श्रीललितमाधवनाटकम्

[[श्रीललितमाधवनाटकम् Source: EB]]

[

श्रीरूपगोस्वामिप्रभुपादप्रणीतम् श्रीललितमाधवनाटकम्

  1. सायमुत्सवः

  2. शङ्खचूडवधः

  3. उन्मत्तराधिकः

  4. श्रीराधाभिसारः

  5. श्रीचन्द्रावलीलाभः

  6. श्रीललितोपलब्धिः

  7. नववृन्दावनसङ्गमः

  8. नववृन्दावनविहारः

  9. चित्रदर्शनः

  10. पूर्णमनोरथः

श्रीरूपगोस्वामिप्रभुपादप्रणीतम्

श्रीललितमाधवनाटकम्

(१)

प्रथमोऽङ्कः

**सायमुत्सवः **

श्रीश्रीकृष्णचैतन्यचन्द्राय नमः

सुररिपुसुदृशामुरोजकोकान्

मुखकमलानि च खेदयन्नखण्डः

चिरमखिलसुहृच्चकोरनन्दी

दिशतु मुकुन्दयशःशशी मुदं वः ॥ १ ॥

अपि च—

अष्टौ प्रोक्ष्य दिगङ्गना घनरसैः पत्राङ्कुराणां श्रिया

कुर्वन्मञ्जुलताभरस्य च सदा रामावलीमण्डनम् ।

यः पीने हृदि भानुजामतुलभां चन्द्राकृतिं चोज्ज्वलां

रुन्धानः क्रमते तमत्र मुदिरं कृष्णं नमस्कुर्महे ॥ २ ॥

(नान्द्यन्ते) सूत्रधारः— अलमतिविस्तरेण ! (समन्तादवलोक्य) हन्त भोः ! सन्ततवृन्दाटवीनिकुञ्जवेदिकानिवासदीक्षारसज्ञस्य स्फुरद्दुर्दण्डपुण्डरीकमण्डलीमण्डितब्रह्मकुण्डतीरोपान्तस्थलीमहाभौमिकस्य भगवतो गोपीश्वरतया प्रसिद्धस्य चन्द्रार्धमौलेः स्वप्नाविर्भूतमादेशमासाद्य दीपावलीकौतुकारम्भे गोवर्धनाराधनाय श्रीराधाकुण्डरोधसि माधवीमाधवमन्दिरस्य पूर्वतः सङ्गतानि वैष्णववृन्दानि स्वप्रबन्धेन ललितमाधवनाम्ना नाटकेनाहमुपस्थातुं पर्युत्सुकोऽस्मि ।

तदभीष्टदैवतमभ्यर्थयिष्ये—

निजप्रणयितां सुधामुद्ययमाप्नुवन्यः क्षितौ

किरत्यलमुरीकृतद्विजकुलाधिराजस्थितिः ।

स लुञ्चिततमस्ततिर्मम शचीसुताख्यः शशी

वशीकृतजगन्मनाः किमपि शर्म विन्यस्य तु ॥३॥ ३

(आकाशे) किं ब्रवीषि ? “भो ! हन्त ! कथमत्र महासाहसे कृताध्यवसायोऽसि ?” इति । भोः सत्यमिदं विदांकरवाणि, तथापि परवानस्मि । श्रूयताम् ।

क्वेयं सभा गुणवती बत मुग्धरूपः

क्वाहं जितोऽस्मि गुरुणा गुरुगौरवेण ।

आद्या ममाद्य शरणं शरणं गतानां

दत्तोत्सवस्य करुणा करुणार्णवस्य ॥४॥ ४

(पुरस्तादवलोक्य) हन्त भोः ! कृष्णपदारविन्दभृङ्गाः ! प्रसादं विदधत । भवद्विधानामेव कृपावलम्बनेनऽत्र निरातङ्कमुद्यतोऽस्मि । यतः—

शान्तश्रियः परमभागवतः समन्ताद्

वैगुण्यपुञ्जमपि सद्गुणतां नयन्ति ।

दोषावलीमपरितापतया मृदूनि

ज्योतींषि विष्णुपदभाञ्जि विभूषयन्ति ॥५॥ ५

(इति मूर्धन्यञ्जलिमाधाय)

वक्तुं पारमहंस्यपद्धतिमिह व्यक्तिं गतानां हि यः

सिद्धानां भुवने बभूव सनकादीनां तृतीयः पुरा ।

साङ्गं भक्तिरसं रहस्यमधुना भक्तेषु सञ्चारयन्न्

एकः सोऽवततार विश्वगुरवे पूर्णाय तस्मै नमः ॥६॥ ६

तदहं निरवद्यसङ्गीतविद्यायां विद्याधरीं माननीयां मे नटवृन्देश्वरीं वृद्धां रङ्गे सन्निधापयितुमिच्छामि ।

(प्रविश्य) नटी ः बच्छ ! रङ्गमङ्गलसंविहाणेण सम्पदमणहिणिइट्ठमणिसम्हि । ९

सूत्रधारः ः आर्ये ! किमित्येवमुच्यते ? पश्य पश्य—

चकास्ति शरदुत्सवः स्फुरति वैष्णवानां सभा

चिरस्य गिरिरुत्द्गिरत्यमलकीर्तिधारां हरेः ।

किमन्यदिह माधवो मधुरमूर्तिरुद्भासते

तदेष परओदयस्तव विशुद्धपुण्यश्रियः ॥८॥ १०

नटीः बच्छ ! महानुभाअजनब्बसणसंभूदा एसा मे आदङ्कसिङ्खला ण क्खु लोअचरियासाहारणी । ११

सूत्रधारः ः आर्ये, नियमितमनैकान्तिकानि भवन्ति महानुभावानां व्यसनानि । १२

तथा हि—

विपिनं यदि वा दिगन्तराणि

त्रिदिवं वा गमितं रसातलं वा ।

स्वपदान्तिकमानयत्यवश्यं

भगवान्भक्तजनं न मोक्तुमीष्टे ॥९॥ १३

नतीः पुत्त, सच्चं भणासि । तहबि सिणेहाणं क्खु बिबेअहारिणी पैदि त्ति मुद्धम्हि । १४

सूत्रधारः ः आर्ये ! कथय कुत्र निबद्धस्नेहासि ?

नटीः पुत्त, अत्थि चारणौअलनन्दनो कोबि कलाणिही णाम । १५

सूत्रधारः ः कस्तं न जानीयात्? यतः—

वरताण्डववीथिपण्डितो

गुणशाली नवयौवनोन्मुखः ।

प्रथितो भुवि सङ्गराङ्गने

रिपुभङ्गोद्धुरधीः कलानिधिः ॥१०॥ १६

नटीः बिहिणो आणुउल्लेण उबत्थिदा णत्तिणी बुड्ढिआए मए संभाबिदा । तारा णाम लूत्तरा कण्णऽ तस्स दादुं सङ्कप्पिदा । १७

सूत्रधारः ः

लोके धिक्कारभिया विधिस्तथा साधुवादलोभेन

मिथुनं मिथोऽनुरूपं घटयति दुर्घटमपि प्रसभम् ॥११॥ १८

नटीः णं क्खु अहिलसन्तेण देसाहिआरिणा किरादराएण णच्चणबिलोअएअछलादो कलाणिहिमाआरिअ इमस्स पराहबो अज्झासीअदि त्ति । १९

सूत्रधारः ः आर्ये, मां ज्योतिर्विदं विद्धि । तदद्य वर्तमानलग्नानुसारेण तत्त्वं ते वर्णयामि । (इति विमृश्य सहर्षम्) हन्त ! मा ते चिन्ता भूत। तथा हि—

नटता किरातराजं

निहत्य रङ्गस्थले कलानिधिना

समये तेन विधेयं

गुणवति ताराकरग्रहणम् ॥१२॥ २०

(नेपथ्ये) हन्त राधामाधवयोः पाणिबन्धं कंसभूपतेर्भयादभिव्यक्तमुदाहर्तुमसमर्थो नटता किरातराजमित्युपदेशेन बोधयन्धन्यः कोऽयं चिन्ताविक्लवां मामाश्वासयतीति तत्र पौर्णमासीप्रवेशः ॥ २१

सूत्रधारःः (नेपथ्याभिमुखमवलोक्य) पश्य पश्य—

अम्बा सान्दीपनिमुनिपतेरत्र शिष्येति साध्वी

याता लोके परिचयं ऋषेर्वल्लकीवल्लभस्य

काशश्रेणीधवलचिकुरा व्याहरन्तीह गार्गीं

रङ्गे धन्या प्रविशति पुरः सम्भ्रमात्पौर्णमासी ॥१३॥

तदेह । तूर्णमुत्तरभूमिकां ग्रहीतुं प्रयाव । (इति निष्क्रान्तौ) । २२

प्रस्तावना ।

(ततः प्रविशति यथानिर्दिष्टा पौर्णमासी ।)

पौर्णमासी—(हन्त राधामाधवयोरिति पठित्वा) वत्से गार्गि! श्रूयताम् ।

कृष्णापाङ्गतरङ्गितद्युमणिजासम्भेदवेणीकृते

राधायाः स्मितचन्द्रिकासुरधुनीपुरे निपीयामृतम् ।

अन्तस्तोषतुषारसम्प्लवलवव्यालीढतापोच्चयाः

क्रान्त्वा सप्त जगन्ति सम्प्रति वयं सर्वोर्ध्वमध्यास्महे ॥१४॥ २३

गार्गी ः अज्जे ! अहिमण्णुणा राहीए उब्बाहो तुए च्चेअ कारिदो । तहबि किं त्ति पुणो बि हरिणा सममहिलसिज्ज{इ} । [आर्ये ! अभिमन्युना सह राधिकाया उद्वाहस्त्वया एव कारितः । तत्किमपि पुनरपि हरिणा सममभिलष्यते । २४

पौर्णमासी ः पुत्रि मायाविवर्तोऽयम् । न चेद्विरिञ्चेर्वरामृतेन समृद्धैर्विन्ध्यनगस्य तपःप्रसूनैर्गुम्फितां माधवहृन्मेदुरताकारिमाधुरीमकरन्दां राधिकावैजयन्तीं कथं पृथग्जनः पाणौ कुर्वीत ? २५

गार्गी ः केरिसं तं बरामिअं ? [कीदृशं तद्वरामृतं ?]२६

पौर्णमासी ः तदभीष्टमेव धूर्जटिजित्वरजामातृकं विन्ध्य ।

गुणविस्मापितभुवनं भविता तव बालिकायुगलम् ॥१५॥ २७

गार्गी ः पुत्तं मुक्किअ कण्णऽ कहं बिञ्झस्स अहिट्ठा संबुत्ता ? [पुत्रं मुक्त्वा कन्यकां कथं विन्ध्यस्य अभीष्ठा संवृत्ता ?] २८

पौर्णमासी ः जामातृसम्पद्गर्वितस्य गौरीपितृगिरीन्द्रस्य विस्पर्धया । २९

गार्गी ः अम्महे ! सगोत्तुकरिसं सोढुमेसो ण क्खमो, जं पुरा मेरुं जेदुकामो बि कुम्भजोणिं सम्माणिअ उण ण बड्डिदो । [आश्चर्यं! स्वगोत्रोत्कर्शं सोढुमेष न क्षमः, यत्पुरा मेरुं जेतुकामोऽपि कुम्भयोनिं सम्मान्य पुनर्न वर्धितः ।] ३०

पौर्णमासी ः बाढमीदृगेव स्वभावो मनस्विनाम् ।

गार्गी ः केण राही बिञ्झादो गोउलं लम्बिदो । [केन राधिका विन्ध्यातो गोकुलं लम्बिता।]३१

पौर्णमासी ः जातहारिण्या पूतनया ।

गार्गी (सभयम्)ः अज्जे ! जादहारिणीहिं क्खु बालिआ भुञ्जीअन्ति, ता दिट्ठिआ उब्बारिदा कल्लाणी । [आर्ये ! जातहारिणीभिः खलु बालिका भुञ्ज्यन्ते, तद्दिष्ट्या उद्वरिता कल्याणी ।] ३२

पौर्णमासी ः पुत्रि ! लोकोत्तराणां कुमाराणां संहाराय कुमारीणां पुनरपहारायैव कंसेन सा नियुक्ता ।

गार्गी ः कधमेत्थ उहास्सिं रण्णं पुत्तं ? [कथमत्र उभयस्मिन्राज्ञा प्रवृत्तम्?] ३३

पौर्णमासी ः देव्या देवकीबालिकाया व्याहारेण ।

गार्गी ः केरिसो बाहारो ? [कीदृशो व्याहारः?] ३४

पौर्णमासी ः

यस्तुङ्गेन पुरोत्तमाङ्गमहरच्चक्रेण ते सङ्गरे

यं वृन्दारकवृन्दवन्दितपदद्वन्द्वारविन्दं विदुः ।

आनन्दामृतसिन्धुभिः प्रणयिनां सन्दोहमान्दोलयन्

प्रादुर्भावमविन्ददेष जगतीकन्दोऽद्य चन्द्रोदये ॥१६॥ ३५

किं च—

मत्तः सत्तममाधुरीभिरधिकाः श्वो वा परश्वोऽथवा

गन्तारः क्षितिमण्डले प्रकटतामष्टौ महाशक्तयः ।

वृन्दिष्ठे गुणवृन्दमन्दिरतया तत्र स्वसारावुभे

राजेन्द्रो भविता हरस्य च जयी पाणिग्रहीता ययोः ॥१७॥ ३६

गार्गी ः का पौत्ती दुदिआत्र बहिणिए ? [का प्रवृत्तिः द्वितीयाया भगिन्याः ?] ३७

पौर्णमासी ः

रक्षोघ्नमन्त्रकृतिनाद्रिपुरोहितेन

वित्रासविक्लवमतेः समनुद्रुतायाः ।

आद्या ततः करतलां किल पूतनाया

नद्यां प्लवे परिपपात विदर्भगायाः ॥१८॥ ३८

गार्गी ः अज्जे ! दुर्बाससो बरेण बिसहाणुनोत्तरसी कण्णा राहित्ति कहं सब्बण्णो बि तादो भणादि ? [आर्ये ! दुर्वाससो वरेण उत्पन्ना वृषभानोरौरसी कन्या राधेति कथं सर्वज्ञोऽपि तातो भणति ?] ३९

पौर्णमासी ः चन्द्रभानुवृषभानुरमण्योर्भर्भतः किल विकृष्य निनाय बालिके कमलजार्थनया ते विन्ध्यदारजठरे हरिमाया । ४०

गार्गी ः (साश्चर्यम्) किं पिदेरहिमिदं जानीअदि ? [किं पितृभ्यां ज्ञायते ?] ४१

पौर्णमासी ः अथ किम् । स दुर्वासाः कथं निजोपकारमनावेद्य विश्राम्यतु ?

गार्गी ः एदं सब्बं तुए कधं बिण्णादं ? [इदं सर्वं त्वया कथं विज्ञातम्?] ४२

पौर्णमासी ः गुरोरुपदेशप्रसादेन, येनाहं राधायामासञ्जितास्मि । ४३

गार्गी ः णूणं णिहदाए रक्खसीए से क्कोले एक्का राहिआ तुए लद्धा [नूनं निहताया राक्षस्या तस्याः क्रोडे एका राधिका त्वया लब्धा ।]! ४४

पौर्णमासी ः

राधासखीह ललिता ललितास्यचन्द्रा

चन्द्रावली सहचरी रुचिरा च पद्मा ।

भद्रा च भद्रचरिता शिवदा च शैव्या

श्यामा च धाममुदिता विदितास्तवेमाः ॥२०॥ ४५

गार्गी ः इमॉ केण गोईणं समप्पिदॉ? [इमाः केन गोपीभ्यः समर्पिताः ?] ४६

पौर्णमासी ः

कुमारीणामासां निभृतमभितः पञ्चकमहं

विभज्याभीरीभ्यस्त्वरितमथ राधामधिगुणाम् ।

सुता ते जामातुर्जरति वृषभानोरिति मुदा

यशोदाया धात्र्यां रहसि मुखरायामघटयम् ॥२१॥ ४७

गार्गी ः फुडं राहिआए दुदिआ सही विसाहा च्चेअ गोउलुप्पण्णा । [स्फुटं राधाया द्वितीया सखी विशाखा एव गोकुलोत्पन्ना । ४८

पौर्णमासी ः नहि नहि । यदेषा कालिन्दीपूरेण वाह्यमाना जटिलया लेभे । ४९

गार्गी ः ण जाणे, णईपुरेण बाहिदा सा जेट्ठा बिञ्झकण्णऽ केण लद्धा ? [न जाने, नदीपूरेण वाहिता सा ज्येष्ठा विन्ध्यकन्या केन लब्धा ?] ५०

पौर्णमासी ः भीष्मकेण ।

गार्गी ः अब्बो, दोणं बहिणीणं विहडणकारिणीत्र भविदब्बदाए णिट्ठुरदा । [अब्बो, द्वयोर्भगिन्योः विघटनकारिण्या भवितव्यताया निष्ठुरता । ]५१

पौर्णमासी ः पुत्रि ! पुनः सङ्गमकारिण्यास्तस्याः करुणा चावधार्यताम् ।

गार्गी ः कहं बिअ ? [कथमिव?] ५२

पौर्णमासी ः सैवेयं करालाया नप्त्री चन्द्रावली, या खलु पञ्चवार्षिकी गोवर्धनविन्ध्ययोः कन्दरावास्तव्येन जाम्बवता विन्ध्यवासिन्या निदेशेन कुण्डिनादाकृष्टा । ५३

गार्गी ः (स्वगतम्) सुदं मए तादमुहादो, जं चन्दहाणुपहुदीणं कण्णऽ भिस्सपहुदीणं कण्णऽ एक्कतत्ता बि बिग्गहादिहिं भिण्णा जेब्ब त्ति । ता बाढमेक्कबिग्गहदासंबिहाणं माआए च्चेअ परञ्चिदम् । होदु, पच्छादो जाणिस्सम् । किं दाणिं तस्स्य रहस्सस्स उट्टङ्कणेण ? [श्रुतं मया तातमुखात्, यत्चन्द्रभानुप्रभृतीनां कन्यका भीष्मकप्रभृतीनां कन्यका एकतत्त्वा अपि विग्रहादिभिः भिण्णा इवेति । तत्बाढमेकविग्रहतासंविधानं मायया एव प्रपञ्चितम् । भवतु, पश्चात्जाणिस्सम् । किं दाणिं तस्स्य रहस्सस्स उट्टङ्कणेण ?]

(प्रकाशम्) णुणं गोअड्ढणादिगोएहिं चन्दाअलीपहुदीणमुब्बाहो बि माआए णिब्बाहिदो ।

[नूनं गोवर्धनादिगोपैः चन्द्रावलीप्रभृतीनामुद्वाहोऽपि मायया निर्वाहितः ।] ५४

पौर्णमासी ः अथ किम् । पतिंमन्यानां वल्लबानां ममतामात्रावशेषा कुमारीषु दारता । यदेषां प्रेक्षणमपि ताभिरतिदुर्घटम् ।

गार्गी ः आदो ण क्खु अच्चरिओ अट्ठाणं कण्हे गरिट्ठो अणुरॉ । [अतो न खलु आश्चर्यमष्टाणं कृष्णे गरिष्ठो अनुरागः ।] ५५

पौर्णमासी ः अष्टाणां किमुच्यते, गोकुले कस्याः खलु कुरङ्गीदृशस्तत्र नानुरागः ?

गार्गी ः सच्चं भणासि जं दाणिं सदुत्तराइं सोलहगोउलकण्णऽसहस्साइं—

कात्यायनि महामाये महायोगिन्यधीश्वरि ।

नन्दगोपसुतं देवि पतिं मे कुरु ते नमः ॥

एदं मन्तं जपन्तीहिं पञ्चेहिं चन्दाअलीहिं संगमिअ उण चण्डिअमच्चन्ति । [सत्यं भणसि यदिदानीं शतोत्तराणि षोडशकन्यासहस्राणि… एतन्मन्त्रं जपन्तीभिः पञ्चभिश्चन्द्रावलीप्रभृतिभिः संगम्य पुनः चण्डिकामर्चन्ति ।] ५६

पौर्णमासी ः

सा कामान्परिचरिता कुमारिकाभिः

कामाख्या वितरति कामरूपदेवी ।

इत्येनां व्रजहरिणीदृशामुपास्ते

वर्गोऽयं गुणवति गर्गभाषितेन ॥२१॥ ५७

गार्गी ः केण सुराराहणे राही णिउत्ता ? [केन सूर्याराधने राधा नियुक्ता ?] ५८

पौर्णमासी ः तव तातेनैव ।

गार्गी ः अज्जे ! सुदं मए तादमुहादो, जं कण्णाणं भाविणा कन्तेण सङ्गमो विप्पओअमुप्पादेइ । [आर्ये श्रुतं मया तातमुखात्यत्कन्यानां भाविना कान्तेन सङ्गमो विप्रयोगमुत्पादयतीति ।] ५९

पौर्णमासी ः वत्से ! सम्यगिदमुक्तम् । तेन मयापि ते किशोरिकाशिरोरत्ने निरोद्धुमभिमन्युगोवर्धनयोर्जनन्यौ जटिलाभारुण्डे निर्बन्धेन नियुक्ते । ६०

गार्गी ः कहं दुबे सोअरे तुमं ण सङ्घडेसि । [कथं द्वे सहोदरे त्वं न सङ्घटयसि ।] ६१

पौर्णमासी ः सदा सञ्चरतां दुष्टकंसचराणां वितर्कशङ्कया ।

गार्गी ः णमपुब्बं बुत्तन्तमण्णो को बि जणो जाणै ? [एतदपूर्ववृत्तान्तमन्यः कोऽपि जनो जानाति ?] ६२

पौर्णमासी ः नहि नहि, किन्तु मदुपदेशबलादेव केवलं हरिरामयोर्जनन्यौ जानीतः ।

(नेपथ्ये)

मञ्चादुत्तिष्ठ पद्मे मुकुटविरचनं मुञ्च पिञ्छेन भद्रे

श्यामे दामानुबन्धं परिहर ललिते पिण्ढि मा जागुडानि ।

शारीपाठाद्विशाखे व्युपरम कवरीसंस्क्रियामुज्झ शैव्ये

पूर्वां वेवेष्टि काष्ठां सुरभिखुरपुटीपांशुपिष्टातपुञ्जः ॥२२॥ ६३

पौर्णमासी ः पश्य पश्य—

हरिमुद्दिशते रजोभरः

पुरतः सङ्गमयत्यमुं तमः ।

व्रजवामदृशां न पद्धतिः

प्रकटा सर्वदृशः श्रुतेरपि ॥२३॥ ६३अ

गार्गी (संस्कृतेन) ः

ह्रियमवगृह्य गृहेभ्यः

कर्षति राधां वनाय या निपुणा ।

सा जयति निसृष्टार्था

वरवंशजकाकली दूती ॥२४॥ ६४

(नेपथ्ये)

धन्ये कज्जलमुक्तवामनयना पद्मे पदोढाङ्गदा

सारङ्गि ध्वनदेकनूपुरधरा पालि स्खलन्मेखला ।

गण्डोद्यात्तिलका लवङ्गि कमले नेत्रार्पितालक्तका

मा धावोत्तरलं त्वमत्र मुरली दूरे कलं कूजति ॥२५॥ ६५

गार्गी ः

णीलम्बररुइधारी फुडिदो गोबोडुचक्कबालेण ।

सिदगोमण्डलमहुरो माहुरचन्दो परिप्फुरै ॥२५॥ ६६

[नीलाम्बररुचिधारी स्फुरितो गोपोडुचक्रबालेन ।

सितगोमण्डलमधुरो माथुरचन्द्रः परिस्फुरति ॥]

पौर्णमासी (सानन्दम्)ः

बिभ्रन्नीलच्छविमविषमामग्रहस्तेन यष्टिं

जुष्टश्रोणीतटरुचिरसौ पीतपट्टांशुकेन ।

निन्दन्निन्दीवरमविरलोत्सर्पिभिः कान्तिपूरैर्

आभीरीणामिह विहरति प्रेमलक्ष्मीविवर्तः ॥२७॥ ६७

तदावां यशोदामासादयाव । (इति निष्क्रान्ते)

अङ्कमुखं ६८

(ततः प्रविशति वयस्यैरुपास्यमानः कृष्णः)

कृष्णः ः सखे, मधुमङ्गल, पश्य—

अतनुतृणकदम्बास्वादशैथिल्यभाजाम्

अविरलतरहंभारम्भताम्यन्मुखीयम् ।

चटुलितनयनश्रीरवली नैचिकीनां

पथि सुवलितकण्ठी गोकुलोत्कण्ठिताभूत॥ २८ ॥ ६९

मधुमङ्गलः ः दिट्ठिआ बच्छलाहिं सुरहीहिं कन्तारब्भमणखिण्णे एत्थ बम्हणे कारुण्णं विरैदम् । [दिष्ट्या वत्सलाभिः सुरभीभिः कान्तारभ्रमणखिन्ने अत्र ब्राह्मणे कारुण्यं विरचितम् ।] ७०

रामः ः पश्यत पश्यत—

गत्वा पुरस्त्रिचतुराणि जवात्पदानि

पश्चाद्विलोकयति हन्त तिरःशिरोधि ।

वत्सोत्करादपि बकीमथने गरिष्ठ

प्रेमानुबन्धविधुरं पथि धेनुवृन्दम् ॥२९॥ ७१

कृष्णः (प्रतीचीमवेक्ष्य)

विचलितुमसमर्थं व्योम्नि मुक्तप्रतिष्ठे

समयविपरिणामाद्वीर्यविस्रंसनेन ।

शिथिलतरकरेणालम्ब्य भाण्डीरचूडां

चरमगिरिशिखायां लम्बते भानुबिम्बम् ॥३०॥ ७२

रामः ः पश्यत पश्यत—

विपुलोत्पलिकाकूटैर्गिरिकुटविडम्बिभिर्निविडम् ।

वयमभजाम करीषक्षोदपरीतं व्रजाभ्यर्णम् ॥३१॥ ७३

तदद्य कालिन्दीमवगाढाः प्रगाढपरिश्रान्तिमुत्सारयामः । (इति सखिभिः सह निष्क्रान्तः ।) ७३अ

कृष्णः ः सखे मधुमङ्गल ! पश्य पश्य—

द्रवन्नवविधूपलप्रकरदत्तपाद्यः शशी

सरत्नतरलोच्छलज्जलधिकल्पितार्घक्रियः ।

हरित्परिजनेरितस्फुटतरोडुपुष्पाञ्जलिः

स्फुरत्तनुरुदञ्चितस्मररसोर्मिरुन्मीलति ॥३२॥ ७४

मधुमङ्गलः ः पिअबास्स ! किमिमिणा बराएण कलङ्किणा चन्देण ? पेक्ख लदाजालम्बरे निक्कलङ्काइं सोलहचन्दमण्डलसहस्साइमुन्मीलिदाइम् । [प्रियवयस्य ! किमनेन वराकेण कलङ्किना चन्द्रेण ? पश्य लताजालाम्बरे निष्कलङ्कानि षोडशचन्द्रमण्डलसहस्राणि उन्मीलितानि ।] ७५

कृष्णः (समीक्ष्य) ः सखे ! सम्यगात्थ । बहुधा साम्येऽपि बाढमेकेन कर्मणा मुषितोऽयमौषधीशः । तथा हि—

नवनवसुधासम्बन्धोऽपि प्रियोऽपि दृशां सदा

सरसिजवनीं म्लानां कुर्वन्नपि प्रभया स्वया ।

विधुरपि कलापूर्णोऽप्युच्चैः कुरङ्गधरः शशी

व्रजमृगदृशां वक्त्रैरेभिः सुरङ्गधरैर्जितः ॥३३॥ ७६

मधुमङ्गलः ः भो बास्स ! जुत्तमुक्कण्णोऽसि जं दक्खिणेण कलम्बकुडुङ्गं काबि आकड्ढणमन्तं पड्धेदि । [भो वयस्य ! युक्तमुत्कर्णोऽसि यत्दक्षिणेन कदम्बकुञ्जं कापि आकर्षणमन्त्रं पठति ।] ७७

कृष्णः ः सेयं दीव्यति शैव्यायाः पाविका विश्वपाविका । वेणुर्यद्विभ्रमारम्भे स्तम्भमालम्बते मम । ७८

(इत्यग्रतो गत्वा सौत्सुक्यम्)

तुम्बीफलस्तनीयं

प्रवालसुषमाधरा कलोल्लसिता ।

हरति धृतिं मम भद्रा

नववल्लरी वल्लकी चास्याः ॥३५॥ ७९

मधुमङ्गलः ः बास्स ! अच्चरिअमच्चरिअं मज्झेजमुणं काबि कच्छबी कुणकुणाएदि । [वयस्य ! आश्चर्यमाश्चर्यं मध्येयामुनं कापि कच्छपी कुनकुनायति ।] ८०

कृष्णः (सस्मितम्) ः

स्मरकेलिनाट्यनान्दीं

शब्दब्रह्मश्रियं मुहुर्दुहती ।

वहति मुदं मम महती

मिह महिता श्यामलामहती ॥३६॥ ८१

(इति परिक्रम्य सहर्षम्)

कलशिञ्जितकलयाराद्

अविकलया मे प्रमोदकल्लोलम् ।

पद्माकलाविनिलया

वलयाः कलयाम्बभूवुरलम् ॥३७॥ ८२

(इति परितो दृष्टिं क्षिपन्) सखे ! कथमत्राद्य नोन्मीलति चन्द्रावलीपरिमलः ? तद्वामतः करालागृहोपान्तवाटिकामासादयावः । (इति परिक्रामति) ८२अ

मधुमङ्गलः (पुरोऽवलोक्य)ः एसा उबणन्दपुत्तस्स सुहद्दस्स बहू कुन्दलदिआ इदो आअच्छदि । [एषा उपनन्दपुत्रस्य सुभद्रस्य वधू कुन्दलतिका अत्रागच्छति ।] ८३

(प्रविश्य) कुन्दलता ः कण्ह ! ऽले पफुल्लं बञ्जुलं कीस ण सलाहसि ? [कृष्ण ! अकाले प्रफुल्लं वञ्जुलं कस्मान्न श्लाघसे ?] ८४

कृष्णः ः (दृशं क्षिपन्नात्मगतम्) नूनं चन्द्रावलीचरणचातुरीचमत्कारोऽयम् । (इति सोत्कण्ठमभिनन्द्य)

एतानि वञ्जुलवनान्तरुदञ्चितानि

कादम्बकूजितकदम्बविडम्बितानि ।

मन्द्राणि कर्णकुहरं मम नन्दयन्ति

चन्द्रावलीकनकनूपुरशिञ्जितानि ॥३८॥ ८५

कुन्दलता ः सुन्दर ! भारुण्डाए गब्भघरे णिरुद्धाबि चन्दाअली मए चादुरीपबन्धेण कड्ढिदा । [भारुण्डया गर्भगृहे निरुद्धापि चन्द्रावली मया चातुरीप्रबन्धेण कर्षिता ।] ८६

कृष्णः ः भारुण्डया कथमकाण्डे कार्कश्यमारब्धम् । ८६अ

कुन्दलता ः ण केअलं भारुण्डाए, जडिलापहुदीहिं बि सब्बबुड्ढिआहिम् । [न केवलं भारुण्डया, जटिलाप्रभृतीभिरपि सर्ववृद्धाभिः ।] ८७

(पद्मया सह प्रविश्य) चन्द्रावली (संस्कृतेन)—

रचयतु मम वृद्धा तर्जनं दुर्जनी सा

कवलयतु कुलेन्दुं कोऽपि दुर्वादराहुः ।

सहचरि परिहर्तुं नाक्षिभृङ्गौ क्षमेते

मधुरिपुमुखपद्मालोकम्माध्वीकलोभम् ॥३९॥ ८८

कृष्णः (चन्द्रावलीमासाद्य सानन्दम्)—

नीतस्तन्वि मुखेन ते परिभवं भ्रूक्षेपैविक्रीडया

बिभ्यद्विष्णुपदं जगाम शरणं तत्राप्यधैर्यं गतः ।

आसाद्य द्विजराजितां विजयिनः सेवार्थमस्योज्ज्वलच्

चन्द्रोऽयं द्विजराजतापदमगात्तेनासि चन्द्रावली ॥४०॥ ८९

कुन्दलता ः

मोत्तिमसरमझट्ठिअ, राणे पडिबिम्बदम्भसम्बलिदा ।

तुह हिआं निउणा मे, जाआ चन्दाअली जादा ॥४१॥ ९०

[मौक्तिकहारमध्यस्थितरत्ने प्रतिबिम्बदम्भसंवलिता ।

तव हृदयं निपुणा मे, याता चन्द्रावली याता ॥]

कृष्णः (स्मितं कृत्वा)ः कुन्दलतिके ! कथं ते याता चन्द्रावली । ९०अ

कुन्दलता ः गोउलजुअराअ ! गोअड्ढणो क्खु इमाए अलिओ सामी । अम्ह देअरो च्चेअ सच्चो । [गोकुलयुवराज ! गोवर्धनः खलु अस्याः अलीकस्वामी । अस्मद्देवर एव सत्यः ।] ९१

चन्द्रावली (सभ्रूभङ्गमपवार्य)ः धिट्ठे ! कुन्दलदा च्चेअ भमराकड्ढिणी होदि । [धृष्टे ! कुन्दलतैव भ्रमराकर्षिणी भवति । ] ९२

कुन्दलता ः देअर ! एसा णिउञ्जघरणी कधेदि, छैल्लो ण क्खु एसो बुन्दाअणभमरो जं पफुल्लां पौमालीं ण पिबेदि । [देवर ! एषा निकुञ्जगृहिणी कथयति, छविलो न खलु एष वृन्दावनभ्रमरः, यत्प्रफुल्लां पद्मालीं न पिबति ।] ९३

पद्मा ः अलिआसंसिनि ! चिट्ठ चिट्ठ ! जङ्गलसञ्चारिणो भमरस्स विसाहासहारी च्चेअ सुलहा, ण क्खु अमिऔप्पण्णा पौमाली । [अलीकशंसिनि ! तिष्ठ तिष्ठ! विपिनसञ्चारिणो भ्रमरस्य विशाखासहचरी एव सुलभा, न खलु अमृतोत्पन्ना पद्माली ।] ९४

कुन्दलता ः चन्दाअलि ! बिदिदाऊदासि । कीस लज्जेसि ? ता अलंकरेहि पीणुत्तुङ्गथणबन्धुणा अप्पणो हारेण हरिबक्खथलम् । [चन्द्रावल्लि ! विदिताकूतासि । कस्मात्लज्जसे ? तदलंकुरु पीणोत्तुङ्गस्तनबन्धुना आत्मनो हारेण हरिवक्षस्थलम् ।] ९५

चन्द्रावली (साभ्यसूयम्)ः कुन्दलदिए ! णिअकण्ठट्ठिदाए एक्काअलीए तुमं च्चेअ अलंकरेहि । [कुन्दलतिके ! निजकण्ठस्थितयैकावल्याः त्वमेव अलङ्कुरु ।] ९६

कुन्दलता ः माहब ! थबैणीं करेहि चन्दाअलीए कण्णलदिअम् । [माधव ! स्थवकिनीं कुरु चन्द्रावल्याः कर्णलतिकाम् ।] ९७

चन्द्रावली ः हला ! पिअजणपेक्खणपज्जुस्सुअस्स बैन्दणन्दणस्स मग्गे ण क्खु पडिबन्धिनी होहि । [हला ! प्रियजनदर्शनपर्युत्सुकस्य व्रजेन्द्रनन्दनस्य मार्गे न खलु प्रतिबन्धिनी भव ।] ९८

कुन्दलता ः सहि ! का अण्णा तुअत्तो इमस्स पिआ ? [सखि ! का अन्या त्वत्त अस्य प्रिया ?] ९९

पद्मा ः ऐ राहासहि विरमेहि । [अयि राधासखि विरम ।] १००

कृष्णः ः

सरोजाक्षि परोक्षं ते कदापि हृदयं मम ।

न स्प्रष्टुमप्यलं बाधा राधा त्वाक्रम्य गाहते ॥४२॥ १०१

(इति सशङ्कं राधाराधयोर्विपर्यासं पठति ।)

पद्मा ः महापुरिसा क्खु ण जादु असच्चभासिणो होन्ति । [महापुरुषा खलु न जातु असत्यभाषिणो भवन्ति ।] १०२

(नेपथ्ये) कुन्दलदे ! साहु साहु, सच्चं ण जाणासि पत्थरपुञ्जकढोरं गोअड्ढणम् । [कुन्दलते ! साधु साधु, सत्यं न जानासि प्रस्तरपुञ्जकठोरं गोवर्धनम् ।] १०३

कुन्दलता ः हद्धी हद्धी ! भारुण्डा चण्डी चण्डिमानं कुणदि । [हा धिखा धिक्! भारुण्डा चण्डी चण्डिमानं करोति ।] १०४

चन्द्रावली (सत्रासम्) ः सहि पौमे ! सद्दूलीब्ब गज्जदि बुड्ढिआ ता अबसप्पम्ह । [सखि पद्मे ! शार्दूलीव गर्जति वृद्धा । तदपसर्पावः ।] (इति पद्मया सह निष्क्रान्ता ।) १०५

कुन्दलता ः अहं गोउलेसरीमणुसरिस्सम् । [अहं गोकुलेश्वरीमनुसरिष्यामि ।] १०६

कृष्णः (पुरो गत्वा सौत्सुक्यम्) ः

मनस्ययं सौमनसस्य धन्वनस्

तनोति टङ्कारकदम्बसम्भ्रमम् ।

अनङ्गखेलाखुरलीविशृङ्खलः

स्खलद्विशाखाकलमेखलारवः ॥४३॥ १०७

(सव्यतो निभाल्य) सखे ! सत्यमाह कुन्दलता, यदद्य राधामाधुर्यमपि नानुभूयते । तदहमम्बामेव सम्भावयेयम् । (इति निष्क्रान्तः) १०७

(ततः प्रविशति पौर्णमासीगार्गीरोहिण्यादिभिरावृता यशोदा ।)

यशोदा ः हन्त सहि रोहिणि ! ण जाणे कीस बिलम्ब{इ} बच्छो । [न जाने कस्माद्विलम्बयति वत्सः ।] १०८

(प्रविश्य) कुन्दलता (सस्मितम्) ः अम्ब ! मा बिसीद । सो क्खु सुविमाणाहिमम्बरऽलम्बिणीहिं बिन्दारारमणीहिं हसिदपुप्फबरिसेण उबासिज्जन्तो बिलम्बदि । [अम्ब ! मा विषीद । स खलु सुविमानाभिरम्बरालम्बिनीभिः वृन्दावनरमणीभिः हसितपुष्पवर्षेण उपास्यमानो विलम्बते ।] १०९

रोहिणी ः दिट्ठं मए तहिं दिअहे दोणं कुमारीणं सोन्देरं पेक्खिअ बिन्दारसुन्दरीओ अच्छरॉ बि बिमच्छरॉ होन्ति । [दृष्टं मया तस्मिन्दिवसे द्वयोः कुमार्योश्चन्द्रावलीराधयोः सौन्दर्यं प्रेक्ष्य वृन्दारकसुन्दर्यो अप्सरसोऽपि विमत्सरा भवन्ति । सौन्दर्येण पराभूतत्वात।] ११०

यशोदा—भादि चन्दाअली णोमालिआ राहा माहरिअ सब्बॉ मह आसॉ गुणासोहरपूरेण पुरेइ । तत्थबि बच्छो बिअ बच्चा लैई णेत्तभिङ्गं सोन्दरमरन्देण आणन्देइ ॥ [भगवति चन्द्रावली नवमालिका राधा माधवी च सर्वथा मम आशागुणसौरभपूरेण पूरयति । तत्रापि वत्स इव वत्सा लघ्वी नेत्रभृङ्गं सौन्दर्यमकरन्देन आनन्दयति । ]१११

पौर्णमासीः गोकुलेश्वरि । सर्वेषां गोकुलवासिनामीदृगेव समुदाचार इति ।११२

गार्गी ः कुन्दलदे ! कीस तुम्हेहिं सदा गोउलेसरीघरे राही णिज्जै । [कुन्दलते ! कस्माद्युष्माभिः सदा गोकुलेश्वरीगृहे राधा नीयते ।] ११३

यशोदा ः ताए सक्किआइं बत्थुइमुबभुञ्जाणो जणो दीहाउ होइ त्ति दुब्बासेण दिण्णबरं राहिअं सुणिअ आआरेमि । [त्वया सत्कृतानि वस्तूनि उपभुञ्जानो जनो दीर्घायुर्भवतीति दुर्वाससा दत्तवरां राधिकां श्रुत्वा आकारयामि ।] ११४

पौर्णमासीः गोकुलेश्वरि ! कृष्णमाशङ्क्य जटिला खिद्यते ।११५

यशोदा (विहस्य) ः थणद्धाम्मि बच्छे को क्खु ताए सङ्काए ओसरो । [स्तनन्धयेऽस्मिन्बत्से कः खलु तस्याः शङ्काया अवसरः ?] ११६

कुन्दलता (नीचैः) ः सच्चं च्चेअ थनन्धओ राउलाणीए पुत्तओ जं गिरीन्दं कन्दुएदि । [सत्यमेव स्तनन्धयो राज्ञ्याः पुत्रो यद्गिरीन्द्रं कन्दुकवत्करोति ।] ११७

पौर्णमासी (दृष्ट्वा सहर्षम्) ः

प्रणयन्जगदण्डमण्डली

मुकुटारोहणयोग्यतामसौ ।

स्फुरति व्रजराजगेहिणी

खनिजन्मा पुरतो हरिण्मणिः ॥४४॥ ११८

कृष्णः (प्रविश्य) ः मातः ! उन्मार्जय साश्रुणी लोचने पुरस्तादेषोऽस्मि । ११९

रोहिणी (दीपावल्या नीराज्य संस्कृतेन) ः

विन्यस्य वर्त्मनि गवां नयने कथञ्चिन्

नीत्यातिदीर्घदिवसोत्तरयामयुग्माम् ।

हा वत्स वत्सलतरां भवदेकबन्धुं

सन्दुक्षयस्व जननीमुपगूहनेन ॥४५॥ १२०

कृष्णः (मातुरुत्सङ्गे उत्तमाङ्गमाधाय) ः अम्ब ! देहि मे मणिमण्डनम् । (इति बाल्यविलासं प्रपञ्चयति ।) १२१

पौर्णमासी ः

निचुलितगिरिधातुस्फीतपत्रावलीकान्

अखिलसुरभिरेणून्क्षालयद्भिर्यशोदा ।

कुचकलसविमुक्तैः स्नेहमाध्वीकमध्यैस्

तव नवमभिषेकं दुग्धपूरैः करोति ॥४६॥ १२२

कुन्दलता (सनर्मस्मितम्)ः कण्हे ! पिबेहि राउलाणीए थण्णामिअं, जं कुडुङ्गे कुडुङ्गे बहूणं केलीणं पसङ्गेण किलिम्भोसि । [कृष्ण ! पिब राज्ञ्याः स्तनामृतं यस्मात्कुञ्जे कुञ्जे बहूनां (पक्षे वधूनां) केलीनां प्रसङ्गेन क्लिष्टोऽसि] १२३

यशोदा ः बच्छे ! कीस हससि ? पेक्ख, अज्ज बि कोमारं ण अदिक्कन्तं, ता को क्खु दोसो थणपाणे ? [वत्से ! कस्माद्हससि ? पश्य, अद्यापि कौमारं नाधिक्रान्तं, तत्कः खलु दोषः स्तनपाने ?] १२४

कुन्दलता ः भाबदि ! सच्चं कधेदि राउलाणी, जमज्ज एसो बालाणं मण्डलेण महारासे कीलदि । [भगवति ! सत्यं कथयति राज्ञी, यदद्य एष बालानां मण्डलेन महारासे क्रीडति ।] १२५

यशोदा ः भाबदि ! को क्खु महारासो णाम ? [भगवति ! कः खलु महारासो नाम ?] (कृष्णः सापत्रपं भ्रूभङ्गेन कुन्दलतामवलोकते ।) १२६

पौर्णमासी (स्मितं कृत्वा) ः गोपेश्वरि ! लास्यलीलाविशेषः । १२७

कुन्दलता (अपवार्य) ः

तिह्णाउला चऊरी पञ्जरिआसञ्जदा चिरं जलै ।

पाअं बंजुलकुञ्जे ताराही सप्पधारेहि ॥४७॥ १२८

[तृष्णाकुला चकोरी पञ्जरिकासंयता चिरं ज्वलति ।

पादं बञ्जुलकुञ्जे ताराधीश प्रसारय ॥]

(नेपथ्ये)

त्वन्मुखेन्द्वनवलोकनोद्गत

स्फारतापभरधूपितात्मनः ।

एहि वत्स मम देहि शीतलं

क्षिप्रमद्य परिरम्भचन्दनम् ॥४८॥ १२९

कृष्णः ः परस्तादेष मद्भावुकमाशंसन्नाबुकस्तिष्ठति, तदेनमानन्दयामि । (इति यशोदादिभिरावृतो निष्क्रान्तः ।) १३०

कुन्दलता (परिक्रम्य) ः दिट्ठिआ बाणीरबणे ललिदाए राही आणीअदि । [दिष्ट्या वाणीरवणे ललितया राधिकानीयते ।] (ततः प्रविशति तथाविधा राधा ।) १३१

राधा ः हला ललिदे ! पसंसीअदु एसा । तुए उबत्थिदा क्खणदा, जाए तुम्हाणं का बि सुहासो अङ्कुरीअदि । [सखि ललिते ! प्रशंस्यतामेषा उपस्थिता क्षणदा, यया युष्माकं कापि सुखाशा अङ्कुरायते ।] १३२

ललिता ः रञ्जेदि त्ति राणी भणीअदि । [रञ्जयतीति रजनी भन्यते ।] १३३

कुन्दलता (उपसृत्य) ः ललिदे ! अज्ज राणीमुहे ईसिहसिदेण कडक्खकुबलएण फुडं तुम्हेहिं ण अच्चिदो कण्हो । [ललिते ! अद्य रजनीमुखे ईषद्हसितेन कटक्षकुवलयेन स्फुटं युष्माभिर्नार्चितः कृष्णः ।] १३४

राधा (सरोमाञ्चम्)ः ललिदे का क्खु कह्नत्ति सुनीअदि जेण केअलं कण्णस्स ज्जेअ अदिधीहोन्तेण उम्मतीकिज्जह्मि ॥ [ललिते, कः खलु कृष्ण इति श्रूयते? येन केवलं कर्णस्यैव अतिथीभवता उन्मत्तीक्रियेऽहम् ।]१३५

कुन्दलता ः सहि ! एसो लूत्तरस्स बत्थुणो णिसग्गो जं क्खु सब्बदा उरभुञ्जज्जन्तं बि अभुत्तपूब्बं जेब्ब होदि । [सखि ! एष लोकोत्तरस्य वस्तुनो निसर्गः, यत्खलु सर्वदा उरुभुञ्जमानमपि अभुक्तपूर्वमिव भाति ।] १३६

ललिता ः कुन्दलदे ! ण केअलं लूत्तरस्स वत्थुनो, किन्तु गाढानुराअस्स बि, येण णिअगोअरो जणो क्खणे क्खणे अपूरबो अपूरबो करीअदि । [कुन्दलते ! न केवलं लोकोत्तरस्य वस्तुनः, किन्तु गाढानुरागस्यापि, येन निजगोचरो जनो क्षणे क्षणे अपूर्वोऽपूर्वः क्रियते ।] १३७

राधा ः ललिदे अदिण्णुत्तरा कीस अण्णं भणासि ? [ललिते अदत्तोत्तरा कस्मान्न भणासि ?] १३८

ललिता (संस्कृतेन) ः

महेन्द्रमणिमण्डली मदविडम्बिदेहद्युतिर्

व्रजेन्द्रकुलचन्द्रमाः स्फुरति को ऽपि नव्यो युवा

सखि स्थिरकुलाङ्गना निकरनीविबन्धार्गल

च्छिदाकरणकौतुकी जयति यस्य वंशीध्वनिः ॥४९॥ १३९

राधा (सास्रं)ः कुन्दलैए, अबि णाम इमस्स एकस्स बि हदण्त्तस्स मग्गं क्खणं बि आरोहिस्सदि सो मह धण्णस्स कण्णस्स अदिधी । [कुन्दलते! अपि नाम तस्यैकस्यापि हतनेत्रस्य मार्गं क्षणमपि आरोहिष्यति स मे धन्यस्य कर्णस्यातिथिः ।] १४०

कुन्दलता ः ऐ तिण्हाउले कल्लं पदोसारम्भे विसाहाए तुमं तिणा सङ्गमिदासि [अयि तृष्णाकुले कल्यप्रदोषारम्भे विसाखया त्वं तेन सङ्गमितासि] । १४१

राधा ः साहु सुमराइदं पिअसहीए जमेक्कबारं च्चेअ बिज्जुलिआबिलासो बिअ सो तुम्हाणं गोउलजुअरॉ नेत्तचमक्कारऽरी संबुत्तो इमस्स मन्दभाइणो जनस्स । [साधु स्मारितं प्रियसख्या, यदेकवारमेव विद्युद्विलास इव स युष्माकं गोकुलयुवराजो नेत्रचमत्कार चमत्कारकारी संवृत्त अस्य मन्दभागिनो जनस्य ।] १४२

(ततः प्रविशति कृष्णः)

कृष्णः ः

कलविङ्ककलं कलङ्कयन्ती,

ललिताकङ्कणझङ्कृतिर्वरेयम् ।

मम चेतसि वेतसीनिकुञ्जं

समया सङ्गमयाञ्चकार रङ्गम् ॥५०॥ १४३

(पुनरुत्कर्णो भवन्सपुलकम्)

मधुरिमलहरीभिः स्तम्भयत्यम्बरे या

स्मरमदसरसानां सारसानां रुतानि ।

इयमुदयति राधाकिङ्किनीझङ्कृतिर्मे

हृदि परिणमयन्ती विक्रियाडम्बराणि ॥५१॥ १४४

राधा (सचमत्कारं संस्कृतेन)—

कुलवरतनुधर्मग्राववृन्दानि भिन्दन्

सुमुखि निशितदीर्घापाङ्गटङ्कच्छटाभिः

युगपदयमपूर्वः कः पुरो विश्वकर्मा

मरकतमणिलक्षैर्गोष्ठकक्षां चिनोति ॥ ५२ ॥ १४५

ललिताः हला, सो एसो दे पराणनाधो । [हला, स एष ते प्राणनाथः ।] १४६

राधाः (सोन्मादं पुनः संस्कृतेन)

स एष किमु गोपिकाकुमुदिनीसुधादीधितिः

स एष किमु गोकुलस्फुरितयौवराज्योत्सवः ।

स एष किमु मन्मनःपिकविनोदपुष्पाकरः

कृशोदरि दृशोर्द्वईममृतवीचिभिः सिञ्चति ॥ ५३ ॥ १४७

कृष्णः (साश्चर्यम्)ः

असकृदसकृदेषा का चमत्कारविद्या

मम रसलहरीभिस्तर्षमन्तस्तनोति ।

विदितमहह सेयं व्यायतापाङ्गलीला

मधुरिमपरिवाहाकापि कल्याणवापी ॥५४॥ १४७अ

(पुनर्निरूप्य)

यस्यां शैवलमञ्जरी विरचितासङ्गं रथाङ्गद्वयं

फुल्लं पङ्कजपञ्चकं च विअस्योर्युग्मं च मूलेन तम् ।

उन्मीलत्यतिचञ्चलं च शफरीद्वन्द्वं व्रजे भ्राजते

सेयं शुद्धतरानुरागपयसा पूर्णा पुरो दीर्घिका ॥५५॥ १४८

राधा ः हला ! ण जाणे कीस घुन्निदम्हि, ता देहि मे हत्थाबलम्बम् ॥ [सखि ! न जाने कस्मात्घूर्णितास्मि । तस्माद्देहि मे हस्तावलम्बम् ।] १४९

ललिता ः सहि ! बीसद्धा होहि (इति राधाभुजं स्कन्धे निदधाति) १५०

कृष्णः (सन्निधाय)ः

समीक्ष्य तव राधिके वदनबिम्बमुद्भास्वरं

त्रपाभरपरीतधीः श्रयितुमस्य तुल्यश्रियम् ।

शशी किल कृसीभवन्सुरधुनीतरङ्गोक्षितां

तपस्यति कपर्दिनः स्फुटजटाटवीमास्थितः ॥५६॥ १५१

(इत्युपसर्पति)

राधा (दृगन्तेनाभिसूच्य) ः ललिदे ! रक्खेहि मं [रक्ष माम्] १५२

कृष्णः ः

मीलितं मीलितेनायं विन्दन्फुल्लेन फुल्लताम् ।

अपाङ्गेनातिकृष्णेन कृष्णस्तव वशीकृतः ॥५७॥ १५२

राधा (सगद्गदम्) कुन्दलदे ! णिबारीअदु एसो सुन्दरुत्तंसो, जं गुरुपराहीणम्हि मन्दभाइणी [कुन्दलते ! निवार्यतामेष सुन्दरोत्तंसः, यत्गुरुपराधीनाहं मन्दभागिनी ।] १५३

(प्रविश्य) जटिला ः अरे महामोहण ! धम्ममग्गादो पाडिदं तुए सब्बं च्चेअ गोउलबालाउलं केअलं मह पुत्तपुण्णेण बहुडिआ उर्ब्बरिदत्थि, ता णामगहणस्स बि एक्कं रक्खेहि । [अरे महामोहन ! धर्ममार्गात्पातितं त्वया सर्वमेव गोकुलबालाकुलं केवलं मम पुत्रपुण्येन वधूटिका उद्वृत्तस्ति । तस्मान्नामग्रहणायापि एकां रक्ष ।] १५४

(इति राधामादाय द्वाभ्यां सह निष्क्रान्ता ।)

कृष्णः ः प्रस्थिता प्रिया, तदहं गवां सम्भालनाय प्रयामि । (इति निष्क्रान्ताः सर्वे ।) १५५

इति श्रीश्रीललितामाधवनाटके

सायमुत्सवो नाम प्रथमोऽङ्कः

॥१॥

******************************************************************

.

(२)

द्वितीयोऽङ्कः

**शङ्खचूडवधः **

(ततः प्रविशति वृन्दा)

वृन्दा (नभोमण्डलमवलोक्य) ः

न्यञ्चन्कुञ्चितकान्तिरिच्छति शशी यस्याः पतिर्वारुणीं

प्राप्य स्वैरमगौरवं गुरुरपि ग्लानिं परामञ्चति ।

सर्वोऽप्येष कृशीभवन्नुडुपरिवारस्तिरोधित्सते

यामिन्याः क्षयलक्षणं विधिवशादस्याः स्फुटं लक्ष्यते ॥१॥ क

(परिक्रम्य)

रजनिविपरिणामे गर्गरीणां गरीयान्

दधिमथनविनोदादुद्भवन्नेष नादः ।

अमरनगरकक्षाचक्रमाक्रम्य सद्यः

स्मरयति सुरवृन्दान्यब्धिमन्थोत्सवस्य ॥२॥ ख

(पुरो दृष्टिं क्षिपन्ती) ः

करोति दधिमन्थनं स्फुटविसर्पिफेनच्छटा

विचित्रितगृहाङ्गणं गहनगर्गरीगर्जितम् ।

मुहुर्गुणविकर्षणप्रवणताक्रमाकुञ्चित

प्रसारितकरद्वयीक्वणितकङ्कणं मालती ॥३॥ ग

(पार्श्वतो विलोक्य सस्मितम्)

उत्ताम्यन्ती विरमति तमस्तोमसम्पत्प्रपञ्चे

न्यञ्चन्मूर्धा सरभसमसौ स्रस्तवेणीवृतांसा ।

मन्दस्पन्दं दिशि दिशि दृशोर्द्वन्द्वमल्पं क्षिपन्ती

कुञ्जाद्गोष्ठं विशति चकिता वक्त्रमावृत्य पाली ॥४॥ घ

(पुनरन्यतो विलोक्य साश्चर्यम्)

श्रोण्यां नाभीसरोजप्रवरसहचरं बिभ्रतीयं दुकूलं

श्रीवत्सोत्सङ्गसङ्गप्रणयिनमुरसि स्फारमासज्य हारम् ।

उत्तंसं न्यस्य कर्णे मकरपरिचितं पत्रभङ्गं वहन्ती

गण्डे चक्राङ्कपाणिप्रणिहितमयते श्यामला गोकुलाय ॥५॥ ङ

(पुनरन्यतः समीक्ष्य सखेदम्)

अशिथिलकवरिका रागिबिम्बाधरश्री

रपरिलुलितलीलापत्रवल्लीविलासा ।

अमुदितमुखकान्तिः सद्म पद्मा प्रपेदे

स्फुटमियमलसाङ्गी विप्रलब्धा बभूव ॥६॥ १

(नेपथ्ये) ः

फुल्लत्यारान्नवविचकिले केलिकुञ्जेषु फुल्ला

शेफालीनां स्खलति कुसुमे हन्त चस्खाल बाला ।

मीलत्युच्चैः कुवलयवने मीलिताक्षी किलासीत्

वाच्यं किं वा परमुपहसीर्मा प्रणामच्छलेन ॥७॥ २

वृन्दा ःनूनमसौ पद्मनाभे पद्मासुहृदामुपालम्भः । ३

(नेपथ्ये)

अहमुन्मूकपुञ्जधर्मिणा

हृदि चिन्तानिचयेन चर्चिता ।

भुवि हन्त निविश्य जाग्रती

कथमप्यक्षपयं क्षपामिमाम् ॥८॥ ४

वृन्दा ः कथमिह भगवती पौर्णमासी पुरस्तादभिवर्तते ? ५

(प्रविश्य) पौर्णमासी (“अहमुन्मूकपुञ्ज” इति पठित्वा) ः कथमग्रतोऽसौ वनदेवी ? तदेनामासादयामि । ६

वृन्दा (प्रणम्य) ः भगवति ! किमिदानीं तव चिन्तानिदानं ? ७

पौर्णमासी ः वत्से ! सन्दिष्टास्मि नगरान्मन्त्रिचक्रचूडामणिना तेनोद्धवेन, यथा—“स किल भोजकुलकालिमा दुष्टभूपतिररिष्टकेशिनावाहूय सादरमादिदेश—ऽहन्त सखायौ! कुमारीहारिका पूतना नन्दगोकुले केनापि दिव्यबालकेन मर्दितेति सर्वतः किंवदन्ती । तेन कुमारस्य परमात्यन्तिकीनां ममापदां निदानस्य सम्पदां किल कुमारिकायाश्च तत्रावस्थितिरिति तर्कयामि । तच्च गोकुलं सम्प्रति बाढं वृन्दावनमवगाढमित्यतो भवद्भ्यां यत्नेन तत्त्वमवधारणीयम् ।ऽ इति ।” ८

वृन्दा ः ततस्ततः ? ९

पौर्णमासी ः ततश्च राधामाधवयोरद्भुतानुभावमनुभूय लब्धसम्भावनेन केशिना निवेदितयाथार्थ्यः पार्थिवो राधानुरोधेन गोकुलमवरोद्धुं स्वयमुद्यतोऽभूत। १०

वृन्दा (सत्रासम्) ः ततस्ततः ? ११

पौर्णमासी ः ततश्चारिष्टेनानुसृत्य राधापाणिबन्धप्रवादे निवेदिते सोऽयमधुना शिथिलीकृताशङ्कः शङ्खचूडाख्यमात्मनः सुहृत्तमं दुष्टयक्षं कुमारीमाहर्तुं नियुक्तवान। १२

वृन्दा ः स्थाने खल्वियं तव चिन्ता । तथ्यमेषा दुष्टेनाक्रान्ता त्रिलोकीमेव सन्तापयेत। यतः ः

विद्योतन्ते गुणपरिमलैर्याः समस्तोपरिष्टात्

ताः कस्यार्तं दधति न खल्स्पर्शदग्धास्तरुण्यः ।

भूयो भूयः स्वयमनुपमां क्लान्तिमासादयन्ती

मन्दाक्रान्ता भवति जगतः क्लेशदात्री हि चिन्ता ॥९॥ १३

कुन्दलता (प्रविश्य सम्भ्रान्ता) ः भाबदि ! अच्चरिअमच्चरिअं ! [भगवति, आश्चर्यमाश्चर्यं !] १४

पौर्णमासी ः किं तदाश्चर्यं ? १५

कुन्दलता ः दिट्ठो मए गोअड्ढणमल्लस्स मन्दिरप्रेअन्ते उज्जोदन्तो किरणमाली ! [दृष्टो मया गोवर्धनमल्लस्य मन्दिरप्रान्ते उद्योदमानकिरणमाली !] १६

वृन्दा (सानन्दम्) ः भगवति ! मा कुरु चिन्ताम् । यदेष राधायाश्चिरमाराधनेन मित्रस्य वृषभानोः सौहृदेन चानुरञ्जितो भानुरेनां रक्षितुमासेदिवान। १७

पौर्णमासी ः नायं भानुः, किन्तु स एव कंसस्य पक्षो यक्षो भविष्यति । १८

कुन्दलता ः इक्कणविक्खोहणेहिं मऊहपुञ्जेहिं दुल्लक्खो एसो जक्खो त्ति ण सम्भावीअदि । [ईक्षणविक्षोभनैः मयूखपुञ्जैर्दुर्लक्ष्य एष यक्ष इति न सम्भाव्यते ।] १९

पौर्णमासी ः साङ्क्रामिकमिदं मयूखचक्रम्, न तु नैसर्गिकम् । २०

कुन्दलता ः कुदो तं संकन्तं ? [कुतस्तत्सङ्क्रान्तं ?] २१

पौर्णमासी ः चूडामणितः । २२

वृन्दा ः कुतस्तन्महारत्नमवाप्तं ? २३

पौर्णमासी ः कुवेरस्य महाकोषमण्डपरक्षिणामध्यक्षेणामुना तदाधारप्राणधारकमपनीतम् । २४

वृन्दा ः आर्ये ! चण्डरश्मेरद्य वासरे तस्य मण्डपमवश्यं गमिष्यति राधिका । ततस्त्वया निषिध्यताम् । २५

कुन्दलता ः बुन्दे ! सा मन्दिरादो चिरं तत्थ चलिदत्थि । [वृन्दे ! सा मन्दिरात्चिरं तत्र चलितास्ति ।] २६

पौर्णमासी ः कुन्दलते ! ततस्त्वया तूर्णमुपायेनास्याः सन्निधौ निधीयतामघभेदी । वयमपि सङ्कर्षणं सन्निकर्षयितुं प्रयामः । २७

(इति वृन्दया सह निष्क्रान्ता ।)

विष्कम्भकः

कुन्दलता (परिक्रम्य) ः जडिलाललिदाविसाहाहिं बेढिज्जन्ती एसा आअच्छदि राही । [जटिलाललिताविशाखाभिर्वेष्ट्यमाना एषा आगच्छति राधा ।] २८

(ततः प्रविशति यथानिर्दिष्टा राधा ।)

राधिका (स्वगतम्) ः हिआ ! मा उत्तम्म । एत्थ दुग्घडं दे पिआपेक्खणम् । [हृदय ! मा उत्तपस्व । अत्र दुर्घटं ते प्रियप्रेक्षणम् ।] २९

कुन्दलता ः राहि मङ्गलेण सङ्गवे च्चेअ सङ्गदासि । [राधे, मङ्गले सङ्गवे एव सङ्गतासि ।] ३०

जटिला (सरोषम्) ः चबले ! राहि राहि त्ति मा फुडं भणाहि । सुणिअ कण्हो आअमिस्सदि । [चपले ! राधे राधे इति मा स्फुटं भण । श्रुत्वा कृष्ण आगमिष्यति ।] ३१

ललिता (सस्मितम्) ः साहु भणादि अज्जा । [साधु भणति आर्या ।] ३२

जटिला ः ललिदे, सूरमण्डबं लेबिदुमग्गदो जामि । [ललिते, सूर्यमण्डपं लेपितुमग्रतो यामि । (इति परिक्रामति ।) ३३

श्रीराधा ः कुन्दलदे, अबि णाम जाणासि, सो अम्हादिसीणं दुल्लहदंसणो, तुम्ह देअरो कहिं णिबसेदि, कहिं बा कीलदि त्ति ? [कुन्दलते, अपि नाम जानासि, स अस्मद्दृशीनां दुर्लभदर्शनः, तव देवरः कस्मिन्निवसति, कुत्र वा क्रीडतीति ?] ३४

कुन्दलता ः अ{इ} लोलुहे ! रत्तिन्दिणं जेब्ब तिणा समं रमसि तहबि एब्बमुक्कण्ठसि । [अयि लोलुपे ! रात्रिन्दिवमेव तेन समं रमसे, तथापि एवमुत्कण्ठसे ।] ३५

श्रीराधा ः हला अलमिमिणा उबहासेण । धण्णॉ क्खु तुम्हें जाहिमणिआरिदमच्छीपुडाइ भरिअ उण उण सो अच्चरिओ अमिअपूरो पीअदि । अकिदपुण्णलेसाणमुण अम्हाणं सुणिदुं पि सुदुल्लहो एसो । [सखि ! अलमनेन उपहासेन । धन्या खलु यूयं याभिरनिवारितमक्षीपुटानि भृत्वा पुनः पुनः एष आश्चर्योऽमृतपूरः पीयते । अकृतपुण्यलेशानां पुनरस्माकं श्रोतुमपि दुर्लभ एषः ।] ३६

कुन्दलता ः राहे, एसो जेब्ब अमिअसाअरे णिमग्गाणं तिण्हाबहो बाहारो । [राधे, एष एवामृतसागरे निमग्नानां तृष्णावहो व्यावहारः ।] ३७

राधिका ः अ{इ} परदुक्खाणहिण्णे ! एक्कं सच्चं भणाहि, अबि णाम सो क्खु धण्णो मुहुत्तो घडिस्सदि जहिं सिबिणेबि तस्स क्खणदंसणलाहसंभावणा मे सुलहा हुबिस्सदि । अधवा किं दुल्लहे अत्थे लालसाए ? [अयि परदुःखाणभिज्ञे ! एकं सत्यं भण, अपि नाम स खलु धन्यो मुहूर्तो घटिष्यति यस्मिन्स्वप्नेऽपि तस्य क्षणदर्शनलाभसम्भावना मे सुलभा भविष्यति । अथवा किं दुर्लभे अर्थे लालसया ?]

कुन्दलदे! प्पसीद अनुकम्पेहि । अज्ज सा क्खु सामला कोमुदी जेण पीदा । ता जेब्ब पुण्णवन्तमप्पणो वामलोअणंचलमेत्थ खिण्णे मन्दभाइणि जणे खणमप्पेहि । [कुन्दलते! प्रसीद अनुकम्पय । अद्य सा खलु श्यामला कौमुदी येन पीता । तमेव पुण्यवन्तमात्मनो वामलोचनाञ्चलमेतस्मिन्खिन्ने मन्दभागिनि जने क्षणमर्पय ।] ३८

कुन्दलता ः (सासूयमिवालोक्य) अलं परपुरिसे गिञ्चन्तीहिं तुम्हेहिं संभासणेण (इति धावन्ती जटिलामुपेत्य) अज्जे! कहं पढमं ब्रह्मणं ण मग्गेसि, जो क्खु सुरं पुआबैस्सदि । [अलं परपुरुषे गृध्यन्तीभिर्युष्माभिः सम्भाषणेन । आर्ये कथं प्रथमं ब्राह्मणं न मृगयसे, यः खलु सूर्यं पूजापयिष्यति ।] ३९

जटिला ः बच्छे, सच्चं कहेसि । ता पसीद । आणेहि एक्कं बिअक्खणं बम्हणम् । [वत्से, सत्यं कथयसि । तस्मात्प्रसीद । आनयैकं विचक्षणं ब्राह्मणम् ।] ४०

कुन्दलता ः जधा भणादि अज्जा । [यथा भणति आर्या ।] (इति निष्क्रान्ता ।) ४१

ललिता ः हला राहि ! पेक्ख लेबिदमज्जाए मण्डबं, ता बन्देहि भाबन्तं सूरम् । [सखि राधे ! पश्य लेपिदमार्यया मण्डपं, तस्माद्वन्दय भगवन्तं सूर्यम् ।] ४१क

श्रीराधा (सूर्यं प्रणम्य) ः देअ ! देक्खाबेहि अहिट्ठम् । [देव ! दर्शयाभीष्टम् ।] ४२

(ततः प्रविशति मधुमङ्गलकुन्दलताभ्यामनुगम्यमानो विप्रवेशः कृष्णः ।)

कृष्णः (पुरो राधां पश्यन्नपवार्य)—

विहारसुरदीर्घिका मम मनःकरीन्द्रस्य या

विलोचनचकोरयोः शरदमन्दचन्द्रप्रभा ।

उरोम्बरतटस्य चाभरणचारुतारावली

मयोन्नतमनोरथैरियमलम्बि सा राधिका ॥ १० ॥ ४३

राधिका ः (दूरतः कृष्णमीषदवलोक्य, जनान्तिकं संस्कृतेन)

सहचरि निरातङ्कः कोऽयं युवा मुदिरद्युतिर्

व्रजभुवि कुतः प्राप्तो माद्यन्मतङ्गजविभ्रमः ।

अहह चटुलैरुत्सर्पद्भिर्दृगाङ्चलतस्करैर्

मम धृतिर्धनं चेतःकोषाद्विलुण्ठयतीह यः ॥ ११ ॥ ४४

(पुनरवेक्ष्य) हद्धी हद्धी प्पमादो, ललिदे पेक्ख पेक्ख एणं बम्हऽरिणं दट्ठूण विक्खुहिदं मह हदहिआम् । ता इमस्स महापाबस्स अग्गिप्पवेसो जेब्ब पराअचित्तम् । [ह धिखा धिक्प्रमादः । ललिते प्रेक्ष्य प्रेक्ष्य । एतं ब्रह्मचारिणं दृष्ट्वा विक्ष्ब्धं मे हतहृदयम् । तदेतस्य महापापस्य अग्निप्रवेश एव प्रायश्चित्तम् ।] ४५

ललिता ः हला, सच्चं कधेसि । ता णूणं सबण्णतणं भामेदि । [हला, सत्यं कथयसि, तन्नूनं सवर्णत्वं भ्रमयति ।] ४६

राधिका ः (पुनर्निभाल्य, संस्कृतेन)—

सहचरि हरिरेष ब्रह्मवेशं प्रपन्नः

किमयमितरथा मे विद्रवत्यन्तरात्मा ।

शशधरमणिवेदी स्वेदधारां प्रसूते

न किल कुमुदबन्धोः कौमुदीमन्तरेण ॥ १२ ॥ ४७

विशाखा ः हला महुरं मन्तेसि माहबो च्चेअ एसो । [सखि, मधुरं मन्त्रयसि माधव एव एषः ।] ४८

कुन्दलता ः अज्जे जडिले ! एदं सत्थाहिण्णं पेक्ख बम्हणजुअलम् । [आर्ये जटिले ! एतत्शास्त्राभिज्ञं पश्य ब्राह्मणयुगलम् ।] ४९

मधुमङ्गलः ः जडिले, सूरपूआबिहाणे बिअड्ढोम्हि, ता उबणेहि पढमं खण्डलड्डुआइम् । [जटिले, सूर्यपूजाविधाने विदग्धोऽस्मि, तस्मादुपानय प्रथमं खण्डलड्डुकानि ।] ५०

जटिला ः अरे चञ्चलबम्हणा ! तुमं कण्हस्स सहारोसि, ता इदो अबेहि । एसो च्चेअ सोम्मसामला प{इ}दी बडुओ पूआब{इ}स्सदि बहूअम् । [अरे चञ्चलब्राह्मण ! त्वं कृष्णस्य सहचरोऽसि, तदितोऽपेहि । एष एव सौम्यश्यामलाकृतिर्बटुः पूजापयिष्यति वधूम् ।] ५१

श्रीकृष्णः ः हन्त जरदाभीरि ! तस्य राजपूरे श्रयमाणस्य दुर्लीलस्य गोपराजसूनोरिव किं बटुकोऽयं सखा, तद्युक्तमस्य निष्काशनम् । ५२

जटिला ः अज्ज, सिग्घमग्घाबेहि मिहिरम् । [आर्य, शीघ्रमर्घापय मिहिरम् ।] ५३

श्रीकृष्णः (राधामपाङ्गेनालिङ्ग्य) ः कल्याणि ! किं नामासि ? ५४

जटिला (कृष्णस्य कर्णे) ः एब्बं णेदम् । [एवं नेदम् ।] ५५

श्रीकृष्णः (साद्भुतमिव) ः हन्त, सैव खल्वियं पूण्यवती, तर्हि विश्रुतमस्याः पातिव्रत्यम् । ५६

जटिला ः एक्काए मह बहूडिआए जेब्ब रक्खिदा गोउलस्स कित्ती । [एकया मम वधूटिकया एव रक्षिता गोकुलस्य कीर्तिः ।] ५७

श्रीकृष्णः ः पतिव्रते ! ताम्रकुण्डीं गृहाण, मन्त्रमुदाहरामि । ५८

(राधा सोत्कम्पं तथा करोति ।) ५९

श्रीकृष्णः ः

निभृतमरतिपुञ्जभाजि राधे

त्वदधरवर्धितचापले चलाक्षि ।

चटुलय कुटिलां दृगन्तलक्ष्मीम्

अयि कृपणे क्सणमों नमः सवित्रे ॥१३॥ ६०

जटिला ः कुन्दलदे, अस्सुदपुब्बा एसा कीरिसी रिचा बहुएण पडिज्जै । [कुन्दलते, अश्रुतपूर्वैषा कीदृशी ऋग्बडुकेन पठ्यते ।] ६१

मधुमङ्गलः (साट्टहासम्) बुट्टिए, आहीरीमुद्धिआ तुमं री री गीदं च्चेअ जाणासि । अम्हा वेदस्स तुमं कासि । ता सुणाहि कोसुमेस्वईए साहाए तैअ वग्गस्स ललणासुहारी रिचा एसा । [वृद्धे, आभीरीमुग्धिका त्वम्, री री गीतमेव जानासि । अस्मद्वेदस्य त्वं कासि । तत्शृणु कौसुमेषव्याः शाखायास्तृतीयवर्गस्य ललनाशुभकरी ऋगेषा ।] ६२

(सर्वाः स्मितः कुर्वन्ति ।) ६३

जटिला (सलज्जं) ः होदु, सुट्ठु पूआबेहि पुत्तओ मे गोकोडीसरो होदु । [भवतु, सुष्ठु पूजय पुत्रो येन गोकोटीश्वरो भवतु ।] ६४

श्रीकृष्णः ः

अर्चितार्चाधुना धन्ये त्वमर्घ्यं कुरु भावतः ।

अम्बरोद्भासिने गाढमुदा राजीवबन्धवे ॥१४॥ ६५

(राधा सम्भ्रमं नाटयति ।) ६६

कुन्दलता (संस्कृतेन) ः

सम्प्रति कन्याराशेरुपभोगं कुर्वते पुरःस्थाय ।

मित्राय चित्रमर्घ्यं कुरु सुस्मितपुण्डरीकेण ॥१५॥ ६७

(राधा दृगन्तेन हरिं पश्यति ।) ६८

श्रीकृष्णः ः

सवितुः समाप्तिमाप्तः, पूजाविधिरेष सुष्ठु कल्याणि ।

इष्टं नन्दय देवं, सरागसुमनोवराञ्जलिना ॥१६॥ ६९

(राधा बन्धूककुसुमाञ्जलिं क्षिपति ।) ७०

मधुमङ्गलः ः जडिले ! मिट्ठं पक्कण्नं दक्खिणा दिज्ज{उ} । अह्म अच्छिद्दं बाबहरेह्म । [जटिले, मिष्टं पक्वान्नं दक्षिणा दीयताम् । वयमच्छिद्रं व्याहरामः ।] ७१

श्रीकृष्णः ः अरे पात्रेसमित ! वाचाटबटो ! तिष्ठ ! गोकुलवासिणां मैत्रीलाभ एव मे दक्षिणा । ७२

जटिला (सहर्षम्) ः भो बडुराअ ! मह घरं समाअच्छ, तत्थ इट्ठभोअणं बम्हणाणं भुञ्जाबिअ मणिमुद्दिआ मे दादब्बा । [भो बटुराज ! मम गृहं समागच्छ, तत्र इष्टभोजनं ब्राह्मणान्भोजयित्वा मणिमुद्रिका मया दातव्या ।] ७३

मधुमङ्गलः (सहर्षं) ः अज्जे, सुदबक्खरा होहि । जमिट्ठभोअणं बम्हणाणं दादुकामासि । [आर्ये, सुतपस्करा भव यदिष्टभोजनं ब्राह्मणान्दातुकामासि ।] ७४

श्रीकृष्णः ः वृद्धे, भोजयामुं बटुकम् । अहं तु पौर्णमासीमासाद्य गुरोर्गर्गस्य सन्दिष्टमावेदयिष्यामि । ७५

कुन्दलता ः कीरिसां तं ? [कीदृशं तम्?] ७६

श्रीकृष्णः ः मातः पूर्णिमे, या भवत्याः प्रेमपात्री वृषभानुपुत्री तस्याः संशयोऽद्य महानिति कल्पतरुमूले सा रक्षोघ्नमन्त्रेणाभिमन्त्र्यतामिति । ७७

कुन्दलता (सव्यथमिवापवार्य) ः अज्जे, दिट्ठिआ दिट्ठिगोअरो एसो कप्परुक्खो, ता तुमं गदुअ भाबदीमेत्थ पत्थाबेहि बडुं बि भुञ्जाबेहि । अम्हे णं गग्गसिक्खं क्खणं रक्खेम्ह । [आर्ये! दिष्ट्या दृष्टिगोचर एष कल्पवृक्षः । तस्मात्त्वं गत्वा भगव्तीमत्र प्रस्थापय बटुमपि भोजय । वयमेनं गर्गशिष्यं क्षणं रक्षामः ।] ७८

(जटिला बटुना सह निष्क्रान्ता ।) ७९

कुन्दलता (सस्मितम्) राहि, देहि मे पारितोसिअं, यं सुट्ठु दुल्लहं दे अब्भत्थिदं मए णिब्बाहिदम् । [राधे, देहि मे पारितोषिकम् । यत्सुष्ठु दुर्लभं तेऽभ्यर्थितं मया निर्वाहितम् ।] ८०

राधिका (वक्रमवेक्ष्य) कुन्दलदिए, किं मे अब्भत्थिदं? [कुन्दलते, किं मेऽभ्यर्थितम्?] ८१

कुन्दलता ः अई, कीस भुअं भंगुरेसि, जा सूराराहणं भणामि । [अयि, कस्माद्भ्रुवं भङ्गुरयसि, यत्सूर्याराधनं भणामि ।] ८२

श्रीकृष्णः ः कुन्दलते, दापय दक्षिणाम् । साङ्गोऽस्तु पद्मिनीदयितयागः । ८३

कुन्दलता ः राहे, र{इ}कम्माहिण्णो आआरिओ तुए दक्खिणाए अणुरञ्जीअदु । [राधे, रविकर्माभिज्ञो आचार्यस्त्वया दक्षिणयानुरज्यताम् ।] ८४

विशाखा (स्मित्वा) ः कुन्दलदे, दक्खिणादाणाहिण्नाए तुए च्चेअ दिज्ज{उ} दक्खिणा, जाए बिणुउणो अप्पणो देअरो पुरोहिदो आहरिदो । [कुन्दलते, दक्षिणादानाभिज्ञया त्वयैव दीयतां दक्षिणा, यया विनिपुन आत्मनो देवरः पुरोहित आहृतः ।] ८५

ललिता ः बिसाहे, णूणमेसो पूआबिदाए कुन्दलदाए दिण्णाहिट्ठदक्खिणो आआरिओ । [विशाखे, नूनमेष कारितपूजया कुन्दलतया दत्ताभीष्टदक्षिण आचार्यः ।] ८६

श्रीकृष्णः ः ललिते ! पूज्येयं प्रजावती । तदस्यां नाचार्यकमाचर्यते । ८७

श्रीराधा ः हला ललिदे ! साहु पूअणं निब्बाहिदं, तुम्हेहिं ता अज्जबि किं पडिक्खीअदि ? [सखि ललिते ! साधु पूजनं निर्वाहितं, युष्माभिः अद्यापि किं प्रतीक्ष्यते ?] ८८

श्रीकृष्णः ः

स्मररोधनानुबन्धी क्रमविस्तारितकलाविलासभवः ।

क्षणदापतिरिव दृष्टः क्षणदायी राधिकासङ्गः ॥ १७ ॥ ८९

(नेपथ्ये)

दुर्लभः पुण्डरीकाक्ष वृत्तस्ते विप्रकर्षतः । ९०

कृष्णः ः (सव्यथमुच्चैः) भोः कोऽयं दुर्लभः? ९१

(पुनर्नेपथ्ये)

यत्नादन्विष्यमाणोऽपि वल्लवैः पशुमण्डलः ॥१८॥ ९२

कृष्णः ः ललिते! पशूनाकलय्य कल्पितनिजाकल्पो यावदहमुपसीदेयम्, तावत्तत्र रत्नसिंहासने प्रियां प्रापय (इति निष्क्रान्तः ।) ९३

ललिता ः हला, पुरदो पाअं धारेहि । [पुरतः पादं धारय ।] ९४

राधा ः ललिदे प्पसीद प्पसीद सुठ्ठु संकौलम्हि । [ललिते प्रसीद प्रसीद सुष्ठु शङ्काकुलास्मि ।] (पुनः संस्कृतेन)

गतप्रायं सायं चरितपरिशङ्की गुरुजनः

परीवादस्तुङ्गो जगति सरलाहं कुलवती ।

वयस्यस्ते लोलः सकलपशुपालीसुहृदसौ

तदा नम्रं याचे सखि रहसि सङ्चारय न माम् ॥१९॥ ९५

कुन्दलता ः राहे, जाणे अक्खलिदं तुम्ह सदीब्बदं, ता अलं सां विक्खाबिदेण । [राधे, जाने सस्खलितं तव सतीव्रतं, तदलं स्वयं विख्यापितेन । ] ९६

विशाखा ः (सप्रणयाभ्यसूयम्) कुन्दलदे! का क्खु अबरा तुमं बिअ वंसीए तिण्णिसञ्झमाअड्ढीअदि ? [का खलु अपरा त्वमिव वंइकया त्रिसन्ध्यमाकृष्यते?] ९७

कुन्दलता (सनर्मस्मितं, संस्कृतेन) ः

ददामि सदयं सदा विशदबुद्धिराशीःशतं

भवादृशि पतिव्रताव्रतमखण्डितं तिष्ठतु ।

श्रुतैर्निखिलमाधुरीपरिणतेऽपि वेणुध्वनौ

मनः सखि मनागपि त्यजति वो न धैर्यं यथा ॥ २० ॥ ९८

(इति सर्वाः कल्पदुर्ममनुसरन्ति ।)

(प्रविश्य) श्रीकृष्णः ः

साचिलोचनरङ्गितभङ्गी

वागुरामिह वितत्य मृगाक्षी ।

राधिकेयमधिकस्वरभङ्गं

द्राग्बबन्ध मम चित्तकुरङ्गम् ॥२१॥ ९९

श्रीराधा (अपवार्य) ः कुन्दलदे ! पेक्ख सोहग्गं गुञ्जावलीए । [कुन्दलते, पश्य सौभाग्यं गुञ्जावल्याः ] (इति संस्कृतेन)

कठोराङ्गी कामं जगति विदिता नीरसतया

निगूढान्तश्छिद्रा त्वमतिमलिना चासि वदने ।

तथाप्युच्चैर्गुञ्जावलि विहरसे वक्षसि हरेर्

जनानां दोषं वा न हि कमनुरागः स्थगयति ॥२२॥ १००

कुन्दलता (नीचैः) ः राहे, तुह कढोरथणमणिबिनिद्धुदाए एदाए कुदो एत्थ त्थेरिअं बरागीए ? [राधे, तव कठोरस्तनमणिविनिर्धूताया अस्याः कुतोऽत्र स्थैर्यं वराक्याः ?] १०१

नेपथ्ये ः

दनुजदमनवक्षःपुष्करे चारुतारा

जयति जगदपूर्वा कापि राधाभिधाना ।

यदियमपहरन्ती तत्र नक्षत्रमालाम्

अपि तिरयति धाम्ना सद्गुणौ पुष्पवन्तौ ॥२३॥ १०२

कुन्दलता (नेपथ्याभिमुखमालोक्य) ः बुन्दे ! दोण्णं जेब्ब सुरचन्दाणं तिरोहाणं भणन्ती तुमं ताराए माहप्पे अणहिण्णासि । जं पराहूदसुरलक्खस्स चन्दाअलीणाधस्स बि उबरि इमाए पोरिसं फुडं लक्खीअदि । [वृन्दे ! द्वयोरेव सूर्यचन्द्रयोरेव तिरोधानं भणन्ती तं ताराया माहात्म्ये अनभिज्ञासि । यत्पराभूतसूर्यलक्ष्यस्य चन्द्रावलीनाथस्यापि उपरि अस्या पौरुषं स्फुटं लक्ष्यते ।] १०३

सख्यौ ः कुडिले, अलिअं हसन्ती किंत्ति पिअसहीं लज्जाबेसि ? [कुटिले, अलीकं हसन्ती कस्मात्प्रियसखीं लज्जयसि?] १०४

कुन्दलता ः (संस्कृतेन)

त्रपां त्यज कुडङ्गकं प्रविश सन्तु ते मङ्गला

न्यनङ्गसमराङ्गणे परमसांयुगीना भव ।

विवस्वदुदये भवद्विजयकीर्तिगाथावली

पुरः स्कहि मुरद्विषः शाचरीभिरुद्गीयताम् ॥ २४ ॥ १०५

कृष्णः (स्मितं कृत्वा) ः

अन्तस्तर्षं जगति तृषितैः काममाचम्यमाणः

शैत्याधारः सुमधुररसो विच्छिनत्त्येव सर्वः ।

केयं राधावदनशशिनः कान्तिपीयूषधारा

या भूयिष्ठं प्रथयति मुहुः पीयमानापि तृष्णाम् ॥२५॥ १०६

राधिका (अपवार्य, संस्कृतेन)

चलाक्षिगुरुलोकतः स्फुरति तावदन्तर्भयं

कुलस्थितिरलं तु मे मनसि तावदुन्मीलति ।

चलन्मकरकुण्डलस्फुरितफुल्लगण्डस्थलं

न यावदपरोक्षतामिदमपैति वक्त्राम्बुजम् ॥ २६ ॥ १०७

कुन्दलता ः सुन्दर ! एत्थ राणसीहासने राहिअमारोहेहि । [सुन्दर ! अत्र रत्नसिंहासने राधिकामारोपय ।] १०८

ललिताः हला तक्किस्सदि जणो ता त्तह्म्हेहि संखऊडाराम् । [सखि, तर्किष्यति जनस्तस्मात्स्तम्भय शङ्खचूडारवम् ।] १०९

(प्रविश्य) शङ्खचूडः (लतान्तरे स्थित्वा) ः गोअड्ढणबण्णिदलक्खणा कुमरी एसा राणसीहासने रेह{इ} । ता ओसरं जानिअ अप्पणो कम्ममनुचिट्टिस्सम् । [गोवर्धनवर्णितलक्षणा कुमारी एषा रत्नसिंहासने राजते । ततवसरं ज्ञात्वा आत्मनः कर्मानुष्ठानं करिष्यांइ ।] ११०

श्रीकृष्णः ः प्रिये । क्षणमलङ्क्रियतां मदूरुगरुत्मपीठम् । १११

श्रीराधा ः गोउलजुअराअ ! तुम्हादिसाणं पुर्सुत्तमाणं ण जुत्तं कुअबालिआणं धम्मविद्धंसणम् । [गोकुलयुवराज ! युष्मदृशानां पुरुषोत्तमानां न युक्तं कुलबालिकानां धर्मविध्वंसनम् ।] ११२

नेपथ्ये ः हा णत्तिणि राहिए, चिरं कहिं गदासि ? [हा नप्त्रि राधे, चिरं कुत्र गतासि ?] ११३

श्रीकृष्णः ः कुन्दलते, कथमियं मुखरा विलपति ? ११४

कुन्दलता (विहस्य) ः मोहन ! जहिं तुम्हादिसो णिउञ्जणाअरो लीलाबाङ्गं तरङ्गेदि, तहिं बुड्ढिआणं बिलाबस्स का क्खु दरिद्ददा ? [मोहन! यस्मिन्त्वादृशो निकुञ्जनागरो लीलापाङ्गं तरङ्गयति, तस्मिन्वृद्धानां विलापस्य का दरिद्रता ?] ११५

(प्रविश्य) मुखरा (पुरो राधामाधवौ पश्यन्ती स्वगतम्) ः हा हददेब्ब ! णं हरिअन्दणमुज्झिअ एसा कप्पलदा कीस तुए एरण्डं लद्भिदा ? [हा हतदैव ! एतं हरिचन्दनं त्यक्त्वा एषा कल्पलता कस्मात्त्वया एरण्डं लम्भिता ?] (प्रकाशम्) हा बच्छे ! इमस्स जेब्ब लम्पडचूडामणिणो कीलाकुरङ्गी संबुत्तासि । [हा वत्से, अस्यैव लम्पटचूडामणेः क्रीडाकुरङ्गी संवृत्तासि ।] ११६

ललिता (सालीकम्) अज्जे, पेक्ख । एसो कण्हो मोट्टिममह्म विडम्बणं करेदि । [आर्ये, पश्य । एष कृष्णः बलादस्मद्विडम्बनं करोति ।] ११७

मुखरा ः अरे राणारीअ ! चिट्ठ चिट्ठ ! [अरे रतनारीक ! तिष्ठ तिष्ठ !] ११८

श्रीकृष्णः (स्वगतम्) ः कठोरेयं जरती, तदहमन्तर्हितो भवेयम् । ११९

मुखरा (सक्रोशम्) ः ललिदे ! धरेहि धरेहि णं धुत्ताम् । [ललिते धारय धारय एनं धूर्तम् ।] १२०

ललिता ः हुं, एण्हिं किंत्ति पलाएसि ? [इदानीं किमिति पलायसि ?] १२१

मुखरा (धावन्ती पुरः कुञ्जमासाद्य सतर्जनम्)ः दिट्ठिआ लद्धोसि, रे कुरङ्गाअलीभुअङ्ग ! दिट्ठिआ लद्धोसि ! [दिष्ट्या लब्धोऽसि, रे कुरङ्गावलिभुजङ्ग, दिष्ट्या लब्धोऽसि ] १२२

श्रीकृष्णः (सातङ्कमात्मगतम्)ः हन्त, घनान्धकारे कथमन्धकल्पयापि जरत्या दृष्टोऽस्मि । १२३

(मुखरा शिरः सञ्चाल्य सञ्चाल्य मुहुर्निभालयति ।)

श्रीकृष्णः (स्वगतम्) ः नूनमाकाशकुसुमदृष्टिरेवासौ जरत्याः । १२५

मुखरा ः अम्मो ! तिमिरपुञ्जो ज्जेब्ब एसो । [अहो ! तिमिरपुञ्ज एव एषः ।] १२६

(श्रीकृष्णाः स्मितं करोति ।) १२७

मुखरा (अन्यतो गत्वा) ः हुं दाणिं जेब्ब लद्धोसि । (पुनर्निभाल्य सशङ्कम्) रे धुत्तऽ ! बाराहणारसीहादिबहुरूबोसि त्ति सच्चं पोण्णमासीए कहिज्जसि, जमिमिणा भाणुभासुरेण भीसणरूबेण मं भीसान्तो निक्कमसि । [हुं, इदानीमेव लब्धोऽसि । रे धूर्त ! वराहनरसिंहादिबहुरूपोऽसीति सत्यं पौर्णमास्या कथ्यते, यदनेन भानुना भीषणरूपेण मां भीषयन्तो निष्क्रमसि ।]

शङ्खचूडः ः दिट्ठिआ मुत्तीभूदविक्कमचक्कबालस्स बालस्स दिट्ठी बञ्चिदा । [दिष्ट्या मूर्तीभूतविक्रमचक्रवालस्य बालस्य दृष्टिर्वञ्चिता ।] १२९

सर्वाः (समीक्ष्य सत्रासम्) ः अज्जे परित्ताहि परित्ताहि [आर्ये परित्राहि परित्राहि !] १३०

मुखरा (सरोषं) ः रे सामला ! न जुत्तं क्खु एदं ! [रे श्यामल ! न युक्तं खल्विदम् ।] १३१

ललिता ः हा हदबुद्धिए ! ईदिसं दारुणं बि कण्हमासंकेसि ? [हा हतबुद्धिके ! ईदृशं दारुणमपि कृष्णमासङ्कसे ?] १३२

शङ्खचूडः ः सुहित्तमस्स कंसभूब{इ}णो काममबञ्झं कादुं णं ससीहासणां जेब्ब पोमिणिअं सिरे घेत्तूण न{इ}स्सम् । [सुहृत्तमस्य कंसभूपतेः काममबन्ध्यं कर्तुमेनां ससिंहासनामेव पद्मिनीं शिरसि गृहीत्वा नयिष्ये ।] १३३

सर्वाः (सव्यामोहं) ः हा कण्ह, कुदोसि ? [हा कृष्ण, कुतोऽसि ?] १३४

कृष्णः (कुञ्जान्निष्क्रम्य सविषादम्) ः

आनीतासि मया मनोरथशतव्यग्रेण निर्बन्धतः

पूर्णं शारदपुर्णिमापरिमलैर्वृन्दाटवीमण्डलम् ।

सद्यः सुन्दरि शङ्खचूडकपटप्राप्तोदयेनाधुना

दैवेनाद्य विरोधिना कथमितस्त्वं हन्त दूरीकृता ॥२७॥

(इति संरम्भेण परिक्रामन्) आर्ये, मा भैषीः । एष नेदीयानस्मि । १३५

मुखरा (सास्रम्) चन्दमुह ।विजयलच्छीए सांबरिदो होहि । १३६

कृष्णः (साटोपम्) रे रे दुष्ट!

राधापराधिनि मुहुस्त्वयि यन्न शस्तं

शक्ष्यामि कर्तुमखिलां गुरुरेष खेदः ।

सर्वाङ्गिलेयमभिधावति लुप्तधर्मा

त्वां मुक्तिकालरजनी बत किं करिष्ये ॥२८॥

(इति निष्क्रान्तः) १३७

कुन्दलता ः ललिदे पेक्ख पेक्ख! एसो हदासो राहिअमुज्झिअ कण्हेण जोद्धुं विक्कमेदि । ]ललिते पश्य पश्य, एष हताशो राधिकां त्यक्त्वा कृष्णेन योद्धुं क्रामति ।] १३८

(नेपथ्ये)

स्थूलस्तालभुजान्नतिर्गिरितटीवक्षाः क्व यक्षाधमः

क्वायं बालतमालकन्दलमृदुः कन्दर्पकान्तः शिशुः ।

नास्त्यन्यः सहकारितापटुरिह प्राणी न जानीमहे

हा गोष्ठेश्वरि कीदृगद्य तपसां पाकस्तवोन्मीलति ॥२९॥ १३९

(सर्वाः समाकर्ण्य व्यामोहं नाटयन्ति)

(प्रविश्यापटीक्षेपेण पौर्णमासी) १४०

पौर्णमासी ः पुत्रि ललिते! मा व्यथिष्ठाः । क्षिप्रं खलस्फुलिङ्गमेतं लब्धनिर्वाणं जानीहि । १४१

नेपथ्ये ः

दोर्दण्डाटोपभङ्गीविकटरिपुवपुर्घट्टनादर्दुरूढः

क्रीडन्नुद्दण्डदंष्ट्राङ्कुरकुटिलतटोच्चण्डतुण्डान्तरस्य ।

दिव्यच्चण्डांशुबिम्बप्रैभटमटवीमण्डले दण्डकोट्या

व्याकर्षन्पिञ्छचूडो हरति मुकुटतः शङ्खचूडस्य रत्नम् ॥३०॥ १४२

पौर्णमासी ः दिष्ट्या रत्नाकृष्टिमिषादयमाकृष्टजीवो व्यधायि । तेनाद्य वृन्दाटवीजम्बूकानां पारणोत्सवाय सम्पत्स्यते । (पुनर्निभाल्य सहर्षं) पश्यत पश्यत ! विच्युतवक्षोऽयं यक्षो भङ्गमङ्गीचकार । १४३

पुनर्नेपथ्ये ः

मुष्टिना झटिति पुणजनोऽयं

हन्त पापविनिवेशितचेताः ।

पुण्डरीकनयनेन सखेलं

दण्डितः सकलजीवितवित्तम् ॥३१॥ १४४

पौर्णमासी (पुरो दृष्ट्वा सानन्दम्) ः

विकटसमरधाटीधृष्टताध्वंसितारिर्

विलुठदमलचूडश्चण्डिमाडम्बरेण ।

कृतकुसुमविसर्गैः स्वर्गिभिः श्लाघ्यमानो

मधुरिपुरयमक्ष्णोर्मोदमाविष्करोति ॥३२॥ १४५

विशाखा ः भाबदि ! पेक्ख, सुगहिदणामं राममग्गे कदुअ सब्बे सहारा समाअदा । [भगवति ! प्रेक्षस्व, सुगृहीतनामानं राममग्रे कृत्वा सर्वे सहचराः समागताः ।] १४६

पौर्णमासी ः पुरुषोत्तमे दत्तोऽयं रामाय रमणीयो मणीन्द्रः । १४७

ललिता ः पेक्ख, बास्सौलं पत्ताबिअ एक्को जेब्ब माहबो राहिअमणुसप्पदि । [पश्य ! वयस्यकुलं प्रस्थाप्य एक एव माधवो राधिकामनुसर्पति ]१४८

पौर्णमासी ः पश्य पश्य—

भयबाधितराधिक्पगूढः

प्रचलाग्रप्रचलाकचारुचूडः ।

वदनोल्लसितश्रमाम्बुवृन्दः

सविधं सुन्दरि विन्दते मुकुन्दः ॥३३॥ १४९

श्रीकृष्णः ः

हा नेत्रनिन्दितकलिन्दसुतारविन्द

गोविन्द गोकुलपुरन्दरनन्दनाद्याः ।

मां रक्ष रक्षत रसेति कृतार्तनादां

राधामधीरनयनां न हि विस्मरामि ॥३४॥ १५०

पौर्णमासी (परिक्रम्य) ः यशोदामातः ! उत्खातचिन्ताशल्यास्मि कृता । (इति सराधं माधवमालिङ्गति । मुखपाणिभ्यां हरिं निर्मञ्छ्य ।) १५१

ललिता ः बीर ! आराहिआ दे राहिआ दिट्ठिआ रक्खिदा । [वीर ! आराधिता ते राधिका दिष्ट्या रक्षिता ।] १५२

(प्रविश्य) मधुमङ्गलः ः पिअबास्स एसो मणिन्दो रामेण राहिआए दिण्णो । [प्रियवयस्य एष मणीन्द्रो रामेण राधिकायै दत्तः ।] १५३

श्रीकृष्णः ः कौस्तुभस्य कुटुम्बं मणीनां ग्रामणीरयं राधाग्रैवेयकतामर्हति । १५४

ललिता ः जधा दिसदि भवम् । [यथादिशति भवान।] १५५

श्रीकृष्णः ः तदागच्छत । दुष्टविजयेनामुना पितरावानन्दयामः । १५६

(इति निष्क्रान्ताः सर्वे ।)

इति शङ्खचूडवधो नाम

द्वितीयोऽङ्कः

॥२॥

***************************************

.

(३)

तृतीयोऽङ्कः

उन्मत्तराधिकः

(ततः प्रविशति वृन्दया सह सङ्कथयन्ती पौर्णमासी ।) १

पौर्णमासी ः हन्त, कथमुपक्रान्तोऽयमन्तिमस्तामसीमुहूर्तः ? पश्य पश्य—

दूरात्खरांशुशरभस्य परिस्फुरन्तीं

विस्फूर्जितैरुदयशैलतटीं विलोक्य ।

त्रासादसौ विशति चन्दनपिण्डपाण्डुर्

अस्ताचलं मृगकलङ्कमृगाधिराजः ॥१॥ २

वृन्दा ः भगवति ! मथ्यमानस्येव महाद्म्भोनिधेर्गम्भीरं कमपि कोलाहलसंरम्भमाकर्ण्य सम्भ्रमेणागतास्मि । तत्कथ्यतां किमेतदिति । ३

पौर्णमासी ः पुत्रि वृन्दे ! नेदं च ते कर्णयोः प्राङ्गणमधिरूढं ? ४

वृन्दा ः भगवति ! किं तन्नाम ? ५

पौर्णमासी ः बलीवर्ददानवमर्दनवर्धितरोषपर्वतं पूर्वद्युरपूर्वविक्रमेण केशिनमुत्पाट्य गोष्ठमधितिष्ठति शिखण्डावतंसे कंसेनानुशिष्टः स खलु गान्धिनेयो नन्दस्य मन्दिरमासेदिवान। स च राजोपजीवी राजीवबन्धौ पूर्वपर्वतमधिरूढे सपूर्वजं पूर्वदेवारिं पुरं नेष्यति । ६

वृन्दा (क्षणं तूष्णीं स्थित्वा दीर्घमुष्णं निश्वस्य च सवैक्लव्यम्) ः

वनभुवि नवकुञ्जं कस्य हेतोर्विधास्ये

धृतरुचि रचयिष्याम्यत्र वा पुष्पतल्पम् ।

सुरभिमसमये वा वल्लिमुत्फुल्लयिष्ये

यदि नयति मुकुन्दं गान्धिनेयः पुराय ॥२॥ ७

पौर्णमासी (सव्यथम्) ः

क्रन्दन्तीनां प्लुतविरुतिभिर्बिभ्यतीनां विभातात्

कुप्यन्तीनामसकृदसकृद्गान्धिनीनन्दनाय ।

हा धिग्दैवं कुवलयदृशां जाग्रतीनां समग्रा

व्यग्राक्षीणां क्षणवदभितस्तामसीयं व्यरंसीत॥३॥ ८

वृन्दा (सास्रं) ः

लब्धभ्रमेण हरता हरिशर्वरीशं

विन्यस्यता च विरहक्लमकालकूटम् ।

हा गान्धिनीतनुजमन्दरभूधरेण

विक्षोभितः पृथुलगोकुलसागरोऽयम् ॥४॥ ९

पौर्णमासी ः वत्से तदितो गोपेन्द्रगोपुरमेवानुसरावः । (इति परिक्रम्य पुरः पश्यन्ती सबाष्पम्)—

यत्रामङ्गलसम्पदं न कुरुते व्यग्रा तदात्वोचितां

वात्सल्यौपयिकं च नोपनयते पाथेयमुद्भ्रान्तधीः ।

धूलीजालमसौ विलोचनजलैर्जम्बालयन्ती परं

गोविन्दं परिरभ्य नन्दगृहिणी नीरन्ध्रमाक्रन्दति ॥५॥ १०

वृन्दा ः शैव्यायाः सखिजल्पितं किमाकर्णितमार्यया ? ११

पौर्णमासी ः पुत्रि ! कीदृशमिदं ? १२

वृन्दा ः

न निर्घोषान्मन्ये निशमयसि घोषस्य करुणान्

विमुग्धे त्वं दध्नामिह यदनुबध्नासि मथनम् ।

जपन्कर्णोत्सङ्गे सखि किमपि दूतः क्षितिपतेर्

मुकुन्दं मन्दात्मा नगरगमनाय त्वरयति ॥६॥ १३

पौर्णमासी ः वत्से, शैव्याविमोहतस्त्वं विक्लवा श्यामलाविलापे नाभिज्ञासि । १४

वृन्दा ः तथ्यं ब्रवीषि, तदेतं वर्णय । १५

पौर्णमासी ः

भानोर्बिम्बे त्वरितमुदयप्रस्थतः प्रस्थितेऽसौ

यात्रानन्दीं पठति मुदितः स्यन्दने गान्दिनेयः ।

तावत्तूर्णं स्फुट खुरपुटैः क्षौणिपृष्टं खनन्तो

यावन्नामी हृदय भवतो घोटकाः स्फोटका स्युः ॥७॥ १६

वृन्दा ः शृणुवः किं परिदेवयति भद्रा ? १७

नेपथ्ये ः

तुवरन्तो तुह द{इ}दो, साङ्गनीडं पुरो समारुह{इ} ।

तहबि ण पराणस{उ}णे हदङ्गणीडं परिच्चासि ॥८॥ १८

पौर्णमासी (वामतो दृष्ट्वा) ः वत्से, माधवस्य माध्याह्निकं दाम निर्मिमाणायां चन्द्रावल्यां शल्यार्पिणी पद्माव्याहृतिराकर्ण्यताम् । १९

नेपथ्ये ः

अध्यारूढो रहमिह पुरा सङ्गरङ्गी रहङ्गी

हा पुप्फाणं तहबि चटुले गण्ठणुक्कण्ठिदासि ।

आहीरीणं बहिरि गहिरुक्कोसदीहा विलाबा

किं दे चन्दाअलि ण परिदो कण्णकुअं बिसन्ति ॥९॥ २०

पौर्णमासी (सोद्वेगम्) ः

आलीव्यालीकवचनेन मुहुर्विहन्तो

हन्तारविन्दविगलद्ग्रथितार्धमाल्या ।

हा हन्त हन्त किमपि प्रतिपन्नतन्द्रा

चन्द्रावली किल दशान्तरमारुरोह ॥१०॥ २१

वृन्दा ः पश्य पश्य ! विवशामेव चन्द्रावलीं स्यन्दनाग्रतो निधाय शोचति पद्मा । २२

नेपथ्ये ः

कक्कणवधेहि हदासे तिलं बि णाणञ्चलं पऽसेहि ।

हन्त तुबरेइ तुरां णिक्करुणो गान्दिणीपुत्तो ॥११॥ २३॥

पौर्णमासी ः हन्त वत्से ! राधिकामपश्यन्ती बाढमाकुलास्मि । २४

वृन्दा (दक्षिणतः प्रेक्ष्य) ः हा धिक्! हा हा धिक्! पश्य—

न वक्तुं नावक्तुं पुरगमनवार्तां मुरभिदः

क्षमन्ते राधायै कथमपि विशाखाप्रभृतयः ।

समन्तादाक्रान्ता निविडजडिमश्रेणिभिरिमाः

परं कर्णाकर्णिव्यवसितिमधीरो विदधति ॥१२॥ २५

पौर्णमासी (सखेदम्) ः

यस्यालोकसुखे कृतेन निमिषैराक्षिप्यमाणे मनाक्

प्रत्यूहेन वराक्षि सद्विरहितास्त्वं नौषि मीनीरपि ।

तस्मिन्विन्दति माधवे मधुपुरीं दैवान्न जानीमहे

हा राधे प्रणयानुबिद्धमनसः का ते गतिर्भाविनी ॥१३॥ २६

वृन्दा ः पश्य पश्य, समन्तादाकस्मिकेन कोलाहलेन कुरङ्गीव तरङ्गितदृष्टिरेषा बहिर्वीथीमाससाद राधा । २७

पौर्णमासी ः हा कष्टं ! स्फुटं दिव्योन्मादमयीमुद्घूर्णामापद्यते राधिका यदियमसम्बन्धभूयिष्ठामनेकभाषामयीं भारतीमुद्गिरति ॥ २८

राधा (नेपथ्ये) ः

बाणरवईणन्दणं सबन्धुं,

रहपबरोबरि पेक्खिअ फ्फुरन्तम् ।

[व्रजनृपतिनन्दनं सबन्धुं

रथप्रवरोपरि प्रेक्ष्य स्फुरन्तम्]

स्खलति मम वपुः कथं धरित्री

भ्रमति कुतः किममी नटन्ति नीपाः ॥१४॥ २९

पौर्णमासी ः शृणुवः किमाह ललिता । ३०

ललिता (नेपथ्ये) ः सहि राहे, मा विसीद । पब्बदपरिक्कमोबक्कमो एसो । [सखि राधे, मा विषीद, पर्वतपरिक्रमोपक्रम एषः ।] ३१

पौर्णमासी ः शृऊयतां वत्साया व्याहृतिः । ३२

राधिका (नेपथ्ये) ः

सहचरि, परिज्ञातं सद्य समस्तमिदं मया

पटिमपञलैस्त्वं निह्नोतुं कियत्प्रभविष्यसि ।

विरम कृपणे भावी नायं हरेर्विरहक्लमो

मम किमभवन्कण्ठे प्राणा मुहुर्निरपत्रपाः ॥१५॥ ३३

वृन्दा ः भगवति, विवक्षुरिव विशाखा लक्ष्यते । ३४

विशाखा (नेपथ्ये) ः

तं विद्धंसिअ कंसं रक्तिमुहे तुह मेलिस्सै प्पणै ।

सहि मा घुम्म विलक्खा क्खमाबदीणं ध्रीणासि ॥१६॥ ३५

पौर्णमासीः समाकर्णय वरवर्णिनीवर्णितं । ३६

(नेपथ्ये)

नाश्वासनं विरचय त्वमिदं हताशो

शुष्यन्मुखी मम गुणं परिकीर्तयन्ती ।

दूरादमार्दवभृतोऽपि मुहुः क्षमायाः

कुक्षिं विदारयति पश्य रथाङ्गनेमिः ॥१७॥ ३७

पौर्णमासी ः अहह राजीवनेत्रयात्रावित्रासितचेताः कामप्यधैर्यदीक्षामुरीचकार चकोराक्षी । ३८

वृन्दा ः

क्षणं विक्रोशन्ती विलुठति शताङ्गस्य पुरतः

क्षणं बाष्पग्रस्तां किरति किल दृष्टिं हरिमुखे ।

क्षणं रामस्याग्रे पतति दशनोत्तम्भिततृणा

न राधेयं कं वा क्षिपति करुणाम्भोधिकुहरे ॥१८॥ ३९

पौर्णमासी ः (सास्रम्) हा हन्त! हन्त!

न हि न्यस्ता दृष्टिः क्षणमधरपालीपरिमले

यया कंसारातेः प्रियसहचरीणामपि पुरः ।

गुरूणामप्यग्रे यदकलितलज्जावलिरभूद्

इयं राधा सद्यस्तदिह मम चेतो ग्लपयति ॥१९॥ ४०

(पुनर्निरूप्य)

रथिनः पथि पश्यतः सखेदं

बत राधावदनं मुरान्तकस्य ।

किरतो नयने घनाश्रुबिन्दून्

अरविन्दे मकरन्दवत्क्रमेण ॥२०॥ ४१

वृन्दा ः नूनं कुमारीणां प्राणाः प्राणेश्वरेण सार्धमेवाद्य प्रयास्यन्ति । ४२

पौर्णमासी ः पुत्रि! हरेः सन्देशहरं पश्य पश्य—

एतास्तूर्णं नयत कियतीः नयत कियतीरार्ति मिश्रास्तमिस्रा

भावी भव्याः पुनरपि मया मङ्गलः सङ्गमो वः ।

इत्थं दीर्घैरघविजयिना हन्त सन्दानितोऽभूद्

आशापाशैः सरसिजदृशां प्राणसारङ्गसङ्घः ॥२१॥ ४३

वृन्दा (सव्यथम्)ः

न पिबति मकरन्दं वृन्दमिन्दिन्दिराणां

वनमपि न मयूरास्ताण्डवैर्मण्डयन्ति ।

विदधति च रथाङ्गाः स्वाङ्गनाभिर्न सङ्गं

सरति सरसिजाक्षे गोष्ठतः पत्तनाय ॥२२॥ ४४

पौर्णमासी (नेमिवर्त्मानुसृत्य सखेदम्)ः अहह !

अद्वीपे क्षिपति समस्तजगतीमस्तोकशोकाम्बुधौ

राधा सम्भृतकाकूराकुलमसौ चक्रे तथा क्रन्दनम् ।

येन स्यन्दननेमिनिर्मितमहासीमन्तदम्भादिदं

हा सर्वंसहयापि निर्भरमभूद्दूराद्विदीर्णं भुवा ॥२३॥ ४५

वृन्दा ः हा कष्टं ! हा कष्टं !

पुरः क्वचन धावति स्फुरति चित्रितेव क्वचित्

तनोति हसितं क्वचित्क्वचन तीव्रमाक्रन्दति ।

इयं प्रलपति क्वचित्क्वचन मौनमालम्बते

मुकुन्दविरहोद्गतैर्मुहुरधीराधिभिः ॥२४॥ ४६

नेपथ्येः

क्व नन्दकुलचन्द्रमाः क्व शिखिचन्द्रकालङ्कृतिः

क्व मन्द्रमुरलीरवः क्व नु सुरेन्द्रनीलद्युतिः

क्व रासरसताण्डवी क्व सखि जीवरक्षौषधिर्

निधिर्मम सुहृत्तमः क्व बत हन्त हा धिग्विधिम् ॥२५॥ ४७

पौर्णमासी ः धिक्कष्टं ! मूर्तमेतद्दुर्निवारं कारुण्यडम्बरं परिलम्बते । तदितस्तूर्णं मे प्रस्थितिः पथ्या । ४८

वृन्दाः भगवति ! मुखरामत्र सन्निधापयितुमिच्छामि । (इत्युभे निष्क्रान्ते)

विष्कम्भकः –

(ततः प्रविशति सखीब्यामाश्वास्यमाना राधा । ) ४९

राधा (साक्रन्दम्) ः

निपीता न स्वैरं श्रुतिपुटिकया नर्मभणितिर्

न दृष्टा निःशङ्कं सुमुखि मुखपङ्केरुहरुचः ।

हरेर्वक्षःपीठं न किल घनमालिङ्गितमभूद्

इति ध्यायं ध्यायं स्फुटति लुठदन्तर्मम मनः ॥२६॥ ५०

विशाखा ः हला, कण्हस्स पच्चाअमणसन्देसं जानन्ती बि ईरिसे बेअणाणलझलक्कारे अप्पाणं पक्खिबन्ती कीस सहीणं पराणं करीसेण रन्धेसि ? [सखि, कृष्णस्य प्रत्यागमनसन्देशं जानन्त्यपि ईदृशे वेदनानलझलत्कारे आत्मानं परिक्षिपन्ती कस्मात्सखीनां प्राणान्कारीषेण रन्धयसि ।] ५१

राधिका (संस्कृतमाश्रित्य) ः

चेतः खिन्नजने हरेः परिणतं कारुण्यवीचीभरैर्

इत्याभीरनतभ्रुवां त्वै भवदालोकसम्भावना ।

मर्मग्रन्थविकृन्तनव्यसनिनी तं तादृशं वैरिणी

क्रूरेयं विरहव्यथा न सहते मद्भागधेयोत्सवम् ॥२७॥ ५२

(इत्यार्तिं नाटयन्ती)

उत्तापी पुटपाकतो ऽपि गरलग्रामादपि क्षोभणो

दम्भोलेरपि दुःसहः कटुरलं हृन्मग्नशूल्यादपि

तीव्रः प्रौढविसूचिकानिचयतो ऽप्युच्चैर्ममायं बली

मर्माण्यद्य भिनत्ति गोकुलपतेर्विश्लेषजन्मा ज्वरः ॥२८॥ ५३

(इति मुक्तकण्ठं रोदिति)

नेपथ्येः

अद्य प्राणपरार्धतोऽपि दयिते दूरं प्रयाते हरौ

हा धिग्दुःसहशोकशङ्कुभिरभूद्विद्धान्तरा राधिका ।

तेनास्याः प्रतिषेधमर्थचरिते त्वं मा कृथा मा कृथाः

क्षीणेयं क्षणमत्र सुष्ठु विलुठत्यार्तस्वरं रोदितुम् ॥२९॥ ५४

ललिता (नेपथ्याभिमुखमालोक्य स्वगतम्) ः बुन्दे ! साहु साहु, जं णिबारणुम्मुही मुहरा तुए णिबारिदा । [वृन्दे ! साधु साधु, यत्निवारणोन्मुखी मुखरा त्वया निवारिता ।] ५५

श्रीराधा (पुनश्चक्रवाकीं विलोक्य साभ्यर्थनम्)ः

इयमुपगता प्राचीतस्त्वं रथाङ्गि ततो हरिस्

तव पदमगादक्ष्णोरस्य प्रवृत्तिमुदीरय ।

विलयति रथक्लान्तिं हन्त प्रभोः पथि तस्य कः

प्रणयति जनः को वा पत्राङ्कुरादिपरिष्क्रियाम् ॥३०॥ ५६

ललिता ः पिअसहि, बिउइणीणिउरंबकुडबं कलंबसाहिसिहरे महुरापथ्याणुकंठिदं बिअ पेक्ख बलिपुट्ठराअम् । [प्रियसखि, वियोगिनीनिकुरम्बकुटुम्बं कदम्बशाखिशिखरे मथुराप्रस्थानोत्कण्ठितमिव पश्य बलिपुष्टराजम् ।] ५७

राधा (सश्लाघम्) ः

भ्रातर्वायस मण्डलीमुकुट हे निष्क्रम्य गोष्ठादितः

सन्देशं वद वन्दनोत्तरममुं वृन्डाटवीन्द्राय मे ।

दग्धुं प्राणपशुं शिखी विरहभूरिन्धे मदङ्गालये

सान्द्रं नागरचन्द्र भिन्धि रभसादाशार्गलाबन्धनम् ॥३१॥ ५८

(सव्यतः शारिकामवेक्ष्य)

न वेद्मि न हि शारिके यदसि तस्य दूती हरेर्

इदं प्रथमतः स्फुटं कथय मुञ्च वार्तां पराम् ।

स पिष्टकटुकण्टकः सखिभिरावृतो वर्तते

रथो रथ इति ब्रुवन्किमधुना प्रतीचीमुखः ॥३२॥ ५९

(इति विक्रोशन्ती सशङ्कम्)

किं जप्पिस्सदि संपदं गुरुअणो हा वैणवं क्वामृतं

जुत्तिं सोअहरं सुणामि ण कहं हा नर्मभङ्गी क्व सा ।

धीरं किं ण धरेमि हंत हिअए हा प्राणनाथः क्व मे

कट्ठं मुञ्चध रे पराणहदऽ हा धिङ्न दृष्टो हरिः ॥३३॥ ६०

[किं जल्पिष्यति साम्प्रतं गुरुजनो हा वैणवं क्वामृतं

युक्तिं शोकहरं शृणोमि न कथं हा नर्मभङ्गी क्व सा ।

धीरं किं न धरामि हन्त हृदये हा प्राणनाथः क्व मे

कष्टं मुञ्चथ रे प्राणहतका हा धिङ्न दृष्टो हरिः ॥]

विशाखा (अपवर्य) ः ललिदे, तुरिअं कुण कं बि उबाअं, जेण एसो पराणबिद्दोही पिअसहीए बेअणंतरङ्गो क्खणं बि सिढिलीअदि । [ललिते, त्वरितं कुरु कमप्युपायं, जेण एसो पराणबिद्दोही पिअसहीए बेअणंतरङ्गो क्खणं बि सिढिलीअदि ।] ६१

ललिता (राधामुपेत्य संस्कृतेन)ः

आशङ्केमहि पङ्कजाक्षि कुतुकी निर्माय मायां क्रमाद्

अक्रूरादिमयीं हरिः परिहसत्यस्मान्कलावानयम् ।

मोक्तुं न क्षमते कदापि यदयं वृन्दाटवीकन्दरं

शक्यः प्रेक्षितुमञ्जसा सखि स चेत्कुञ्जान्तरे मृग्यते ॥३४॥ ६२

विशाखा ः ललिदे, साहु साहु ! सच्चं बिअक्खणासि । [ललिते, साधु साधु ! सत्यं विलक्षणासि ।] ६३

राधा ः हन्त सख्यौ ! नासम्भाव्यमिदम् । तन्मृगयेमहीति । (इति परिक्रम्य पुरः कुरङ्गीर्विलोकयन्ती सबाष्पमुच्चैः ।) ६४

हरि हरि भव्तीभिः स्वान्तहारी हरिण्यो

हरिर्हि किमपाङ्गातिथ्यसङ्गी व्यधायि ।

यदनुरणितवंशीकाकलीभिर्मुखेभ्यः

सुखतृणकवला वः सामिलीढाः स्खलन्ति ॥३५॥ ६५

(इत्यन्यतो गत्वा साट्टहासम् ।)

अले मोलि च्छिप्पं भण पैहलंदीं कुडिलदं

कुडंगे गूढङ्गो णिबस{इ} कहं पिच्छम{उ}ली ।

नवाम्भोदश्रेणीस्तनितगणतोऽप्यर्बुदगुणं

पिअं भो तुम्हाणं मुरलिजणिदं जस्स रणिदम् ॥३६॥ ६६

[अरे मयूरि क्षिप्रं भण परिहरन्तीं कुटिलतां

कुञ्जे गूढाङ्गो निवसति कुत्र पिच्छमौली ।

नवाम्भोदश्रेणीस्तनितगणतोऽप्यर्बुदगुणं

प्रियं भो युष्माकं मुरलिजनितं यस्य रणितम् ॥]

विशाखा (सोद्ग्रीवमवेक्ष्य)ः एसा पिअसहीए कुंडणिउंजे गुंजाअली दीसदि । [एषा प्रियसख्याः कुण्डनिकुञ्जे गुञ्जावली दृश्यते ।] ६७

राधा (सम्भ्रमेणादाय जिघ्रन्ती सोत्कम्पम्) ः

मणिराजरुचाविराजिता दनुजारेः स्फुरितासि वक्षसि ।

इह किं लुठसि त्वमाकुला सखि गुञ्जावलि कुञ्जवर्त्मनि ॥३७॥ ६८

ललिता ः मग्गेणाहिणिबेसेण अबिण्णादमग्गॉ अम्हे कथं सहित्थलीपेरंतं पत्तम्ह । [मार्गेणाभिनिवेशेनाविज्ञातमार्गा वयं कथं सखीस्थलीपर्यन्तं प्राप्ताः स्म ।] ६९

राधा ः हा प्रियसखि चन्द्रावलि ! (इत्यौत्सुक्यमभिनीय) विशाखे तामदृष्टपूर्वां वल्लवितवल्लवेन्द्रनन्दिनीं चन्द्रावलीं द्रष्टुमिच्छामि । ७०

विशाखा ः सा क्खु करालाए संदाणिदा मंदिरे झीणदि । [सा खलु करालया सन्दानिता मन्दिरे क्षीयते ।] ७१

राधा ः तदमुं गिरीन्द्रमेव गौरवेण गिरां पात्रङ्करवाणीति । (परिक्रम्य सेर्ष्यम्) विशाखे, कुतः साम्प्रतं मां प्रतारस्यसि यदग्रे देवी चन्द्रावली । (इत्युपसृत्य सबाष्पगद्गदम्) ७२

कुसुमिनि लतापुञ्जे गुञ्जे मदान्धमधुव्रते

त्रसदिव दृशोर्द्वन्द्वं न्यस्यन्स्मितस्फुरिताधः ।

किमिह मुरलीपाणिर्वेणीशिखोच्चलचन्द्रकः

सखि तव सखा दृष्टः स्वैरी व्रजेन्द्रसुतस्त्वया ॥३८॥ ७३

(कन्दरे निजोक्तिप्रतिध्वानमाकर्ण्य सव्यथम्) कथं साक्रन्दमसौ मामेवानुपृच्छति । (इति सविधमासाद्य सव्यामोहम्) ७४

सान्द्रैः सुन्दरि वृन्दशो हरिपरिष्वङ्गैरिदं मङ्गलं

दृष्टं ते हतराधयाङ्गमनया दिष्ट्याद्य चन्द्रावलि ।

द्रागेनां निहितेन कण्ठमभितः शीर्णेन कंसद्विषः

कर्णोत्तंससुगन्धिना निजभुजद्वन्द्वेन सन्धुक्षय ॥३९॥ ७५

ललिता ः हला, फडिअसिलापडिबिम्बिदा एसा तुमं जेब्ब ण क्खु चन्दाअली । [सखि, स्फटिकशिलाप्रतिबिम्बिता एषा त्वमेव न खलु चन्द्रावली ।] ७६

श्रीराधा ः (निरूप्य) नातथ्यं ब्रवीषि । (इति पुरो गत्वा सोल्लासं विहस्य) ललिते! दिष्ट्याहं मुक्तविग्रहाद्य संवृत्ता । पश्य पश्य ः (इत्यङ्गुल्या दर्शयन्ती) ७७

विदूरे कंसारिर्मुकुटितशिखण्डावलिरसौ

पुरे गौराङ्गीभिः कलितपरिरम्भो विलसति । ७८

(इति साभ्यसूयं पुनर्निरूप्य, सखेदम्)

न कान्तोऽयं शङ्के सुरपतिधनुर्धाममधुरस्

तडिल्लेखाहारी गिरिमवललम्बे जलधरः ॥ ४० ॥ ७९

(इति मूर्च्छति)

उभे ः हला, समस्सस समस्सस । [सखि समाश्वसिहि समाश्वसिहि ।] ८०

श्रीराधा ः (समाश्वास्य सादरम्)

गिरीन्द्र त्वं प्रेम्णा प्रवरवरिवस्याविरचने

वरीयानित्यङ्के तव वसति शन्के प्रभुरसौ । ८१

(इति काकुमातन्वती)

दरीद्वारं दूराद्दुर्तमिह दरोद्घाट्य दयया

दुरन्तं दैन्योर्मिं मम दमय दामोदरदृशा ॥४१॥ ८२

(पुनर्निभाल्य) कथमेष झात्कारकारिवारिनिर्झरायितमहाशत्रुपूरो मौनमेवावलम्बते । ८३ (इत्यञ्जलिं बध्नती)

गोवर्धन त्वमिह गोकुलसङ्गिभूमौ

तुङ्गैः शिरोभिरभिपद्य नभो विभासि ।

तेनावलोक्य हरितः परितो वदाशु

कुत्राद्य वल्लवमणिः खलु खेलतीति ॥४२॥ ८४

(किङ्चिदग्रे गत्वा)

मकरन्दकरम्बितः कदम्बो

ननु सोऽयं चटुलाक्षि यस्य मूले

प्रचलाकशलाकया हरिर्मे

कचपक्षे रचयाञ्चकार चूडाम् ॥४३॥ ८५

(दक्षिणतः प्रेक्ष्य सविक्रोशम्)

सेयं गोवर्धनगिरिदरी द्वारि विन्यस्तचित्रा

यस्यामास्ते विचकिलमयी कल्पिता तेन शय्या ।

दृष्ट्वाप्येनां ललितमभितः स्मारयन्तीं पुरस्तात्

प्राणान्कण्ठे सखि विचरतो धिग्वराकान्ममास्तु ॥४४॥ ८६

(इति वैक्लव्यं नाटयन्ती)

दृष्टः कुञ्जगणो व्यलोकि निखिलं वृन्दाटवीकोटरं

निर्बन्धेन निभालिता च निविडा भाण्डीरभूमण्डली ।

प्रत्यङ्गं मुहुरीक्षितः सखि मया सोऽयं च गोवर्धनो

लब्धः क्वापि न तस्य हन्त ललिते गन्धोऽपि बन्धोस्तव ॥४५॥ ८७

ललिता ः हला कुडङ्गे लुक्किदो माहवो तुए कित्तिअबारं ण लद्धोत्थि । तां णिबिण्णा मा होहि । ८८

श्रीराधा ः (परिक्रम्य ससम्भ्रमं संस्कृतेन) साधु ललिते! साधु साधु पश्य दूरादक्रूरेण पुरः स्यन्दनमारूढोऽयं नन्दनन्दनः तदेनं कण्ठग्राहमवरोहयिष्ये । ८९ (इति तदभ्यर्णमासाद्य सव्यथम् ।)

गिरेः शृङ्गं स्वर्णस्तवकितमिदं हन्त न रथस्

तमालोऽसौ नीलद्युतिरिह न गोपीरतिगुरुः ।

बली शार्दूलोऽयं न हि नृपतिदूतः सखि पुरो

विधातुर्वामत्वात्कथमितरथा सर्वमुदभूत॥४६॥ ९०

(इति मूर्च्छति)

विशाखा ः (सोद्वेगम्) ललिदे ! जाब भिसिणीदलाहमाणेमि दाब नं पडञ्चलेन बीएहि । [ललिते, जावत्विसिनीदलान्यानयामि तावदेनां पटाञ्चलेन वीजय ।] ९१

(नेपथ्ये) ः

विरहभरमुदीर्णं प्रेक्ष्य राधातिदैन्यं

स्फुटमखिलमशुय्षन्मानसी हन्त गङ्गा ।

अहह वरितुरङ्गाजीव्यशृङ्गाग्रादूर्वः

शतभुजमितिरासीदेष गोवर्धनोऽपि ॥४७॥ ९२

श्रीराधा ः (प्रबुध्य सप्रणयेर्ष्यम्) हला राहि, मुञ्च अलिअमाणदुल्ललिदत्तणम् । [सखि राधे, मुञ्च अलीकमानदुर्ललितत्वम् ।] ९३

(ललिता निश्वस्य नम्रीभवति) ९४

श्रीराधा ः हल राहे ! एसो दे पासद्ददिण्णो कण्णो केलिकुडङ्गे पविसदि कण्हो । [सखि राधे ! एष ते पदशब्ददत्तकर्णः केलिकुञ्जे प्रविशति कृष्णः ।] ९५

मुकुन्दोऽयं कुन्दोज्ज्वलपरिसरं कुञ्जमयते

लताली च स्मेरा मधुपविरुतैस्त्वां त्वरयति ।

तदुत्तिष्ठोन्मत्ते न तुद पदलग्नां सहचरीं

दुरापास्ते मौग्ध्याद्विरमति वरीयानवसरः ॥४८॥ ९६

ललिता ः हा हदह्मि देब्बहदएण । [हा हतास्मि दैवहटकेन ।] (इति फुट्कृत्य रोदिति) ९७

विशाखा ः (सम्भ्रमादुपेत्य) ललिदे किं क्खु एदं ? धीरा होहि । [ललिते, किं खल्विदं ? धीरा भव ।]९८

श्रीराधा ः (सविस्मयम्) सहि, किं क्खु तुमं च्चेअ ललिदासि ? [सखि, किं खलु त्वमेव ललितासि ?] ९९

ललिता ः (सगद्गदम्) अध ईम् । [अथ किम् ।] १००

श्रीराधा ः अम्महे ! सच्चं भणदि, जमहं राहम्हि । (समन्ताद्विलोक्य) णूणं वनमालिआपुप्फाइं बिएदुमेत्थ पत्थह्मि । ता कण्हस्स कण्णपूरकिदे मल्लिअत्थवां गेण्हिस्सम् । [अहो ! सत्यं भणति, यदहं राधास्मि । नूनं वनमल्लिकापुष्पानि विचेतुमत्र प्राप्तास्मि । तत्कृष्णस्य कर्णपूरकृते मल्लिकास्तवकं ग्रहीष्यामि ।] १०१ (इति पुष्पवाटिकामुपेत्य सातङ्कं संस्कृतेन) ः

किमग्रे मल्लीनां स्खलति कलिकाश्रेणिरधुना

कदम्बानां किं वा त्रुटति परितो मञ्जरिततिः ।

कथं वा जातीनां दधति मुकुलाः श्यामलरुचिं

हरेर्वृन्दारण्ये द्रुतमहह केयं गतिरभूत॥४९॥ १०२

उभे ः णूणं महादावग्गिजालविलीढा एसा बणत्थली । [नूनं महादवग्निज्वालाविलीढा एषा वनस्थली ।] १०३

श्रीराधा ः ललिदे ! ण जाणे तक्खदावाणलकीलाविलीढं बिअ कीस अज्ज मे चित्तं पडिभादि । ता दिट्ठिमेत्तमहिदपाण्डावमण्डलं दे बास्समणुसरेम्ह । [ललिते ! न जाने तक्षदावाणलकीलाविलीढं बिअ कीस अज्ज मे चित्तं पडिभादि । ता दिट्ठिमेत्तमहिदपाण्डावमण्डलं दे बास्समणुसरेम्ह ।] १०४

ललिता ः एदु एदु पिअसही । [एतु एतु प्रियसखी ।] १०५

श्रीराधा ः (सहर्षं) णादिदूरे गोउलिन्दणन्दणो भवे, जमेसा गोमण्डली लक्खीअदि । [नातिदूरे गोकुलेन्द्रनन्दनो भवेत्, यदेषा गोमण्डली लक्ष्यते ।] (इति परिक्रम्य सोद्वेगम्)

चरति न पुरः शम्पं बाष्पप्रवाहिविलोचना

मुखपरिसरे लब्धोद्घूर्णा न लेढि च तर्णकान।

किमिति हरितो हम्बारावैरियं सखि भिन्दती

हरि हरि हरेर्धेनुश्रेणी परं पथि शीर्यते ॥६०॥ १०६

(नेपथ्ये)

दंशः कंसनृपस्य वक्षसि रुषा कृष्णोरगेणार्प्यतां

दूरे गोष्ठतडागजीवनमितो येनापजह्रे हरिः ।

हा धिक्कः शरणं भवेन्मृदि लुठद्गात्रीयमन्तःक्लमाद्

आभीरीशफरीततिः शिथिलितश्वासोर्मिरामीलति ॥६१॥ १०७

(राधा सोत्कम्पं घूर्णन्ती मूर्च्छति ।) १०८

ललिता ः हला समस्सस समस्सस । [सखि समाश्वसिहि समाश्वसिहि ।] १०९

श्रीराधा (चक्षुरुन्मील्य नभो व्लोकयन्ती) ः देव दिवाकर ! नमस्यति राधिका साधयाभीष्टम् । ११०

विशाखा ः (ससम्भ्रमम्) सहस्सभाणुणा मङ्गलमासंसिदम् । [सहस्रभानुना मङ्गलमाशंसितम् ।]१११

श्रीराधा ः (अश्रुतिमभिनीय) हन्त हन्त—

विषूचीनैर्नीता मधुरिमपरीतैर्मधुभिदः

पदैर्वैलक्षण्यं किमपि जगतीलोचनहरम् ।

इयं तीरक्षौणी तरणितनयायाः सखि दृशोर्

व्रजन्ती पन्थानं मम करणवृत्तीर्ज्वरयति ॥५२॥ ११२

ललिता ः हला एत्थ पुलिणे सुरमाराहिअ अहिट्ठमब्भत्थेम्ह । [सखि अत्र पुलिने सूर्यमाराध्य अभीष्टमभ्यर्थयामः ।] ११३

श्रीराधा (पुलिने लुठन्ती) ः

त्वमस्माकं यस्मिन्पशुपरमणीनां रचितवान्

सदा भूयो भूयः प्रणयगहनां तुष्टिलहरीम् ।

तदेतत्कालिन्दीपुलिनमिह खिन्नाः किमधुना

परीरम्भादम्भोरुहमुख न सम्भावयसि नः ॥५३॥ ११४

ललिता (कालिन्दीमवलोक्य) ः

बहिणि मिहिरबंसुत्तंसरूबे तुअत्तो

महुमहण पौत्तिं लद्धुकामा गदम्हि । ११५

[भगिनि मिहिरवंशोत्तंसरूपे त्वत्तो

मधुमथनप्रवृत्तिं लब्धुकामा गतास्मि ।]

श्रीराधा (संस्कृतेन) ः

यदजनि मणिहर्म्यस्पर्धिकुञ्जानुबिद्धं

तव सखि नवरोधस्तस्य लीलावरोधः ॥५४॥ ११६

(इति मूर्च्छति ।)

विशाखा ः ललिदे ! बणमालिणो णिम्मल्लमालं णासासिहरे अप्पेहि । [ललिते ! वनमालिनो निर्मलमालां नासाशिखरेऽर्पय ।] ११७ (इत्युभे तथा कुरुतः ।)

श्रीराधा (चिरात्प्रबुध्य संस्कृतेन) ः ललिते ! समाकर्णय—

दृष्टः कोऽपि भयङ्करः सखि मया स्वप्नो बलीयानभूद्

एतस्मिन्नपि मे प्रतीतिरचना जाग्रद्दशेत्युद्गता ।

दूतः कोऽपि दुराग्रहः क्षितिपतेरागत्य वृन्दाटवीं

कृष्णं हन्त रथेन (इत्यर्धोक्ते) …

… शान्तमहह क्षेमं व्रजे तिष्ठतु ॥५५॥

तदहं दुःस्वप्नविपाकशान्तये कलिन्दनन्दिन्यां कृताभिषेका मुकुन्दं पश्येयम् । ११८

विशाखा ः हला, खेलातित्थं गच्छम्ह जहिं सदा मुउन्दो खेलदि । [सखि, खेलातीर्थं गच्छामः, यत्र सदा मुकुन्दः खेलति ।] ११९

(इति सर्वाः परिक्रामन्ति । ततः प्रविशति वृन्दा मुखरा च ।)

मुखराः बच्छे ! किं करेदि राही ? [वत्से ! किं करोति राधा ?] १२०

वृन्दा ः आर्ये ! पश्येयम् । विशाखया सह खेलातीर्थमवगाहते । १२१

श्रीराधा (तुङ्गां तरङ्गशोभां विलोक्य)ः विशाखे ! साधु साधु, यदद्य खेलातीर्थमुपनीतास्मि । पश्य, नीलाम्बुजवनीनिलीनस्तव सखा विस्तृतभुजार्गलः खेलति । १२२ (इत्युभे निष्क्रान्ते ।)

विशाखाः अदो ओदरेहि । [अतः अवतर ।] १२३

ललिता (विलोक्य सविक्रोशम्)ः हद्धी हद्धी ! हदम्हि हदम्हि ! एसा पिअसही विसाहाए सद्धं गहिरपबाहे णिमग्गा ज्जेब्ब । ण उण इदो उत्थिदा । ता तुण्णं दोण्णं तैआ भबिस्सम् । [हा धिखा धिक्! हतास्मि हतास्मि ! एषा प्रियसखी विसाखया सार्धं गभीरप्रवाहे णिमग्ना एव । न पुनरित उत्थिता । तत्तूर्णं द्वयोस्तृतिया भविष्ये ।] (इत्यवतरणं नाटयति ]) १२४

मुखरा (सास्रम्) ः हा देब्ब ! हा देब्ब ! किं क्खु एदं ? [हा दैवं ! किं खल्विदं ?] १२५

वृन्दा (साक्रन्दं) ः धिक्! केयं गतिरुपस्थिता ? (इत्यार्तिं नाटयन्ती) आर्ये ! मनुनावतितीर्षुं तरस्या धारय ललिताम् । (इत्युभे तथा कुरुतः ।) १२६

ललिता (विलोक्य स्वगतम्) ः हद्धी हद्धी ! गरिट्ठो बिग्घो उबत्थिदो । ता केणाबि बबदेसेण इदो णिक्कमिअ गोअड्ढणे भिउपडणेण णं पिअजणबिप्पओअदंसणेणाबि अबिदिण्णं सिलकढिणं तणुअं सिलाहिं चूण्णस्सम् । [हा धिखा धिक्! गरिष्ठो विघ्न उपस्थितः । तत्केनापि व्यपदेशेन इतो निष्क्रम्य गोवर्धने भृगुपतनेन प्रियजनविप्रयोगदर्शनेनापि अविदीर्णं शिलाकठिणां तनुं शिलाभिश्चूर्णयिष्यामि ।] (इति शोकावेगमपह्नुत्य प्रकाशम् ।) अज्जे ! मुञ्चेहि ममहं गदुअ एदमच्चरिअं बुत्तन्तं भाबदीपहुदीणं बिण्णबिस्सम् । \आर्ये ! मुञ्च मामहं गत्वा एतदाश्चर्यं वृत्तान्तं भगवतीप्रभृतीभ्यो विज्ञापयिष्यामि ।[^1] १२७

आकाशे ः

प्रभुर्भवति कः कृती महिमपुरमस्याः परं

निरूपयितुमुज्ज्वलं जगति गोपवामभ्रुवाम् ।

मुनीन्द्रकुलदुर्लभा नवतडिद्विलासाद्य या

भिदां सह वयस्यया मिहिरमण्डलस्याकरोत॥५६॥ १२८

वृन्दा ः आर्ये ! श्रूयताम् । राधिकायाः सिद्धिरमीभिर्मेघान्तरितैः सिद्धैः श्लाघ्यते । १२९

मुखरा (भूतले लुठन्ती) ः हा हा णत्तिणि राहे ! कहिं गदासि ? [हा हा नप्त्रि राधे ! कुत्र गतासि ?] १३०

वृन्दा (सखेदम्) ः

अहह गहनमेतच्चिन्तयन्ती समन्तात्

कुटतरपुटपाकज्वालयैवाकुलास्मि ।

विपरिणतिमकाण्डे पुण्डरीकेक्षणस्ते

कथमिव भवितासौ शुश्रुवान्पञ्कजाक्षि ॥५७॥ १३१

पुनराकाशे ः

प्रणयमणिकरण्डिका मुरारेः

शिव शिव जीवितमेव राधिकायाः ।

इयमपि ललिता द्रुतं सखेदा

शिखरदती शिखराद्गिरेः पपात ॥५८॥ १३२

मुखरा ः हा ललिदे ! कथं परिच्चत्तासि ? (इत्युद्घूर्णन्ती) बुन्दे ! सोआनल कीला जलिदमत्ताणां जमुणापबेसेण सीअलाएमि । [हा ललिते ! कथं परित्यक्तासि ? वृन्दे ! शोकानलज्वलितमात्मानं यमुनाप्रवेशेन शीतलयामि ।] १३३

पुनराकाशे ः वृद्धे ! साम्प्रतमिदमसाम्प्रतं मा कृथाः । १३४

वृन्दा ः आर्ये ! रविमण्डलान्निःसरन्ती वाणीयमनतिक्रमणीया । १३५

मुखरा ः ता एदं बुत्तं भाबदीए णिबेद{इ}स्सम् । [तदिदं वृत्तं भगवत्यै निवेदयिष्यामि ।] १३६

(पुनरप्यम्बरे गम्भीरध्वनिः) १३७

मुखरा ः बच्छे ! सुट्ठु ण सूब्बै केरिसी एसा दिब्बा बाणी ? [वत्से ! सुष्ठु न श्रूयते कीदृशी एषा दिव्या वाणी ?] १३८

वृन्दा ः

निर्व्याजं कुरु कर्णयोः कमलिनीक्लान्तिच्छिदा धर्मिणः

कोकस्त्रीप्रियसङ्गमप्रतिभुवो देवस्य दिव्या गिरः ।

कालिन्दीजलमज्जनेन मुखरे मा साहसिक्यं वृथा

भूयन्ते भविता प्रमोदसुधया पूर्णो महानुद्धवः ॥५९॥ १३९

(इति निष्क्रान्ते । इति निष्क्रान्ताः सर्वे ।) १४०

इति श्रीश्रीललितमाधवनाटके

उन्मत्तराधिको नाम तृतीयोऽङ्कः

॥३॥

*******************************************************************

.

(४)

***चतुर्थोऽङ्कः ***

श्रीराधिकाभिसाराख्यगर्भाङ्कगर्भः

(ततः प्रविशत्युद्धवः)

उद्धवः ः

अयं सर्वज्ञानां गुरुरपि भजत्यज्ञपदवीं

प्रभुष्णूनां चुडामणिरपि जडीभावमयते ।

सदा सान्द्रानन्दप्रकृतिरपि धत्ते विधुरतां

मुकुन्दं स्वीकुर्वन्प्रणयिनि जने प्रेमवशताम् ॥१॥ १

(पुरो विलोक्य) कथमियमत्र गार्गी ! (इत्युपसृत्य) आर्ये ! प्रणमामि । २

(प्रविश्य) गार्गी ः अमच्च ! चिरं सिञ्चेहि भक्तिसुहाप्पबाहेण पुहवीम् । [अमात्य ! चिरं सिञ्च भक्तिसुधाप्रवाहेण पृथिवीम् ।] ३

उद्धवः ः नूनं यदुराजाभिषेककौतुके तत्रभवत्या रोहिण्या सह गोकुलादत्रायातमार्यया ? ४

गार्गी ः णहु, णहु । किञ्च दोन्नं रामकण्हाणं ब्बदबद्धमहूसवे आहुदाए गोउलेसरीए सद्धं समाअदम् । [नहि नहि, किन्तु द्वयो रामकृष्णयोर्व्रतबन्धनमहोत्सवे यज्ञोपवीतकाले इति यावताहूतया गोकुलेश्वर्या सार्धं समागतं मया ।] ५

उद्धवः ः नालोकि लोकोत्तरा देवस्य रङ्गस्थलकेलिरार्यया ? ६

गार्गी ः केरिसी सा ? कहिज्जौ । [कीदृशी सा कथ्यताम् ।] ७

उद्धवः ः श्रूयताम्—

कृष्णार्कः साधुचक्रोत्सवरभसकृती रक्तलोकः खलाली

खद्योतद्योतहारी कलितकुवलयापीडगम्भीरनिद्रः ।

मल्लोलूकान्विधुन्वन्यदुकुलकमलोल्लासकारी स तुङ्गे

रङ्गद्वारोदयाद्रौ दनुजनृपतमं सूदयन्प्रादुरासीत॥२॥ ८

गार्गी ः तदो तदो ? [ततस्ततः ?]

उद्धवः ः ततश्च,

द्विपरुधिरमदश्रमोदबिन्दू

च्छलघुसृणागुरुचन्दनैः परीतः ।

जरठदशनदशुममण्डितांसो

हरिरिह रङ्गधरान्तरे चुकूर्द ॥३॥ ९अ

ततश्च, तथाविधवेशो दशविधैरेष दशधान्वभावि । तथा हि—

दैत्याचार्यस्तदास्ये विकृतिमरुणतां मल्लवर्याः सखायो

गण्डौन्नत्यं खलेशाः प्रलयं ऋषिगणा ध्यानमुञ्चास्रमम्बा ।

रोमाञ्चं सांयुगीनाः कमपि नवचमत्कारमन्तः सुरेन्द्राः

लास्यं दासाः कटाक्षं ययुरसितदृशां प्रेक्ष्य रङ्गे मुकुन्दम् ॥४॥ ९ब्

ततश्च—

वरकेशरमालयाञ्चितश्चलचानूरचमूरुमर्दनः ।

कुतुकोच्चलधीरदीदरद्यदुसिंहः खलभोजकुञ्जरम् ॥५॥ ९च्

गार्गी ः दिट्ठिआ दिट्ठन्तं गदो साहुजणाणं महाबुक्कसूलो । (इत्यानन्दमभिनीय) अमच्च ! धण्णा पोण्णमासी, जा कण्हस्स सङ्गममुञ्चती रङ्गकीलादिकोदूहलं पेक्खै । [दिष्ट्या दिष्टान्तं गतः साधुजणानां महावक्षःशूलः । अमात्य ! धन्या पौर्णमासी, या कृष्णस्य सङ्गममुञ्चती रङ्गक्रीडादिकौतूहलं प्रेक्षते ।] १०

उद्धावः—किमेतदुच्यते यस्याः प्रसङ्गादेव जगद्गुरोरपि गुरुर्बभूव सान्दीपनिः । ११

गार्गी (संस्कृतेन) ः

कामं सर्वाभीष्टकन्दं मुकुन्दं

या निर्बन्धात्प्राहिणोदिन्धनाय ।

आचार्यानी सा करोति स्म पण्यं

पिण्याकार्थं हन्त चिन्तामणीन्द्रम् ॥६॥ १२

उद्धवः ः शिष्याचारप्रचारचातुरीयं चाणूरमर्दानस्य । तदत्र नापराध्यति गुरोः कलत्रम् । १३

गार्गी ः सुदं मए महुमङ्गलो किदन्तणारादो आअड्ढिअ उण हरिणा गुरुणो दक्खिणीकिदो । [श्रुतं मया मधुमङ्गलो कृतन्तनगरादाकृष्य पुनर्हरिणा गुरवे दक्षिणीकृतः ।] १४

उद्धवः ः न केवलं गुरव एव दक्षिणीक्र्तः, किन्तु केलिगुरवे स्वात्मनेऽपि । यदस्य सौभाग्यकुलं मया गोकुले श्रुतम् । १५

गार्गी ः अबि णाम तत्थभवन्तेण गोउले गदमसि ? [अपि नाम तत्रभवता गोकुले गतमासीत्?] १६

उद्धवः ः अथ किम् । १७

गार्गी ः किं कादुं ? [किं कर्तुं ?] १८

उद्धवः ः देवीं चन्द्रावलीमानेतुम् । १९

गार्गी ः किं त्ति एसा णाणीदा ? [किमित्येषा नानीता ?] २०

उद्धवः (सबाष्पं) ः रुक्मिणा गोकुलादियं पुनः कुण्डिने नीता । २१

गार्गी ः कुदो सुदा इमिणा गोउले चनाअली ? [कुतह्श्रुता अनेन गोकुले चन्द्रावली ?] २२

उद्धवः ः सख्युः शिशुपालस्य मुखात। २३

गार्गी ः तिणा बि कुदो सुदा ? [तेनापि कुतः श्रुतः ?] २४

उद्धवः ः तत्रभवत्याः श्रुतश्रवसो मुखात। २५

गार्गी ः सच्चं सच्चं सा क्खु बंधादो विमुक्कं भादरमाणादंदुहिं दट्ठुं णाहिअरमाअदा आसी तदो मए च्चेअ अणहिण्णाए गोउलगदं सब्बं रहस्सं तिस्सा सऽसे प्पऽसिदम् । [सत्यं सत्यं सा खलु बन्धाद्विमुक्तं भ्रातरमानकदुन्दुभिं द्रष्टुं नाभिगृहमागता आसीत। ततो मयैवानभिज्ञया गोकुलगतं सर्वं रहस्यं तस्याः सकाशे प्रकाशितम् ।] २६

उद्धवः ः आर्य किमत्र ते दूषणं ? मद्विधेषु विधिरेव प्रतिबन्धी । २७

गार्गी ः भिस्सणंदणेण चंदाअलीं णेदुं पौत्ते कहं ण को बि पडिबंधी सुंबुत्तो ? [भीष्मकनन्दनेन चन्द्रावलीं नेतुं प्रवृत्ते कथं न कोऽपि प्रतिबन्धी सुंवृत्तः ?] २८

उद्धवः ः मथामास्थिते चिरसबान्धवे गोकुलेन्द्रे हते च तोशलापरपर्याये गोवर्धने कोऽन्यः प्रतिबन्धीयात। २९

गार्गी ः भो सोम्म पोमापहुदि कण्णऽचडुक्कं कीस णाणीदं ? [भो सौम्य पद्माप्रभृति कन्यकाचतुष्कं कस्मान्नानीतम् ।] ३०

उद्धवः ः

पद्मा नग्नजितः सुता नरपतेर्मद्रेशितुः श्यामला

भद्रा केकयचक्रमस्तकमणेः शैब्यस्य शैब्यास्तथा ।

ज्ञात्वा हन्त चिराच्चतुर्भिरभितो वीणा प्रवीणान्मुनेर्

एभिर्गोपपतिं प्रसाद्य विनयैः कन्यास्ततो निन्यिरे ॥७॥ ३१

गार्गी ः कच्चाअणीब्बदपराणं गोउलकण्णाणं किं क्खु कुसलं ? [कत्यायनीव्रतपराणां गोकुलकन्यानां किं खलु कुशलं ?] ३२

उद्धवः (सबाष्पम्) ः

स्तवं कामाख्यायाः कमपि विदधन्ति द्युमणिजा

तटान्ते सम्भूय ज्वरितहृदयानि क्लमभरैः ।

सहस्राण्युद्दण्डप्रकृतिरचिरं षोडशहठात्

कुमारीणां तासामहरत शताढ्यानि दनुजः ॥८॥ ३३

गार्गी (सव्यथम्) ः अबि णाम इदं बुत्तं तुम्ह प्पहुणा सुदं ? [अपि नाम इदं वृत्तं युष्मत्प्रभुना श्रुतं ?] ३४

उद्धवः ः श्रुतमेव किन्तु बाढमविशिष्टम् । ३५

गार्गी ः केरिसं तं ? [कीदृशं तत्?] ३६

उद्धवः ः अष्टाधिकशतोत्तरेषु षोडशषु कुमारीणां सहस्रेषु नैकापि गोष्ठमधितिष्ठतीति । ३७

गार्गी ः को वा तस्स अबराणुसंधाणस्स ओसरो । जं राहीए ताए दारुणदसाए णिब्बुदिलबो बि सुदुग्घडो । [को वा तस्य अपरानुसन्धानस्य अवसरः । यद्राधायास्तया दारुणदशाया निर्वृतिलवोऽपि सुदुर्घटः ।] ३८

उद्धवः ः आर्ये, तथ्यमात्थ । तत एव बाढं व्यग्रया भगवत्या निर्मितोऽस्ति देवस्य कोऽपि मनोविनोदनोपायः । ३९

गार्गी ः केरिसो सो ? [कीदृशः सः ?] ४०

उद्धवः ः सङ्गीतविद्यावेधसं भरतमभ्यर्च्य किञ्चिदपूर्वं रूपकं कारितम् । तच्च देवर्षितीर्थेन तुम्बुरुहस्ते प्रेषितम् । तुम्बुरुणा च गन्धर्वानिदमध्यापितम् । ४१

गार्गी ः दाणिं के बि दिब्बपुरिसा तत्तहोदीए पोण्णमासीए सद्धमालबंदा मए दिट्ठा ता एदे गंधब्बा हुबिस्संदि । [इदानीं केऽपि दिव्यपुरुषास्तत्रभवत्या पौर्णमास्या सार्धमालपन्तो मया दृष्टाः । तदेते गन्धर्वा भविष्यन्ति ।] ४२

उद्धवः ः अथ किम् । पश्यायं मधुमङ्गलेन सह नृत्यविलोकनार्थमरविन्दलोचनः कुरुविन्दमन्दिरस्यालिन्दमधिरोहते । ४३

गार्गी ः अहं गदुअ मुहरं पेसैस्सम् । [अहं गत्वा मुखरां प्रेषयिष्यामि ।] ४४

उद्धवः ः अहमपि भगवत्या सह नटान्प्रवेशयिष्यामि । (इति निष्क्रान्तौ) ४५

विष्कम्भकः

ओ)०(ओ

(ततः प्रविशति यथानिर्दिष्टः कृष्णः)

श्रीकृष्णः (सखेदं)ः

हा लीलावति हा चकोरनयने हा चन्द्रबिम्बानने

हा बिम्बप्रतिमौष्ठि हा गुणवती गोष्ठीपुरोवर्तिनि ।

हा गोष्ठाखिलखञ्जरीटनयनामूर्धाभिषिक्ते कथं

हा राधे हतदैवदुर्विलसितैर्यातासि घोरां दशाम् ॥९॥ ४६

मधुमङ्गलः ः पिअ बास्स! अदिदुल्लहदंसणा बि राहिआ बिज्जमाणेव मे पडिभादि । [प्रिय वयस्य! अतिदुर्लभदर्शनापि राधिका विद्यमानेव मे प्रतिभाति ।] ४७

श्रीकृष्णः ः सखे सत्यमाशयैव कदर्थ्यमानोऽस्मि । यतः—

नीरे मङ्क्षुमिमङ्क्षुमार्तमुखरामुद्दिश्य चण्डद्युतेर्

दूरान्मण्डलतः कृपातुरतया यत्प्रादुरासीत्तदा ।

हा धिग्वागमृतेन तेन जनितस्तस्याः पुनः सङ्गम

प्रत्याशाङ्कुर उच्चकैर्मम सखे स्वान्तं हठाद्विध्यति ॥१०॥ ४८अ

(क्षणं तूष्णीं स्थित्व्â पुनरुच्चकैः)

प्रयातुं श्वाफल्कौ धृततुरगवल्गे चटलधीर्

निरुद्धा साक्रन्दं रथमधिरुरुक्षुः परिजनैः ।

उदस्रं सा दृष्टिं मयि विकिरती क्रूरमनसा

विलम्ब्याल्पं हा धिक्सुतनुरनुनीतापि न मया ॥११॥ ४८ब्

(ततः प्रविशति गन्धर्वैरनुगम्यमान उद्धवः पौर्णमासी मुखरा च ।)

उद्धवः ः देव! समानीतः पेशलोऽयं दिवानर्तकसम्प्रदायः । ४९

कृष्णः ः सूत्रधार, तूर्णमारभ्यतां तौर्यत्रिकम् । ५०

सूत्रधारः ः

निजम्मधुरिममुद्राम्लापितेन्दीवरश्रीर्

जयति परमजैत्रः कोऽपि राधाकटाक्षः ।

त्रिभुवनजयलक्ष्मीवर्यया दत्तदामा

मधुरिपुरपि येन क्रीडया निर्जितोऽभूत॥१२॥ ५१

कृष्णः (सहर्षं) ः साधीयानेष हृदयानन्दी नान्दीप्रयोगः । ५२

सूत्रधारः (पार्श्वतो विलोक्य) ः आर्ये ! केनापि चारुसन्धिना प्रबन्धेन जगद्बन्धोरस्य समाराधनाय कुलाचार्येण स्वर्गतः प्रेषितोऽस्मि । ५३

नटी (प्रविश्य) ः अज्ज, को क्खु सो दाब पबन्धो ? [आर्य, कः हलु स तावत्प्रबन्धः ?] ५४

सूत्रधारः ः

रसिकशिरोमणिरमणः सुलभो गोकुलनिवासिनामेव ।

सन्दर्भो गुणगर्भः स जयति राधाभिसाराख्यः ॥१३॥ ५५

तद्गीयतां मङ्गलध्रुवा ।

नटी ः अज्ज, कं रिदुमोलंबिअ गाइस्सं ? [आर्य, कं ऋतुमवलम्ब्य गास्यामि ?] ५६

सूत्रधारः ः आर्ये, पश्य पश्य—

श्रीरेषा नवमालिकासु मिलति प्रोज्झ्याद्य कुन्दावलीं

स्मर्तुं पञ्चमचातुरीं चिरपरित्यक्तां यतन्ते पिकाः ।

भाण्डीरात्परिपाण्डुराः स्फुटममी भ्रश्यन्ती यत्र च्छदाः

कालः कोऽप्ययमुज्ज्वलः स कुतुकी मन्दं परिस्पन्दते ॥१४॥ ५७

नटी ः

इह झंपिदा बि परिदो समीलदाए फुडं कढोराए ।

महुबेण होहि लहुणा ण माहबी अलुलिदत्थबऽ ॥१५॥

[इह झम्पितापि परितः शमीलतया स्फुटं कठोरया ।

मधुपेन भवति लघुना न माधवी अनुनीतस्तवका ॥] ५८

सूत्रधारः (सपरितोषम्) ः आर्ये, साधु साधु ! प्रस्तावोचितमेव तावदुपन्यस्तम् । तथा हि—

वृद्धया शश्वदारब्धनिरोधामपि राधिकाम् ।

निराबाधं सदा साधु रमयत्येष माधवः ॥१६॥

(इति निष्क्रान्तौ ।) ५९

(ततः प्रविशति) माधवः ः

लक्ष्मीवानिह दक्षिणानिलसखः साक्षान्मधुर्मोदते

माद्यद्भृङ्गविहङ्गहारिविहसत्यत्रापि वृन्दावनम् ।

राधा यद्यभिसारमत्र कुरुते सोऽयं महानेव मे

सान्द्रानन्दविलाससिन्धुलहरीहिन्दोलकोलाहलः ॥१७॥ ६०

मधुमङ्गलः (विहस्य) ः ही ही दासीए पुत्तएहिं सुरिंदपुरीभंडेहिं दुदिओ मे पिअबास्सो पच्चक्खीकिदो । [ही ही दास्याः पुत्रैः सुरेन्द्रपुरीभण्डैर्द्वितीयो मे प्रियवयस्यः प्रत्यक्षीकृतः ।] ६१

उद्धवः (सचमत्कारम्) ः

नवमुरलिमरालीहारिहस्तारविन्दः

कवलितकुरुविन्दच्छायगुञ्जाद्भुतश्रीः ।

मृदुलपवनचञ्चत्पिच्छचूडाञ्चलोऽयं

मदयति हृदयं मे श्यामिकानां विलासः ॥१८॥ ६२

श्रीकृष्णः ः

उद्गीर्णाद्भुतमाधुरीपरिमलस्याभीरलीलस्य मे

द्वैतं हन्त समीक्षयन्मुहुरसौ चित्रीयते चारणः

चेतः केलिकुतूहलोत्तरलितं सत्यं सखे मामकं

यस्य प्रेक्ष्य स्वरूपतां व्रजवधूसारूप्यमन्विच्छति ॥१९॥ ६३

तदद्य भवन्तं पृच्छामि । कथमनेनाविष्कृता ममापि मनोहारिणीयं सा कापि रूपचन्द्रिका । ६३

उद्धवः ः देव, भगवद्भक्तिप्रभावसम्भावितोऽयं देवर्षेरेव सेवापरिपाटीविवर्तः । ६४

कृष्णः (सहर्षम्)ः

प्रपद्य नटतां नटन्किमयमस्मि रङ्गस्थले

सदस्यथ सदस्यतां किमुपलभ्य पश्यामि वा ।

इति स्फुटविनिर्णये किमपि संविधानं पुरः

समीक्ष्य परमाद्भुतं निमिषमप्यहं न क्षमः ॥२०॥ ६५

माधवः ः

मतिर् अघूर्णत सार्धमलिव्रजैः

धृतिरभून्मधुभिः सह विच्युता ।

व्यकसदुत्कलिका कलिकालिभिः

सममिह प्रियया वियुतस्य मे ॥२१॥

तदिदानीं वेणुगीतसंज्ञया ललितामभ्यर्थयिष्ये । ६६

(इत्यधरे वेणुं विन्यस्य) ः

अक्ष्णोर्बन्धुं हरिहयहरिन्नागरिप्रागरिक्तां

रोगेणाविष्कुरु गुरुरुचं भानवीयां नवीनाम् ।

चक्राभिख्यः किमपि विरहादाकुलः काकूलक्षं

कुर्वन्मुख्यस्त्वयि स वयसामर्थिभावं तनोति ॥२२॥ ६७

श्रीकृष्णः ः (सकौतुकम्) किमशक्यं देवर्षिप्रसादस्य येनायमनन्यवेद्यामपि मदन्तरीणचर्यां विवृणोति । ६८

माधवः (सहर्षं) ः कथं नातिदूरे मनोहरिणहारिणी सैवेयं मञ्जुमञ्जरीरसिञ्जितकाकली । तदहं मधवीमण्डपं प्रविशामि । (इति निष्क्रान्तः) ६९

(ततः प्रविशति ललितयानुगम्यमाना राधिका)

राधिका (सौत्सुक्यं पुरो दृष्ट्वा) ः हला ललिदे, पेक्ख पेख धण्णा एसा तरंगलेहा जा खु सेवालबल्ली णिबद्धपाअं णं हंसिअं मोआबेदि । ता फुडं भिसिणीपत्तन्तरिदेण कलहंसेण संघडैस्सदि । [हला ललिते, पश्य पश्य धन्या एषा तरङ्गलेखा या खलु शैवालवल्लीनिबद्धपादामेनां हंसिकां मोचयति । तत्स्फुटं बिसिनीपत्रान्तरितेन कलहंसेन संघट्टिष्यति ।] ७१

ललिता (स्मित्वा) ः भो हंसि ! हंसबैणो पक्खबादेन च्चेअ उद्धुरा एसा तुमं कड्ढदि उर्मिमाला । ता बीसद्धा कन्तमहिसर । [भो हंसि ! हंसपतेः पक्षपातेनेव उद्धुरा एषा त्वां कर्षति ऊर्मीमाला । तद्विश्रब्धा कनातमभिसर ।] ७२

श्रीकृष्णः (सोत्कण्ठं) ः

उच्चैरभूदननुभूतचरी दशा मे

यस्याश्चिरेण विरहज्वरज्जर्जरस्य ।

हा हन्त सेयमियमामियमावरासीन्

मच्चित्तहंससरसी सरसीरुहाक्षी ॥२३॥

(इति सिंहासनादुत्थाय भुजाभ्यां ग्रहीतुं परिक्रामति ।) ७३

उद्धवः ः देव ! नाट्यप्रणीतोऽयमर्थः । ७४

श्रीकृष्णः (सधैर्यं लज्जामभिनीय) ः

सा वक्त्रश्रीर्विरमितशरच्चन्द्रनान्दीस्तवासौ

सेयं दृष्टिर्मदकलमृगीमृग्यमाधुर्यकेलिः ।

सा भ्रूरेषा रतिपतिधनुर्विभ्रमाभ्यासगुर्वी

गान्धर्वी मे क्षपयति धृतिं हन्त गान्धर्विकेव ॥२४॥ ७५

मुखराः हा णत्तिणि राहिए ! जीअसि ? [हा नप्त्रि राधिके ! जीवसि ।] (इति धावति) ७६

पौर्णमासी (पटाञ्चले धृत्वा) सौहृदान्धे ! गान्धर्वमिदं गन्धर्वाणाम् । ७७

मुखरा (सास्रम्) ः भाबदि, सूरमण्डलं भेत्तण लोअन्तरं गदा राही सग्गालएहिं गन्धब्बेहिमाणीदत्ति तक्केमि । [भगवति, सूर्यमण्डलं भित्त्वा लोकान्तरं गता राधा स्वर्गालयैर्गन्धर्वैः आणीतेति तर्कयामि ।] ७८

राधिका ः हला, ललिदे, पुप्फाहरणकोदूहलस्स णिएदादो तुए आणिज्जन्ती अहमबि णाम अज्जाए मुहराए दिट्ठाम्मि । [सखि ललिते, पुष्पाहरणकौतूहलाय निक्तनात्त्वया नीयमानाहमपि नाम आर्यया मुखरया दृष्टास्मि ।] ७९

ललिता ः न केअलमज्जाए मुहराए जडिलएबि । [न केवलमार्यया मुखरया जटिलयापि ] ८०

मुखरा (सबाष्पगद्गदम्) ः हा बच्छे सच्चं दारुणीए मए जालिदासि । [हा वत्से सत्यं मया दारुणया ज्वालितासि] ८१

मधुमङ्गलः (सरोषम्) ः रक्खसि बुड्ढिए दाणिं मा क्खु अलिअं पेम्मं पाडेहि जा क्खु घरोबन्तबाडिआपेरन्ते च्चेअ मं दिट्ठिअ कुक्कुरीब्ब बुक्कसि । [राक्षसि वृद्धे इदानिं मा खकु अलिकं प्रेम प्रकटय यथा खलु गृहोपान्तवाटिकापर्यन्त एव मां दृष्ट्वा कुक्कुरीव शब्दायसे ] ८२

मुखरा ः अज्ज महुमङ्गल किं करिस्सं? अप्पाअसिदरहस्साए वञ्चिताम्मि भाबदीए । [आर्य मधुमङ्गल, किं करिष्ये? अप्रकाशितरहस्यया वञ्चितास्मि भगवत्या ] ८३

श्रीराधा ः हला ज{इ} दिट्ठम्हि, तदो उबाअं बाहरेहि । [हला यदि दृष्ठास्मि, तदा उपायं व्याहर ।] ८४

ललिता ः हन्त मन्थरे ! पन्तरं परिहरिअ कलम्बसम्बाहेण कालिन्दीतीर मग्गेण तुरिअं गच्छम्ह । [हन्त मन्थरे ! प्रान्तरं परिहृत्य कदम्बसम्बाधेन कालिन्दीतीरमार्गेण त्वरितं गच्छामः ।] ८५ (इत्युभे परिक्रामतः ।)

श्रीराधा ः सहि पिसुणेहिं णेउरेहिं किं त्ति संगमिदम्हि ? [सखि पिशुणैर्णूपुरैः किमिति सङ्गमितास्मि ?] ८६

ललिता ः बिदक्कसीलाए जडिलाए बुद्धिं मोहेदुम् । [वितर्कशीलया जटिलाया बुद्धिं मोहयितुम् ।] ८७

(प्रविश्य) जटिला (पुरं पश्यन्ती) ः कहं दिष्ठिपहे न लक्खिज्ज{इ} बारिसहाणवी ? ता कहिं णं मग्गिस्सं ? (भुवस्तलमवलोक्य सहर्षं) इमाइं बहूए पदाइं दीसन्ति जं कुण्डलाइदीए सोहग्गमुद्दाए अङ्किदाइं, ता इमिणा मग्गेण मग्गिस्सम् । [कथं दृष्टिपथे न लक्ष्यते वार्षभाणवीं ? तत्कुत्र एनां मार्गयिष्यामि ? इमानि वध्वाः पदानि दृश्यन्ते यत्कुण्डलाकृत्या सौभाग्यमुद्रया अङ्कितानि, तदनेन मार्गेण मार्गयिष्यामि ।] ८८

श्रीराधा ः हला ! अज्ज मए आउरुब्बं किम्पि सिबिणे अनुहूदम् । [सखि ! आर्य मया अपूर्वं किमपि स्वप्नेऽनुभूतम् ।] ८९

ललिता ः सहि, किं तं ? [सखि, किं तत्?] ९०

श्रीराधा ः हला लबंगकुडुङ्गे आहरन्ती तुमं बुंदाअणबासिणा मत्तकलहिन्देण आअदुअ हत्थेण गहीदहत्थासि संबुत्ता । तदो संभमेन घुस्मन्तीए तुह हढेण ओट्ठपल्लां डंसन्तेण तिना बामे त्थबास्मि फुरन्ततिक्खकामङ्कुसं करपुक्खरम् । [हला लवङ्गकुञ्जे आहरन्ती त्वं वृन्दावनवासिना मत्तकलभेन्द्रेण आगत्य हस्तेन गृहीतहस्तासि संवृत्ता । ततः सम्भ्रमेन घूर्णन्त्यस्तव हठेण ओष्ठपल्लवं दंशता तेन वामे स्तवके स्फुरत्तीक्ष्णकामाङ्कुशं करपुष्करम् ।] (इत्यर्धोक्ते सरोमाञ्चमानम्रमुखी भवति ।) ९१

ललिता (स्मित्वा) ः अपि सरले, तुज्झ हिअए कत्थूरिआपत्तभंगं लिहन्तीए मए पच्चक्खीकिदा सिविणसंगिणाअरकुंजर बिब्भमासि । ता फुडं कधेहि, तैअजणसंगजोग्गे तस्मिमोसरे दीहसुत्ता नीवीसहारी झत्ति णिक्कन्ता ण वेत्ति । [अयि सरले! तव हृदये कस्तूरिकापत्रभङ्गं लिखन्त्या मया प्रत्यक्षीकृता स्वप्नसङ्गिनागरकुञ्जरविभ्रमासि । तत्स्फुटं कथय । तृतीयजनसंयोग्ये तस्मिन्नवसरे दीर्घसूत्रा नीवीसहचरी झटिति निष्क्रान्ता न वेति ] ९२

राधिका (स्वगतम्) ः कधं तक्किदमक्खिधुत्ताए । (प्रकाशम्, सभ्रूभङ्गम्) वामे, कित्ति अलिअमासंकसि? [कथं तर्कितमतिधूर्तया? वामे, किमित्यलीकमाशङ्कसे ?] ९३

जटिला ः णूणं नूउरसद्देन आहड्ढिदा एदे हंसा हंसणंदिणीजलादो बणे धाअन्ति । ता बहूडिआ णादिदूरे हुबिस्सदि । [नूनं नूपुरशब्देन आकर्षिता एते हंसा हंसनन्दिनीजलात्वने धावन्ति । तद्वधूटिका नातिदूरे भविष्यति ।] ९४

उद्धवः ः अहो ! जरतीनामपि बुद्धिकौशलम् । ९५

ललिता (स्वगतम्) ः पुरदो माहबीमण्डबे माहबेण होदब्बम् । [पुरतो माधवीमण्डपे माधवेन भवितव्यम् ।]

(ततः प्रविशति वृन्दयानुगम्यमानो माधवः ।) ९६

माधवः (समन्तादवलोक्य) ः

हेतुर्मे हृदयोत्सवस्य विविधः कामं क्रमाद्वर्धताम्

प्रप्नोत्यस्य गुणाधिरोहपदवीं राधाभिसारस्य कः ?

यस्मिन्नल्पतरं मनोरथतटीसीमामपि प्रापिते

सान्द्रानन्दमयी भवत्यनुपमा सद्यो जगद्विस्मृतिः ॥२६॥ ९७

श्रीकृष्णः (पौर्णमासीमवेक्ष्य) ः हन्त वत्सले ! गुरोरपि गुर्वी त्वमेव सर्वदा मां विनोदयितुं कोविदासि, यदद्य नाट्यकलाच्छलेन दुर्लभे तत्र गोकुलविलासे पुनः प्रवेशितोऽस्मि । ९८

राधिका (माधवमवलोक्य, सानन्दमात्मगतम्) ः भो भावं, आणन्दपज्जण्ण, ण क्खु रुन्धीऐ जलासारेण उक्कंठिदा तवस्सिणीहि मे दिट्ठीचौरी । क्खणं पिबेदु एसा दुल्लहमिमस्स मुहचन्दस्स जोण्हम् । [भो भगवन्, आनन्दपर्जन्य, न खलु रुन्ध्यतां जलासारेणोत्कण्ठिता तपस्विनी मे दृष्ट्चकोरी । क्षणं पिबत्वेषा दुर्लभामस्य मुखचन्द्रस्य ज्योत्स्नम् ।] (इति नासया फुत्कुर्वन्ती सलीलं रोदिति ।) ९९

ललिता—हला किंत्ति ममुबालहेसि? देब्बसंघडिदं क्खु एदं, किं करिस्सम् । [किमिति माम उपलभसे दैवसङ्घटितं खल्वेतत। किं करिष्यामि ?] १००

कृष्णः (राधामवेक्ष्य, सहर्षम्) ः

धावत्याक्रमितुं मुहुः श्रवणयोः सीमानमक्ष्णोर्द्वयी

पौष्कल्यं हरतः कुचौ बलिगुणैरारब्धमानं ततः ।

मुष्णीतश्चलतां भ्रुवौ चरणयोरुद्यद्धनुर्बिभ्रमे

राधायाः तनुपत्तने नरपतौ बाल्याभिधे शीर्यति ॥२७॥ १०१

ललिता (संस्कृतेन) ः

जङ्घाधस्तटसङ्गिदक्षिणपदं किञ्चिद्विभुग्नत्रिकम्

साचिस्तम्भितकन्धरं सखि तिरःसञ्चारिनेत्राञ्चलम् ।

वंशीं कुट्मलिते दधानमधरे लोलाङ्गुलीसङ्गतां

रिङ्गद्भ्रूभ्रमरं वराङ्गि परमानन्दं पुरः स्वीकुरु ॥२८॥ १०२

जटिला (सानन्दम्) ः एसा डाहिणे बारिसहाणबी । (उपसृत्य) ऐ अहिसारसग्गावेज्झाइणि ललिदे, एण्हिं पुत्तौ मे अहिमण्णु बिदूरे गदोत्थि, ता सुण्णं घरं मुक्किअ कीस तुए आणीदा बहुडी । [अयि अभिसारमार्गोपाध्यायिनि ललिते! इदानीं पुत्रको मेऽभिमन्युर्विदूरे गतोऽस्ति । तत्शून्यं गृहं मुक्त्वा कस्मात्त्वया नीत्âत्र वधूटी ?] १०३

ललिता (सशङ्कमात्मगतम्) हद्धी ! हद्धी ! डाइनीए अडाहिणपैदीए ड्दहिठम्मि बुठ्ठिआए । (प्रकाशम्) अय्ये गग्गीए भणिदमज्ज माहबीपुप्फेहिं पूइदो सूरो सुरहिकोड्प्पदो होदुत्ति माहबीमण्डबं लंहिखदा मए राहिआ, ता प्पसीद प्पसीद । [हा धिक्! डाकिन्या दक्षिणप्रवृत्त्या दग्धास्मि वृद्धया । आर्ये, गार्ग्या भणितम्, अद्य माधवीपुष्पैः पूजितः सूर्यः सुरभिकोटिप्रदो भवति । इति माधवीमण्डपं लम्भिता मया राधिका । तत्प्रसीद प्रसीद । १०४

जटिला ः (अपवार्य, सालीकस्नेहम्) अयि बच्छे, सदा मं पलोहिअ ललिदा अहिसारेदि त्ति मह पुत्तस्स पुरदो बहूडिआ अलिअं जेब्ब तुमं सन्दूसेदि । ता कित्ति लाहवं सहेसि । [अयि वत्से, सदा मां प्रलोभ्य ललिता अभिसारयति इति मम पुत्रस्य पुरतो वधूटिकालीकमेव त्वां दूषयति । तत्किमिति लाघवं सहसे? ।] १०५

ललिता (स्वगतम्) ः अम्महे कोडिल्लं जडिलाए । [आश्चर्यं कौटिल्यं जटिलायाः ।]] १०६

माधवः (स्वगतम्)

यत्रासङ्गो मनसः, स्फुरति गरीयान्गरीयसोऽप्युच्चैः ।

नियतो वस्तुनि विघ्नस्तस्मिन्निति नानृतो वादः ॥२८॥ १०७

(इति दृगन्तेन राधां पश्यन्नुपसर्पति ।)

जटिला (नासिकाग्रे तर्जनीं विन्यस्य स्थिता धुन्वन्ती साश्चर्यम्) अरे बालिआभुजङ्ग! कं डंसिदुमेत्थ भम्मसि । [अरे बालिकाभुजङ्ग! कां डंशितुमत्र भ्राम्यसि ।] १०८

माधवः ः लम्बोष्ठि! भवतीमेव गोष्ठपिशाचीम् । १०९

(उद्धवः स्मितं करोति ।)

श्रीकृष्णः ः

गोकुलकुलजरतीनां परुषा वागपि यथा प्रमोदयति ।

स्तुतिरपि महामुनीनां मधुरपदा मां सखे न तथा ॥२९॥ ११०

वृन्दा—वृद्धे, धरचकोरजीवातुचरितामृतचन्द्रिके कृष्णचन्द्रेऽपि कथं प्रतीपं भुजङ्गभावमर्पयसि? १११

जटिला (सोल्लुण्ठं विहस्य, संस्कृतेन)

व्रजेश्वरसुतस्य कः परवधूविनोदक्रिया

प्रशस्तिभरभूषितं गुणमवैति नास्य क्षितौ ।

यदेष रतितस्करः पथि निरुध्य साध्वीर्बलात्

तदीयकुचकुट्मले करजमों नमो विष्णवे ॥३०॥ ११२

श्रीराधा (स्वगतम्) ः हा हददेब्ब ! किन्ते अबरद्धा राही ? [हा हतदैव ! किं ते अपराद्धा राधा ।] ११३

जटिला ः ऐ मुद्धे बहुडि ! इमस्स कालकुण्डलिणो तिक्खाए बङ्कदिट्ठिए फंसिदा बज्जपडिमाबि जजरीहोइ । किमुण तुमं णोमालिआसुउमाली तबस्सिणी । त्ता तुरिअं घरगब्भं गच्छम्ह । [अयि मुग्धे वधुटि ! अस्य कालकुण्डलिनः तीक्ष्णया वक्रदृष्ट्या स्पृष्टा वज्रप्रतिमापि जर्जरी भवति । किं पुनस्त्वं नवमालिकासुकोमला तपस्विनी । तत्त्वरितं गृहगर्भं गच्छामः ।] ११४

(इति ललिताराधाभ्यां सह निष्क्रान्ता ।)

वृन्दा ः नागरेन्द्र ! मुञ्च वैमनस्यम् । साम्प्रतं भवदभीष्टसिद्धये शारिकामुखेन ललितां सन्दिश्य विशाखया भवन्तं निवेदयिष्यामि । (इति निष्क्रान्ता) ११५

माधवः (सखेदम्) ः

द्रवति मनागभ्युदित्यद्

विधुकान्ते शिशिरभानुजालोकात।

पर्वणि पिधानमकरोद्

अहह स्वर्भानुभीषणा जरती ॥३१॥

(निःश्वस्य) विशाखामुद्देष्टुं जटिलागृहोपान्तपाटलीवाटिकां गच्छेयम् । (इति परिक्रम्य) कथमग्रे स्वगृहाङ्गणमभिमन्युरधितिष्ठति ? तदहमत्रैव क्षणमन्तरितो भवेयम् । (इति निष्क्रान्तः) ११६

(प्रविश्य) अभिमन्युः ः तिण्णि उबसरिआ सऽइं मुल्लेण गेण्हिदुं गेहादो कञ्चणं न{इ}स्सं ता कहिं गदा अम्मा ? [त्रीणि उपसर्या शतानि मूल्येन ग्रहीतुं गृहात्काञ्चणं नेष्यामि । तत्कुत्र गता माता ?] ११७

(प्रविश्य) जटिला ः हन्त हन्त ! दाणिं सारीए सुअस्स कहिज्जन्तं णिहुदं मए सुदं, जमहिमण्णुबेसेण माहबो एण्हिं मह घरमुपसप्पिस्सदि, ता गदुअ पेक्खिस्सम् । [हन्त हन्त ! इदानीं शार्या शुकाय कथ्यमानं णिभृतं मया श्रुतं, यदभिमन्युवेशेन माधवो इदानीं मम गृहमुपसर्पिष्यति, तद्गत्वा प्रेक्षिष्यामि] (इति परिक्रामन्ती द्वारि दूरादभिमन्युमालोक्य) अब्बो ! सच्चं च्चेअ एसो धुत्तो आअदो, ता गदुअ पामाणिअं जणमानिस्सम् । [आश्चर्यं ! सत्यमेव एष धूर्त आगतः, तद्गत्वा प्रामाणिकं जनमानेष्यामि ।] ११८

अभिमन्युः ः बिसाहे, कुत्थ बट्ठसि ? [विशाखे, कुत्र वर्तसे?] ११९

(प्रविश्य) ललिता (स्वगतं) ः एत्थ कण्हं पेसिदुं सारीबाणेण बिसाहा गदा । [अत्र कृष्णं प्रेषितुं शारीवचनेन विशाखा गता ।] (प्रकाशं लज्जामभिनीय मीचैः) सुहा ! एत्थ बिसाहा णत्थि । [सुभग ! अत्र विशाखा नास्ति ।] १२०

(ततः प्रविशति गार्गीभारुण्डाकुन्दलताभिरावृता जटिला ।)

जटिला ः कुन्दलदे, पेक्ख अप्पणो सहीए सोसील्लम् । [कुन्दलते, पश्य आत्मनः सख्याः सौशील्यम् ।] १२१

कुन्दलता (दृष्ट्वा मुखमानमयन्ती) ः हा देब्ब ! रक्ख रक्ख । [हा दैवम्! रक्ष रक्ष ।] १२२

भारुण्डा ः अज्जे गग्गि, पेक्ख पेक्ख ! पच्चक्खो अहिमण्णु जेब्ब संबुत्तो एसो र{इ}णाअरो तुह कण्हो, ता अलिअं ण जल{इ} जडिला मे सही । [आर्ये गर्गि, पश्य पश्य! प्रत्यक्षोऽभिमन्युरेव संवृत्त एष रतिनागरस्तव कृष्णः, तदलीकं न ज्वलतिजटिला मे सखी ।] १२३

जटिला ः अज्जे गग्गि! दिट्ठिआ दाणिं पत्तिआइदं तुए । ता अग्गदो सण्णिहिज्जौ । ] आर्ये गर्गि ! दिष्ट्येदानीं प्रत्यायितं त्वया । तदग्रतः सन्निधीयताम् ।] (पृष्ठतः परिक्रम्य पुत्रस्य हस्तमाकर्षन्ती साक्षेपम्) रे गोउलकिसोरीलंपडओ, अरे परघरलण्ठनओ । कहं तुमं बि अप्पणो पुत्तं मण्णिस्सदि जडिला ? [रे गोकुलकिशोरीलम्पट, अरे परगृहलुण्ठक । कथं त्वामप्यात्मनः पुत्रं मंस्यति जटिला ।] १२४

(अभिमन्युः सलज्जं मुखमावृत्य व्यावर्तयति ।) १२५

जटिला ः अरे आहिण्डिआ कीस मुखं ढकेसि? जं दे बिज्जा न बिक्काइदा । [अरे आहिण्डिक! कस्मान्मुखमाच्छादयसि? यत्ते विद्या न विक्रीता ।] (इति प्रसह्य सम्मुखयति) १२६

अभिमन्युः (स्वगतम्) ः हद्धी हद्धी बाउलिऽए अम्माए लज्जापज्जाउलो किदम्हि । ता इदो अबक्कमिस्सम् । [हा धिक्, हा धिक्! बातूलिकया अम्बया लज्जापर्याकुलः कृतोऽस्मि । तदितोऽपक्रमिष्यामि ।] (इति परिक्रामति) १२७

जटिला (धावन्ती पटाञ्चलमाकृष्य) ः रे चोर ! एसो दिढं गहिदोसि, कहं पलाएसि ? [एष दृढं गृहीतोऽसि, कुत्र पलायसि ?] १२८

अभिमन्युः (सापत्रपं व्याघुट्य) ः अक्क भारुण्डे ! णूणं जणणी मे भूदाहिभूदा संबुत्ता । [हे भारुण्डे ! नूनं जननी मे भूताभिभूता संवृत्ता ।] १२९

जटिला (मुखं निभाल्य स्वगतं) ः हद्धी हद्धी ! पमादो पमादो ! कहं पबासादो पुत्तो च्चेअ मे समाअदो ? [हा धिखा धिक्! प्रमादः प्रमादः ! कथं प्रवासात्पुत्र एव मे समागतः ?] (इति सापत्रपमुरस्ताडयन्ती निष्क्रान्ता ।) १३०

भारुण्डा ः बच्छ ! सच्चमुन्मत्ता दे अम्मा, जं तुमं च्चेअ माहबं मण्णेदि । [वत्स ! सत्यमुन्मत्ता ते माता, यत्त्वामेव माधवं मन्यते ।] १३१

(अभिमन्युः स्मितं करोति ।) १३२

कुन्दलता ः बीर अहिमण्णो, पुण्णबदी मे सही राहा । जाए दक्खिणा सच्चबादिणी सिणिद्धा तुम्ह मादा सुस्सू लद्धा । ता अम्हे गदुअ एदमौरुब्बं से णच्चणं भावदीए णिबेदम्ह । [वीराभिमन्यो! पुण्यवती मे सखी राधा, यया दक्षिणा सत्यवादिनी स्निग्धा तव माता श्वश्रूर्लब्धा । तस्त्वयं गत्वा एतदपूर्वमस्या जटिलाया इत्यर्थः नर्तनं भगवत्यै निवेदयामः ।] १३३ (इति तिस्रः निष्क्रान्ताः ।)

अभिमन्युः ः ललिदे ! आणेहि मादबं, जं तुरिअं गन्तुकामोम्हि । [ललिते ! आनय माधवं, यत्त्वरितं गन्तुकामोऽस्मि ।] १३४

ललिता (निष्क्रम्य पुनः प्रविश्य च) ः बीर, तुम्ह पुरदो आअन्तुं लज्जेदि अज्जा । [वीर ! त्त्वत्पुरत आगन्तुं लज्जते आर्या ।] १३५

अभिमन्युः ः होदु, सां च्चेअ पेडिआदो कञ्चणं घेत्तूण गमिस्सम् । [भवतु, स्वयमेव पेटिकातः काञ्चणं गृहीत्वा गमिष्यामि ।] १३६

श्रीकृष्णः ः सख्ये मन्त्रिराज ! परमानन्दमिदमनुभूतमेवानुभाव्यमानोऽस्मि चारणैः । १३७

(प्रविश्य) वृन्दा ः ललिते ! लघु पलायस्व, लघु पलायस्व ! पश्य परावर्तते मन्युमानेषोऽभिमन्युः । १३८

ललिता (सशङ्कमालोक्य) ः दारुणसन्दिट्ठिअं महुरोदक्कमिमस्स पेक्खणं पडिभादि, ता कलिदाहिमण्णुरूबेण माहबेण होदब्बम् । [दारुणसान्दृष्टिकं मधुरोदर्कमस्य प्रेक्षणं प्रतिभाति, तस्मात्कलिताभिमन्युरूपेण माधवेन भवितव्यम् ।] १३९

वृन्दा (सानन्दम्) किं नाम राधासखीनां धियामक्षुण्णं पश्य पश्य ।

मन्दा सान्ध्यपयोदसोदररुचिः सैवाभिमन्योस्तनुर्

वक्त्रं हन्त तदेव खर्वटघटीघोणं विगाढेक्षणम् ।

व्यस्ता सैव गतिः करीरकुसुमच्छायं तदेवाम्बरं

मुद्रा कापि तथाप्यसौ पिशुनयत्यस्य स्वरूपच्छटाम् ॥३२॥ १४०

(ततः प्रविशत्यभिमन्युवेशो माधवः ।)

माधवः ः

परितः परिवर्तितं ह्रिया कलितभ्रूकुटिकुञ्चितेक्षणम् ।

मधुरद्युतिराधिकामुखं परिपास्यामि कदा बलादहम् ॥३३॥

(पुरो दृष्ट्वा) ललिते ! क्व सा ते सखीच्छद्मा जीवितौषधिः ? १४१

ललिता ः हला राहे इदो दाब । [सखि राधे ! इतस्तावत।] १४२

(प्रविश्य) श्रीराधा (सलज्जस्मितमात्मगतम्) ः

अणहिट्ठो बि पदत्थो पिएण अङ्गीकिओ सुहाबेदि ।

गरले बि गिरिसगहिए गुरुअं गोरी ण किं रम{इ} ॥३४॥

अनभीष्टोऽपि पदार्थः प्रियेणाङ्गीकृतः सुखापयति ।

गरलेऽपि गिरीशगृहीते गुरुकं गौरी न किं रमते ॥ १४३

माधवः ः ललिते, हस्तगता मे महानिधिसम्पत्प्रतीयताम् । १४४

ललिता ः ज{इ} सा जक्खिणी बिग्घं ण करेदि । [यदि सा यक्षिणी विघ्नं न करोति ।] १४५

(प्रविश्य) जटिला (सहर्षं) ः बहुडिए ! दिट्ठिआ अज्ज तुमं सुबुद्धिआ संबुत्ता जं पुत्तस्स मे दिट्ठिमग्गे गदासि । [वधूटिके ! दिष्ट्या अद्य त्वं सुबुद्धिकासि संवृत्ता, यत्पुत्रस्य मे दृष्टिमार्गे गतासि ।] १४६

(सर्वे सम्भ्रमं नाटयन्ति ।)

जटिला ः पुत्त अहिमण्णो ! सञ्झारम्भे दिट्ठी मे सुट्ठु ण उन्मील{इ} । [पुत्र अभिमन्यो सन्ध्यारम्भे दृष्टिर्मे सुष्ठु नोन्मीलति ।] १४७

माधवः (सहर्षस्मितं) ः अक्क ! तह अञ्जणं दाइस्सं, जह समग्गदमा दे दिष्ठी होइ । [हे अम्ब ! तथाञ्जनं दास्यामि, यथा समाग्रतमो ते दृष्टिर्भवति ।] १४८

श्रीकृष्णः (मन्दं मन्दं विहस्य) ः सखे मन्त्रिराज ! दिष्टाद्य भवता गोकुलकेलिसुधासिन्धुउलिनेऽवतीर्णम् । १४९

जटिला (सानन्दं) ः बच्छ, कीस तुए आआरिदम्हि ? [वत्स ! कस्मात्त्वया आकारितास्मि ।] १५०

वृन्दा ः साम्प्रतं प्रदोषनिषेव्यां गोमङ्गलां देवीमारिराधयिषुरसौ त्वामनुज्ञापयति । १५१

माधवः ः अक्क बहू दे मए सद्धं चेच्चतरुणो मूले गन्तुं ण इच्छदि । [हे अम्ब ! वधूस्ते मया सार्धं चैत्यतरोर्मूले गन्तुं नेच्छति ।] १५२

जटिला ः जादे राहि ! एक्कं गुरुअणस्स मे बाणं पडिबालेहि, तुण्णं जाहि इमिणा कन्तेण सद्धम् । [जाते राधे ! एकं गुरोर्मे वचनं प्रतिपालय, तूर्णं याहि अनेन कान्तेन सार्धम् ।] १५३

श्रीराधा (स्वगतं) ः अम्महे ! अच्चरिओ बिही ! (प्रकाशं) ललिदे असुत्थदेहम्हि ता बिण्णबेहि णम् । [आश्चर्यमाश्चर्यो विधिः ! ललिते, असुस्थदेहास्मि, तत्विज्ञापय एनां जटिलामित्यर्थः ।] १५४

जटिला ः कुलपुत्ति ! सिरेण मे साबिदासि । [कुलपुत्रि, शिरसा मया शप्तासि ।] १५५

माधवः ः ललिदे, कुडुङ्गे मङ्गलरङ्गजाअरमज्ज अम्हे करिस्सम्ह, ता चन्दणगन्धोबहारं सम्पादिअ लम्भेहि । तत्थ पसाहिअमहं किर पढमं साहेमि । [ललिते, कुञ्जे मङ्गलरङ्गजागरणमद्य वयं करिष्यामः, तच्चन्दनगन्धोपहारं सम्पाद्य लम्भय । तत्र प्रसाधितामहं किल प्रथमं साधयामि ।] (इति सर्वाभिः सह निष्क्रान्तः ।) १५६

श्रीकृष्णः (पौर्णमासीं प्रणम्य) ः भगवति ! सन्दीपितार्तिरहं न समर्थोऽस्मि धृतिमालम्भितुम्, किं करवै ? १५८

पौर्णमासी (स्वगतम्) ः प्रथमकल्पे व्यतीते चन्द्रावलिरेवात्र साम्प्रतहनुकल्पः । तदद्य सान्दीपनिमन्दिरप्रयाणकैतवेन कुण्डिनमुपयास्यामि । १५९

श्रीकृष्णः ः भगवति ! वडभीमधिरोढुमनुज्ञापयामि (इति सर्वैः सह निष्क्रान्तः ।) १६०

(इति निष्क्रान्ताः सर्वे ।)

इति श्रीश्रीललितमाधवनाटके

राधाभिसाराख्यगर्भाङ्कगर्भो नाम

चतुर्थोऽङ्कः

॥४॥

************************************************************************

.

(५)

पञ्चमोऽङ्कः

चन्द्रावलीलाभः

(ततः प्रविशति पौर्णमासी)

पौर्णमासी ः

शार्ङ्गिण्यलीकपरिवादशतार्पणेन

जातोरुपातकमलीमसमानसानाम् ।

सेयं गिरीशगिरिगौरवितैर्नृपाणां

दूष्यैर्विदर्भनगरी परिदूषितास्मि ॥१॥ १

नेपथ्ये ः

ऋद्धा सिद्धिव्रजविजयिता सत्यधर्मा समाधिर्

ब्रह्मानन्दो गुरुरपि चमत्कारयत्येव तावत।

यावत्प्रेम्णां मधुरिपुवशीकारसिद्धौषधीनां

गन्धो ऽप्यन्तःकरणसरणीपान्थतां न प्रयाति ॥२॥ २

पौर्णमासी (विलोक्य सहर्षम्) ः

भुजतटविलुठज्जटाञ्चलोऽयं

मधुरिपुकीर्त्युपवीणनप्रवीणः ।

उदयति शरदिन्दुरोचिरच्छः

कथमिह कच्छपिकाकरः ॥३॥ ३

(नारदः प्रविश्य ऋद्धेत्यादि पद्यं पठति ।)

पौर्णमासी ः भगवन्नभिवादये । ४

नारदः ः मुकुन्दस्य प्रियम्भावुकी भव । ५

पौर्णमासी ः भगवन्, श्रुतो मुकुन्दः मथुरातः प्रतस्थे ।

नारदः ः अथ किम् ।

हुत्वा म्लेच्छाधिराजं पुरमथनवरान्माथुराणामबध्यं

स्वच्छन्दं कन्दरान्तर्नयनजदहने मौचकुन्दे मुकुन्दः ।

भूयो भूयः कदर्थीकृतकुटिलजरासन्धदुष्टाभिसन्धिः

सिन्धोस्तीरे सबन्धुर्नगवति नगरे द्वारकायामयासीत॥४॥ ७

पौर्णमासी ः भगवन्! बलीयसा स्नेहानलेनास्यास्तनोरन्तिमेष्टौ सम्प्रवृत्तायां दिष्ट्याद्य दृष्टोऽसि । ८

नारदः ः वत्से ! स्फुटमेकेनापि चन्द्रमसा पौर्णमासी सुसमृद्ध्यति किमुत पूर्णकलया चन्द्रावल्या । ९

पौर्णमासी (सास्रम्) ः भगवन्! असाधारणदर्शं चन्द्रावलेः प्रतिपक्षपक्षपरार्धमुपान्तसीमनि वर्तते । ततः कथं पौर्णमास्याः समृद्धिवार्तापि ? १०

नारदः ः पुत्रि ! न वराकात्मपक्षासि । कुतस्ते बहुलविपक्षतो भयं ? ११

पौर्णमासी ः नितान्तमियं हरिणोज्झिता संवृत्ता महाकान्तिश्चास्याः स्वसाराधिका व्यतीता । कुतो न भीतिः ? १२

नारदः ः किमद्याप्येतां राधिकाशोको बाधते ? १३

पौर्णमासी ः अथ किम् । यदियं बन्धुवत्सला रुक्मिणी । १४

नारदः ः केनेयं रुक्मिणीति विश्राविता ? १५

पौर्णमासी ः रुक्मिणस्तातेन । १६

नारदः (क्षणं प्रणिधाय स्वगतम्)ः नन्वेताः पुरव्रजरमण्यः समानत्वादपि विग्रहादिभिर्भिन्ना एव । यदद्यापि व्रज एव सा व्रजरमण्यः प्रेममूर्च्छिता वर्तन्ते, किन्तु योगमाययैव विप्रयोगेऽपि प्रियसङ्गसुखसङ्गमनाय तत्रैवाच्छाद्य पुररमणीषु स्वाभेदाभिमानेनावेशिता दीर्घस्वप्न इव यास्तूद्धवयानकुरुक्षेत्रयात्रयोर्वृत्तवर्त्स्यमानचरित्रास्ताः खल्वष्टोत्तरैकशतषोडशसहस्रतस्तस्मादन्या एव । तदलं तद्रहस्योद्घाटनेन । (प्रकाशम्) किमध्यवसितं भीष्मकस्य ? १७

पौर्णमासी ः यादवेन्द्रे चन्द्रावलीसमर्पणम् । १८

नारदः ः ततः किमित्याकुलासि ? १९

पौर्णमासी ः प्रतिकूले रुक्मिणि कोऽयं भीष्मकस्तपस्वी ? २०

नारदः ः विदर्भकुमारस्य किमारिप्सितं ? २१

पौर्णमासी ः चेदिपतेरभ्यर्थनपूरणम् । २२

नारदः ः कथमेतद्भवत्यावधारितं ? २३

पौर्णमासी ः रुक्मिण्यां पद्यस्य प्रेषणेन । २४

नारदः ः पठ्यतामिदम् । २५

पौर्णमासी ः

प्रणयो दमघोषनन्दने

शिशुपाले तव यौवनाञ्चिते ।

नरदेववरे श्रुतश्रवो

हृदयानन्दिगुणे विजृम्भताम् ॥५॥ २६

नारदः ः ततः किमध्यवसितं तया ? २७

पौर्णमासी ः तदेव परिवर्तितपञ्चाक्षरं सञ्चारितम् । यथा—

प्रणयो मम घोषनन्दने

पशुपाले तव यौवनाञ्चिते ।

परदेववरेऽद्भुतश्रवो

हृदयानन्दिगुणे विजृम्भताम् ॥६॥ २८

नारदः (विमृश्य) ः ततस्ततः ? २९

पौर्णमासी ः ततस्तदालोक्य शङ्कितकृष्णोपसत्तिना युवराजेन दुष्टराजन्यके निमन्त्र्य कुण्डिनमानेष्यमाणे पर्याकुलया वत्सया मामनुमन्त्र्य सुनन्दनाम्ना भूसुरेण मुकुन्दाय पत्रिका हारिता । ३०

नारदः ः सा किंविधा ? ३१

पौर्णमासी ः

अचिरं निरस्य रसितैः प्रतिपक्षं राजहंसनिकुरम्बम् ।

कृष्णघनस्त्वाममृतैस्तृषितां चन्द्रकवतीं सिञ्च ॥७॥ ३२

नारदः ः नूनमस्य भूसुरस्य पुनरावृत्तिर्न वृत्तास्ति । ३३

पौर्णमासी ः अथ किम् । यदत्र दैवं रुक्मिण्यनुकूलम् । ३४

नारदः ः जगदाश्चर्यचातुर्यया किमित्यनुलोमितस्त्वया न रुक्मी । ३५

पौर्णमासी ः मम चातुर्यमाध्वीकेनैव द्विगुणीकृतदुर्मदेन रुक्मिणा चेदिपतेराबुत्तभावाय कुलदेवी चन्द्रभागा यागाद्युपचारैस्तथाराधिता यथा तदभीष्टमेव प्रत्यादिदेश । ३६

नारदः ः कीदृशमिदं ? ३७

पौर्णमासी ः

विरचयन्जननीमतिविस्मितां

भुजचतुस्टयवानजनिष्ट यः ।

स भगिनीं तव शूरसुतात्मजो

यदुवरः परिणेष्यति रुक्मिणीम् ॥८॥ ३८

नारदः (सस्मितम्)ः प्रतारितमेव तारकारिजनन्या दुर्जनं जानीहि । ३९

पौर्णमासी ः भगवन्! कुतः प्रतारणं ? यतः,

दूरे द्वारवतीन्द्रो मलिनीकुरुतेऽद्य कुण्डिनं खलिनी ।

पारेवारिधि गरुडो दिदङ्क्षवः पार्श्वतो भुजङ्गाः ॥९॥ ४०

(प्रविश्य) सुनन्दः ः भगवति ! निर्भरमदूर एव विदर्भपुरे द्वारवतीन्द्रः । ४१

पौर्णमासी (सानन्दं) ः सुनन्द, बाढमभिनन्दनीयोऽसि सन्देशहरः । ४२

सुनन्दः ः कृतमभिनन्दनेन, दिष्टान्धस्य मे बन्ध्या बभूव सन्देशहरता । ४३

पौर्णमासी (साशङ्कं)ः कथमिव । ४४

सुनन्दः ः षष्ठ्यामियं पत्रिका पत्रिराजपस्य । ४५

नारदः (पत्रिकां वाचयति) ः

निखिलाः शिखिनीर्नयन्नपि सुखानि जात्यासितापाङ्गीः ।

रमयति कृष्णः सुघनो वृन्दावनगन्धिनीरेव ॥१०॥ ४६

पौर्णमासी ः हन्त ! चन्द्रावलीति नावगतं माधवेन । ४७

नारदः ः सुनन्दः कुतस्त्वया नाभिव्यक्तमावेदितं ? ४८

सुनन्दः ः का खलु छन्द्रवलि? ४९

पौर्णमासी ः दुष्टनृपेभ्यस्त्रपमाणेन रुक्मिणा स्वसुर्गोकुलनिवासमत्र निह्नुत्य चन्द्रावलीत्यभिधा संवृता । ५०

सुनन्दः ः नूनं सुहृदामप्यगोचरोऽयमर्थः । तत्र मद्विधस्य का कथा ? ५१

पौर्णमासी ः तर्हि कथमसौ दर्वीकरारिकेतुर्विदर्भानलञ्चकार ? ५२

सुनन्दः ः भक्तयोः क्रथकैशिकयोः सन्देशेन । ५३

पौर्णमासी ः नृपाभ्यां किमत्र प्रवृत्तं ? ५४

सुनन्दः ः भगवतो हिरण्यगर्भस्य शासनेन, तथा हि—

स्वस्ति श्रीक्रथकैशिकौ स्वभवनादम्भोजगर्भोद्भवः

सर्वक्ष्मापतिदुर्व्यतिक्रमगिरावित्यादिशत्येष वाम् ।

शुद्धैरध्यवसीयतां नृपतिभिः सार्धं युवाभ्यां मुदा

श्रीराजेन्द्रतया क्षितौ यदुपतेः पुण्याभिषेकक्रिया ॥११॥ ५५

पौर्णमासी ः दिष्ट्या द्रष्टव्योऽयं मया महामहोत्सवः । ५६

सुनन्दः ः भगवति, निर्व्यूढोऽयम् । ५७

पौर्णमासी ः कीदृगेषः ? ५८

सुनन्दः ः

बृंहिष्ठे रत्नसिंहासनशिरसि वरे सन्निविष्टस्य तुष्टैर्

गीर्वाणैः पार्वतीशप्रभृतिभिरभितः स्तूयमानस्य भूयः ।

सद्यः सम्पाद्यमानो नृपतिभिरखिलैर्दिवा कुम्भावलीभिस्

तत्रापूर्वस्तदासीद्दनुजविजयिनो राजराजाभिषेकः ॥१२॥ ५९

नारदः ः सिद्धं विन्ध्याय वेधसो वरदानम् । ६०

पौर्णमासी ः भगवन्ननुशाधि साधयामि माधवं साधिष्ठार्थबोधनाय । ६१

(प्रविश्यापटीक्षेपेण) कञ्चुकी ः भगवति ! विदर्भेन्द्रो निवेदयति—मदभ्यर्थिताभ्यां पार्थिवाभ्यां रुक्मिणीहरणाय राजेन्द्रमावेदयितुं प्रस्थितम् । तदद्य भवत्या तीर्थेन तीर्थपादं द्रष्टुमिच्छामि इति । ६२

पौर्णमासी ः भगवन्! मम साध्यं सिद्धमिवाभूत। तदनुजानीहि माम् । (इति द्वाभ्यां सह निष्क्रान्ता ।) ६३

नेपथ्ये ः

विश्रान्ते विषयाकृतिं परिणतिं हित्वा मुनीनामपि

स्वान्ते नाक्रमते यदङ्घ्रिनखरोपान्तप्रभाप्यल्पिका ।

चित्रं मद्विधपाणिकुट्मलतटीसंवाह्यपादाम्बुजो

देवः सोऽयमलङ्करोति करुणः कल्याणपल्यङ्किकाम् ॥१३॥ ६४

नारदः ः क्रथकैशिकयोः सूक्तिरियम् । ६५

(पुनर्नेपथ्ये शङ्खध्वनिः ।)

नारदः (विलोक्य सहर्षम्) ः

करयुगलेन गृहीतं निधाय वदनाम्बुजे धमन्कम्बुम् ।

व्रजराज्ञीस्तनपानस्मरणस्तिमितो हरिर्जयति ॥१४॥

(पुनर्निरूप्य) कथं क्रथकैशिकाभ्यामनुगम्यमानोऽयं पुरस्तात्परिक्रामति ।

चञ्चत्कौस्तुभकौमुदीसमुदयः कौमोदकीचक्रयोः

सख्येनोज्ज्वलितैस्तथा जलजयोराढ्यश्चतुर्भिर्भुजैः ।

दिव्यालङ्करणेन सङ्कटतनुः सङ्गी विहङ्गेशितुर्

मां व्यस्मारयद् एष कंसविजयी वैकुण्ठगोष्ठीश्रियम् ॥१५॥

तदम्बरमारूढः कौतुकमवलोकयामि । (इति निष्क्रान्तः) ६६

(ततः प्रविशति यथानिर्दिष्टः कृष्णः ।)

कृष्णः ः हन्त नृपेन्द्रौ !

हितैरमृतशालिभिर्मदभिषेकवारां झरैः

समृद्धिमुपलभ्य वां विमलकीर्तिवल्ली भुवि ।

व्यतीतसुरकानना परममूर्ध्वमारुन्धती

रमाश्रवणभूषणस्तवकराशिरासीदसौ ॥१६॥ ६७

नृपौ (सप्रश्रयम्) ः

एकस्मिन्निह रोमकूपकुहरे ब्रह्माण्डभाण्डावली

यस्य प्रेक्षयते गवाक्षपदवीघूर्णत्पराणूपमा ।

केयं तस्य समृद्धये तव विभो राजेन्द्रताग्रामटी

शौटीर्येण चमत्कृतिं तदपि नः कामप्यसौ पुष्यति ॥१७॥ ६८

कृष्णः ः नृपेन्द्रौ ! प्रसन्नोऽस्मि । निजाभीष्टमभ्यर्थयेथाम् । ६९

नृपौ ः देव ! रुक्मिणी सा तपस्विनी तपस्तथा न चकार, येन ते दास्यसौभाग्यभागधेयभाजनं भवेदिति सुपर्णादाकर्णितम् । किन्तु तथा देवेनानुगृह्यतां यथा कथावशेषा भीरुरेषा न स्यात। ७०

कृष्णः ः कीदृगनुग्रहः ? ७१

नृपौ ः दुर्मदमागधादीनां पराभवेनास्याः कुण्डिनादाकृष्टिः, यदद्य चन्द्रभागाराधनाय बहिः साधयत्येषा । ७२

कृष्णः ः क्षितीन्द्रौ ! बाढमाहरिष्यामि । तदभीष्टमनुष्ठीयताम् । ७३

(नृपौ श्रीकृष्णं प्रणम्य निष्क्रान्तौ)

नेपथ्ये ः

भीता रुद्रं त्यजति गिरिजा श्याममप्रेक्ष्य कण्ठं

शुभ्रं दृष्ट्वा क्षिपति वसनं विस्मितो नीलवासाः ।

क्षीरं मत्वा श्रपयति यमीनीरमाभीरिकोत्का

गीते दामोदर यशसि ते वीणया नारदेन ॥१८॥ ७४

गरुडः ः सोऽयमम्बरे तुम्बुरुस्तवीति । ७५

कृष्णः ः सखे खगेन्द्र खे पश्य पश्य—

शुभ्रातपत्रपटली खलभूपतीनाम्

अभ्राणि तक्षकफणाकृतिरावृणोति ।

यामाकलय्य पृथुवेपथुदोलितानि

दूरे जगन्ति भयजर्जरतां भजन्ति ॥१९॥ ७६

गरुडः ः देव ! बाढमातपत्रफणापटली लघीयसः किङ्करस्यास्य गरुत्मतः सकृत्पक्षविक्षेपकेलयेऽपि पर्याप्तिमेष्यति । दूरे विश्राम्यतु सखा मे सुदर्शनः कल्पान्तकृशानुः । ७७

नेपथ्ये ः

कुण्डिणणरबैपुत्ती अणुरूबा पुंडरीअणाणस्स ।

तह एसो सहि तिस्सा हा हददेब्बं विलोमेइ ॥२०॥ ७८

गरुडः ः पुरस्त्रीणां विषादोक्तिरियम् । ७९

(पुनर्) नेपथ्ये ः

कहि रुप्पिणी सुरूबा कहि दमहोसस्स णंदणो मंदो ।

ण घडै गद्दहकंठे बिमला णोमालिआ माला ॥२१॥ ८०

गरुडः ः वन्यया मालया खलु सुलभोऽयं कौस्तुभीकण्ठो नान्यथा । ८१

नेपथ्ये ः

जीयादुच्चैरखिलतरुणीमण्डलाकृष्टिविद्या

वैदग्धीनां निधिरनवधिर्यादवाम्भोधिचन्द्रः ।

सङ्ग्रामान्तःपुरभुवि पुरो हन्त यं प्रेक्ष्य दूराद्

अस्त्रीलोकोऽप्यतनुचकितः स्त्रीस्वरूपं बिभर्ति ॥२२॥ ८२

कृष्णः (सव्यतो विलोक्य) ः कथमयं मौक्तिकचूडो नाम माथुरो वन्दी भोगावलीं पठति ?

(पुनस्तत्रैव)—

स्फुरन्मणिसराधिकं नवतमालनीलं हरेर्

उदूढघनकुङ्कुमं जयति हारि वक्षःस्थलम् ।

उडुस्तवकितं सदा तडिदुदीर्णलक्ष्मीभरं

यदभ्रमिव लीलया स्फुटमदभ्रमुद्भासते ॥२३॥ ८३

कृष्णः (सव्यामोहम्) ः हा प्रेयसि राधिके! हा वृन्दावनकल्पवल्लि! हा विशाखासखि! कुत्रासि? (इति सोत्कम्पं खगेन्द्रमालम्बते ।) ८४

गरुडः (स्वागतम्) ः दुरूहायां गम्भीरलीलाम्बुधेरस्य केलिवेलायां मादृशोऽपि निमज्जति । कस्तत्राप्यन्यो वराकः ? (प्रकाशम्) देव ! समाश्वसिहि समाश्वसिहि । (कृष्णः समाश्वस्य निश्वसिति) ८५

नेपथ्ये ः

धात्रेयी करपुटसम्भृताग्रहस्ता

पर्यस्ताकुलजरतीद्विजाङ्गनाभिः ।

दूरेण प्रचुरभटैः परीयमाणा

वैदर्भी प्रसरति पार्वतीगृहाय ॥२४॥ ८६

कृष्णः ः सखे सुपर्ण ! हताशेन रुक्मिणा दुर्गमं कृतमेतद्दुर्गामन्दिरम् । तदेहि नटवेशेनावामन्तः प्रविशावः । (इति निष्क्रान्तौ) ८७

(ततः प्रविशति यथानिर्दिष्टा चन्द्रावली)

चन्द्रावली ः हला माहवि, सुदं मए भादरेण मे भद्दऽली समाराहणस्स कोडिहोममारद्धम् । [हे सखि माधवि श्रुतं मया भ्रातृकेण भद्रकालीसमाराधनाय कोटिहोममारब्धम् ।] ८८

माधवी ः भट्टदारिए, बह्मणॉ क्खु एब्बं कधेंति । [भर्तृदारिके ! राजकन्ये ! ब्राह्मण्यं खलु एवं कथयन्ति ।] ८९

चन्द्रावली (स्वगतम्) ः गहिरं णं होमकुण्डं सुणिअ च्चेअ पत्थिदम्हि । [गभीरमेनं होमकुण्डं श्रुत्वा एव प्रथितास्मि ।] ९०

माधवी ः भट्टिदारिए, तधा सिणिद्धेण बि पुरुसुत्तमेण किं त्ति तुमं ण उद्दिसीअसि । [भर्तृदारिके ! तथा स्निग्धेनापि पुरुषोत्तमेन किमिति त्वं नोद्दिश्यसे ।] ९१

चन्द्रावली (संस्कृतेन) –

शरणमिह यो भ्रातुस्तस्य प्रतीपविधायिता

हितकृदपि या देव्यास्तस्याः समग्रमुपेक्षणम् ।

गतिरविकला यो मे तस्य प्रियस्य च विस्मृतिर्

बत हतविधौ वामे सर्वं प्रयाति विपर्ययम् ॥२५॥ ९२

माधवी ः एदं पासादं पविसिअ चंदभाअं णिबेदेह्म । [एतं प्रासादं प्रविश्य चन्द्रभागां निवेदयामः ।] ९३

चन्द्रावली ः अज्जे भग्गै बंदावेहि चंदभाअम् । [आर्ये भार्गवि ! भृगुवंशीय ब्राह्मणपुत्रि वन्दयस्व चन्द्रभागां चण्डिकाम् ।] ९४

भार्गवी ः देवि चन्द्रभागे ! नन्दय विदर्भनन्दिनीं परमाभीष्टवरेण । (इति वन्दनं कारयति) ९५

चन्द्रावली (सोपालम्भं संस्कृतेन) ः

आकौमारं भगवति मया हन्त कृष्णस्य हेतोर्

विश्रम्भेण प्रवणमनसा यत्त्वमाराधितासि ।

प्रत्यासन्नः सरभसमसौ तस्य पाकः प्रथीयान्

मां दक्षिण्याद्यदिह भवती कृष्णवर्त्मन्यनैषीत॥२६॥ ९६

माधवी ः पेक्ख पेक्ख ! प्पसादाहिमुहीब्ब संबुत्ता रुद्दाणी । [पश्य पश्य—प्रसादाभिमुखी इव संवृत्ता रुद्राणी ।] ९७

चन्द्रावली ः अज्जे भग्गबि, तुम्हेमेत्थ सब्बाणीमब्भत्थेध । अहं गदुअ कुंडत्थिदं भाबंतं पाबां परिक्कमिस्सम् । [आर्ये भार्गवि । यूयमत्र सर्वाणीमभ्यर्थयथ । अहं गत्वा कुण्डस्थितं भगवन्तं पावकं परिक्रमिष्यामि ।] ९८

(ततः प्रविशतो नर्तकवेशौ कृष्णसुपर्णौ)

कृष्णः ः

पर्यशीलि पशुबालघटायां

केलिरङ्गघटनाय मया यः ।

सुष्ठु सोऽयमकरोत्परदुर्गे

वेशयन्सचिवतां नटवेषः ॥२७॥ ९९

गरुडः ः देव ! गाढं गञ्जितानि नटवेशेनारीणां नेत्राणि, नारीणां तु रञ्जितानि । १००

कृष्णः ः सखे विहङ्गपुङ्गव ! पश्य, प्रादुर्भवन्ति भव्यानि शकुनानि । १०१.

गरुडः ः

नभसि रभसवद्भिः श्लाघ्यमाना मुनीन्द्रैर्

महितकुवलयाक्षी कीर्तिशुभ्रांशुवक्त्रा ।

नृपकुलमिह हित्वा चेदिराजप्रधानं

मुरदमन गमिष्यत्युत्सुका त्वां जयश्रीः ॥२८॥ १०२

कृष्णः ः सखे, पश्य पश्य—

क्ष्वेडामखण्डसमराः कलयन्ति सूराः

सङ्गीतिनः स्वरघटामनुघट्टयन्ति ।

उच्चैः पठन्ति शुभसूक्तकुलं द्विजेन्द्रा

राष्ट्राणि कुण्डिनपुरी बधिरीकरोति ॥२९॥ १०३

गरुडः (पुरो दृष्ट्वा) ः मृडानीमन्दिरादेषा कुण्डिनेन्द्रपुत्री बहिर्निष्क्रामति । १०४

कृष्णः ः काममितः पराङ्गनाविलोकनदुर्विलासान्निवृत्तिरेव श्रेयसीति (इति मुखं व्यावर्त्य) सखे ! भवतैव पक्षाञ्चलेनाकृष्य नृपाभ्यामियं समर्प्यताम् । १०५

गरुडः (निर्वर्ण्य, सविस्मयम्) ः

सौन्दर्याम्बुनिधेर्विधाय मथनं दम्भेन दुग्धाम्बुधेर्

गीर्वाणैरुदहारि हारिचरिता या सारसम्पन्मयी ।

सा लक्ष्मीरपि चक्षुषां चिरचमत्कारक्रियाचातुरी

धत्ते हन्त तथा न कान्तिभिरियं राज्ञः कुमारी यथा ॥३०॥ १०६

कृष्णः ः सखे, भवतु । किमेतेन, यदेष रूपमात्रेण न हार्यो हरिः । १०७

चन्द्रावली ः हला माहबि, सो बुन्दाबणबीअसंभुदो मे ब{उ}लपोदो तुए पालणिज्जो । [सखि माधवे, स वृन्दावनबीजसम्भूतो मे बकुलपोतस्त्वया पालनीयः ।] १०८

माधवि (सास्रम्) ः भट्टदारिए ! पसीद पसीद । पडिबालेहि सुणन्दं जमेत्थ मज्झबट्टिणो भावदी बिहावरी । [भर्तीर्दारिके ! प्रसीद प्रसीद । प्रतिपालय सुनन्दं, यदत्र मध्यवर्तिनी भगवती विभावरी ।] १०९

चन्द्रावली ः मुद्धे ! अन्तेउरे ण क्खु सुलहमेदं मङ्गलं मे अमिअकुण्डम् । [मुग्धे! अन्तःपुरे न खलु सुलभमिदं मङ्गलं मे अमृतकुण्डम् ।] ११०

(सास्रं संस्कृतेन)

त्वद्दिग्बोध्येऽप्यकुशलमतिः सङ्गमय्य स्वगोष्ठे

दूराद्बाढं किमिति कृपया पूर्वमङ्गीकृताहम् ।

नीत्वा देशान्तरमिदमपक्षिप्य सङ्गादिदानीं

किं वा दामोदर गुणनिधे हा त्वया विस्मृतास्मि ॥३१॥ १११

(नेपथ्ये कलकलः)

कृष्णः ः पौरस्त्रीणामौत्सुक्यमिदम् । ११२

गरुडः ः देव, पश्य पश्य—

वक्त्राणि भान्ति परितो हरिणेक्षणानाम्

आरुढहर्म्यशिरसां भवदीक्षणाय ।

यैर्निर्मितानि तरसा सरसीरुहाक्ष

चन्द्रावलीपरिचितानि नभस्तलानि ॥३२॥ ११३

कृष्णः (सोत्कण्ठं) ः हा प्रिये चन्द्रावलि ! हा पद्मासखि ! कथं कठोरेण मया विस्मृतासि ? तदद्यैव द्वारवतीमासाद्य तवोद्देशाय चरानाचरिष्यामि । ११४

चन्द्रावली ः णां समिद्धं पुरदो कुण्डं पेक्खन्ती णिबुबदह्मि । [एनं समृद्धं पुरतः कुण्डं पश्यन्ती निवृतास्मि ।] ११५

कृष्णः (सानन्दम्) – सखे, कथमनुभूतपूर्वेव कापि शिञ्जितसरणी प्रसह्य मामाद्रीकरोति । ११६

गरुडः ः निवेदितमेव देवस्य, यदत्र जगत्त्रयेऽप्यस्य बाढमनर्घस्य कुमारीरत्नस्य पश्यामि नान्यमर्घ्यहरम् । ११७

कृष्णः ः तर्हि दृशा परीक्षणीयम् । (इत्यपाङ्गं सञ्चारयन्) अये ! कथं गोकुलविलासिनीसाधारणमाधुर्यमुद्रामण्डितेयं कुमारी हृदयं ममोन्मादयति । (पुनः सानुरागं निरूप्य) हन्त ! कथं सैवेयं मे प्राणवल्लभा (इति सम्भ्रममभिनीय) ११८

चेतश्चन्द्रमणेर्द्रवं विरचयत्युच्चैः स्मराभोनिधेः

संरम्भं वितनोति नेत्रकुमुदस्यामोदमध्यस्यति ।

उल्लासं परितः प्रपञ्चयति मे रोमौषधीनां च सा

सेयं चन्दनपङ्कशीतलकरा लब्धाद्य चन्द्रावली ॥३३॥

तदभ्यासमभ्युपेत्य माधुर्यामस्याः पर्यालोचयामि । (इति परिक्रामति ।) ११९

माधवी (कृष्णं विलोक्य स्वगतम्) ः कुदो आअदो एसो तिल्लोअसुन्दरो णच्चारॉ ? [कुत आगत एष त्रिलोकसुन्दरो नर्तकराजः ?] १२०

चन्द्रावली ः भाबं हब्बबाह ! तस्स कन्दप्पकोडिसुन्दरस्स पऽरबिन्दजुअलस्स पासे इमं बहेहि तदेक्कसरणं जणम् । [भगवन्हव्यवाहन ! तस्य कन्दर्पकोटिसुन्दरस्य पदारविन्दयुगलस्य पार्श्वे इमं वह तदेकशरणं जनम् ।] (इति पावकं प्रणम्य) हा भाबदि पोण्णमासि ! एत्थ ओसरे कहिं गदासि ? हा भगवति पौर्णमासि, अत्रावसरे कुत्र गतासि ?] १२१

कृष्णः (सखेदमात्मगतम्) ः हन्त ! सत्यमेव महासाहसे कृताध्यवसाया सेयमाशुशुक्षणिं प्रदक्षिणीकरोति । तदहमुपेत्य भुजाभ्यामावृणोमि । १२२

चन्द्रावली (बाष्पधारामभिनयन्ती सवैक्लव्यम्) हा बहिणि राहे ! ण जादु मिलिदासि । हा पिअ सहि पौमे ! कहिं बट्टसि ? हा अम्म गोउलेसरि । ण दिट्ठासि, हा पराणणाध सिहण्ड ! [हा भगिनि राधे ! न जातु मिलितासि । हा प्रियसखि पद्मे । कुत्र वर्तसे ? हा अम्बे गोकुलेश्वरि ! न दृष्टासि । हा प्राणनाथ शिखण्ड !] (इत्यर्धोक्ते वाक्स्तम्भं नाटयन्ती सव्यामोहम्)

मन्दम्हिदमारन्दे

पारमारकण्णिआ सिरीसरणे ।

तस्सिं बिअ मुहपदुमे

भमरौ मह पडिभां णाणम् ॥३४॥

मन्दस्मितमकरन्दे

प्रवर मकर कर्णिकाश्रीः श्रवणे ।

तस्मिन्निव मुखपद्मे

भ्रमयतु मम प्रतिभवं नयनम् ।] १२३

कृष्णः (ससम्भ्रमं कण्ठे परिष्वज्य) ः कुरङ्गाक्षि ! मा ज्वालय जगन्ति । १२४

माधवी (सरोषम्) ः रे महासाहसिअ धिट्ठणच्चाजुआण ! मुञ्च णं महाराअपुत्तिअम् । [रे महासाहसिक धृष्ट नर्तकयुवन्! मुञ्च एनां महाराजपुत्रिकाम् ।] १२५

कृष्णः (सास्रम्) –

अयं कण्ठे लग्नः शशिमुखि जनस्ते प्रणयवान्

यदप्राप्त्या धन्यां तनुमतनुरूपां तृणयसि ।

प्रसीदाद्य प्राणेश्वरि विरम मास्मिन्ननुगते

कृथाः पत्यावत्याहितमिदमुरो मे विदलति ॥ ३५ ॥ १२६

चन्द्रावली (अश्रुतमभिनीय) ः माहवि ! मुंच मुंच । मा दुक्खावेहि । जं सभाइदबहुपच्चूहो एसो मुहूत्तो । [माधवि ! मुञ्च मुञ्च ! मा खलु दुःखापय यत्सम्भावितबहुप्रत्यूह एष मुहूर्तः ।]

(इति निजाङ्गुलेराभरणमाकृष्य ।) हला, एसा राणमुद्दिआ तस्स पुरिसत्तमस्स दिट्ठिमग्गं जधा लहेहि तधा तुए कादुब्बम् । [सखि ! एषा रत्नमुद्रिका यथा पुरुषोत्तमस्य दृष्टिमार्गं लभते तथा त्वया कर्तव्यम् ।]

(इति हरिहस्ताङ्गुलौ मुद्रां निवेशयन्ती सशङ्कमात्मगतम्) कधं कडिणो हत्तस्स प्फंसो । [कथं कठिनो हस्तस्य स्पर्शः ।]

(इत्यश्रुधारामुत्सृज्य पश्यन्ती सोत्क्रोशम्) कधं सो ज्जेब्ब मे जीविदेसरो मं परिरम्भिअ बाहाएदि । [कथं स एव मे जीवितेश्वरो मां परिरभ्य व्याहरति ।] (इत्यानन्दमूर्च्छां नाटयन्ती भूतटे पतति) । १२७

माधवी (सानन्दम्) ः अम्महे अच्चरिआ बिहिणो चरिआ । [मातः ! आश्चर्यं विधेश्चर्या ।] १२८

(ततः प्रविशति भीष्मकेणानुषज्यमाना पौर्णमासी) १२९

पौर्णमासी ः

उदञ्चन्माधुर्यं विकसितनवाम्भोरुहपदं

नुदन्तं सन्तापानविहतरथाङ्गप्रणयिनम् ।

अजीवन्मोहान्धा हरिमनुसरन्ती वरतनुर्

यथा वारां पूरं स्थलविलुठदङ्गी शफरिका ॥३६॥

(इत्युपसृत्य) वत्से चन्द्रावलि ! माधवादवाप्तप्रसादया त्वया सन्दीपितेयं सन्दीपनिजननी क्षणदा । तदुत्थीयतां (इति भुजाभ्यामुत्थापयति) । १३०

चन्द्रावली (पुरो दृष्ट्वा स्वगतम्) ः कधमेत्थ तादो मे बिदब्भनाधो ? (इति लज्जामभिनीय पौर्णमासीमन्तरा करोति ।) [कथमत्र तातो मे विदर्भनाथः ?] १३१

कृष्णः (सविस्मयम्) ः भगवति ! कथं त्वमत्रागतासि ? १३२

पौर्णमासी ः हन्त गोकुलचन्द्र, चन्द्रावलीस्नेहेन । १३३

भीष्मकः (सादरम्) –

अविदितस्तनयामनयान्नयन्न्

उपकृतिं कृतवान्मम जाम्बवान।

मुनिमनःप्रणिधेयपदाम्बुजस्

त्वमसि येन वरो दुहितुर्वरः ॥ ३७ ॥ १३४

पौर्णमासी ः कुण्डिनेन्द्र ! सत्यं पुण्यवतां शिखामणिरसि । तदियं समर्प्यतां निजकुलकैरवचन्द्रिका चन्द्रावलिराजेन्द्राय । १३५

कृष्णः (स्वगतम्) ः तां जीवितवल्लभामन्तरेण चन्द्रावलीमङ्गीकर्तुं प्रवर्तमानमपि मानसं मे नापराध्यति, यदियं तस्याः सोदरा । १३६

भीष्मकः (सविनयम्) ः

अयमिह किल कन्याबान्धवानां निबन्धः

समुचित इति लक्ष्मीकान्त विज्ञापयामि ।

मम दुहितुरनुज्ञोल्लङ्घनादङ्गनायाः

कथमपि न परस्याः पाणिसङ्गो विधेयः ॥ ३८ ॥ १३७

(कृष्णः पौर्णमासीमुखमीक्षते) १३८

पौर्णमासी ः मुकुन्द! गोकुलकुमारीकुलानि चन्द्रावलीमात्रावशेषाणि दुर्विदग्धेन विधिना कृतानि । तदत्र का क्षतिः? १३९

कृष्णः ः राजन्! तथास्तु । १४०

गरुडः ः राजन्नवधीयताम्—

श्रीनाथे विनयभरेण नाथितेऽस्मिन्

वैदर्भ्या निजसुहृदङ्गसङ्गमाय ।

तत्रायं भजति भयङ्करः प्रकामं

विश्रामं क्षितिपतिचन्द्र ते निबन्धः ॥३९॥ १४१

भीष्मकः ः तथास्तु ! (इति सादरमभ्युपेत्य) देव ! कृपया परिगृह्यतामियं परिचर्योचिता किङ्करी । (इति चन्द्रावलीं समर्पयति) १४२

कृष्णः (सादरमङ्गीकृत्य) ः राजन्ननुजानीहि, द्वारकां प्रयामि । (इति सपरिवारो निष्क्रान्तः) १४३

नेपथ्ये ः

सप्तिः सप्ती रथ इह रथः कुञ्जरो मे

तूणस्तूणो धनुरुत धनुर्भोः कृपाणी कृपाणी ।

का भीः का भीरयमयमहं हा त्वरध्वं त्वरध्वं

राज्ञः पुत्री बत हृतहृता कामिना वल्लवेन ॥४०॥ १४४

भीष्मकः ः कथमुपात्तसम्भ्रमाणां राज्ञां कोलाहलः प्रथीयानभूत्? (नेपथ्याभिमुखमवलोक्य) कथं यदुसैन्यमाकर्षन्सङ्कर्षणः समगंस्त? (पुनरवधाय, सस्मितम्)

बिले क्व नु विलिल्यिरे नृपपिपीलिकाः पीडिताः

पिनस्मि जगदण्डकं ननु हरिः क्रुधं धास्यति ।

शचीगृहकुरङ्ग रे हससि किं त्वमित्युन्नदन्न्

उदेति मदडम्बरस्खलितचूडमग्रे हली ॥४१॥ १४५

(पुनर्) नेपथ्ये ः

विक्रोशन्दन्तवक्रः कलितभयभरो हन्त वक्रः किलासीत्

पिण्डीशूरः शृगाली स्खलितरथगतिर्मागधो वागधोऽभूत।

दूरादौज्झन्नृपाणां कुलमधिसमरं निष्कृपाणां कृपाणान्

धुन्वाने शार्ङ्गधन्वन्यरिनिधनधरं हास्यरङ्गेण सार्धम् ॥४२॥ १४६

भीष्मकः (सानन्दम्) निवृत्तचिन्त्योऽस्मि संवृत्तः ॥ १४७

नेपथ्ये ः

खण्डितेन विनिबद्धवाससा

पण्डितेन रणरङ्गकर्मणि ।

केशवेन रचितार्धमुण्डनः

कुण्डिनेश्वरसुतो विडम्बितः ॥४३॥ १४८

भीष्मकः (सशङ्कम्) सान्त्वयितुमुचितोऽयं कुलकालिमा कुमारः । कदाचिद्व्रीडयासौ मनस्वी प्राणानपि जह्यात। (इति निष्क्रान्तः) १४९

(इति निष्क्रान्ताः सर्वे) १५०

इति श्रीश्रीललितमाधवनाटके

चन्द्रावलीलाभो नाम

पञ्चमोऽङ्कः

॥ ५ ॥

*************************************************************

.

(६)

षष्ठोऽङ्कः

ललितोपलब्धिः

(ततः प्रविशत्युद्धवः)

उद्धवः ः

याचन्ते दनुजव्रजादभयतां यं वज्रहस्तादयः

सोऽयं हन्त वराकमागधभयाद्दुर्गं भजत्यम्बुधौ ।

बुद्धिं यस्य किलोपजीवति जगन्मन्त्रे स गृह्णाति मां

कः प्रत्येतु जनः सुदुर्गमगतेः कृष्णस्य लीलायितम् ॥१॥

(विमृश्य) सम्प्रति सचित्तेन चेतसा देवर्षिं द्रष्टुमिच्छामि । (आकाशे) किं ब्रवीषि ? सुधर्मासीमनि स भगवान्वर्तते इति । भवतु । तत्रैवायं प्रतिष्ठमानोऽस्मीति । (परिक्रम्य) अये सत्यमेव पुरस्तादेष देवर्षिः । १

नारदः (प्रविश्य) ः

उरीकर्तुं दामोदरहृदि नवामोदलहरीं

वरीयस्यः प्रेम्णां जगति विविधाः सन्तु गतयः ।

स्तुमस्तं यस्तासां स्फुरति हृदि भावस्य गरिमा

हृषीकाणां हन्त प्रभुरपि न यत्र प्रभवति ॥२॥ २

(पुरो विलोक्य सानन्दम्)

अयं चक्राद्यङ्कस्फुरितभुजमूलस्तिलकवान्

दधत्कण्ठे मालामतुलतुलसीकाष्ठमणिजाम् ।

हरेः शेषामङ्के शिरसि च वहन्नुद्धवतया

गतः ख्यातिं भक्तिप्रसर इह मूर्तो विहरति ॥३॥ ३

उद्धवः ः भगवन्नभिवादये । ४

नारदः (शुभशिषा सभाजयन्) ः मन्त्रिराज ! कथं विषण्ण इव लक्ष्यमाणोऽसि ? ५

उद्धवः ः भगवन्, देवपादेषु कृतेनापराधेन । ६

नारदः ः

ऊषरभूमिरसि त्वं सन्ततमपराधबीजस्य ।

दैवाद्विरूढमपि तद्विन्दति सत्तां न गोविन्दे ॥४॥ ७

उद्धवः ः भगवन्! मदीया रभसकारितैव देवस्य भीमारण्यसीमायामवगाहनहेतुरभूत। ८

नारदः ः कीदृशी सा ? ९

उद्धवः ः क्षुद्रे सत्राजिति देवाभ्यर्थना । १०

नारदः ः किं तदभ्यर्थितं ? ११

उद्धवः ः लोकोत्तरं कन्यारत्नं चिन्तारत्नं च । १२

नारदः (स्वगतम्) चित्रं चित्रमसमीक्ष्यकारितापि शिष्टानामिष्टारम्भपर्यवसायितामेव धत्ते । (प्रकाशम्) स्फुटमभ्यर्थितं ते सार्थकं नाभूत। १३

उद्धवः ः अथ किम् । प्रत्युत कष्टमेव वृत्तम् । १४

नारदः ः नायमगृहीतशासनोऽपि वाच्यतामर्हति सत्राजितः । यतः—

विमलहृदयः ख्यातो लोके सतामुपदेशतो

गुणयति गुणश्रेणीं नाल्पो मलीमसमानसः ।

मुकुलपटलीं सारङ्गाक्षीमुखार्पितशीधुभिर्

बकुल इव किं धत्ते मूर्ध्ना हठादटरूषकः ॥५॥ १५

उद्धवः ः

अनर्पितेन रत्नेन कन्यारत्नेन चाच्युते ।

भ्रातरं साधुवादं च स स्वकीयमघातयत॥६॥ १६

नारदः ः श्रुतमाखेटके स दिष्टान्तमवाप प्रसेनः । १७

उद्धवः ः अथ किम् । १८

नारदः ः स्फुटं प्रसेनमन्वेष्टुं प्रस्थितो रथाङ्गी । १९

उद्धवः ः अथ किम् । यदेष जगत्तमःप्रमाथिचरित्रविरोचने चानूरद्विषि काञ्चित्तमःकलामुदीरयति । तेनाद्याहं खिन्नो भवत्तः क्षेममाशंसे । २०

नारदः ः हन्त ! पुण्डरीकाक्षभक्तिमञ्जरीचञ्चरीक ! रभसारब्धोऽपि भक्तिमद्भिरर्थः कंसहरस्य हर्षहेतुतामेव प्रतिपद्यते, किमुत प्रतिपद्यते, किमुत प्रेष्ठेन भवादृशा । तदद्य महोत्सवः क्रियताम् । तेषां लोकोत्तरचमत्कृतीनां वृन्दाटवीविलासानां विलोकनाय रमणीयन्ते समयोऽयमुपस्थितवान। २१

उद्धवः ः भगवन्! जानन्नपि किं मां मुधा प्रलोअभयसि ? यदद्य केनापि शोकशङ्कुलासङ्कुलस्य देवस्य कुतो नववृन्दावनावगाहनेऽपि सम्भावना ? २२

नारदः ः कः शोकशङ्कोरुपाधिः ? २३

उद्धवः ः कनिष्ठा… (इत्यर्धोक्तेः वाक्यस्तम्भं नाटयति ) २४

नारदः (विहस्य)ः

अपि लब्धाङ्गुलीसङ्गां यदि नष्टेति दृष्टिमान।

मुद्रां शोचति रोचिष्णुं तत्र किं करवामहे ॥७॥ २५

उद्धवः (सविस्मयानन्दम्)ः भगवन्! किञ्चिदुच्छ्वसिता ते वाग्वल्लरी व्याकुलयति मे मनोमधुपम् । तदभिव्यक्तीक्रियताम् । सत्यमेव किमायुष्मती कनिष्ठादेवी ? २६

नारदः ः आयुष्मती किमुच्यते ? सा द्वारवतीमेवालङ्कुर्वती वर्तते । २७

उद्धवः (सरोमञ्चम्)ः कथमियमत्रागता ? २८

नारदः ः

अक्षीणं विभवं प्रजांच्च परमामभ्यर्थ्य सर्वात्मना

कुर्वाणाय निषेवणं विरहितऽपत्याय सत्यार्चनः ।

सार्धं दुर्धर्वशङ्खचूडमणिना तां सत्यभामाख्यया

विख्यातां प्रणयन्ददौ दिनमणिर्मित्राय सत्राजिते ॥८॥ २९

सस्नेहमब्रवीच्चैनम्—

प्रणेष्यति यशः परं जगति नारदानुज्ञया

वराय वरकीर्तये सुतनुरर्पितेयं तव ।

स्यमन्तकमणिश्च ते महितमूर्तिरष्टौ महान्

प्रसोष्यति दिनं दिनं ननु हिरण्यभारानयम् ॥९॥ ३०

उद्धवः ः कथमम्बरमणिर्मणीन्द्रेऽसिमिन्नधिकारी संवृत्तः ? ३१

नारदः ः रविलोकलब्धया राधिअयैव तस्मै पुष्पाञ्जलितया कल्पितः । ३२

उद्धवः ः कथमस्यास्तरणिलोकस्याधिरोहणमासीत। ३३

नारदः ः

मोक्षत्यद्य तनूमनीक्षितहरिः सन्ध्यामुखे ते सखी

तूर्णं पुत्रि ततः समानय ममाभ्यर्णे विशीर्णामिमाम् ।

इत्याज्ञां पितुराकलय्य चतुरा सा चण्डधाम्नः सुता

सौरं बिम्बमलम्भयद्विलपितोद्गाराधिकां राधिकाम् ॥१०॥ ३४

उद्धवः ः विशाखायाः का वार्ता ? ३५

नारदः ः गोविन्देन समं सम्बन्धादात्मानं पूर्णकामं कर्तुकामस्य तामरसबन्धोरिच्छया धर्मराजानुजैव गोकुले विशाखाख्यामाप । ३६

उद्धवः ः न्यूनं विशाखायाः सख्येन राधिकायामधिकमन्वरज्यते धर्मराजमाता । ३७

नारदः ः अथ किम् । संज्ञाया विज्ञापनादेव तत्पित्रा शिल्पाचार्येण नववृन्दावनं द्वारवत्यामाविष्कृतम् । तथा हि—

कालिन्दीकलितोपकण्ठमभितः शैलश्रियालङ्कृतं

भाण्डीरोज्ज्वलमावृतं व्रततिभिस्ताभिर्द्रुमैस्तैरपि ।

साङ्गं द्वारवतीपुरे जगदलङ्कर्मीणं निर्मीयतां

राधामाधवमाधुरीसरिदुपस्यन्दाय वृन्दावनम् ॥११॥ ३८

उद्धवः ः शिल्पीन्द्रनन्दिनी कथमत्र प्रवृत्ता ? ३९

नारदः ः राधिकानिवेदनेन । ४०

उद्धवः ः कीदृशमिदं ? ४१

नारदः ः

पश्यन्ती पशुपालमण्डलशिरोमाल्यस्य लीलास्थलीर्

यत्राहं निरवाहयिष्यमभितः स्वान्तस्य सन्तर्पणम् ।

सद्यः पामरकर्मणो हतविधेरुद्दामविस्फूर्जितैर्

निर्धूतास्मि ततोऽपि दूरमधुना हा हन्त वृन्दावनात॥१२॥ ४२

उद्धवः ः देवि ! दिष्ट्या रक्षिताः स्मो वयं त्रिलोकीचक्षुषा मित्रेण । यतः—

कथमपि निवसन्त्यास्तत्र वृन्दावनाङ्के

विसृमरहरिलीलापुरगाम्भीर्यभाजि ।

अपि तव निविडाशासेतुबन्धानुबन्धैर्

अलघुभिरभविष्यज्जीवनं दुर्निबन्धम् ॥१३॥

ततस्ततः ? ४३

नारदः ः ततश्च शनैश्चरजननी शनैरवादीत्—

न व्याकुलीभव जगत्त्रयसौख्यसारे

नव्यारविन्दवदने सदने सदात्र ।

ध्येयः सतां सवितृमण्डलमध्यवर्ती

देवः स एव यदयं दयितस्तवास्ति ॥१४॥ ४४

उद्धवः ः किमत्र विशाखया नोत्तरितं ? ४५

नारदः ः कथं नोत्तरयितव्यम् । यदेतया विहस्योक्तम्— मातः सवर्णे वर्णयामि समाकर्णय—

गोपीनां पशुपेन्द्रनन्दनजुषो भावस्य कस्तां क्र्ती

विज्ञातुं क्षमते दुरूहपदवीसञ्चारिणः प्रक्रियाम्

आविष्कुर्वति वैष्णवीमपि तनुं तस्मिन्भुजैर्जिष्णुभिर्

यासां हन्त चतुर्भिरद्भुतरुचिं रागोदयः कुञ्चति ॥१५॥ ४६

कृती निपुणः । तस्मिन्पशुपेन्द्रनन्दने ॥१५॥

अस्मिन्नारायणेऽस्याः प्रीतिर्दूरे आस्ताम् । गोपीनां पशुपेन्द्रनन्दनजुषो दुरूहसञ्चारिणो भावस्य तां प्रक्रियां कः कृती विज्ञातुं क्षमते । न कोऽपीत्यर्थः । रासे निलीय पलायितुमसमर्थे तस्मिन्नन्दनन्दने वैष्णवीं तनुमाविष्कुर्वति सति तां तनुं वीक्ष्य यासां गोपीनां रागोदयः कुञ्चति । तथा च द्विभुजे नन्दनन्दने एवासामनुरागः न तु कृतचतुर्भुजाविष्कारे नन्दनन्दनेऽपि ॥१५॥

उद्धवः ः किं नाम भगवता सत्राजिदनुशिष्टोऽति ? ४७

नारदः ः अथ किम् । तथा हि—

मणीन्द्रं पारीन्द्रप्रवरमहरन्निघ्नतनयं

विनिघ्नन्ते तं च प्रबलमथ भल्लूकनृपतिः ।

पराभूय स्वैरी तमपि मुरवैरी तव धनं

तदाहर्ता पाप त्वमसि पतितस्तापजलधौ ॥१६॥ ४८

उद्धवः ः ततस्ततः ? ४९

नारदः ः ततस्तेनोक्तम्—

ज्वलितो जनः कृशानौ शाम्यति तप्तः कृशानुनैवायम् ।

भगवति कृतागसो मे भगवानेवाधुना शरणम् ॥१७॥ ५०

उद्धवः ः ततः किमुक्तं भगवता ? ५१

नारदः ः

न यावदुपसर्पति प्रतिभटेभकण्ठीरवः

पिनाकिमुखनाकिभिर्मुकुटितानुशिष्टिर्विभुः ।

मुदा तदवरोधने कुटिलभाव तावद्द्रुतं

त्वयाद्य कुलनन्दिनी चिरधृताधिराधीयताम् ॥१८॥

ततश्चावरोधने राधायाः प्रवेशाय तेन जननी नियुक्ता । ५२

उद्धवः (सानन्दम्)ः त्वया कारुण्यसिन्धुना सन्धुक्षितोऽयं पवनव्याधिरनेन महारसायनेन । ५३

नारदः ः हन्त ! सम्भृतगम्भीरशोकशूलया गोकुलं व्रजन्त्या नेदमास्वादितं पौर्णमास्या । ५४

उद्धवः ः तामन्तरेण का खल्वत्र लालयिष्यति देवीं यवीयसीम् । ५५

नारदः ः त्वष्टुरन्तेवासिनीमेवात्राभिरूपां निरूपयामि । ५६

उद्धवः ः केयं पुण्यवती ? ५७

नारदः ः

कुसुमरचनचुञ्चुर्निष्कुटानामकाले

परिणतमतिरायुर्वेदतन्त्रे तरूणाम् ।

कलयितुमपि भावं स्थावराणां समर्था

निवसति नववृन्दा द्वारवत्यां प्रसिद्धा ॥१९॥ ५८

उद्धवः ः किं नाम तत्त्वमस्याः काननदेवीयं जानाति ? ५९

नारदः ः अथ किं ! यदियं नववृन्देति यथार्थसंज्ञा तत्रापि संज्ञाया निदेशेनानुगृहीता । ६०

उद्धवः ः कीदृगेष निदेशः ? ६१

नारदः ः

प्रेयस्यः पशुपालिका विहरतो यास्तत्र वृन्दावने

लक्ष्मीदुर्लभचित्रकेलिकलिका कान्तस्य कंसद्विषः ।

राधा तत्र वरीयसीति नगरीं तामाश्रितायां क्षितौ

सेवां देवि समस्तमङ्गलकरी यस्यास्त्वमङ्गीकुरु ॥२०॥ ६२

उद्धवः (सास्रम्) ः भगवन्! ताः पशुपालिकाकिशोरिकाः स्मृतिमारूढाः स्वान्तमस्माकं सन्तापयन्ति । ६३

नारदःः मा भज सन्तापम् । यतः—

दृष्ट्वा कामपि कंसवैरिविरहादायासयन्तीर्दशां

कामाख्या नरकासुरेण ललनाराजीः किलाजीहरत।

एताभिर्मधुरैर्गिरां परिमलैराश्वासिताभिस्तया

तुङ्गाराधनतुष्टया मणिगिरिद्रोणीषु तत्रोष्यते ॥२१॥ ६४

उद्धवः (सानन्दं) ः भगवन्! पश्य पश्य । मुद्रितां पल्यङ्किकामनुसरन्ती सत्राजितः सवित्री पुरान्तरकक्षामवगाहते । ६५

नारदःः तदेहि, सुधर्मामध्यमध्यास्य माधवेन्द्रं प्रतिपालयावः । ६६

(इति निष्क्रान्तौ)

– विष्कम्भकः ः

(ततः प्रविशति सत्राजिन्मातरमनुसरन्ती राधा ।) ६७

राधा (सव्यथमाकाशे संस्कृतमाश्रित्य)—

विचित्रायां क्षौण्यामजनिषत कन्याः कति न वा

कठोराङ्गी नान्या निवसति मया कापि सदृशी ।

मुकुन्दं यन्मुक्त्वा समयमहमद्यापि गमये

धिगस्तु प्रत्याशामहह धिगसून्धिङ्मम धियम् ॥२२॥

(परिवृत्य) अज्जे कीस एसो जणो एत्थ अन्तेउरे नीअदि? [आर्ये, कथमेष जनोऽत्रान्तःपुरे नीयते?] ६८

वृद्धा ः णत्तिणि, तस्स महातबोधणस्स दीसिट्णिदेसेण । [हे नप्त्रि, तस्य महातपोधनस्य देवर्षेर्निदेशेन ] ६९

राधा (स्वगतम्) ः सो भाबदीए आचारिओ अम्ह सिणिद्धो त्ति सुनीअदि । तदो जेब्ब भाबन्तेण भाणुणा तादो सत्ताजिदो तस्स बाणे त्थाबिदो । [स भगवत्या आचार्यः अस्मासु स्निग्ध इति श्रूयते । तत एव भगवता भानुना तातः सत्राजित्तस्य वचने स्थापितः ।] ७०

वृद्धा ः णत्तिणि, एहि देईए रुप्पिणीए हत्थे तुमं समप्पैस्सम् । [नप्त्रि, एहि देव्या रुक्मिण्या हस्ते त्वां समार्पयिष्यामि ।] ७१

(ततः प्रविशति सपरिजना चन्द्रावली ।) ७२

चन्द्रावली ः सहि माहबि, समंतां मणिं मग्गिदुं पत्थिदो अज्जौत्तो कीस बिलंबेदि । [सखि माधवि, स्यमन्तकं मणिं मार्गितुं प्रस्थितो आर्यपुत्रः कस्माद्विलम्बते ।] ७३

माधवीः भट्टदारिए, परं पि तत्थ किं पि कज्जंतरं हुबिस्सदि । [भर्तृदारिके, परमपि तत्र किमपि कार्यान्तरं भविष्यति ।] ७४

राधा (स्वगतम्) ः भणिदम्हि भाणुणा—बच्छे, जाब समन्तओ माहबेण तुह माणिबन्धे ण बन्धीअदि, ताब सरहस्सं पढमं दे णाम सम्बरणिज्जं त्ति । [भणितास्मि भानुना—वत्से, यावत्स्यमन्तको माधवेन तव माणिबन्धे न बध्यते, तावत्सरहस्यं ते प्रथमं नाम संवरणीयमिति ।] ७५

चन्द्रावली (विलोक्य) ः हला, का एसा जरदी मुत्तिमदीए अ{उ}रुब्बरूपलच्छीए सममेत्थ आअच्छदि ? [सखि, का एषा जरती मूर्तिमत्या अपूर्वरूपलक्ष्म्या सममत्रागच्छति ।] ७६

राधा (चन्द्रावलीमालोक्य, स्वगतम्) ः साहु, माहुरीपूरभरिदा एसा राइन्दमहिसी गोउलकिसोरीसोरब्भं बिअ धारेदि । [साधु, माधुरीपूरभूता एषा राजेन्द्रमहिषी गोकुलकिशोरीसौरभ्यमिव धारयति ।] ७७

वृद्धा (उपसृत्य) ः देइ रुप्पिणि ! समन्ताप्पसङ्गे किदाबराहेण मह पुत्तेण सत्तजिदेण अप्पणो पुत्ती एसा सच्चभामा राइन्दस्स उबहारीकिदा । ता पिअसहीसाहारणसिणेहमाहुरीसोहग्गाहिआरिणी तुए करणिज्जा । [देवि रुक्मिणि ! स्यमन्तकप्रसङ्गे कृतापराधेन मम पुत्रेण सत्राजिता आत्मनः पुत्री एषा सत्यभामा राजेन्द्रस्य उपहारीकृता । तत्प्रियसखीसाधारणस्नेहमाधुरीसौभाग्याधिकारिणी त्वया कर्तव्या ।] ७८

राधा (स्वागतम्) ः कामं बुड्ढी पलबेदु, केअलं दिणेसस्स णिदेसबिस्सम्भेण एत्थ प{इ}ट्ठम्हि । [कामं वृद्धा प्रलपतु, केवलं दिनेशस्य निदेशविस्रम्भेणात्र प्रविष्टास्मि ।] ७९

चन्द्रावली ः अज्जे, धण्णम्हि जाए ईदिसो सहीजणो उबत्थिदो । ता तुममप्पणो घरं जाहि, अहं क्खु सच्चभामं पडिबाल{इ}स्सम् । [आर्ये, धन्यास्मि यस्या मम ईदृशः सखीजन उपस्थितः । तत्त्वमात्मनो गृहं याहि, अहं खलु सत्यभामां प्रतिपालयिष्यामि ।] ८०

वृद्धा ः जह भण{इ} देई । [यथा भणति देवी ।] (इति निष्क्रान्ता ।) ८१

चन्द्रावली (जनान्तिकम्) सहि माहवि ! पेक्ख । एसो अज्जौत्तस्स सच्चसंकप्पिदा सेइबिमद्दणो सच्चभामाए सोन्देरपूरो धीरं बि ममान्दोलेदि । [सखि माधवि, पश्य । एष आर्यपुत्रस्य सत्यसङ्कल्पिता सेतुविमर्दनः सत्यभामायाः सौन्दर्यपूरो धीरामपि मामान्दोलयति । ८२

माधवीः भट्टिदारिए ! सच्चं भणासि, एसा तुम्ह बिब्भममुप्पादेदि । [भर्तृदारिके! सत्यं भनासि, एषा तव विभ्रममुत्पादयति ।] ८३

चन्द्रावली ः हला, मुञ्च मे सलाहणं णं क्खु असारुप्पं रूबमेदम् । [सखि, मुञ्च मे श्लाघनं, नूनं खलु असारूप्यं रूपमेतत।] ८४

(पुनर्निभाल्य संस्कृतेन)

दृष्टिर्वहत्युपरतिं श्वस्तिआनुपूर्वी

नम्रीकरोत्यधरपल्लवताम्रतां च ।

गण्डद्वयी च परिचुम्बति कम्बुकान्तिं

मद्विस्मयं स्थितिरियं सुतनोस्तनोति ॥२२॥ ८५

माधवीः णूणं कासिराअकण्णऽ अम्मा बिअ एसा कस्सिं बि पुरिसे बद्धराआ हुबिस्सदि । [नूनं काशीराजकन्यका अम्बा इव एषा कस्मिन्नपि पुरुषे बद्धरागा भविष्यति ।] ८६

चन्द्रावली (संस्कृतेन) ः

साधर्म्यं मधुरिपुविप्रयोगभाजां

तन्वङ्गी मुहुरियमङ्गकैस्तनोति ।

आकृत्या श्रियमपि माधवीं किमेनां

दैन्येऽपि प्रथयितुमार्तयः क्षमन्ते ॥२३॥ ८७

ता एहि परिक्खमह से चित्तबुत्तिं [तदेहि परीक्षवहे तस्याश्चित्तवृत्तिम्] । (इत्युपसृत्य) सहि सच्चभामे ! एसा अप्पणो सबामि एदं तुज्झं सिणिज्झदि मे हिआं [सखि सत्यभामे ! एषा आत्मनः शपामि एतत्तुभ्यं स्निह्यति मे हृदयम्] ॥ ८८

राधा (स्वगतम्)ः णासच्चं भणादि, जं मह बि चित्तं तधा । [णासत्यं भणति, यत्ममापि चित्तं तथा ।] (प्रकाशम्) देइ ! तदो धण्णम्हि । [देवि ! ततो धन्यास्मि ।]

चन्द्रावली (संस्कृतेन) ः

साधर्म्यं मधुरिपुप्रयोगभाजां

तन्वङ्गी मुहुरियमङ्गकैस्तनोति ।

प्राकृत्यः प्रियसखि माधुरीं किमेतां

दैन्येऽपि प्रथयितुमार्तयः क्षमन्ते ॥२४॥

ता एहि परिक्खमह से चित्तबुत्तिं (इत्युपसृत्य) सहि सच्चभाम ! एसा अप्पणो सबामि एदं तुज्झं सिणिज्झदि मे हिआम् । [तदेहि परीक्षावहे अस्याश्चित्तवृत्तिं (इत्युपसृत्य) सखि सत्यभामे ! एषा आत्मनः शपामि, एतत्तुभ्यं स्निह्यति मम हृदयम् ।]

राधा (स्वगतम्) ः णासच्चं भणादि, जं मह बि चित्तं तधा । (प्रकाशं) देइ, तदो धण्णम्हि । [नासत्यं भणति, यत्ममापि चित्तं तथा । हे देवि, ततो धन्यास्मि ।] ८९

चन्द्रावली ः बहिणि, कीस तुमं दुम्मणा लक्खीअसि ? [भगिनि, कस्मात्त्वं दुर्मणा लक्ष्यसे ?] ९०

राधा ः देइ, एत्थ अहं तादेण पसहं पेसिदह्मित्ति मे दोम्मणस्सम् । [देवि, अत्राहं तातेन प्रसभं प्रेषितास्मीति मे दौर्मणस्यम् ।] ९१

चन्द्रावली ः हला, मा उत्तम्ह, अज्जौत्तस्स हत्थे तुमं समप्प{इ}स्सम् । [सखि, मा उत्तम्य, आर्यपुत्रस्य हस्ते त्वं समर्प्यिष्यामि ।] ९२

राधा (सदैन्यम्) ः देइ, सच्चं जेब्ब ज{इ} सिणिद्धासि, तदो एब्बं सब्बधा पुणो ण क्खु बाहरिस्ससि । [देवि, सत्यमेव यदि स्निग्धासि, तदा एवं सर्वथा पुनर्न खलु व्याहरिष्यसि ।] (इति काकुभिर्नमस्यति ।) ९३

चन्द्रावली ः सहि ! तदो भणाहि कधमेत्थ णिबसिदुमिच्छसि ? [सखि ! तदा भण, कथमत्र निवसितुमिच्छसि ?] ९४

श्रीराधा ः देइ, जत्थ पुरिसणामं बि ण सुणीअदि, तत्थ जेब्ब एसो जणो रक्खीअदु जधा तहिमप्पणो ब्बदसेसं समाबेदि । [देवि, यत्र पुरुषनामापि न श्रूयते, तत्रैव एषो जनो रक्ष्यते यथा तत्र आत्मनो व्रतशेषं समापयति ।] ९५

चन्द्रावली (सानन्दमपवार्य) ः माहबि, अह्मकादब्बमिमाए च्चेअ दिट्ठिआ अब्भत्थिदं, ता गदुअ दिण्णपसादं णाबुन्दमेत्थ आणेहि । [माधवि, अस्मत्कर्तव्यमनयैव दिष्ट्या अभ्यर्थितं, तद्गत्वा दत्तप्रसादां नववृन्दामत्रानय ।] ९६

माधवी (स्वगतम्) ः साहु मन्तिदं, जं तत्थ णाबुन्दाबणे राइन्दस्स पबेससम्भावणा बि णत्थि । ता जधा रहस्सभेदो ण होदि, तधा भट्टिदारिआ णिदेसमिसेण दिब्बं कराबिअ णाबुन्दमाणिस्सम् । [साधु मन्त्रितं, यत्तत्र नववृन्दावने राजेन्द्रस्य प्रवेशसम्भावनापि नास्ति । तद्यथा रहस्यभेदो न भवति, तथा भर्तृदारिका निदेशमिषेण दिव्यं कारयित्वा नववृन्दामानयिष्यामि ।] (इति निष्क्रान्ता ।) ९७

श्रीराधा (स्वगतम्) ः कधं सा एसा बहिणी चन्दाअलीब्ब इअं देई मे पडिभादि । [कथं सा एषा भगिनी चन्द्रावलीव इयं देवी मे प्रतिभाति ।] ९८

(प्रविश्य नववृन्दया सह माधवी ।)

माधवी ः देइ, आअदा एसा णाबुन्दा । [देवि, आगता एषा नववृन्दा ।] ९९

चन्द्रावली ः णाबुन्दे ! पेक्खीअदु एसा मे सही सच्चभामा । [नववृन्दे ! प्रेक्ष्यतामेषा मे सखी सत्यभामा ।] १००

नववृन्दा (विलोक्य सखेदमात्मगतम्) ः

प्रसादीकृत्य देवस्य मयि निर्माल्यमम्बरम् ।

देव्याकारितदिव्यायां राधैव कथमर्प्यते ॥२५॥ १०१

राधा (स्वगतम्) ः कधं सा एसा णाबुन्दा ? [कथं सा एषा नववृन्दा ?] (इत्युपसर्पति ।) १०२

नववृन्दा (स्वगतम्) ः हा धिक्कष्टं ! रभसेनाद्य कृतशपथा हतास्मि । १०३

राधा (सास्रमात्मगतम्)ः अम्मो, इदं तं च्चेअ किं पि पीदंबरम् । [अहो इदं तदेव किमपि पीताम्बरं ! ] (इति सवैक्लव्यं विलोकयति ।) १०४

नववृन्दा (स्वगतम्) ः

जनितकमललक्ष्मीविभ्रमे नेत्रवीथीं

गतवति चिरकालादंशुके कंसहन्तुः ।

अलघुभिरपि यत्नैर्दुस्तरां संवरीतुं

विकृतिमतुलबाधां हन्त राधा दधाति ॥२६॥ १०५

चन्द्रावली (साशङ्कम्) ः णाबुन्दे ! पुच्छीअदु कीस सच्चा दुऊलं पेक्खन्ती बिम्हलेदि ? [नववृन्दे ! पृच्छ्यतां कस्मात्सत्या दुकूलं पश्यन्ती विह्वला भवति ?] १०६

नववृन्दाः

दुकूलेऽस्मिन्कार्तस्वरमहसि विस्तारितदृशो

वपुः किं ते फुल्लैर्वहति तुलनां नीपकुसुमैः ।

त्रुटन्तीभिः किं वा स्फटिकमणिमालाभिरुपमां

लभन्तेऽमी क्षामोदरि नयनयोस्तोयपृषताः ॥२७॥ १०७

श्रीराधा (सावहित्थं) ः णाबुन्दे ! मह बहिणी बिअ तुमं दीससि, तदो पज्जुस्साम्हि । [नववृन्दे, मम भगिनीव त्वं दृश्यसे, ततः प्रयुत्सुकास्मि ।] १०८

नववृन्दा (स्वगतं) ः बन्ध्योऽयं राधिकासङ्गोपने देव्याः प्रयासभरः, न हि कौस्तुभमणीन्द्रमरीचिमण्डली पुण्डरीकाक्षवक्षस्तटीमन्तरेणान्यतस्तिष्ठति । १०९

चन्द्रावली (राधाहस्तमादाय) ः णाबुन्दे ! एसा अप्पणो बहिणी, तुह हत्थे समप्पिदा । [नववृन्दे ! एषा आत्मनो भगिनी, तव हस्ते समर्पिता ।] ११०

नववृन्दा ः देवि ! बाढमनुकम्पितास्मि । १११

चन्द्रावली ः बहिणि सच्चे ! जाहि णाबुन्दाए सममप्पणो अहिरुइदं बासन्तीच{उ}स्सालं, तत्थ पुप्फोबहारिणी मे ब{उ}ला तुमं परिचरिस्सदि । [भगिनि सत्ये ! याहि नववृन्दया सममात्मन अभिरुचितं वासन्तीचतुःशालं, तत्र पुष्पोफारिणी मे बकुला त्वां परिचरिष्यति ।] ११२

श्रीराधा ः देइ ! मन्दभाइणी एसा राहिआ समए सुमरिदब्बा । [देवि ! मन्दभागिनी एषा राधिका समये स्मर्तव्या ।] ११३

चन्द्रावली (साशङ्कं) ः हला ! किं भणिदं तुए ? [सखि ! किं भणितं त्वया ?] ११४

श्रीराधा (सातङ्कमात्मगतम्) ः हद्धी हद्धी ! गरुओ पमादो ! (प्रकाशम्) देइ, आराहिआ एसा त्ति । [हा धिखा धिक्, गुरुः प्रमादः ! देवि, आराधयति इति आराधिका एषा इति ।] ११५

नववृन्दा (राधया सह परिक्रामन्ती स्वगतम्) ः

वसन्ती शुद्धान्ते मधुरिमपरीता मधुरिपोर्

इयं तन्वी सद्यः स्वयमिह भवित्री करगता ।

वृताङ्गीमुत्तुङ्गैरविकलमधूलीपरिमलैः

प्रफुल्लां रोलम्बे नवकमलिनीं कः कथयति ॥२८॥ ११६

(इति राधया सह निष्क्रान्ता ।)

माधवी ः भट्टदारिए ! का क्खु अस्माणं सङ्का ? जं सो किदणिबन्धो उद्दिप्पदि । [भर्तृदारिके ! का खलु अस्माकं शङ्का ? यत्स कृतनिबन्ध उद्दीप्यते ।] ११७

चन्द्रावली ः सहि ! का क्खु कुलवदी भत्तूणो अरदिं पि जापन्ती काठिण्णं रक्खिदुं पहबेदि? [सखि ! का खलु कुलवती भर्तुररतिमपि जानती काठिन्यं रक्षितुं प्रभवति ?] ११८

नेपथ्ये ः

रम्भास्तम्भावलीनां रचयत पदवीसीम्नि विन्यासबन्धं

गन्धाम्भःशीकराणां विकिरत निकरं सत्वरं चत्वरेषु ।

देवीभिर्दिव्यपुष्पावलिभिरकलैतस्थैर्यमाकीर्यमाणो

विश्वेषां नेत्रवीथीमुदमयमुदगादुद्गिरन्वृष्णिचन्द्रः ॥२९॥ ११९

माधवी ः भट्टदारिए ! दिट्ठिआ बिजादि दुआरवदीणाधो, ता णेबच्छघरं परिसेहि । । [भर्तृदारिके ! दिष्ट्या विजयते द्वारवतीनाथः । तन्नेपथ्यगृहं प्रविश ।] (इति निष्क्रान्ते) १२०

(ततः प्रविशति मधुमङ्गलेनानुगम्यमानः कृष्णः ।)

कृष्णः (सखेदम्) ः

विद्योतिन्यकलङ्ककुङ्कुममयी चर्चा ममाङ्गस्य या

माला कण्ठतटस्य चम्पककृता वा सौरभोद्गारिणी ।

या सिद्धाञ्जनचूर्णशीतलतया हैमी शलाका दृशोस्

तां राधां कथमन्तरापि धिगसूंस्त्रुट्यन्ति मे रात्रयः ॥३०॥ १२१

मधुमङ्गलः (कृष्णस्य करे मणिं पश्यन्) ः पिअबास्स ! राहिआ कण्ठालङ्कारो मणिन्दो कहं दिआकरेण लद्धो ? [प्रियवयस्य ! राधिका कण्ठालङ्कारो मणीन्द्रः कथं दिवाकरेण लब्धः ?] १२२

कृष्णःः सखे !

अनुदिनमतिनम्रा कुर्वती पूर्वमासीत्

पितृपतिपितुरर्घ्यं गर्गवाक्येन राधा ।

इति बहुलरुचीनां वीचिभिः सम्परीतं

मणिवरमुपहारं नूनमस्मै चकार ॥३१॥ १२३

मधुमङ्गलः ः पेक्ख, एसो किरणकंदलीहिं किं पि बेलक्खण्णं धारेइ मणिंदो । [पश्य एष किरणकन्दलीभिः किमपि वैलक्षण्यं धारयति मणीन्द्रः ।] १२४

कृष्णःः सखे ! घनचैतन्यविवर्तोऽयम्, न प्राकृतरत्नसाधारणीं धुरमुद्वोढुमर्हति । (इति स्यमन्तकं वक्षस्तटे निधाय, सबाष्पम्)

धन्यः सोऽयं मणिरविरलध्वान्तपुञ्जे निकुञ्जे

स्मित्वा स्मित्वा मयि कुचपटीं कृष्टवत्युन्मदेन ।

गाढं गूढाकृतिरपि तया मन्मुखाकुतवेदी

निष्ठीवन्यः किरणलहरीं ह्रेपयामास राधाम् ॥३२॥ १२५

मधुमङ्गलः ः पिअबास्स ! सुदं मए जाम्बवन्तस्स सऽसादो एसो मणिन्दो तुए लद्धो । [प्रियवयस्य ! श्रुतं मया जाम्बवतः सकाशादेस मणिन्द्रस्त्वया लब्धः ।] १२६

कृष्णःः अथ किम् । १२७

मधुमङ्गलः ः कहं लद्धो ? [कथं लब्धः ?] १२८

कृष्णःः सखे । स भल्लूकमल्लः स्वबिलान्तरे मां विलोमचेष्टं विलोक्य शङ्कितरत्नापहारः सम्प्रहारमारेभे । १२९

मधुमङ्गलः ः तदो तदो ? १३०

कृष्णःः ततश्चिराय मद्विज्ञानतः समाप्ते तु तस्मिन्महासङ्ग्रामतन्त्रे यन्त्रितः स मन्त्री मां सामोदमवादीत्—

कच्चिद्भीमे स्मरसि जलधौ सेतुबन्धानुबन्धं

कच्चित्तां वा दशमुखशिरःकन्दुकोत्क्षेपकेलिम् ।

तद्विस्मर्तुं चरितमथवा नासि शक्तो यदेष

प्राञ्चं रत्नाहरणमिषतः किञ्करं संस्करोषि ॥३३॥ १३१

मधुमङ्गलः ः तदो तदो ? १३२

कृष्णःः ततो हेमकुट्टिमार्पितायां रत्नखट्टायां मां निवेश्य मणीन्द्रमानेतुं प्रकोष्ठान्तरं प्रविष्टे भल्लूकचक्रवर्तिनि मुहूर्ततः कापि जरती मदभ्यर्णमासाद्य निवेदितवती—तात ! तस्मिन्हठादाकृष्यमाणे मणीन्द्रे जाम्बवतः कुमारी विपद्यते । अनाकृष्यमाणे खल्विष्टदैवतस्य ते विप्रलम्भः सम्भवतीति महासङ्कटजम्बालमग्नस्य जाम्बवतः करावलम्बं भवन्तमन्तरेण नान्यं पश्यामि । ततस्तामवोचम्—वृद्धे ! तस्मिन्नवष्टम्भकदम्बोद्गारिणि मणौ धनतृष्णोपाधिः किमस्या गौरवोन्नाहः ?

धात्री—तात! नहि नहि—

रत्नं यदा दिनकरप्रतिमल्लरोचिर्

भल्लूकमण्डलपतिः स्वयमाजहार ।

एतत्तदा क्षणमवेक्ष्य सरोरुहाक्षी

सा क्षीणधैर्यनिकरा विकरा बभूव ॥३४॥ १३३

साम्प्रतमपि वत्सा

खिद्यन्ती घटिकां क्रमेण घटयत्यक्षामवक्षोजयोर्

जिघ्रन्ती च मुहुर्मुहूर्तमुपरि घ्राणस्य विन्यस्यति ।

धत्ते निश्वसती च नीरकणिकाकीर्णान्तयोर्नेत्रयोर्

इत्थं बन्धुमिव स्यमन्तकमसौ धूताङ्गमालिङ्गति ॥३५॥

मधुमङ्गलः ः तदो तदो ? १३४

कृष्णःः ततश्च कौतुकेनाहमाक्रान्तमनास्तामवादिषम्—धात्रिके ! किमत्र कारणं यदेषा तत्र रत्ने प्राज्यं रज्यति ?

धात्री—तात ! कस्तद्विज्ञातुमीष्टे ? यतः—

रत्ने रतिस्ते महती किमत्र

सा भङ्गुरभ्रूरिति पृच्छ्यमाना ।

निश्वस्य निश्वस्य तनोति बाष्पं

मुखेन्दुमावृत्य पटाञ्चलेन ॥३६॥

ततस्तामभ्यधाम्—धात्रि, किमेषा व्याहरन्ती तिष्ठति ? धात्री—

कल्याणीभिर्द्युतिभिरधिकं राधिकामाधवाख्यं

यत्पञ्चालीमिथुनमतुलं निर्ममे निर्मलाङ्गी ।

तस्यान्योन्यप्रणयमधुरैः सङ्गमालापरङ्गैः

खेलन्ती सा क्षपयति गलद्बाष्पधारं दिनानि ॥३७॥

ततस्तदाकर्ण्य, गम्भीरविस्मयारम्भसंवीतचित्तस्तामेवाहं समास्त्वमवादिषम्—धात्रिके ! कीदृशं पञ्चालिकाद्वन्द्वं तदवलोके कौतूहलवानस्मि ।

धात्री—तात ! तदद्भुतं जगन्मण्डलोक्तं तयोः स्त्रीपुंसयोर्युग्मम् । तयोर्हि—

त्वदालोके सद्यः सखलु तव तुल्याकृतिधरः

पुमान्मे स्मेरास्यः स्मरणपदवीमभ्युपगतः ।

न जाने सा धन्या क्व नु वसति पुण्ये जनपदे

यदीक्षारम्भे सा स्मृतिमुपजिहीते वरतनुः ॥३८॥ १३५

मधुमङ्गलः ः तदो तदो ? १३६

कृष्णःः ततश्च सा कक्षान्तरमासाद्य जाम्बवतीचित्तमुत्तम्भयामास—वत्से ! तवायं पञ्चालिकयोर्यः श्यामः पुमान्, स कौतुकी विग्रहान्तरेण जङ्गमीभावमङ्गीकृत्य पर्यङ्किकामध्यमध्यास्ते । तदद्भुतं दृष्टेरपरोक्षीक्रियताम् । इत्याकर्ण्य च—

राधायाः प्रतिमां मणिप्रणयिनीं विन्यस्य धात्रीकरे

सा सद्यस्तरुणा तिरोहिततनुर्मां वीक्ष्य पर्योत्सुका ।

क्रोशन्ती शिथिलीकृतत्रपमपध्वस्ताङ्गवर्णोन्नतिः

सातङ्कं निपपात मच्चरणयोरङ्के कुरङ्गेक्षणा ॥३९॥

(इति वैवश्यं नाटयति) १३७

मधुमङ्गलः (ससम्भ्रमं पाणिं प्रसार्य)ः पिअबास्स, मह हत्थमोलम्बेहि । [प्रियवयस्य, मम हस्तमवलम्बस्व] १३८

कृष्णः (तथा कृत्वा सगद्गदम्)ः

उपतरु ललितां तां प्रत्यभिज्ञाय सद्यः

प्रकृतिमधुररूपां वीक्ष्य राधाकृतिं च ।

मणिमपि परिचिन्वन्शङ्खचूडावतंसं

मुहुरहमुद्घूर्णं भूरिणा सम्भ्रमेण ॥४०॥ १३९

मधुमङ्गलः ः ही ही पिअबास्स ! एसो कञ्जिअं पत्थान्तस्स सिहरिणलाहो । [प्रियवयस्य ! एष काञ्जिकां प्रार्थ्यमानस्य शिखरिणीलाभः] (इत्युत्कूजन्) भो ! एदं महासोक्खविक्खोहेण पप्फुडै मे हिआं ता धारेहि मम् । [भो ! एतत्महासौख्यविक्षोभेन प्रस्फुटति मे हृदयं, तद्धारय माम् ।] १४०

कृष्णःः सखे ! क्षणमव्यग्रः समाकर्णय । १४१

मधुमङ्गलः (सधैर्यम्) ः तदो तदो ? १४२

कृष्णःः ततः शान्तिहेतुभिः कोमलालापमाधुरीभिः सान्त्वितापि सुकण्ठी मुक्तकण्ठं क्रन्दन्ती मामवादीत्—

अलिन्दे कालिन्दीकमलसुरभौ कुञ्जवसतेर्

वसन्तीं वासन्तीनवपरिमलोद्गारिचिकुराम् ।

त्वदुत्सङ्गे निद्रासुखमुकुलिताक्षीं पुनरिमां

कदाहं सेविष्ये किशलयकलापव्यजनिनी ॥४१॥

ततः प्रगाढतरोत्कण्ठापरीतेन हृद्बाष्पमुद्रा मयापि चिरात्तस्यामुद्घाटिता । हन्त ललिते !

सविधमनृतनिद्रामुद्रिताक्षस्य यान्ती,

मुहुरियमधुना मे वक्त्रबिम्बं चुचुम्ब ।

इति सखि पुरतस्ते ह्रेपिताया मयोच्चैर्

भ्रुकुटिमधुरमास्यं राधिकायाः स्मरामि ॥४२॥ १४३

मधुमङ्गलः ः तदो तदो ? १४४

कृष्णःः ततश्च विज्ञातऽखिलवृत्तान्तः स जाम्बवान्सानन्दं तत्रागत्य मामब्रवीत्—

सुग्रीवप्रणयितया मुहुः समग्रं

कारुण्यं मयि कुरुते सरोजबन्धुः ।

तस्याहं त्वरितमधारयं निदेशान्

निःशङ्कं गिरिशखरादिमां पतन्तीम् ॥४३॥

ततश्च जाम्बुनदालङ्कृता जाम्बवती तेन भल्लूकशिरोमाल्येन शिरोमणिना सह मम पाणौ विन्यस्ता । मयापि विदर्भेन्द्रमर्यादाभङ्गभीरुणा रैवतकन्दरायां सा सुन्दरी रक्षिता । तदिदं रहस्यकथारत्नं यत्नतश्चित्तकोषान्तरे धारणीयम् । यथा कस्यापि वितर्कपदवीमपि नाधिरोहति । १४५

मधुमङ्गलः ः एब्बमेदं [एवमेतत्] १४६

कृष्णः (सवैक्लव्यम्)ः

निखिलसुहृदामर्थारम्भे विलम्बितचेतसो

मसृणितशिखो यः प्राप्तोऽभून्मनागिव मार्दवम् ।

स खलु ललितासान्द्रस्नेहप्रसङ्गघनीभवन्

पुनरपि बलादिन्धे राधावियोगमयः शिखी ॥४४॥

(इति विरहार्तिं नाटयन्)

ललाटे काश्मीरैः कुरु मम दृशं पावकमयीं

दधीथा भोगीन्द्रद्युतिमुरसि मुक्तामणिसरम् ।

तनोः कण्ठं मुक्त्वा जनय घनसारैर्धवलतां

हरभ्रान्त्या भीतस्तुदति न यथा मां मनसिजः ॥४५॥ १४७

मधुमङ्गलः ः सच्चं गरुओ क्खु एसो सम्भावो, ता को एत्थ पडिआरो त्ति ण क्खु ओधारेमि । [सत्यं गुरुरेष सन्तापः । तत्कोऽत्र प्रतीकार इति न खलु अवधारयामि ।] १४८

कृष्णःः सखे ! प्रियाविहारसमभिहारसाक्षिनिकुञ्जवृन्दस्य वृन्दावनस्य विलोकनमन्तरेण नात्र परः प्रतीकारस्तदेष मणीन्द्रस्त्वया सत्राजिताय समर्प्यताम् । मयाप्यवरोधाय गन्तव्यमिति । (इति निष्क्रान्तौ) १४९

(इति निष्क्रान्ताः सर्वे)

इति श्रीश्रीललितमाधवनाटके

ललितोपलब्धिर्नाम

षष्ठोऽङ्कः

॥६॥

********************************************************************

.

(७)

सप्तमोऽङ्कः

नववृन्दावनसङ्गमः

(ततः प्रविशति बकुलयाराध्यमाना श्रीराधा ।)

राधिका (संस्कृतेन) ः

ममायासीद्दूरे दिगपि हरिसङ्गप्रणयिनी

प्रपेदे खेदेन त्रुटिरपि महाकल्पपदवीम् ।

दहत्याशासर्पिर्विरचितपदप्राणदहनो

बलान्मां दुर्लीलः कमिव करवै हन्त शरणम् ॥१॥ १

बकुला ः हला सच्चे ! सिणिहेण णाबुन्दाए बण्णिदं तुम्ह रहस्समम्हि । तधाबि किंपि बिण्णबिस्सम् । [सखि सत्ये ! स्नेहेन नववृन्दया वर्णितं तव रहस्यं मयि, तथापि किमपि विज्ञपयामि ।] २

श्रीराधा ः कामं बिण्णबेहि । [कामं विज्ञापय ।] ३

बकुला ः अम्ह राइन्दो सुंदरसेहरो तिल्लोअं सासेदि सो ज{इ} आणबेदि, तदो देइए रुप्पिणीए बि पडिउला भविअ तस्स तुमं बिण्णबेमि । [अस्मद्राजेन्द्रः सुन्दरशेखरस्त्रिलोकं शास्ति, स यदि आज्ञापयति, तदा देव्या रुक्मिण्यापि प्रतिकुला भूत्वा तस्मै त्वां विज्ञापयामि ।] ४

राधिका (संस्कृतेन) ः

शास्तु द्वारवतीपतिस्त्रिजगतीं सौन्दर्यपर्याचितः

किं नस्तेन विरम्यतां कथमसौ शोकाग्निरुज्ज्वाल्यते ।

युष्माभिः स्फुटयुक्तिकोटिगरिमव्याहारिणीभिर्बलाद्

आकर्ष्टुं व्रजराजनन्दनपदाम्भोजान्न शक्या वयम् ॥२॥ ५

बकुला ः सहि, पुच्छ हिदं णाबुन्दम् । [सखि, पृच्छ हितं नववृन्दाम् ।] ६

श्रीराधा ः कहिं गदा णाबुन्दा ? [कुत्र गता नववृन्दा ?] ७

बकुला ः देईए आहूदा अन्तेउरे । [देव्याहूता अन्तःपुरे ।] ८

श्रीराधा ः हन्त परतन्तम्हि किदा हददेब्बेण । [हन्त परतन्त्रास्मि कृता हतदैवेन ।] ९

नववृन्दा (प्रविश्य) ः सखि सत्ये, मा विषादं कृथाः । पश्य पश्य—

पादे निपत्य बदरीमवलम्बमाना

कान्तं रसालमनुविन्दति माधवीयम् ।

प्राणेशसङ्गमविधौ विनिविष्टचित्ता

नो पारवश्यकदनं मनुते हि साध्वी ॥३॥ १०

श्रीराधा ः का क्खु तुह हत्थे णेबच्छसामग्गी ? [का खलु तव हस्ते नेपथ्यसामग्री ?] ११

नववृन्दा ः शच्योपहारीकृतानि देव्यै दिव्यानि माल्यदुकूलादीनि । तान्येषा सखीभ्यो विभजन्ती त्वामपि बण्टकेन पुरश्चकार । १२

श्रीराधा ः किं मे दुक्खाणलस्स इन्धणेण इमिणा पसाहणेण ? [किं मे दुःखानलस्य इन्धनेनानेन प्रसाधनेन ?] १३

नववृन्दा ः सखि ! भानुदेवस्य सेवायामुपयोक्ष्यते । १४

श्रीराधा ः हला ! भणिदम्हि भाणुणा—बच्छे ! साअरकच्छे णिबिट्ठाए दुआरवदीपुरीए गब्भे णिम्मिदं णाबुन्दाअणं पबिसिअ तिणा अप्पणो पराणनाधेण सद्धं बिहरेहि । [सखि ! भणितास्मि भानुना—वत्से ! सागरकच्छे निविष्टाया द्वारावतीपुर्या गर्भे निर्मितं नववृन्दावनं प्रविश्य तेणात्मनः प्राणनाथेन सार्धं विहर ।] १५

नववृन्दा ः चारुलोचने ! व्यभिचारपराचीनानि खलु भवन्ति दैवतवराणां वचांसि । १६

श्रीराधा (संस्कृतेन) ः

मथुरामधिराजते हरिः

सखि राजेन्द्रपुरेऽत्र संवृतः ।

निवसाम्यहमित्यसम्भवः

प्रियसङ्गः प्रतिभासते मम ॥४॥ १७

नववृन्दा ः

अलं विलापैः समयक्रमस्य

दुरूहरूपा गतयो भवन्ति ।

शरन्मुखे पश्य सरस्तटीषु

खेलन्त्यकस्मात्खलु खञ्जरीटाः ॥५॥ १८

श्रीराधा ः अहिहाणे खञ्जरीडो बिअ असाहीणे क्खु पदेसे महापुरिसो ण रमेदि । [अनिधाने खञ्जरीट इवास्वधीने खलु प्रदेशे महापुरुषो न रमते ।] १९

नववृन्दा (विहस्य) ः विभ्रमाकुले ! व्रजेन्द्रस्यात्र कथमस्वाधीनतावधारिता ? २०

श्रीराधा (सेर्ष्यम्) ः अयि राइन्दस्स कीलाबणमक्कडि ! चिट्ठ चिट्ठ । [अयि राजेन्द्रस्य क्रीडावनमार्कटि ! तिष्ठ तिष्ठ !] २१

नववृन्दा (विहस्य) ः सरले ! व्रजेन्द्रमेव राजेन्द्रं विद्धि । २२

श्रीराधा (सौत्सुक्यम्) ः अबि सच्चमेदं ? [अपि सत्यमिदं ?] २३

नववृन्दा (स्वगतं) ः हन्त ! कथं यदृच्छया विस्मृतशपथास्मि संवृत्ता ? (प्रकाशं) न केवलं राजेन्द्रमेव, रामचन्द्रमुपेन्द्रं च व्रजेन्द्रं वदन्ति । २४

बकुला ः हला ! अदो भणामि, णिब्बन्धं मुक्किअ णन्देहि राइन्दम् । [सखि ! अतो भणामि, निर्बन्धं मुक्त्वा नन्दय राजेन्द्रम् ।] २५

श्रीराधा (संस्कृतेन) ः

यस्योत्तंसः स्फुरति चिकुरे केकिपत्रप्रणीतो

हारः कण्ठे विलुठति कृतः स्थूलगुञ्जावलीभिः ।

वेणुर्वक्त्रे रचयति रुचिं हन्त चेतस्ततो मे

रूपं विश्वोत्तरमपि हरेर्नान्यदङ्गीकरोति ॥६॥ २६

बकुला ः सहि ! उज्जुअबुद्धिआसि जं कढोरे बि तस्सिं सुट्ठु रज्जसि । [सखि ! ऋज्जुबुद्ध्यसि यत्कठोरेऽपि तस्मिन्सुष्ठु रज्यसे ।] २७

श्रीराधा (ससम्भ्रमं संस्कृतेन) ः मुग्धे मैवं ब्रवीः !

औदासीन्यधुरापरीतहृदयः काठिन्यमालम्बतां

कामं श्यामलसुन्दरो मयि सखि स्वैरी सहस्रं समाः ।

किन्तु भ्रान्तिभरादपि क्षणमिदं तत्र प्रियेभ्यः प्रिये

चेतो जन्मनि जन्मनि प्रणयितादास्यं न मे हास्यति ॥७॥ २८

नववृन्दा ः बकुले, सुव्रतेयं, तद्विरम्यताम् । २९

श्रीराधा (संस्कृतेन) ः

लताश्रेणी सेयं सहचरि चिरं सेवितचरी

पुरस्तेऽमी भूयो धृतपरिचयाः कुञ्जनिचयाः ।

अमूस्ता यामुन्यो मुहुरटित पूर्वास्तटभुवो

व्यथामेव क्रूरां विदधति विना गोकुलपतिम् ॥८॥ ३०

नववृन्दा ः बकुले ! विलोक्यतामस्या बलीयः सन्तापमण्डलम् । तदद्य कालिन्दीकुलावलम्बिनि कदम्बमूले नलिनी संवर्तिकाभिः कल्पय तल्पम् । ३१

बकुला ः तधा भणादि पिअसहि । [तथा भणति प्रियसखी ।] (इति निष्क्रान्ता ।) ३२

श्रीराधा (संस्कृतेन) ः

सोढा गोष्ठभुवां वियोगजनिताः प्राणच्छिदो वेदनाः

प्रेष्ठानां निजजीवितादपि मया तासां सखीनामपि ।

सेयं हन्त न पद्मबान्धववचो विश्रम्भगम्भीरिता

कं वा सम्प्रति मामसीषहदिह क्लेशं दुराशावली ॥९॥ ३३

नववृन्दा ः क्व ते प्रियसखी विशाखा ? ३४

श्रीराधा ः सा क्खु कुसलिणी पिदरमापुच्छिअ पुहबीतले आअदत्थि । केअलं ललिदा ज्जेब मं दुक्खाबेदि । [सा खलु कुशलिनी पितरमापृच्छ्य पृथिवीतले आगतास्तिइ । केवलं ललिता एव मां दुःखापयति ।] (इति रोदिति ।) ३५

नववृन्दा ः ललितायाः सा दशा कुतस्त्वया श्रुता । ३६

श्रीराधा ः सग्गारोहणसमए खेअरेहिन्तो । [स्वर्गारोहणसमये खेचरेभ्यः ।] ३७

नववृन्दा ः राधे, त्वयाद्य निशीथे ललितामाभाष्य किमपि स्वप्नायितम् । ३८

श्रीराधा ः कीदिसं तं ? [कीदृशं तत्?] ३९

नववृन्दा ः

श्वाफल्केः सफलीबभूव ललिते हृल्लालसावल्लरी

हा धिक्पश्य मुरान्तकोऽयमुररीचक्रे रथारोहणम् ।

इत्थं ते करुणस्वरस्तवकितं स्वप्नायितं शृण्वती

मन्ये तन्वि पतत्तुषारकपटाच्चक्रन्द यामिन्यपि ॥१०॥ ४०

श्रीराधा (सव्यथं संस्कृतेन) ः

चिरादद्य स्वप्ने मां विविधयत्नादुपगते

प्रपेदे गोविन्दः सखि नयनयोरङ्गनभुवम् ।

गृहीत्वा हा हन्त त्वरितमथ तस्मिन्नपि रथं

कथं प्रत्यासन्नः स खलु पुरुषो राजपुरुषः ॥११॥ ४१

(प्रविश्य) बकुला ः हला ! णिम्मिदसेज्जम्हि, ता उत्थेहि । [सखि, निर्मितशय्यास्मि, तदुत्तिष्ठ ।] (इति तिस्रः परिक्रामति ।) ४२

नववृन्दा (ससम्भ्रमम्) ः

इतस्त्वं मा यासीः कथमपि निवर्तस्व रभसाद्

अशोकाख्यः शाखी प्रियसखि पुरस्ते निवसति ।

पदालम्भादम्भोरुहमुखि तवास्मिन्कुसुमिते

हताशानां भावी कुल्शवदलीनां कलकलः ॥१२॥ ४३

राधिका (निवृत्य सलज्जं संस्कृतेन) ः

कंसारेरवलोकमङ्गलविनाभावादधन्येधुना

बिभ्राणा हतजीविते प्रणयितां नाहं सखि प्राणिमि ।

क्रूरेयं न विरोधिनी यदि भवेदाशामयी शृङ्खला

प्राणानां ध्रुवमर्बुदान्यपि तस्य त्यक्तुं सुखेनोत्सहे ॥१३॥ ४४

बकुला ः इअं पुरदो सेज्जा । [इयं पुरतः शय्या ।] ४५

श्रीराधा (शय्यामधिशय्य स्वगतम्) ः एत्थ बुन्दाअणे दुल्लहं मे पराणधारणं, ता कं पि ऊबाअं करिस्सम् । [अत्र वृन्दावने दुर्लभं मे प्राणधारणं, तत्कमपि उपायं करिष्यामि ।] (प्रकाशं) णाबुन्दे ! णिच्चकम्मं बिणा खिण्णम्हि । [नववृन्दे ! नित्यकर्म विना खिन्नास्मि ।] ४६

नववृन्दा ः सखि, किं ते नित्यकर्म ? ४७

श्रीराधा (संस्कृतेन) ः

खेलन्मञ्जुलवेणुमण्डितमुखी साचिभ्रमल्लोचना

मुग्धे मूर्ध्नि शिखण्डिनी धृतवपुर्भङ्गीत्रयाङ्गीकृतिः ।

कैशोरे कृतसङ्गतिः सुरमुनेराराध्यते शासनाद्

अस्माभिः पितुरालये जलधरश्यामद्युतिर्देवता ॥१४॥ ४८

नववृन्दा (स्वगतम्) ः विज्ञातमस्याः कृष्णाकृतिवीक्षणाय पाटवम् । तदद्य वृन्दावनालङ्काराय महेन्द्रशिल्पिना कल्पितां महेन्द्रनीलमयीं मुकुन्द्रमूर्तिमस्याः समक्षयामि । (प्रकाशम्) सखि ! त्वदिष्टदेवमाविर्भावयितुमसौ प्रयामि । (इति निष्क्रान्ता ।) ४९

श्रीराधा (पुरो दृष्ट्वा संस्कृतेन) ः

रासात्तिरोहिततनुः सखि यस्य पुष्पै

श्चूडां चकार चिकुरे मम पिञ्छचूडः ।

कूले कलिन्ददुहितुर्धृतकन्दलोऽयं

मां दन्दहीति स मुहुर्नवकर्णिकारः ॥१५॥ ५०

(प्रविश्य) नववृन्दा ः सखि ! तूर्णमागत्य पश्य दैवतम् । ५१

श्रीराधा ः णाबुन्दे ! आहरोहि कं पि सेवोवहारम् । [नववृन्दे, आहर कमपि सेवोपहारम् ।] ५२

नववृन्दा ः बकुले ! वासन्तीगृहादानय देव्या दत्तं दिव्यमाल्याम्बरम् । ५३

(बकुला निष्क्रान्ता ।) ५४

नववृन्दा (सस्मितं) ः सखि राधे !

यैः पुष्पावलिगन्धधूपवलिभिर्दामोदरः सेव्यते

कुर्वद्भिः स्तुतिपूर्वमुत्तमनतीस्ते तावदन्ये जनाः ।

सेवा कोकिलकण्ठि गोकुलभुवां युष्मादृशीनां हरौ

वक्रालोककलाकरम्बितपरीरम्भादिलीलामयी ॥१६॥

(इति परिक्रम्य) पश्य सोऽयमुपकण्ठे समुत्कण्ठितस्तिष्ठते तुभ्यमभीष्टदेवः । ५५

श्रीराधा (विदूरादेव विलोक्य सोत्कण्ठं संस्कृतेन) ः

अजनि सफलः सौख्यं भूयान्कलेवरधारणे

सहचरि परिक्लेशो योऽभून्मया किल सेवितः ।

अहह यदिमाः श्यामश्यामा पुरो मम वल्लवी

कुलकुमुदिनीबन्धोस्तास्ताः स्फुरन्ति मरीचयः ॥१७॥ ५६

(इति परिक्रम्य पिण्डिकामासादयन्ती सगद्गदम् ।)

दग्धं हन्त दधानया वपुरिदं यस्यावलोकाशया

सोढा मर्मविपाटने पटुरियं पीडातिवृष्टिर्मया ।

कालिन्दीयतटीकुटीरकुहरक्रीडाभिसारव्रती

सोऽयं जीवितबन्धुरिन्दुवदने भूयः समालिङ्गितः ॥१८॥ ५७

(इति प्रेमावेशेन साक्षादिव कृष्णं सम्भावयन्ती ।)

प्रेम्णा व्यक्तीकृतमिह तथा कोमलत्वं त्वयाग्रे

येन ज्ञातो निखिलविधिभिर्मामकीनस्त्वमासीः ।

काठिन्यं ते विदितमधुना तादृशं हन्त यस्मात्

सम्भाव्योऽभूदयमपि न मे तावकत्वाभिमानः ॥१९॥ ५८

नववृन्दा (स्वगतं) ः हन्त ! काप्यनुरागसागरस्य सेयमुत्तरङ्गता । ५९

श्रीराधा (जनान्तिकं संस्कृतेन) ः

न ब्रूते परिहासपेशलकलासन्दर्भगर्भां गिरं

दोःस्तम्भद्वयसम्भ्रमान्न च परीरम्भाय सम्बध्यते ।

लीलाभङ्गुरचिल्लिरेष ललितोल्लासिस्मितक्षोदिमा

धूर्तानां सखि शेखरः कुटिलया दृष्ट्या परं लेढि माम् ॥२०॥ ६०

नववृन्दा ः हला ! नागरधूर्तधुरीणानां निगूढेयं नर्मचातुरी । तदेनं तं च दृगञ्चलेन सन्तर्जयन्ती वक्रोक्तिभिरुपालभेथाः । ६१

श्रीराधा (साचि समीक्ष्य संस्कृतेन) ः

चिरासङ्गान्मन्ये कुलिससुहृदः कौस्तुभमणेर्

इतः सङ्क्रान्तस्ते म्रदिमपरिपन्थी हृदिगुणः ।

त्वमेताभिः कट्टावलिभिरवलीढेऽपि कुरुषे

जनेऽस्मिन्नीशानः कथमितरथा वञ्चनमिदम् ॥२१॥

(इत्यपवार्य) हला, पेक्ख, अजुत्तमजुत्तं, जं णीलुप्पलकोमलोबि बणमाली कक्कसं बंसिअं च्चेअ चुम्बदि । ता इदो णमाअड्ढित गेणहिस्सम् । [सखि, पश्य, अयुक्तमयुक्तं, यत्नीलोत्पलकोमलोऽपि वनमाली कर्कशं वंसिकामेव चुम्बति । तदितो एनामाकृष्य ग्रहीष्यामि ।] ६२

नववृन्दा (स्वगतं) ः श्रेयसी न खलु वंशिकाकृष्टीः । तदेनामपदेशादुपदिशामि । (प्रकाशं सनर्म स्मित्वा)

त्वमेतस्मिन्नीलोत्पलमयतया वक्तुमुचिते

मुधा मुग्धे नीलोत्पलमृदुलतामर्पयसि किम् ।

मदुक्तौ विस्रम्भं यदि भजसि नाम्भोजवदने

ततो वक्षःपीठे घटय सखि विस्टरिणि कुचम् ॥२२॥ ६३

श्रीराधा (वक्षसि पाणिमर्पयन्ती सव्यथम्) ः कधमेसा सच्चं ज्जेब्ब, णीलमणिपडिमा [कथमेषा सत्यमेव, नीलमणिप्रतिमा ।] (विमृश्य) हद्धी हद्धी गाढुक्कण्ठाए सब्बं बिसुमरिअ पडिमं च्चेअ पच्चक्खं माहबं मण्णेमि । [हा धिखा धिक्! गाढोत्कण्ठया सर्वं विस्मृत्य प्रतिमामेव प्रत्यक्षं माधवं मन्ये ।] ६४

(प्रविश्य) बकुला ः गेण्ह गेण्ह इमाइं मालम्बरबिलेपनाइम् । [गृहाण गृहाण इमानि माल्याम्बरविलेपनानि ।] ६५

(राधा गृहीत्वा प्रतिमामलञ्चिकीर्षति ।) ६६

नववृन्दा ः

प्रणयिनं समया समये गता

वहसि कान्तिधुरां मधुरां मुदा ।

न किल कोकिलसङ्गतिमन्तरा

स्फुरति सम्पदलं सखि माधवी ॥२३॥ ६७

(प्रविश्य) माधवी ः सच्चाए प{उ}त्तिं बिण्णादुं भट्टिदारिआए पेसिन्दम्हि, ता अग्गदो पप्फुरन्तं णाबुन्दाअणं पबेस्सिसम् । [सत्यायाः प्रवृत्तिं विज्ञातुं भर्तृदारिकया प्रेरितास्मि, तदग्रतः प्रस्फुरन्तं नववृन्दावनं प्रवेक्ष्यामि ।] (इति परिक्रम्य) हन्त ! णूणं बुन्दाअणं प{इ}ट्ठो भट्टा, जमिमाइं सङ्खचक्कादि लक्खिदाइं पऽइं लक्खीअन्ति, ता पत्थुदं णिब्बाहिअ भट्टिदारिआमाणिस्सम् । [हन्त ! नूनं वृन्दावनं प्रविष्टो भर्ता, यदिमानि शङ्खचक्रादिलक्षितानि पदानि लक्ष्यन्ते, तत्प्रस्तुतं निर्वाह्य भर्तृदारिकामानयिष्यामि ।] ६८

(राधा सास्रकम्पं कृष्णाकृतिं मण्डयति ।) ६९

माधवी ः एसा पडिदा तस्स णीलुप्पलमाला दीसदि । [एषा पतिता तस्य नीलोत्पलमाला दृश्यते ।] (इति करेण स्रजमादाय सत्वरमुच्चैः ।) सहि ब{उ}ले ! कुदोसि ? [सखि बकुले ! कुतोऽसि ?] ७०

नववृन्दा (ससम्भ्रमम्) ः सत्ये ! सन्निहितासौ माधवी, तदितस्तूर्णं प्रयाणमुचितम् । ७१

श्रीराधा ः ण मे दंसणे तिण्हा पूरिदा, ता पुणो झत्ति बाहुडिस्सम्ह । [न मे दर्शने तृष्णा पूरिता, तत्पुनर्झटिति व्यावर्तयिष्यामः ।] (इति तिस्रः परिक्रमन्ति ।) ७२

माधवी (विलोक्य) ः कधमिध जेब्ब सच्चा ? [कथमिहैव सत्या ?] सहि ! माहबीपुप्फाइमाहरिदुमाअदम्हि । [सखि, माधविपुष्पाणि आहरितुमागतास्मि ।] ७३

श्रीराधा (सौरभ्यमाघ्राय स्वगतम्) ः कुदो एदमाअम्हिअं सोरहं चित्तं मे बिलोलेदि ? [कुत एतदाकस्मिकं सौरभ्यं चित्तं मे विलोलयति ?] (इति माधवीकरे माल्यं दृष्ट्वा अपवार्य संस्कृतेन) ः

इतो माल्यादिन्दीवरविरचितादेष विजयी

विसर्पत्याभीरीकुलकुमुदबन्धोः परिमलः ।

मम क्षोभानुग्रान्सपदि भैरन्तः प्रणयिनो

बलादन्यो गन्धः कथमिव विधातुं प्रभवति ॥२४॥ ७४

माधवी (सविस्मयं संस्कृतेन) ः

सुराभिमनुभवन्त्याः श्यामलाम्भोजमालां

भजति तव किमेतत्कम्पसम्पत्तिमङ्गम् ।

वपुरपि परिखिन्नाकारमह्नाय किं वा

कलयति परिफुल्लामालि रोमाञ्चपालिम् ॥२५॥ ७५

श्रीराधा (स्वगतम्) ः सम्बरणिज्जो एसो अत्थो । [संवरणीय एषोऽर्थः] (प्रकाशं) माहवि ! इन्दीवरमालं पेक्खिअ कालिअदहे दिट्ठं दाणिं भुअङ्गाअलिं सुमरन्ती भीदम्हि । [माधवि ! इन्दीवरमालां प्रेक्ष्य कालियह्रदे दृष्टमिदानीं भुजङ्गावलिं स्मरन्ती भीतास्मि ।] ७६

नववृन्दा (स्वगतं) ः साधु समाधानमिदम् । ७७

श्रीराधा (स्वगतं) ः फुडं ताए च्चेअ मुत्तीए णिम्मलमाला एसा । [स्फुटं तस्या एव मूर्त्या निर्माल्यमाला एषा ।] ७८

माधवी ः सहि सच्चे ! माहबीमण्डबं गदुअ पुप्फाइमवचिणिस्सम् । [सखि सत्ये ! माधवीमण्डपं गत्वा पुष्पाणि अवचेष्यामि ।] ७९

सर्वाः ः इदो इदो पिअसहि ! [इत इत प्रियसखि !] (इति निष्क्रान्ताः ।) ८०

श्रीकृष्णः (सोद्वेगम्) ः

क्षणादेव क्षुण्णा भवति वनमाला मलयज

द्रव्यालेपः शुष्यन्निपतति रजःसञ्चयनिभः ।

विसर्पद्भिर्ज्वालैरुरसि रविकान्ताकृतिरसौ

ममान्तःसन्तापं कलयति परं कौस्तुभमणिः ॥२६॥

(इति सव्यतः प्रेक्ष्य) प्रियवयस्य ! कियद्दूरे सा वृन्दाटवी ? ८१

मधुमङ्गलः (संस्कृतेन) ः

स्फुटच्चटुलचम्पककररोचिरुल्लासिनी

मदोत्तरलकोकिलावलिकलस्वरालापिनी ।

मरालगतिशालिनी कलय कृष्णसाराधिका… (इत्यर्धोक्ते) ८२

कृष्णः (ससम्भ्रममौत्सुक्यम्) ः सखे ! क्वासौ क्वासौ ? ८३

मधुमङ्गलः (अङ्गुल्या दर्शयन्) ः पुरः स्फुरति वल्लभा तव… ८४

कृष्णः (सवैयग्र्यं) ः वयस्य ! नाहं पश्यामि । तदाशु दर्शया क्व सा मे राधिका । ८५

मधुमङ्गलः ः …मुकुन्द वृन्दाटवी ॥२७॥ ८६

श्रीकृष्णः (परामृश्य निश्वसन्) ः कथं नामधेयवर्णानामाकर्णनादेव सर्वानुसन्धानविधुरोऽस्मि । (इति परिक्रम्य)

सर्वाङ्गीणामकुरुत मुहुः सा ममाकल्पलक्ष्मीं

पुष्पैर्यस्याः परिमलभरोद्गारिभिर्गौरगात्री ।

अग्रे सेयं कुसुमधनुषः पश्य भल्लायमाना

मामुत्फुल्ला प्रहरति रुवद्भृङ्गमल्लाद्य मल्ली ॥२८॥

(परिक्रम्य)

मिहिरदुहितुस्तीर्थोपान्ते स्फुरन्ति निरन्तरा

व्रततिनिकरैरेतास्तास्ता महीरुहराजयः ।

किशलयकुलैर्यासां नव्यैरलभ्यत राधिका

श्रुतिपरिसरे ताडङ्कश्रीविडम्बनचातुरी ॥२९॥ ८७

मधुमङ्गलः (सविस्मयम्) ः बास्स ! एत्थ जोब्बणे बि बसन्तस्स कीस तल्लक्खणं णत्थि ? [वयस्य ! अत्र यौवने वसन्तस्य कस्मात्तल्लक्षणं नास्ति ।] ८८

श्रीकृष्णः ः सखे ! सत्यमात्थ, तथा हि—

आतन्वती पिकास्तथा मधुलिहो वाचंयमानां व्रतं

माकन्देषु दरोद्गता अपि जडीभावं भजन्त्यङ्कुराः ।

अर्धोद्गीर्णमुखाप्यशोकनिकरे विष्कम्भते मञ्जरी

कालिन्दीतटसीम्नि हन्त किमियं सुप्ता मधुश्रीरभूत॥३०॥ ८९

मधुमङ्गलः ः पेक्ख, एसा काए बि बिरहिणीए करारबिंदबिर{इ}आ सेज्जा । [पश्य, एषा कस्या अपि विरहिण्या करारविन्दविरचिता शय्या ।] ९०

श्रीकृष्णः ः नूनमस्याः प्राणरक्षणाय सख्या विष्टम्भितेयं वसन्तलक्ष्मीः । (इत्यालोक्य सातङ्कम् ।)

शून्यक्रीडानिविडकमलैः कल्पिता तल्पवेदी

नेदीयस्यास्तनुलहरिभिः शीलिता हेलिपुत्र्याः ।

अङ्गज्वालापरिचयमिलन्मुर्मुरा मर्मदुःख

व्याख्यापञ्जी मम धियमियं धूम्रयन्ती धुनोति ॥३१॥ ९१

मधुमङ्गलः ः एदमग्गदो निउञ्जसलिअं सलाहेहि । [एतामग्रतो निकुञ्जशालिकां श्लाघय ।] ९२

श्रीकृष्णः (परिक्रम्य सोद्ग्रीवं पश्यन्साश्चर्यम्) ः कथमारण्यवेशधारिणी हारिणीयं मदङ्गप्रतिमा ? (इति सन्निधाय) नूनमेतया शिल्पाचार्यकलाकौशलविवर्तनेन भवितव्यम् । ९३

मधुमङ्गलः (सकौतुकम्) ही ही एसो जेब्ब अप्पणो पिअबास्सो मए चिरादो लद्धो । तुमं क्खु राइन्दो, ण मे बम्हणबडुअस्स अहिरूबो । [ही ही एष एवात्मनः प्रियवयस्यो मया चिराल्लब्धः । त्वं खलु राजेन्द्रो, न मे ब्राह्मणबटुकस्याभिरूपः ।] (निरीक्ष्य) पिअबास्स! पेक्ख काए बि अणुराइणीए सेवा किदत्थि । [प्रियवयस्य, पश्य कयाप्यनुरागिण्या सेवा कृतास्ति ।] ९४

श्रीकृष्णः ः सखे ! साधु लक्षितम् ।

असौ व्यस्तन्यस्ता विशदयति माला विवशता

विभक्तेयं चर्चा नयनजलवृष्टिं कथयति ।

करोत्कम्पं तस्या वदति तिलकं कुञ्चितमिदं

कृशाङ्ग्याः प्रेमाणं वरिवसितमेव प्रथयति ॥३२॥ ९५

नेपथ्ये ः इदो इदो पिअसहि ! [इत इतः प्रियसखि ।] ९६

श्रीकृष्णः ः सखे ! नूनं प्रत्यासीदन्ति मूर्तेरुपासिकास्तरुण्यः, तदेषा मदर्चा कुञ्जान्तरे निवेश्यताम् । मयास्याः सुष्ठु वेशमाधुरीमुररीकृत्य बिम्बोष्ठीनां भावनिष्ठां निष्टङ्गयिष्यता वेदीयमधिष्ठेया । (इत्युभौ तथा कुरुतः ।) ९७

(ततः प्रविशति सखिभ्यामनुगम्यमाना श्रीराधा ।) ९८

श्रीराधा (पुरोऽवलोक्य सरोमाञ्चम्) ः अम्महे ! पडिमाए माहुरीभरसाहुदा, जं सच्चं च्चेअ माहबदंसणचमक्कारमुप्पादेदि । [आश्चर्यं ! प्रतिमया माधुरीभरसाधुता, यत्सत्यमेव माधवदर्शनचमत्कारमुत्पादयति ।] ९९

बकुला (जनान्तिकम्) ः णाबुन्दे ! पेक्ख पडिमाए सुन्देरम् । [नववृन्दे ! प्रेक्षस्व प्रतिमायाः सौन्दर्यम् ।] १००

नववृन्दा (सस्मितं) ः मुग्धे ! नूनं सत्यभामाप्रेमोन्मादस्त्वय्यपि सञ्चक्राम । या हरिमेव प्रतिमां प्रत्येषि । १०१

श्रीकृष्णः (सविस्मयानन्दम्) ः हन्त ! केयं चित्ताकर्षिणी कल्पलतिका ? (इति सौत्सुक्यम्)

हृदयान्तरस्फुरदमन्दवेदना

भरवावदूकवदनाम्बुजद्युतिः ।

नयनान्तताण्डवितनीलकुन्तला

सुदती मदक्षिपदवीं प्रपद्यते ॥३३॥

(पुनर्निभाल्य सचमत्कारम्) हन्त हन्त ! कथं सैवेयं मे प्राणवल्लभा राधा ! (इत्यश्रुधारामावारयन्सविमर्शम्)

अकल्पि सुरशिल्पिना परिकलय्य मायामयी

सुखाय मम राधिका ध्रुवममन्दवृन्दावने ।

भवेदिह कुशस्थलीनगरनीतिभिर्दुर्गमे

ममान्तरवरोधने क्व नु तदीयसम्भावना ॥३४॥ १०२

श्रीराधा (श्रीकृष्णमुखेन्दुमवलोक्य) ः हन्त ! हन्त ! णिब्भरूक्कण्ठिदाए मह मुद्धत्तणं, जं गोइन्दस्स पडिमं जेब्ब गोइन्दं मण्णेमि । [हन्त ! हन्त ! निर्भरोत्कण्ठिताया मम मुग्धत्वं, यद्गोविन्दस्य प्रतिममेव गोविन्दं मन्ये ।] (इति साश्रुधारमञ्जलिं बद्ध्वा) अ{इ} पडिबिम्ब ! अबि किं तुम्ह बिम्बस्स अम्बुरुहलोअणस्स कल्लाणं ? [अयि प्रतिबिम्ब ! अपि किं तव बिम्बस्य अम्बुरुहलोचनस्य कल्याणं ?] १०३

श्रीकृष्णः (सोल्लासम्) ः अयि मायायन्त्रमयि राधिके ! सत्यमिदानीमेव कृष्णः क्षेमी, यदियं सर्वमुद्रया तां लोकोत्तरामनुकुर्वती त्वमस्य क्षेमं पृच्छसि । १०४

श्रीराधा (सचमत्कारं) ः साहु णाबुन्दे ! साहु साहु, जाए सिप्पकलाकुसलाए निम्मिदा पडिमाबि एदं किं पि महुरं बाहरेदि । [साधु नववृन्दे ! साधु साधु, यया शिल्पकलाकुशलया निर्मिता प्रतिमापि एतत्किमपि मधुरं व्याहरति ।] १०५

श्रीकृष्णः ः अहो ! गन्धर्वपुराणुकारिणोऽपि मायागन्धर्वनाट्यस्य कापि चिरचमत्कारकारिता, यदत्र ममाप्यबाधितेव राधा प्रतिभासते । १०६

श्रीराधा (सानन्दाद्भुतं संस्कृतेन) ः

वरो धिन्वन्घ्राणं परिमिलति सोऽयं परिमलो

घनश्यामा सेयं द्युतिविततिराकर्षति दृशौ ।

स्वरः सोऽयं धीरस्तरलयति कर्णौ मम बलाद्

अहो गोविन्दस्य प्रकृतिमुपलब्धा प्रतिकृतिः ॥३५॥

(इति काकुं कुर्वती) अ{इ} कण्हपडिमे ! एसा चाडुकोडिहिं भिक्खेदि राही, एब्बं च्चेअ जङ्गमीभविअ चिरं सुहाबेहि सन्ताबजज्जरं दीणाए लोअणम् । [अयि कृष्णप्रतिमे ! एषा चाटुकोटिभिर्भिक्ष्यते राधा । एवमेव जङ्गमीभूय चिरं सुधापय सन्तापजर्जरं दीनाया लोचनम् ।] १०७

श्रीकृष्णः ः हन्त वृन्दारकवर्धके ! दिष्ट्या संवर्धितोऽस्मि । (इति बाष्पधारां वितनोति ।) १०८

नववृन्दा ः सखि ! चेलाञ्चलेनापसार्यतां प्रियमुखाम्भोजाद्बाष्पाम्बुधारा । १०९

(श्रीराधा सापत्रपं तथा करोति ।) ११०

नववृन्दा (स्वगतं) ः कथमसौ माधवो राधिकाङ्गस्पर्शसौख्येन स्तिमिताक्षो भवन्पृष्ठाश्रितकदम्बस्तम्भमालम्बते ? १११

श्रीराधा ः हद्धी हद्धी ! साहबिअं धम्मं गदा पडिमा । [हा धिखा धिक्! स्वाभाविकं धर्मं गता प्रतिमा ।] (इति मूर्च्छति) ११२

(नेपथ्ये सञ्कुलध्वनिः ।) ११३

बकुला (सावेगं) ः णाबुन्दे ! कधमेसो ससङ्कं बिक्कोसन्ताणं कलाबिणं कलाबो बिद्दबदि ? [नववृन्दे ! कथमेष सशङ्कं विक्रोशतां कलापिनां कलापो विद्रवति ?] ११४

नववृन्दा ः नूनं विदर्भनन्दिनी वृन्दावनं प्रपेदे, तदीयपरीवाराणां मञ्जीरशिञ्जितेन शङ्कितमरालकुलोत्कर्षाः कलापिनः पलायन्ते, तदितस्तूर्णं त्वया सत्यापसार्यताम् । ११५

बकुला ः साहु मन्तेसि । (इति मूर्च्छितामेव राधामङ्कीकृत्य निष्क्रान्ता ।) ११६

मधुमङ्गलः (निकुञ्जान्निःसृत्य) ः अच्चरिअमच्चरिअं ! भो पिअबास्स ! सच्चं च्चेअ पडिमारूबो सि । [आश्चर्यमाश्चर्यं! भो प्रियवयस्य ! सत्यमेव प्रतिमारूपोऽसि ।] ११७

श्रीकृष्णः (पुरो दृष्टिं प्रक्षिपन्) ः हन्त हन्त ! कथं लीना बभूव सद्यस्त्वाष्ट्री शिल्पमाया ? (इति चमत्कारमभिनीय) नववृन्दे ! भूयोऽपि किमियं प्रस्तोतुं शक्यते जगद्विस्मापिनी कापि माया ? ११८

नववृन्दा ः अथ किम् । ११९

श्रीकृष्णः (सोत्कण्ठं) ः सखि, तूर्णमुपनीयताम् । १२०

नववृन्दा ः देव ! यतोऽहं विद्रवन्ती चक्रवाकीव बिभेमि, सेयं सन्निकृष्टा देवी चन्द्रिका (इति निष्क्रान्ता ।) १२१

(ततः प्रविशति सहपरिजना चन्द्रावली ।) १२२

चन्द्रावली ः हला माहबि ! विरहिणीए बहिणीए राहिए सोआणलो अज्जबि मे ण णिब्बादि । [सखि माधवि ! विरहिण्या भगिन्या राधया शोकानलोऽद्यापि मे न निर्वाति ।]१२३

माधवी ः भट्टदारिए ! प{इ}दिसिणद्धासि, कधं णिब्बादु ? [भर्तृदारिके ! प्रकृतिस्निग्धासि, कथं निर्वातु ?] १२४

चन्द्रावली ः सहि ! अज्ज अज्जौत्तेण हा राहि हा राहि त्ति सब्बं च्चेअ रत्तिं सिबिणाइदम् । [सखि ! अद्य आर्यपुत्रेण हा राधे हा राधे इति सर्वामेव रात्रिं स्वप्नायितम् ।] १२५

माधवी ः णूणं सिबिणदंसणबिक्खोहिदमत्ताणां बिणोदेदुमेसो बुन्दाअणं प{इ}ट्ठो । [नूनं स्वप्नदर्शनबिक्षोभितमात्मानं विनोदयितुमेष वृन्दावनं प्रविष्टः ।] १२६

चन्द्रावली ः सच्चं भणासि । [सत्यं भणसि ।] १२७

माधवी ः पेक्ख, भट्टदारिए ! अग्गदो णिउञ्जे भट्टा । [पश्य, भर्तृदारिके ! अग्रतो निकुञ्जे भर्ता ।] १२८

चन्द्रावली (साचि समीक्ष्य) ः हला ! जं बुन्दासणेबि एसो उप्फुल्लाआरो बिलोईअदि, ता तक्केमि अ{उ}रुब्बं किं पि रसन्तरं लद्धो । [सखि ! यत्वृन्दावनेऽपि एष उत्फुल्लाकारो विलोक्यते, तत्तर्कयामि अपरूपं किमपि रसान्तरं लब्धम् ।] १२९

माधवी (निभाल्य) ः भट्टदारिए ! फुडं सङ्गदा सा हारिणी सच्चभामा । [भर्तृदारिके ! स्फुटं सङ्गता सा हारिणी सत्यभामा ।] १३०

चन्द्रावली ः सहि, सच्चं सच्चं, जमिमस्स अङ्गे सो जेब्ब मए पेसिदो दिब्बपरिच्छओ, ता गदुअ तत्तं जाणिस्सम् । (इत्युपसृत्य) जादु जादु अज्जौत्तो । [सखि, सत्यं सत्यं, यदस्य अङ्गे स एव मया प्रेषितो दिव्यपरिच्छदः, तद्गत्वा तत्त्वं ज्ञास्यामि । जयतु जयतु आर्यपुत्रः ।] १३१

श्रीकृष्णः (सावहित्थं) ः प्रिये, दिष्ट्याद्य समये वृन्दावनमुपलब्धासि । १३२

चन्द्रावली (कृष्णं पश्यन्ती साश्चर्यमपवार्य, संस्कृतेन ।)

स्फुरति मधुरिमोर्मिः स्फारमारण्यवेशं

कमपि जगदपूर्वं बिभ्रतो माधवस्य ।

कलयति न हि तृप्तिं नेदमीर्ष्याभुजङ्गी

कवलितमपि यत्र प्रेष्यमाणे मनो मे ॥३६॥

(इति स्मितं कृत्वा) देअ ! णबीणपण{इ}णीसङ्गममहूसबेण दिट्ठिआ पफुरसि । [देव ! नवीनप्रणयिनीसङ्गममहोत्सवेन दिष्ट्या प्रस्फुरयसि ।] १३३

श्रीकृष्णः (विहस्य) ः प्रिये, प्राचीनप्रणयिनीति भण्यताम् । १३४

चन्द्रावली (सशङ्कम्) ः का क्खु पईणपण{इ}णी ? [का खलु प्राचीनप्रणयिणी ?] १३५

श्रीकृष्णः ः प्रिये, मा कुरु शङ्काम् । वृन्दाटवीलतालिरेव, नापरा । १३६

माधवी ः सच्चं भणादि भट्टा, जं बुन्दाअणकप्पलदाए उबणीदा एसा माला । [सत्यं भणति भर्ता, यद्वृन्दावनकल्पलतया उपनीता एषा माला ।] १३७

श्रीकृष्णः ः माधवि, मा मुधा शङ्काकलङ्केन किलाङ्कय विशुद्धां चन्द्रावलीम् । यदियं माला मधुमङ्गलकलाकौशलसाक्षात्कृतिः । १३८

चन्द्रावली (साकूतस्मितम्) ः अज्ज महुमङ्गल ! एदं कोसुम्भमम्बरं बि तुम्ह कलाकोसलम् । [आर्य मधुमङ्गल ! इदं कौसुम्भमम्बरमपि तव कलाकौशलम् ।] १३९

श्रीकृष्णः (स्वगतम्) ः नूनं देव्या दृष्टपूर्वोऽयं परिच्छदः । (प्रकाशं) देवि, वनदेव्या ममेदमुपहारीकृतम् । १४०

माधवी ः देअ ! अणुजाणीहि, एसो घरदेई घरं गच्छदु । [देव ! अनुजानीहि, एष गृहदेवी गृहं गच्छतु ।] १४१

श्रीकृष्णः ः देवि ! नेमां श्रद्धेहि माधवीयामलीकवाचम् । १४२

चन्द्रावली ः माहबि, सहीए सरस्सईए गहिदपक्खम्हि संबुत्ता । [माधवि, सख्याः सरस्वत्या गृहीतपक्षास्मि संवृत्ता ।] १४३

श्रीकृष्णः (स्वगतम्) ः कथं स्वगिरैव निगृहीतोऽस्मि देव्या ? १४४

चन्द्रावली ः कण्ह… (इत्यर्धोक्ते सलज्जम्) अज्जौत्त! १४५

कृष्णः (सानन्दस्मितम्) ः प्रिये! दिष्ट्या सुधाधारां पायितोऽस्मि । तदलमार्यपुत्रेति कूपाम्बुना । १४६

चन्द्रावली ः अज्जौत्त! ण क्खु अहमणिहमा जं तुज्झ सोक्खहेदुएण केलिपबन्धेê खिज्जसम् । [आर्यपुत्र! न खलु अहमनभिज्ञा, यत्ताव सौख्यहेतुना केलिप्रबन्धेन खेदिष्ये ।] १४७

श्रीकृष्णः ः

त्वदङ्गसङ्गतैरेभिस्तप्तोऽस्मि मिहिरातपैः ।

विन्दन्ती चन्दनच्छायां मां देवि शिशिरीकुरु ॥३७॥ १४८

माधवी – देअ, कटोरप्पा एसा भट्टिदारिआ सुट्ठु ताबं सोढुं पारेदि जं तुम्ह पच्चक्खं च्चेअ चंदभाआमंदिरे जलंतं जलनकुंडं जलकेलिकुण्डं बिण्णादबदी । [देव, कठोरात्मैषा भर्तृदारिका सुष्ठु तापं सोढुं पारयति तत्तव प्रत्यक्षमेव चन्द्रभागामन्दिरे ज्वलन्तं ज्वलन्तकुण्डं जलकेलिकुण्डं विज्ञातवती ।] १४९

श्रीकृष्णः (स्वगतम्) ः माधवि, साधु साधु यदत्र स्नेहातिरेकं सूचयन्ती समये सख्यसेवां वितनोषि । १५०

चन्द्रावली ः अज्जौत्त ! अत्तणो हिआङ्गमेण पण{इ}णा जणेण समं सच्छन्दं बिहरेहि, एसाहमन्तेउरे परिसामि । [आर्यपुत्र ! आत्मनो हृदयङ्गमेन प्रणयिना जनेन समं स्वच्छन्दं विहर, एषाहमन्तःपुरे प्रविशामि ।] (इति सपरिवारा निष्क्रान्ता ।) १५१

श्रीकृष्णः ः सखे ! सुष्ठु कष्टमापतितम्, यदद्य देवी रुष्टा । १५२

मधुमङ्गलः ः मा एब्बं भण, जं देईए रोसस्स पदं किंपि ण लक्खिदम् । [मैवं भण, यद्देव्या रोषस्य पदं किमपि न लक्षितम् ।] १५३

श्रीकृष्णः ः सखे ! गूढरोषा हि मनस्विन्यः । तथा हि—

उद्धूता स्मितकौमुदी न मधुरा वक्त्रेन्दुबिम्बात्तया

मृद्वीनां न निराकृता निजगिरां माधुर्यलक्ष्मीरपि ।

कोष्णैरद्य दुरावरैर्निजमनोगूढव्यथाशंसिभिः

श्वासैरेव दरोद्धूतस्तनपटैस्तस्या रुषः कीर्तिताः ॥३८॥

तदद्य देवीप्रसादनमेव निजाभीष्टसाधनम् । (इति निष्क्रान्तौ ।) १५४

(इति निष्क्रान्ताः सर्वे ।) १५५

इति श्रीश्रीललितमाधवनाटके

नववृन्दावनसङ्गमो नाम

सप्तमोऽङ्कः

॥७॥

*****************************************************************

.

(८)

अष्टमोऽङ्कः

नववृन्दावनविहारः

(ततः प्रविशति नववृन्दयानुगम्यमानो विश्वकर्मा ।) १

विश्वकर्माः

द्वाराधिपाय कलिताञ्जलिभिः सुरेन्द्रैर्

अन्तर्विविक्षुभिरवाप्तबहिःप्रकोष्ठा ।

चित्तं हरत्यवसरे प्रतिहार्यमाण

राजीवसम्भवहराद्य हरेः पुरीयम् ॥१॥

(पार्श्वतो विलोक्य) वत्से ! अपि नाम गतः पुरुषोत्तमे सत्यायाः प्रतिमेति विचित्रो भ्रमः । तस्यापि तस्यां मदीयमायेति ? (स्मितं कृत्वा) अथवा भ्रम एव स न भवेत्, यद्वैश्लेषिकानुरागामृतविभ्रमोऽयम् । २

नववृन्दाः आर्य ! मन्त्रिराजेन कौशलतः श्रावितरहस्ययोरेतयोर्विभ्रम एव सम्भ्रमभूमानमवाप । तेन च राधिकासङ्गमकामस्तामरसाक्षः शुद्धान्तर्मण्डले कुण्डिनेन्द्रनन्दिनीं प्रसाद्यानन्दयन्नब्रवीत्—देवि ! त्रिलोकीकक्षासु किं तवाभीष्टं, तदभिव्यज्य निजनिर्देशभाजनं मन्यमानतयैव पर्याप्त समस्तनिःश्रेयसे प्रेयसि विधेहि प्रसादमाधुरीम् । ३

विश्वकर्माः ततस्ततः ? ४

नववृन्दाः ततश्च देवीहृदयज्ञा माधवी प्राह—देव ! तत्किं नाम भुवने, यदद्भुतं वस्तु महावरोधने किलात्र नास्ति ? किन्तु गगने गच्छतो मरालस्य चञ्चुपुटादिदमदृष्टचरमरविन्दं विभ्रष्टम् । तद्दामगुम्फनकामेयमभूद्भर्तृदारिका । इति । ५

विश्वकर्माः वत्से ! आं जाने । सुरसौगन्धिकं नाम तत्पङ्कजमाहर्तुं मन्मुखादेव गृहीतोद्देशः पुण्डरीकाक्षः खाण्डवप्रस्थं प्रतस्थे । ६

नववृन्दाः तत्पोअङ्कजवृन्दमाहृत्य मधुमङ्गलहस्तेन माधव्यामाधाय च माधवश्छद्मना देवीमनुज्ञापयितुं सम्प्रत्यवरोधं साधयति । ७

विश्वकर्माः त्वं कुत्र साधयसि ? ८

नववृन्दाः भवतां सकाशे । ९

विश्वकर्माः किमिति ? १०

नववृन्दाः भवदद्भुतविद्याविदग्धताप्रसिद्धिमवधार्य सौभाग्यसुखसद्गुणाधायकं सुरनायकपुरेऽप्यनिर्मितपूर्वमपूर्वनेपथ्यसाधनं प्रसाधनं देव्या यदभ्यर्थितम्, तन्निरवाहि किमार्येण ? ११

विश्वकर्माः न केवलं देव्या एव निर्वाहितम्, किन्तु सत्यायाश्च । १२

नववृन्दाः आर्य ! दुर्मनायिष्यते देवी । १३

विश्वकर्माः पुत्रि ! शङ्कां मा कुरु । तन्मया देव्यामावेदितमस्ति । तथा हि—

देवि नप्त्री भवेद्भामा भानुसम्बन्धतो मम ।

तदर्थमपि तेनाहं रचयिष्यामि मण्डनम् ॥२॥

तदेहि, तत्करण्डिकायुगं भवत्यामर्पयामि । १४

विष्कम्भकं –

(ततः प्रविशति कृष्णः)

श्रीकृष्णः (सहर्षम्) ः

चर्चां सिञ्चति शोषयत्यपि मिथो विस्पर्धते वासकृत्

नेत्रद्वन्द्वमुरश्च यद्विरहतो बाष्पायमाणं मम ।

हन्त स्वप्नशतेऽपि दुर्लभतरप्रेक्ष्योत्सवा प्रेयसी

प्राप्योत्सङ्गमतर्कितं मम कथं सा राधिका वर्तते ॥३॥

(पुरो विलोक्य) कुण्डिनेन्द्रनन्दिनीमणिमन्दिरालिन्दमियमलङ्कुर्वती विराजते ॥१५

(ततः प्रविशति माधव्योपास्यमाना चन्द्रावली)

चन्द्रावलीः हला माहबि ! एसो उबसप्पदि अज्जौत्तो, ता उबणेहि तं सुरसोअन्धिअमालिअम् । [सखि माधवि ! एष उपसर्पति आर्यपुत्रः । ततुपनयतां सुरसौगन्धिकमालिकाम्] १६

श्रीकृष्णः (उपसृत्य)ः

त्वं पक्षपातवैच्त्र्यादेकाप्याक्रम्य सर्वतः ।

देवि मच्चित्तकासारे राजहंसीवा राजसि ॥४॥ १७

चन्द्रावली (साकूटम्) माहबि ! जुत्तं बि भणिदं सुणिअ किं त्ति किदस्मिदासि ? [माधवि ! युक्तमपि भणितं श्रुत्वा किमिति कृतस्मितासि] १८

माधवी – भट्टदारिए कासारे पसारिदणि अब्बदं वगीं समरिअ हसामि । [भर्तृदारिके कासारे प्रसारितनिजव्रतां बकीं स्मृत्वा हसामि ।] १९

कृष्णः – हन्त कलिकण्डूलतुण्डमात्रसर्वस्वे तमोमयि माधविके! विरम्यताम् । द्वयोः परं जेतुमशक्येयं चन्द्रावली । (इति देवीं पश्यन्)

अपि नोच्छ्वसितं क्षमते, क्षणमप्यन्यत्र मन्मनः क्वापि ।

त्वयि रतिधुरां यदुच्चैर्वहते गौरववतीं गौरि ॥५॥ २०

माधवी – भट्टिदारिए सहत्थेण तुए गंठिदा एसा सूरसोअंधिअमाला । [भर्तृदारिके, स्वहस्तेन त्वया ग्रथितैषा सूरसौगन्धिकमाला ।] २१

चन्द्रावली (मालामादाय) अज्जौत्त, एसा कौत्थुहस्स सहबासिणी होदु । [आर्यपुत्र, एषा कौस्तुभस्य सहवासिनी भवतु ।] (इति वक्षसि विन्यस्यति ।) २२

श्रीश्रीकृष्णः ः

सुन्दराङ्गि भवदीयमन्दिरे

मेदुरे मदुरसि स्रजं विना ।

तथ्यमेव भवितुं न कल्पते

कौस्तुभेन सहवासिनी परा ॥६॥ २३

(चन्द्रावली सलज्जं नम्रीभवति ।) २४

श्रीकृष्णः (पाणिमभिमृश्य सादरम्)ः

तपस्विनीं ध्यानपरां समीक्षितुं

कृतव्रतः साम्प्रतमस्मि कामपि ।

अह्नाय तत्रानुमतिप्रदानतः

सत्यान्वितं कुङ्कुमगौरि मां कुरु ॥७॥ २५

चन्द्रावलीः जधाहिरोहदि अज्जौत्तस्स । [यथाभिरोचते आर्यपुत्राय ।] २६

श्रीकृष्णः (स्वगतम्)ः निरातङ्कोऽस्मि । तन्नववृन्दावनं प्रयामि । (इति निष्क्रान्तः ।)

(प्रविश्य) नववृन्दा ः देवि, तदिदं मण्डनं करण्डिकयोर्युग्मम् । एतयोः प्रथमं प्रथितेन देवाश्चिह्नेनानुगतं द्वितीयं तु सत्यभामायाः । २७

माधवी (स्वगतम्)ः अत्तणो णत्तिणीकिदे णूणं सब्बुत्तमं किदं हुबिस्सदि । ता परिबट्टं कदुअ भट्टिदारिअं दुदीएण अलंकरिस्सम् । [आत्मनो नप्त्रीकृते नूनं सर्वोत्तमं कृतं भविष्यति । तस्मात्परिवर्तनं कृत्वा भर्तृदारिकां द्वितीयेनालङ्करिष्यामि ।] (प्रकाशम्) णाबुन्दे, दोअं च्चेअ मह समप्पेहि । अहं किर सच्चाए पेस{इ}स्सम् । [नववृन्दे, द्वे एव मह्यं समर्पय । अहं किल सत्यायै प्रेषयिष्यामि ।] २८

(नववृन्दा तथा करोति ।) २९

चन्द्रावली ः ठादुं घरदीहिअं गमिस्सम् । [स्थातुं गृहदीर्घिकां गमिष्ये ] (इति सपरिजना निष्क्रान्ता ।) ३०

नववृन्दा ः वृन्दाटवीमभिषेचयितुं साम्प्रतं ऋतुराजो मया दत्तशुभमुहूर्तोऽस्ति । ततस्तत्र गच्छामि । (इति परिक्रामति ।) ३१

नेपथ्येः

क्रीडोत्सवाय निविडे नवपुष्पवप्रे

स्वप्रेयसीं पदविहारमिहार्पयन्तीम् ।

देवं विलोक्य युगपन्निजया समृद्ध्या

संवर्धिनोऽत्र कुतकादृतवोऽवतेरुः ॥८॥ ३२

नववृन्दा ः कथमसौ जगन्मोहनवन्यवेषः सुष्ठु नववृन्दाटवीं कृतार्थयन्प्रसाधितां राधिकामनुसर्पति ?

(पुनरवेक्ष्य सविस्मयम्)

आतन्वन्कलकण्ठनादमतुलं स्तम्भश्रियोज्जृम्भितो

भूयिष्ठोच्छलदङ्कुरः फलितवान्स्वेदाम्बुमुक्ताफलैः ।

उद्यद्बाष्पमरन्दभागविचलोऽप्युत्कम्पवान्विभ्रमै

राधामाधवयोर्विराजति चिरादुल्लासकल्पद्रुमः ॥९॥ ३३

(ततः प्रविशतो यथानिर्दिष्टौ राधामाधवौ ।) ३४

माधवःः

तवात्र परिमृग्यता किमपि लक्ष्म साक्षादियं

मया त्वमुपसादिता निखिललोकलक्ष्मीरसि ।

यथा जगति चञ्चता चणकमुष्टिसम्पत्तये

जनेन पतिता पुरः कनकवृष्टिरासाद्यते ॥१०॥ ३५

नववृन्दा (राधामवेक्ष्य) हन्त हन्त!

आलोके कमलेषणस्य सजलासारे दृशौ न क्षमे

नाश्लेषे किल शक्तिभागतिपृथुस्तम्भा भुजावल्लरी ।

वाणी गद्गदकुण्ठितोत्तरविधौ नालं चिरोपस्थिते

वृत्तिः कापि बभूव सङ्गमनये विघ्नः कुरङ्गीदृशः ॥११॥ ३६

श्रीकृष्णः (राधामभिसृत्य) ः

स्वान्तं हन्त ममान्तरीणविरहज्वालाजटालं क्षणाद्

उत्कण्ठानिकुरम्बचुम्बितमिदं कुम्भस्तनि क्षुभ्यति ।

तेनान्तर्नवविभ्रमस्तवकिनी दृष्टिं सुधास्यन्दिनीं

भ्राम्यद्भङ्गुरचिल्लिलास्यलहरीसम्बाधमुत्तम्भय ॥१२॥ ३७

श्रीराधा (सत्रपम्)ः णाबुन्दे ! णिच्चिदमेसो बि सिबिणो ज्जेब्ब, जं बारं बारमेब्बं सोक्खसाअरे क्खणं णिमज्जिअ पुणो पबुद्धाए केत्तिअं मए मुक्ककण्ठं, ण क्खु कन्दिदमत्थि । [नववृन्दे ! निश्चितमेषोऽपि स्वप्न एव, यत्वारं वारमेवं सौख्यसागरे क्षणं निमज्य पुनः पुनः पबुद्धया कियत्मया मुक्तकण्ठं, न खलु क्रन्दितमस्ति ।] ३८

नववृन्दाः प्रियसखि ! खेदनिद्राभरात्प्रबुद्धास्मि । तदत्रावधेहि—

अचण्डकिरणद्युतिद्रुतमृगाङ्ककान्ताञ्चल

स्खलत्तरलसारणीशतवितीर्णवृक्षोत्सवा ।

विकस्वरसरोजिनीपरिमलान्धभृङ्गावली

सलीलविरुतैरिवाह्वयति नव्यवृन्दाटवी ॥१३॥ ३९

श्रीकृष्णः ः नववृन्दे ! साधु साधु ! स्फुटमभूतपूर्वस्तोषितप्रातिस्विकपरिवाराणां ऋतूनां सन्निपातः कल्पितः । ४०

नववृन्दाः सखि राधे ! पश्य पश्य—

धृतनीलकण्ठतुष्टिः, सुमनोद्योतेन तारकोल्लङ्घी ।

स्फुरितः शैलभुवोऽङ्के, पश्य विशाखायते शाखी ॥१४॥ ४१

श्रीराधा (सौत्सुख्यमात्मगतम्) ः हा ! कहिं विसाहा मे पिअसही ? [हा, कुत्र विशाखा मे प्रियसखी ?] ४२

कृष्णः (स्वगतम्)ः नूनं नववृन्दागिरा स्मारितविशाखासख्येयं दुर्मनायते । ततस्तां वर्णयामि । (प्रकाशम्) प्रिये ! क्षणमद्भुतमाकर्ण्यताम् । साम्प्रतमहं सुर सूरसौगन्धिकमाहरिष्यन्पाण्डवेन सह खाण्डवाटवीं प्राविशम् । तत्र मृगानाहण्डिनो गाण्डीविनः श्येनाभ्यां निगृहीतयोः पक्षिणोरेकः प्राह—हा सखे कीर ! राधिकायाः कन्दसत्रे मया पुनरास्वादनीयानि नवीनकलानिधिसपिण्डानि विसकाण्डानि । शुकः प्राह—हन्त सखे मराल ! राधिकायाः फलसत्रे रङ्गाय मे वक्त्राङारकविडम्बीनि नागरङ्गानि न भावीनि । ४३

राधिका (साद्भुतम्)ः तदो तदो ? ४४

श्रीश्रीकृष्णः ः ततस्तदाकर्णनादुत्सुकेन मया पक्षिणौ विमोक्ष्य पर्यटता काचित्प्रशान्ताकृतिर्जरती दृष्टा पृष्टा च—हन्त ! का त्वमसि ? इति । तयोक्तं—पतत्रिभ्यः सत्रीकृतेयं या तपःप्रभावादाविर्भूतेन सुगन्धिना सुरसौगन्धिकवृन्देन पूर्णा दीर्घिका, सुधामृष्टेन सुष्ठु फलमण्डलेन बाटिका च, तयोः पालिकास्मि पुलिन्दी । ततश्चाहमपृच्छम्—केन सत्रं कृतमिदं ? सा प्राह—कयाचित्तपोधनया, या खलु समापितोदवासव्रता राधाभीष्टसाधनं नाम वन्यव्रतमारब्धवती । ४५

श्रीश्रीराधा ः तदो तदो ? ४६

श्रीश्रीकृष्णः ः ततश्च तयोद्दिष्टं गिरिगह्वरं जिहानस्य—

शवलरुचिना संवीताङ्गी महीरुहचर्मणा

मलिनिततनुर्धूलीजालैर्जटालशिरोरुहा ।

कमलमणिभिः क्ÿप्तां मालामुदीर्य कराम्बुजे

मम नयनयोः काचिद्वीथीमवाप तपस्विनी ॥१५॥ ४७

सा च मामुद्वीक्ष्य सद्यः परिक्रोशमारब्धरोदना लुप्तवर्णपदमवादीत्—

हा गोकुलेन्द्रनगरीयुवराजलील

हा वल्लवीहृदयपङ्कजचञ्चरीक ।

हा राधिका कुचकुरङ्ग मदाङ्गराग

भूयोऽपि हा मम दृशोः पदवीं गतोऽसि ॥१६॥ ४८

अतश्च सुष्ठु विस्मितेन मया कासि इति सगद्गदं पृष्टया तयोक्तम्—हा नाथ ! किङ्करी ते हताशा विशाखास्मीति । ४९

श्रीश्रीराधा ः हद्दी हद्दी ! हा पिअसहि विसाहे ! हदम्हि मन्दभाइणी । ५०

श्रीश्रीकृष्णः ः

उष्णैस्तुषारैश्च दृगम्बुपूरैः

सिञ्चन्नहं किञ्चन पीतचेलम् ।

क्षणं विशाखार्पितपूर्वकायः

शून्यान्तरः स्थाणुरिवावतस्थे ॥१७॥

ततश्च—

तामाश्वास्य क्षमार्थी ते क्षामाङ्गीं क्षेमवार्तया ।

प्रावेशयं सुवेशाढ्यां कुशलेन कुशस्थलीम् ॥१८॥ ५१

श्रीराधा (सोत्कण्ठम्)ः सुन्दर ! बन्दिज्जसि, दंसेहि विसाहम् । [सुन्दर, वन्द्यसे । दर्शय विशाखां ] ५२

(कृष्णो नववृन्दामुखमीक्षते)

नववृन्दाः सखि ! वर्णितं मे विशाखया—हन्त ! तातस्य निदेशेन हतास्मि, येन यावत्स्यमन्तकविप्रयोगं प्रियसख्याः प्रेक्षणाय निषिद्धास्मि । तन्निजनिर्झरमेव विशामि इति । ५३

श्रीश्रीराधा ः सच्चं सच्चं, अम्माए सण्णाएबि मे कधिदं—बच्चे राहि ! समन्त सम्मि तुह हत्थं गदे सब्बाहिट्ठसिद्धी हुबिस्सदि त्ति । [सत्यं सत्यं, अम्बया संज्ञयापि मे कथितं—वत्से राधे ! स्यमन्तके तव हस्तङ्गते सर्वाभीष्टसिद्धिर्भविष्यतीति] ५४

नववृन्दाःः देव ! पश्य पश्य !

स्मितं वासन्तीभिर्गिरिधर शिरीषैः कुसुमितं

कदाम्बैरुत्फुल्लं हसितमभितो जातिभिरलम् ।

उदीर्णं पर्ण्यासिअः कलय फलिनीभिर्मुकुलितं

मुहुर्मध्वादीनां स्फुरति युगपद्वैभवमिदम् ॥१९॥ ५५

श्रीकृष्णः ः प्रिये ! पश्य पश्य—

क्वचित्क्वणति कोकिलः स्वनति हन्त झिल्ली क्वचित्

क्वचिन्नटति चन्द्रिका रटति राजहंसः क्वचित।

किखी विरणति क्वचित्क्वचन रौति हारीतिका

तनोति समितिर्मुदं मम परां ऋतूनामसौ ॥२०॥ ५६

नववृन्दा ः देव ! पश्य पश्य—

कथञ्चिदपि दन्तुरात्फणिकुलस्य सृक्काञ्चलात्

पलाय्य कृतमज्जनः कमलभाजि पम्पाजले ।

प्रभुं भुजगभोजिनो ननु पटीरपृथ्वीधराद्

भवन्तमिव सेवितुं मरुदुपैति वृन्दावने ॥२१॥ ५७

श्रीकृष्णः ः (तरुगुल्मावलिमवलोक्य)

कदम्बाः क्षेमं वः शिवकुलमितो हन्त बकुलाः

फलिन्यः कल्याणं भविकमभितः पीलुतरवः ।

अमान्द्यं माकन्दाः किमविकलतापुण्ड्रकलताश्

चिरेणासौ युष्माननुसरति राधसहचरः ॥२२॥ ५८

नववृन्दा ः देव नवाभिसारमन्दिरीकृतकन्दरोऽयं नन्दीश्वरगिरिर्मुदमुद्गिरति । ५९

कृष्णः (राधां पश्यन्)ः

किमुत्सङ्गे क्षामोदरि परिचिनोषि क्षितिभृतस्

तटान्ते तिष्ठन्ती तरलदृशमेतां मृगवधूम् ।

निरातङ्कं या ते मरकतमयीं हारलतिकां

यवस्तम्भभ्रान्त्या वृतमतिरदाङ्क्षीदनुपदम् ॥२३॥ ६०

श्रीराधा ः कीस ण परिचिनिस्सं ? एसा मह पिअसही रङ्गिणी णाम कुरङ्गी । [कस्मान्न परिचेष्यामि ? एषा मम प्रियसखी रङ्गिणी नाम कुरङ्गी ।] ६१

श्रीकृष्णः ः

अध्यास्य यां मुहुरलोकि मया विशाला

कल्याणि वल्लवकदम्बकमल्ललीला ।

सेयं वरोपलमयी शरदभ्रशुभ्रा

बिभ्राजते मदुपवेशविलासपीठी ॥२४॥ ६२

श्रीराधा ः णाबुन्दे, को एसो पुप्फेहिं णाअकेसरत्थबां बिडम्बेदि ? [नववृन्दे, क एष पुष्पैर्नागकेशरस्तवकं विडम्बयति ?] ६३

नववृन्दा ः सरले ! कुब्जकोऽयम् । ६४

श्रीराधा (पुष्पस्तवकमुद्धृत्य पश्यन्ती) ः हद्धी हद्धी ! एत्थ लीणो दुट्ठभमरो चिट्ठदि [हा धिखा धिक्! अत्र लीनो दुष्टभ्रमरस्तिष्ठति ।] (इति साध्वसं नाटयति ।) ६५

श्रीकृष्णः ः

चकितकुरङ्गमनयने

विमुञ्च भृङ्गेण सङ्गतं विटपम् ।

कुब्जाः सुभ्रु भयस्य

प्रभवभूवः किल भुवि ख्याताः ॥२५॥ ६६

नववृन्दा (स्वगतम्) ः देवस्य गिरमाकर्ण्य सस्मितमपाङ्गं कूपयन्ती राधिकेयं मामवलोकते । (प्रकाशम्) सखि ! स्वयमेव पृच्छ पुण्डरीकाक्षम् । ६७

श्रीकृष्णः ः नववृन्दे ! निरातङ्कमुच्यताम् । किं ते सखीविवक्षितं ? ६८

नववृन्दा ः देव ! कुब्जासङ्गः खलु मधुसूदनस्य परमानन्दमेव तुन्दिलयति । कथं नु भयमिति ? ६९

श्रीकृष्णः (सस्मितम्) ः नववृन्दे ! मृषाशङ्किनी तव सखी । पश्य कुब्जासङ्गमनङ्गीकुर्वन्नयमाननामोदवासितकाननामेनामेव धावति । ७०

श्रीराधा (सभयम्) हन्त, चंचल चंचरीअ चिट्ठ चिट्ठ । एसा लीलाकमलेण ताडेमि तुमं धिठ्ठम् । [चञ्चल चञ्चरीक तिष्ठ तिष्ठ । एषा लीलाकमलेन ताडयामि त्वां धृष्टम् ।] ७१

श्रीकृष्णः ः पश्य पश्य—

पलाशेनोल्लासं वहति विफलां वेत्ति फलिनीं

न वासं वासन्त्यां श्रयति कुमुदे याति न मुदम् ।

मधूके माध्वीकं न धयति लवं नैति लवलीं

मदेनाभूदन्धस्तव वदनगन्धान्मधुकरः ॥२६॥ ७२

नववृन्दा ः

भृङ्गारास्तनुनिर्झरैर्विटपिभिस्तत्रातपत्रावली

पल्यङ्का स्फटिकैरलङ्कृतिकुलं धौतोज्ज्वलैर्धातुभिः ।

रत्नानां निकुरम्बकेण हरये येनार्पिता दर्पणाः

सोऽयं राजति शेखरः शिखरिणां गोवर्धनाख्यो गिरिः ॥२७॥ ७३

श्रीकृष्णः ः

विलसति किल सोऽयं पश्य मत्तो मयूरः

शिखरभुवि निविष्टस्तन्वि गोवर्धनस्य ।

मुहुरमलशिखण्डं ताण्डवव्याजतस्ते

व्यकिरदुपहरन्यः कर्णपूरोत्सवाय ॥२८॥ ७४

श्रीराधा ः तण्डबिअसिहण्डिराअ ! चिरं बड्ढेहि । [ताण्डविकशिखण्डिराज ! चिरं वर्धस्व ।] ७५

श्रीकृष्णः ः प्रिये ! स्मर्यते किमु गोवर्धनतः कलिनजापदवी ? ७६

श्रीराधा ः कीस ण सुमरीअदि ? (इति संस्कृतेन)

अग्रे चम्पकचक्रमस्य पुरतः पुन्नागवीथी ततो

जम्बूनां निकुरम्बकं तदभितस्तुङ्गा कदम्बाटवी ।

इत्युच्चैर्वरशाखिभिः परिचितैरेभिः क्रमादाचितः

कालिन्दीमुपतिष्ठते गिरितटात्पन्थाः प्रथीयानसौ ॥२९॥ ७७

श्रीकृष्णः (स्मित्वा) ः तदेहि, पतङ्गतनयामनया पदव्या प्रयामः । (इति सर्वे तथा कुर्वन्ति ।) ७८

नववृन्दा ः

भ्रमलालितसलिलेयं, कमलावलिभिः पुरः परीतझरा ।

अमला यमस्य यामी, मं लास्यं नेत्रयोस्तनुते ॥३०॥ ७९

श्रीकृष्णः ः

प्रीत्या कुण्डलितः कुलेन मरुतां रुद्धः शिखण्डोत्करैर्

एष स्पर्धितनेत्रषण्डरुचिभिर्भाण्डीरशाखी पुरः ।

बिभ्राणः शतकोटिमण्डितमहाशाखाभुजोद्दण्डतां

कालिन्दीतटमण्डले विटपिनामाखण्डलत्वं ययौ ॥३१॥ ८०

श्रीराधा (संस्कृतेन) ः

बद्धतरलरोलम्बा, विसारिणा हारिगन्धविसरेण ।

कोमलमल्लीपुञ्जा, मञ्जुलकुसुमा हरन्ति मे चित्तम् ॥३२॥ ८१

(कृष्णस्तदेव बद्धतरलेत्यादि पठति ।) ८२

नववृन्दा ः हला ! तव हारसङ्घर्षणेन मुकुन्दवक्षसः स्खलितां सुरसौगन्धिकस्रजं मराली चञ्चुपुटेनादाय पश्योड्डीना । ८३

श्रीकृष्णः ः कथमवरोधदीर्घिकादिशं प्रयाता ? ८४

नववृन्दा ः

अतिमुक्तोऽपि विमोक्तुं, वृन्दावनवासवासनानन्दम् ।

क्षणमपि न खलु क्षमते, क्षुद्राणां का कथान्येषाम् ॥३३॥ ८५

श्रीकृष्णः ः प्रिये ! प्रभूतान्यभूतपूर्वसङ्गमान्यतिमुक्तमालत्योः प्रसूनान्यवचित्य किमप्यपूर्वमापीडं योजयिष्ये, यन्मया गुरुकुले कलाभ्यासे शिक्षितम् ।

(इति दूरतः परिक्रम्य सविस्मयं) कोऽयं माधुर्येण ममापि मनो हरन्मणिकूड्यमवष्टभ्य पुरो विराजते ? (पुनर्निभाल्य) हन्त ! कथमत्राहमेव प्रतिबिम्बितोऽस्मि । (इति सौत्सुक्यम्) ८६

अपरिकलितपूर्वः कश्चमत्कारकारी

स्फुरति मम गरीयानेष माधुर्यपूरः ।

अयमहमपि हन्त प्रेक्ष्य यं लुब्धचेताः

सरभसमुपभोक्तुं कामये राधिकेव ॥३४॥ ८७

(पुरो निःसृत्य)

निर्णिमेषेक्षणाकारसभृङ्गस्तवकद्युतिः ।

मालत्याम्लानपुष्पेयं भुवि देवीव दीव्यति ॥३५॥ ८८

(प्रविश्य) देवी ः माहबि ! णिचिदमिदो बुन्दाअणादो एसा हंसीए णीदा सुरसोअन्धिअमाला । [माधवि! निश्चितमितो वृन्दावनादेषा हंस्या नीता सुरसौगन्धिकमाला ।] ८९

माधवी ः अध इं, णाअरीसङ्गमसोरब्भभरुग्गारिणीं णं तक्किअ तुममेत्थ आणीदासि । [अथ किं, नागरीसङ्गमसौरभ्यभरोद्गारिणीमेनां तर्कित्वा त्वमत्र आनीतासि ।] ९०

चन्द्रावली (स्वाङ्गमालोक्य) ः हला ! सच्चभामापसाहणेण कीस मण्डिदम्हि ? [सखि ! सत्यभामाप्रसाधनेन कस्मान्मण्डितास्मि ?] ९१

माधवी (सालीकं ) ः भट्टदारिए ! भमिदम्हि । [भर्तृदारिके ! भ्रान्तास्मि ।] ९२

चन्द्रावली (पुरो विलोक्य) ः सहि ! पेक्ख, एसो अज्जौत्तो णादिदूरे पफुरदि । [सखि ! पश्य, एष आर्यपुत्रो नातिदूरे प्रस्फुरति ।] ९३

माधवी ः ण क्खु पुरदो भट्टा, एसो इन्द्रणीलमण्डओ, सो तस्स पडिबिम्बो । [न खलु पुरतो भर्ता, एष इन्द्रणीलमण्डपः, स तस्य प्रतिबिम्बः ।] ९४

चन्द्रावली ः अम्महे ! चमक्किदिकारिदा पडिबिम्बस्स । (इति पुरोऽनुसृत्य) हला ! मालदीअमोचिण्णन्तो एसो पेक्खीअदु अज्जौत्तो । ता एक्किआ च्चेअ गमिस्सम् । [आश्चार्यं ! चमत्कृतिकारिता प्रतिबिम्बस्य । सखि ! मालतीकामवचिण्वनेष प्रेक्ष्यते आर्यपुत्रः । ततेकिका एव गमिष्यामि ।] (इति तथा करोति ।) ९५

श्रीकृष्णः (चन्द्रावलीं विलोक्य सानन्दमात्मगतम्) ः कथमत्र जीवितेश्वरी मे राधाप्युपागता ? (प्रकाशं) प्रिये ! कथं विदूरमागतासि ? (इति सरोमाञ्चमवलोक्य)—

मा खञ्जरीट नयने हृदि संशयिष्ठाः

कुर्वन्ब्रवीम्यवितत्थं शपथं गुरूभ्यः ।

एका प्रियङ्करणवृत्तिरसि त्वमेव

प्राणावलम्बनविधौ परमौषधिर्मे ॥३६॥ ९६

चन्द्रावली (सहर्षमात्मगतं) ः तधाबि तुण्हिं भविअ आऊदं लक्खेमि । [तथापि तुष्णींभूय आकूतं लक्षयामि ।] ९७

नववृन्दा (लतान्तरे स्थित्वा) हन्त ! कथमङ्गीकृतराधाप्रसाधना देवीयमुपलब्धा । तदेष माधवो यावदेनां राधिकां प्रतीत्य न प्रमादमादधाति तावदहं पद्यमेकं हारीतेन हारयामीति । ९८

श्रीकृष्णः (पत्रं पश्यन्निगूढं वाचयति) ः

करोषि यस्यां नवकर्णिकार

मालाभ्रमं हन्त मधुव्रतेन्द्र ।

प्रतीहि तां कुङ्कुमकर्दमेन

लिप्तच्छदां कैरवकोरकालीम् ॥३७॥ ९९

(इति चन्द्रावलीं निभाल्य स्वगतम्) साधु, नववृन्दे ! साधु ! बाढमवसरे कृतापूर्वसेवाप्रपञ्चासि । (प्रकाशं) देवि ! कथमुदासीनेव तिष्ठन्ती नान्तःप्रसादसुधावीचिं सूचयसि ? (इति सादरमवेक्ष्य ।) १००

शैत्यश्रिया सौरभसम्पदा च

निर्धूतचन्द्रद्वयगौरवेण ।

स्ववैभवेनाद्य मदङ्गकानि

विधेहि चन्द्रावलि निर्वृतानि ॥३८॥ १०१

माधवी (लतान्तरे स्थित्वा सहर्षमात्मगतम्) ः णूणं बिस्सकम्मपसाहणपहाबो एसो सोहग्गमाहुरीलाहो । [नूनं विश्वकर्मप्रसाधनप्रभाव एष सौभाग्यमाधुरीलाभः ।]१०२

श्रीकृष्णः ः प्रिये तदङ्गसङ्गमाय तरङ्गितरङ्गं स्वयमङ्गीकुरु सुहृज्जनम् । (इति सानुरागमिवोपसर्पन्सालीकशङ्कम् ।) १०३

धिक्कष्टं ! अज्ञानविभ्रमेण कृतमहापराधोऽस्मि, यदियं देवी न भवेत्, किन्तु काचिदन्या कुमारी । (इति विमर्षमभिनीय) आं विज्ञातं, सेयं विश्वकर्मणो नप्त्री भविष्यति, या मम दूरतस्तेनाद्य प्रदेशिन्या प्रदर्शिता । १०४

(चन्द्रावली व्याजेन माल्यं दर्शयति ।) १०५

श्रीकृष्णः (स्वगतं) ः हन्त हंसीकृतोऽयमनर्थः । (प्रकाशम्) चित्रं चित्रमिदम् । यमुनाझन्तरझात्कारेण हृता मे सुरसौगन्धिकमाला कथमेतया लब्धा ? तदहं शुद्धान्तमासाद्य सर्वमिदमपूर्ववृत्तं स्वयमेव देव्यामावेदयामि, यथा नापराधकलङ्कशङ्कालवाङ्कुरोऽपि मां कटाक्षयति । (इति निष्क्रान्तः ।) १०६१०७

माधवी (उपसृत्य) ः भट्टिदारिए ! का क्खु प{उ}त्ती ? [भर्तृदारिके ! का खलु प्रवृत्तिः ?] १०८

चन्द्रावली ः साहाबिअस्स महाणुराअपुरस्स जा क्खु अहिरूबा भवे । [स्वाभाविकस्य महानुरागपूरस्य या खलु अभिरूपा भवेत।] १०९

माधवी ः भट्टिदारिए ! लूत्तरचादुरीमुद्दादुब्बोहबबहारो एसो णाअरो, ता एहि, सच्चभामं पेक्खम्ह । [भर्तृदारिके ! लोकोत्तरचातुरीमुद्रादुर्बोधव्यवहार एष णागरः, तदेहि, सत्यभामां पश्यामः ।] ११०

चन्द्रावली (परिक्रम्य राधां पश्यन्ती सव्यथं संस्कृतेन) ः

पूर्वेक्षितव्यसनलक्ष्मविमुक्तमूर्तिर्

अन्तर्निगूढसुखसाक्षिमुखप्रसादा ।

अद्य स्फुरत्तरलदृष्टिरिहोपलब्धिं

कंसारिसङमनिधेः सुतनुर्व्यनक्ति ॥३९॥

श्रीराधा (समीक्ष्य सखेदमात्मगतम्) ः कहमिंदीअरेण रहंगीए संगमिट्ठमहिणंदिदे मच्छरा कलहंसी मिलिदा । [कथमिन्दीवरेण रहङ्ग्या सङ्गमितुमभिनन्दिते मत्सरा कलहंसी मिलिता ।] १११

चन्द्रावली (स्मितं कृत्वा) ः सहि सच्चे ! सच्चं कहेहि, तस्सिं सुदिढे बलामोडिअ भुअदण्डपीडणे सो क्खु सुबुत्तो कोत्थुहो तुम्हाणं मज्झत्थो आसि ण वा त्ति ? [सखि सत्ये ! सत्यं कथय, तस्मिन्सुदृढे बलात्कारेण भुजदण्डपीडणे स खलु सुवृत्तः कौस्तुभो युवयोर्मध्यस्थ आसीत्न वेति ?] ११२

श्रीराधा ः देइ ! खिण्णम्मि परिअणे अलमुबालम्भेण । [देवि ! खिन्ने परिजणे अलमुपालम्भेन ।] ११३

माधवी (सखेदमात्मगतम्) ः इमाए सुरदरङ्गिणीए लाबण्णामिअबिब्भमलहरीतरङ्गे ओगाढो सो पुर्सकुञ्जरो अत्ताणां च्चेअ ण सुमेरेदि, किमुण भट्टिदारिआदीहिअं ? [अस्यां सुरतरङ्गिण्या लावण्यामृतविभ्रमलहरीतरङ्गे अवगाढो स पुरुषकुञ्जरो आत्मानमेव न स्मरति, किं पुनर्भर्तृदारिकादीर्घिकां ?] ११४

चन्द्रावली (सोल्लुण्ठस्मितम्) ऐ लोलुहे आलि, कीस ममनापेक्खिअ तं णिअमहाब्बदं तुए सुट्ठु पडिट्ठिदम् । [अयि लोलुपे आलि, कस्मान्मामनापृच्छ्य तन्निजमहाव्रतं त्वया सुष्ठु प्रतिष्ठितम् ।] ११५

श्रीराधा ः देइ, सरण्णस्स जणस्स संरक्खणे अक्खमासि तहबि परिहसेसि । णूणमीसरीणां क्खु जुत्तमेदम् । [देवि, शरण्यस्य जनस्य संरक्षणे अक्षमासि तथापि परिहससि । नूनमीश्वरीणां खलु युक्तमेतत।] (इति संस्कृतेन) ११६

कन्या बन्धुजनैर्भवेत्परवती दत्तास्मि युष्मद्गृहे

तैरस्मिन्नतिचञ्चलो गृहपतिः साध्वीव्रतध्वंसनः ।

भव्यास्मिन्नभिभाविका न वसति प्रामाणिकी चाश्रमे

निस्ताराय तवाद्य देवि करुणानौरेव धौरेयिका ॥४०॥ ११७

चन्द्रावली (स्वगतम्) ः जहत्थं बाहरेदि । (प्रकाशम्) सहि ! किं ते दाणिमहिमदं ? [यथार्थं व्याहरति । सखि ! किं ते इदानीमभिमतं ?] ११८

श्रीराधा ः देइ, जाब समन्तएण बदुज्जाबणं करेमि ताब रक्खेहि मम् । [देवि, यावत्स्यमन्तकेन व्रतोद्यापनं करोमि तावत्रक्ष माम् ।] ११९

चन्द्रावली ः सहि ! बीसद्धा होहि, पुणो छलेण मं बञ्चेदुमेसो ण पहबिस्सदि, जं सब्बदा मे पासबट्टिणी बिअक्खणा माहबी । [सखि ! विश्वस्ता भव, पुनश्छलेन मां वञ्चयितुमेष न प्रभविष्यति, यत्सर्वदा मे पार्श्ववर्तिनी विचक्षणा माधवी ।] १२०

माधवी ः सुन्दरि ! बिस्सकम्मेण दिण्णं तुह मण्डणकरण्डिअं दाणिं पत्थाब{इ}स्सम् । [सुन्दरि ! विश्वकर्मणा दत्तं तव मण्डणकरण्डिकामिदानीं प्रस्थापयिष्यामि ।] १२१

चन्द्रावली ः सहि ! जाहि माहबीमण्डबं, अहं बि माहबीजुत्ता अन्तेउरं जामि । [सखि ! याहि माधवीमण्डपं, अहमपि माधवीयुक्ता अन्तःपुरं यामि ।] (इति निष्क्रान्ता ।) १२२

(इति निष्क्रान्ताः सर्वे ।)

इति श्रीश्रीललितमाधवनाटके

नववृन्दावनविहारो नाम

अष्टमोऽङ्कः

॥८॥

********************************************************************

.

(९)

नवमोऽङ्कः

चित्रदर्शनः

(ततः प्रविशति) नववृन्दा (पुरोऽवलोक्य, सहर्षम्) ः

निर्मितभुवनविशुद्धिर्विधुर्मधुरालोकसाधने निपुणा ।

उल्लसितपरमहंसा भक्तिरिवेयं शरन्मिलति ॥१॥ १

(प्रविश्य) शरतः सहि णाबुन्दे ! कहिं गदासि ? [सखि नववृन्दे ! कुत्र गतासि ?] २

नववृन्दा ः शरल्लक्ष्मि ! गुरोरभ्यर्णे । ३

शरतः किं त्ति ? ४

नववृन्दा ः देवस्य निदेशेन । ५

शरतः कस्सिमत्थे सो णिदेसो ? [कस्मिन्नर्थे स निदेशः ?] ६

नववृन्दा ः रैवते सद्मनां षोडशसहस्रीनिर्माणे । ७

शरतः तत्थ किं णिदाणं ? [तत्र किं निदानं ?] ८

नववृन्दा ः

जगद्विघ्नं निघ्नन्नपगतनयं क्षौणितनयं

हृतान्यन्तर्गोष्ठात्कपटकलिना तेन बलिना ।

सहस्राण्यस्रालीवलयितदृशां पङ्कजदृशां

शताढ्यानि क्रीडागुरुरुदहरत्षोडश हरिः ॥२॥ ९

शरत्(साद्भुतम्) ः किं तॉ च्चेअ गोउलकण्णॉ ? [किं ता एव गोकुलकन्याः ?] १०

नववृन्दा ः अथ किम् ।

केशिरिपोरवकेशी भजनाभासक्षुपोऽपि नेहास्ति ।

किं पुनरपूर्वपर्वा, प्रेमामरपादपस्तासाम् ॥३॥ ११

शरतः कहं राअकण्णॉ त्ति पसिद्धी सुब्ब[इ] ? [कथं राजकन्या इति प्रसिद्धिः श्रूयते ?] १२

नववृन्दा ः कयापि कुमारीणां माधुर्यमधुधारया मोहितेन महीसूनुना कामाख्याप्रतारणाय तासां दानवकुमारेभ्यः प्रतिपादनं मृषैव विश्राव्य राजसुतात्वेन विख्यातिरुद्भाविता । १३

शरतः सच्चं सच्चं ! जं दुआरवदीपुरे ताणं पत्थाबणं कामक्खाए अहिमदम् । [सत्यं सत्यं, यद्द्वारवतीपुरे तासां प्रस्थापनं कामाख्याया अभिमतम् ।] १३ब्

नववृन्दा ः तयैव रुष्टया देव्या प्रेषितः पाकशासनो द्वारवतीमासाद्य भौमवधमर्थितवान। १४

शरतः हला ! सब्बाणं गोउलकुमारीणमेत्थ सङ्गमो संबुत्तो । केअलं प[उ]मापमुहं च्चेअ कण्णऽच[उ]क्कं परिसिट्ठं ? [हला ! सर्वासां गोकुलकुमारीणामत्रसङ्गमः संवृत्तः । केवलं पद्माप्रमुखमेव कन्याचतुष्कं परिशिष्टं ?] १५

नववृन्दा ः सरले ! तासां पूर्वमेव समाहृतिर्बभूव । १६

शरतः कहं सा समाहिती ? [कथं सा समाहृतिः ?] १६ब्

नववृन्दा ः

लीलयैव पशुपालपुङ्गवः

स्तम्भयन्सपदि सप्तपुङ्गवान।

मग्नदृष्टिमनुरागसागरे

नग्नजिद्दुहितरं समाहरत॥४॥

किं च—

शैव्यां घनप्रणयघूर्णनघोरतृष्णां

कन्दर्पसर्पगरलग्लपितां च भद्राम् ।

स्मेरावलोकसुधया किल सङ्गमय्य

रङ्गस्थलान्मुरहरस्तरसा जहार ॥५॥ १७

अपि च—

मीनस्य प्रतिबिम्बमम्भसि वरस्तम्भस्य मूलार्पिते

पश्यन्बिम्बमलक्षयन्भ्रमरिकाचक्रे भ्रमन्तं मुहुः ।

उत्क्षिप्तेन शिलीमुखेन शकलीकृत्य प्रमोदादमुं

मद्राधीश्वरनन्दिनीं पुनरसौ लेभे सुभद्राग्रजः ॥६॥ १८

शरत्(सानन्दम्) ः दिट्ठिआ पुणो बि गोउलसोक्खं पेक्खिस्सम् । [दिष्ट्या पुनरपि गोकुलसौख्यं प्रेक्षिष्ये ।] १९

नववृन्दा ः सखि ! मधुश्रिया सार्धमधुना मण्डय वृन्दावटीम् । पश्यायं माधवो राधया सह साधयति । २०

शरतः कहं देईए अणुमदी लद्धा ? [कथं देव्या अनुमतिर्लब्धा ?] २१

नववृन्दा ः

माधवीविरहितां मधुवीरः

कुण्डिनेश्वरसुतां निशमय्य ।

नन्दयन्स्फुरदमन्दविलासैर्

हासकन्दललसन्मुखमाह ॥७॥

सत्याख्यस्य विलोकाय लोकस्यात्मभुवार्थितः ।

प्रतिष्ठासुरहं देवि तत्रानुज्ञा विधीयताम् ॥८॥ २२

शरतः सहि ! पमादो पमादो ! [सखि ! प्रमादः ! प्रमादः !] २३

नववृन्दा ः कः प्रमादः ? २४

शरतः मण्डणकरण्डिअं समप्पिअ माहबीए दीसिणो सिस्सा सुअण्ठी णाम किण्णरी तत्थ पेसिदत्थि । [मण्डणकरण्डिकां समर्प्य माधव्या देवर्षेः शिष्या सुकण्ठी नाम किन्नरी तत्र प्रेषितास्ति ।] २५

नववृन्दा ः नात्र कापि शङ्का, यदियं सत्यायामनुरागिणी । २६

शरतः तदो बीसद्धा एसा पत्थिदम्हि । [ततो विश्रब्धा एषा प्रस्थितास्मि ।] (इति निष्क्रान्ता ।) २७

(ततः प्रविशति राधामानन्दयन्कृष्णः ।)

श्रीकृष्णः ः

निर्धूतामृत माधुरीपरिमलः कल्याणि बिम्बाधरो

वक्त्रं पङ्कजसौरभं कुहरितश्लाघाभिदस्ते गिरः

अङ्गं चन्दनशीतलं तनुरियं सौन्दर्यसर्वस्वभाक्

त्वामासाद्य ममेदमिन्द्रियकुलं राधे मुहुर्मोदते ॥९॥ २८

(समन्तादवलोक्य)

लक्ष्मीः कैरवकाननेषु परितः शुद्धेषु विद्योतते

सन्मार्गद्रुहि सर्वशार्वरकुले प्रोन्मीलति क्षीणता ।

नक्षत्रेषु किलोद्भवत्यपचितिः क्षुद्रात्मसु प्रायिकी

शङ्के शङ्करमौलिरभ्युदयते राजा पुरस्ताद्दिशि ॥१०॥ २९

नववृन्दा (उपसृत्य) ः

हृतभुवनतमाः क्रमाद्विरागः

कलय कलानिधिवैष्णवो विशुद्धः ।

रुचिममृतमयीं क्षिपन्विदूरे

प्रविशति विष्णुपदप्रपत्तिवीथीम् ॥११॥ ३०

श्रीकृष्णः ः सखे कौस्तुभ ! सोऽयं विलासिनीविश्लेषलब्धशोकः कोकवीति कोकग्रामणीस्तद्विस्तारय मयूखलेखाम् । ३१

(श्रीराधासकौतुकं पश्यति ।) पश्य पश्य—

मध्ये व्योमाधिरूढद्युमणिसममणिग्रामणीधामपाली

व्यालीढध्वान्तपूरान्वरतनु परितः प्रेक्षमाणस्तटान्तान।

पारेकालिन्दि रात्रावपि दिवसधियाक्रान्तचेता गभीरैर्

उत्कण्ठाचक्रवालै रथचरणयुवा कान्तया जाघटीति ॥१२॥ ३२

सुकण्ठी ः दिट्ठिआ एत्थ भट्टा सच्चाए सद्धं रमेदि, ता लदन्तरिदा भविअ पेक्खामि । [दिष्ट्या अत्र भर्ता सत्यया सार्धं रमते, तत्लतान्तरिता भूत्वा पश्यामि ।] (इति तथा स्थिता ।) ३३

नववृन्दा ः

कुन्ददन्ति दृशोर्द्वन्द्वं चन्द्रकान्तमयं तव ।

उदेति हरिवक्त्रेन्दौ स्यन्दते कथमन्यथा ॥१३॥ ३४

श्रीराधा (साश्चर्यम्) ः कधमेत्थ प[उ]माअरे चन्दालोएबि प[उ]माइं पप्फुल्लाइं ? [कथमत्र पद्माकरे चन्द्रालोकेऽपि पद्मानि प्रफुल्लानि ?] ३५

श्रीकृष्णः ः

शुद्धकाचस्थली पश्य पुरः पद्माकरायते ।

पद्मानि पद्मरागाणि यत्र फुल्लान्यहर्निशम् ॥१४॥ ३६

नेपथ्ये ः वृन्दावने स्फुरत्येषा माधवी सुमनस्विनी । (इत्यर्धोक्ते) ३७

श्रीकृष्णः (ससम्भ्रमम्) ः हन्त ! देवी प्रत्यासीदति । तदस्माकमस्मादपक्रमः श्रेयान। (इति सर्वे सर्वतो निष्क्रान्ताः ।) ३८

पुनर्नेपथ्ये ः भवति स्तवको यस्या जगद्भूषणभूषणम् ॥१५॥ ३९

सुकण्ठी ः हद्धी हद्धी ! महुमङ्गलहत्थगदेण तिणा कामरूबुप्पण्णेण सुअब[इ]णा विग्घो किदो । ता एत्थ कन्दरे प[इ]ट्ठं सच्चभाममणुसरिस्सम् । [हा धिखा धिक्! मधुमङ्गलहस्तगतेन तेन कामरूपोत्पन्नेन शुकपक्षिणा विघ्नः कृतः । तदत्र कन्दरे प्रविष्टां सत्यभामामनुसरिष्यामि ।] ४०

(प्रविश्य) श्रीराधा ः हन्त हन्त ! कधं दिट्ठम्हि, जं काबि प्पबिसदि । [हन्त हन्त ! कथं दृष्टास्मि, यत्कापि प्रविशति ।] ४१

सुकण्ठी ः सामिणि, बीसद्धा होहि, एसा किङ्करी दे सुअण्ठी । [स्वामिनि, विशब्धा भव, एषा किङ्करी ते सुकण्ठी । ४२

श्रीराधा (सहर्षम्) ः सुअण्ठि ! जाणामि जाणामि । [सुकण्ठि ! जानामि जानामि ।] ४३

सुकण्ठी ः सामिणि ! कीस ओल्लुंसुआसि ? [स्वामिनि, कस्मादर्द्रांशुकासि ?] ४४

श्रीराधा ः त्थलब्भमेण जले खलिदम्हि । [स्थलभ्रमेण जले स्खलितास्मि ।] ४५

सुकण्ठी ः माहबीए पेसिदमेदं पसाहणं गेण्ह । [माधव्या प्रेषितमिदं प्रसाधनं गृहाण ।] ४६

श्रीराधा ः पेक्ख, एत्थ पत्थरे किं पि आलेक्खं लक्खीअदि, ता इमस्स दंसणे जुत्तिं कुण । [पश्य, अत्र प्रस्तरे किमपि आलेख्यं लक्ष्यते, ततस्य दर्शने युक्तिं कुरु ।] ४७

सुकण्ठी ः बाहिरे गदुअ आलोअस्स उबाअं करिस्सम् । [बहिर्गत्वा आलोकस्य उपायं करिष्यामि ।] ४८

श्रीराधा ः अहं पि ओल्लंसुअं परिहरेमि । [अहमपि अर्द्रांशुकं परिहरामि ।] ४९

सुकण्ठी [निष्क्रम्य] ः कधं महुमङ्गलेण सद्धं भट्टा पुरदो बट्टदि ? [कथं मधुमङ्गलेण सार्धं भर्ता पुरतो वर्तते ?] ५०

(ततः प्रविशति कृष्णः ।)

श्रीकृष्णः ः सखे ! क्वानर्थकारकस्तव हस्तवर्ती स कीरः ? ५१

मधुमङ्गलः ः उड्डीय पुरो दाडिमे पडिदो । [उड्डीय पुरो दाडिमे पतितः ।] ५२

श्रीकृष्णः ः तदेहि, प्राणवल्लभामेव मृगयामहे । (इति मारुतमुपलभ्य)

भजसि न हि रजस्त्वं धीर दाक्षिण्यचर्याम्

अनुसरसि विधत्से माधवस्यानुवृत्तिम् ।

इति मलयसमीर त्वां सखे प्रार्थयेऽहं

कथय कुवलयाक्षी कुत्र मे राधिकास्ति ॥१६॥ ५३

मधुमङ्गलः ः भो! णिहुदं भण । [निभृतं भण ।] ५४

श्रीकृष्णः (परिक्रम्य)

लब्धा कुरङ्गि नवजङ्गमहेमवल्ली

रम्या स्फुटं विपिनसीमनि राधिकात्र ।

अस्यास्त्वया सखि गुरोर्यदियं गृहीता

माधुर्यवल्लितविलोचनकेलिदीक्षा ॥१७॥ ५५

(पुरो दाडिमीमुपेत्य)

कान्तिं पीतांशुकस्फीतां बिभ्रती विक्षिता वने ।

मयाद्य मृग्यमाणा सा त्वया मृगविलोचना ॥१८॥ ५६

मधुमङ्गलः ः बास्स! तुम्ह पणहमनुबदेअन्तेण च्चेअ उत्तरं दिण्णं कीरेण । [वयस्य, तव प्रश्नमनुवदता एवमुत्तरं दत्तं कीरेण ।] ५७

सुकण्ठी (उपसृत्य) जादु भट्टा । [जयतु जयतु भर्ता ।] ५८

मधुमङ्गलः ः भोदि किं त्ति आअदासि? [भवति किमित्यागतासि?] ५९

सुकण्ठी ः इमस्स पण्होत्तरस्स सदिक्खमण्णं बि महुरं सुणिदुम् । [अस्य प्रश्नोत्तरस्य सदृक्षमन्यदपि मधुरं श्रोतुम् ।] ६०

मधुमङ्गलः ः भोदि पण्णोत्तरं बि तुए सुणिदम्? [भवति प्रश्नोत्तरमपि त्वया श्रुतम्] ६१

सुकण्ठी ः ण केअलमिदं ज्जेब । [न केवलमिदमेव ।] ६२

मधुमङ्गलः ः अबरं किं? [अपरं किं ?] ६३

सुकण्ठी ः जा किं पि दिट्ठं तं गदुअ देइए णिवेदिस्सम् । [यत्किमपि दृष्टं तद्गत्वा देव्यै निवेदयिष्यामि ।] (इति परिक्रामति) ६४

श्रीकृष्णः (ससम्भ्रमम्) ः भद्रे सुकण्ठि ! मा खलु देवीमनःकालुष्याय समुद्यथाः । वृणीष्व मत्तः सङ्गीतविद्यासाम्राज्यम् । ६५

सुकण्ठी ः एत्थ देईपसादेण रुद्दाणीगाअणीहिं बि बन्दिदचरणम्हि । ता किमिमिणा ? [अत्र देवीप्रसादेन रुद्राणीगायणीभिरपि वन्दितचरणास्मि । तत्किमनेन ?] ६६

श्रीकृष्णः ः तर्हि प्रार्थयस्व । किं तवाभीष्टं ? ६७

सुकण्ठी ः देअ ! एक्कं पत्थ[इ]स्सम् । [देव ! एकं प्रार्थयिष्यामि ।] ६८

श्रीकृष्णः ः काममावेद्यताम् । ६९

सुकण्ठी ः एत्थ कन्दरे किं पि आलेक्खं बिलोइदुं मह आराहणिज्जा एक्का बिज्जाहरी उक्कण्ठेदि, ता कोत्थूहालोएण णं पऽसिअ पसादीकरेदु भट्टा । [अत्र कन्दरे किमपि आलेख्यं विलोकितुं ममाराधनीयैका विद्याधरी उत्कण्ठते, तत्कौस्तुभालोकेनैनं प्रकाश्य प्रसादीकरोतु भर्ता ।] ७०

श्रीकृष्णः (स्मित्वा परिक्रामन्) ः सखे कौस्तुभ ! रत्नमण्डलीमूर्धाभिषिक्त ! साधु साधु, यदनुक्तोऽपि मे मनोरथं करोषि । ७१

मधुमङ्गलः ः हन्त हन्त ! दरीमज्झे मज्झंदिणादो बि जादो बलिट्ठो उज्जोदो । [हन्त हन्त ! दरीमध्ये मध्यंदिनादपि जातो बलिष्ठ उद्द्योतः ।] ७२

(ततः प्रविशति राधा ।)

राधिका (साङ्गमवेक्ष्य) ः कधं माहबीए देईपसाहणं पेसिदं ? [कथं माधव्या देवीप्रसाधनं प्रेषितं ?]

अंजलिमेत्तं सलिलं सभरीए अहिलसंतीए ।

ओबरि सां णाजलदा धारावरिसी समुल्लसई ॥१९॥ ७३

[अञ्जलिमात्रं सलिलं शफर्या अहिलषन्त्या ।

उपरि स्वयं नवजलदो धारावर्षी समुल्लसति ॥]

मधुमङ्गलः (अपवर्य) ः भो बास्स ! दुट्ठदासीए धीदाए बणेअरीए महासङ्कडे पाडिदम्हि । [भो वयस्य ! दुष्टदास्या दुहित्रा वनेचर्या महासङ्कटे पातितोऽस्मि ।] ७४

कृष्णः ः सखे ! किं नाम सङ्कटं ? ७५

मधुमङ्गलः (सरोषम्) ः मं जेब्ब पुच्छसि ? बामे पेक्ख । [मामेव पृच्छसि ? वामे पश्य ।] ७६

कृष्णः (समीक्ष्य सावेगम्) ः कथमत्र देवी ? ७७

राधा (स्वगतम्) ः हद्धी हद्धी ! कन्दरे बि देई प[इ]ट्ठा । [हा धिखा धिक्! कन्दरेऽपि देवी प्रविष्टा ।] (इत्यन्तरिता भवति ।) ७८

कृष्णः (स्वगतम्) ः नूनं मन्युसंरम्भस्य गम्भीरतया प्रच्छन्नेयं बभूव । ७९

मधुमङ्गलः (नीचैः) ः हदासे किण्णरि ! पिअबास्से बि तुज्ज जुत्ता एरिसी णिइदी ? [हताशे किन्नरि ! प्रियवयस्येऽपि तव युक्तेदृशी निकृतिः ?] ८०

सुकण्ठी (स्वगतम्) ः गहिददेईणेबच्छं सच्चभामं च्चेअ देईं तक्किअ भाएदि एसो, ता गदुअ बिण्णबेमि । [गृहीतदेवीनेपथ्यं सत्यभामामेव देवीं तर्कित्वा बिभेत्येषः । तद्गत्वा विज्ञापयामि ।] ८१

राधा (सस्मितं) ः परिहसेहि णम् । [परिहसिनम् ।] ८२

सुकण्ठी (परिक्रम्य) ः अज्ज महुमङ्गल ! रुट्ठा क्खु देई भणादि । [आर्य मधुमङ्गल ! रुष्टा खलु देवी भणति ।] ८३

मधुमङ्गलः ः किं तं ? [किं तत्?] ८४

सुकण्ठी ः अन्तेउरे गदं णं बम्हबन्धुं बन्धिअ रक्खिस्सम् । [अन्तःपुरे गतमेनं ब्रह्मबन्धुं बद्ध्वा रक्षिष्यामि ।] ८५

मधुमङ्गलः (सभयम्) ः भो सहे ! दाणिं बि थम्भो बिअ गम्भीरोसि ? [भो सखे ! इदानीमपि स्तम्भ इव गम्भीरोऽसि ?] ८६

कृष्णः ः सखे ! विस्मयेन स्तम्भितोऽस्मि, यदियं दक्षिणा नैसर्गिकीमपि धीरतामवधीरितवती । (विमृश्य) ८७

अथवा—

धीरः प्रकृत्यापि जनः कदाचिद्

धत्ते विकारं समयानुरोधात।

क्षान्तिं हि मुक्त्वा बलवच्चलन्ती

सर्वंसहा भूरपि भूरि दृष्टा ॥२०॥ ८८

सुकण्ठी (स्वगतम्) ः अलमिमिणा भट्टारापुरदो धिट्ठदासाहसेण । ता जहत्थं कहेमि । (प्रकाशम्) अज्ज ! सच्चभामा एसा, ण क्खु देई । [अलमनेन भट्टारकपुरतो धृष्टतासाहसेन । तत्यथार्थं कथयामि । आर्य ! सत्यभामा एषा, न खलु देवी ।] ८९

मधुमङ्गलः ः भो ! सुदो दुम्मुहीए सोल्लुण्ठो पलाबो ? [भो ! श्रुतो दुर्मुख्याः सोल्लुण्ठो प्रलापः ?] ९०

कृष्णः ः सुकण्ठि ! वैदर्भीप्रियत्वाद्गर्वेण तरलासि । किन्तु गिरां दारिद्र्यं ? ९१

मधुमङ्गलः (संस्कृतेन) ः

असि विषकण्ठीकठिने किमिति सुकण्ठीति भण्यते चेटि ।

अथवा का मम शस्ता भद्रेत्यभिधीयते विष्टिः ॥२१॥ ९१

कृष्णः (परिक्रम्य सानुनयम्) ः देवि, प्रसीद प्रसीद ! ९२

राधा (सस्मितम्) ः णाहं देई, पेक्ख माणुसी म्हि । [नाहं देवी, पश्य, मानुष्यस्मि ।] ९३

कृष्णः (सहर्षं) ः सुकण्ठिके ! बाढमस्मिन्नर्थे दुष्करस्ते मया निष्क्रयः । ९४

मधुमङ्गलः ः ही ही ! हञ्जे तुरङ्गमुहि ! एसा बङ्किमबिज्जाबि किं क्खु दीसिणो पढिदा ? [ही ही ! हञ्जे तुरङ्गमुखि ! एषा वक्रिमविद्यापि किं खलु देवर्षिणा पठिता ?] ९५

कृष्णः ः प्रिये ! सन्निधाय चित्रं दृश्यताम् । ९६

राधा ः णूणं णाबुन्दागुरुणा कलाकोसलमेदं ? [नूनं नववृन्दागुरुणा कलाकौशलमिदं ?] ९७

(प्रविश्य) नववृन्दा ः सखि ! समीक्ष्यतां विचित्रमिदं चित्रं, यत्रानुक्रमिकी माधुरी साधुरीतिर्लीलामण्डली । ९८

मधुमङ्गलः ः एसो णन्दमहूसवो पढमो । [एष नन्दमहोत्सवः प्रथमः ।] ९९

नववृन्दा ः

क्षेपेण नवनीतानां चित्रबालस्य चेक्षया ।

ऊहुः स्नेहभरं सान्द्रं बहिरन्तश्च वल्लवाः ॥२२॥

(पुनः प्रदेशिन्या प्रदर्श्य ।)

कः पूतनागतिं गन्तुं पूतनापि क्षमो भवेत।

कण्ठे बभूव हरिणा या हरिण्मणिहारिणी ॥२३॥ १००

कृष्णः ः

मत्पादाङ्गुलिदलेन खण्डिते

भाण्डभाजि शकटे कुटीजुषि ।

चत्वरे पितरमार्तिकातरं

मातरं च नितरां स्मराम्यहम् ॥२४॥ १०१

नववृन्दा ः तृणावर्तम्मरुन्नर्तनमिदम् । १०२

कृष्णः ः

समचेष्टत निष्ठुरं व्रजे

स तथा दुष्टसमीरणासुरः ।

तमसी बत येन निर्मिते

पिदधाते सुहृदां मनोदृशौ ॥२५॥ १०३

मधुमङ्गलः ः एसा सां जेब्ब गोउलेसरी मन्थिदुमारद्धा । [एषा स्वयमेव गोकुलेश्वरी मन्थितुमारब्धा ।] १०४

राधा ः अम्म गोउलेसरि ! बन्दीअसि । [अम्ब गोकुलेष्वरि ! वन्द्यसे ।] (इत्यश्रुमभिनयति ।) १०५

कृष्णः (सकरुणं) ः

कदर्थनादप्युरुबाल्यचापलैर्

उत्सर्पतो स्नेहभरेण विक्लवाम् ।

विलोकमानस्य ममाद्य मातरं

हविर्विलायं हृदयं विलीयते ॥२६॥ १०६

नववृन्दा ः गुरुणा मे पद्यं विलिखितम् । तथा हि—

गुणैस्त्रिभिरनर्गलैः किल जगत्त्रयीवर्तिनश्

चतुर्मुखपुरःसरानपि बबन्ध यः प्राणिनः ।

व्रजेन्द्रमहिषि ब्रुवे किमिह ते प्रभावावलीम्

अबन्धि तनुभिर्गुणैः स बलवान्मुकुन्दस्त्वया ॥२७॥ १०७

मधुमङ्गलः ः एदमज्जुणजुअलभञ्जणम् । [इदमर्जुनयुगलभञ्जनम् ।] १०८

नववृन्दा ः कथं गुह्यकाभ्यामुदूखलबद्धमविमुच्यैव प्रस्थितं ? १०९

कृष्णः (सास्रं) ः

वात्सल्यमण्डलमयेन ममोरुदाम्ना

यः कोऽपि बन्धगरिमा निरमायि मात्रा ।

तन्मुक्तये परमबद्धविमोक्षणोऽपि

नाहं क्षमे सखि परस्य तु का कथात्र ॥२८॥ ११०

नववृन्दा ः

त्वं वत्सामृतदायी

युक्तं वत्सामृतत्वमाचरसि ।

विदधदमित्रावकतां

मित्रावकतां कथं तनुषे ॥२९॥ १११

कृष्णः (राधामवेक्ष्य) ः

सखिभिरलघुनातिवाहितेभ्यस्

तटभुवि तर्णकचारणोत्सवेन ।

गुरुमिह कुरुते ममाद्य तेभ्यः

शशिमुखि चित्तमहो स्पृहामहोभ्यः ॥३०॥ ११२

नववृन्दा ः

तासां पादावलिमविरतं वल्लवीनां गवां च

न्यञ्चत्काया वयमिह नमस्कुर्महे शर्महेतोः ।

यासामन्तःप्रणयमधुरक्षीरपानाय लुब्धो

दुग्धाम्भोधेः पतिरपि मुदा पुत्रभावं बभार ॥३१॥ ११३

कृष्णः ः

अघस्य पवनाशिनः पशुपडिम्भकेलिस्थली

पुरो गिरिदरीनिभा तनुरियं दरीदृश्यते ।

मुखादिकुहरेण या विरचितप्रवेशैः सदा

मृतापि पवनैरभूद्वनरुहाक्षि कुक्षिम्भरिः ॥३२॥ ११४

नववृन्दा ः पश्य पश्य—

सखि वेदचतुष्टयस्य सारैश्

चतुरोऽयं चतुराननीनिसृष्टैः ।

जनकं जनचक्षुषामभीष्टं

परमेष्ठी प्रमदादभिष्टवीति ॥३३॥ ११५

मधुमङ्गलः ः एदं सुअन्धि तालबणं पेक्खिअ जीइदोम्हि । [इदं सुगन्धि तालवनं प्रेक्ष्य जीवितोऽस्मि ।] ११६

नववृन्दा (राममवेक्ष्य) ः

त्वमद्भुतोऽसि धेनूनां पातापि हतधेनुकः ।

तालाङ्कोऽपि किलोत्तुङ्गतालभङ्गाय रङ्गवान॥३४॥ ११७

कृष्णः ः न्यग्रोधरोधसि सेयमार्यस्य विक्रमाडम्बरसम्भाविनी प्रलम्बपशोरालम्भवेदी । ११८

नववृन्दा (स्वगतम्) ः शङ्के राधिकाखेदमवधार्य देवेनावधीरिता कालियदमनलीला । ११९

कृष्णः ः

मुञ्जाटवी स्फुरति मञ्जुलकण्ठि सेयं

यत्र क्षणादनुसरन्तमिषीकतुलैः ।

दावं विलोक्य क्प्रायाम्बुजमालभारिण्य्

आभीरवीथिरभितोऽभवदावृतिर्मे ॥३५॥ १२०

नववृन्दा ः पुरस्तादिदं वासोहरणतीर्थम् । १२१

कृष्णः ः प्रिये विशाखायाः पृष्ठतो मूर्ध्नि कृताञ्जलिरवस्थिता केयं न परिचीयते । १२२

राधा (सलज्जमात्मगतम्) ः मं लिहिदं जाणन्तो च्चेअ परिहसेदि । (प्रकाशम्) एसा प[उ]मा ? [मां चित्रितां जानन्नेव परिहसति । एषा पद्मा ?] १२३

कृष्णः ः पद्माक्षि, पद्मायाः सव्यतः । १२४

राधा (सासूयम्) ः अलमत्तणो गुणं वित्थारिअ । [अलमात्मनो गुणं विस्तार्य ।] १२५

कृष्णः ः

शिरसि कुरुत पाणिद्वन्द्वमादत्त मुग्धाः

सिचयमिति मदुक्त्या भुग्नदृष्टिस्थायाः ।

स्फुरदधरमुदञ्चन्मन्दहास्यं तवास्यं

सरुदितमनुबन्धभ्रूविभेदं स्मरामि ॥३६॥ १२६

राधा ः कॉ एत्थ मत्थाप्पिदहण्डिऑ चिट्ठन्ति ? [का अत्र मस्तकार्पितहण्डिकास्तिष्ठन्ति ?] १२७

नववृन्दा ः यज्ञपत्न्यो भविष्यन्ति । १२८

कृष्णः ः

मन्दस्मितं प्रकृतिसिद्धमपि व्युदन्तं

सङ्गोपितश्च सहजोऽपि दृशोस्तरङ्गः ।

धूमायिते द्विजवधूमदनार्तिवह्नाव्

अह्नाय कापि गैत्रि अङ्कुरितामयासीत॥३७॥ १२९

मधुमङ्गलः (सतृष्णं संस्कृतेन) ः

इदं स्मरति किं भवान्प्रियवयस्य लप्स्यामहे

महीसुरवधूकुलाद्विविधमन्नमास्वादनम् ।

वयं किमपि कुण्डलीकृतशिखण्डकाण्डोपमं

क्रमेण किल कुण्डलीपटलमत्र भोक्ष्यामहे ॥३८॥ १३०

नववृन्दा ः पश्य ! गोवर्धनोद्धरणमिदम् । १३१

राधा (संस्क्र्टेन) ः

शिखरिभरवितर्कतः प्रतप्तं

समहमहर्निशमीक्षया प्रियस्य ।

हृदयमिह समस्तवल्लवीनां

युगपदपूर्वविधं द्विधा बभूव ॥३९॥ १३२

नववृन्दा ः गिरिमेखलायां लिखितमिदं पद्यम्—

दरोदञ्चद्गोपीस्तनपरिसरप्रेक्षणभयात्

करोत्कम्पादीषच्चलति किल गोवर्धनगिरौ ।

भयार्तैरारब्धस्तुतिरखिलगोपैः स्मितमुखं

पुरो दृष्ट्वा रामं जयति नमितास्यो मधुरिपुः ॥४०॥ १३३

कृष्णः (शैलेन्द्रकन्दरमवेक्ष्य सस्मितम्) ः

सरोरुहाक्षि स्मरसीदमद्भुतं

त्वं छद्मना द्यूतविधौ विनिर्जिता ।

इतः सखीसाक्षितया पणीकृतं

स्वयं ग्रहाश्लेषयुगं विधास्यसि ॥४१॥ १३४

राधा (सातपत्रं पुरो दृष्ट्वा) ः कधमेत्थ गिरिसिहरे णिसण्णाणं दोण्हमम्हाणं कण्ठे हारो णत्थि ? [कथमत्र गिरिशिखरे निषण्णयोर्द्वयोरावयोः कण्ठे हारो नास्ति ?] १३५

कृष्णः ः

कथमिदमपि विस्मृतं भवत्या

सखि तव कुण्डतटीनिकुञ्जधाम्नि ।

रतिपरिमललब्धनिद्रयोर्नौ

यदवहिता ललिता जहार हारौ ॥४२॥ १३६

नववृन्दा ः

यैर्वीक्ष्यसे विपक्षान्, अपि तान्भवबन्धतो विमोक्षयसि ।

वारुणबन्धान्नन्दं, मोक्षयतस्ते किमाश्चर्यम् ॥४३॥ १३७

(इत्यग्रतो दर्शयन्ती)

भूमौ भारतमुत्तमं मधुपुरी तत्रापि तत्राप्यलं

वृन्दारण्यमिहापि हन्त पुलिनं तत्रापि रासस्थली ।

गोपीकान्तपदद्वयीपरिचयप्राचुर्यपर्याचिता

यस्यां सन्ति महामुनेरपि मनोराज्यार्चिता रेणवः ॥४४॥ १३८

राधा (सचमत्कारं) ः हन्त हन्त, कथं सा वेणुसद्दमाहुरी सुनीअदि ? [हन्त हन्त, कथं सा वेणुशब्दमाधुरी श्रूयते ?] (इत्यानन्दभरावेशेन कतिचित्पदानि गत्वा सोन्मादम् ।]

वंशीं मातर्वनभुवि जगन्मोहयन्तीं निशम्य

प्रोद्यद्घूर्णाभरतरलधीर्गन्तुमस्मि प्रवृत्ता ।

द्वारि स्थूलं निहितमचिरादर्गलं चेत्त्वयाग्रे

केनेदं वा मदसुपदवीसीम्नि शक्यं निधातुम् ॥४५॥ १३९

(इत्युद्घूर्णते ।)

कृष्णः (सौत्सुक्यम्) ः

निमज्जति निमज्जति प्रणयकेलिसिन्धौ मनो

विघूर्णति विघूर्णति प्रमदचक्रकीर्णं शिरः ।

अहो किमिदमावयोः सपदि रासनामाक्षर

द्वयीजनुषि निस्वने श्रवणवीथिमारोहति ॥४६॥ १४०

नववृन्दा ः सखि ! चित्रगतोऽपि रासोत्सवस्तव सत्यो बभूव । १४१

राधा ः हद्धी हद्धी ! कधं क्खु चित्तं जेब्ब एदं ? [हा धिखा धिक्! कथं खलु चित्तमेवेदम् ।] १४२

कृष्णः ः

नवमदनविनोदैः केलिकुञ्जेषु राधे

निमिषवदुपरामं काम आसेदुषीणाम् ।

उपचितपरितोषप्रोषितापत्रपाणां

स्मरसि किमिव तासां शारदीनां क्षपाणाम् ॥४७॥

(इत्युत्कम्पमभिनीय)

यमुनोपवने भवद्विधाभिर्

विविधैः केलिभिरस्मृतापराणि ।

पुनरप्यतुलोत्सवानि राधे

भवितारः किमु तानि वासराणि ॥४८॥ १४३

नववृन्दा ः

विद्योतते तस्य्सुदर्शनस्य

प्रसादतीर्थं वनमम्बिकायाः ।

नीतस्तनुं कुण्डलिनीं हरिर्यं

विमोक्षयन्कुण्डलिकायतोऽपि ॥४९॥ १४४

मधुमङ्गलः ः एसो संखऊडो । [एष शङ्खचूडः ।] १४५

राधा (सभयम्) ः परित्ताहि परित्ताहि (इति कृष्णमालिङ्गति) । १४६

श्रीकृष्णः (परिरम्भसुखमभिनीय) ः साधु रे भ्रातः शङ्खचूड! संरम्भादुन्मथितोऽपि मे त्वमलब्धपूर्वं प्रमोदमेव कृतवान। १४७

नववृन्दा ः पश्य पश्य—

शम्भुर्वृषं नयति मन्दरकन्दरान्तर्

म्लानः सलीलमपि यत्र शिरो धुनाने ।

आः कौतुकं कलय केलिलवादरिष्टं

तं दुष्टपुङ्गवमसौ हारिरुन्ममाथ ॥५०॥ १४८

(पुनः प्रदर्श्य)

स्कन्धेष्विन्दीवराक्षीणां यः किलेन्दीवरायते ।

चित्रं भुजः स ते केशिभिदायां भिदुरायते ॥५१॥ १४९

कृष्णः ः एतद्व्योमासुरं वृण्वत्या मुक्तिपतिंवराया रङ्गस्थलम् । १५०

मधुमङ्गलः ः एसो अक्कुरो [एषोऽक्रूरः] (इत्यर्धोक्ते ।) १५१

राधा ः हा हा ! किं करिस्सं ? [हा हा किं करिष्यामि ?] (इति मूर्च्छति ।) १५२

कृष्णः (ससम्भ्रममाश्लिष्य) ः कोमले ! मा कातरीभूः । इदं खलु चित्रम् । १५३

राधा (सावहित्थम्) ः अब्बो ! दारुणदा पसङ्गस्स । जो हि चित्तगदोबि सन्ताबेदि । [अहो दारुणता प्रसङ्गस्य, यो हि चित्रगतोऽपि सन्तापयति ।] १५४

नववृन्दा ः एष मथुराप्रस्थानोपक्रमः । १५५

कृष्णः ः

विरमतु नववृन्दे गान्दिनेयस्य यात्रा

विवृतिरनुसरेमामग्रिमालेख्यलक्ष्मीम् ।

स्मृतिपथमधिरूढैर्भूरिभिस्तैः प्रियायाः

करुणविलपितैर्मे विस्फुटत्यन्तरात्मा ॥५२॥ १५६

नववृन्दा ः

हतराजकीयरजकं

वायकवरदायकं देवम् ।

धृतदमनकदामानं

सुदामदयितं नमस्यामि ॥५३॥ १५७

कृष्णः (स्मित्वा) ः प्रिये ! पश्य पश्य, ताम्बूलिकानामनुरागम्, यैरुभयथा रञ्जितोऽस्मि । १५८

राधा ः कीस एदमुल्लंघिदं ? [कस्मादेतदुल्लङ्घितं ?] १५९

कृष्णः (स्वगतम्) ः कथमफनोतुं न शक्तोऽस्मि, यदियं सैरिन्ध्रीमेव विलोकते । १६०

राधा ः णाबुन्दे ! का एसा राअमग्गे गोउलणाहस्स पीदंसुअञ्चलमाअड्ढदि ? [नववृन्दे ! का एषा राजमार्गे गोकुलनाथस्य पीतंशुकाञ्चलमाकर्षति ?] १६१

(नववृन्दा स्मितं कृत्वा मुखं नमयति ।) १६२

कृष्णः (किञ्चिद्विहस्य) ः

अनियुक्तापि निपुणा दूतीयं त्वयि वत्सला ।

मामभ्यर्थयते धृत्वा पटे गोष्ठनिनीषया ॥५४॥ १६३

राधा ः एसा मुहलीकिदबम्हण्डा कित्तिमंडली, ता केत्तिअं ढक्किस्ससि ? [एषा मुखरीकृतब्रह्माण्डा कीर्तिमण्डली, तस्मात्कियदाच्छादयिष्यसि ?] १६४

नववृन्दा ः पश्य पश्य—

वनमालां भजमानैर्गुरुरपि पोष्टापि दानपूरेण ।

अलिभिरमोचि करीन्द्रो हरिसेवा धर्मतो हि वरा ॥५५॥

अहह भोः ! पश्यत—

त्रासितमल्लमरालः

कृष्णघनोऽयं निराकृतोत्तापः ।

जगतो जीवनदायी

न हि कंसस्योदयं कुरुते ॥५६॥ १६५

राधा ः को एसो केसबेण केसे आअड्ढिअ मञ्चादो पाडिदो ? [क एष केशवेन केशे आकृष्य मञ्चात्पातितः ?] १६६

नववृन्दा ः एष दुष्टो भूपतिः । १६७

राधा (सानन्दं) ः पिअं मे पिअम् । [प्रियं मे प्रियम् ।] १६८

कृष्णः ः नूनमतिक्रान्तो यामिन्याः प्रथमो यामः, यदेष छायाप्रपञ्चः सञ्चुकोच । तत्कालिन्दीतीरमनुसरामः ।

(इति सर्वे निष्क्रान्तिं नाटयन्ति ।) १६९

कृष्णः ः नेदिष्टेयं मदङ्गप्रतिमायाः पिण्डिका, यदुपकण्ठे महाविलासविद्यासिद्धिभुमिस्तमालरसालयोरन्तरालवर्तिनी सा मे कुञ्जशालिका । (सव्यतो विलोक्य)

माणिक्यकुट्टिमतटेषु कलिन्दजायाः

पूरे च कौस्तुभमणावपि बिम्बितेन ।

एकेन चन्द्रमुखि ते मुखमण्डलेन

चन्द्रावली वनभुवि प्रकटीकृतास्ति ॥५७॥ १७०

(प्रविश्य माधव्या सह चन्द्रावली ।)

चन्द्रावली ः हला माहबि ! बिरहुब्भमिदा बुन्दाबणं प[इ]ट्ठम्हि, जमिन्दणीलपडिमं बिणा दाणिमण्णो मे ओलम्बो णत्थि । [हला माधवि ! विरहोद्भ्रमिता वृन्दावनं प्रविष्टास्मि, यदिन्द्रनीलप्रतिमां विना इदानीमन्यो मे अवलम्बो नास्ति ।] १७१

माधवी ः भट्टदारिए ! सुदं मए सुहक्खणे पत्थाणं कदुअ इध जेब्ब कहिं बि चिट्ठदि भट्टा, ण क्खु एण्हिं बि इदो बम्हलोअं पत्थिदो । [भर्तृदारिके ! श्रुतं मया शुभक्षणे प्रस्थानं कृत्वेहैव कुत्रापि तिष्ठति भर्ता, न खलु इदानीमपीतो ब्रह्मलोकं प्रस्थितः ।] १७२

चन्द्रावली ः सहि ! सच्चं भणासि, जमेदं तस्स सोरब्भं पसरेदि, ता एत्थ च्चेअ हुबिस्सदि । [सखि ! सत्यं भणसि, यदिदं तस्य सौरभ्यं प्रसरति, तदत्रैव भविस्यति ।] १७३

कृष्णः (कुञ्जदेहलीमुपलभ्य) ः प्रिये, क्षिप्रमिहोपेहि, क्षणमनुभवावो विश्रामसुखम् । १७४

नववृन्दा (स्वगतम्) ः प्रणयाभ्यसूयया भ्रुवौ भङ्गुरीकृत्य नम्रमुखी कथं रसालन्तरिता बभूव राधा ? १७५

चन्द्रावली (सोद्ग्रीविकम्) ः हला ! पेक्ख पेक्ख ! कुञ्जघरदुआरे अज्जौत्तो । [हला पश्य पश्य कुञ्जगृहद्वारे आर्यपुत्रः ।] १७६

श्रीकृष्णः ः

अत्र भावि निरातङ्कमारो मे रमणं मम ।

दुरत्यन्ते कुशस्थल्या यदि दर्भाङ्गभूरियम् ॥५८॥ १७७

चन्द्रावली ः माहवि, णूणं दिट्ठह्मि जं विदब्भंगभुत्ति बाहरीअदि । [माधवि नूनं दृष्टास्मि, यद्विदर्भऽङ्गभूरिति व्याह्रियते ।] १७८

माधवी ः लदन्तरिदासि, कुदो दंसणसंभावणा ? णूणमुक्कण्ठिदो एसो भाअणाए तुमं पेक्खदि । ता अतक्किदमेक्किआ गदुअ आणन्देहि णम् । [लतान्तरितासि, कुतो दर्शनसम्भावना ? नूनमुत्कण्ठित एष भावनया त्वां पश्यति । तदतर्कितमेकिकया गत्वानन्दयैनम् । १७९

कृष्णः ः

उचिता हृदयार्पणाय गौरी

तरलालोकमयी गुणोज्ज्वलात्मा ।

नवहारलतेव रुक्मिणी मे

किमियं कण्ठतटे न सन्निधत्ते ॥५९॥ १८०

(चन्द्रावली उपसृत्य कृष्णमपाङ्गेन पश्यन्ती पुरोऽवतस्थे ।)

श्रीकृष्णः (सविस्मयानन्दम्) ः अहो ! रसालतरुणा तिरोधाय कथं तमालमूलादुपस्थितासि ? १८१

(चन्द्रावली सशङ्कं नववृन्दामुखमीक्षते ।)

नववृन्दा ः देव ! देवी साक्षादियं दीव्यति । १८२

कृष्णः ः नववृन्दे ! न केवलमाकल्पेन, किन्तु सङ्कल्पेनापि, यदियं तादृशीमेव गम्भीरतामवलम्बते । १८३

चन्द्रावली (स्वगतम्) ः इमिणा बाहारेण सुट्ठु संदिहाणम्हि किदा । [अनेन व्याहारेण सुष्ठु सन्दिहानास्मि कृता ।] १८४

कृष्णः (नववृन्दामवलोक्य) ः सत्यभामा मयि कथं (इत्यर्धोक्तेः । नववृन्दा दृशं कूणयति ।) १८५

चन्द्रावली (सखेदं नीचैः) ः विण्णादं पेम्मगोरवम् । [विज्ञातं प्रेमगौरवम् ।] १८६

कृष्णः (विभाव्य, स्वगतम्) ः हन्त, कथमसौ देवी । भवतु संवरीतुं प्रयतिष्ये । (प्रकाशम्)

सती कथमसौ भामा देवी नाद्य प्रसीदति ।

निदानमविदं सद्यः खिद्यते हृदयं मम ॥६०॥ १८७

चन्द्रावली ः माहबि ! कुदोसि ? [माधवि, कुतोऽसि ?] १८८

माधवी (उपसृत्य) ः एसम्हि । [एषास्मि ।] १८९

कृष्णः (सशङ्कमात्मगतम्) ः

निजतनोर्वितनोतु सखे भवान्

सपदि बालरसाल विशालताम् ।

वरतनुं पुरतस्तव तस्थूषीं

न हि यथा परिपश्यति रुक्मिणी ॥६१॥ १९०

माधवी ः भट्टदारिए ! रसालमूले पेक्ख अप्पणो दुदिअं तणुअम् । [भर्तृदारिके ! रसालमूले पश्य आत्मनो द्वितीयां तनुकाम् ।] १९१

चन्द्रावली (साचि समीक्ष्य) ः जुत्तं क्खु एदम् । [युक्तं खलु इदम् ।] (इति नम्रीभवति ।) १९२

कृष्णः (स्वगतम्) ः सहकारस्य नात्र सहकारिता जाता । भवतु, कैतवमेव सहायं करिष्ये । (प्रकाशम्)—

तुण्डमुन्नमय ताण्डविताक्षं

लज्जतां दिवि कुरङ्गकलङ्कः ।

म्लानतां तव समीक्ष्य विदूये

जीवितादपि ममाभ्यधिकासि ॥६२॥ १९३

माधवी ः देअ, इमाणं पेम्मकोमलाणमक्खराणं मा क्खु णमहिरूबं जाणाहि । जमेसा ण होदि । [देव, एषा प्रेमकोमलानामक्षराणां मा खल्वेतामभिरूपां जानीहि । यदेषा सत्या न भवति ।] १९४

कृष्णः ः साधु माधविके! साधु । मदीयहृदयाशङ्का त्वया निरस्ता । तदिन्द्रजालाभिज्ञया नववृन्दयैव निर्मितेयं मायिकी देवी रसालमूलवर्तिनी खलु सत्या । (इति सम्भ्रमेणाम्रमुपेत्य सानुनयम्)

अन्तःप्रसादसुधया प्लवनाद्विशुद्धा

शुद्धान्ततस्त्वमभितः स्वयमागतासि ।

एतां वृथा प्रथयसि प्रबलामकाण्डे

किं कुण्ड्नेश्वरसुते मयि मानमुद्राम् ॥६२॥ १९५

नववृन्दा ः देव ! माधवीपार्श्वे देवी । १९६

कृष्णः ः नववृन्दे ! तर्हि किमियं रसालमूले मायिकी ? १९७

नववृन्दा ः न मायिकी, किन्तु देव्याः काचिदेषा प्रियसखी, सत्या नाम । १९८

कृष्णः ः अहो ! गभीरता देवीकारुण्यनिर्झराणां, यैरालीजनेऽपि सारूप्यामृतं प्रणीय बाढं भ्रमितोऽस्मि । १९९

राधा (स्वगतम्) ः इदो णीसरणं क्खु सरणम् । [इतो निःसरणं खलु शरणम् ।] २००

चन्द्रावली (सोत्प्रासस्मितम्) ः

कज्जलसामलमज्झं पल्लासाणुज्जलं मुउंदस्स ।

गुंजाफल्लं ब्ब अहरं सहि पेक्खन्ती पमोदामि ॥६४॥ २०१

[कज्जलश्यामलमध्यं पल्लवशोणोज्ज्वलं मुकुन्दस्य ।

गुञ्जाफलमिवाधरं सखि पश्यन्ती प्रमोदे ॥]

कृष्णः ः देवि ! मान्यथा शङ्किष्ठाः । समाघ्रायमाणादामोदिनः शैलशिलाखण्डात्कस्तूरी विलग्ना । २०२

चन्द्रावली ः देअ ! आकोमारं सुट्ठु अज्झाबिदम्हि, ता अलमिमिणा अज्झाबणपरिस्समेण । [देव ! आकौमारं सुष्ठु अध्यापितास्मि, तदलमनेन अध्यापनपरिश्रमेण ।] २०३

माधवी ः भट्टदारिए ! ओसरे उबसप्पणिज्जा ईसरा होन्ति, ता अणहिण्णाणमम्हाणं णीदिप्पबन्धादिक्कमं क्खमाबेहि दुआरवदीनाधम् । [भर्तृदारिके ! अव्सरे उपसर्पणीया ईश्वरा भवन्ति, तदनभिज्ञानानामस्माकं नीतिप्रबन्धातिक्रमं क्षमापय द्वारवतीनाथम् ।] २०४

कृष्णः ः माधवि ! चित्रा ते प्रकृतिः । या धृतजिह्मगीभावापि नकुलीनां चर्यामुद्गिरति । (इत्यञ्जलिं बद्ध्वा )

अद्य प्रसीद देवि प्राणाधिकवल्लभे सहसा ।

स्पृशति न चन्द्रकलां च त्वां चन्द्रावलि तमः किमुत ॥६५॥ २०५

माधवी ः अलमिमिणा सम्बोहणेण, जमेसा ण सच्चभामा । [अलमनेन सम्बोधनेन, यदेषा न सत्यभामा ।] २०६

कृष्णः ः सखि ! सत्यमात्थ, यदेषा न सत्यकोपा देवी । २०७

चन्द्रावली ः देअ ! तुम्ह सङ्कुइदं पेक्खिअ च्चेअ दूएमि । ता पसीद, णीसङ्कं कीलेहि । एसा अन्तेउरं गच्छेमि । [देव ! तव सङ्कोचितां प्रेक्ष्यैव दुनोमि । तत्प्रसीद, निःशङ्कं क्रीड । एषान्तःपुरं गच्छामि ।] (इति सपरिजना निष्क्रान्ता ।) २०८

कृष्णः ः गतावरोधं देवी । तद्वयमपि गच्छामः । (इति परिक्रम्य)

राधा मदाननतरङ्गदपाङ्गकोटिः

क्रीडाप्रसङ्गभरभङ्गविवर्णवक्त्रा ।

देवीं विलोक्य सहसा नमितोत्तमाङ्गा

माकन्दगूढतनुराश्रयते मनो मे ॥६६॥ (इति निष्क्रान्तः ।) २०९

(इति निष्क्रान्ताः सर्वे ।)

इति श्रीश्रीललितमाधवनाटके

चित्रदर्शनो नाम

नवमोऽङ्कः

॥९॥

*************************************************************************

.

(१०)

दशमोऽङ्कः

पूर्णमनोरथः

(ततः प्रविशतो युवतौ ।) १

प्रथमा ः सखि मालति, कापि मङ्गलवार्ता कर्णपदवी किं तवाधिरूढा । २

मालती ः सहि तुलिसिए, कीरिसी सा ? [सखि तुलसि, कीदृशी सा ?] ३

तुलसी ः सा भगवती पौर्णमासी सकुटुम्बं गोष्ठेश्वरमादाय सौराष्ट्रं विवेश । ४

मालती (सानन्दम्) ः हला माहवि, च[उ]स्सालं गदुअ एदं सुहबुत्तत्तं राहिआए णिवेदिस्सम् । [सखि माधवि, चतुःशालं गत्वैतच्छुभवृत्तान्तम् ।] ५

तुलसी ः सरले, नाधुना माधवीचतुःशाले राधिका । ६

मालती ः तदो कहिमेसा ? [तदा कुत्रैषा ?] ७

तुलसी ः तत्र चित्रदर्शनदिवसे देव्या केललक्षणावलोकनेन परिहस्य सा खलु शुद्धान्तमुपनीतास्ति । ८

मालती ः केरिसं परिहसिदं ? [कीदृशं परिहसितं ?] ९

तुलसी ः

स्तने कीरैर्मन्ये तव निविडया दाडिमधिया

तथा बिम्बभ्रान्त्या क्षतमधरमध्ये कृतमिदम् ।

मयूरैर्मालेयं व्यदलि फणिबुद्ध्या मणिमयी

वनान्तर्वासस्ते भगिनि हृदयं मे व्यथयति ॥१॥ १०

मालती ः हसिज्ज[उ] णाम । तहबि लहुइच्चेअ सोहग्गेन गुरुइ । [हसतु नाम । तथापि लघ्वी एव सौभाग्येन गुर्वी ।] ११

तुलसी ः सत्यं ब्रवीमि । पश्य पश्य—

करैस्तिरस्कृत्य सहस्ररश्मिं

परःसहस्रैरिह कौस्तुभस्य ।

सङ्गाय युक्तिं हरिरद्य तस्याः

कुर्वन्नसौ तिष्ठति सौधपृष्ठे ॥२॥ १२

तदावासमपि स्ववाटिकां प्रयावः । (इति निष्क्रान्ते ।) १३

(विष्कम्भकः ।)

(ततः प्रविशति कीरावलम्बजाम्बूनददण्डिकामण्डितपाणिना विदूषकेणोपास्यमानः कृष्णः ।) १४

श्रीकृष्णः (सोत्कण्ठं) ः

स्नेहेन दीप्तापि तमः प्रिया मे

हर्तुं विदर्भेन्द्रसुतोपरुद्धा ।

शक्तिं न धत्ते कलसीपरीता

प्रदीपरेखेव निकेतनस्य ॥३॥ १५

मधुमङ्गलः ः भो मा क्खु उच्चं भणादि । सब्बदो संचारी एत्थ देइपरिजणो । [भोः मा खलूच्चैर्भण । सर्वतः सञ्चार्यत्र देवीपरिजनः ] १६

श्रीकृष्णः ः सखे कौस्तुभ! भवद्विद्योतनादत्र मामनुयास्यन्ति दास्यः । तदद्य मार्दवमापद्यस्व । १७

(प्रविश्य) नववृन्दा ः देव, देव्या प्रेषितास्मि । १८

श्रीकृष्णः ः नववृन्दे किमिति ? १९

नववृन्दा ः कीरराजार्थम् । २०

श्रीकृष्णः ः सखे समर्पय शुकेन्द्रम् । २१

(मधुमङ्गलः नववृन्दाकरे कीरदण्डिकामर्पयति ।) २२

श्रीकृष्णः (सोत्कण्ठं) सखि नववृन्दिके !

अद्य प्रियां परिमलोज्ज्वलरम्यगात्री

सत्राजितीति विदितामवरोधमध्ये ।

तां रत्नकुण्डलमरीचिपरीतगण्डां

हा राधिकां कलयितुं वलते मनो मे ॥४॥ २३

नववृन्दा ः देव ! दुर्लभोऽयमर्थः प्रतिभाति । सा खलु देवी बहुधा वञ्चनेन स्वयमेव चातुरीविद्यामध्यापिता, यदद्य निर्भररागमभिव्यज्य कायच्छायामिव सत्यभामामकरोत। २४

मधुमङ्गलः ः हीमाणहे ! सच्चं तरलो एसो कोत्थुहो, जं णिबारिदो बि हम्मपुट्ठिं बिज्जोदेदि । [अहो, सत्यं तरल एष कौस्तुभः, यत्निराकृतोऽपि हर्म्यपृष्ठं विद्योतयति ।] २५

श्रीकृष्णः ः सखे, नामी कौस्तुभस्य गभस्तयः, तदलमुपालम्भेन । २६

नववृन्दा ः आर्य मधुमङ्गल ! सेयं पिङ्गला नाम भामायाः सखी स्यमन्तकेन सार्धमित एवाभिवर्तते । २७

(प्रविश्य) पिङ्गला (कृष्णं दृष्ट्वा सत्रपम्) ः देअ ! सामिणा सत्ताजिदेण भट्टिदारिआए सच्चाए पेसिदो एसो मणीन्दो । २८

श्रीकृष्णः (मणीं हृदये निधाय सानन्दं) ः हन्त ! प्रियापरिवारस्य सङ्गमादस्य तस्याः सङ्गमाय लब्धतीर्थोऽस्मि । २९

मधुमङ्गलः ः केरिसं तं ? [कीदृशं तत्?] ३०

श्रीकृष्णः ः

पिङ्गलामनुसृतो मणिसङ्गी

सङ्गतो युवतिवेषकलाभिः ।

आदरादनुमतो निशि देवा

तामहं रमयितास्मि मृगाक्षीम् ॥५॥ ३१

नववृन्दा ः सत्यं दुर्लक्ष्योऽयं विधिः । ३२

श्रीकृष्णः ः नववृन्दे ! नेदीयसी सन्ध्या । ततस्तं साधय शुद्धान्तम् । वयमत्र विविक्ते योषिद्वेशं रचयाम । (इत्युभाभ्यां सह निष्क्रान्तः ।) ३३

नववृन्दा (परिक्रम्य) ः इयं सपरिवारा तस्ययालङ्कृतवामपार्श्वा देवी मणिमन्दिरे निविष्टा विराजते । ३४

(ततः प्रविशति तथाविधा चन्द्रावली ।) ३५

चन्द्रावली (सनर्मस्थितम्) ः सहि सच्चे ! मए गम्भीरगोरवेण अन्तेउरे लालिदा बि बणमालासहवाससोक्खं च्चेअ सुमरन्ती हरिणीब्ब कीस उब्बिग्गासि ? [सखि सत्ये ! मया गम्भीरगौरवेणान्तःपुरे लालितापि वनमालासहवाससौख्यमेव स्मरन्ती हरिणीव कस्मादुद्विग्नासि ?] ३६

राधा (विहस्य साकूतं) ः देइ एत्थ सालसोक्खसंरोहणे अवरोहे किं मे बणमालासंगाहिलासेण । [देवि अत्र सकलसौख्यसंरोहणे अवरोधे किं मे वनमालासङ्गाभिलासेन] ३७

नववृन्दा (उपसृत्य) ः देवि ! सोऽयं कामरूपादानीतः श्रुतपूर्वस्त्वया कीरेन्द्रः । ३८

चन्द्रावली (सानन्दं) ः सुट्ठु परितुट्ठम्हि, जमाइदिसुन्दरो एसो । [सुष्ठु परितुष्टास्मि, यताकृतिसुन्दर एषः ।] ३९

नववृन्दा ः देवि ! मेधासमृद्धिं धारयन्प्रकृतिसुन्दरश्च । ४०

चन्द्रावली ः कञ्चुइ ! सोविदुल्ल ! पाइमदालिमीफलेहिं णन्देहि कीरिन्दम् । [कञ्चुकि ! सौविदल्ल ! पाकिमदाडिमीफलैर्नन्दय कीरेन्द्रम् ।] ४१

कञ्चुकी ः यदादिशति देवी । (इति सकीरो निष्क्रान्तः ।) ४२

(ततः प्रविशति प्रमदावेषधारिणा कृष्णेन पिङ्गलया चानुगम्यमानो मधुमङ्गलः ।) ४३

मधुमङ्गलः (परिक्रम्य) ः देइ ! सत्ताजिदेण सच्चाए समन्तां दादुं पहिदा एसा इत्थिआजुअली । [देवि ! सत्राजिता सत्यायै समन्तकं दातुं प्रहिता एषा स्त्रियुगली ।] ४४

चन्द्रावली (कृष्णमवेक्ष्य स्वगतम्) ः अम्महे सुन्देरमिमाए [अहो सौन्दर्यमस्याः ।] । (प्रकाशम्) का एसा सामुलुज्जला सुन्दरी कन्तिकन्दलीहिं मम अलिन्दमिन्दणीलमां करेदि ? [का एषा श्यामलोज्ज्वला सुन्दरी कन्तिकदलीभिर्ममालिन्दमिन्द्रनीलमयं करोति ।] ४५

नववृन्दा ः देवि ! सौभाग्यभागसौ रथाङ्गी नाम सत्यायाः सवयाः । ४६

(राधा कृष्णं परिचित्य स्मितं करोति ।) ४७

माधवी ः अज्ज महुमङ्गल ! एसा सामला सुट्ठु ओगुण्ठिदा णाबहू बिअ अन्तेउरे बि कीस लज्जेदि । [आर्य मधुमङ्गल ! एषा श्यामला सुष्ठु अवगुण्ठिता नववधू इव अन्तःपुरेऽपि कस्माल्लज्जते ।] ४८

पिङ्गला ः सहि, बाढं सङ्कोइणी इमाए प[इ]दी । [सखि, बाढं सङ्कोचिन्यस्याः प्रकृतिः ।] ४९

नववृन्दा (देवीं विलोक्य) ः

मुहुरुत्सुकधीरपि त्वदग्रे

त्रपते वक्तुमसौ सखीं रथाङ्गी ।

तदिमां प्रियलोकसङ्गकामां

प्रहिणु स्वर्णनिकेतनाय भामाम् ॥६॥ ५०

चन्द्रावली ः सहि सच्चे, सुअण्णमन्दिरं गदुअ आलिङ्गीअदु रहङ्गी । [सखि सत्ये, सुवर्णमन्दिरं गत्वा आलिङ्ग्यतां रथाङ्गी ।] ५१

श्रीराधा (स्मित्वा) ः जधा आणबेदि देई । [यत्धा आज्ञापयति देवी ।] (इति कृष्णेन समं सपरिवारा निष्क्रान्ता ।] ५२

चन्द्रावली ः माहबि, सुदं मए बहिणीए राहिआए बि र[इ]बिम्बसरिच्छं मणिराणमासि । [माधवि, श्रुतं मया भगिन्या राधाया अपि रविबिम्बसदृक्षं मणिरत्नमासीत।] ५३

नेपथ्ये ः « स्नेहेन दीप्तापि » इति (१०.३) ५४

चन्द्रावली (नेपथ्याभिमुखमवलोक्य) ः सुणम्ह, एसो कीरो किं पढेदि ? [शृणु, एषो कीरः किं पठति ?] ५५

नेपथ्ये ः « अद्य प्रियां परिमलोज्ज्वल » इत्यादि (१०.४) ५६

चन्द्रावली (सखेदं) ः हला सुदं सोदब्बम् । [सखि, श्रुतं श्रोतव्यं ?] ५७

नेपथ्ये ः « पिङ्गलामनुसृतो मणिसङ्गी » इत्यादि (१०.५) ५८

चन्द्रावली ः माहवि ! आअण्णिदं तुए ? [माधवि ! आकर्णितं त्वया ?] ५९

माधवी ः ण केअलमाअण्णिदं, आअलिदं च । [न केवलमाकर्णितं, आकलितं च ।] ६०

चन्द्रावली ः

अन्तेउरे सच्चा ज[इ] बस[इ] सुहं तदो कहिं सहि मे ।

अ[इ] णं कुण्डिणब[इ]णो, पहिणोमि घरे उबाएण ॥७॥ ६१

[अन्तःपुरे सत्या यदि वसति सुखं (शुभं) तदा कस्मिन्सखि मे ।

अयि एनां कुण्डिणपतेः प्रहिणोमि गृहे उपायेन ॥]

माधवी ः साहु मन्तिदं भट्टिदारिआए । [साधु मन्त्रितं भर्तृदारिकया ।] ६२

चन्द्रावली ः अम्महे ! बञ्चणबिज्जाबेअक्खण्णं, जमप्पमत्तॉ बि भामिदम्ह, ता एहि, हेममन्दिरं गच्छम्ह । [अहो ! वञ्चनविद्यावैच्क्षण्यं, यदप्रमत्ता अपि भ्रामिताः स्म, तदेहि, हेममन्दिरं गच्छामः ।] (इति निष्क्रान्ता ।) ६३

(ततः प्रविशति कृष्णः सपरिवारा राधा च ।) ६४

श्रीकृष्णः (सानन्दं) ः

सुतनु किञ्चिदुदञ्चय लोचने

चलचकोरचमत्कृतिचुम्बिनी ।

स्मितसुधां च सुधाकरमाधवी

विधुरतो विधयेऽत्र धुरन्धराम् ॥८॥ ६५

श्रीराधा (सलज्जं) ः सुन्दर ! अलमिमिणा मिहमेत्तबट्टिणा पिअत्तणेण । (इति संस्कृतेन)

जगत्कर्णचमत्कारी दत्तो मे देव यस्त्वया ।

स मूकः साम्प्रतं वृत्तः प्रेमोड्डामरडिण्डिमः ॥९॥ ६६

श्रीकृष्णः ःप्रिये मैवं ब्रवीः –

सन्तु भ्राम्यदपाड्गभङ्गिखुरलीखेलाभुवः सुभ्रुवः

स्वस्ति स्यान्मदिरेक्षणे क्षणमपि त्वामन्तरा मे कुतः ।

ताराणां निकुरुम्बकेन वृतया श्लिष्टेऽपि सोमाभया

नाकाशे वृषभानुजां श्रियं ऋते निष्पद्यते स्वश्छटा ॥१०॥ ६७

नववृन्दा ः चारुमुखि! सोपचारेयं नोक्तिमुद्रा । ६८

श्रीकृष्णः ःप्रिये त्वदास्यं पश्यतो मे नोपमानवस्तूनि हृदयमारोहन्ति नः । यतः –

धत्ते न स्थितियोग्यतां चरणयोरङ्केऽपि पङ्केरुहं

नाप्यङ्गुष्ठनखस्य रत्नमुकुरः कक्षासु दक्षायते ।

चण्डि त्वन्मुखमण्डलस्य परितो निर्मञ्छनेऽप्यञ्जसा

नौचित्यं भजने समुज्ज्वलकला सान्द्रापि चन्द्रावली ॥११॥ ६९

(प्रविश्य माधव्या सह चन्द्रावली ।) ७०

चन्द्रावली ः माहबि, सुदं तुए ? [माधवि, श्रुतं त्वया ?] ७१

माधवी ः अध इम् । [अथ किं ?] ७२

श्रीकृष्णः (पुरोऽवलोक्य) ः पश्यत पश्यत, देवीयमदवीयसी । (इति सर्वे सम्भ्रमेणाभ्युत्थानं नाटयन्ति ।) ७३

चन्द्रावली (उपसृत्य) ः हला सच्चभामे, तादेण सत्ताजिदेण तुज्झ पेसिदमच्चरिअं मणिन्दं बिलोइदुमाअदम्हि । [हला सत्यभामे, तातेन सत्राजिता तुभ्यं प्रेषितमाश्चर्यं मणीन्द्रं विलोकयितुमागतास्मि ।] ७४

(नववृन्दा कृष्णकरान्मणिमुत्तार्य दर्शयति ।) ७५

चन्द्रावली ः सुदं मए, मणिन्दो एसो छीरसाअरमन्थणे समुप्पण्णो । [श्रुतं मया, मणीन्द्र एष क्षीरसागरमन्थने समुत्पन्नः ।] ७६

मधुमङ्गलः ः देइ, एब्बं णेदम् । [देवि, एवमेतत।] ७७

चन्द्रावली ः अण्णं बि तत्थ एक्कमच्चरिअमासि । [अन्यमपि तत्रैकमाश्चर्यमासीत।] ७८

नववृन्दा ः देवि तत्कीदृशं ? ७९

चन्द्रावली ः धण्णन्तरिणो हत्थादो अमिअकुम्भे दाणएहिमाअड्ढिअ णीदे, अज्जौत्तेण किं पि अ[उ]रुब्बं रूबं पाडिदं, जस्स मोहिणीत्ति बिक्खादी । [धन्वन्तरेर्हस्तादमृतकुम्भे दानवैराकृष्य नीते, आर्यपुत्रेण किमपि अपूर्वं रूपं प्रकटितं, यस्य मोहिनीति विख्यातिः ।] ८०

श्रीकृष्णः (स्वगतम्) ः नूनमभिज्ञातोऽस्मि देव्या, यदकाण्डे मोहिनी प्रस्तूयते । ८१

चन्द्रावली ः जहत्थणामा सा क्खु मुत्ती, जाए जोईसरो सङ्करो बि सुट्ठु मोहिदो, तत्थ अम्हाणं का कधा ? [यथार्थनामा सा खलु मूर्तिः, यया योगीश्वरः शङ्करोऽपि सुष्ठु मोहितः, तत्र अस्माकं का कथा ?] ८२

सर्वाः (स्वगतम्) ः एदं दुरूहं संविहाणां कधं देईए उण्णीदं ? [इदं दुरूहं संविधाणकं कथं देव्या उन्नीतं ?] ८३

चन्द्रावली (सस्मितम्) ः सहि सच्चभामे ! किं सो उबॉ अत्थि, जेण अम्हे बि तं पेक्खम्ह ? [सखि सत्यभामे ! किं स उपायोऽस्ति, येन वयमपि तत्पश्यामः ?] ८४

(राधा सेर्ष्यं भ्रूभङ्गेन कृष्णमीक्षते ।) ८५

श्रीकृष्णः (स्वगतम्) ः साक्षादेवंगतस्य मम वाङ्मम वाङ्मात्रेणापि वञ्चनचातुरी सत्यमातुरीबभूव । (प्रकाशं) देवि ! किमद्य मां प्रत्यभिज्ञातुं क्षमासि न वेति परीक्षणाय मयेदं नाट्यमङ्गीकृतम् । ८६

चन्द्रावली (कृत्रिमसम्भ्रममभिनीय) ः हन्त हन्त ! अज्जौत्तो जेब्ब एसो । [हन्त हन्त ! आर्यपुत्र एव एषः ।] ८७

मधुमङ्गलः ः भो पिअबास्स ! तुमं पच्चहिजाणन्तीए जिदमम्हदेईए, ता अलमेत्थ च[उ]रन्मण्णत्तणेण । [भो प्रियवयस्य ! त्वं प्रत्यभिजानन्त्या जितमस्मद्देव्या, तदलमत्र चतुरंमन्यत्वेन ।] ८८

माधवी ः अज्ज महुमङ्गल ! कालभुअङ्गदट्ठे कुलिसप्पहारो एसो । [आर्य्मधुमङ्गल ! कालभुजङ्गदष्टे कुलिशप्रहार एषः ।] ८९

चन्द्रावली ः मुद्धे माहबि ! महूसबे बि कीस खिज्जसि ? णं दुल्लहं रूपामिअं पिबेहि । [मुग्धे माधवि ! महोत्सवेऽपि कस्मात्खिद्यसे ? ननु दुर्लभं रूपामृतं पिब ।] ९०

श्रीराधा (स्वगतम्) ः हन्त हन्त ! अणुहूदा मए पारबस्सस्स पराकट्ठा । [हन्त हन्त ! अनुभूता मया पारवश्यस्य पराकाष्ठा ।] ९१

चन्द्रावली ः देअ ! इमाए मन्दाए मणिदंसणुक्कण्ठाए तुअम्मि अवराहिणी किदम्हि मन्दभाइणी । [देव ! अनया मन्दया मणिदर्शनोत्कण्ठया त्वय्यपराधिनी कृतास्मि मन्दभागिनी ।] ९२

श्रीकृष्णः ः देवि ! यथाकाममुपालभ्यताम् । त्वत्कारुण्यमेव शरणम् । ९३

नेपथ्ये ः हला, सुदं सोद्दब्बं ? [हला श्रुतं श्रोतव्यं ?] ९४

मधुमङ्गलः ः एसो कञ्चुइहत्थे कीरो पढेदि । [एष कञ्चुकिहस्ते कीरः पठति ।] ९५

श्रीकृष्णः (स्वगतम्) ः मेधाविना कीरेणैव कृतेयं कदर्थना ।

पुनर्नेपथ्ये ः « अन्तेउरे सच्चा » इत्यादि (१०.७) । ९७

राधिका (निःश्वस्य सखेदमात्मगतम्) साहु रे कीर साहु । बाट्ठमणुग्गहिदम्हि, ता दाणिं दुल्लहाहिट्ठदाणदच्छिणं तित्थवरं कालिअदेहं प्पविसिय अप्पाणं सप्पाणं तुरिअमुबहिरस्सम् । [साधु रे कीर साधु । बाढमनुगृहीतास्मि, तदिदानीं दुर्लभाभीष्ठदानदक्षिणं तीर्थवरं कालियह्रदं प्रविश्य आत्मानं सर्पेभ्यस्त्वरितमुपहरिष्यामि ।] ९८

(इति नववृन्दा पिङ्गलाभ्यां सह निष्क्रान्ता ।) ९९

चन्द्रावली ः देअ ! एक्कं विण्णबिस्सम् । [देव ! एकं विज्ञापयिष्यामि ।] १००

श्रीकृष्णः ः देवि, काममाज्ञापय । १०१

चन्द्रावली ः देअ! तुह्म विलास सोक्खाणं बाहादेण किद महापराहम्हि । ता कारुण्णेण आणबेहि जधा गोठ्ठबैणो गोट्ठं गदुअ बसंती तुमं सुहिणं करेमि । [देव! तव विलाससौख्यानां व्याघातेन कृतमहापराधास्मि । तत्कारुण्येन आज्ञापय यथा गोष्ठपतेर्गोष्ठं गत्वा वसन्ती त्वां सुखिनं करोमि । १०२

नेपथ्ये ः

एष क्षिप्रं मधुरिपुपरिष्वङ्गरङ्गाय लुब्धो

गोष्ठाधीशः कनकशकटी पृष्ठपल्यङ्कस्ङ्गी ।

बन्धुश्रेणीवृतपरिसरः पौर्णमासीयशोदा

पूर्णाभ्यासः प्रविशति मुदा द्वारकाद्वारव्वीथीम् ॥१२॥ १०३

श्रीकृष्णः (सानन्दं) ः सखे, देव्याः सदभिध्यानेन सकुटुम्बो गोष्ठाधीशः प्राप्तस्तदेहि तत्र गच्छावः । (इति निष्क्रान्तौ ।) १०४

चन्द्रावली ः समए संबुत्तो मे बान्धवाणं समाअमो । [समये संवृत्तो मे बान्धवानां समागमः ।] १०५

नेपथ्ये ः

इयमुद्दिश्यमानाध्वा पौर्णमास्या व्रजेश्वरी ।

परीता परिवारेण रोहिणीमन्दिरं ययौ ॥१३॥ १०६

माधवी ःदिट्ठिआ दिट्ठिआ । जं सुद तुम्ह दुक्खा ठक्कुराणी रोहिणी । [दिष्ट्या दिष्ट्या । यत्श्रुतं युष्मद्दुःखा ठक्कुराणी रोहिणी ।] १०७

चन्द्रावली ः ता गदुअ गुरुअणं बन्दणं कुणम्ह । [तद्गत्वा गुरुजनं वन्दनं कुर्मः ।] (इति परिक्रम्य) एदं च्चेअ राउलाणीए रोहिणीए अन्तेउरं [एतदेव राज्ञाः रोहिण्या अन्तःपुरं ] । १०८

नेपथ्ये ः

नयनयोः स्तनयोरपि युग्मतः

परिपतद्भिरसौ पयसाञ्झिरैः ।

अहह वल्लवराजगृहेश्वरी

स्वतनयं प्रणयादभिषिञ्चति ॥१४॥ १०९

चन्द्रावली ः एसो गोउलेस्सरीए अङ्के णिबिट्ठो अज्जौतो । ता क्खणमेत्त चिट्ठम्हि । [एष गोकुलेश्वर्या अङ्के निविष्टो आर्यपुत्रः । तत्क्षणमत्र तिष्ठामि ।] ११०

(ततः प्रविशन्ति यथानिर्दिष्टा यशोदा पौर्णमासी रोहिणी मुखरादयश्च ।) १११

यशोदा (मूर्ध्नि हरिमाघ्राय सास्रं) ः जाद ! णूणं विसुमरिदम्हि जं चिरं ण मे उद्भालणं किदम् । [जात ! नूनं विस्मृतास्मि यस्माच्चिरं न मे उद्भालनं कृतम् ।] ११२

श्रीकृष्णः (सबाष्पम्) ः अम्ब ! कथमेवं व्याहरन्ती लज्जितमपि मां लज्जयसि ? ११३

मुखरा ः भाबदि ! बम्हण्डकोडिणाहो त्ति तुअत्तो सुदो बि कणहो मम उण गोअणाअरो त्ति पडिभादि । [भगवति ! ब्रह्माण्डकोटिनाथ इति त्वत्तः श्रुतोऽपि कृष्णो मम पुनर्गोपनागर इति प्रतिभाति ।] ११४

श्रीकृष्णः (स्मित्वा) ः आर्ये मुखरे ! हृदयङ्गममुक्तम् । किन्तु शुभमनुध्यायताम्, यथा भूयोऽपि तथा मङ्गलभाजनं भवेयम् । ११५

पौर्णमासी ः हन्त चिरादङ्कुरितानि मद्भागधेयबीजानि यदद्य यशोदोत्सङ्गमारूढं माधवं पश्यामि । ११६

श्रीकृष्णः ः अम्ब, मया संवर्धितं पशुपक्षिणां कदम्बं किं वस्तत्र सौख्यमातनोति ? ११७

पौर्णमासी ः मुकुन्द ! दुःखे वक्तव्ये किं नु सौख्यं ब्रवीषि ? ११८

यशोदा (संस्कृतेन) ः

यः पारीपरिवाहितेन कपिलाक्षीरेण खिन्नस्त्वया

पुष्टः प्रेमभराद्विनष्टजननीसङ्गः कुरङ्गीशिशुः ।

त्वामप्रेक्ष्य स कातरः प्रतिदिशं मुक्तार्तनादस्तुदन्

मर्माणि व्रजवासिनां वितनुते शार्दूलविक्रीडितम् ॥१५॥ ११९

पौर्णमासी ः

कस्तान्पश्यन्भवदुपहृतस्निग्धपिञ्छावतंसान्

कंसाराते न खलु शिखिनः खिद्यते गोष्ठवासी ।

उन्मीलन्तं नवजलधरं नीलमद्यापि मत्वा

ये त्वामन्तर्मुदितमतयस्तन्वते ताण्डवानि ॥१६॥ १२०

श्रीकृष्णः (क्षणं तूष्णीं स्थित्वा) ः भगवति ! कच्चिदमी स्वस्तिमन्तो मम वयस्याः ? १२१

पौर्णमासी ः भवद्विलोकनोत्कण्ठया ते व्रजेन्द्रेण सार्धं सुधर्मामध्यासते । ततस्त्वरया पूर्णकामाः क्रियन्ताम् । १२२

श्रीकृष्णः ः यथादिशन्ति तत्रभवत्यः । (इति परिक्रम्य स्वगतम्) मातुर्वन्दनाय ललितापद्मयोरुपसत्तिरत्रोचिता । (इति निष्क्रान्तः ।) १२३

चन्द्रावली ः उबसप्पणस्स एसो ओसरो । [उपसर्पणस्य एषोऽवसरः ।] (इति तथा करोति ।) १२४

पौर्णमासी (सहर्षम्) ः गोष्ठेश्वरि, पुरस्तादियं चन्द्रावली । (इत्युपपाद्य भुजाभ्यामावृणोति ।) १२५

यशोदा (सस्नेहमुत्थाय) ः बच्चे ! दिट्ठिआ पुणो बि दीट्ठासि । [वत्से! दिष्ट्या पुनरपि दृष्टासि ।] (इति कण्ठे गृह्णाति ।) १२६

चन्द्रावली (यशोदामभिवाद्य सास्रम्) ः अम्म ! इदो बि भुइट्ठो दे अण्णो को क्खु कारुण्णबिलासो, जमप्पणो पाअप्फंससोहग्गाणं भाइणी किदम्हि ? [मातः ! इतोऽपि भूयिष्ठस्ते अन्यः कः खलु कारुण्यविलासः, यदात्मनो पादस्पर्शसौभाग्यानां भागिनी कृतास्मि ?] १२७

यशोदा ः बच्छे ! अबि णाम ण बिसुमरिदो सो अम्ह गोउलनिबासो ? [वत्से ! अपि नाम न विस्मृतः स अस्मद्गोकुलनिवासः ?] १२८

चन्द्रावली ः अम्म ! मादुकोटिसिणिद्धॉ जहिं तुम्हे बसेध, तथाबत्थाणं कल्लाणं का णाम पामरी अबि ण सुमरेदि ? [मातः ! मातृकोटिस्निग्धा यत्र यूयं वसथ, तथावस्थानं कल्याणं का नाम पामरी अपि न स्मरति ?] १२९

मुखरा (चन्द्रावलीमालिङ्ग्य) ः हा राहि ! चिरादो तुमं च्चेअ ण दिट्ठासि । [हा राधे ! चिरात्त्वमेव न दृष्टासि ।] (इति मुक्तकण्ठं रोदिति ।) १३०

यशोदा (सव्यथं) ः हन्त धत्ति ! पत्थुदा कीस एसा सोअणारग्गलकुञ्चिआ राहित्ति अक्खरजुअली । [हन्त धात्रि ! प्रस्तुता कस्मातेषा सोकनगरार्गलकुञ्चिका राधेति अक्षरयुगली ।] १३१

चन्द्रावली ः हा बहिणीए ! अन्धम्हि मन्दभाइणी, जाए एक्कबारं बि ण दिट्ठा तुमम् । [हा भगिनि ! अन्धास्मि मन्दभागिनी, यया एकवारमपि न दृष्टा त्वम् ।] १३२

रोहिणी ः हा तिल्लोअसुन्दरि बच्छे ! कहिं गदासि ? [हा त्रिलोकसुन्दरि वत्से ! कुत्र गतासि ?] १३३

पौर्णमासी ः हन्त ! शतकोटिकठोरास्मि, यदद्यापि जीवामि । १३४

रोहिणी (सधैर्यम्) ः पिअसहि जसोए ! तप्प[इ] बाढं चन्दाअली, ता सोअं मुक्किअ आस्सासिअदु । [प्रियसखि यशोदे ! तप्यते बाढं चन्द्रावली, तत्शोकं मुक्त्वा आश्वास्यताम् ।] १३५

यशोदा (चन्द्रावलीमालिङ्ग्य) ः अम्म ! मा झीणेहि अप्पडिकादब्बो एसो अत्थो । [अम्ब ! मा क्षीणा भव, अप्रतिकर्तव्य एषोऽर्थः ।] १३६

पद्मा (सव्यतः प्रेक्ष्य साश्चर्यम्) ः का एसा अ[उ]रुब्बरूबा दिट्ठपुब्बात्ति पडिभादि ? (इत्युपसृत्य सास्रम्) सुन्दरि ! तुमं पेक्खिअ पिअसहीं ललिदं सुमरन्ती पेम्मघुम्मिदम्हि । [का एषा अपूर्वरूपा दृष्टपूर्वेति प्रतिभाति ? सुन्दरि ! त्वां प्रेक्ष्य प्रियसखीं ललितां स्मरन्ती प्रेमघूर्णितास्मि ।] १३८

ललिता (सगद्गदम्) ः सहि ! अबि णाम पोमासि ? [सखि ! अपि नाम पद्मासि ?] १३९

पद्मा (सावेगम्) ः हन्त ! कधं ललिदा जेब्ब ! [हन्त ! कथं ललितैव !] (इति भुजाभ्यां गृह्णाति ।) १४०

ललिता (गाढं परिष्वज्य सास्रम्) ः पिअसहि चन्दाअली कीम दे बिजुत्ता ? [प्रियसखि, चन्द्रावली कस्मात्ते वियुक्ता ?] १४१

पद्मा ः सहि मन्दभाइणी म्हि । [सखि, मन्दभागिनी अस्मि ।] १४२

कञ्चुकी ः इदं भगवत्या रोहिण्या मन्दिरम् । तदत्र प्रविशतां भट्टिन्यौ । १४३

उभे ः णूणं राउलाणीए बन्दनस्स आणीदम्ह । [नूनं राज्ञ्या वन्दनायानीताः स्म ।] १४४

रोहिणी ः भाबदि ! का क्खु एसा ललिदा बिब्भममुप्पादेहि ? [भगवति ! का खल्वेषा ललिता विभ्रममुत्पादयति ?] १४५

पौर्णमासी (सवैयाग्र्यम्) ः हन्त ! पश्यत, सैवेयं राधिकायाः प्राणसखी । १४६

(इति सर्वाः पुरो धावन्ति ।) १४७

ललिता ः अम्महे ! कधं गोउलेसरीपमुहमेदं सब्बं जेब्ब गोउलबन्धुउलं ! [आश्चर्यं ! कथं गोकुलेश्वरीप्रमुखमिदं सर्वमेव गोकुलबन्धुकुलं !] १४८

(सर्वाः साक्रन्दमुत्थाप्य कण्ठे गृह्णन्ति ।) १४९

चन्द्रावली ः हा सहि ललिदे ! पराणं धारेसि ? [हा सखि ललिते ! प्राणं धारयसि ?] (इत्यालिङ्गति ।) १५०

ललिता (सहर्षाद्भुतम्) ः कधं पिअसही चन्दाअली । (इत्यालिङ्ग्य) एसो अमिअसाअरे दिब्बचिन्तामणिलाहो, जो क्खु गोउलकुडुम्बेसु तुम्हसङ्गमो । [कथं प्रियसखी चन्द्रावली ? एष अमृतसागरे दिव्यचिन्तामणिलाभः, यः खलु गोकुलकुटुम्बेसु त्वत्सङ्गमः ।] १५१

चन्द्रावली ः ललिदे ! तुमं जेब्ब सा बहिणी लद्धासि । [ललिते ! त्वमेव सा भगिनी लब्धासि ।] १५२

ललिता ः हा सहि राहे ! तुमं च्चेअ दुल्लहदंसणा संबुत्ता । [हा सखि राधे ! त्वमेव दुर्लभदर्शना संवृत्ता ।] १५३

पद्मा (चन्द्रावलीमालिङ्ग्य) ः हा पिअसहि ! दिट्ठिआ दिट्ठासि । [हा प्रियसखि ! दिष्ट्या दृष्टासि ।] १५४

पौर्णमासी ः पश्येयं रुक्मिणीमूर्तिः पद्मामाश्लिष्य बाष्पैर्विर्द्रवन्तीव लक्ष्यते । १५५

ललिता (सविस्मयम्) ः भाबदि ! पिअसही चन्द्राअली जेब्ब किं क्खु रुप्पिणी त्ति सुणीअदि ? [भगवति, प्रियसखी चन्द्रावली एव किं खलु रुक्मिणीति श्रूयते ?] १५६

पौर्णमासी ः अथ किम् । १५७

ललिता ः तदो सूरदिण्णा अब्बाईणा सच्चभामा णाम कुमरी कधमिमाए दुक्खणिदाणं त्ति पसिद्धी ? [तदा सूर्यदत्ता अर्वाचीना सत्यभामा नाम कुमारी कथमस्या दुःखनिदानमिति प्रसिद्धिः ?] १५८

पौर्णमासी ः वत्से चन्द्रावलि ! तालाङ्कमातुर्मुखादस्माभिरपि तवाधिराकर्णितः । तदद्य मा चिन्तय । १५९

यशोदा ः बच्छे ! राहीठाणे तुमं बट्टसि, ता दाणिमम्हाणं पुरदो का दे चिन्ता णाम ? [वत्से ! राधास्थाने त्वं वर्तसे, तदिदानीमस्माकं पुरतः का ते चिन्ता नाम ?] १६०

चन्द्रावली ः सहि ललिदे ! सुणाहि । [सखि ललिते ! शृणु ।] (इति संस्कृतेन)

अपि प्राणेभ्यो मे भवितुमुचितो यः प्रियतमः

स सौन्दर्यालोकः क्षणमपि ययौ नाक्षिपदवीम् ।

दुरन्ताधिश्रेणीवितरणविधौ यः खलु कृती

स साक्षादत्रासीदहह सहबासी मम परः ॥१७॥

(प्रविश्य सम्भ्रान्ता बकुला ।)

बकुला ः देइ ! मए पुणो पुणो णिबारिदाबि सप्पभीसणं कालिअदहं सप्पदि सच्चा । १६३

पौर्णमासी ः दिष्ट्या पद्मिनीहृदुत्तापिका शीतवातावली व्यालानामाननबिले विलीना । [देवि ! मया पुनः पुनः निवारितापि सर्पभीषणं कालियह्रदं सर्पति सत्या ।] १६४

बकुला ः दिट्ठं मए, णाबुन्दाबिण्णत्तो भट्टा बिम्हलो बिअ णमणुसप्पदि । [दृष्टं मया, नववृन्दाविज्ञप्तो भर्ता विह्वल इव एनामनुसर्पति ।] १६५

सर्वाः ः अलं विलम्बारम्भेण फणिवासं गच्छेम । (इति स्खलन्त्यो निष्क्रान्ताः ।) १६६

(ततः प्रविशति पिङ्गलयाभ्यर्थमाना राधा ।)

श्रीराधा (संस्कृतेन) ः

परतन्त्रतया समन्ततो, मम रङ्गाय न शार्ङ्गिसङ्गमः ।

धिगिहापि पुनर्वियोगभीर्, मृतिर्वाद्य गतिर्विनिश्चिता ॥१८॥ १६८

पिङ्गला—भट्टदारिए ! ण क्खु एदं साहसं दे जुत्तम् । [भर्तृदारिके ! न खल्विदं साहसं ते युक्तम् ।] १६९

राधा (सावज्ञं) ः

आलि कालिअदहेण दिट्ठिणो

रञ्जणं घणतरङ्गभङ्गिणा ।

सामलुज्जलभुअङ्गमण्डली

सङ्गिणा मह चिरेण किज्ज[इ] ॥१९॥

[आलि कालियह्रदेन दृष्टे

रञ्जनं घनतरङ्गभङ्गिना ।

श्यामलोज्ज्वलभुजङ्गमण्डली

सङ्गिना मम चिरेण क्रियते ॥]

(इति वामाक्षिस्पन्दनमभिनीय सोपालम्भं संस्कृतेन)

मद्वामदृष्टिलूता, परिस्फुरन्ती समन्ततः कृपणा ।

आशाबन्धं तनुते प्राणपतङ्गोपरोधाय ॥२०॥ १७०

पिङ्गला ः आसण्णमङ्गलसंसि एदं, ता मुहुत्तं पडिबालेहि । [आसन्नमङ्गलशंसि एतत्, तत्मुहूर्तं प्रतिपालय ।] १७१

श्रीराधा ः दिट्ठिमक्कडीए आसासे को मे बीसासो ? [दृष्टिमर्कट्या आश्वासे को मे विश्वासः ?] १७२

(ततः प्रविशति नववृन्दया सह श्रीकृष्णः ।) १७३

श्रीकृष्णः ः

गतिर्जाता या मे चिरविरहिणः प्राणशकुनेर्

घनच्छायामेतां परिमलवतीं मूर्तिलतिकाम् ।

क्षिपन्ती सद्यस्त्वं फणिविषकृशानौ कृशतरां

कठोरे नाकार्षीर्मयि किमनुकम्पालवमपि ॥२१॥

(इति ह्रदावगाहमभिनयति ।) १७४

नववृन्दा ः देव ! सर्वानर्थहरोऽयं मणीन्द्रः । (इति हरेर्मणिबन्धे मणिं बध्नाति ।) १७५

श्रीराधा ः हद्धी हद्धी ! कधं मन्दभाइणमिमं जणं दन्दसूआ बि ण डंसन्ति ? [हा धिखा धिक्! कथं मन्दभागिनमिमं जनं दन्दशूका अपि न दशन्ति ?] (इति सर्पाननुसर्पति ।) १७६

श्रीकृष्णः (सम्भ्रमेणोपसृत्य) ः महासाहसिनि ! किमेतदसौष्ठवमनुष्ठितं ? (इति पृष्ठतो भुजाभ्यां कण्ठं गृह्णाति ।) १७७

श्रीराधा (शोकादश्रुतिमभिनीय सानन्दं) ः दिट्ठिआ भुअङ्गजुअलेण बेढिदम्हि । [दृष्ट्या भुजङ्गयुगलेन वेष्टितास्मि ।] (इति स्पर्शसुखमभिनीय) ठाणे समए अबऽरि सब्बं पिअं होदि, जं पण्णाप्फंसोबि सुहाबेदि । [स्थाने समये अपकारि सर्वं प्रियं भवति, यत्पन्नगस्पर्शोऽपि सुखापयति ।] (इति संस्कृतेन)—

कृष्णभुजङ्गमिहाहं विधिनाभिमतं किलानुकूलेन ।

चिररात्राय कृतेयं यात्रा मम यातनावलिभिः ॥२२॥ १७८

नववृन्दा ः दिष्ट्या कृष्णभुजाभिज्ञानमस्याः सम्बभूव । १७९

राधा (दृशं दरोन्मील्य) ः अब्बो ! मणिकन्तिकिम्मीरिदमत्थओ बि एसो भुअङ्गो मं ण दांसदि । [आश्चर्यं ! मणिकान्तिकिर्मीरितमस्तकोऽपि एष भुजङ्गो मां न दशति ।] १८०

नववृन्दा ः

चक्राङ्कितस्य निर्मल

मलयजपरिशीलिनो मणिं दधतः ।

कृष्णभुजगस्य सुभगे

कृष्णभुजस्य च गतो भेदः ॥२३॥ १८१

कृष्णः ः

त्रासितेन्दिरममन्दमाधुरी

कन्दलैर्वपुरपूर्वमुज्झती ।

बन्धुराङ्गि जगदेव किं वृथा

बन्ध्यनेत्रमसि कर्तुमुद्यता ॥२४॥ १८२

राधा (साचिकन्धरमवेक्ष्य) ः हद्धी हद्धी ! हदाबि सुट्ठु जेब्ब हदम्हि, जमिमाए वरागीए किदे एसो तिल्लोअसोक्खऽरी अप्पा सप्पदहे तुए पक्खित्तो । [हा धिखा धिक्! हतापि सुष्ठु एव हतास्मि, यदनया वराक्याः कृते एष त्रिलोकसौख्यकारी आत्मा सर्पह्रदे त्वया प्रक्षिप्तः ।] १८३

कृष्णः (तीरमासाद्य राधाहस्तेर्रत्नमाबध्नन्सोपालम्भस्मितम्) ः

भजन्ती निष्कृपे रागाद्भोगिनां स्वयमाशिषः ।

भोगिनं मां किमाशीर्भ्यस्त्वं वारयितुमुद्यता ॥२५॥ १८४

यशोदा ः हन्त हन्त ! अदिक्कन्तो बि सो हदासो कालिओ मह मन्दभाइणीए किदे पुणो बि पराबुत्तो । [अतिक्रान्तोऽपि स हताशः कालियो मम मन्दभागिन्याः कृते पुनरपि परावृत्तः ।] १८५

नववृन्दा (स्वगतं) ः राधापारवश्यबाधानिरोधाय मया प्रणीतेयं चातुरी सिद्धा बभूव । (प्रकाशम्) हन्त परमार्याः ! समाश्वसित समाश्वसित, खेदं मुञ्चत, यदेष सत्यामुत्तार्य तटीमवाप नागारिकेतुः । १८६

सर्वाः (सगद्गदम्) ः बाढं, मङ्गलं मङ्गलम् । (इति धैर्यं नाटयन्ति ।) १८७

नेपथ्ये ः

त्रिभुवनगुरुमग्रेकृत्य राजीवयोनिं

कलयितुमधिमौलिं सत्वरः सात्वतानाम् ।

विशति पुरमपर्णापूर्णपार्श्वः पुरस्ताद्

वृषवरमधिरूढः खण्डशीतांशुचूडः ॥२६॥ १८८

नववृन्दापश्यत पश्यत ! गिरीन्द्रनन्दिनीजीवितबन्धोरानन्दनाय मुकुन्दः पुरस्तादयं साधयति ।

(सर्वाः कृष्णं दूरतः समीक्ष्य हर्षां नाटयन्ति ।) १८९

पौर्णमासी ः नववृन्दे ! क्व ते प्राणसखी सत्या ? १९०

नववृन्दा ः पुरस्ताद्वासन्तीमण्डपे । १९१

पौर्णमासी ः हरेः परोक्षमेव सत्यां सत्वरं कुण्डिने प्रेषयामः । १९२

मुखरा ः अहं गदुअ णमाणेमि । (इति परिक्रामति ।) १९३

(प्रविश्य पिङ्गलया सह राधा ।) १९४

श्रीराधा ः हला ! कॉ एत्थ जप्पन्ति ? [सखि का अत्र जल्पन्ति ?] १९५

पिङ्गला ः मिलिदाइं देईए रुप्पिणीए कुडुम्बाइं तुममक्खिबन्ति । [मिलितानि देव्या रुक्मिण्या कुटुम्बानि त्वामाक्षिपन्ति ।] १९६

श्रीराधा ः हा मरणं बि मे दुल्लहं ! [हा मरणमपि मे दुर्लभम् ।] (इति वक्त्रमावृत्य रोदिति ।) १९७

(मुखरा दूरतः प्रेक्ष्य सचमत्कारं परावर्तते ।) १९८

पौर्णमासी ः मुखरे, किं निवृत्तासि ? १९९

मुखरा ः भाबदि ! किंपि बत्तुकामा बि सङ्केमि । [भगवति ! किमपि वक्तुकामापि शङ्के ।] २००

पौर्णमासी ः मुग्धे ! कृतं शङ्कया विश्रब्धमुच्यताम् । २०१

मुखरा (सास्रगद्गदं कर्णे) ः एब्बं णेदं [एवमेतत।] २०२

पौर्णमासी (सोपालम्भं) ः प्रलापिनि ! तूष्णीं भव । कुतस्ते तादृशं भागधेयं ? २०३

यशोदा ः भाबदि ! किं भणादि एसा ? [भगवति, किं भणति एषा?] २०४

पौर्णमासी ः गोकुलेश्वरि ! बाढमसम्भाव्यम् । २०५

(मुखरा पुनः कर्णे लगति ।) २०६

पौर्णमासी ः मूढे ! ज्ञातं ज्ञातम् । महारत्नेनैव भ्रान्तासि कृता । २०७

मुखरा ः णत्तिणि ललिदे ! तुममाअदुअ पेच्छ । [नप्त्रि ललिते ! त्वमागत्य पश्य ।] २०८

(ललिता पौर्णमासीमुखमीक्षते ।) २०९

पौर्णमासी ः गच्छामस्तत्र को दोषः ? (इति सर्वाः परिक्रामन्ति ।) २१०

पौर्णमासी (ललितामुखराभ्यां सह किञ्चिदग्रे गत्वा सौत्सुक्यम्) ः कथमलक्ष्यमाणसर्वाङ्गापि वराङ्गी मदन्तरे कारुण्यमुन्मीलयन्ती कञ्चित्चमत्कारमारोपयति । २११

ललिता (सन्निधाय सगद्गदं) ः अ[इ] मन्दोअरि ! किं रोअसि ? [अयि मन्दोदरि ! किं रोदिषि ?] २१२

राधिका (मुखादञ्चलमपास्य, सविक्रोशम्) हा हा कधं पिअसही मे ललिदा । हा कधं बच्चला भावदी । हा कधमज्जिआ मुहरा । [हा हा कथं प्रियसखी मे ललिता । हा कथं वत्सहा भगवती । हा कथमार्या मुखरा ।] (इत्यानन्देन घूर्णन्ती भूमौ स्खलति ।) २१३

पौर्णमासी ः अहह ! भोः कथं वत्सैव सा मे राधिका । (इत्युच्चैराक्रन्दति ।) २१५

मुखरा ः णत्तिणि ! पुणो बि लब्धासि । [नप्त्रि, पुनरपि लब्धासि । ] (इत्युन्मादं नाटयति ।) २१६

यशोदा (रोहिण्या सह धावन्ती सगद्गदं) ः हा बच्छे ! जीअसि ? [हा वत्से, जीवसि ?] (इति मुखं चुम्बति ।) २१७

चन्द्रावली (सोत्कम्पम्) ः किं क्खु मम बहिणी राही च्चेअ एसा ? [किं खलु मम भगिनी राधा एव एषा ?] (इति स्खलन्ती कण्ठे गृह्णाति ।) २१८

पौर्णमासी ः अहो तीव्रतृष्णार्तानां मरुजाङ्गले पानककुल्या स्वयमेवोन्मीलिता । २१९

राधा (सर्वासां पादानभिवाद्य सोत्कण्ठम्) कुसलिणी किं मे बहिणी चन्दाअली । [कुशलिनी किं मे भगिनी चन्द्रावली ।] २२०

चन्द्रावली (गाढं परिष्वज्य) ः बहिणी एसाम्हि दुज्जणीहतचन्दाअलिआ । [भगिनी, एषास्मि दुर्जनी हतचन्द्रावलिका ।] (इति रोदिति) २२१

र्âधिका (सानन्दं ससम्भ्रमं पादयोः पतन्ती) हद्धि हद्धि, बिडम्बिदह्मि हददेब्बेण । [हा धिक्! हा धिक्! विडम्बितास्मि हतदैवेन ।] २२२

(इति प्रविशति श्रीकृष्णः) २२३

श्रीकृष्णः (सानन्दम्) चिरेणाद्य गोकुलवासिनामिवात्मानमभिमन्यमानः प्रमोदमुग्धोऽस्मि । २२४

यशोदा (कृष्णमभिमृश्य) ः जाद ! दिट्ठिआ बहूदुदिओ सप्पदहादो खेमी णिक्कन्तोसि । [जात ! दिष्ट्या वधूद्वितीयः सर्पह्रदात्क्षेमी निष्क्रान्तोऽसि ।] २२५

नववृन्दा ः गोकुलेश्वरि ! मायामयी सेयं भुजङ्गसंहतिः । (सर्वे स्मितं कुर्वन्ति ।) २२६

ललिता ः हला राहे ! कहिं बिसाहा ? [सखि राधे ! कुत्र विशाखा ?] २२७

नववृन्दा ः पश्येयं विशाखा निजनिर्झरादुत्थाय सानन्दमायाति । २२८

(सर्वाः प्रत्युद्गमा विशाखामालिङ्गन्ति ।

विशाखा गुरूणां पादानभिवन्द्य राधामालिङ्गति ।) २२९

ललिता ः हा सहि बिसाहे ! किं पुणो बि दिट्ठासि । [हा सखि विशाखे ! किं पुनरपि दृष्टासि ।] (इत्युभे गाढमालिङ्गतः ।) २३०

चन्द्रावली (जनान्तिकम्) ः भावदि ! बहिणीए करं गेण्हिदुं मह बाणेण अब्भत्थीअदु… अज्जौत्तो । [भगवति ! भगिन्याः करं ग्रहीतुं मम वचनेन अभ्यर्थ्यतामार्यपुत्रः ।] २३१

पौर्णमासी ः वत्से ! दाक्षिण्यभाजां मूर्धन्यासि । तदाकर्णय—

एषा साध्वी चिरमुदयते देवि दैवी प्रसिद्धिर्

विन्यस्तायां मधुरिपुकरे राधिकायां भवत्या ।

धिन्वन्भावी भुवनमनयोः प्रेमसौभाग्यघण्टा

निर्घोषाख्यः परिणयविधौ रत्नधाराभिषेकः ॥२७॥ २३२

चन्द्रावली (सहर्षम्) ः अज्जे ! मह बि एसो च्चेअ कामो । ता गोउलेसरीए समं सम्पादीअदु । २३३

(पौर्णमासी यशोदामावेदयति ।) २३४

यशोदा ः जाद ! बच्छा चन्दाअली किं पि अब्डत्थेदि । [जात ! वत्सा चन्द्रावली किमपि अभ्यर्थयति ।] २३५

श्रीकृष्णः ः अम्ब ! कथय, कमस्याः परिपूरयिष्याम्यभिलाषं ? २३६

यशोदा ः एब्बं णेदम् । [एवमेतत।] २३७

श्रीकृष्णः ः अम्ब ! यथाज्ञापयति । (इत्युपसृत्य जनान्तिकम्) देवि ! दुर्वहोऽयं गरीयान्महाभारः । तदितोऽन्यदाज्ञापय । २३८

चन्द्रावली (सप्रणयेर्ष्याम्) ः ठाणे बिज्झसि, जं लद्धकण्डोसि । (इति राधां करे धृत्वा) पुण्डरीकक्ख ! एसा मे बहिणी अम्हसऽसादो बि तुए प[उ]रपेम्मेण संभाअणिज्जा । [स्थाने बिभेषि, यत्लब्धकाण्डोऽसि । पुण्डरीकाक्ष ! एषा मे भगिनी अस्मत्सकाशादपि त्वया प्रचुरप्रेम्णा सम्भावनीया ।] २३९

श्रीकृष्णः (नीचैः) ः देवि ! कस्ते प्रसादं नाभिनन्दति ? (इति सादरं गृह्णाति ।) २४०

नेपथ्ये ः

उद्दिश्यमानसरणिर्ननु रैवतेन

गोवर्धनस्य करसम्भृतवामपाणिः ।

भल्लूकमल्लवदनादुपलभ्य वार्तां

विन्ध्यो मुकुन्दनगरीं नगराडुपैति ॥२८॥ २४१

पौर्णमासी ः पश्यत पश्यत—

धृतहलधरपाणिः पर्ववेदीमपूर्वां

प्रविशति वसुदेवो वृष्टिवीरैः परीतः ।

यदुकुलरमणीनां श्रेणिभिः सेव्यमाना

सदयमुपनयन्ती रेवतीं देवकी च ॥२९॥ २४२

नववृन्दा ः पश्यत पश्यत—

भद्राया दक्षिणं पाणिं शैव्यायाः सव्यमुत्सुका ।

कराभ्यां गृह्णती श्यामा पुरस्तादियमाययौ ॥३०॥ २४३

नेपथ्ये ः

विनीते राधायाः परिणयविधानानुमतिभिः

स्वयं देव्या तस्मिन्पितुरिह निबन्धे मुदितया ।

कुमारीणां तासामयमुपनयन्षोडश कृती

सहस्राणि स्मेरः प्रविशति शताढ्यानि गरुडः ॥३१॥ २४४

यशोदा ः अम्महे ! देब्बस्स एकदा सब्बदोमुही अणुऊलदा । [आश्चर्यं दैवस्यैकदा सर्वतोमुखानुकूलता ।] २४५अ

पौर्णमासी ः पश्यत पश्यत—

दक्षिणतः श्रीदाम्ना, वलितः सुबलेन सव्यतः स्फुरता ।

उपचितपरमानन्दः प्रविशत्ययमग्रतो नन्दः ॥३२॥ २४५ब्

(प्रविश्य यथानिर्दिष्टो नन्दः ।) २४६

नन्दः ः भगवति ! चरितार्थोऽस्मि । चिरसम्भृतस्य मनोरथस्य पूरणेन । (इति कृष्णमालिङ्गति ।) २४७

(भगिन्यौ पौर्णमासीमन्तराकृत्य गोपेन्द्रं प्रणमतः) २४८

नन्दः ः वत्से, परस्परस्य प्राणाधिक्यं भजन्त्यौ सौभाग्यवत्यौ भूयासम् । २४९

पौर्णमासी ः

निखिलसतीनां वृन्दैररुन्धतीयं निरुन्धती पदवीम् ।

अनवाप्तव्रतलोपा, लोपामुद्रायसौ मिलति ॥३३॥ २५०

नववृन्दा ः

गीर्वाणाधिपतिः पुलोमतनयां ऋद्धिं सखा धूर्जटेर्

धूमोर्णामरविन्दबान्धवसुतो गौरीमपामीश्वरः ।

त्वाष्ट्रीं चण्डरुचिः शिवां मरुदसौ स्वाहां कृशानुस्तथा

चन्द्रः पश्यत रोहिणीमुपनयन्प्रापद्यते द्वारकाम् ॥३४॥ २५१

नेपथ्ये ः

सैरिन्ध्रीयं सुगन्धान्प्रणयति विविधानङ्गरागप्रबन्धान्

दामान्यग्रे सुदामा मुदितमतिरसौ भूरिशो निर्मिमीते ।

भङ्गीभिर्वायकोऽयं रुचिमिह रचयत्यम्बराणां वराणां

पूर्णानन्दाभिघूर्णत्परिजनगहना द्वारकोल्लालसीति ॥३५॥ २५२

ललिता ः बिसाहे! बाढं किदत्थासि पुणो बि दोणं सङ्गममहूसवदंसणेण । [विशाखे! बाढं कृतार्थासि पुनरपि द्वयोः सङ्गममहोत्सवदर्शनेन ।] २५३

पौर्णमासी ः यशोदामातः, उपस्थितोऽयं सर्वोऽभिषेकसम्भारः । तदलङ्क्रियतां प्रथमं राधया सह पर्ववेदी ततः क्रमेण कुमारीभिश्च । २५४

कृष्णः (सर्वमभिनन्द्य जनान्तिकम्) प्राणेश्वरि राधे प्रार्थयस्व किमतः परं ते प्रियं करवाणि । (इत्यारभ्य) २५५

राधिका (सानन्दं संस्कृतेन) ः

सख्यस्ता मिलिता निसर्गमधुरप्रेमाभिरामीकृता

यामी मे समगंस्तु संस्तववती श्वश्रूश्च गोष्ठेश्वरी ।

वृन्दारण्यनिकुञ्जधाम्नि भवता सङ्गोऽयं रङ्गवान्

संवृत्तः किमतः परं प्रियतरं कर्तव्यमत्रास्ति मे ॥३६॥ २५६

तथापीदमस्तु—

चिरादाशामात्रं त्वयि विरचयन्तः स्थिरधियो

विदध्युर्ये वासं मधुरिमगभीरे मधुपुरे ।

दधानः कैशोरे वयसि सखितां गोकुलपतेः

प्रपद्येथास्तेषां परिचयमवश्यं नयनयोः ॥३७॥ २५७

किं च—

या ते लीलारसपरिमलोद्गारिवन्यापरीता

धन्या क्षौणी विलसति वृता माथुरी माधुरीभिः ।

तत्रास्माभिश्चटुलपशुपीभावमुग्धान्तराभिः

संवीतस्त्वं कलय वदनोल्लासिवेणुर्विहारम् ॥३८॥ २५८

श्रीकृष्णः ःप्रिये तथास्तु । २५९

राधिका—कधं बिअ ?

(कृष्णः स्थगितमिवापसव्यतो विलोकते ।) २६०

(प्रविश्य गार्ग्या सहापटीक्षेपेण एकानंशा ।)

एकानंशा—सखि राधे ! मात्र संशयं कृथाः । यतो भवत्यः श्रीमति गोकुले तत्रैव वर्तन्ते किन्तु मयैव कालक्षेपणार्थमन्यथा प्रपञ्चितम् । तदेतन्मनस्युअन्भूयताम् । कृष्णोऽप्येष तत्र गत एव प्रतीयताम् । २६१

गार्गी (स्वगतम्) ः फलिदं मे तातमुहादो सुदेन । २६२

(श्रीराधा प्रणिधाय वैवश्यं नाटयति ।) २६३

गार्गी—सहि ! समस्ससीहि समस्ससीहि ।

(श्रीराधा समाश्वास्य तिर्यक्कृष्णमवलोकते ।) २६४

श्रीकृष्णः ः प्रिये ! भूयः किं ते प्रियं करवाणि । २६५

श्रीराधा ः (स्मितं कृत्वा) बहिरङ्गजनालक्षतया श्रीगोकुलमपि स्वस्वरूपैरलङ्करवामेति ॥ २६६

श्रीकृष्णः ः प्रिये ! तथास्तु । तदेहि, स्वसुस्तवाभ्यर्थनामबन्ध्यां करवावः ।

(इति सर्वैरावृतौ निष्क्रान्तौ) २६७

(इति निष्क्रान्ताः सर्वे)

इति श्रीश्रीललितमाधवनाटके

पूर्णमनोरथो नाम

दशमोऽङ्कः

॥१०॥

******************************************************

नाटके समुचितामपीश्वरः स्वैरमप्रकटयन्नुदात्तताम् ।

अत्र मन्मथमनोहरो हरिर्लीलया ललितभावमाययौ ॥ २६९

पूर्णं कलाचतुःषष्ठ्या लक्षणैर्भूषणैरपि ।

भजन्तु श्रितगान्धर्वं धीरा ललितमाधवम् ॥ २७०

नन्देषु वेदेन्दुमिते शकाब्दे

शुक्रस्य मासस्य तिथौ चतुर्थ्याम् ।

दिने दिनेशस्य हरिं प्रणम्य

समापयं भद्रवने प्रबन्धम् ॥ २७१

तटस्थेनापि गम्भीरे रसस्रोतसि यन्मया ।

सर्वतोमुखमाकीर्णं तत्क्षमध्वं मनीषिणः ॥ २७२

***************************************************************

]