः—** (किंचिद्विवर्णतामापाद्यमानं तन्मुखं निर्वर्ण्योपजातकारण्यमिवा39त्मगतम्।) हन्त, लक्खीकिदो दाणिं लद्धावसरेण कुसुमाउहेण राहारूवस्स अत्तणो अमोघप्पहरणस्स कोमलङ्गओ एसो। (प्रकाशम्।) अध सुदं सव्वं इमाणं मन्तिदम्। (ख)

** कृष्णः—** सखे, मधुरमासां मन्त्रितम्। तदन्यदपि श्रोतुमिच्छामि तावत्।

** राधा—** (आत्मगतम्।) अवि णाम वदेदि इअं तं जेव्व दुल्लहजणं मं अहिकरिअ जो भअवदीए वुन्दाए तदो तादस्स समीवे पसङ्गेण अभिहिदो आसि। (दक्षिणेतराक्षिस्पन्दोपदर्शितेन शुभनिमित्तेन सप्रत्याशमिव) होदु। पुच्छेमि दाव। (प्रकाशम्) कथं विअ। (ग)

** चम्पकलता—** (मनाग्भावानुविद्धं तदाकारं विभाव्य। साकूतम्।) सहि, फलेण जेव्व जाणिस्ससि। पुणरुत्तेण किम्। (विचिन्त्य।) अह वा कधइस्सम्। सुणाहि। इमस्सिं जेव्व अदिमुत्तलदामण्डवपरिसरे तुमं किल कस्स वि अणु-
_______________________________________
(क)दृढं विमुग्धः खल्वेष राधारूपलावण्यविभ्रमैरत्र। भवतु। एवम्। भो वयस्य, चिरमिह स्थितेन त्वया यदेवं विलोक्यते इन्दीवरकोमलं लोचनयुगलं तेऽलसत्वं नो अपगच्छति।
(ख)हन्त, लक्षीकृत इदानीं लब्धावसरेण कुसुमायुधेन राधारूपस्यात्मनोऽमोघप्रहरणस्य कोमलाङ्गक एषः। अथ श्रुतं सर्वमासां मन्त्रितम्।
(ग)अपि नाम वदेदियं तमेव दुर्लभजनं मामधिकृत्य यो भगवत्या वृन्दया तदा तातस्य समीपे प्रसङ्गेनाभिहित आसीत्। भवतु। पृच्छामि तावत्। कथमिव।
____________________________________________

ववल्लहस्स समीवे णवजलहरस्स विज्जुल्लदा विअ जह तमालविडवसंगदासुवण्णजूहिआ लदा सोहमाणा सुहं कीलन्ती चिट्ठसि त्ति। (क)

कृष्णः— (आत्मगतम्।) कष्टं भोः। मम हि

स्वप्नेनोदीरितं सख्याः श्रुत्वा श्रुतिसुखावहम्।
आशाबन्धेन सौत्सुक्यं किंचिदुच्छ्वसितं मनः॥१९॥

किं च।

तथाप्येषाभिधानेन धन्यं कमभिधास्यति।
इति संशयमापन्नं धृतिं न प्रतिपद्यते॥२०॥

प्रियालापः—(सहर्षोद्वेगमात्मगतम्।) जं अवि एदाए उदाहिदं जं अवि तं अणण्णासाहारणं पिअवअस्सस्स जेव्व सरूवम्। तह वि जइ से40’ इत्यधिकम् ख.") अभिधाणं फुडं कहिदं भवे। (उपसत्य। प्रकाशम्) भो वअस्स, दिट्ठिआ वड्ढसे। सुदं पिअवअस्सेण से वअणम्। तक्केमि भवं जेव्व वल्लहो त्ति। (ख)

कृष्णः—(सोच्छ्वासम्।) नीचैः।

प्रसन्नस्ते तर्कोयदपि मम चेतोऽपि नितरां
तमेवार्थं सत्यं कलयति सखेऽतीव मधुरम्।
तथाप्यस्या अङ्गं निरुपममथो मे वपुरिदं
न किंचित्सादृश्यं लभत इति कृत्वास्मि विधुरः॥२१॥

प्रियालापः— (विहस्य।) अदो क्खु तुए अणण्णवद्दं समारद्धम्। (ग)
_________________________________
(क)सखि, फलेनैव ज्ञास्यसि। पुनरुक्तेन किम्। अथ वा कथयिष्ये। शृणु अस्मिन्नेवातिमुक्तलतामण्डपपरिसरे त्वं किल कस्याप्यनुरूपवल्लभस्य समीपे नवजलधरस्य विद्युल्लतेव यथा तमालविटपसंगता सुवर्णयूथिका लता शोभमाना सुखं क्रीडन्ती तिष्ठसीति।
(ख)यदप्येतयोदाहृतं यदपि तदनन्यसाधारणं प्रियवयस्यस्यैव स्वरूपम्। तथापि यद्यस्या अभिधानं स्फुटं कथितं भवेत्। भो वयस्य, दिष्ट्या वर्धसे। श्रुतं प्रियवयस्येन तस्या वचनम्। तर्कयामि भवानेव वल्लभ इति
(ग)अतः खलु त्वयानन्यवृत्तं समारब्धम्।
________________________________________

राधा— (सप्रणयकोपम्।) सहि, जा लदा तुए सिविणे तह पुलोइदा सा चम्पअलदा, ण उण सुवण्णजूहिआ। तुमं क्खु अत्तणो मणोगदं सिविणे वि पेक्खसि त्ति। अलं अलीओवहासेण। उवणेहि पूआउवअरणाइं तमालमूले। (क)

(नेपथ्ये।)

आणत्तम्हि महादेवीए जह— हञ्जे वसुमदिए, वच्छं मे राहिअं सिग्घं गदुअ आणेहि त्ति। ता कहिं दाणि पेक्खिस्सं तं भट्टदारिअम्। (ख)

राधा— (समाकर्ण्य। नेपथ्याभिमुखमवलोक्य च।) हला चम्पअलदे, एसा दुट्ठचेडी वसुमदिआ समाअदा। उट्ठेहि। अम्बासमीवे गदुअ तुरिदं जेव्व मअणपूआत्थं आअमिस्सम्ह। (ग) (इति सह सखीभिः परिक्रामति।)

कृष्णः— (सदुःखातिशयम्।) सखे प्रियालाप, तावदावामपि गत्वा गोकुलपरिसरादायान्तं गोव्रजं परिपालयावः।

प्रियालापः—अध किम्। (घ)

कृष्णः— (लतारन्ध्रे विलोक्य सोच्छ्वासम्।)

गच्छन्ती स्वनिकेतं मनसिजभवनप्रदीपिकेवैपा।
हरति ममेन्द्रियवृत्तिं शरदिव हंसावलीं प्रसभात्॥२२॥

(इति निष्क्रान्ताः सर्वे।)

इति मथुरादासेन विरचितायां श्रीवृषभानुजानामनाटिकायां प्रथमोऽङ्कः।

______________________________________
(क)सखि, या लता त्वया स्वप्ने तथा विलोकिता सा चम्पकलता, न पुनः सुवर्णयूथिका। त्वं खल्वात्मनो मनोगतं स्वप्नेऽपि प्रेक्षस इति। अलमलीकोपहासेन। उपनय पूजोपकरणानि तमालमूले।
(ख)आज्ञप्तास्मि महादेव्या यथा— हञ्जे वसुमतिके, वत्सां मे राधिकां शीघ्रं गत्वा आनयेति। तत्कुत्रेदानीं प्रेक्षिष्ये तां भर्तृदारिकाम्।
(ग)हला चम्पकलते, एषा दुष्टचेटी वसुमतिका समागता। उत्तिष्ठ। अम्बासमीपे गत्वा त्वरितमेव मदनपूजार्थमागमिष्यामः।
(घ)अथ किम्।
____________________________________________

द्वितीयोऽङ्कः।

(ततः प्रविशति सवनरक्षिका वृन्दा।)

** वृन्दा—** (समन्तादवलोक्य। स्वगतम्। )

कुसुमपरिमलेनामोदितालिर्लतानां
वलितकिसलयानां लास्यलीलोपदेष्टा।
लुलितकमलवृन्दः शीकरासारवोढा
मृदुमलयसमीरो वाति वैभातिकोऽयम्॥१॥

(ऊर्ध्वमवलोक्य।)

मञ्जिष्ठारुणदीधितिर्मधुकरैर्माङ्गल्यगीतिस्तुतः
कोकाह्लादपटुः सरोरुहवनं प्रीत्या समुज्जृम्भयन्।
लोकालोककरः करैश्च तमसां स्तोमं समुत्सारय-
न्नारोहत्युदयाचलं रविरयं बन्धूककन्दुच्छविः॥२॥

(मुहूर्तकमिव स्थित्वा। प्रकाशम्।) सखि वनरक्षिके, दूरोदितो भगवान्सहस्त्रदीधितिः। किं नागतो गोचारणाय गोकुलेन्द्रनन्दनः।

** वनरक्षिका—** भअवदि, जह अदूरे को वि मन्तेदि तह तक्केमि कन्हो संणिहिदो भविस्सदि त्ति। वणरक्खाए गच्छा। (क)

(इति निष्क्रान्ते।)

इति प्रवेशकः।
________

(ततः प्रविशति सप्रियालापः श्रीकृष्णः।)

** प्रियालापः—** भो वअस्स, माहवीमण्डवसमीवे पुणो वि महुरालावो सुणीअदि। तक्केमि मअणपूआत्थं आअच्छदि राहिआ। एहि। इमिणा लदावीहिआमग्गेण सिग्धं गदुअ तस्सिं तमालमूले अन्तरिदा भविअ चिट्ठम्ह। (ख)

______________________________________________

(क)भगवति, यथादूरे कोऽपि मन्त्रयति तथा तर्कयामि कृष्णः संनिहितो भविष्यतीति। वनरक्षायै गच्छावः।
(ख) भो वयस्य, माधवीमण्डपसमीपे पुनरपि मधुरालापः श्रूयते।
______________________________________________

** कृष्णः—** ततः किम्।

** प्रियालापः—** तहिं किल उवहसिदमअणसहस्सो भवं पूआवलिप्पणई भो। एक्का तु ममाब्भत्थणा। (क)

** कृष्णः—** (किंचित्स्मित्वा।) कथयतु भवान्।

प्रियालापः— गोवड्ढणपूआवलिं विअ सव्वं ण भच्छइस्ससि। बुभुक्खिदं मं वि सुमरिस्ससि। (ख)

** कृष्णः—** (विहस्य।) नायं परिहाससमयः। विशाग्रतः।

(प्रियालापस्तथा कृत्वा सभयं प्रतिनिवृत्य कृष्णमालिङ्गति।)

** कृष्णः—** सखे41, किमिति कातरोऽसि।

** प्रियालापः—** णिबिडान्धआरा क्खु एसा लदावीहिआ। ण सक्कुणोमि अग्गे गमिदुम्। अणेअसूरसमद्दुदी तुमं अहं विअ विअदभओ भविअ अग्ग्दो होहि। (ग)

** कृष्णः—** (सस्मितम्।) धिङ्मूर्ख, आत्मगतं भयमपि निरूपयसि। (इति परिक्रामन्पुरो निभालय) सोऽयं तमालद्रुमः। य एष

लतासमालिङ्गितविग्रहो दधत्स्फुरत्प्रसूनैः स्फुटरोमविक्रियाम्।
द्रवन्मधुस्वेदलवैर्विभूषितो व्यनक्ति कामं किल कामिनः श्रियम्॥३॥

यावदस्य मूले निलीय परिपालयावस्तत्समागमम्।

(तथा कुरुतः।)

___________________________________________________

तर्कयामि मदन पूजार्थमागच्छति राधिका। एहि। अनेन लतावीथिकामार्गेण शीघ्रं गत्वा तस्मिंस्तमालमूलेऽन्तरितौ भूत्वा तिष्ठाव।
(क)तत्र किलोपहसितमदनसहस्रो भवान्पूजावलिप्रणयी भवतु। एका तु ममाभ्यर्थना।
(ख)गोवर्धनपूजावलिमिव सर्वं न भक्षयिष्यसि। बुभुक्षितं मामपि स्मरिष्यसि।
(ग)निविडान्धकारा खल्वेषा लतावीथिका। न शक्नोम्यग्रे गन्तुम्। अनेकसूर्यसमद्युतिस्त्वमहमिव विगतभयो भूत्वाग्रतो भव।
______________________________________________

कृष्णः— (सविषादम्।) सखे प्रियालाप,

अदूरे खलु वासन्तीमण्डपः स इति स्फुटम्।
न जाने प्रणयिन्या मेविलम्बः कथमादृतः॥४॥

प्रियालापः— तेण हि किं वि अग्गे णिगदुव णिरूवइस्सं दाव। (क)

कृष्णः— यद्भवते रोचते।

(प्रियालापो नाट्येन तथा कृत्वा पुनः प्रविश्य परीहासेन विषादमूक इव नमितमुखस्तिष्ठति।)

कृष्णः— (सशङ्कम्।) सखे, किमित्यवनतमुखस्तूष्णीं स्थितोऽसि।

प्रियालापः— ण मे जीहा एत्थ पडिवअणं आमन्तिदुं फुडइ। (ख)

कृष्णः— (सनिःश्वासम्।)

दर्शनपदमुपयाता यदवधि मदिरायतेक्षणा सहसा।
तदवधि हृदयेनाहं मदनेषुभयादिवोन्मुक्तः॥५॥

(इति मनसिजपीडां रूपयति।)

प्रियालापः— (सव्यथमात्मगतम्।) गुरुआहिलासेण पीडिदो क्खु एसो। अलं दाणिं परिहासक्कीलाए। (विहस्य।) पिअवअस्स, मुञ्चेहि विसादम्। माहवीमण्डवादो पत्थिदा क्खु सा इध ज्जेव्व आअच्छदि। एसो हं पुणो वि अण्णेसिदुं गच्छह्मि। (ग)

कृष्णः— (दूराद्विसर्पन्तं कमपि मधुरध्वनिमाकर्ण्य सवितर्कमात्मगतम्।)

वासन्तीमधुपानमत्तमधुपध्वानः किमुज्जृम्भते
किं वा हंसकदम्बकूजितमिदं दूरात्समुत्सर्पति।

_________________________________
(क)तेन हि किमप्यग्रे निर्गत्य निरूपयिष्यामि तावत्।
(ख)न मे जिह्वात्र प्रतिवचनमामन्त्रितुं स्फुरति।
(ग)गुरुकाभिलाषेण पीडितः खल्वेषः। अलमिदानीं परिहासक्रीडया। प्रियवयस्य, मुञ्च विषादम्। माधवीमण्डपात्प्रस्थिता खलु सा इत एवागच्छति। एषोऽहं पुनरप्यन्वेष्टुं गच्छामि।
____________________________________

आं ज्ञातं मणिनूपुरध्वनिरयं मद्वल्लभायाः स्फुटं
दृश्यन्ते हि दिशस्तदङ्गकरुचा हेमाम्बुसिक्ता इव॥६॥

(प्रियालापः कृष्णस्य मुखं निरीक्ष्य यथोक्तसंपादनाय निष्क्रान्तः।)

(ततः प्रविशति सखीभिः परिवारिता राधा।)

राधा— हला चम्पअलदे, अज्ज वि ण संणिहिदो भोदि सो तमालओ। (क)

** चम्पकलता—** अग्गदो एव्व एसो किं ण आलोअदि भोदी। (ख)

(राधा विलोक्य परिक्रामन्ती तदालवालपरिसरे स्थिता।)

** प्रियालापः—** (तासां दृक्पथं वञ्चयित्वा। प्रविश्य। कृष्णं चालयति।) भो वअस्स, दिट्ठिआ पात्थितसिद्धिए बड्ढसे। (अङ्गुल्या दर्शयन्।) पेक्ख दाव णम्। (ग)

(उभौ निलीय स्थितौ विलोकयतः।)

** चम्पकलता—** (तमालं राधां च विलोक्य। साकूतम्।) सहि, का दाणिं तमालमूले ट्ठिदा सुवण्णजूहिआ लदा विअ पडिभादि। (घ)

** कृष्णः—** (स्वगतम्।) युक्तमुक्तं चम्पकलतया। (सस्पृहमुद्वीक्ष्य।)

धन्यस्त्वमसि तमाल स्पृष्टस्तन्व्या लतावदनया यत्।
अद्य स्थावरजन्मा जातस्त्वं जंगमादधिकः॥७॥

** राधा—**(सभ्रूभङ्गम्।) हला, पच्चक्खेण चम्पअलदा तुमं अलीओवमाए मं विडम्बअन्ती ण लज्जसि। (ङ)

** चम्पकलता—** सहि, जो जहिं जुज्जदि सो एव्व तहिं उवमं लहेदि त्ति। (च)
_________________________________
(क)हला चम्पकलते, अद्यापि न संनिहितो भवति स तमालकः।
(ख)अग्रत एवैष किं नालोकयति भवती।
(ग)भो वयस्य, दिष्ट्या प्रार्थितसिद्ध्या वर्धसे। प्रेक्षस्व तावदेनाम्।
(घ)सखि, केदानीं तमालमूले स्थिता सुवर्णयूथिका लतेव प्रतिभाति।
(ङ)हला, प्रत्यक्षेण चम्पकलता त्वमलीकोपमया मां विडम्बयन्ती न लज्जसे।
(च)सखि, यो यत्र युक्तः स एव तत्रोपमां लभत इति।
______________________________________

** प्रियालापः—** (श्रुत्वा सहर्षम्) पिअवअस्स, दिट्ठिआ लद्धफलो सि। किं अज्ज वि दे संसओ। (क)

** कृष्णः—** सखे, अभिनन्दनीयं ते वचः। तथापि तद्दुर्लभतामाकलय्य दुराशंसि मनः प्रत्ययं न समुपगच्छतीति।

संनिहितेऽपि दुरापे वस्तुनि मनसोऽनवाप्तविषयस्य।
भवति न संशयनाशो बहुशोऽप्याश्वास्यमानस्य॥८॥

** प्रियालापः—** (सप्रणयकोपम्) किं अदिट्ठपुव्वस्सदे सज्जातले आअदिअ उवविसदि। अलं परिदेविदेण। जह तुए पुलोइदा सा जइ सकिदपि पुलोअइस्सदि तुमम्। (ख)

** कृष्णः—** (स्मित्वा।) ततः किम्।

** प्रियालापः—** तदो क्खु सफलप्पात्थणो भविअ मम तक्किदं सुमरिस्ससि। (ग)

** कृष्णः—** (विहस्य।) अत एव त्वं प्रियालापः।

** चम्पकलता—** हला राहे, कथं णिउत्तरा चिट्ठसि। (घ)

(राधानाकर्णितकेनैव सखीभिरुपनीतैर्गन्धपुष्पादिभिः कुसुमायुधं समभ्यर्चयति।)

** सर्वाः—** (सप्रणाममञ्जलिं बद्ध्वा) भवअं कुसुमाउह, सिग्वं ज्जेव्व वरं देहि णो पिअसहीए। (ङ)

** कृष्णः—** सखे, पश्चादागमिष्यति भवान्। अहं तावदात्मानं दर्शयामि। (परिक्रम्योपसृत्य च।) भोः, कोऽत्र42 वरं प्रार्थयते।
____________________________________
(क)प्रियवयस्य, दिष्ट्या लब्धफलोऽसि। किमद्यापि ते संशयः।
(ख)किमदृष्टपूर्वस्य ते शय्यातले आगत्योपविशति। अलं परिदेवितेन। यथा त्वया विलोकिता सा यदि सकृदपि विलोकयिष्यति त्वाम्।
(ग)तदा खलु सफलप्रार्थनो भूत्वा मम तर्कितं स्मरिष्यसि।
(घ)हला राधे, कथं निरुत्तरा तिष्ठसि।
(ङ)भगवन्कुसुमायुध, शीघ्रमेव वरं देहि नः प्रियसख्याः।
________________________________________

सर्वाः—(ससंभ्रमम्।) अज्ज, ण को वि। एदाए णो पिअसहीए अच्चीअदि भवं मणोहवो। (क) (इति सस्मितं राधां दर्शयन्ति।)

राधा— (प्रणयकोपकलिलां दृष्टिं स्मेरमुखे सखीजने निपात्य तिर्यगपाङ्गेन चक्षुषा तन्मुखमवलोकयन्ती। स्वगतम्।) जह अस्स दंसणादो अणीस ह्मि सहिअअस्स तह तक्केमि इमिणा तेण दुल्लहजणेण होदव्वम्। (ख)

कृष्णः— (राधामुपेत्य।) अयि, कीदृशे वरेऽभि43लाषो वर्तते।

(राधा शृङ्गारलज्जामभिनीय ससाध्वसमधोमुखी तिष्ठति।)

** चम्पकलता—** (तथाभूतामुपलक्ष्य44। जनान्तिकम्।) हला तमालिए, को वि इमो सिहिसिहण्डसेहरो मणिकण्णपूरंसुजालेण दुदीएण विअ सपल्लवविविहकुसुमत्तबकावदंसेण पडिफलिदकवोलफलओ आअदविलोअणेहिं दमिदप्पवरइन्दीवरप्पहो सहजारुणेण अहरबिम्बेण अहरीकिदं विद्दुमलदं लज्जाए अण्णवे45 ख.") णिमण्णं हिअए अवहारिअ विअ किदमहुरस्मिदो अदित्थूलमुत्ताहलहारलदाए अलंकिदे उरोदेसे हिरण्णद्दुदिपीदकोसेआंसुअं वसानो लीलारविन्देण सणाहीकिददक्खणकरकमलो रूवसमुच्चएण मम्महसदस्सवि विमोहणो मुहचन्दादो महुसंमिदाइं महुराहिजादक्खराइं उच्चारअन्तो अहिणवकिसोरदिव्वाकिदी अङ्गलावण्णप्पहापूरेण कालिन्दीजलसङ्कं समुप्पाअअन्तो जह इमाए पिअसहीए मणोमीणं वलेण कक्खदिव्व तह तक्केमि सो कन्हो एसो। अण्णहासे मणोहरणे को अण्णो समत्थो। जेण इमं पेक्खिअ मणोहवसरपढमप्पहारपीडाए विअ जणिदसीक्कारा उम्मिसस्सेदबिन्दु इन्दुसुन्दरमुही णिरन्तरणिपइदसरणिवहेण विअ समुग्गदेण रोमञ्चजालेण आचिदतणूलदा अविरलोच्छसि-दसमीरणेण असकिदअवणीअमाणअंसुअप-
__________________________________
(क)आर्य, न कोऽपि। एतया नः प्रियसख्यार्च्यते भगवान्मनोभवः।
(ख)यथास्य दर्शनादनीशास्मि स्वहृदयस्य तथा तर्कयाम्यनेन तेन दुर्लभजनेन भवितव्यम्।
_______________________________________

१. एतदारभ्य ‘निपात्य’ इत्यन्तः ख- पुस्तके त्रुटितः. ५. ‘आअढत्ति’ ख.

ल्लवा सद्धसेण वेवमाणकरकमला लज्जाए वत्तुमसक्का लक्खीअदि एसा। तह ज्जेव्व एसो वि विअदणिमेसं इमं पिअसहिं पुलोअअन्तो आलिहिदो विअ चिट्ठदि। (क46)

** तमालिका—** सहि, अहं वि एव्वं विभावेमि। (ख47)

** चम्पकलता—**(कृष्णमुपेत्य।) अज्ज, भवदो दंसणेण जेव्व उवलद्धो वरो। को उण अवरो वरो। भविस्सदि। (ग48)

** राधा—** (सप्रणयकोपम्।) हला49, जाणेमि। किं पि वक्कं मन्तेसि। ता इदो गमिस्सम्। (घ50) (इति गन्तुमिच्छति।)
_____________________________________
(क)हला तमालिके, कोऽप्ययं शिखिशिखण्डशेखरो मणिकर्णपूरांशुजालेन द्वितीयेनेव सपल्लव-विविधकुसुमस्तबकावतंसेन प्रतिफलितकपोलफलक आयतविलोचनाभ्यां दमितप्रवरेन्दीवरप्रभः सहजारुणेनाधर-बिम्बेनाधरीकृतां विद्रुमलतां लज्जयार्णवे निमग्नां हृदयेऽवधार्येव कृतमधुरस्मितोऽतिस्थूल-मुक्ताफलहारलतयालंकृत उरोदेशे हिरण्यद्युतिपीतकौशेयांशुकं वसानो लीलारविन्देन सनाथीकृतदक्षिणकर-कमलो रूपसमुच्चयेन मन्मथशतस्यापि विमोहनो मुखचन्द्रान्मधुसंमितानि मधुराभिजाताक्षराणि उच्चारयन्नभिनवकिशोरदिव्याकृतिरङ्गलावण्यप्रभापूरेण कालिन्दीजलशङ्कां समुत्पादयन्यथास्याः प्रियसख्या मनोमीनं बलेन कर्षतीव तथा तर्कयामि स कृष्ण एषः। अन्यथास्या मनोहरणे कोऽन्यः समर्थः। येनेमं प्रेक्ष्य मनोभवशरप्रथमप्रहारपीडयेव जनितसीत्कारा उन्मिषत्स्वेदबिन्दुरिन्दुसुन्दरमुखी निरन्तरनिपतितशरनिवहेनेव समुद्गतेन रोमाञ्चजालेनाचिततनूलताविरलोच्छ्वसितसमीरणेनासकृदपनीयमानांशुकपल्लवा साध्वसेन वेपमानकरकमला लज्जया वक्तुमशक्ता लक्ष्यत एषा। तथैवैषोऽपि विगतनिमेषमिमां प्रियसखीं विलोकयन्नालिखित इव तिष्ठति।
(ख)सखि, अहमप्येवं विभावयामि।
(ग)आर्य, भक्तो दर्शनेनैवोपलब्धो वरः। कः पुनरपरो वरो भविष्यति।
(घ)हला, जानामि। किमपि वक्रं मन्त्रयसे। तदितो गमिष्यामि।
___________________________________________

(नेपथ्ये महान्कलकलः।)

अद्य भोः कृष्णमालोकयद्भिर्गोसमूहैरसकृदुच्चैरिवाहूयमानैरपि पदे स्थित्वा स्थित्वा मुहुः पश्चान्मुहुः पुरतोऽर्पितदीनदृष्टिभिरनुपजातपरिचयैरिवातिव्याकुलतामुपनीता वयं यावदस्मिन्नपि लतामण्डपे प्रियालापद्वितीयं तं प्रियवयस्यमन्वेषयामस्तावत्।

(सर्वाः ससंभ्रममाकर्णयन्ति।)

** कृष्णः—** (स्वगतम्।) हन्त, एते गोपाला नूनं मदन्वेषणाय समागताः। (उच्चैः।) सखे प्रियालाप, अग्रतो भूत्वा निवर्तयैतान्।

** प्रियालापः—** तह। (क) (इति नाट्येन निष्क्रान्तः।)

** चम्पकलता—** अज्ज, एदिणा कोलाहलेण अह्माणं हिअए संब्भमो संवुत्तो। ता आणवेदु भवं णो घरगमणत्थम्। (ख)

** कृष्णः—** (सुनिःश्वस्य) यद्येवमभिरोचते भवतीभ्यस्तत्सुखेन गम्यतां पुनः समागमाय।

(सर्वाः परिक्रामन्ति।)

** राधा—** (गमनभङ्गमभिनीय परावृत्य स्थित्वा) हला चम्पअलदे, णिपइदो एत्थ मम हारलदामज्झदो महाणीलमणी। अण्णेसेहि दाव णम्। (ग)

** कृष्णः—**(स्वगतम्।)

उपकृतं सखिहारलते त्वया यदनया मदिरेक्षणया वयम्।
स्मितसुधावलितैर्नयनाञ्चलैश्चलितया परिवृत्य निरूपिताः॥९॥

** चम्पकलता—**(कृष्णं राधां चावलोक्य तथान्वेषयन्ती साकूतम्।) सहि, एहि। गच्छह्म। दुल्लहो दाणिं सो णीलमणी। (घ) (इति कृष्णं भूयोऽवलोक्य स्मितं करोति।)
____________________________________________________

(क)तथा।
(ख)आर्य, एतेन कोलाहलेनास्माकं हृदये संभ्रमः संवृत्तः। तदाज्ञापयतु भवान्नो गृहगमनार्थम्।
(ग)हला चम्पकलते, निपतितोऽत्र मम हारलतामध्यतो महानीलमणिः। अन्वेषय तावदेनम्।
(घ)सखि, एहि। गच्छावः। दुर्लभ इदानीं स नीलमणिः।

(राधानालोकितकेनैव विमनस्केव तिष्ठति।)

चम्पकलता— (हारं निरूप्य) सहि, दोसो तुज्झ हिअअस्स ज्जेव्व। (क)

** राधा—** कधम्। (ख)

** चम्पकलता—** जं सोक्कण्ठेण इमो मणी हारमज्झे ण विभावीअदि त्ति। (ग)

** राधा—** अइ असंबद्धजप्पिणि, कहिं सोक्कण्ठेण। (घ)

** चम्पकलता—** (सोत्प्रासम्।) घरं पडि। (ङ)

** राधा—** (सभ्रूभङ्गम्।) हला, जाणेमि दे वक्कभणिदाइं। ता गमिस्सम्। (इति कृष्णं सस्पृहं स्पृशन्ती सोच्छ्वासं सह सखीभिः प्रस्थिता।) (च)

** कृष्णः—** (सवियोगदुःखम्। स्वगतम्।)

भूयोऽपि मे नयनयोः पथि सुन्दरी सा
यास्यत्यशेषभुवनश्रियमादधाना।
लज्जां विजित्य किमहो न धृता पटान्ते
पूर्वं मया तदधुनालमतिप्रलापैः॥१०॥

(सुनिःश्वस्य।) य एकः प्रियालापो मे मनोविनोदनायासीत्सोऽपि न जाने कथं विलम्बते।

(ततः प्रविशति प्रमुदितः प्रियालापः।)

** प्रियालापः—** ही ही भोः, किदं क्खु मए जं पिअवअस्सेण आणत्तम्। दाणिं उण सिग्धं गदुअ तं पेक्खिस्सम् (परिक्रम्य पुरोऽवलोक्य सहर्षम्।) दि-
______________________________________
(क)सखि, दोषस्तव हृदयस्यैव।
(ख)कथम्।
(ग)यत्सोत्कण्ठेनायं मणिर्हारमध्ये न विभाव्यत इति।
(घ)अयि असंबद्धजल्पिनि, कुत्र सोत्कण्ठेन।
(ङ)गृहं प्रति।
(च) हला, जानामि ते वक्रभणितानि। तद्गमिष्यामि।

ट्ठिआ इघ ज्जेव्व आअच्छदि एसो पिअवअस्सो। जाव उवसप्पामि णम्। (ईषद्विदूरादेव निरूप्यात्मगतम्।) एसो पभादचन्दविपाण्डुरं मुद्धाणणं दधाणो ओणदित्तिमिददिट्ठी अलसवलिदसरीरो हिअअेण सह किं पि मन्तअन्तो विअ मणसो मे हरिसं विसादं च उप्पादेदि। तक्केमि ताए विसहाणुकुमारिआए अवहरिदं से मणोरअणं सुणहिअओ जेण संजादो। (समुपसृत्य।) जेदु जेदु पिअवअस्सो। (क)

** कृष्णः—** (उद्वीक्ष्य) किं प्रियालापः। सखे, एह्येहि। चिरविरहितं मां परिष्वजस्व।

** प्रियालापः—** जं आणवेदि भवं। (नाट्येन तथा कुर्वन्। ससंभ्रममपसृत्य।) पिअवअस्स, सरिसहस्ससीअलो वि भवं। संपदि किं मम ज्जेव्व विरहेण। अण्णस्स कस्स वि वा अदिमेत्तं संदावं उव्वहदि। अहवा विणिज्जिदरइविव्भमा जा विसहाणुकुमारिआ तुअ लोअणपहं पउत्ता तं उद्दिसिअ तुह उण अङ्गलावण्णेहिं अवहीरिदो समुप्पण्णाणुसओ विअ कुसुमाउहो तुमं णिद्दहदि। (ख)

(कृष्णोऽवनतमुखस्तिष्ठति।)

** प्रियालापः—**भो, अलं लज्जाए। इमस्स मन्दमारुदन्दोलणपइण्णम-
____________________________________________
(क)ही ही भोः, कृतं खलु मया यत्प्रियवयस्येनाज्ञप्तम्। इदानीं पुनः शीघ्रं गत्वा तं प्रेक्षिष्ये। दिष्ट्या इत एवागच्छत्येष प्रियवयस्यः। यावदुपसर्पाम्येनम्। एष प्रभातचन्द्रविपाण्डुरं मुग्धाननं दधानोऽवनतिस्तिमितदृष्टि-रलसवलितशरीरो हृदयेन सह किमपि मन्त्रयन्निव मनसो मे हर्षं विषादं चोत्पादयति। तर्कयामि तया वृषभानुकुमारिकयापहृतमस्य मनोरत्नं शून्यहृदयो येन संजातः। जयतु जयतु प्रियवयस्यः।
(ख)यदाज्ञापयति भवान्। प्रियवयस्य, शशिसहस्रशीतलोऽपि भवान्। संप्रति किं ममैव विरहेण। अन्यस्य कस्यापि वातिमात्रं संतापमुद्वहति। अथवा विनिर्जितरतिविभ्रमाया वृषभानुकुमारिका तव लोचनपथं प्रवृत्ताता-मुद्दिश्य तव पुनरङ्गलावण्यैरवधीरितः समुत्पन्नानुशय इव कुसुमायुधस्त्वां निर्दहति।

हुसीअरसुरहिसीअलपरिसररत्तासोअविडवस्स वेदिआ उवरि खणं उवविसिअ परिस्सममवणएदु भवं। अहं एत्थ पडीआरं चिन्तेमि। (क)

(उभौ परिक्रम्योपविशतः।)

(प्रियालापो हस्ताभ्यां शिरः पिधाय निमीलितलोचनश्चिन्तां नाटयति।)

(नेपथ्ये कलकलः।)

** प्रियालापः**— (कर्णंदत्त्वा।) पिअवअस्स, एदे गोवाला समाअदा। उट्ठेहि। अत्तणो सुभदंसणेण अमिओवमेण महुरालावेण च इमाणं परिस्समं अवणेहि। (ख)

** कृष्णः—** (ससंभ्रममुत्थाय।) क्वैते क्वैते।

(ततः प्रविशन्ति गोसमूहैरनुगम्यमाना गोपालाः। सर्वे विदूरादेव कृतजयशब्दाः सरभसमुपेत्य कृष्णं परिष्वजन्ते। गावोऽप्यमृतसंभवां तद्गिरं निशम्य प्रेमगभिंतैर्हम्बारवैः पूरितदिगन्तराः परिक्षरत्क्षीरधाराभिर्भुवि क्षीरप्रवाहं दर्शयन्त्यः स्तिमितोर्ध्वकर्णा दूरविस्फारितैर्हर्षोपजाता-स्रुलवप्लुतैर्विलोचनैस्तं विलोकितवत्यः।)

कृष्णः— (उत्कलिकावेशेनाकुलीक्रियमाणहृदयःक्षणमिव स्थित्वा सप्रेमसंभावितान्गोपाला-न्प्रति।) भवन्तोऽस्मिन्रमणीये प्रदेशे क्रीडारसमनुभवन्तु। अहं तावदस्यां माधवीमण्डप-परिसरभुवि किमपि कार्यान्तरमतिवाहयामि। (इति प्रियालापं पश्यन्समुत्थाय व्यवस्यति गन्तुम्।)

** प्रियालापः—** (अपवार्य।) राहागदोक्कण्ठाक्खित्तहिअअस्स दे परिदेविदं विणा किं तत्थ विवित्ते अरण्णे कज्जन्तरम्। (प्रकाशम्) कहिं दाणिं पत्थीअदि पिअवअस्सेण। (ग51)

** कृष्णः—** सखे, तामेव प्रियासंचारैरतिपवित्रीभूतां भूमिमभिगम्य
____________________________________
(क)भोः, अलं लज्जया। अस्य मन्दमारुतान्दोलनप्रकीर्णमधुशीकरसुरभिशीतल-परिसररक्ताशोकविटपस्य वेदिकोपरि क्षणमुपविश्य परिश्रममपनयतु भवान्। अहमत्र प्रतीकारं चिन्तयामि।
(ख)प्रियवयस्य, एते गोपालाः समागताः। उत्तिष्ठ। आत्मनः शुभदर्शनेनामृतोपमेन मधुरालापेन चैपां परिश्रममपनय।
(ग)राधागतोत्कण्ठाक्षिप्तहृदयस्य ते परिदेवितं विना किं तत्र विविक्तेऽरण्ये कार्यान्तरम्। कुत्रेदानीं प्रस्थीयते प्रियवयस्येन।

तत्पादपदव्यादिचिह्नैर्दृशौ विलोभयामि तावत्। (परिक्रम्याग्रतो नीचैर्निरूपयन्। सरोमोद्भेदम्।) सखे, पश्य पश्य।

पदसंततिस्तदीया स्फुटमिह मध्ये गतालिपदवीनाम्।
परिवर्तिताग्रभागैः कथयति मयि साभिलाषतां तस्याः॥११॥

** प्रियालापः—** भो वअस्स, लीलाविणोदे जह पढमं दे मणो आसि दाणिं तह ण दीसइ। तक्केमि धण्णाए ताए उवरि अदिमेत्तं दे पेम्मम्। (क)

** कृष्णः—** (सुनिःश्वस्य।)

कुतः प्रेमवोऽप्यस्ति खले मे हृदये किल।
सुन्दरीं तामनालोक्य यदहं प्राणिमि प्रिय॥१२॥

** प्रियालापः—** तं जेव्व सुन्दरं क्खु जं भवदो विमोहं उप्पादेदि। (ख)

(उभावुपविशतः।)

** कृष्णः—** (सस्पृहम्) सखे प्रियालाप, चिन्तितः प्रतीकारो भवता।

** प्रियालापः—** (साटोपं कर्णे।) चिन्तिदो चिन्तिदो। किं पि पारितोसिअं गेण्हिअ कधइस्सम्। (ग)

(कृष्णो विहस्याङ्गुलीयकं दातुमुद्यतः।)

** प्रियालापः—** (स्मितं कृत्वा।) सुणादु पिअवअस्सो। असेसलोअसुन्दरीहिअअहारी भवं जाए लोअणमग्गं गदो विरहपज्जुस्सुआए ताए किं मुहुत्तअं वि आसासो समसुहदुक्खाओ सहीओ अ णु चिन्तअन्ति किं तत्थ पडीआरम्। मा उत्तम्म। मम्महो ज्जेव्व दे वक्खवादी। (घ)
________________________________________
(क)भो वयस्य, लीलाविनोदे यथा प्रथमं ते मन आसीदिदानीं तथा न दृश्यते। तर्कयामि धन्यायास्तस्या उपरि अतिमात्रं ते प्रेम।
(ख)तदेव सुन्दरं खलु यद्भवतो विमोहमुत्पादयति।
(ग)चिन्तितश्चिन्तितः। किमपि पारितोषिकं गृहीत्वा कथयिष्ये।
(घ)णोतु प्रियवयस्यः। अशेषलोकसुन्दरीहृदयहारी भवान्यस्या लोचनमार्गं गतो विरहपर्युत्सुकायास्तस्याः किं मुहूर्तकमप्याश्वासः समसुखदुःखाः सख्यश्च ननु चिन्तयन्ति किं तत्र प्रतीकारम्। मा उत्ताम्य। मन्मथ एव ते पक्षपाती।

** कृष्णः**— (स्मित्वा प्रियालापं समालिङ्ग्य।) सखे, असंशयं प्रियालापोऽस्ति।

** प्रियालापः**— पिअवअस्स, का एत्थ पिआलावदा। ण केवलं एव्वं भणीअदि, मए आकण्णिदं वि। (क)

** कृष्णः** —(सौत्सुक्यस्मितम्।) आवेदयतु वयस्यः।

** प्रियालापः—**तदो किं तुमं पेक्खिअ घरं गदा सा कुसुमाउहवाहाए असुत्था संजादा। (ख)

** कृष्णः—** (सव्यथमिव स्वगतम्।)

हा हन्त सुन्दरि कथं कुसुमायुधस्य
त्वं पुष्पकोमलतरं वपुरुद्वहन्ती।
सोढासि वज्रविशिखानतिदुर्विपह्या-
न्दुःखं ममात्र सुभगे द्विगुणत्वमेति॥१३॥

(प्रकाशम्।) ततस्ततः।

** प्रियालापः—**तदो सहीएहिं कामयमाणावत्थं तं उवलक्खिअ इहाणेदुं उवकप्पिदो कामलेहो। (ग)

** कृष्णः—** (सप्रत्याशम्।) ततस्ततः।

** प्रियालापः—**ता मा विसीद। अविलम्बेण जेव्व साहिअअंअमा इह आअमिस्सदित्ति इमस्स रत्तासोअपाअवस्स मूलं समस्सिअ अलक्खिदसरीरा होम। (घ)
____________________________________
(क)प्रियवयस्य, कात्र प्रियालापता। न केवलमेवं भण्यते, मयाकर्णितमपि।
(ख)तदा किं त्वां प्रेक्ष्य गृहं गता सा कुसुमायुधबाधयास्वस्था संजाता।
(ग)तदा सखीभिः कामयमानावस्थां तामुपलक्ष्य इहानयितुमुपकल्पितः कामलेखः।
(घ)तन्मा विषीद। अविलम्बितेनैव सा हृदयंगमेहागमिष्यतीत्यस्य रक्ताशोकपादपस्य मूलं समाश्रित्यालक्षित-शरीरौ भवावः।

(प्रविश्य गवां समीपात्।)

** सुबलः—** भो वअस्स, गोसमूहो तुमं विणा जलं णाभिणन्ददि। गोट्ठगमणस्स वि संणिहिदो क्खु कालो। ता आअच्छहु भवं। (क)

** कृष्णः—**(सनिःश्वासं प्रियालापं प्रत्यपवार्य।)

सा सौन्दर्यनिधिर्विलासभवनं मीनध्वजस्यापि वा
कान्तीनामधिदेवताधिकरणं माधुर्यसारस्य वा।
तामुद्वीक्ष्य सखे तदादि गतवान्सर्वेन्द्रियाणामहं
सार्धं तद्गतमानसेन गलितोत्साहः किलानीशताम्॥१४॥

** प्रियालापः—** तह वि जह तह रामणिज्जम्। (ख)

(इति निष्क्रान्ताः सर्वे।)

इति मथुरादासेन विरचितायां श्रीवृषभानुजानामनाटिकायां द्वितीयोऽङ्कः।
_____________

तृतीयोऽङ्कः।

(ततः प्रविशति सखीकदम्बकेनानुगम्यमाना राधा।)

(राधा असह्येन मान्मथविकारेण विह्वलीक्रियमाणा बलात्स्वाकारगुप्तिं रूपयन्ती गमनपरिश्रमं संसूच्य स्थिता।)

** चम्पकलता—** (स्वहस्तपल्लवेन तन्मुखपङ्कजात्स्वेदाम्भसः शीकरानपमृज्य। सनर्मस्मितम्।) हला, अवरद्धं तुह णितम्बभरेण एत्थ। अध मा दे परिस्समो भोदु। संणिहिदो क्खु तुह वीसामहेदुओ तमालरुक्खडो। जहिं पच्चक्खीभूदो दे तिलोईमोहणो सो। (ग)

** राधा—** (सभ्रूभङ्गम्।) अइ, सो को। (घ)
________________________________
(क)भो वयस्य, गोसमूहस्त्वां विना जलं नाभिनन्दति। गोष्ठगमनस्यापि संनिहितः खलु कालः। तदागच्छतु भवान्।
(ख)तथापि यत्र तत्र रमणीयम्।
(ग)सखि, अपराद्धं तब नितम्बभरेणात्र। अथ मा ते परिश्रमो भवतु। संनिहितः खलु तव विश्रामहेतुकस्तमालवृक्षकः। यत्र प्रत्यक्षीभूतस्ते त्रिलोकीमोहनः सः।
(घ)अयि, स कः।

** चम्पकलता**—कोवणे, मा अण्णहा सङ्केहि। कामरूवो मोहणो त्थि। (क)

** राधा**— (आत्मगतम्।) किं लक्खिदह्मिएदाए। (प्रकाशम्।) हला, ण दे वअणं सुणिस्सम्।(ख) (इति गमनं नाटयति।)

चम्पकलता—(कतिपयपदानि गत्वा पुरतस्तमालं विलोक्य राधां प्रति।) हला, मुहुत्तअं इह वीसमिअ अदूरे जा एसा पच्छाअसीअला कण्हस्स पुप्पवाडिआ णं अलंकरिअ फुल्लपल्लवेहिं मणो विणोदेहि। (ग)

(राधा सह सखीजनेन परिक्रम्य यथोक्तमनुतिष्ठति।)

(ततः प्रविशति सप्रियालापः सत्वरं कृष्णः।)

(सर्वाः ससंभ्रमं विलोकयन्ति।)

** राधा**— (निभृतं निर्वर्ण्यात्मगतम्।) हिअअ, समस्स समस्स। दाणिं मणोरहपहादो वि अदिलंहिदं दे चिन्तिदम्। (घ)

** प्रियालापः**— भोदि चम्पअलदे, कीस णिच्चं इमाए वाडिआए पुप्फाईं दीहिआए च पंअजाइं चोरिअ अप्पा अलंकरीअदि। (ङ)

** कृष्णः**— (सस्मितम्।) सखे, अलमनेन प्रसङ्गेन। यतः पुष्पेषु52नतिर्नवयौवनशालिनीनामासां केनापि निवारयितुं न शक्यते।

** चम्पकलता**—(कृष्णस्य वक्रोक्तिमवधार्यप्रियालापं प्रति।) अज्ज, जह इमिणा तुह वअस्सेण गोउले वल्लवविलासिणीणं— (इत्यर्धोक्ते सलज्जमिव तिष्ठति।) (च)
_____________________________________
(क)कोपने, मा अन्यथा शङ्कय। कामरूपो मोहनोऽस्ति।
(ख)किं लक्षितास्म्येतया। सखि, न ते वचनं श्रोष्ये।
(ग)सखि, मुहूर्तकमिह विश्रम्यादूरे यैषा प्रच्छायशीतला कृष्णस्य पुष्पवाटिका एनामलंकृत्य फुल्लपल्लवैर्मनो विनोदय।
(घ)हृदय, समास्स्व समास्स्व। इदानीं मनोरथपथादप्यतिलङ्घितं ते चिन्तितम्।
(ङ)भवति चम्पकलते, कस्माभित्यमस्या वाटिकायाः पुष्पाणि दीर्घिकायाश्च पङ्कजानि चोरयित्वा आत्मालंक्रियते।
(च)आर्य, यथानेन तव वयस्येन गोकुले बल्लवविलासिनीनाम्।

** प्रियालापः**— अइ उम्मत्ते, किं अवरद्धं मम पिअवअस्सेण वल्लवविलासिणीणम्। (क)

** चम्पकलता**—(विहस्य।) तुह्मेहिं सह घरं घरं हिण्डिअ दहि दुद्धं चोरिदम्, तह अवरं वि जाणेसि। (ख)

** कृष्णः**— (साश्चर्यमात्मगतम्) कथमन्यतोऽनया धूर्तया नीतः स्वहृद्गताभिप्रायः।

प्रियालापः— जइ इमाए तत्तभोदीए संगोइदाइं पुप्फपंअजाइं दंसेमि तदो किम्। (ग)

चम्पकलता— (साकूतम्।) जइ इमाए वि हिअअं एत्थ केण वि अच्चरिअविसेसेण चोरिदं ण भवे। (घ)

** प्रियालापः**— तदो किम्। (ङ)

चम्पकलता— तदो किम्। चोरिआ भविअ ओणदमुही चिट्ठे। (च)

      (राधा सभ्रूभङ्गं सख्या मुखमालोकते।)

** कृष्णः**—अयि सुतनु, कथं कुप्यसे। नन्वेतानि तवाङ्गान्येव चौर्यं स्फुटं कथयन्ति। यतः।

तवाननं सुन्दरि फुल्लपङ्कजं
स्फुटं जपापुष्पनिभस्तवाधरः।
विनिद्रपद्मं तव लोचनद्वयं
तवाङ्गमन्यत्किल पुष्पसंचयम्॥१॥

_______________________________________
(क)अयि उन्मत्ते, किमपराद्धं मम प्रियवयस्येन बल्लवविलासिनीनाम्।
(ख)युष्माभिः सह गृहं गृहं गत्वा दधि दुग्धं चोरितम्, तथापरमपि जानासि।
(ग)यद्यनया तत्रभवत्या संगोपितानि पुष्पपङ्कजानि दर्शयेयं तदा किम्।
(घ)यद्यस्या अपि हृदयमत्र केनाप्याश्चर्यविशेषेण चोरितं न भवेत्।
(ङ)तदा किम्।
(च)तदा किम्। चोरिका भूत्वावनतमुखी तिष्ठेत्।

(राधा ससाध्वसमधोमुखी तिष्ठति।)

** कृष्णः**— (स्वगतम्।) अहो साध्वसेऽप्यस्याः परमा शोभा। तथाहि।

कुवलयदललक्ष्मींप्रेक्षितं पक्ष्मलाक्ष्या
ग्लपयति मधुबिन्दुव्यापृतेन्दोः कलङ्कम्।
कलयति च मुखाब्जं स्वेदलेशोपरक्तं
भयमपि रमणीनां प्रायशो भूषणाय॥२॥

(नेपथ्ये।)

पिअदंसणे, जाणेसि पिअसही राहिआ कहिं। भोअणत्थं तं पडिच्छदि महादेवी। (आकाशे श्रुतिमभिनीय।) किं वदसि— ‘गदा सहीअणेण सह वाडिआमग्गेण’। ता कहिं दाणिं पेक्खिस्सं तं पिअसहिम्। (क)

** चम्पकलता**—(समाकर्ण्य। जनान्तिकम्।) हला तमालिए, एसा णाअरिआ त्ति तक्केमि। (ख)

** तमालिका**— एव्वं णेदम्। (ग)

** कृष्णः**— (तदुदीरितं निशम्य सोद्वेगं नातिदूरे तमालतरुखण्डान्तरितो मदनातुरस्तामेव दिशमीक्ष्यमाणः प्रियालापं प्रति।)

तां यावद्विनयोपचारमधुरैस्तैस्तैर्वचोभिः सखे
तद्भावं च सखीजनस्य हृदयं ज्ञात्वा करोम्युन्मुखीम्।
तावन्नागरिकासमागमवशाद्वृष्टेर्यथावग्रहः
संजातः प्रतिबन्धको विधिकृतः कोऽयं हहा प्रक्रमः॥३॥

** प्रियालापः**—पिअवअस्स, अदिमेत्तं तवइ भअवं सहस्सरस्सी। मुहुत्तअं अस्सिं तमालखण्डन्तरे उवविसह्म। (घ)
____________________________________
(क)प्रियदर्शने, जानासि प्रियसखी राधिका कुत्र। भोजनार्थं तां प्रतीक्षते महादेवी। किं वदसि— ‘गता सखीजनेन सह वाटिकामार्गेण’। तत्कुत्रेदानीं प्रेक्षिष्ये तां प्रियसखीम्।
(ख)सखि तमालिके, एषा नागरिकेति तर्कयामि।
(ग)एवं नन्विदम्।
(घ)प्रियवयस्य, अतिमात्रं तपति भगवान्सहस्ररश्मिः। मुहूर्तकमस्मिंस्तमालखण्डान्तरे उपविशावः।

** कृष्णः**— (ऊर्ध्वमवलोक्य।) सत्यमर्धं गतो दिवसः। यतः।

उत्तप्तोऽयमुरंगमः शिखितलच्छायां समालम्बते
वैरं साहजिकं विहाय स पुनर्मूलं तरोर्गच्छति।
याचन्ते च जलं निकुञ्जभवने तृष्णातुराः सारिका-
स्तप्ते वारिणि पङ्कजानि मधुपास्त्यक्त्वाश्रयन्ते लताः॥४॥

(उभौ परिक्रम्योपविशतः।)

** कृष्णः**— सखे, तया वियुक्तोऽहमिदानीं केन व्यापारेण दिवसमतिवाहयिष्ये।

** प्रियालापः**— (विहस्य।) लोअणाइं णिमीलिअ ताए पणिधाणेण। अहवा सरूवं आलिहिअ दंसणसुहेण। (क)

** कृष्णः**—कुत्रेह लेखोपकरणानि।

** प्रियालापः**— ण एदं तमालवत्तं केसरकुसुमाणं रसं अ। (ख)

** कृष्णः**— सम्यग्बोधितोऽस्मि। (नाट्येन गृहीत्वा लिखन्।) यद्यपि वेपते मेऽग्रहस्तः, तथापि कथंचिल्लिखामि। (इति लिखित्वा विलोकयन्सास्त्रम्।)

मूर्तिर्मयात्र लिखिता दयिते तवेयं
रूपं यथा तव तथा च यथा कथंचित्।
आलिख्यते कथमपाङ्गविलासलीला-
लावण्यमङ्गवलनं च सविभ्रमं ते॥५॥

** प्रियालापः**— भो वअस्स, आलिहिता तुए एसा कधं दाणिं अस्सुजलेण दूसएसि णम्। (हस्तादपकृष्यस्वकक्षान्तरे निवेशयति।) (ग)

** कृष्णः**— (परितो निर्वर्ण्य।) किं परिणतो दिवसः। यथा।

आवासोत्सुकपक्षिणः कलरुतं क्रामन्ति वृक्षालया-
न्कान्ताभाविवियोगभीरुरधिकं क्रन्दत्ययं कातरः।

_________________________________________
(क)लोचने निमील्य तस्याः प्रणिधानेन। अथवा स्वरूपमालिख्य दर्शनसुखेन।
(ख)नन्वेतत्तमालपत्त्रं केसरकुसुमानां रसश्च।
(ग)भो वयस्य,आलिखिता त्वयैषा कथमिदानीमश्रुजलेन दूषयस्येनाम्।

चक्राह्वोमधुपाः सरोजगहनं धावन्त्युलूको मुदं
धत्ते चारुणतां गतो रविरसावस्ताचलं चुम्बति॥६॥

** प्रियालापः**— भो वअस्स, मा कविदागव्वं उव्वह। अहं वि इमं वासवासावहूघरादो णिक्कामन्तं मिअलञ्छणं वण्णइस्सम्। (क)

** कृष्णः**— (सस्मितम्।) यद्भवतेऽभिरोचते।

** प्रियालापः**—(संस्कृतेन।)

सुधारश्मिः सद्यस्तिमिरनिकरान्तं विरचय-
न्नलिन्देभ(म्भ)ःस्पन्दं शशिमणिसमुत्थं च वितरन्।
उदेत्यादौ रक्ताम्बुजसमरुचिः कैरववने
प्रमोदं तन्वानो मधुपवनितागीतिमधुरम्॥७॥

** कृष्णः**— (स्मित्वा।) साधु वर्णितं वयस्येन। इदानीं गवां गोष्ठसंचारणाय गच्छावः।

(इति निष्क्रान्तौ।)

(ततः प्रविशति नागरिका।)

** नागरिका**— (राधामुखमालोक्य। जनान्तिकम्।) हला चम्पअलदे, कधं उम्मणादि एसा पिअसही। (ख)

** चम्पकलता**—(स्वगतम्।) तक्किदो चउराए इमाए वि से हिअअवुत्तन्तो। किं दाणिं एत्थ कधइस्सम्। होदु एव्वम्। (ग) (प्रकाशम्। अपवार्य संस्कृतेन।)

आलीजनेषु सुतनुः सखि संप्रवृत्ते
कर्णं ददाति रतिकेलिकथाप्रसङ्गे।
वालाजनेन पुरतोऽपि वितत्यमाने
लीलाविधौ च पुनरेव ददाति चित्तम्॥८॥

_________________________________
(क)भो वयस्य, मा कवितागर्वमुद्वह। अहमपीमं वासवाशावधूगृहान्निष्क्रामन्तं मृगलाञ्छनं वर्णयिष्ये।
(ख)सखि चम्पकलते, कथमुन्मनायते एषा प्रियसखी।
(ग)तर्कितश्चतुरयानयाप्यस्या हृदयवृत्तान्तः। किमिदानीमत्र कथयिष्ये। भवत्वेवम्।

** नागरिका**— सहि, णूणं से हिअए भअवदा कुसुमाउहेण वासो किदो, जं दुदीआ मिअङ्कलेहा विअ अदिकिसदाए लावण्णमेत्तसेसङ्गजट्ठी सिदकेदअणिभेहिं सपुलअकवोलफलएहिं आपाण्डुरं मिलाअमाणपंअजं विअ आणणं उव्वहन्ती फन्दमाणाहरपल्लवा अदिपिअदंसणा पडिहादि। (प्रकाशम्।) हला राहे, किंपि दुम्मणा भोदि त्ति अवहारिअ वेवइमे हि अअम्। कहेहि पिअसहि, किं एत्थ कालणम्। (क)

** चम्पकलता**—सहि णाअरिए, मअरद्धजपूआप्पसङ्गेण एदाए अदिअपुव्वो अच्चरिअरूवो— (इत्यर्धोक्त।) (ख)

राधा— (स्वगतम्।) णूणं एसा तं हिअअदइदं जणं वदिस्सदि। (इत्यङ्गुलीदलसंज्ञया वारयति।) (ग)

** चम्पकलता**— तमालरुक्खओ दिट्ठो तदो आरहिअ अदिचइदा क्खु एसा। (घ)

** राधा**— (सानन्दमात्मगतम्) अदिणिउणत्तणेण पसङ्गान्तरं उवणीदा इमाए अत्तणो सरस्सई। (ङ)

** नागरिका**—हला, वण्णेहि तम्। (च)
____________________________________
(क)सखि, नूनमस्या हृदये भगवता कुसुमायुधेन वासः कृतः, यद्द्वितीया मृगाङ्कलेखेवातिकृशतया लावण्यमात्रशेषाङ्गयष्टिः सितकेतकनिभाभ्यां सपुलककपोलफलकाभ्यामापाण्डुरं म्लायमानपङ्कजमिवानन-मुद्वहन्ती स्पन्दमानाधरपल्लवातिप्रियदर्शना प्रतिभति। सखि राधे, किमपि दुर्मना भवतीत्यवधार्य वेपते मे हृदयम्। कथय प्रियसखि, किमत्र कारणम्।
(ख)सखि नागरिके, मकरध्वजपूजाप्रसङ्गेनैतया अत्यपूर्व आश्चर्यरूपः।
(ग)नूनमेषा तं हृदयदयितं जनं वदिष्यति।
(घ)तमालवृक्षो दृष्टस्तदारभ्यातिचकिता खल्वेषा।
(ङ)अतिनिपुणत्वेन प्रसङ्गान्तरमुपनीतानयात्मनः सरस्वती।
(च)सखि, वर्णय तम्।

** चम्पकलता**—(संस्कृतमाश्रित्य।)

उत्फुल्लपङ्कजनिषक्तभसद्विरेफः
किंचिद्विनिद्रकुमुदोत्करसंभृतश्रीः।
आमूलनद्धविविधाद्भुतमाल्यमाल-
श्चित्रं न कस्य तनुते ललितस्तमालः॥९॥

राधा— (सविषादमात्मगतम्) सण्णेणं निवारिदाए वि एदाए तमालछलेण कधिदं जेव्व। अदिणिउणा उण णाअरिआ सव्वं अवअच्छदि। (क)

नागरिका— (स्वगतम्) णिअदं को वि तमालसामलङ्गच्छवी सिमिदसुहासंभिदउप्फुल्ल-पुण्डरीअमुद्धाणणो विविहप्पसूणसंचअसंकुलाए पाआअलम्बिणीए वेजअन्तीए मअणकरिकण-असिङ्खलाए विअ अलंकिदो अलिविब्भमणवोप्पलविलासेहिं विलोअणेहिं मणोहरो मम्महसंआसो से लोअणपहं पउत्तो। अहवा एदेहिं गुणेहिं अलंकिदो णन्दसूणो जेव्व जणाणणादो सुणीअदि। कदावि सो एत्थ इमाए दिट्ठिगोअरं गदो भवे। (प्रकाशम्।) हला, मं वि दंसेहि तं तमालअम्। (ख)

(चम्पकलतेषदुपदर्शितस्मिता राधामुखं पश्यति।)

** राधा**— (विचिन्त्य। आत्मगतम्।) अदूरे भविस्सदि सो दुल्लहजणो। परिहाससीला क्खु एसा चम्पअलदा। कदा वि णाअरिआ दिट्ठिपहं करेदि तम्। (इति नागरिकामग्रहस्ते गृहीत्वा) हला, अम्बा मं विणा दुक्खमणुभोदि ता घरं गमिस्सम्। (इति सखीभिः सह निष्क्रान्ता।) (ग)

_________________________________________
(क)संज्ञया निवारितयाप्येतया तमालच्छलेन कथितमेव। अतिनिपुणा पुनर्नागरिका सर्वमवगच्छति।
(ख)नियतं कोऽपि तमालश्यामलाङ्गच्छविः स्मितसुधासंभृतोत्फुल्लपुण्डरीकमुग्धाननो विविधप्रसूनसंचय-संकुलया पादावलम्बिन्या वैजयन्त्या मदनकरिकनकशृङ्खलयैवालंकृतोऽलिविभ्रमनवोत्पलविलासाभ्यां विलोचनाभ्यां मनोहरो मन्मथसंकाशोऽस्या लोचनपथं प्रवृत्तः। अथवा एतैर्गुणैरलंकृतो नन्दसूनुरेव जनाननाच्छ्रूयते। कदापि सोऽत्रास्या दृष्टिगोचरं गतो भवेत्। सखि, मामपि दर्शय तं तमालकम्।
(ग) अदूरे भविष्यति स दुर्लभजनः। परिहासशीला खल्वेषा चम्पकलता।

(प्रविश्य सत्वरा)

** विद्रुमलता**— (परिक्रम्यावलोक्य च। आकाशे।) मुणालिए, अदिअसुत्था पिअसही राहिआ। ताए किदे दीहिआदो बिसिणीवत्ताइं आणेदुं गदा पिअसही कअलिआ दिट्ठा तुए। (श्रुतिमभिनीय।) किं वदसि— ‘चिरेण कालेण गेण्हिअ गदा। अहं वि आणत्तम्हि भअवदीए वुन्दाए—जह वच्छे विद्दुमलदे, गच्छ सिग्धम्। कण्हस्स गोउलादो गोधूलिं अध केसितित्थादो जलं उसीरादिअं च समाहर’। ता तहिं गच्छह्मि। तुमं उण एदं कप्पूरं विलेवणं च गेण्हिअ पत्थिदासि। ता तुरिददरं गच्छ। (क)

(इति निष्क्रान्ते।)

(ततः प्रविशति विरहपर्याकुलः कृष्णः।)

कृष्णः— सखे प्रियालाप,

तस्याः किं मुखपङ्कजं स्मितरुचा चन्द्रद्युतेर्निन्दकं
किं वा नेत्रयुगं कटाक्षचतुरं किं भ्रूलताविभ्रमम्।
किं च स्निग्धमवेक्षितं मयि पुनर्यान्त्या सखीनां पुरः
किं किं संप्रति चिन्तयामि हृदये कामेन लक्षीकृते॥१०॥

अपि च।

तां हेमचम्पकरुचिं मृगशावकाक्षी
पार्श्वे स्थितां च पुरतः परिवर्तमानाम्।
पश्चात्तथा दशदिशासु परिस्फुरन्तीं
पश्यामि तन्मयमहो भुवनं किमेतत्॥११॥

_______________________________________
कदापि नागरिका दृष्टिपथं करोति तम्। हला, अम्बा मां विना दुःखमनुभवति तद्गृहं गमिष्यामि।
(क)मृणालिके, अत्यस्वस्था प्रियसखी राधिका। तस्याः कृते दीर्घिकातः बिसिनीपत्त्राण्यानेतुं गता प्रियसखी कदलिका दृष्टा त्वया। किं वदसि—‘चिरेण कालेन गृहीत्वा गता। अहमपि आज्ञप्तास्मि भगवत्या वृन्दया—यथा वत्से विद्रुमलते, गच्छ शीघ्रम्। कृष्णस्य गोकुलतः गोधूलिमथ केशितीर्थतः जलमुसीरादिकं च समाहर’। तत्तत्र गच्छामि। त्वं पुनरिदं कर्पूरं विलेपनं च गृहीत्वा प्रस्थितासि। तत्त्वरिततरं गच्छ।

प्रियालापः— अच्चरिअं अच्चरिअम्। जं पेक्खिअ भवं वि एव्वं विम्हिदो, ता चउद्दहलोए सुरगन्धव्वकिण्णरणाअकण्णआणं मज्झे ण का वि तादिसीत्ति तक्केमि। (क)

कृष्णः— सखे, एवमेतत्। न खलु सा वेधसः सृष्टिः। तस्याः किलाङ्गान्यमृतसंभवानि, न तु पञ्चभोतिकानि। तथा हि।

अमृतं तदधरबिम्बे वचनेष्वमृतं विलोकनेऽप्यमृतम्।
अमृतमृतौ कुचकुम्भौ सत्यं सा सृष्टिरमृतस्य॥१२॥

(मदनबाधां रूपयन्दीर्घमुष्णं च निःश्वस्य।)

भवनेत्रभवो वह्निरद्यापि त्वयि मन्मथ।
ज्वलत्येवान्यथा किं ते विशिखास्तत्कणा इव॥१३॥

प्रियालापः— समस्सदु समस्सदु पिअवअस्सो। (हस्तेन वेत्रलतामुद्यम्य सक्रोधं तमालमूले प्रतिष्ठितं कुसुमायुधं ताडयितुमभिसरन्।) रे वराअ कुसुमाउह, तुमं जेव्व मम पिअवअस्सं एव्वं संदावेसि। ता गेण्ह इमं मम हत्थादो सुदिढप्पहारम्। (ख)

** कृष्णः**— (सस्मितम्। तद्बाहुमाकृष्य।) सखे, तत्प्रतिनिधिं परिकल्प्य पूज्यते, न तु साक्षादयम्।

प्रियालापः— (परावृत्य) एव्वं भो अलं दाणिं पलविदेण। इमस्सिं माहवीमण्डवे मुहुत्तअं उवविसिअ मणो विणोदेदु भवम्। (ग)

कृष्णः— यद्भवतेऽभिरोचते।

(उभावुपविशतः।)

_____________________________________
(क)आश्चर्यमाश्चर्यम्। यां प्रेक्ष्य भवानप्येवं विस्मितः, तच्चतुर्दशलोके सुरगन्धर्वकिंनरनागकन्यकानां मध्ये न कापि तादृशीति तर्कयामि।
(ख)समाश्वसितु समाश्वसितु प्रियवयस्यः। रे वराक कुसुमायुध, त्वमेव मम प्रियवयस्यमेवं संतापयसि। तद्गृहाणेमं मम हस्ततः सुदृढप्रहारम्।
(ग)एवं भो अलमिदानीं प्रलपितेन। अस्मिन्माधवीमण्डपे मुहूर्तकमुपविश्य मनो विनोदयतु भवान्।

(प्रविश्य सत्वरम्)

** श्रीदामा**— पिअवअस्स, अस्सिं अवरण्हे गोवद्धनसिहरादो वच्छसमूहं पेक्खिअ किदहम्भारवो गोकदम्बओ तह पधाविदो जह अम्हाणं वअणेहिं वि ण पडिणिउत्तो। उट्ठेहि। अत्तणो मुरुलीणादेण तं पडिणिउत्तेहि। (क)

(कृष्णः ससंभ्रमं मुरलीमादाय प्रवृत्तो गन्तुम्।)

प्रियालापः— (अग्रतो विलोक्य सकौतुकं कृष्णस्य कर्णे) पिअवअस्स, भंवरेहिं चुम्बिअमाणं एदं मिआअमाणणीलोप्पलं दे पेअसीए कण्णादो णिपइदं तक्केमि। (गृहीत्वा हस्तेऽर्पयति।) (ख)

** कृष्णः**— (क्षणं हृदये निधाय सोच्छ्वासम्। स्वगतम्।)

मन्ये तल्लोचनापाङ्गैः श्रुतिसीम्नि परायणैः।
असूययेव खल्वेतत्प्रसभेन निपातितम्॥१४॥

अपि च।

स्थाने म्लानत्वमेतस्य श्रुतेर्निपतितं यतः।
पुनस्तत्पदमारोढुं स्वाङ्गं शोषयतीव तत्॥१९॥

(इति निष्क्रान्ताः सर्वे।)

इति मथुरादासेन विरचितायां श्रीवृषभानुजानामनाटिकायां तृतीयोऽङ्कः।
_________

चतुर्थोऽङ्कः।

(ततः प्रविशति विषण्णा चम्पकलता।)

चम्पकलता— अवि कहिं भविस्सदि मे पिअसही तमालिआ। (पुरो विलोक्य।) दिट्ठिआ इध ज्जेव अहिवट्टदि। (ग)
________________________________
(क)प्रियवयस्य, अस्मिन्नपराह्णे गोवर्धनशिखरतो वत्ससमूहं प्रेक्ष्य कृतहम्भारवो गोकदम्बकस्तथा प्रधावितो यथास्माकं वचनैरपि न प्रतिनिवृत्तः। उत्तिष्ठ। आत्मनो मुरलीनादेन तं प्रतिनिवर्तय।
(ख)प्रियवयस्य, भ्रमरैश्चुम्ब्यमानमेतन्म्लायमाननीलोत्पलं ते प्रेयस्याः कर्णान्निपतितं तर्कयामि।
(ग)अपि कुत्र भविष्यति मम प्रियसखी तमालिका। दिष्ट्या इहैवाभिवर्तते।

(ततः प्रविशति तमालिका।)

** तमालिका**— (चम्पकलतामुखं दृष्ट्वा सविपादम्। संस्कृतेन।)

उत्पादयत्यलमिदं मनसो विषादं
सीदत्सरोरुहनिभं वदनं त्वदीयम्।
ज्ञात्वा निदानमहमत्र समानदुःखा
प्राणैरपि प्रियतमे भवितुं समीहे॥१॥

चम्पकलता—हला, खुट्ठुलक्खिदं तुए। असंमुद्धं सुणाहि। (क)

तमालिका— अवहिदह्मि। कहेहि। (ख)

** चम्पकलता**— जदो पहुदि पिअसहिराहिआए सोरूबविहवेण अदिसइदकुसुमाउहसहस्सो कण्हो पुलोइदो तदो आरहिअ कुविदस्स विअ मम्महस्स पअवसा ण कुदोवि वीसामं पडिवज्जदि। सबहुविणअं पात्थमाणा वि ण मज्जणादिदिवसव्वावारे रुइं उब्बहदि। एदं क्खु अहिगदं जेव्व तुए। (ग)

तमालिका— (स्वगतम्।) अत्थि मम हिअए वि सल्लं क्खु एदम्। (प्रकाशम्) तदो तदो। (घ)

** चम्पकलता**— विसेसदो अज्ज सव्वणिसामज्जे खणं वि णिद्दासुहं ण पाविदम्। अन्तरा अन्तरा अ आमीलिअ लोअणाइं एवमादिअं असंबद्धं पलविदम्। (ङ)
_____________________________________
(क) सखि, सुष्ठु लक्षितं त्वया। असंमुग्धं शृणु।
(ख)अवहितास्मि। कथय।
(ग)यदा प्रभृति प्रियसखिराधिकया स्वरूपविभवेनातिशयितकुसुमायुधसहस्रः कृष्णः प्रलोकितस्तदारभ्य कुपितस्येव मन्मथस्य परवशा न कुत्रापि विश्रामं प्रतिपद्यते। सबहुविनयं प्रार्थ्यमानापि न मज्जनादिदिवसव्यापारे रुचिमुद्वहति। एतत्खल्वधिगतमेव त्वया।
(घ)अस्ति मम हृदयेऽपि शल्यं खल्वेतत्। ततस्ततः।
(ङ)विशेषतोऽद्य सर्वनिशामध्ये क्षणमपि निद्रासुखं न प्राप्तम्। अन्तरा अन्तरा चामील्य लोचने एवमादिकमसंबद्धं प्रलपितम्।

तमालिका— (सरभसम्) तदो तदो। (क)

चम्पकलता— (संस्कृतेन।) तद्यथा।

कार्यं मे नहि किंचिदस्ति कमलोत्तंसेन सख्यः कथं
मुग्धां मां प्रसभं रुणद्धि सभयं व्याक्रोशमानामपि।
धूर्तोऽयं करपङ्कजेन शिरसि व्याबद्धमानो हस-
न्नात्मानं बहु मन्यते स्वमुकुटप्रान्तेन पादौ स्पृशन्॥२॥

तमालिका— (सविस्मयमात्मगतम्।) जादो क्खु सअलजीअलोअस्स णिदंसणं ताए पेम्मावेसो। (प्रकाशम्।) तदो तदो। (ख)

चम्पकलता— तदो देवीए पुच्छिदा अहं जह— ‘वच्छे चम्पअलदे, अवि जाणेसि से उव्वेअआरणम्’। (ग)

तमालिका— तदो तदो। (घ)

चम्पकलता— तदो कण्हस्स विरहं फुडं जाणन्तीए वि मए एव्वं पडिबोधिदा देवी। (ङ)

तमालिका— तदो तदो। (च)

चम्पकलता— सुणादु पिअसही। (छ) (संस्कृतमाश्रित्य।)

गतेयं कल्याणी तपनतनयां मज्जनविधिं
विधातुं तत्तीरे किमपि कमनीयं सकुतुकम्।
विलोक्यान्तर्बाधामभजत तदारम्य सहसा
शमं नेतव्यं तद्बलिविरचनैर्दैविकमिदम्॥३॥

_________________________________
(क)ततस्ततः।
(ख)जातः खलु सकलजीवलोकस्य निदर्शनं तस्याः प्रेमावेशः। ततस्ततः।
(ग)तदा देव्या पृष्टाहं यथा - ‘वत्से चम्पकलते, अपि जानासि अस्या उद्वेगकारणम्।
(घ)ततस्ततः।
(ङ)तदा कृष्णस्य विरहं स्फुटं जानन्त्यापि मयैवं प्रतिबोधिता देवी।
(च)ततस्ततः।
(छ)शृणोतु प्रियसखी।

तमालिका— (सहर्षस्मितम्। संस्कृतेन।)

कस्यान्यस्येदृशो बुद्धेर्विभवो वर्तते सखि।
यो बलिव्यपदेशेन देवीं बोधयितुं क्षमः॥४॥

तदो तदो। (क)

चम्पकलता— तदो आणत्तं देवीए— ‘जह जीविदसव्वस्सं वच्छा मे राहिआ पइदिमावज्जदि तह करेहि’। (ख)

** तमालिका**— हला, सुविहिदं तुए। सिग्धं णेदव्वा सा पिअसही दाणिं तत्थ। (ग)

(इत्युभे निष्क्रान्ते।)

(अनन्तरं नाट्येन राधामुपेत्य तादृगवस्थां तां विभाव्य विस्मयस्मेरचक्षुषान्योन्यमवलोकयतः। मुहूर्तकमिवोपविश्य पौनःपुन्येन तच्चेष्टां निरूप्य च।)

** तमालिका**— (चम्पकलतां प्रति। संस्कृतेन।)

नव्याम्भोधरमम्वरे सुविलप्तत्सौदामिनीसंगतं
सेर्ष्यंपश्यति बर्हिणां च विरुतिं श्रुत्वा सरोमोद्गमम्।
कम्पं चम्पकदामकोमलरुचौ स्वेदं च धत्ते तनौ
मन्ये मन्मथकोटिमोहनवपुः कृष्णोऽनया स्मर्यते॥५॥

चम्पकलता— (मुहुस्तन्मुखाम्बुजाग्रे मुहुर्नासावंशाग्रभागे पर्यस्ताङ्गुलिहस्तेन करकमलेन स्पर्शमभिनयन्ती साकूतम्। संस्कृतेन।)

श्वासास्ते सखि सूचयन्त्यविरताः संतापबाधां परं
विद्मस्तत्र न कारणं वयमिति स्वान्तेति चिन्ताभरः।
किं बाह्यातपपीडिता तव तनूवल्ली निकामं प्रिये
पुष्पादप्यतिकोमला मलिनतां याता मृणाली यथा॥६॥

(राधान्तर्निगूढमनसिजेनासह्यंपीढ्यमाना वैक्लव्यं रूपयति।)

** सख्यः**— (करुणातिशयम्।) हला राहे, उम्मीलअ लोअणाइं। कथं अ-
_______________________________
(क)ततस्ततः।
(ख)तदाज्ञप्तं देव्या— ‘यथा जीवितसर्वस्वं वत्सा मे राधिका प्रकृतिमापद्यते तथा कुरु।
(ग)सखि, सुविहितं त्वया। शीघ्रं नेतव्या सा प्रियसखीदानीं तत्र।

णक्खरासि संजादा। (इत्येवं मुहुर्मुहुः समाश्वास्य तालवृन्तानिलादिकोपायैः कथमपि चेतनां ग्राहितवत्यः।) (क)

** चम्पकलता**—(साकूतम्) सहि, जह तह उट्ठेहि। दे आदवपीडोवसमत्थं तं लदावलअप्पदेसं विणा अण्णं सइणं ण अवअच्छह्मि। (ख)

(ततः प्रविशति बलाच्चम्पकलतया दत्तहस्ता तामेवावलम्ब्यकथंचित्सखेदं गमनमभिनयन्ती सखीभिः सह राधा।)

** राधा**— (सनिःश्वासम्।) अम्महे, अदिणीसहा समुप्पण्णा हिअए मे वेअणा। (ग)

** सख्यः**—(सविषादम्।) अइ लज्जालुए, ण क्खु दे हिअअवेअणाए णिदाणं जाणीअदि। अह वा कण्हस्स दंसणं एत्थ कालणम्। (घ)

** राधा—** (तमाकर्ण्य मूर्च्छामुपगच्छति। मुहूर्तादिव ससंभ्रमं सखीजनप्रयुक्तवीजनादिकप्रयत्नैः संज्ञामवाप्य। संस्कृतेन।)

किं स्वप्नः किमु जागरः किमथवा रात्रिः किमास्ते दिनं
मोहावस्थितया मया न किमपि ज्ञातं किमेतत्सखि।
यन्नामश्रवणादनन्तरमिदं वृत्तं तमेव प्रियं
चेतोदुर्लभमप्यपास्त सकलव्यापारमाकाङ्क्षति॥७॥

अपि च।

स्वप्नान्तरेषु दिनशः समुपेत्य धूर्तो
धत्ते मुखं मम मुखोपरि चाटुकारः।
पादावलक्तकरसेन च रञ्जयित्वा
कर्णे शिरीषकुसुमं प्रसभं दधाति॥८॥

(सख्यः सविस्मयं परस्परमवलोकयन्ति।)

___________________________________
(क)सखि राधे, उन्मीलय लोचने। कथमनक्षरासि संजाता।
(ख)सखि, यथा तथा उत्तिष्ठ। ते आतपपीडोपशमार्थं तं लतावलयप्रदेशं विनान्यं शरणं नावगच्छामि।
(ग)अहो, अतिनिःसहा समुत्पन्ना हृदये मे वेदना।
(घ)अयि लज्जालुके, न खलु ते हृदयवेदनाया निदानं ज्ञायते। अथवा कृष्णस्य दर्शनमत्र कारणम्।

** चम्पकलता**— (जनान्तिकम्।) हला तमालिए, कामं अणुभोदि मणोहववेअणं एसा। दाणिं क्खु उवेक्खणीआ ण भोदि। तुरिदं जेव्व कप्पणिज्जो कामलेहो। (क)

** तमालिका**— जुत्तं मन्तेसि। (ख)

चम्पकलता—(राधां प्रति।) हला, सलाहणिज्जो दे अहिलासो। जेण तं लोआभिरामं वज्जिअ कुदो भवादिसीणं हिअअप्पउत्ती। ता मा विसीद अहुणा। णिउणं जाणिअ चिन्तीअदि पडीआरो अम्हेहिं। (ग)

(सर्वाः परिक्रम्य वाटिकाबकुलपादपच्छायामाश्रित्योपाविशन्ति।)

** चम्पकलता**— (उत्तरीयांशुकपल्लवेन शनैः शनै राधामुपवीजयन्ती तन्मौक्तिकहारस्य मध्यमणिं हस्तेनोन्नमय्य) हला तमालिए, संपदं इमं धारेदुं असमत्था एसा किसङ्गी। ता अत्तणो अंसुअअञ्चले रक्खिस्सम्। (घ)

** तमालिका**— अणुमदं क्खु मे। (ङ)

चम्पकलता— (तथा करोति। अथ नाट्येन भूर्जपत्त्रमादाय कामलेखनिमित्तं राधाहस्ते समर्पयन्ती।) सहि, पिअदमसआसं अणुप्पेसिदुं किंपि सुकुमारप्पओअं विचिन्तिअ इह समालिह। (च)
_________________________________
(क)सखि तमालिके, काममनुभवति मनोभववेदनामेपा। इदानीं खलूपेक्षणीया न भवति। त्वरितमेव कल्पनीयः कामलेखः।
(ख)युक्तं मन्त्रयसि।
(ग)सखि, श्लाघनीयस्तेऽभिलाषः। येन तं लोकाभिरामं वर्जयित्वा कुतो भवादृशीनां हृदयप्रवृत्तिः। तन्मा विषीदाधुना। निपुणं ज्ञात्वा चिन्त्यते प्रतीकारोऽस्माभिः।
(घ)सखि तमालिके, सांप्रतमिमं धारयितुमसमर्थैषा कृशाङ्गी। तदात्मनोंऽशुकाञ्चले रक्षिष्यामि।
(ङ)अनुमतं खलु मे।
(च)सखि, प्रियतमसकाशमनुप्रेषितुं किमपि सुकुमारप्रयोगं विचिन्त्येह संसलिख।

** राधा**— (क्षणं विचिन्त्य सपुलकं संस्कृतमाश्रित्य धातुरसेन लिखति।)

यतः प्रभृति ते कान्तं मुखमालोकितं मया।
कामः कामं ममाङ्गानि व्यथयत्यभितः शरैः॥९॥

** सख्यौ**— (निर्वर्ण्य सविस्मयम्।) अहो से विअद्धदा। (क)

चम्पकलता—(साश्चर्यम्। संस्कृतमालम्ब्य।)

क्रीडन्ती निजमन्दिरेषु निभृतं बाल्यात्सखीभिः समं
नित्यं कृत्रिमपुत्रिकादिषु रता भावानभिज्ञा हि या।
पित्रा पुत्रवतापि वत्सलतयोत्सङ्गे परं लालिता
सख्यः पश्यत चातुरीषु सहसा सैषातिभूमिं गता॥१०॥

तमालिका— सहि चम्पअलदे, अवि जाणीअदि कण्हो कहिं दाणिं हुविस्सदि त्ति। (ख)

** चम्पकलता**—ण क्खु अवअच्छम्हि। (ग)

(ततः प्रविशति कृष्ण प्रियालापश्च।)

प्रियालापः— पिअवअस्स, अदूरे कुमारीकण्ठद्धुणी सुणीअदि। अस्सिं अदिमुत्तलदामण्डवे चिट्ठ दाव। (घ)

(कृष्णो नाट्येन तथा स्थित्वा अधरे वंशींविन्यस्य क्वणयति। सर्वाः समाकर्ण्य विस्मिताः।)

** राधा**— (मोहं रूपयन्ती चिरादिव लब्धसंज्ञा सनिःश्वासम्।) अम्महे, बाढं उम्मादिदम्हि कामस्स मोहणमत्तरूवेण इमिणा केण वि रवेण। (ङ)
_____________________________________
(क)अहो अस्या विदग्धता।
(ख)सखि चम्पकलते, अपि ज्ञायते कृष्णः कुत्रेदानीं भविष्यतीति।
(ग)न खल्ववगच्छामि।
(घ)प्रियवयस्य, अदूरे कुमारीकण्ठध्वनिः श्रूयते। अस्मिन्नतिमुक्तलतामण्डपे तिष्ठ तावत्।
(ङ)अहो, बाढमुन्मादितास्मि कामस्य मोहनमन्त्ररूपेणानेन केनापि वेण।

** चम्पकलता**—(साकूतम्।) हला राहे, अवि उप्पादेदि किं पि सुदिसुहं एसो दे कण्हस्स वंसीरवो। (क)

** राधा**— (आत्मगतम्।) किं तस्स जेव्व हिअअचोरस्स इमो वंसीर वो। (ख)

(प्रकाशम्। दीर्घमुष्णं च निःश्वस्य। संस्कृतेन।)

संयोगेऽमृतसंकाशो वियोगे विषसंनिभः।
नादोऽयं सखि हेतुर्मे जीवने मरणेऽपि वा॥११॥

(सख्यः साखं समाश्वासयन्ति।)

चम्पकलता—हला तमालिए, जह एदे मिअविसेसा पच्छिणो च भच्छादिअं उज्झिअ अमिआदो वि अदिमहुरं इमं वंसीधुणिं णिच्चलस्सवणपुडएण समापिविअ माहवीमण्डवसंमुहे पुलोअअन्ति, तह कण्हो तत्थेति तक्केमि। दाणिं इमो कामलेहो तहिं णेदव्वो। (गृहीत्वा नाट्येनेतस्ततः ससंभ्रमं विलोकयन्त्यस्ता रन्ध्रेण शनकैः कृष्णान्तिकं निवेश्य प्रत्यागतवत्यः।) (ग)

** प्रियालापः**— (निर्वर्ण्य कौतुकाद्धस्ते कृत्वा कृष्णं प्रति) भो वअस्स, पेक्ख दाव किं एदम्। (घ)

** कृष्णः**— (बलेन हस्ताद्गृहीत्वा वाचयन्। सनिःश्वासम्) सखे, नूनमयं कामपीडितया मत्प्रियया प्रेषितः कामलेखः।

** प्रियालापः**– (सविनयम्।) णिवेदेदु पिअवअस्सो किं एत्थ आलिहिदम्। (ङ)
____________________________
(क)सखि राधे, अप्युत्पादयति किमपि श्रुतिसुखमेष ते कृष्णस्य वंशीरवः।
(ख)किं तस्यैव हृदयचोरस्यैप वंशीरवः।
(ग)सखि तमालिके, यथा एते मृगविशेषाः पक्षिणश्च भक्ष्यादिकं त्यक्त्वा अमृततोऽप्यतिमधुरमिमं वंशीध्वनिं निश्चलश्रवणपुटकेन समापीय माधवीमण्डपसंमुखे विलोकयन्ति, तथा कृष्णस्तत्रेति तर्कयामि। इदानीमयं कामलेखस्तत्र नेतव्यः।
(घ)भो वयस्य, प्रेक्षस्व तावत्किमिदम्।
(ङ)निवेदयतु प्रियवयस्यः किमत्रालिखितम्।

** कृष्णः**— सखे, प्रियादुःखाभिव्यञ्जकाण्यक्षराणि भूयो वाचयितुमसमर्थोऽस्मि। तथाप्यवहितः शृणु।

** प्रियालापः**— पसीददु भवम्। (क)

** कृष्णः**— (कथं कथमपि वाचयति। यथा—)

यतः प्रभृति ते कान्तं मुखमालोकितं मया।
कामः कामं ममाङ्गानि व्यथयत्यभितः शरैः॥१२॥

** प्रियालापः**— (आत्मगतम्।) हन्त, बलिअं बाधिदा हदकन्दप्पेण सा तवस्सिणी। (प्रकाशम्।) पिअवअस्स, सुमरेहि जं मए पुरा कधिदं आसि। जह मम्महोजेव्व दे वक्खवादी भविस्सदि। ताए सहीअणो अ तत्थ चिन्तइस्सदि पडीआरम्। (ख)

कृष्णः— (स्मित्वा तं कामलेखं कदाचिन्नयनयोरुपरि कदाचिद्वृदये निधाय क्षणं प्रियास्पर्शसुखमिवानुभवन्। सनिःश्वासम्।)

आनन्दं जनयत्यलं सुललितैस्तस्याः स्वहस्ताक्षरै-
र्यद्यप्येष मनोजलेख इह मे तत्सङ्गमाकाङ्क्षिणः।
कामेनाप्यथ पीडितोऽहमधुना बध्नाम चित्ते धृतिं
तद्दुःखेन सखे तथापि सुतरां दुःखैकपात्रीकृतः॥१३॥

तेन हि वंशीगीतेन क्षणं मनो विनोदयामि। (तथा करोति।)

** राधा**— (निशम्यात्मगतम्) किं पुणो वि वसीअरणमन्तो पट्ठीअदि तेण।

(इति लोचने निमील्य दुर्विषहेन दाहरूपिणा मदनज्वरेणाभिभूयमाना मोहावस्थां नाटयति।) (ग)

चम्पकलता— (ससंभ्रममुत्थाय तत्कालोचितप्रतीकारार्थं स्खलितया गिरा तांस्तानुपायानु-पदिशन्ती सखीजनं सत्वरं व्यापारयति।) तमालिए, उववीजअ
_________________________________
(क)प्रसीदतु भवान्।
(ख)हन्त, बलवद्वाधिता हतकन्दर्पेण सा तपस्विनी। प्रियवयस्य, स्मर यन्मया पुरा कथितमासीत्। यथा मन्मथ एव ते पक्षपाती भविष्यति। तस्याः सखीजनश्च तत्र चिन्तयिष्यति प्रतीकारम्।
(ग)किं पुनरपि वशीकरणमन्त्रं पठ्यते तेन।

तमालवत्तेण पिअसहिम्। मुणालिए, णिधेहि से हिअए समुणालाइंसरसकमलिणीदलाइं। विद्दुमलदे, सिञ्च पिअसहअरिं घणसारमिस्सेण मलअअरसेण। कअलिए, विरचेहि सेणीअं पंअजपलासवहलेहिं
कहलीदले हिं। (क)

** प्रियालापः**— (आकर्ण्य।) भो, किं एत्थ अरण्णरुइएण। वाडिआपरिसरे मुद्धाणं करुणालावो विसप्पदि। (ख)

कृष्णः— (सत्वरमुपसृत्य।) शृणोमि तावत्किमालपन्ति। (इति बकुलविटपान्तरितविग्रह-स्तिष्ठति।)

** राधा**— (लोचने उन्मील्य।) कित्ति इमं जणं अवराहिणं करिअ अत्ताणअं आआसअन्ति सहीओ। (ग) (संस्कृतेन।)

कलयति मम चेतस्तल्पमङ्गारकल्पं
ज्वलयति मम गात्रं चन्दनं चन्द्रकं च।
तिरयति मम नेत्रे मोहजन्मान्धकारो
विवृतबहुविकारं मन्मथो मां दुनोति॥१४॥

(इति वैवश्यमुपगता।)

कृष्णः— (स्वगतम्।)

मनोजन्मा तवाङ्गानि दहत्यत्र न संशयः।
मन्ये मम हृदिस्था त्वं तप्यसे जीवितेश्वरि॥१५॥

** चम्पकलता**— (सविषादम्।) अम्महे, णीसासाणुमेअजीविदा पडिहादि एसा पिअसही। (इति समुत्पन्नकारुण्या तमालिकां प्रति।) हला तमालिए, दु-
_______________________________
(क)तमालिके, उपवीजय तमालपत्रेण प्रियसखीम्। मृणालिके, निधेह्यस्या हृदये सुमृणालानि सरसकमलिनी-दलानि। विद्रुमलते, सिञ्चय प्रियसहचरीं घनसारमिश्रेण मलयजरसेन। कदलिके, विरचय शयनीयं पङ्कजपलाशबहुलैः कदलीदलैः।
(ख)भोः, किमत्रारण्यरुदितेन। वाटिकापरिसरे मुग्धानां करुणालापो विसर्पति।
(ग)भोः, किमेनं जनमपराधिनं कृत्वात्मानमायासयन्ति सख्यः।

ल्लहे तस्सिं गोउलेन्दकुमारे सुदूरं गदो इमाए अहिणिवेसो। को एत्थ दाणि उवाओ जेण से सरीरसंधारणं भोदि। (क)

** तमालिका**— अवि णाम भवे सो वि अस्सिं सिणिद्धजणे साणुराअहिअओ। (ख)

** चम्पकलता**— मा दे संदेहो होदु। सो वि आ दंसणादो पहुदि मण्णोहववेअणं असहमाणो उज्झिअसअललीलादिव्वावारो इमाए पिअसहीए पडिच्छन्दएण अत्ताणअं विणोदेदि त्ति किंवदन्ती सुणीअदि। (ग)

** कृष्णः**— सत्यमीदृगवस्थोऽस्मि।

** तमालिका**— (सहर्षातिशयम्।) जइ एव्वं ता जीविदा वअम्। सुप्पसणो सम्महो। उवकिदं पिअसहीए रूवलावण्णजोवणगुणेहिं। जाव तेण सह संगमो होदि, ताव इमाए पिअसहीए असुसंरक्खणाअ तं वि आलिहिअ से दंसणपहं करेम्ह। (घ)

** चम्पकलता**— सोहणो क्खु उवाओ। (ङ)
________________________________________
(क)अम्ब, निःश्वासानुमेयजीविता प्रतिभात्येषा प्रियसखी। हला तमालिके, दुर्लभे तस्मिन्गोकुलेन्द्रकुमारे सुदूरं गतोऽस्या अभिनिवेषः। कोऽत्रेदानीमुपायो येनास्याः शरीरसंधारणं भवति।
(ख)अपि नाम भवेत्सोऽप्यस्मिन्स्निग्धजने सानुरागहृदयः।
(ग)मा ते संदेहो भवतु। सोऽप्या दर्शनात्प्रभृति मनोभववेदनामसहमान उज्झितसकललीलादिव्यापारोऽस्याः प्रियसख्याः प्रतिच्छन्दकेनात्मानं विनोदयतीति किंवदन्ती श्रूयते।
(घ)यद्येवं तज्जीविता वयम्। सुप्रसन्नो मन्मथः। उपकृतं प्रियसख्या रूपलावण्ययौवनगुणैः। यावत्तेन सह संगमो भवति, तावदस्याः प्रियसख्या असुसंरक्षणाय तमप्यालिख्यास्या दर्शनपथं कुर्मः।
(ङ)शोभनः खलूपायः।

चम्पकलता— (निरूप्य सानन्दम्।) सहि, सव्वधा आलेहविचक्खणासि। दंसेहि दाव पिअसहीए एदं चित्तफलअम्। (क)

तमालिका— (नाट्येन राधामुखमुपनीय निमीलितलोचनां तां करकिसलयेन सोपग्रहं परामृशन्ती।) हला, इमं मणोरहपिअदमं पेक्खमाणा विरहपज्जाउलं अत्तणो हिअअं विणोदेहि दाव। (ख)

** राधा**— (कथमपि चक्षुरुन्मील्य सरोमाञ्चमायततरं च निःश्वस्य। संस्कृतेन।)

मन्ये स दुर्लभजनो मम नेत्रवीथीं
जन्मान्तरे सुमुखि चित्रपटान्तरे वा।
एष्यत्यनेकरमणीहृदि संप्रविष्टो
जातं निराशमथ तस्य कृते मनो मे॥१६॥

कृष्णः— (समाकर्ण्य।)

त्वदायत्तं शरीरं मे जीवितं च सुमध्यमे।
मत्कृते मा कृथास्तन्वि संकल्पं मनसीदृशम्॥१७॥

प्रियालापः— (सप्रणयकोपम्।) पिअवअस्स, णिक्करुणो सि तुमं जं अज्ज वि तुए विलम्बीअदि। (इति रक्तराजीवकोमलेनाग्रहस्तेन करे गृहीत्वा समाकर्षति।) (ग)

(कृष्णः सस्मितमुपसृत्य स्थितः। सर्वा निरूप्य सहर्षं विस्मिताः।)

** प्रियालापः**— भोदि चम्पअलदे, पुणो वि चोरिदाइं कुसुमाइं। (घ)

चम्पकलता— (उत्तरमदत्त्वैव स्वपटाञ्चालान्मणिं हस्ते संगोप्य प्रियालापस्य पटान्तरे शनकैर्निक्षिप्य कृष्णं प्रति।) अज्ज, इमाए णो पिअसहीए हारमज्झदो
______________________________________
(क)सखि, सर्वथालेख्यविचक्षणासि। दर्शय तावत्प्रियसख्यै एतच्चित्रफलकम्।
(ख)सखि, इमं मनोरथप्रियतमं प्रेक्षमाणा विरहपर्याकुलमात्मनो हृदयं विनोदय तावत्।
(ग)प्रियवयस्य, निःकरुणोऽसि त्वं यदद्यापि त्वया विलम्ब्यते।
(घ)भवति चम्पकलते, पुनरपि चोरितानि कुसुमानि।

णिपइदो महाणीलमणी लद्धो इमिणा तुअ वअस्सेण। दंसेहि से सव्ववसणाइं। (क)

कृष्णः— (विहस्य।) संखे, विश्रब्धं दर्शय।

(प्रियालापो नाट्येन तथा करोति। स्फुरत्प्रभाप्ररोहं भूमौ निपतितं मणिं विलोक्य सर्वे साट्टहासं करतालिकां ददति। प्रियालापः सवैलक्ष्यं विस्मितः।)

** तमालिका**— (कृष्णं प्रति।) अज्ज, एसो मणी सहिए चम्पअलदाए परिहासेण पिआलावस्स वसणे णिउत्तो आसि। (ख)

प्रियालापः— (सरोषम्) दासीए पुत्तिए चम्पअलदे, भोदु। सुमरिस्ससि अत्तणो किदम्। (ग)

चम्पकलता— (स्मित्वा क्षणं लज्जामभिनयन्ती मणिं गृहीत्वा साध्वसेनावनतमुखीं राधामुपेत्य साकूतम्। संस्कृतेन।)

यस्यार्थे त्वं कुसुमसदृशं म्लानमङ्गं वहन्ती
त्यक्त्वा सर्वंविषयरसमुन्मूल्य लीलोपभोगम्।
शून्यायाता सकलभुवने दुर्लभोऽनर्घ्यरूपः
सोऽयं प्रेयान्प्रियसखि सुखेनैव दिष्ट्यात्र लब्धः॥१८॥

(राधा सेर्ष्यमेनां पश्यति।)

चम्पकलता

संभाव्यैनं निरुपममथो नीलरूपं सुजातं
शून्यं स्वीयं हृदयममुना भूषयन्ती सुखेन।
क्रीडोत्साहं भजतु भवती मूकतां संत्यजन्ती
स्यादस्माकं तव सुखमिदं वीक्ष्य नेत्रोत्सवश्च॥१९॥

(इति मणिं दातुमिच्छति।)
________________________________
(क)आर्य, अस्या नः प्रियसख्या हारमध्यतो निपतितो महानीलमणिर्लब्धोऽनेन तव वयस्येन। दर्शयास्य सर्ववसनानि।
(ख)आर्य, एष मणिः सख्या चम्पकलतया परिहासेन प्रियालापस्य वसने नियुक्त आसीत्।
(ग)दास्याः पुत्रिके चम्पकलते, भवतु। स्मरिष्यस्यात्मनः कृतम्।

राधा— हला, जाणेमि जं उद्दिसिअ मन्तेसि। (इति कृष्णं सोत्कण्ठं समीक्ष्य लज्जयाधोमुखी। स्वगतम्।) गदसत्त हिअअ, अज्जवि ण दे पच्चओ। (क)

(संस्कृतेन।)

प्रणिधानेऽपि ते नित्यं निपुणं चिन्तितोऽपि यः।
आसीदसुलभः कामं प्रत्यक्षेण विभाति सः॥२०॥

अपि च।

धैर्यमाधाय लज्जां च व्यपनीय विलासिनम्।
संभावयसि किं नैनं दिष्ठ्या स्वयमुपस्थितम्॥२१॥

(नीचैर्विलोक्य भूयोऽपि लज्जते।)

(कृष्णः साध्वसेऽपि परमां श्रियं दधानं तन्मुखाम्बुरुहं निमेषपराङ्मुखेन चक्षुषा समापिबन्प्रेम्णा तद्गतमानसः स्वाङ्काद्भुवि निपतितां मुरलीं न ज्ञातवान्।)

** प्रियालापः**— (दृष्ट्वा ससंभ्रमम्।) कथं पिअवअस्सस्स मुउली। (सुचिरं निर्वर्ण्य।) एव्वं णेदम्। (सवितर्कमात्मगतम्।) णूणं असेसभोणसुन्दरीणं पच्चादेसभूताए इमाए तत्तभोदीए रूवविलासेहिं विमोहिदेण एदिणा अदिपिअदमा वि एसा अङ्कदो णिपडिदा ण विण्णादा णाम। दाणिं संगोइअ रक्खिस्सं णम्। (नाट्येन गृह्णाति। अनन्तरं शनकैश्चम्पकलतायाः पृष्ठतो गत्वा तत्पटाञ्चले निबध्नन्नपसृत्य कृष्णं प्रति प्रकाशम्।) भो वअस्स, कधं चिरेण अणक्खरो चिट्ठसि। णं अत्तणो मुउलीणिणादेण मनोहारिणा इमाए तत्तभोदीए कण्णाइं किं ण सुक्खावेसि। (ख)
________________________________
(क)हला, जानामि यमुद्दिश्य मन्त्रयसि। गतसत्त्व हृदय, अद्यापि न ते प्रत्ययः।
(ख)कथं प्रियवयस्यस्य मुरली। एवमिदम्। नूनमशेषभुवनसुन्दरीणां प्रत्यादेशभूताया अस्यास्तत्रभवत्या रूपविलासैर्विमोहितेनैतेनातिप्रियतमाप्येषाङ्कतो निपतिता न विज्ञाता नाम। इदानीं संगोप्य रक्षिष्य एनाम्। भो वयस्य, कथं चिरेणानक्षरस्तिष्ठसि। नन्वात्मनो मुरलीनिनादेन मनोहारिणास्यास्तत्रभवत्याः कर्णौ किं न सुखयसि।

** कृष्णः**— (विलोकयन् ‘इतो भवेत् इतो वा भवेत्’ इति विषादं नाटयन्। प्रकाशम्।) कथमपहृता केनापि मेमुरली।

** प्रियालापः**— एदाए चम्पअलदाए हत्थे पुलोइदा मए। (उपसृत्य तत्पटाञ्चलाद्वृगृहीत्वा दर्शयन्।) एदाए चोरिदा आसि। (इति चम्पकलतामङ्गुल्या तर्जयन्।) दुव्विणीदे, सुमरेहि दाणि अत्तणो किदम्। (क)

(सर्वे हासं रूपयन्ति। चम्पकलता सवैलक्ष्यस्मितं नातिदूरे लतागहनेऽन्याभिः सह सखीभिर्निर्गत्य स्थिता।)

** राधा**— (इतस्ततो निरीक्ष्य सचकितमात्मगतम्।) गदो मे सहीजणो। (ख)

** कृष्णः**— अयि मुग्धे, कथं बिभेषि। नन्वनेककन्यकाजनस्य गान्धर्वविवाहो जात इति प्रसिद्धम्। अथाहं तव विधेयः।

किं ते निसर्गरुचिरौ चरणौ कराभ्यां
संवाहयामि नयने च तवाञ्जनेन।
किं रञ्जयामि किमु ते स्तनयोर्विचित्रां
पत्त्रवलीं विरचयाम्यचिरेण तन्वि॥२२॥

(एवं क्रमेण तत्तत्क्रियावैदग्ध्यं समारब्धवान्। तथा हि—प्रथमं तावत् सानुनयैरनेकमृदूपचारैः कथंचिदभिमुखीकृत्य मधुरविरुतिभिर्मधुकरनिकरैरहमहमिकयानुबध्यमानां सुमनसां संनिवेशैर्विचित्रां स्रजं निर्माय कौतूहलमुत्पादयन्कण्ठेऽर्पितवान्। अभिनवयवाङ्कुरांश्च कपोलयोः स्वकरस्पर्शसुखं संवर्धयन्कण्ठेऽर्पितवान्। स्तनयोः स्वहस्ताब्जपरिरम्भलोभं जनयन्कस्तूरिका-दलपत्त्रलतां विरचितवान्। ततो नवपल्लवैः कुसुमसमूहैश्च स्वयमुपरचिते शयनीये निवेश्य सप्रश्रयम्।) प्रिये, यद्यपि समाकुलास्ते मूर्धजा मुहुर्मुखाग्रे निपतितैर्लोलालकैरत्यलंकरणाय, तथापि कुसुमैर्नवैरलंकर्तुमिच्छामि। (इति समभिसृत्य लताभ्यः प्रत्यग्रविविधकुसुमानि समादाय विदग्धरचनाविचित्रां तद्वेणीं गुम्फित्वा बहुतरं विलोकयन्।)

वेणीं ते प्रसमीक्ष्य चित्रकुसुमैरुद्भासितां बर्हिणो
लज्जन्ते निजबर्हवृन्दमधिकं भारं विदित्वा परम्।

________________________________________
(क)एतस्याश्चम्पकलताया हस्ते प्रलोकिता मया। एतया चोरितासीत्। दुर्विनीते, स्मरेदानीमात्मनः कृतम्।
(ख)गतो मे सखीजनः।

निर्याताः शनकैरिति स्वनिलयाद्दूरे निलीय स्थिताः
पश्यैतानपि लज्जयेव मधुपान्वल्लीर्विहायोद्गतान्॥२३॥

(नेपथ्ये।)

सहि विहङ्गिए, किं अभिहिदा तदो चित्तसालिआअङ्गणं अलंकरन्तीए देवीए तुमम्। (क)

विहङ्गिका— असुत्था वच्छा मे राहिआ कालिन्दिं गदा। विहङ्गिए, कअलिआदुदीआ तुमं गच्छ ताए पउत्तिकिदेत्ति। (ख)

** कदलिका**—हला, अदिदुम्मणा लक्खीअदि देवी। ण जाणे तं कहम्। (ग)

** विहङ्गिका**— राहाअसत्थणं जेव्व णिदाणम्। (घ)

** कदलिका**— अध कधंकालिन्दिं अणुप्पेसिदा सा पिअसही। (ङ)

विहङ्गिका—णीदा क्खु चम्पअलदातमालिआएहिं देव्वकिदबाहा उवसमत्थं ति भणिअ। (च)

** कदलिका**— किं राहाविहजणस्स वि देव्वकिदबाहा (छ)

** विहङ्गिका**— णहि णहि। किं पि अच्चरिअविसेसं पेक्खिअ संभन्तात्ति तक्केमि। (ज)
_________________________________
(क)सखि विहङ्गिके, किमभिहिता तदा चित्रशालिकाङ्गणमलंकुर्वत्या देव्या त्वम्।
(ख)अस्वस्था वत्सा मे राधिका कालिन्दीं गता। विहङ्गिके, कदलिकाद्वितीया त्वं गच्छ तस्याः प्रवृत्तिकृते इति।
(ग)सखि, अतिदुर्मना लक्ष्यते देवी। न जाने तत्कथम्।
(घ)राधास्वास्थ्यमेव निदानम्।
(ङ)अथ कथं कालिन्दीमनुप्रेषिता सा प्रियसखी।
(च)नीता खलु चम्पकलतातमालिकाभ्यां दैवकृतबाधोपशमार्थमिति भाणित्वा।
(छ) किं राधाविधजनस्यापि दैवकृतबाधा।
(ज)नहि नहि। किमप्याश्चर्यविशेषं प्रेक्ष्य संभ्रान्तेति तर्कयामि।

** कदलिका**— हला, कुसुमाउहपूआत्थं गदाए ताए कण्हो पुलोइदो। तेन हि मअणपव्वसा तं अवत्थं समापण्णात्ति लोआणं पवादो। (क)

** विहङ्गिका**—मए वि किंपि कज्जणिमित्तं गोउलं गदाए एदाणं अण्णोण्णाणुराअप्पवादो कण्णपरम्पराए आकण्णिदो। (ख)

** चम्पकलता**—हला तमालिए, सुदो विहङ्गिआकअलिआणं आलावो। (ग)

** तमालिका**— अध किम्। (घ)

** चम्पकलता**—ता तहिं गच्छह्म। (ङ)

(इतराभिः सह निष्क्रम्य तथा कुरुतः।)

** उभे**—(विलोक्य सस्मितम्।) हला चम्पअलदे, कधं लक्खिदा वअं तुह्मेहिं एत्थ। (च)

** चम्पकलता**—आलावो वि सुदो। (छ)

(उभे सलज्जं स्थिते।)

** चम्पकलता**–अलं लज्जाए। को दुज्जणो इमाणं सव्वाआराणुरूवाणं संअमं न वञ्छदि। ता सिग्धं गदुअ पिअसहिं पेक्खामो। (ज)
_________________________________________
(क)सखि, कुसुमायुधपूजार्थं गतया तया कृष्णो विलोकितः। तेन हि मदनपरवशा तामवस्थां समापन्नेति लोकानां प्रवादः।
(ख)मयापि किमपि कार्यनिमित्तं गोकुलं गतया एतयोरन्योन्यानुरागप्रवादः कर्णपरम्परया आकर्णितः।
(ग)सखि तमालिके, श्रुतो विहङ्गिकाकदलिकयोरालापः।
(घ)अथ किम्।
(ङ)तत्तत्र गच्छावः।
(च)सखि चम्पकलते, कथं लक्षिता वयं युष्माभिरत्र।
(छ) आलापोऽपि श्रुतः।
(ज)अलं लज्जया। को दुर्जनोऽनयोः सर्वाकारानुरूपयोः संगमं न वाञ्छति। तच्छीव्रं गत्वा प्रियसखीं प्रेक्षामः।

(सर्वाः प्रवेशं नाटयन्ति।)

चम्पकलता— (राधां निरूप्य। जनान्तिकम्।) हला तमालिए, तक्केमि इमाए पिअसहीए कण्हेण सह गन्धव्वविआहो संवृत्तो। (प्रकाशम्। सनर्मस्मितम्। अपवार्य।) हला राहे, अत्थि मे तस्स सिविणस्स को वि फलविसेसो। (क)

(राधा ह्रिया नम्रमुखी तिष्ठति।)

कृष्णः— प्रिये, पश्य पश्य। कुसुमितास्ते केसरवृक्षकाः सानुरागं ते हस्तस्पर्शेनात्मजन्मनः सफलतामभिवाञ्छन्ति। तदेहि। एषां कुसुमान्यवचिनुमः।

(सर्वे कुसुमावचयं रूपयन्ति।)

** कृष्णः**— विलासिनि, सुवर्णच्छवीन्येतानि क्षणं तेऽलंकारश्रियं वर्धयितुमर्हन्ति। (इति वेतसीनिकुञ्जान्तरे समुपविश्य स्वहस्तावचितैरन्यैश्च सखीभिरुपचितैस्तैः कुसुमैः काञ्चीदामादीनि भूषणानि रचयित्वालंकारस्याप्यलंकारतामलंकृतवान्।)

(प्रविश्य।)

** प्रियालापः**— (साटोपम्।) पिअवअस्स, पेक्ख मए अवचिदाइं कुसुमाइं। (इत्यर्पयति।) (ख)

कृष्णः— (विचिन्त्य।) भूषिता मया कुसुमालंकारैः प्रिया। सांप्रतमेभिः कुसुमैरभिनवां मालां निर्माय तत्कण्ठभूषणतामुपनयामि। (नाट्येन तथा समारब्धवान्।)

** प्रियालापः**— भो वअस्स, गेण्ह एवं चित्तफलअम्। अहं पुणो वि कुसुमाइं अवचिणिस्सम्। (ग)

(कृष्णो गृहीत्वा दृष्ट्वा च शय्यातले निवेशयति।)

** राधा**— (विदूरादेवालोक्यात्मगतम्।) हन्त, इत्थिआ का वि एत्थ आलिहिदा। (इति मौनमालम्बते।) (घ)
___________________________________
(क)सखि तमालिके, तर्कयामि अस्याः प्रियसख्याः कृष्णेन सह गान्धर्वविवाहः संवृत्तः। सखि राधे, अस्ति मम तस्य स्वप्नस्य कोऽपि फलविशेषः।
(ख)प्रियवयस्य, प्रेक्षस्व मयावचितानि कुसुमानि।
(ग)भो वयस्य, गृहाणैतच्चित्रफलकम्। अहं पुनरपि कुसुमान्यवचेष्यामि।
(घ)हन्त, स्त्री काप्यत्रालिखिता।

** कृष्णः**— (निरीक्ष्य सविषादमात्मगतम्।)

सान्द्रस्नेहरसेन सान्द्रहृदया संक्रीडमानाधुना
सोद्वेगेव विलोक्यते वरतनुस्तत्किं न जानीमहे।
वारं वारमिति स्वचेतसि मया नैपुण्यतश्चिन्तितं
न ज्ञातं स्खलितं तथापि किमहो संजातमापाततः॥२४॥

(प्रकाशम्। भीतभीत इव सबहुपादप्रणामम्।) प्रिये, न जाने किमपराद्धं मयान्यजनेन वा, येन कुसुमकोमला त्वमीदृशीमवस्थां समापन्ना। तत्प्रसीद दयिते, विसृज मनसि निगूढमकाण्डकोपक्रमम्। इमां च कण्ठश्लेषेण चित्रतामुपनयतु केसरकुसुममालां भवती।

(राधा तथैव नमितानना तिष्ठति।)

(कृष्णः सनिःश्वासं चम्पकलतामुखं पश्यति।)

** चम्पकलता**—हला राहे, पच्चासीदइदे हिअअदइदो। मुञ्चेहि कोवम्। कहेहि माणस्स कारणम्। एस ते वल्लहस्स पास्सवत्ती पिआलावो वि विण्णवेदि, जह मए अवचिदेहिं कुसुमेहिं पिअवअस्सेण विरइदा इअं माला। जइ अणुग्गहो ममोवरि ता खणं तत्तभोदीए कण्ठसोहं उप्पादेदु। (क)

** राधा**—(अपवार्य सरोषं नीचैः।) अइ सरले, तुमं वि एवं भणासि। न पुलोइदं तु जं इमिणा जेव्व पिआलावेण आणीदं तं तमालवत्तं जत्थ आलिहिदा से पिअवअस्सस्स वल्लहा कावि सुन्दरी। एताए कण्ठसोहं उप्पादेदु सा कुसुममाला। (ख)
______________________________________
(क)सखि राधे, प्रत्यासीदति ते हृदयदयितः। मुञ्च कोपम्। कथय मानस्य कारणम्। एष ते वल्लभस्य पार्श्ववर्ती प्रियालापोऽपि विज्ञापयति, यथा मयावचितैः कुसुमैः प्रियवयस्येन विरचितेयं माला। यद्यनुग्रहो ममोपरि तत्क्षणं तत्रभवत्याः कण्ठशोभामुत्पादयतु।
(ख)अयि सरले, त्वमप्येवं भणसि। न विलोकितं त्वया यदनेनैव प्रियालापेनानीतं तत्तमालपत्रं यत्रालिखितास्य प्रियवयस्यस्य वल्लभा कापि सुन्दरी। एतस्याः कण्ठशोभामुत्पादयतु सा कुसुममाला।

** प्रियालापः**— (निशम्य साट्टहासम्।) भो वअस्स, जिदं अम्हेहिं। सुदं दाणिं तत्तभोदीए माणस्स णिदाणम्। तुरिदं जेव्व णिधेहि तं चित्तफलअं तत्तभोदीए अग्गे। (क)

(कृष्णः सानन्दं तथा दर्शयति।)

** राधा**— (विलोक्य सवैलक्ष्यमात्मगतम्।) अहो पमादो। अआरणे आआसिदो मूढाए मए एसो पिअदमो। (इति कृष्णं सप्रश्रयं पश्यति।) (ख)

** कृष्णः**— (प्रसादाभिमुखीं तामवधार्यं सप्रश्रयं तां मालां तत्कण्ठदेशे समर्प्य शारदेन्दुप्रसन्नं तन्मुखं विलोकयन्।) प्रिये, सर्वथा तवामुना रूपमाधुर्यसौहार्दगुणेन विधेयीकृतोऽस्मि। तदनुज्ञापय किं किं ते प्रियं समाचरामि।

(राधा सवैलक्ष्यं चम्पकलतामुखं पश्यति।)

** चम्पकलता**— (कृष्णं प्रति संस्कृतेन।) नागर, यदि प्रसन्नो भवान् तर्हि किमतः परमस्ति। तथाप्येतदस्तु—

सदा गच्छत्वेवं रतिरिव मनोजेन सुमुखी
सखी नः संयोगं प्रकृतिरमणीयेन भवता।
भवत्वस्माकं चाव्यवहिततया लोचनसुखं
विलोक्यान्योन्यस्य व्यतिकरमतिश्लाघ्यमनवम्॥२५॥

(इति निष्क्रान्ताः सर्वे।)

इति मथुरादासेन विरचितायां वृषभानुजानामनाटिकायां चतुर्थोऽङ्कः।

समाप्तम्।

<MISSING_FIG href="../books_images/U-IMG-1727506534Capture.PNG"/>

_______________________________________________
(क)भो वयस्य, जितमस्माभिः। श्रुतमिदानीं तत्रभवत्या मानस्य निदानम्। त्वरितमेव निधेहि तच्चित्रफलकं तत्रभवत्या अग्रे।
(ख)अहो प्रमादः। अकारण आयासितो मूढया मयैष प्रियतमः।

]


  1. “अयं च मथुरादासनामा कविः श्रीगङ्गायमुनातीरवसतौ सुवर्णशेखरनाम्नि नगरे प्रादुबभूवेति प्रारम्भ एव सूत्रधारवाक्येन प्रतीयते. परंतु तस्य नगरस्याधुना केनाभिधानेन प्रसिद्धिरिति न ज्ञायते. अतोऽस्य प्राचीनत्वेऽपि न संदेहः.” ↩︎

  2. “अस्याश्च नाटिकायाः पुस्तकद्वयं प्राप्तम्, तत्रैकं पण्डितपत्त्रे मुद्रितं ख-संज्ञकम्. क-संज्ञकं तु मथुरास्यघुलोपाख्यरघुनाथभट्टानां जयपुरराजगुरुश्रीनारायणपर्वणीकरैः स्वयमेवानाय्य काव्यमालार्थमस्मभ्यं दत्तमिति तेषामुपकारं वर्णयितुमशक्तास्ताननामयाशिषा योजयामः पण्डितपत्त्रे मुद्रितस्याप्यस्य सर्वासुलभतामवलोक्य काव्यमालायां योजनं बहूनां प्रार्थनया कृतमिति बोध्यम्.” ↩︎

  3. “‘अभूद्वक्त्रेन्दौ यत्’ ख.” ↩︎

  4. “‘तदङ्गेसंलग्ना तव दिशतु राधा प्रियशतम्’ ख.” ↩︎

  5. “‘पदम्’ ख.” ↩︎

  6. “‘अस्मिञ्छ्लोके श्रीकृष्णस्य, श्रीकृष्णदासाख्यस्य गुरोश्च श्लेषेण वर्णनम्’ इति क- पुस्तकटिप्पणी.” ↩︎

  7. “‘वदनाभिः पद्मिनीभि’ ख.” ↩︎

  8. " ‘श्रीमद्वृष’ ख." ↩︎

  9. “‘रुन्मद’ ख.”

     ↩︎
  10. “‘स्तीरान्तचालितलता’ ख.” ↩︎

  11. “‘तदुपतिष्ठे। (अञ्जलिं बद्ध्वा ↩︎

  12. “‘तद्धर्मानभिज्ञः’ ख.” ↩︎

  13. “‘मेवंप्रायेणालापेन’ ख.” ↩︎

  14. “‘संगीतक’ ख.” ↩︎

  15. “‘गृहीतवन’ ख.” ↩︎

  16. " ‘समगुणवरयोगात्’ ख” ↩︎

  17. “‘व्रजपतिरिव कृष्णं पालय त्वं तदेनाम्’ ख.” ↩︎

  18. “‘रमणीयतां’ ख.” ↩︎

  19. “‘प्रतानैर्दूर्वाणां क्वचिदमलनीलोत्पलरुचं’ ख.” ↩︎

  20. “‘गोशालानां ततिभिरभितः कल्पितानां’ ख” ↩︎

  21. “‘धन्यास्ते खलु येऽत्र सततं नन्दसूनोर्मुख’ ख.” ↩︎

  22. “‘च्च रत्न’ ख.” ↩︎

  23. “‘आउलाइंहोन्ति (=आकुले भवतः ↩︎

  24. “‘मण्डले कौतुकेन संचर’ ख " ↩︎

  25. “क-पुस्तके नास्ति” ↩︎

  26. “‘रवापूरित’ ख.” ↩︎

  27. “‘प्रकृतिमधुरं’ ख.” ↩︎

  28. " ‘मनस्येवं’ ख.” ↩︎

  29. “‘श्रुतं तथा तावद्भगवतीवृन्दामुखात्। अयमप्येवं वदति’ ख” ↩︎ ↩︎

  30. “‘जेव्व किं (एव किं ↩︎

  31. “‘अवलोक्य’ ख. " ↩︎

  32. “‘परिहासेन’ ख.” ↩︎

  33. “‘करम्बितान्’ ख.” ↩︎

  34. “‘सारानुद्व’ ख.” ↩︎

  35. “‘जइ’ ख. " ↩︎

  36. “‘तीए मए’ ख.” ↩︎

  37. “‘अनन्तरं चित्तज्ञा’ क.” ↩︎

  38. “‘कथंचि’ ख.” ↩︎

  39. “‘इव’ ख.” ↩︎

  40. " ‘मुहादो (मुखात् ↩︎

  41. " ‘प्रियालाप, प्रियालाप,’ ख.” ↩︎

  42. " ‘कात्र’ ख.” ↩︎

  43. “‘ऽवसरे’ ख.” ↩︎

  44. “‘तथाभूतां तां कृष्णं चावलक्ष्य’ ख. " ↩︎

  45. " ‘विभ (एव ↩︎

  46. “हला तमालिके, कोऽप्ययं शिखिशिखण्डशेखरो मणिकर्णपूरांशुजालेन द्वितीयेनेव सपल्लवविविधकुसुमस्तबकावतंसेन प्रतिफलितकपोलफलक आयतविलोचनाभ्यां दमितप्रवरेन्दीवरप्रभः सहजारुणेनाधरबिम्बेनाधरीकृतां विद्रुमलतां लज्जयार्णवे निमग्नां हृदयेऽवधार्येव कृतमधुरस्मितोऽतिस्थूलमुक्ताफलहारलतयालंकृत उरोदेशे हिरण्यद्युतिपीतकौशेयांशुकं वसानो लीलारविन्देन सनाथीकृतदक्षिणकरकमलो रूपसमुच्चयेन मन्मथशतस्यापि विमोहनो मुखचन्द्रान्मधुसंमितानि मधुराभिजाताक्षराणि उच्चारयन्नभिनवकिशोरदिव्याकृतिरङ्गलावण्यप्रभापूरेण कालिन्दीजलशङ्कां समुत्पादयन्यथास्याः प्रियसख्या मनोमीनं बलेन कर्षतीव तथा तर्कयामि स कृष्ण एषः। अन्यथास्या मनोहरणे कोऽन्यः समर्थः। येनेमं प्रेक्ष्य मनोभवशरप्रथमप्रहारपीडयेव जनितसीत्कारा उन्मिषत्स्वेदबिन्दुरिन्दुसुन्दरमुखी निरन्तरनिपतितशरनिवहेनेव समुद्गतेन रोमाञ्चजालेनाचिततनूलताविरलोच्छ्वसितसमीरणेनासकृदपनीयमानांशुकपल्लवा साध्वसेन वेपमानकरकमला लज्जया वक्तुमशक्ता लक्ष्यत एषा। तथैवैषोऽपि विगतनिमेषमिमां प्रियसखीं विलोकयन्नालिखित इव तिष्ठति।” ↩︎

  47. “सखि, अहमप्येवं विभावयामि।” ↩︎

  48. “आर्य, भक्तो दर्शनेनैवोपलब्धो वरः। कः पुनरपरो वरो भविष्यति।” ↩︎

  49. " ‘हला सहि’ ख.” ↩︎

  50. “हला, जानामि। किमपि वक्रं मन्त्रयसे। तदितो गमिष्यामि।” ↩︎

  51. “राधागतोत्कण्ठाक्षिप्तहृदयस्य ते परिदेवितं विना किं तत्र विविक्तेऽरण्ये कार्यान्तरम्। कुत्रेदानीं प्रस्थीयते प्रियवयस्येन।” ↩︎

  52. “पुष्पविषयिणी मतिः, कामविषयिणी नतिः.” ↩︎