दानकेलिकौमुदी-विश्वनाथचक्रवर्तिसमारोपितटीकया सह

[[दानकेलिकौमुदी-विश्वनाथचक्रवर्तिसमारोपितटीकया सह Source: EB]]

[

श्रीलरूपगोस्वामिप्रभुपादप्रणीता दानकेलिकौमुदी

विश्वनाथचक्रवर्तिसमारोपितटीकया सह.

दानकेलिकौमुदी

श्रीश्रीराधाकृष्णौ जयतः ।

अन्तःस्मेरतयोज्ज्वला जलकणव्याकीर्णपक्ष्माङ्कुरा

किञ्चित्पाटलिताञ्चला रसिकतोत्सिक्ता पुरः कुञ्चती ।

रुद्धायाः पथि माधवेन मधुरव्याभुग्नतारोत्तरा

राधायाः किलकिञ्चितस्तवकिनी दृष्टिः श्रियं वः क्रियात॥१॥

विभुरपि कलयन्सदाभिवृद्दिं

गुरुरपि गौरवचर्यया विहीनः ।

मुहुरुपचितवक्रिमापि शुद्धो

जयति मुरद्विषि राधिकानुरागः ॥२॥

नान्द्यन्ते सूत्रधारःः अलमतिविस्तरेण । (समन्तादवलोक्य) हन्त कथं मदीयनान्दीचन्द्रिकासन्दीपितभावबन्धुरा नान्दीश्वरगिरेरुपत्यकायां घूर्णते सतां मण्डली । (पुनरवेक्ष्य)

भक्तः कोऽपि तनोस्तनोति पुलकैर्नृत्यन्निहोत्फुल्लतां

शुष्यन्कोऽपि चिराद्विवर्णवदनो धत्ते विदीर्णं मनः ।

गर्ज्जन्धावति कोऽपि विन्दति पतन्कोऽप्येष निष्पन्दताम्

उद्यत्यच्युतविभ्रमे गतिरभूत्का स्थेयसामप्यसौ ॥३॥

(क्षणं विमृष्य) आम्, अभिज्ञातं निदानं साधिष्ठप्रेमकदम्बकादम्बराणामाडम्बरोऽयम् । यतः,

गभीरोऽप्यश्रान्तं दुरधिगमपारोऽपि नितराम्

अहार्यां मर्यादां दधदपि हरेरास्पदमपि ।

सतां स्तोमः प्रेमण्युदयति समग्रे स्थगयितुं

विकारं न स्फारं जलनिधिरिवेन्दौ प्रभवति ॥४॥

(पुनर्निभाल्य) तत्रापि विश्वविलक्षणा सा निर्भरमतिमोहिनी केलिचर्या । (इति मूर्धानमाधुन्वन्सधैर्यम्)

प्रेमोर्जिता नर्मविवादगोष्ठी

गोपेन्द्रसूनोः सह राधयासौ ।

हंसानपि श्रोत्रतटीमवाप्ता

शुद्धामृतादप्यभितो रुणद्धि ॥५॥

(प्रविश्य) नटः (सानन्दम्) ः

अवगणितसन्धिभूमा नाट्यकलेयं बलिष्ठसप्ताङ्गा ।

परमसुवृत्तियुगाढ्या वरराज्यश्रीरिव स्फुरति ॥६॥

सूत्रधारः - भोस्ताण्डवाचार्य पाण्डित्यपारङ्गत । सम्यगभिज्ञातम् । यदेष नियोगेन सुहृदामुपरूपकभिदां दानकेलिकौमुदीं नाम भाणिकामभिनेतुमुद्यतोऽस्मि । तदत्र निजाभीष्टदैवतानुस्मरणमङ्गलमाचरेयम् । (इत्यञ्जलीं कृत्वा)

नामाकृष्टरसज्ञः शीलेनोद्दीपयन्सदानन्दम् ।

निजरूपोत्सवदायी सनातनात्मा प्रभुर्जयति ॥७॥

नटः - भाव पश्य पश्य— गान्धारग्रामगुरोस्तव गान्धर्वविद्याप्रबन्धेन कुरङ्गधर्ममुपलम्भिता रसज्ञरत्नमण्डली नात्मानमप्यनुसन्धातुमसौ क्षमते ।

सूत्रधारः ः

प्रकटितललितालङ्कृतगान्धर्वेयं महाविद्या ।

नान्दीमुखी न हि कथं रसिकेन्द्रानन्दिनी भविता ॥८॥

नेपथ्ये - साधु भोः कुशीलवाचार्य तथ्यं कथयसि यदद्य नान्दीमुखी गान्धर्विकामावेद्य रसिकवृन्दमौलेर्व्रजेन्द्रनन्दनस्य चिरमानन्दाय भवित्री ।

सूत्रधारः - कथं वनदेवीयं वृन्दा सुबलेन सार्धमित एवाभिवर्तते । तदत्र नाट्ये नटान्नियुक्तमितः प्रयाव । (इति निष्क्रान्तौ)

प्रस्तावना

ततः प्रविशति सुबलेन समं संकथयन्ती वृन्दा ।

वृन्दा (साधु भोः कुशीलवाचार्येति पठित्वा) - सुबल कथमेतयापि मङ्गलवार्तया त्वमुत्फुल्लमुखो नाभिलक्ष्यसे ।

सुबलः - बुन्दे ! इमस्स पसङ्गस्स विसेस विण्णाण सुण्णदाए मुद्धो विअ जादोह्मि ता फुडं कहिज्जौ ।

वृन्दा - अद्य राधा सखीभिर्मण्डितसनीडा गोविन्दकुण्डरोधसि मखमण्डपे गुरूणामभ्यनुज्ञया हैयङ्गवीनं विक्रेतुमभिक्रमिष्यति तदावेदयितुं नान्दीमुखी सान्दीपनेर्मातुरुपदेशेन मुकुन्दमुपलब्धा ।

सुबलः - (सानन्दम्) बुन्दे, एसा निहिलमाहुरीवरीअसी राहिआ कहमेत्थ लहुअम्मि अत्थे गुरुअणेहिमणुण्णादा ?

वृन्दा ः

यदहनि हवनीयं हारि हैयङ्गवीनं

स्वयमिदमुपहार्यं गोदुहामङ्गनाभिः ।

उपहरणकरीणामप्यभीष्टार्थसिद्धिर्

मुनिभिरभिहितास्य प्रक्रियेयं मखस्य ॥९॥

सुबलः - एरिसो सो कस्स महन्तस्स महो ?

वृन्दा - सुगृहीतनामधेयस्यानकदुन्दुभेः ।

सुबलः - महुपुरं मुक्खिअ कहं बणमज्झे तिणा आरम्भिदो जण्णो ?

वृन्दा - जीवति कंसहतके कथं मथुरायां तस्य यज्ञसिद्धिः ? अतस्तेनात्र भागुरिर्नाम गर्गस्य जामाता स्वप्रतिनिधिर्न्यधायि ।

सुबलः - फुडमाहिआरिओ एसो जण्णो ?

वृन्दा - नहि नहि, किन्तु शान्तिकोऽयम् । यत्र सुतादप्यधिकस्य मित्रसूनोः कृष्णस्य स्वपुत्रस्य च रामस्य निखिलानिष्टशान्तिः फलम् ।

सुबलः - (क्षणं विभाव्य सकौतुकम्) पिअबास्सस्स सुइरं हिआट्ठिदा सा गरिट्ठा केलिघट्टाहिआरिदानुरूबस्स राधिआपहुदीहिन्तो दाणग्गहविलासस्स लालसा अज्ज च्चेअ सिड्ढा ।

वृन्दा - सुबल मद् विधानामपि निधानायते सा दानलीला । तदेहि मानसगङ्गातीरमवतराव । (इत्युभौ तथा कुरुतः)

सुबलः - बुन्दे ! वणन्तराले अकरालाणं मरालाणं ध्वणीधोरणी धुणीडाहिणे सुनिज्जै ।

वृन्दा - नायं मरालानां ध्वनिः, किन्तु पशुपालबालातुलाकोटीनाम् । (पुनर्निरूप्य सानन्दम्)

शोणे मण्डितमूर्ध्नि कुण्डलतया क्ÿप्ते दुकूलोत्तमे

न्यस्तां स्वर्णघटीं वहन्त्यचटुलां हैयङ्गवीनोज्ज्वलाम् ।

दूरे पश्य तथाविधाभिरभितः स्मेरा सखीभिर्वृता

राधा मानसजाह्नवीतटभुवं स्वैरं परिक्रामति ॥१०॥

राधा - मानसजाह्नवीतटभुवं स्वैरं परिक्रामति ।

सुबलः - अम्महे चञ्चलाहिं सहारीहिं पुणो पुणो उद्दीबिदाए राहिआए आहंडलकोअंडलदाए बिअ जलदमंडली मंडोज्जै णिअ माहुरिण्ण बुन्दारई ।

वृन्दा - सुबल ! राधामाधुर्यस्य गिरामप्यग्रगामित्वाद्दूरदेशेऽपि साहसिक्यमेवावधारयामि (इति मुखमानमय्य सापत्रपम्)

अनालोच्य व्रीडां यमिह बहु मेने बहुतृणं

त्यजन्नीर्षापन्नां मधुरिपुरभीष्टामपि रमाम् ।

जनः सोऽयं यस्याः श्रयति न हि दास्येऽप्यवसरं

समर्थस्तां राधां भवति भुवि कः श्लाघितुमपि ॥११॥

भवतु । तथापि स्वगिरं वासयितुं तत्सौरभं किञ्चिदुदञ्चयामि (इति सुबलमवलोक्य)

राधाया मुखमण्डलेन बलिना चन्द्रस्य पद्मस्य वा

व्याक्षिप्ता सुषमेति केयमबुधैः श्लाघा विनिर्मीयते ।

यद्दूरेऽप्यनुभूय भूयसि सुधाशुद्धापि चन्द्रावली

पद्माली च विसृज्य शीर्यति निजां सौन्दर्यदर्पश्रियम् ॥१२॥

सुबलः - एसो वि कित्ति तिए उक्करिसो ।

वृन्दा - सुबल गोवर्धनमूर्धनि श्यामलमण्डपिकायाः पृष्ठतः शिखण्डमौलिस्त्वयोपनीयताम् । मया तु मनोहरमासां विहारकौशलमवलोकयन्त्या शनैरवगन्तव्यम् (इति सुबलेन सह निष्क्रान्ता) ।

॥ विष्कम्भकः ॥

(ततः प्रविशति सखीचतुष्टयेनासज्यमाना राधा)

राधा - अम्महे वणलेहाए लोअणलोहणिज्जदा । (इति संस्कृतमाश्रित्य) ललिते ! पश्य पश्य—

पदततिभिरलं कृतोज्ज्वलेयं

ध्वजकुलिशाङ्कुशपङ्कजाङ्किताभिः ।

नखरलुठितकुट्मलावनाली

किमपि धिनोति धुनोति चान्तरं मे ॥१३॥

ललिता (स्मित्वा) - बिसाहे पेक्ख पेक्ख । (इति संस्कृतेन)

सदा सुधाबन्धुरवेणुमाधुरी

विस्मारिताशेषशरीरकर्मणाम् ।

चिरं तिरश्चामपि यत्र कानने

मनः समाधेर्न कदाप्युदास्यते ॥१४॥

राधा (स्वगतम्) - अबि णाम अतक्किदम् । आअदुअ हेअंगवीणोबहारिणीणमम्भाण मग्गमज्ज रुन्धिस्सदि बःइन्दणन्दणो । (प्रकाशम्) हला ललिदे ! एह्निं पत्थाणओसरे ईसि विहसिअ किं भणिदं भवदीए ? ॥

ललिता - एब्बं भणिदं—अज्ज तुम्भाणं कोबि अऊरूब्बो उबत्थिदो दीसई लाहो ।

राधिका - ललिदे कधाप्पसङ्गे पुच्छीअदु, सा महातापसी सब्बण्णा तत्तहोदी पोण्णमासी ।

ललिता - किं ता पुच्छिदब्बं ?

राधा - पुब्बभवे णन्दीमुहीप्पहुदीहिं कीदिसं महाब्बदं किदं ? त्ति ।

ललिता - एदाणं महाब्बदकारिदा कधं तुए तक्किदा?

राधा - हद्धी हद्धी । अःइ मुद्धे तुमं बि एव्वं पुच्छसि । जं तस्स मन्दान्दोलिदमारकुण्डलकिरणपराअकन्दलीसुन्दरस्स मुहारबिन्दस्स अच्चरिअं सिविणे बि सुदूरादो तुम्भादिसीणं दुल्लहगन्धलां महामाहुरीमारां णेत्तःइन्दिअरेहिं सब्बदा तॉ अणिअरिदं पिअन्ति । ता भणामि परमाहिट्टाणुवलम्भमुम्मुरजालिदाणं तुम्भाणं बि तत्थ महाब्बदे दिक्खा सब्बधा ज्जेह्व जुत्ता । जधा ताणं णान्दीमुहीपहुदीणं पहवी भाविणि भवे बि ण दुल्लहा भवे ॥

विशाखा - राहे नन्दीमुही पहुदिदो गोबकण्णागणादो किम्बा अबिसेसेण सब्ब गोउलबासिजणादो बि काबि एका महाभाइणी किदमहाब्बदलक्खा लक्खीअदि ।

राधा (सोत्कण्ठम्) - बिसाहे, का क्खु एसा पुण्णवदीणं सिहामणी?

ललिता (स्वगतम्) - तुअत्तो का ईदिसी अण्णा दुदीआ?

राधा - सहि, विण्णादं सच्चं कथेसि । (इति संस्कृतेन)

श्लाघ्यते कलितकेलिकाकलीव्याकुलीकृतसमस्तगोकुला ।

श्रीहरेरधरसीधुमाधुरीमादिता मुरलिरेव नेतरा ॥१५॥

ललिता (सस्मितं) - सच्चम्,

सच्चं मुरलीकूइदतरलीकिदधीरमाणसा गोरी ।

उत्तमबंसुप्पण्णा साराहिणा महासरसमुहरा ॥१६॥

राधा - हला ! कीस हससि ? मन्दभाइणा बि इमिणा जणेन अप्पणो पणःइजणाणं पसादादो तं मुहमंडलं दोतिण्णबारं बि दिट्ठमत्थि । तहबि पःइदिमादएण तिण्णा अःउरुब्बेण तस्स माहुरीमहुणा हिआमुम्महिअ तधा सब्बं विसुमारीअदि । जधा परिहाणेण पेक्खणं बि दुल्लहम् ॥

(इत्यौत्सुक्यमभिनीय संस्कृतेन)

तपस्यामह्क्षामोदरि वरयितुं वेनुषु जनुर्

वरेण्यं मन्येथाः सखि तदखिलानां सुजनुषाम् ।

तपह्स्तोमेनोच्चैर्यदियमुररीकृत्य मुरली

मुरारातेर्बिम्बाधरमधुरिमानं रसयति ॥१७॥

वृन्दा (प्रविश्य) - ललिते ! कथं कथाभिनिवेशेन संरब्धहृदयाः शक्रध्वजवेदिपदवीमधिरोहन्तमप्यात्मानं न जानीथ यूयं ?

सर्वाः (परावृत्य) - सहि सच्चं कधेसि । जं गोअड्ढणो पुट्ठदो संवुत्तो । ता डाहिणे गोइन्दकुण्डवट्टणी अणुवट्टम्भ । (इति तथा कुर्वन्ति)

वृन्दा (अपवार्य) - चम्पकलते पश्य पश्य—

ध्रुवं निखिलमाधवप्रणयिनीकदम्बादलं

विकृष्य विविधं विधिर्मधुरिमाणमत्यद्भुतम् ।

प्रभोः परमतुष्टये निरमिमीत राधां मुदा

यदत्र रमते हरिः परिहृतान्यनारीस्पृहः ॥१८॥

राधा (दक्षिणतः प्रेक्ष्य) - अम्महे ! माणसगङ्गाए उप्फुल्ले कमलकलाबे रोलम्बानं काअलीकलालस्स कोमलदा ।

वृन्दा (साकूतं) ः

सरोजानां पुञ्जे मदकलममुं पश्यत पुरः

परागैरापिङ्गैः स्पुरदधरकायं मधुकरम् ।

मुहुर्भ्रामं भ्रामं भ्रमररमणीर्यः सरभसं

निरुन्धानो ध्वानोद्धतिविधूतमूर्धा विहरति ॥१९॥

राधा (स्वगतम्) - णुणं बुन्दाए किम्पि हिअए कदुअ एदं बाहरीअदि । (प्रकाशम्) हला बुन्दे ! धण्णॉ कुसुमकोडिओ जॉ कान्तेण समं किलन्ति मन्दभाइणीणमुण इमाणं सूरोबासिणीणं दूरादो क्खण बित्तस्स पेक्खणं सुदुल्लहं त्ति ॥ (संस्कृतेन)

भवतु माधवजल्पमशृण्वतोः

श्रवणयोरलमश्रवणिर्मम ।

तमविलोकयतोरविलोकनिः सखि

विलोचनयोश्च किलानयोः ॥२०॥

वृन्दा - सखि राधे ! रात्रिन्दिवं दिव्यलीलया दीव्यसि तथापि कथं निर्विद्य खिद्यसे?

ललिता - हला राहे कधं मन्थरा बिअ लक्खीयसे ?

वृन्दा ः

हैयङ्गवीनमृदुला त्वमतः कथं वा

हैयङ्गवीनकलसीं चलिता वहन्ती ।

हा मल्लिकार्पणपदं व्यथते शिरस्ते

मूर्धन्यमुं मम निधेहि कृपां विधेहि ॥२१॥

राधा - सहि ! कलसीए भारो ण मं मन्थराबेदि । पेक्ख, भूरि भूसणाणं च्चेअ जाइं णिआरिदाए पसहमप्पिदाइम् ॥

विशाखा - हला राहि क्खणं चिट्ठ सुट्ठु उद्भारेमि मंडणभारम् । (इति यथार्हमुत्तारयति ।)

वृन्दा ः

त्रपते विलोक्य पद्मा ललिते राधां विनाप्यलङ्कारम् ।

तदलं मणिमयमण्डनमण्डलरचनाप्रयासेन ॥२२॥

राधा - हला बुन्दे, एत्थ जण्णे हेअङ्गवीणोबहारिणीणं हरिणीणेत्ताणं सब्बङ्गारहस्स मण्डणौलस्स मुणिजणादो उबलद्धी सुणीअदि ।

वृन्दा - न केवलं मण्डनकुलस्यैवोपलब्धिः किन्तु क्रियारम्भ एव निजाभीष्टानामपि । तदेभ्यः प्राञ्जलमञ्जलिः क्रियतां कामदेभ्यः शैलेन्द्रतीर्थेभ्यः । (इति सर्वास्तथा कुर्वन्ति ।)

चम्पकलता - सहि चित्ते ! अदिचित्ता एसा निहिलजीअमण्डलीकुण्डिआकुलालस्स पुण्डरीअजोणिणो कुण्डेण मण्डिदा गिरिन्दसिहरत्थली डाहिणे रेहदि ।

चित्रा - सहि ईध ज्जेब्ब भत्ताणं बच्छलो हरिराअ णामा णारायणो बसेदि ।

वृन्दा - पश्य पश्य !

सखि बहुलशिरस्त्वे भूभृतौ चेह साम्यं

दधदपि गिरिरञ्चत्येष शेषाद्विशेषम् ।

अघरिपुरयमङ्के मूर्ध्नि यस्योदरे च

प्रणयति रतिलीलामद्भुतां प्रेयसीभिः ॥२३॥

ललिता (राधामवेक्ष्य संस्कृतेन)ः

निविडरुचिनि गण्डग्रावखण्डे गरिष्ठे

सुरभिणि किर दृष्टिं गौरि गोवर्धनस्य ।

सखि मृगमदपङ्कैः सुष्ठु यत्रोपविष्टस्

त्वदुरसि रसिकेन्द्रः पत्रवल्लीमलेखीत॥२४॥

चम्पकलता (जनान्तिकं संस्कृतेन) - सखि समाकर्ण्यताम्—

अयमुपरि परिस्फुरद्बलाका

ततिरनु चञ्चलाविलासः ।

अचलशिरसु नीलमण्डपस्य

द्विगुणयति द्युतिमम्बुदः स्वधाम्ना ॥२५॥

ललिता (सानन्दम्) - चम्पालदे ण क्खु अम्बुदो पेक्ख । एसो कण्ठलम्बि बिप्फारहारो पीताम्बरो गिरिणिदम्बे आलम्बदि । ता पुप्फिदो अम्भाणं मणोरहसाहो ।

राधा (वृन्दामवेक्ष्य सकम्पं संस्कृतेन) ः

उरीकुर्वन्गौरीं गिरिशिखरभागम्बररुचिं

जगद्वंशे युञ्जन्मदनघनघूर्णाघुणघटाम् ।

धृतिध्वान्तं भिन्दन्नमृतनिधिरिन्दीवरदृशां

दृशां बन्धुः कोऽयं विधूरिव पुरस्तादुदयते ॥२६॥

वृन्दा - सखि राधे ! समाकर्ण्यताम्—

समस्तजगतीभुवां मृगदृशामभीष्टाशिषः

समर्थमभिपूरणे किमपि दोलयन्दोर्युगम् ।

असौ कुलजवल्लवीमदनवेदनोन्मादन

व्रतप्रणयिनोरसा रसिकमौलिरुद्भासते ॥२७॥

राधा (सविस्मयं संस्कृतेन) ः

प्रपन्नः पन्थानं हरिरसकृदस्मन्नयनयोर्

अपूर्वोऽयं पूर्वं क्वचिदपि न दृष्टो मधुरिमा ।

प्रतीकेऽप्येकस्य स्फुरति मुहुरङ्गस्य सखि या

श्रियस्तस्याः पातुं लवमपि समर्था न दृगियम् ॥२८॥

वृन्दाः

यदा यदा पश्यसि माधवं पुरस्

तदा तदैवास्य वदस्यपूर्वताम् ।

नवः सदा स्यात्किमयं तवाथवा

रागोन्मदे विस्मरतः किमक्षिणी ॥२९॥

(ततः प्रविशति मधुमङ्गलसुबलार्जुनादिभिरुपास्यमानो नान्दीमुखीमभिपृच्छन्कृष्णः ।)

कृष्णः (सकौतुकम्) ः

गोवर्धनगिरिमुपेत्य कटाक्षबाणान्

कर्णस्फुरन्मणिशिलोपरि सङ्क्षुवाना ।

का भ्रूधनुर्धुवनसूचितलुञ्चनेयं

व्यग्रीकरोत्यहह मामपि सम्भ्रमेण ॥३०॥

(पुनर्निरूप्य) हन्त ! कथं सैव मदीयहृद्विटङ्कालङ्कारपारावतीयं प्रिया ?

तारश्रिया मूर्च्छितवल्गुरागा

विस्तारयन्ती श्रुतिपालिभूषाम् ।

कलाञ्चिता हन्त मयोपलब्धा

स्वराधिकेयं परिवादिनीव ॥३१॥

नान्दी - गोउलानंद ! तुम्भ पासे चिट्ठन्तीं मां जाब इमॉ ण पेक्खन्ति क्खणं ताब पच्छण्णा होमि । (इति तथा स्थिता) ।

कृष्णः - हन्त सखायस्तूर्णमाध्मायतां भवद्भिर्महाघट्टाधिकाराभिव्यञ्जकं शृङ्गादिवादित्रं मयापि बिम्बाधरे वंशी निधेया । (इति सर्वे तथा कुर्वन्ति ।)

वृन्दा (स्वगतम्) - कथमेताः केलिमुरलीरवाकर्णनेन विघूर्णितमूर्धानस्तरून्मुहुर्धारयन्ति ? (इति समन्तादवलोकयन्ती)

वेणोरेष कलस्वनस्तरुलताव्याजृम्भणे दोहदं

सन्ध्यागर्जभरः पिकद्विजकुहूस्वाध्यायपारायणे ।

आभीरेन्दुमुखीस्मरानलशिखोत्सेके सलीलानिलो

राधाधैर्यधराधरेन्द्रदमने दम्भोलिरुन्मीलति ॥३२॥

कृष्णः (राधायामपाङ्गं निक्षिप्य सानन्दम्) ः

वक्त्राम्भोजमुदात्तनर्मवचसा सख्यं विनिर्मित्सते

मैत्रीं भङ्गुरवीक्षितेन नयनद्वन्द्वं क्रमादीप्सति ।

लीलामन्दगतेन पादयुगमप्यारिप्सते सङ्गमं

राधायाः स्मरबान्धवेन वयसा देहेऽद्य सन्धित्सति ॥३३॥

राधा (प्रयत्नादाकारगुप्तिमभिनयन्ती साचिकन्धरमपवार्य संस्कृतेन) ः

कुवलययुवतीनां लेहयन्नक्षिभृङ्गैः

कुवलयदललक्ष्मीलङ्गिमाः स्वाङ्गभासः ।

मदकलकलभेन्द्रोल्लङ्घिलीलातरङ्गः

कवलयति धृतिं मे क्ष्माधरारण्यधूर्तः ॥३४॥

कृष्णः (शृङ्गादवरोहणं नाटयन्राधामवलोक्य सानन्दम्) ः

स्थूले राधिकया पयोधरयुगे हारः प्रसादीकृतः

ख्याते बालतया कचे च कुटिले मौलिर्वितीर्णोऽनया ।

विन्यस्तं श्रुतिसेविनोरपि मसीमालिन्यमेवानयोर्

इत्यक्ष्णोर्द्वयमीर्षया मृगदृशः शङ्के मुमोचार्जवम् ॥३५॥

ललिता (अपवार्य) - हला राहे ! हठिल्लदारहडीबणिज्जामहासत्थबाहणाहो ता अपेक्खन्तीओ बिअ सविसम्भं चलम्भ ।

राधा - सहि ! लहु लहु जाहि, जमेसा फुडिदोबलमण्डलीबन्धुरा बसुन्दराधरतडी । (इति सदृष्टिक्षेपं परिक्रामति)

कृष्णः - सखे सुबल ! कथमस्मानवमत्य चलितुं प्रवृत्ता एव सलीलममूरमूकमञ्जीरा मञ्जुभाषिण्यः । ततस्तूर्णमर्जुनेन सार्धममूषां घटस्व व्याघोटनाय ।

सुबलः (सत्वरं सार्जुनः परिक्रम्य) - हन्त ! सगब्बॉ गब्बविक्काणीओ कहं घट्टचत्तरणाहमनादरंतीओ सच्छंदं गच्छंति होदीओ । ता बाहुडिअणो सुट्ठु णं पबोहेन्तु ।

(सर्वाः प्रकाममश्रुतिमभिनीय सावहेलं चलन्ति ।)

सुबलः (धावन्नुच्चैः) - हंहो ! अप्पणो माहाप्पं मा हरेध । तूण्णं पराबट्ठेध ।

सर्वाः (सनिर्वेदमिव परावृत्य) - भोः पुट्ठमांसाद ! कधं तुए परावट्टिदह्म ।

सुबलः - पढमं दाब क्खोणीबिलग्गमत्थऽओ बंदंदु महाघट्टदानिन्दं होदीओ ।

विशाखा (सस्मितम्) - किं बन्दणारिहो ण होदि बल्लईन्दनन्दनो ? किन्तु लूत्तरस्स जण्णस्स हेअङ्गबीणोबहरणे आरद्धब्बदाणमह्माणं बम्हणेदरबंदणं भावदीए णिसिद्धम् ।

अर्जुनः - बिसाहे ! एसो बुंदाअणभूबिंदारओ अह्म महादाणन्दो बि दाणिमारब्धब्बदो बट्टदि । ता ब्बदिणीहिं ब्बदिणोऽस्स बन्दणे दूसणं नत्थि ॥

ललिता - कीदिसं तं ब्बदम् ॥

कृष्णः (सस्मितम्) - नित्यमबलार्बुदद्विजवसनदानं महाव्रतम् ॥

ललिता - तदो जुत्ता एसा घट्टहिआरिदा । जमिदिसीए महापाबीए समारोहणं बिणा णिअ महाब्बदस्स रक्खणं दुक्करम् ॥।

कृष्णः (विहस्य पुरः पश्यन्) - सखे मधुमङ्गल श्रूयताम् ।

अभ्युक्ष्य निष्कं पतयालुना मुहुः

स्वेदेन निष्कम्पतया व्यवस्थिता ।

पञ्चालिका कुञ्चितलोचना कथं

पञ्चालिकाधर्ममवाप राधिका ॥३६॥

मधुमङ्गलः (कृष्णस्य कर्णे निभृतोक्तिमुद्रामभिनयनुच्चैः) - भोः पिअबास्स दिट्ठिआ बड्ढसे पेक्ख गब्बिदसहीसहिदा सज्झसेन खम्भिदा राही ।

वृन्दा (सस्मितम्) ः

मृगाधिपतिमध्यमः कठिनपीवरक्रोडभाक्

भुजङ्गमभुजद्वयस्त्वमसि पुण्डरीकेक्षणः ।

अतः कथय साध्वसं न भवतः कथं विन्दताम्

असौ पुरुषकुञ्जर प्रकृतिभीरुरेणेक्षणा ॥३७॥

ललिता - ललिदापालिदाणं गोआलिआणं कहिं बि भासद्दो बि कण्णकुहरं ण गदो । तह बि इमस्स गोउलरक्खणब्बदस्स अह्म राअकुमरस्स पुरदो कीदिसं भां णाम ।

कृष्णः - ललामाङ्गि ललिते ! ललितं ब्रवीषि । तदिमां सखीमण्डलेन सार्धं पाण्डुरशिलामध्यास्य समुदाचारमवधारय ।

ललिता - गोउलजुअराअ ! पेक्ख, आरोहेदि भाबंतो चंडमऊहो गाणमंडलं ता आपुच्छम्ह तुमं तुरिअं जण्णमण्डबोबलम्भणस्स ।

(कृष्णः भ्रुवोराघूर्णनेन मधुमङ्गलं व्यापारयति ।)

मधुमङ्गलः - ललिदे ! अज्ज तुह्माहिन्तो सुलुक्कं गेह्निदुं ण क्खु जुक्तम् । जं सङ्गबे हेअङ्गबभारभंगुरमज्झमा ओ अप्पसिणिद्धा ओ होदी ओ घट्टे आअदुअ बट्टन्ति । ता रित्ततुण दूसणणिबारणात्थं किम्पि थोअमणुमण्णिअ जहसोक्खं जान्तु ।

विशाखा - अम्महे अदिट्ठपुब्बं हि क्खु गोअड्ढणे घट्टदाणम् ।

कृष्णः - विशाखे ! सत्यं व्याहरसि, भवद्विधा खलु कथं द्रक्ष्यन्ति यदद्यापि पश्यन्त्योऽपि न पश्यन्ति ।

ललिता (जनान्तिकम्) - हन्त सहीओ पढमं सामघट्टना ज्जेब्ब जुत्ता ।

सर्वाः - सुट्ठु भणेसि ।

ललिता (सप्रश्रयमभ्युपेत्य) - गोउलाणन्दण एक्कग्गामबासिसु बिसुद्धपःइदीसु मादिसजनेसु ण जुत्तं किर सुसिलोअस्स सल्लोअमौलिणो तुह्मादिसस्स पादिउल्लारणं ता अणुजाणीहि तुरिअम् ।

कृष्णः (सकारुण्यमिव) - हन्त सुकुमारि सुष्ठु निर्बध्नता दुरन्तशासनेन तेनाटवीचक्रवर्तिनात्र घोरे घट्टकर्मणि नियुक्तोऽस्मि किमस्वैरी करिष्ये ?

विशाखा - किं क्खु कंसेन ?

कृष्णः - नहि नहि ।

विशाखा - तदो केण ?

कृष्णः - क्रीडाकटाक्षच्छटानिर्धूतकंसादिना महामन्मथाभिधेन ।

ललिता - अम्मो कहिं पि ण सुणिदो एस महामम्मह णामा चक्कबट्टी ।

मधुमङ्गलः (साट्टहासम्) - ही ही ! अच्चरिअमच्चरिअं ! महामम्महो बि इमाहिं ण सुणिदो । महाकडए प्पमदमङ्जरी णाम जस्स राअधाणी महुमुहमहाबलविजाप्पमुहा जस्स अमच्चबरा, उत्तमा रामाअली जस्स विहारपाम् ।

कृष्णः - किं बहुना, सन्ततममी कुरङ्गभृङ्गकोकिलादयोऽपि यस्य निदेशचारिणश्चारतामङ्गीकुर्वते ।

चम्पकलता (साच्छुरितम्) - ललिदे ! अदो दाणमपरिहरन्तो बि बैन्दणन्दणो तुए णासुइदब्बो जं परिदो चोरचक्कबट्टिणो चरा चरन्ति ।

कृष्णः - ललिते ! नीतिज्ञासि, तदत्र कुम्भानवरोप्य निरूपयन्तु भवत्यः शुल्ककृत्यम् ।

विशाखा - मोहण ! घट्टप्पंगणे कुलंगणाणं तिलं बि बिलंबणं किर बिडंबणं च्चेअ ।

चित्रा (सदाक्षिण्यम्) - गोउलाणंद ! तत्तं सुणाहि । दिज्जन्तह्मि काड्डिआमेत्ते बि घट्टांगाणे जण्णिअं घिअमसुद्धं होदि त्ति सुणिज्जःइ । ण उण अह्माणं पञ्चतां बि प्पदाणे कादरदा ।

ललिता - हला राहे इमिणा महाभारेण किलिट्टासि ता एत्थं घट्टिअमोदारेहि घडिआम् । (इति सर्वा घट्टिकावतारणं नाटयन्ति ।)

कृष्णः - सखे सुबल घट्टस्याद्य प्रथमातिथिरसौ ससुहृज्जना ललिता । तदस्याः काममपूर्वमाधुर्येण फणिवल्ली पर्णवीटिकापञ्चकेन माननमौपयिकम् ।

सुबलः - (रत्नसम्पुटकमुद्घाट्य) ललिदे गेणह पञ्च बिडिऑ (इत्यग्रे विन्यस्यति) ।

विशाखा - सुअल, अलं तम्बोलेन जं कधिदं च्चेअ ब्बदिणीओ अह्मेति ।

ललिता - सुअल, किं मे मुहं पेक्खसि । अबिसासिणी बिसाहा मह कुप्पंदी एबं भणादि । घट्टालेहिं ठग्गबडिआ पौज्जीअदि त्ति पसिद्धी सुणीअदि । ता अल इमाणं भुअङ्गलदा पल्लवेण ।

मधुमङ्गलः - ललिदे ! बिम्बोट्ठीणमलं बो तम्बोलेण ता कल्लाणी होहि जमुब्बरिदं बीडिआपञ्चाम् ।

कृष्णः (ताम्बूलमुपभुज्य चर्वितं दित्सन्सभ्रूभ्रमम्) - राधे ! द्विजसंस्कृतमिदं ताम्बूलामृतमास्वाद्य निरातङ्का निकाममनास्वादितचरीर्गृहाण सम्पुटतस्ताम्बूलवीटिकाः ।

ललिता - इमस्स कामुईलक्खोबभोएण सुट्ठु पाबणस्स मुहबिम्बस्स जई उग्गारं ण गेणहिस्सदि मे सही कधमप्पाणं पुणिस्सदि ।

सुबलः - ललिदे ! बिबरीदऽरिणो अम्हे दिट्ठिआ तुम्हेहिं च्चेअ उबदिट्ठॉ ता दाणिं दाणं च्चेअ अणुमाण्णिज्जौ ।

चम्पकलता - किं तुम्हे बम्हणॉ जं बो अम्हेहिं दाणं किर उणुमन्तब्बम् ।

मधुमङ्गलः - भोदि चम्पालदे ! एसो कुलीणो अणूआणो बम्हणोम्हि । ता उअरपुरं दिज्जौ समच्छण्डिअं हेअङ्गबीणम् ।

विशाखा - सहि चम्पालदे ! घट्टीच्छलेण एदे उअरम्भरिणो भिक्खन्ति ता दिज्जौ एक्का कागिणीम् ।

कृष्णः - सखे परमाद्यून ! महादानिनामस्माकं महापात्रमसि । तदद्य हैयङ्गवीनेन कुक्षिपूर्तावपि तव दरिद्रता ।

राधा - हला ललिदे ! एदे महादाणिणो त्ति अत्ताणं सलाहन्ति । ता फुडं परमुत्तमबण्णाणं बो सब्बुत्तमं पात्थं दाईस्सन्ति ।

कृष्णः (स्मित्वा) - वरवर्णिनि सत्यं ब्रवीषि तदेतन्निजमहावैभवं दास्यामि । इत्यालिङ्गनमुद्रामभिनीय सुबलमालिङ्गते)

राधा (सरोमाञ्चमात्मगतं संस्कृतेन) ः

अपि गुरुपुरस्त्वामुत्सङ्गे निधाय विशङ्कटे

विपुलपुलकोल्लासं स्वैरी परिष्वजते हरिः ।

प्रणयति तव स्कन्धे चासौ भुजं भुजगोपमं

क्व सुबल पुरा सिद्धक्षेत्रे चकर्थ कियत्तपः ॥३८॥

(इत्यमर्षमिवाभिनयन्ती भ्रुवौ विभुज्य प्रकाशम्) ललिदे ! दिट्ठा पःइब्बदासु मादिसीसु बिदूसादा तुह णिउंजराअस्स ।

ललिता (सापदेशं संस्कृतेन) ः

नवमुकुलितां दृष्ट्वाभ्यर्णे रसाललतामितः

कथमिव मुधा धृष्टः कूटं भजन्नभिधावसि ।

परिमलवती स्निग्धा चासौ द्विरेफपतिं श्रिता

परिहर कुहूकण्ठोत्कण्ठामियं सुलभा न ते ॥३९॥

विशाखा (संस्कृतेन) ः

ऋजुवृत्तिः किल कुटिले

वैगुण्यायैव कल्पते त्वरितम् ।

इति दर्शयन्धनुःस्थो

गुणच्युतिं स्फुटमिषुर्याति ॥४०॥

चित्रा - हन्त घट्टज्झक्ख ! घट्टाहिआरो जःइ तुम्हाणमहिट्ठो तदो बहुजणसंघट्टे जःउंणाघट्टे च्चेअ चत्तरं जुत्तम् ।

चम्पकलता - अःइ विसुद्धचित्ते सहि चित्ते ! एदे सुलुक्कलक्खेण लुण्ठिदुं ज्जेब्ब एत्थ दुग्गबणे चिट्ठन्ति ता बिरमेहि ।

कृष्णः - सखे सुबल ! मित्रायितं चित्रया । तदद्य गोष्ठस्य गोपुरे घट्टचत्वरमुपस्क्रियताम् । यदत्र वनमध्ये पलायन्ते परितश्चपलायतलोचनाः ।

सुबलः - पिअबास्स, सच्चं भणासि । पेक्ख सहीणं सहस्सं राहिअमणुसप्पदि एण्हिं क्खु चःउट्ठां ज्जेब्ब ।

राधा (स्वगतं) - पहादे च्चेअ कुन्दलदाए सद्धं जण्णे पेसिदं मे सहीउलम् ।

मधुमङ्गलः - सुअल! णिच्चिदमाअदॉ विद्धि सहिओ । णहि बसंतलच्छीए ओदारे संबुत्ते कलकंठिणमणुबलंभो संभाबिज्जःइ ।

विशाखा (सस्मितम्) - तदो ताणं सहीणं चलणलच्छीहिं तुम्हाणं घट्टो असोअत्तणं लद्धूण उप्फुल्लिस्सदि ।

कृष्णः (सव्यतो विलोक्य सानन्दम्) - कथं काञ्चनमरीचिरोचिषां सहचरीणां सञ्चयेन ब्रह्मकुण्डस्य पुरो भूमिरलङ्क्रियते ।

ललिता (स्मित्वा) - जगद्धनमयं लुब्धाः कामुकाः कामिनीमयं त्ति पोराणबाणस्स अत्थो पच्चक्खीकीदो ।

मधुमङ्गलः - भो पिअबास्स ! असच्चं ण हसिज्जःइ ललिदाए , जं कमलकिञ्जक्करेणुपुञ्जपिञ्जरिदॉ हंसीओ तुए सहीओ किज्जन्ति ।

कृष्णः (सस्मितम्) - किमस्माकमनागतचिन्तया । सम्प्रति घट्टशुल्कस्य पुण्याहः प्रवर्तताम् ।

राधा (भ्रुवं विक्षिप्य) - तिल्लोके को क्खु सो महासाहसिआणं सिहामणी चिट्ठदि जो क्खु गोउलबालिआणं दाणं गेण्हिदुं बाआमेत्तेण बि मणाउं बाहरिस्सदि तत्थबि सूरोबासिआणमिमाणम् ।

कृष्णः (स्मितं कृत्वा) - लक्ष्मीमुखि दाक्षिण्यतः शिक्षयामि । निरवद्यमुद्योतमाने तस्मिन्नुद्यानचक्रवर्तिनि साम्प्रतमसाम्प्रतमीदृशं मृगदृशां गिरामौर्जित्यम् ।

राधा - सहि ललिदे ! धिट्ठघट्टीआलघट्टणे पडिदासि ता ण जुत्तमेत्थ कुण्ठत्तणम् ।

कृष्णः - सखे सुबल ! श्रुतमस्याः कठोरारभटीगरिष्ठं गिरां विस्फूर्जितम् । (इत्यर्धनिःसृतां रसनां सन्दश्य) कष्टं भो कष्टम् । दीव्यदर्वाचीनयौवनगर्वसर्वस्वया बाढमेतया महाघट्टसाम्राज्य पट्टलब्धाभिषेकोऽहं चत्वरिकाणां चक्रवर्ती घट्टीपालः कृतोऽस्मि ।

ललिता (संस्कृतेन) ः

सच्छिद्रा लघुवंशजा च मुरली यष्टिः कठोरा भृशं

स्तब्धात्मा च विषाणिकातिमलिना वक्रस्वरूपापि च ।

आभिः सन्ततमुत्तमाभिरभितो यस्याङ्गमालिङ्ग्यते

घट्टीपालतया भयानकवने वृत्तिर्न तस्याद्भुता ॥४१॥

सुबलः - हन्त दुम्मदमुहरॉ ! ण क्खु तुम्हेहिं हेलिदुं जुत्तो एसो महादाणस्स अहीसो ।

राधा - होदु अहीसो तदो बि किं (इति संस्कृतेन)—

धर्षणे नकुलस्त्रीणां भुजङ्गेशः क्षमः कथम् ।

यदेता दशनैरेष दशन्नाप्नोति मङ्गलम् ॥४२॥

कृष्णः - भङ्गुरापाङ्गि ! हृदयङ्गममात्थ ततः समाकर्णय (इति सहर्षम्)—

अप्रौढद्विजराजराजदलिका लब्धा विभूतिं रुचां

नव्यामात्मनि कृष्णवर्त्मविलसद्दृष्टिर्विशाखाञ्चिता ।

कन्दर्पस्य विदग्धतां विदधती नेत्राञ्चलस्य त्विषा

त्वं राधे शिवमूर्तिरित्युरसि मां भोगीन्द्रमङ्गीकुरु ॥४३॥

ललिता - कण्ह ! इमाए कूडबाउराए दुग्गहा ललिदा धुत्तहरिणी त्ति तुम्हसहारा बि सुट्ठु जाणेन्ति । ता मुंच बिहलं धिट्ठगंठिलत्तणम् ।

(कृष्णः सुबलमवलोकते)

सुबलः - ललिदे ! एदे कहं किर ण जाणिस्सन्ति जेहिं तहिं गन्धहलीहरणे णिक्कुडसामिणा लुण्ठिदमणिमण्डलाणं सूरोबासिआणं काणं बि महापहाबाणं दन्तसिहरपन्तिसु तिणगुच्छमरगएहिमारब्धा का बि अच्चरिआ लच्छी पच्छक्खीकिदा ।

कृष्णः - सखे! विस्मृतं तत्कुतूहलम् । पुनरत्र काण्डे सुष्ठु भवता स्मारितम् । (इति स्मितं कृत्वा)

अस्मिन्नद्रौ कति न हि मया हन्त हारादिवित्तं

हारं हारं हरिणनयना ग्राहिता जैनदीक्षाम् ।

याः काकूक्तिस्थगितवदनाः पत्रदानेन दीनास्

तूर्णं दूरादनुजगृहिरे प्रौढवल्लीसखीभिः ॥४४॥

विशाखा - अलमिमिणा अलोअ दप्पडिण्डियमाडम्बरेण ।

ललिता - सहि बिसाहे ! हंत हंत कल्ले पच्चुताणग्घमणिकञ्चनसञ्चाकिरणोदञ्चिदाए राहिए कञ्चुलिआए उल्लुञ्चणबुत्तन्तं सहीजणे अज्जाए बिण्णबेदुं पौत्ते मुहमज्झणिक्खित्ततज्जणीसिहरस्स सुरिन्दगन्धब्बणाममधीरं पुणो पुणो बाहरन्तस्स कस्स बि दप्पसोण्डस्स सा का बि चाडुगण्डिदा कण्ठकाअली कं बा जणं ण क्खु कारुण्णेण ओण्णिदबदी ?

सुबलः - दुल्लहा एत्थ सा अज्जा कंटकाटई । ता लुक्कणे बि किं पि ओट्टम्भणं पेक्खामि ।

चम्पकलता - विजादु सो ललिदाणुहावभक्करो, जो क्खु तक्करविक्कमं कुंठेदि ।

वृन्दा (कृष्णमवलोक्य) ः

कपर्दमपि काणं तवात्र दुरवापम् ।

यदुग्रतरकर्मा कुमार ललितासौ ॥४५॥

कृष्णः (सेर्ष्यमिव) - वृन्दे ! विपक्षतामासादयन्ती स्थाने गोपिकापक्षाञ्चलसञ्चारिणी संवृत्तासि । भवतु, पश्याद्य मे चञ्चलवल्लवीरसालवल्लीभ्यः शुल्ककुड्मलग्रहणे पुंस्कोकिलताकेलिवैदग्धीम् ॥

राधा - सहि बुन्दे ! णिबारीअदु परस्स ग्गहाहिणिबेसो अप्पणो बणप्पिओ । दाणिं दुम्मुहसिलीमुहपालिदाहिं रसालबल्लीहिं पल्लाहत्थेण पल्लत्थो भविअ णामाल्लिओ मल्लीओ तुम्ह सहीओ मा हासेदु एसो ॥

कृष्णः (सखेलस्मितम्) ः

घट्टशुल्कप्रदानाय गुहातिथ्यग्रहाय वा ।

स्पृहां ते हेमगौराङ्गि गिरस्तां गोचरीकुरु ॥४६॥

(राधा सेर्ष्यमवज्ञां नाटयन्ती तूष्णीं तिष्ठति)

कृष्णःः

अरविन्ददृशामपश्चिमा

त्वमपूर्वा बहुरूपलीलया ।

कपटोद्घटनाददक्षिणा

न कथं भवितास्यनुत्तरा ॥४७॥

नान्दीमुखी (मन्दमन्दमाश्रित्य) - णाअरिन्द, भावदी सन्दिसति ।

कृष्णः - नान्दीमुखि, सत्वरमावेदय, किमाज्ञापयति तत्रभवती ?

नान्दीमुखी - एसा भणादि राहीप्पमुहॉ अम्ह बालिऑ अज्ज हेअङ्गवीणं घेत्तून जण्णे गमिस्सन्ति । त इमाणं घट्टदाणे अणुऊलेण होदब्बं सुहंजुणा ।

कृष्ण (प्रमोदमिवाभिनीय) - मूर्धनि गृहीतोऽयं महाप्रसादः । सखे मधुमङ्गल ! सुष्ठु मधुरं खलु मिहिरोपासिकानां किशोरीणां हैयङ्गवीनमिति गोकुले गरीयसी प्रसिद्धिः । ततः समुदितोऽपि प्रतिटङ्कं हेमटङ्कत्रये स्फुटमेकटङ्ककनिष्ठटङ्कणेन गणय शुल्कवित्तानि यदमुषु भगवत्याः पक्षपातिता ।

मधुमङ्गलः - पिअबास्स !

टङ्कैश्चतुर्भिः कर्षः स्यात्

तैश्चतुर्भिर्भवेत्पलम् ।

भवेत्तुला पलशतं

भारः स्याद्विंशतिस्तुलाः ॥४८॥

त्ति गण्णावेइणो भणन्ति । एसो उणो राहिआदिणो पच्चेअं महाभारो, जं ललिदाए अप्पणा मुहेण भणिदं हला इमिणा महाभारेण किलिट्ठासि त्ति ।

कृष्णः (स्मित्वा) - ततस्ततः ?

मधुमङ्गलः - भाराणं पञ्चासेण महाभारो भणिज्जःइ । अदो जेब्ब पञ्चाणं गोइआणं हेअङ्गवीणेहिं टङ्काणमसीदिलक्खाइं होंति । परं बि घट्टऽलबट्टणणिवाहणस्स टङ्कलक्खचःउक्खं मए बड्ढिदम् ।

कृष्णः - सखे रसलुब्ध ! वर्धितमिति मृषोक्तम् । नूनमुत्कोचरोचनया गणने संक्षिप्तिरेवाचरिता । यदत्र भवद्गणनया हेमटङ्काणां चतुरशीतिलक्षमात्रं सिद्धम् ।

(मधुमङ्गलः कृष्णस्य कर्णे मुखं विन्यस्य, कथनमुद्रां चाभिनीय

किमप्यकथयन्नेव विश्लिष्यति ।)

(सस्मितम्) आमां विज्ञातं विज्ञातम् । सम्यगाचरितम् । तदत्र गणितवित्तानि यथा झटित्यमूर्घट्टचत्वरे कूटयन्ति, तथोद्यमः क्रियताम् ।

चित्रा - दाणींद जःइ पंचगग्गरिआणं सुलुक्कं च्चेअ चःउरसीदिलक्खप्पमाणं संवुत्तं, तदो ण जाणे मोल्लं वा केत्तिअम् ।

कृष्णः - चित्रे ! मैवं ब्रवीः । कथमन्यथा दीर्घदर्शिनो याजकास्ते निर्भरमनर्घाणि विश्राणयन्ति मणिमण्डलानि ।

नान्दीमुखी - पुक्खरिक्खण ! ण दुक्खरं क्खु इमाणमेत्थ चऊरसीदिलक्खाणं दाणम् । ता अणुकंपिअ किं पि समाहाणं चिंतेहि ॥

मधुमङ्गलः - पिअवास्स ! णान्दीमुहीए सुत्तिदमेक्केक्कसो चःउरसीदिलक्खजीअजादरूबेहिं भूइट्ठं वरिट्ठरूबॉ होंति इमॉ ॥

(इत्यर्धोक्तं स्मित्वा मुखं व्यावर्तयति ।)

कृष्णः - सखे सम्यगाकलितं तेनात्र काप्येकतरा गृह्यतामिति नान्दीमुख्याः शिक्षाचातुरी ।

ललिता (सोत्प्रासस्मितं) - एदं क्खु मणोरहमेत्तेण दक्खाभक्खणमदक्खस्स लोलुबकीरजुआणस्स ।

कृष्णः - श्रिया नातीव तारतम्यवतीष्वप्येतासु ललिता जीवातुरेषा राजीवलोचनेयं मह्यमभिरोचते ।

वृन्दा - निकुञ्जयुवराज ! निह्नुतमणिमण्डलेयं राधा । तदेष भूरिभूषणभूषिता ललितैव शुल्ककार्याय पर्याप्नोति ।

कृष्णः ः

सेयं मुग्धे शिखरदशना पद्मरागधरौष्ठी

राजन्मुक्ता स्मितमधुरिमा चन्द्रकान्तास्यबिम्बा ।

उद्दीप्तेन्द्रोपलकचरुचिः पश्य हाराधिकेति

त्यक्तुं युक्ता न किल तरुणी रत्नमालामहिष्ठा ॥४९॥

(इति राधामुपसृत्य)

राधा (लीलया साध्वसातिरेकमभिनयन्ती) - सहि बिसाहे ! परित्ताहि परित्ताहि । (इति सभ्रूभङ्गमपसर्पति) ।

विशाखा - भो दुब्बारबारण ! इमाए दुल्ललिदाए ललिदाए महावारीए अदिक्कमे संवुत्ते च्चेअ चम्पालदादिबेड्डिदाए अमीअसरसीए विगाहणं दे सुलहम् ।

ललिता - हंहो कुंभसम्भाप्पिअगिरिंदसिंदुर! एसा ण क्खु जुत्ता अदिभूमी ।

वृन्दा (अपवार्य) - सखि ललिते ! चाटुभिरभ्यर्थमानासि । मनागद्य तुष्णीं भव । पश्यामि भावोद्भासितामनयोर्व्यावहासीम् ।

कृष्णः - सद्मनर्दिनि ! किं पलायसे शुल्कमप्रदाय ? दुर्लभा ते पदादपि पदान्तरगतिः ।

राधा - किमम्हे बणिज्जजीविऑ जं घट्टऽलादो तुअत्तो भएण पलाइस्सम्ह ?

कृष्णः - साधु साधु । क्षणं स्थिरीभव यावदेष ते पयोधरोपरि विलक्षितां नक्षत्रमालामपहर्तुं कल्यतामासादयामि ।

राधा - एसा सुदीहतमा तामसी सामा । ता कुदो कल्लस्स अब्भुग्गमासङ्का बि ?

कृष्णः (स्मितं कृत्वा) - प्रोल्लसच्चण्डकरे प्रफुल्लपुण्डरीकेक्षणे विस्फुरति हारिततारोरुहारा स्खलिततमिस्रवसना तामसी श्यामा स्वयमेव सदा पलायते ।

राधा - हन्त सूर ! राहूत्थाणे ण क्खु चण्डारस्स चण्डिमा ।

कृष्णः - पश्य, दुर्विषहतायुतोऽयं चक्रलक्ष्मा । कथं तदुत्थानं सम्भाव्यते ?

राधा (विहस्य) - हन्त फुक्कारदुब्बिसेण हदाजुदचक्कलक्खणणाअरणाअ ! मोहदाइणं विसाणं महासारं कित्ति उल्लासेसि । तुमं गब्भरं गदुअ मुरलिआणाइणीं चुम्बेहि ।

कृष्णः - शुल्कनागरि ! तथ्यमेव नागरनागः सुप्रतीकोऽयं यत्पद्मिनीनां वः करहाटकमाक्रष्टुकामो महासारं विषाणमुल्लासयति ।

राधा - पःउमिणाए वराडास्स बि अप्पदाणं जाणीहि ।

कृष्णः (स्मित्वा) - कामिनि वराटकयापि किमात्मदानं कर्तुमुद्यतासि यदयमर्थग्रहिलचक्रवर्ती नाङ्गनाभिस्तुष्यति ।

राधा (सोत्प्रासं विहस्य) - हन्त कूडघट्टमण्डलाहण्डल । पसीद पसीद । सुलुक्ककिदे सां च्चेअ कारुण्णेण गेण्ह इमं जणम् ।

कृष्णः (स्फुटं विहस्य) - चण्डि! स्वार्थपण्डितासि यदुपहासमुद्रयैव कृता काकुर्भङ्गिभरेण भवत्या वास्तवे पर्यवसाय्यते । ततस्तथ्यमाकर्णय ।

गव्यभारभरभुग्नकन्धरां

त्वद्विधां विधुरगात्रि मद्विधः ।

स्प्रष्टुमप्यहह लज्जते पदा

दैन्यमाचर न हासदम्भतः ॥५०॥

राधा (स्मित्वा) - इअं च्चेअ महाविडंबणे बि किज्जंतम्मि सुट्ठु सक्कारबुद्धीए दप्पुद्धुरदा णाम भणिअदि ।

सिंगारोबिददामा, बिअक्खणो होसि सब्बदो भद्द ।

कलिदे जम्बुलौडे पसादमणणेण जं फुल्लो ॥५१॥

(सर्वाः सशब्दं हसन्ति)

कृष्णः - सम्प्रति वाणी विश्राम्यतां, पाणी हीरकहारं हरताम् ।

राधा - पाणिपल्लास्स कुदो बज्जाणं प्फसणे साहसं ? ता अलं मुहाडोबेण । एसा तुम्हाणं पेक्खन्ताणं चलिदम्हि ।

कृष्णः - सुदीर्घकुन्तलपक्षासि, ततः स्फुटमुड्डीय गमिष्यसि ।

राधा - सब्बदा हि सारिआसहस्ससेआरद ! णाहं सारी जमुड्डीयस्सम् ।

कृष्णःः

लोलाक्षदायभजनाद्

अष्टापदमभिधृतासि पुरः ।

इति शारी भवसि त्वं

शृङ्खलयिष्याम्यतो भवतीम् ॥५२॥

(इति पाणिमाधातुमिच्छति) ।

राधा - हद्धी हद्धी ! णूणमेसो महामम्महस्स सेबाए पहावो जं पःइब्बदाप्फसे पापादो दे भां णत्थि ।

कृष्णः (स्मित्वा) - भाविनि सत्यं त्वमुत्कोपपतौ बद्धव्रतासि । अतस्तवोरुसेवायामभिलाषुकोऽस्मि ।

राधा (सप्रणयरोषं) - बङ्कबिदण्डापण्डिद ! विरमेहि कुलङ्गणाप्फसण क्खु अच्चाहिदपदं होदि ।

कृष्णः - कुलीनंमन्ये किमहमकुलीनो यदद्य भवत्यास्तनुस्पर्शेऽपि मेऽनौचिती ।

राधा - कुलीणजणाणं किर एब्बं चरिदं जं णिज्जणवणे परबणिदाणं णिरुन्धणेण एदं बिडम्बणम् ।

कृष्णः - कामिनि ! परा त्वं वनितासि इति वनेऽत्र मन्यसे । तेन नितरां वितराद्य घट्टदानम् ।

राधा - मोहन ! जधा तुम्हादिसेन तक्कीयदि तधा एसो जणो ण होदि । ता एत्थ भम्मन्तभूभुअङ्गजुअलणच्चणेण आहितुण्डिअदालीलाडम्बरेहि अलं दुल्लहा दे एत्थ सुलुक्कभिक्खा ।

कृष्णः ः

अयि सुकले वरमधुना

शुल्कं त्वां दातुमुद्यतां प्रेक्ष्य ।

परमोत्सवचटुलेयं

कुरुते भ्रूनर्तकी नृत्यम् ॥५३॥

राधा (संस्कृतेन) ः

लोहमय्यलघु कृष्णवर्त्मनः

स्तम्भिनी प्रतिकृतिः स्फुरत्यसौ ।

यत्र यान्ति कुहकस्य बन्ध्यतां

भूरिभोगभरितस्य चाशिषः ॥५४॥

कृष्णः ः

प्रतिमास्यद्भुता राधे

बहुलोहमयी ध्रुवम् ।

ततः स्वयं ग्रहाश्लेषं

चुम्बके मय्युरीकुरु ॥५५॥

राधा (मनाक्परावृत्य) - अबेहि अबेहि । (आर्तस्वरेण) मा धरेहि ।

कृष्णः ः

लक्षैश्चतुरशीत्या हि शुल्कैर्विनिमयं गताम् ।

न यौवनशिखारत्नं कुतस्त्वां धारयाम्यहम् ॥५६॥

(इति दिधीर्षुर्प्रसर्पति ।)

राधा (ससम्भ्रममभिनीय साचि विचलन्ती) - ललिदे । तुमं किं क्खु कोदुहलं पेक्खसि ?

नान्दीमुखी - सहि राहि ! अलमिमिणा सुड्ढु कुड्डमिदेण, केत्तिअं पलाइस्ससी ?

ललिता (पुरः परिक्रम्य) - जह बि दुल्ललिदसीलाणं लुण्ठऽणं तुह्माणं दाणगणणा प्पलाबं, ण क्खु अम्हे कण्णप्पेरते बि अप्पह्म तह बि किं पि भणिदुकामाह्मि ।

कृष्णः - कठिने ! कामं भण्यताम् ।

ललिता (संस्कृतेन) ः

अमूर्व्रजमृगेक्षणाश्चतुरशीतिलक्षाधिकाः

प्रतिस्वमिति कीर्तितं सवयसा तवैवाधुना ।

इहापि भुवि विश्रुता प्रियसखी महार्घ्येत्यसौ

कथं तदपि साहसी शठ जिघृक्षुरेनामसि ॥५७॥

कृष्णः (स्वगतं) - बाढं निर्वचनीकृतोऽस्मि । सुबल, केयं गभीरधर्मापि ध्वनिधोरणी विदूरत्वादस्फुटेव प्रसरन्ती मामुच्चालयति । (इति सुबलस्य कर्णे लगति)

सुबलः - एसो कोलाहलस्स प्पहवं विण्णादुं चलिदोह्मि । (इति निष्क्रान्तः)

कृष्णः - कठोरभाषिणि ललिते! भवतु भवत्याः सखी चतुरशीतिलक्षाधिका तथापि कोटिं नातिक्रमिष्यत्येव । ततः परैरपि कलालक्षैस्त्वामवश्यं नागरचन्द्रोऽयं योजयिष्यतीति ।

राधा - णंदिमुहि ! भावदीणिदेसस्स पडिबालणं साहु संबुत्तं, जं कोडिगुणीभूदं च्चेअ घट्टीदाणम् ।

नान्दीमुखी - सहि राहे ! कह पडिबालणं ण संबुत्तं, जं सुलुकस्स तिहॉ गेण्हिअदि ।

सुबलः (प्रविश्य सवयस्यः) - पिअबास्स ! णिअवाहिणीणिग्घोसवहिरीकिददिसामण्डला विजेन्ति उज्जाणचक्कवद्दिसीहॉ ।

कृष्णः - प्रियवयस्य उज्ज्वल ! नूनं लेखहरोऽसि चक्रवर्तिनाम् ।

उज्ज्वलः - अध इम् । महाभट्टारास्स महाघट्टाहिआरे एसो लेहो । (इति कृष्णकरे केतकीकोरकपत्रमर्पयति ।)

वृन्दा - नागरेन्द्र ! वयमप्याकर्णयितुमिच्छामो वर्णदूतम् । तन्मुखबन्धमुत्सृज्य कार्यमेव समुच्चार्यताम् ।

कृष्णः (स्पष्टं वाचयति) ः

पाण्डित्यं चण्डधाम्नः परिचरणविधौ प्राप्य गूढोरुगर्वाः

कुर्वाणा घट्टघातं घटितनिकृतयः सुभ्रुवो विभ्रमन्ति ।

कर्तव्यस्तासु यत्नः पटिमपरिचयादप्रमत्तैर्भवद्भिर्

द्राघिष्ठं छद्म दृष्ट्वा किमपि शतगुणस्तत्र शुल्को विधेयः ॥५८॥

नान्दीमुखी - दाणिन्द ! पःइदिविसुद्धाणमिमाणं कुदो कूडलेससिक्खाहिलासो बि ?

कृष्णः - तथाप्यवश्यमनुष्ठेयं कान्ताराधिराजस्य तस्य महाशासनम् । (इति किञ्चिदुपसृत्य) हन्त, चित्रमिदं यदेतत्सम्यगनिवृत्तशैशवानामप्यमूषां निर्भरमुच्छूनमुरः समीक्षते । (पुनर्निभाल्य) कथं वा वराम्बरसंवृतादपि वक्षसः काञ्चनमय्यो मयूखवीचयः सञ्चरन्ति ॥

(राधा साभ्यसूयं तिरो दृगन्तं पातयति ।)

कृष्णः (सकौतुकमात्मगतम्)ः

पटोन्नमनलीलया पुलकवृन्दमारुन्धती

स्मितं त्वधरचातुरी परिचयेन गान्धर्विका ।

मृषा भ्रूकुटिबन्धुरीकृतमुखी मदुक्तिश्रवा

निरस्यति दृगञ्चलभ्रमिभिरत्र रुष्टेव माम् ॥५९॥

(प्रकाशं) साधु महोद्यानचक्रवर्तिन्! साधु साधु । सत्येयं “उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः” इति प्रसिद्धिः । (सव्यतो दृशं क्षिपन्) नान्दीमुखि ! पश्य पश्य पञ्चभिरमूभिर्विशतेरर्धाञ् छातकुम्भकुम्भान्वक्षसि कौशलेन निह्नुवानाभिः कृतिनोऽपि घट्टाधिकारिणः प्रतार्यन्ते ॥

सर्वाः (संरम्भेण भ्रूकार्मुकाणि कुटिलीकृत्य साक्रोशम्) - रदहिंडा ! हिंडेहि णिअमंडबम् ॥

कृष्णः (अपवार्य) - वृन्दे! विलोकय कुञ्चितभ्रुवं पञ्चमुखीम् । (इति सगद्गदम्)

कामः काञ्चिदवाप्य पञ्चमुखतस्तीव्रां व्यथामुग्रतः

सौम्यां पञ्चमुखीं भजन्ध्रुवमिमां लब्धोरुविद्यः कृती ।

भ्रूचापेषु समं कटाक्षविशिखान्पञ्चार्पयन् पञ्चसु

क्रुद्धः पञ्चमुखोग्रविक्रममसौ मां हन्तुमुद्यच्छते ॥६०॥

(इत्युद्घूर्णां नाटयति ।)

मधुमङ्गलः (अपवार्य) - हंत, कीस विम्हलंतं बि अत्ताणां ण रुन्धेसि, जं कडक्खिज्जम्ह जिम्हदिट्ठीहिं किसोरिआहिं ?

कृष्णः (सावहित्थं) - सखे मधुमङ्गल, कुटिलभ्रुवां कौटिल्यवैचित्रीभिर्विस्मितास्मि । भवतु, किं नस्तेन । कैतवनिह्नुतानां हिरण्मयपङ्क्तिकुम्भानां शुल्को द्विगुणीकृत्य पुनः पञ्चदशानामेव शतगुणीक्रियताम् ।

मधुमङ्गलः - सुनाहि राऔलस्स बिंदचौट्ठाअम् । अहिआरिणो सव्वविज्जागुरुणो दे कलाकोडिओ । संक्खाहिण्णस्स काअत्थस्स मे तत्तकोडिओ । सुबलपहुदीणं दण्डिआणं पसबैकोडि त्ति ।

कृष्णः - सम्भूय वृन्दपञ्चकं सिद्धम् ।

राधा (स्मितं कृत्वा) - तुम्हाणं भाअणाइं ण दीस्संति । कहिं माइस्संति एत्तिआइं वित्ताइं ?

कृष्णः ः

नर्मणा कृतमेतेन कर्मणा स्वयमर्पय ।

हर्षादुदितवर्ष्मात्र वित्तं हरिणलोचने ॥६१॥

नान्दीमुखी (कृष्णान्तिकमासाद्य सासूयमिव) - मोहण, अम्हभावदीए सिणेहभाअणाणमुज्जुआणमेदाणं बालाणं कीस अलीअं च्चेअ पन्तिकुम्भाणं दाणं तुए बड्ढीअदि ।

कृष्णः - नान्दीमुखि, न कदाप्यलीकमिदम् । सत्यमेव पञ्चेमाः पञ्चदशकलसीविलासभाजः ।

नान्दीमुखी - णाअरिंद, महाब्बदिणीए पब्बःइआए परिअणो मारिसो जणो णिद्धारिदमजाणिअ ण क्खु बिण्णवेदि । तह बि जःइ मह वाणे संदिहाणो सि, तदो सा च्चेअ आअदुअ पच्चक्खं पेक्ख । (इति कृष्णेन सह राधामुपेत्य)

हला एसो दुल्ललिदो गोउलिंदणंदणो । स दिब्बं पि मह बाणं ण पत्तिआजेदि । ता पस्सीद । ईसि अंबरमुक्खिबिअ णिअबक्खपरेन्तं पेक्खावंती मोआबेहि हठिल्लसेअरस्स हत्थादो सहपरिवारमप्पाणम् ।

सर्वाः (साभ्यसूयम्) - अबेहि दुब्बुधिए अबेहि ।

नान्दीमुखी (स्मित्वा) - कधं हिदकधणे बि कुप्पथ ।

कृष्णः - किं नश्छिन्नम् । यदत्र काञ्चनरक्तिकमपि न परिहरिष्यति हरिः ।

विशाखा (स्वगतम्) - पढमं कणहस्स दुदिअं बुंदज्जेव उबज्जुज्जंती दीबसीहाए अग्गिणो पूअणमारिंभिस्स । (प्रकाशम्) णाअरिंद कहिं पंच घीअघडिऑ कहिमेत्तिअं घडिदं घट्टसुलुक्कम् । होदु । तधाइ उबऽरिणं राअकुमारं तुममबेक्खिअ एत्थ णिक्काम्मि अम्हेहिं णिअपिअसही बुंदा तुह अप्पिदा ।

सुबलः (संस्कृतेन) ः

वृन्दपञ्चतये युक्तम्

एकवृन्दार्पणं कथम् ।

सङ्ख्याविदां न नः शक्यं

गोसङ्ख्यानां प्रतारणम् ॥६२॥

ललिता (रोषमिवाभिनीय) - बिसाहे, सुट्ठ मुद्धासि ज अहुए इमस्सिमत्थे गरुईए अप्पणो सहीए बुंदाए अप्पणं कादु इच्छेसि ।

मधुमङ्गलः - ललिदे चिट्ठदु एदमलीअं माहप्पम् ।

ललिता - बडुअ, सुणाहि । तित्तंस कोडिसुराणं सऽआदो सुरिंदो वरिट्ठो, ज एसो साकोडिहत्थो । तदो बि भावतो हिरण्णगब्भो, ज एसो दिपरद्धवेहओ । तदो बि देई लच्छी, ज सब्बसंपत्तिणमीसरी । तदो बि बुंदा, जा किर लच्छीं बि तुच्छीकदुअ काए बि अःइरुब्बसिरीए लुद्धेण बिण्णुणा कामिद त्ति भावदीए मुहादो सुणीअदी ।

विशाखा (पदे निपत्य काकुमातन्वती) - सहि ललिदे ! मुहरं मंतेसि, तह बि तक्कालिअं दूसहदुक्खं परिहरिदुमेब्बमजुत्तं बि कादु कामह्मि । ता प्पसीद । अणुमण्णेहि बुंदासमप्पणम् । पुरोडासओग्घाणे तुण्णं पुणम्हे अत्ताणाम् ।

(ललिता स्मेरेव शिरो विनमय्य तूष्णीं तिष्ठति ।)

विशाखा - ललिदे ! विण्णादं दे आउदं जमेक्कं दिआं च्चेअ अणुमण्णेसि ।

कृष्णः - हन्त नान्दीमुखि ! दृष्टमत्यद्भुतं भगवत्या । ततः पृच्छ्यतामिदं कथमेताभिर्मत्कर्णयुगारब्धताण्डवयोर्मकरकुण्डलयोर्द्वन्द्वं न शुल्कितम् ।

नान्दीमुखी - कित्तिदाकित्तिदाइणि राहिए अज्जुत्तं क्खु एदं ज वणमालिणो च्चेअ बुंदाये इमस्स सुलुक्कप्पणम् ।

राधा - सहि बुंदे ! कित्ति तुह्णीं चिठ्ठसि तूण्णमप्पणो पख्खमुल्लासेहि ।

(कृष्णः वृन्दावक्त्रमवलोकयन्विलोचनकोणं कूणयति ।)

वृन्दा - नागरेन्द्र कृतं निरर्थकं दृशस्ताडनेन यदियं वृन्दा वृन्दावनेश्वरीमनुवर्तते ।

सर्वाः (सोत्प्रासं विहस्य) - भावदि लज्जे ! कहिं गदासि ? पसीद पसीद ।

वृन्दा - सखि वृन्दावनाधीश्वरि ! ममात्र काचिद्विज्ञप्तिरवाप्तावसरा वर्तते ।

राधा - सहि बुंदे ! कीदिसी एसा भणीअदु ?

वृन्दा - द्यूतकारसंसदोऽपि भूयिष्ठं घट्टपालगोष्ठी साधुभिरभितः श्लाघ्यते तदत्र न समञ्जसः । प्राञ्जलोऽयं जनः । विक्रयोऽपक्रमश्चेत्क्वचिदन्यत्र विक्रीयताम् ।

कृष्णः (सस्मितम्) - सत्यममूरसम्भुक्ता एवाप्रतिमपूर्णलक्ष्मीभराः सुभ्रुवो राजकुलकार्यमर्हन्ति । वृन्दालक्ष्मी तु विष्णुना चिरं सम्भुज्य निर्भरमपारेण वैभवेन रिक्तीकृता । तदलमेतया ।

राधा (विहस्य) - एदं क्खु “अलाभादङ्गनात्यागस्तुरङ्गब्रह्मचर्यकम्” त्ति धीरेहिं भणिअदि ।

मधुमङ्गलः - (जनान्तिकम्) बिसाहे, णिच्चिदं तुम्हाणं घट्टदाणे अणुउलो हुविस्सम् । जं काअत्थविज्जापारङ्गदो ह्मि । ता देहि मे किं पि पारितोसिअम् ।

विशाखा - अज्ज, णब्बं सक्करं दाइस्सम् ।

मधुमङ्गलः - बिसाहे ! णूणं परिहसिज्जामि ।

विशाखा - भावंतस्स सूरस्स सबामि ।

मधुमङ्गलः (सहर्षं कृष्णमुपेत्य) - पिअबास्स ! माणसमए प्पमदासाकोडीरोसभंजणे विअक्खणो ह्मि । दीपाअली कोदुए सुरही साकोडी पुआवणे आचरिओ ह्मि । तादिज्जौ अज्ज महामहूसवे मज्झमणब्भत्थितपुब्बा साकोडी दक्खिणा ।

(कृष्णः स्मित्वा तूष्णीं तिष्ठति ।)

(अपवार्य) बिसाहे, मौनं सम्मतिलक्षणं त्ति जाणासि च्चेअ । ता देहि प्पतिस्सुदम् । (इत्यञ्जलिं प्रसारयति ।)

विशाखा (स्मित्वा) - गेण्हीअदु । एसा सक्करा । (इति कर्परां समर्पयति ।)

मधुमङ्गलः (उच्चैर्विहस्य) - धुत्ते ! चिट्ठ णिक्किदं वो करिस्सं (इति कृष्णमन्तिकमासाद्य) पिअबास्स ! लहुअम्मि कज्जे अलं बिलंबेण । गेण्ह सुलुक्कम् ।

कृष्णः - सखे मधुमङ्गल ! मधुसूदनोऽस्मि । तदेषा राधिकाख्यां गता भ्रमरी शुल्कार्थमादेया ।

वृन्दा - फुल्लेयं चम्पकलतैव सतृषो मधुसूदनस्योचिता ।

कृष्णः - वृन्दे, तत्त्वानभिज्ञासि । राधा खल्वभिरूपा, या विपरीता धारा माध्वीकमयी सम्पद्यते ।

चित्रा - गोउलबीरबरेण्ण ! अप्पडिमपुण्णलच्छीभरॉ इमॉ त्ति सां च्चेअ समत्थिदं, ता बिंदपंचएण कहमम्हाणमेक्कतमा गेण्हिदुं जुत्ता ।

वृन्दा - हन्त सखि चित्रे ! श्लाघ्यासि यदेष विशृङ्खलः कोमलवाग्वल्लीपल्लवेन भवत्या स्तम्भितो गम्भीरदेवी स्तम्बेरमः ।

मधुमङ्गलः - पिअबास्स ! सतगुणो सुलुक्को त्ति एत्थ असक्खबाइणो सतसहस्स पंतिदहम्मि पञ्जवसायं कुणंतेहिमम्हेहिं तस्स उज्जाणचक्कवट्टिणो सुठ्ठु अवरद्धम् ।

कृष्णः - सखे, साधु साधु ! प्रियार्थं रसमाधुरीमुपभोजयन्कायस्थिकारसवतीपौरोगवोऽसि । सत्यमसङ्ख्यान्येव वित्तानि चक्रवर्तिवराणामभिप्रायेण क्रोडीकृतानि । तथा च स्मर्यते ।

द्राघिष्ठे छद्मनि ज्ञाते

प्रकृत्या गर्वशालिनाम् ।

अभ्युन्नतश्रियोग्राणां

यथेष्ठं दण्ड इष्यते ॥६३॥ इति ।

ललिता - दंडेन बिना क्खणं बि गोबाणं णत्थि ओलंबो, ता जुत्तं दंडग्गहणम् ।

कृष्णः - यद्यपि पञ्चभिरपि न शुल्कपर्याप्तिः, तथापि द्वितीयैव मम रक्षणीया, या खलु चन्द्रलेखोन्मीलनक्षमा ।

राधा (सोत्प्रासं विहस्य) - हंत, देवदोबासणस्स कुसुममोचिणंतीणं खज्जनाच्छीणं खेमं क्खु बुंदावणमोम्मिदेण इमिणा एक्केण महाकलहिंदेण सब्बमाक्कमिअ भांकरं किदम् । केअलं सेलिंदस्स उबसल्लमेत्तमोलम्बणमासी । हद्धी ! हद्धी ! एत्थ बि दाणिंदारंभदंभेण बट्टपाडिदा आरद्धा । कस्स बिण्णबिस्सम्ह ॥

कृष्णः - नान्दीमुखि ! तव कर्णमधिरूढासां गुर्वी गिरामनर्गलता यदत्र सन्मार्गरक्षाप्रख्यातविशुद्धौ मय्यपि वर्त्मपातिता परिवादकालिमाध्याससाहसिकता । तदेनां दोर्दण्डयुगलेन गाढं पीडयामि ।

नान्दीमुखी (पुरोऽवस्थाय वारयन्ती) - सुवीर ! महाताबसीपरिआअस्स मह समक्खमक्खमं क्खु एदं कुलबालापीडणम् ।

कृष्णः ः

गोष्ठमहेन्द्रकुमारश्

चूडामणिरस्मि मुहुरहंयूनाम् ।

कथमुन्मदयुवतीनाम्

उपेक्षिताहेऽद्य दर्पकोष्माणम् ॥६४॥

ललिता - कण्ह ! सलक्खं कधेसि । एत्थ णावरज्झसि तुमम् । घट्टीदेईए च्चेअ एसो अपुब्बो को बि प्पसादो जेण सक्कुलकुमालो धूत्तधुरीणाणं बि सुट्ठु बिम्हाबणीं कंचनविज्जं झत्ति अज्झविदो सि ।

कृष्णः (साटोपम्) ः

घट्टाधिराजमवमत्य विवादमेव

यूयं यदाचरथ शुल्कमादित्समानाः ।

मन्ये विधित्सथ तदत्र गिरेस्तटेषु

दुर्गेषु हन्त विषमेषु रणाभियोगम् ॥६५॥

राधा - मोहण केत्तिअं सहिस्सम्ह ? जं “अतिनिर्मथनादग्निश्चन्दनादपि जायते” त्ति बाणं प्पमाणम् । ता एत्थ अम्ह दूसणं न देअम् ।

कृष्णः ः

अपटुभ्रमकारिणीभिराभिः

कुटिनाटीभिरलं प्रसीद देवि ।

वितराद्य धनानि मदीष्टान्य्

अनुतिष्ठातनुसङ्गरक्रियां वा ॥६६॥

वृन्दाः

त्वं महासंयुगीनोऽसि संयुगे ख्यातिमागतः ।

योद्धुं ततस्त्वया सार्धं क्षमन्तामबलाः कथम् ॥६७॥

कृष्णः - काननेचरि ! स्वरूपानभिज्ञासि ।

पश्योन्नतश्रोणिरथा मतङ्गज

क्रमोज्ज्वलाः सुष्ठु पदातिशोभनाः ।

कामस्य चञ्चत्कचभारचामराश्

चमूरमूश्चारुचमूरुलोचनाः ॥६८॥

राधा - णाअर ! दिट्ठं कुलबालिआविमोहणमिदं घट्टीन्दजालम् । ता पुणो अलं वित्थारेण । सहीसणाहा जण्णवेदिअं चलिदम्हि ।

कृष्णः - घूर्णिताक्षि ! घनघट्टकरेण शीघ्रमाघ्रातासि । कथं चलने प्रभवितासि ?

चम्पकलता - किं क्खु भोअराअस्स अहिआरी होसि, जं करदाणेण आराहणिज्जो तुमं ?

कृष्णः - चम्पकलते ! भोगरागस्याधिकारी तथ्यमस्मि । तथापि नातीव तुष्टिर्मम करदानेनाराधने । ततः प्रयत्ननिगूढान्काञ्चनकुम्भानेव स्पर्शयन्तु भवत्यः ।

ललिता - हंत मुद्धाविडम्बणचादुरीगब्बिद ! पेक्ख इमॉ बिअड्ढप्पारॉ गोट्ठजुअदिबल्लिओ रण्णो घट्टदानं कट्टिअ सलीलं चलंति । ता उज्जाणचक्कबट्टिणं गदुअ फुक्कारेहि ।

कृष्णः ः

भुजविक्रमिणा मया कथं वा

तव हेतोरपि फूत्कृतिर्विधेया ।

द्विपदर्पहरस्य को हरेर्वा

हरिणीवृन्दविमर्दने प्रयासः ॥६९॥

राधा - किं कादब्बं हरिणा ? जं सरहसं बलिदा पुरदो ललिता ।

कृष्णः - पङ्कजाक्षि ! निष्टङ्कितमवधार्यताम्—

विद्योतसे कल्पलतेव कामदा

भ्रूकार्मुकं भूरि धुनोषि चायतम् ।

इत्यर्थपुञ्जं मम देहि पुष्कलं

किं वा सखीभिः सह सुष्ठु विग्रहम् ॥७०॥

ललिता (कुटिलं विलोक्य) - गोबिआहार ! संखचूडविमद्दणेण विक्खादविक्कमो सि । ता जुत्ता विग्गहाहिलासुअदा ।

राधा - हंत सहीओ ! किदं परिस्समाबणोदणं, ता तुरिअमुक्खिबध णिअं णिअं गग्गरिअम् ।

कृष्णः - सखे ! सुबल संभृतेनावष्टम्भकुम्भिकापञ्चकेन सत्वरं घट्टचत्वरं परिष्क्रियतां त्वया । मया पश्चादत्र पञ्चमी धारयिष्यते यतः पुन्नागप्रियासौ ।

सुबलः (परिक्रम्य) - ललिदे ! भारदुक्खप्पदॉ घट्टघरं लंभेमि तुम्ह कुंभिआहो, ता सुहं चलंदु होदीओ ।

ललिता (सावज्ञस्मितमवलोक्य) - हद्धी हद्धी ! अरे चिल्लाअचाउरिआचोरिचक्कवट्टीलीलामच्च ! सैदाए बि ललिदाए को क्खु णीसज्झसो तिणं बि परिहरिदुमज्झवस्सदि ।

सुबलः (सशङ्कं परावृत्य) - पिअबास्स, एक्को हं कधं कुम्भपञ्चामाहरिस्सं ? ता इमेहिं बास्सेहिं सद्धं सां च्चेअ सण्णिहेहि ।

कृष्णः - सखे ! सुबलोऽपि सुष्ठु दुर्बलोऽसि, यदेष ललितायाः फल्गुभिरेव मटस्फटिभिस्त्वमुच्चाटितः ।

सुबलः (सनर्मस्मितमपवार्य) - पिअबास्स ! अलं बाणमेत्तसुलहेण दप्परासिणा । सुट्ठु पच्चक्खीकिदविक्कमो सि, जं सस्सिं दिअहे राहिआए सद्धं बट्टंतम्मि कीलाज्जूए कूडेण जामुग्घुसिअ ललिदाए आअड्ड्धिदमुरलीओ तुमं कोत्थुहसङ्गोबणं कुणन्तो सुम्हेरमुहीहिं सुहीहिं कडक्खिज्जन्तो सड्काउलो तुण्णं संवुत्तो आसि ।

कृष्णः (स्मृत्वा) - मृषावादवैज्ञानिक ! मौनं भज । महासमीरणस्य मे विक्रमघाटीपरिस्पन्दनारम्भे रम्भेव केयं वराकी ललिता ।

ललिता - बिसाहे ! तमम्ह प्पिअसहीभादुअं सिरिदामजोइंदं बंदेहि, जेण पराणामेण बलिट्ठं मारुदं णिज्जिदीकदुअ महारम्भाणं गोइणं गोट्ठी उप्फुल्लीकिदा ।

विशाखा (सस्मितं) - ललिदे ! साहु किं पि सुमारिदं तुए । (इति संस्कृतेन)

श्रीदामचन्द्राङ्कितपूर्वकायं

भाण्डीरपूर्वाचलमाश्रयन्तम् ।

कृष्णाम्बुदं तत्र विलोक्य वृन्दा

स्मेरेयमासीच्चपला सखी नः ॥७१॥

अर्जुनः (संस्कृतेन) ः

अत्र नः सवयसां गुणान्तरे

जीयते जयति वा न कः सखा ।

तत्र गोष्ठसुदृशां किमागतं

कारणं वदत वो मदाप्लुता ॥७२॥

कृष्णः (राधामवलोक्य) ः

दातुमिच्छसि न काञ्चनानि चेच्

चातुरीं मनसि काञ्चन श्रिता ।

गौरि गैरिकविचित्रितोदरीं

त्वं ततः प्रविश भूभृतो दरीम् ॥७३॥

(इति राधामावृणोति)

ललिता (मध्यमासादयन्ती) - राणारीअ, सुणाहि । माहुरीमाहप्पेहिं पाअपौमप्फंससोहग्गभाअत्त णमप्पणो अमण्णिअ सङ्काउलेण णिअधरऽवट्ठिदिमेत्ताकिदत्थमण्णेण भत्तुणा बि दुरादो सादरं बन्दिज्जन्तीए ।

(इत्यर्धोक्ते राधिका साभ्यसूयं ललितां पश्यति) ।

(स्मित्वा) आकोमारं पुरिसजणपरिमलकाणिआणहिण्णसब्बंगाए जाए अम्ह प्पिअसहिए अंगाइं सेवापज्जुस्सुएण बि मंजुणा णाजोब्बणेण सज्झसादो बिअ मंधरीहुबिअ अज्ज बि णिब्भरं ण परिसीलिदाइं ताए महासदीउलचक्कवट्टिणीए इमाए अंगस्स पेक्खणे बि किदज्झवसॉ जणो महासाहसिआणं धुरंधरो भणीअदि । किमुण प्फंसणेण ? ता अबेहि । (सर्वाः स्मितं कुर्वन्ति) ॥

मधुमङ्गलः (विहस्य) - ललिदे ! अलमिमिणा गब्बभरेण । पुच्छिज्जःउ अप्पणो प्पिअसही गंधब्बिआ, जाए दुब्बासस्स मुणिणो मुहादो अम्ह पिअबास्सस्स आकोमारमच्चरिआ बम्हचरिअमाहुरी सां च्चेअ आअण्णिदा ॥

सुबलः - ललिदे ! सच्चाबेदि एसो मुणिपुत्तओ, ता पत्तिआएहि महाबीरब्बदो बि पिअबास्सो णारीणं गणादो भाएदि ॥

अर्जुनः - आं, विण्णादम् । अदो च्चेअ इमाणं कडासद्दमेत्तेण सम्भमाउलो भविअ कंपंतो पुलःइदङ्गो मए बारं बारं दिट्ठोथि ॥

कृष्णः (स्मितं कृत्वा) - ललिते ! नात्र विप्रतिपत्तिस्ते श्रेयसी, यतः समानधर्मणोः साधकयोः सहवाससौहार्दमाधुरी झटिति महाव्रतसिद्धये साधु कल्पते ॥

राधा (दृगञ्चलं साचि विक्षिपन्ती सावहेलं किञ्चित्परावृत्य) - णाअर सारसेसा ण क्खु तुम्ह चाबलचादुरी, ता अलं पिट्ठपेसेण ॥

कृष्णः (अपवार्य) - वृन्दे, पश्य पश्य—

नर्मोक्तौ मम निर्मितोरुपरमानन्दोत्सवायामपि

श्रोत्रस्यान्ततटीमपि स्फुटमनाधाय स्थितोद्यन्मुखी ।

राधा लाघवमप्यसादरगिरां भङ्गीभिरातन्वती

मैत्रीगौरवतोऽप्यसौ शतगुणं मत्प्रीतिमेवादधे ॥७४॥

(राधा किञ्चिद्विहस्य ललितायाः कर्णमूले लपति ।)

ललिता - कण्ह ! गोउल विक्खादगुणो तुमं जुअरॉ सि त्ति अम्हे तुण्णिं बट्टम्ह । जःइ साम्पदं सीमुल्लङ्घणे पःउत्तो सि, तदो अम्हे कीस अप्पणो कज्जमुबेक्खिस्सम्ह ।

अर्जुनः - किं तं कज्जं तुम्हाणं जमुबेक्खध ?

ललिता - गोबेहिं णिअबुन्दाबणस्स संरक्खणं जेब्ब । इदो अबरं किं कज्जं ?

(अर्जुनः सावहेलं विहस्य हुङ्कृतिं कुर्वन्मूर्धानमाधुनोति ।)

विशाखा - (सस्मितमुपसृत्य) ललिदे, गोउलजुअदीउलचक्कबट्टिणी अम्हपिअसही आणबेदि ।

ललिता - किं तं ?

विशाखा - सब्बे गब्बिदा गोबा लदंकुरपुंजभंजणदखाणं गाइणं लक्खकोडीओ रक्खंतो फलेहिं कुक्खिंभरिणो, पुप्फपल्लवेहिं मिधो णेबच्छऽरिणो सुइरमम्ह बुन्दाबणस्स बिद्धंसणं कुणंति । ता णिट्टंकिदं कधेहि एदे इदो बा बिरमेंदु किं बा करं देन्तु ।

मधुमङ्गलः (सामर्षम्) - बिबरीदबादिणि! मुणिब्बदिणी होहि । अधबा थोअं पि तुम्हाणं दूसणं णत्थि । पिअबास्सस्स कारुणिअदा च्चेअ एत्थ अणत्थऽरिणी संबुत्ता । जाए डाहिणाए अडाहिणाणं तुआरिसीणं तस्स बुन्दाबने पबेसो पसादीकिदो । ता ण क्खु अजुत्तो पलाबो ।

चम्पकलता - अज्ज! अणज्जोसि तुमं जमपज्जालोइअ मोहं जप्पसि ।

ललिता (संस्कृतेन) ः

शृणोति नायं शतशोऽपि घुष्टं

न च स्मरत्यात्मदृशापि दृष्टं

श्रुतिस्मृतिभ्यां निजलोचनाभ्यां

हीनं ततस्त्वं सखि नाक्षिपामुम् ॥७५॥

विशाखा - सहि णन्दीमुहि ! अबि किं सो किर पिअसहीए महासिएअमहूसबो तुए समुरीअदि ?

नान्दीमुखी - बिसाहे ! को क्खु सो पराणी भुअणे होदि, जेण महामहूसबो बि बिसुमरिदुं पारीअदि ?

चित्रा - णन्दीमुहि ! अच्छिहिं पच्चक्खीकिदो बि सो महूसबो लोउत्तरदाए कण्णं मे उत्तरलेदि, ता सुणाबीअदु ।

नान्दीमुखी - सहि चित्ते सुणाहि इमाए बुन्दाए गदुअ भाबदी बिण्णत्ता “हन्त जोएसरि, बुन्दाबणरज्जे अहिसिञ्चज्जौ राही, जमागासे असरीरिणी बाणी एब्बं पाडमम्हाणं पुरदो आदिट्ठबदि त्ति ।

वृन्दा (स्वगतम्) - मुकुन्दस्य निदेशादाकाशवागपदेशेनाहमार्यामुदयोजयम् ।

नान्दीमुखी - तदो महाताबसीए भाबदीए आहूदॉ पञ्चदेईओ समाअदॉ ।

अर्जुनः - कॉ क्खु तॉ ?

वृन्दा ः

देवी प्रसिद्धा भुवि देवकीसुता

या कंसमाक्षिप्य जगाम केवलम् ।

भानोः कलत्रे तनया च पञ्चमी

गङ्गा तु या मानसपूर्विका स्मृता ॥७६॥

चित्रा - तदो तदो ?

नान्दीमुखी - तदो कणिट्ठाए मत्तण्डमहीसीए भणिदं—“भाबदि, अणदिक्कमणिज्जं तुम्हसासणं णिच्चिदं क्खु अम्हेहिं सिरे गहीदं, किंतु कहिं महिट्ठा एसा बच्छा राही, कहिं बा सोलहकोहमेत्तं बित्थिण्णमेदं बुन्दाबणरज्जं त्ति ण सुट्ठु पसीदःइ मे हिआम् ।

(इति संस्कृतेन) सखि सवर्णे, समाकर्णय—

आम्नायाध्वरतीर्थमन्त्र तपसां स्वर्गाखिलस्वर्गिणां

सिद्धीनां महतां द्वयोरपि तयोश्चिच्छक्तिवैकुण्ठयोः ।

वीर्यं यत्प्रथते ततोऽपि गहनं श्रीमाथुरे मण्डले

दीव्यत्तत्र ततोऽपि तुन्दिलतरं वृन्दावने सुन्दरि ॥७७॥

चित्रा - तदो तदो ?

नान्दीमुखी - तदो हरिसुप्फुल्ले सालजणे णिबतन्त दिब्बकुसुमबरिसं गाणं पेक्खिअ भाणुणंदिणीए भणिदं, “भाबदि ! इदो आअंतुं पज्जुस्सुआ बि तुम्ह अणामंतणेण संकिदहिऽ दिब्बमञ्जूसिआए अणुगदा पिअसही एसा सरस्सई अंबरे बिलंबःइ ता आआरीअदु” त्ति बिण्णत्ताए भाबदीए सादरमाआरिदा बिरिञ्चिपुत्ती तत्थ पबिसिअ दिब्बमञ्जुसिअमुग्घाडेन्ती भणिदुं पःउत्ता । (इत्यर्धोक्ते)

वृन्दा (निर्भरौत्सुक्येन नान्दीमुखीवाचमाच्छाद्य सहर्षम्) ः

पाद्मीं पद्मभुवः स्रजं प्रणयिनी सौवर्णपट्टं शची

रत्नालङ्करणं कुबेरगृहिणी छत्रं प्रचेतःप्रिया ।

द्वन्द्वं चामरयोः प्रभञ्जनवधूः स्वाहा दुकूलद्वयं

धूमोर्णा मणिदर्पणं सरभसं मत्पाणिना प्राहिणोत॥७८॥

चित्रा - तदो तदो ?

वृन्दा - ततश्च—

स्वर्वाद्यध्वनिडम्बरे श्रुतिहरे गम्भीरयत्यम्बरं

गायत्यम्बुदभाजि तम्बुरुमुखे गन्धर्ववृन्दे मुदा ।

नृत्यत्यप्सरसां गणे च गगने राधाभिषेकोत्सवं

कर्तुं ताः सुरसुभ्रुवः सरभसं भव्यास्तमारेभिरे ॥७९॥

(इति नान्दीमुखीमवेक्ष्य सलज्जम्) ततस्ततः ?

नान्दीमुखी - तदो पेक्खंतम्मि साणंदं बःइन्दणंदणे भाबदीए णिदेसेण ताहिं भुअणपाअणतरंगिणीहिं संगिणीहिं देईहिं तुम्हेहिं सहिहिं सद्धं पुरडो पट्टोबरि णिबेसिदाए राहिए दिब्बमहोसहिरसामिअपूरिदेण मणिकुंभणिउरंबेण महाहिसेअं कुणंतीहिं बुंदाबणरज्जस्स आहिपच्चमप्पिदम् ।

चम्पकलता (सरोमाञ्चम्) - तदो तदो ?

नान्दीमुखी - तदो हत्थमुक्खिबिअ सरस्सईए सरस्सई पऽसिदा । “एदं तं सोअन्धिअं दामं जं सिणेहेण अम्माए साबित्तीए पहिदम् ।” त्ति सुणिअ देईए एक्काणंसाए तं गेण्हिअ गोउलाणंदस्स कण्ठे णिक्खित्तम् ।

तदो णम्मसुम्हेरमुहीए मिहिरदुहिदाए बाहरिदम् । अम्महे धम्मबिम्हारणे कम्मढदाबन्धुजणसिणेहाणं, जेहिं बिअक्खणा बि अबिआरिअ पाट्टेन्ति त्ति समाअण्णिअ बिज्झबासिणीए भणिदं, “जमुणे ! का क्खु ते अबिआरादिट्ठा पौत्ती ?”

तं सुणिअ जौणाए भणिदं “देइ! अम्हबहिणीए राहिआए पेसिदा सोगन्धिअमाला कीस तुए अप्पभादुणो दिण्णा ?” त्ति सुणिअ बिहसन्तीए देईए हरिसेण हरिकण्ठादो चारुहारेण सद्धमुत्तारिअ तं दिब्बसोअन्धिअमालं पिअसहीकण्ठे णिक्खिबन्तीए ससिदं “अःइ, गेण्ह अप्पणो मालं” त्ति ।

विशाखा - तदो तदो ?

नान्दीमुखी - तदो अलं कठिणहिआसङ्गिणा अम्हाणमिमिणा हारेण त्ति हसन्तीए हंस्पुत्रीए कोदुएण राहिआए हारो क्खु हारिणि हरिकण्ठे अप्पिदो ।

ललिता - तदो एक्काणंसाए कसारिबक्खत्थलादो गहिदेण कुरङ्गणाहिणा राहिआए तिलां णिम्मिदम् ॥

वृन्दा (सानन्दम्) - ततश्च भगवत्या सोल्लासमभ्यधायि—

सार्धं वल्लीवधूभिर्विलसत सुखिनः शाखिनो भूरि फुल्ला

रङ्गं भृङ्गैर्विहङ्गाः प्रथयत पशवः प्रौढिमाविष्कुरुध्वम् ।

आलीभिर्वाहिनीनां पतिभिरुपचिता श्रीमती राधिकेयं

वृन्दामुद्यानपालीं शुचिमिह सचिवीकृत्यः वः शास्ति राज्यम् ॥८०॥

(इत्यानन्दनिष्पन्दमभिनीय)

जग्राह कुन्दलतिकोत्कलिकाशतानि

पत्राङ्कुरेण सुमना विरराज चित्रा ।

स्मेरा बभूव ललिता नवमालिकासौ

फुल्लात्र चम्पकलता च विशाखिकापि ॥८१॥

ललिता - णान्दीमुहि ! तदा दणिन्दणन्दिणीए जं भणिदं तं णूणं तुए विसुमरिदम् ।

नान्दीमुखी - हला, कधं बिसुमरिदब्बं, जमेदाए अम्हाणमंतिए एब्ब मंतिदम् । अज्जपहुदी अप्पणो कीलाबणे ललिदापहुदिओ अम्ह प्पिअसहिओ सुहेण सच्छंदं कुसुमाइमोचिण्णांदु । तं सुणिअ बिंझबासिणीए भणिदं, “जमुणे ! तह बि माहबस्स आअत्ता कुसुमाणं समिद्धि” त्ति ॥

वृन्दा (राधामवेक्ष्य सौत्सुक्यम्) ः

देव्या दत्तविशेषका विरचितोत्तंसा शनेरम्बया

त्वष्टुर्नन्दनया निबद्धचिकुरा स्वीयालिभिर्मण्डिता ।

चञ्चच्चामरया सखि द्युसरिता सौर्या च संवीजिता

पुत्र्या पद्मभुवस्त्वमुच्छ्रितमणिच्छत्रा न विस्मर्यसे ॥८२॥

राधा (सलज्जम्) - बुन्दे, विरमेहि ।

कृष्णः (स्वगतम्) ः

दृशमधिकदिदृक्षुरप्ययुञ्जं

विबुधवधूत्रपयाऽहमानतास्यः ।

हृदि वरमणिबिम्बितां तदेमां

सपदि विलोक्य मुदा स्खलन्निवासम् ॥८३॥

सुबलः (अपवार्य) - अज्जुण ! सा किर महाहिसेअत्थली राहिए उग्गदपमदत्तणेण उम्मदराहित्ति जणेहिमुग्घुसिज्जै ।

मधुमङ्गलः (अपवार्य) - पिअबास्स ! सब्बं सुमरंतो म्हि णासच्चं पगब्भंति गोइऑ ।

राधा - सहि बुंदे, गणिअदु अट्ठवारिसिओ काणणकरो ।

वृन्दा (सस्मितम्) - वृन्दावनेश्वरि, वृन्दशः प्रातिस्विकीर्धवला पालयतामसङ्ख्यानां गोसङ्ख्यानामनन्त एव काननकरः । तत्किं गणनाप्रयासेन ?

ललिता - बिसाहे! बुन्दाबणचक्कबाट्टनी आणबेदि । गेण्ह हढेण पढमं पडुम्मण्णस्स बडुणो मणिमण्डणम् ।

मधुमङ्गलः (अपवार्य) - भो पिअबास्स, णिच्चिदमेत्थ समाहाणं दुक्करम् । ता पलाअणं च्चेअ अम्हाणं सरणम् ।

कृष्णः - हंहो गोष्ठस्व ! ललितालगुडताडनमाशङ्क्य मा सङ्कुच पुरस्तादेष सुदर्शनोऽस्मि ।

राधा (कृष्णमपाङ्गेन दरालिङ्ग्य) - सुअल अलं बिलज्जिदेण काणणकरो उबणीअदु ।

कृष्णः (सस्मितमवेक्ष्य) ः

एकस्य त्वं प्रभुरसि स तु द्वादशानां वनानाम्

एतच्चाल्पं निखिलजगतीवर्तिनामेव देवः ।

सामन्तश्रीस्त्वमिति स महामन्मथश्चक्रवर्ती

पथ्यं राधे शृणु हठममुं मा कृथास्तस्य शुल्के ॥८४॥

विशाखा - भो सुअल ! एब्बं होतु । तह बि तस्स उज्जाणचक्कबट्टिणो निदेशबट्टिणा तुज्झ घट्टज्झक्खेण बुन्दाबणचक्कबट्टिणीए अम्ह पिअसहीए काणणकरो कधं मोअःइदब्बो ?

सुबलः (साभ्यसूयम्) - बिसाहे ! णिच्चिदं खट्टारूढासि, जं समूढदुम्मदघुण्णिदा तुमं तत्तं ण जाणंती पलबेसि ।

विशाखा (सोत्प्रासस्मितम्) - किमेत्थ तत्तं ? कधेहि, सूणिस्सम् ।

सुबलः - किं बित्थरेण ? संक्खित्तसारं सुणाहि । जो क्खु महामम्महचक्कबट्टी सो जेब्ब णिच्चिदं पिअबास्सरूबेण बट्टंतो जाणीअदु । दोणं किर परमत्थदो भिण्णदा णत्थि ।

अर्जुनः - बिसाहे ! इदं बि थोअ च्चेअ । ता सुणाहि । सो किर अस्सुदारसाहम्मो सम्मोहणमाहुराभरणब्बो सब्बोबरि विरेहन्तो पिअबास्सस्स सालगोउलबैत्तणेण गोइन्दाहिसेअमहूसबो कस्स बा गब्बं ण क्खु खब्बेदि ? ।

मधुमङ्गलः (सोल्लासम्) - हन्त ललिदे ! सुट्ठु भणादि अज्जुन्णो जमुबणिसद्दहिं बणं क्खु एदं कण्हबणं बण्णिज्जःइ ।

वृन्दाः

निरधारि पूर्वपरयोर्

न्यायविदग्धैः परो विधिर्बलवान।

राजनि नवेऽभिषिक्ते

पुरातने कस्य वा गणना ॥८५॥

मधुमङ्गलः - मुंचध बालाअत्तणम् । अम्ह पिअबास्सस्स च्चेअ कन्ताराहीसदा, अदो करहारीहिं तुम्हेहिं राअःउलपुरिसा अम्हे झत्ति खण्डकुंडलिआहिं सम्माणिज्जम्ह ।

कृष्णः - सखे सुबल ! श्यामलमण्डपिकां मण्डय, यदत्र साम्प्रतं शुल्कदासिकाः प्रवेशनीयाः ।

राधिका - हंत तक्करचक्कबट्टिसामंद सुअल ! मह पिअसहीए सामलाए ब्बदबेई सामलमंडबिआ एसा कीस तुम्हेहिं घट्टघडणेण दूसिज्जःइ ?

कृष्णः - वक्राणां चक्रवर्तिनि ! कृतं राधाचक्रस्य चङ्क्रमणया, यदेष तरसा दुर्लक्ष्यं मनोऽपि भिन्दता धन्विनां मूर्धन्येन महामन्मथेनाधिष्ठितो महाघट्टरङ्गः ।

राधिका (संस्कृतेन) ः

वक्रस्त्रिधा त्वमादौ

मध्ये चान्ते च वंशिकारसिक ।

कलकृतजगतीप्रलयो

वक्रेश्वर एव देवोऽसि ॥८६॥

कृष्णः (किञ्चिद्विहस्य)ः

वाचि कचे भ्रुवि दृष्टौ

स्मिते प्रयाणेऽवगुण्ठे हृदि च ।

त्वामित्यष्टसु वक्रां

अष्टावक्रायितां वन्दे ॥८७॥

चम्पकलता - अलक्खबंकिमा बि तुमं लक्खबंकिमा सि । ता अप्पणो समाणधम्मिणा जणेण कीलेहि । बिसुद्धधम्माणमम्हाणमिदो जुत्ता गदी ।

कृष्णः - पुण्यवति ! महादानं विना गतिर्दुर्लभा ।

चम्पकलता - सन्तजणाणं सब्बपधीणा गदी पसिद्धा ।

चित्रा - पुरिसुत्तम ! पूण्णसिलूसि । ता धम्मकम्मपौताणमम्हाणं कुण मोक्खणम् ।

कृष्णः - चित्रे ! विचित्रेयमस्य चक्रवर्तिनः प्रक्रिया । यत्र धर्मेण दुर्लभो मोक्षः । किन्तु कामप्रयोगेण ध्रुवं लभ्यते । दुर्लभो मोक्षः, किन्तु कामप्रयोगेण ध्रुवं लभ्यते ।

नान्दीमुखी - सत्थऽराणं मुणीणं बि अबिसंबादिणी एसा रीदी । जमेदे कामस्स अणंतरं च्चेअ मोक्खं पढन्ति । धम्मं किर दूरदो पढमकक्खारोहणे ॥

कृष्णः (स्मित्वा राधां पश्यन्) - हन्त शुल्कक्रीति ! प्रीतिरेव नाथस्य तवाद्य गतिः । तदानन्दय महादानीन्द्रमेनमभीष्टसेवया ॥

ललिता - मोहण ! भूरिणा तवोहरेण च्चेअ घट्टीपालस्स दासीत्तणं सिज्झदि, एदाए उण महसहीए तं दुल्लहं जमतबस्सिणी एसा ।

नान्दीमुखी - णिउञ्जलीलाकुञ्जरिन्द ! ललिदा भणादि सोलुक्किएण तुए च्चेअ सेआउलेहिमुबासणिज्जा अम्ह सही । जमेसा सालजोब्बणबदीमण्डलचक्कबट्टिणी, ता इमिणा बिबरीदेण अलं जप्पिदेण ।

कृष्णः (सहर्षम्) - नान्दीमुखि ! दुरतिक्रमेयं ललिताकृताज्ञा । तदेव सेवितुकामः प्रथमं हृदयङ्गमे शातकुम्भकुम्भे पञ्चशाखपल्लवमर्पयामि । (इति राधामासादयति ।)

ललिता (सभ्रूभङ्गमुपक्रम्य) - णाअरम्मण्ण ! झिल्लदु एसा दे दुल्लीलदा बल्लरी ।

कृष्णः - कृपणे ! विपणायितासौ स्ववशा भवत्या शुल्केन । तदत्र विक्रीते करिणि किमङ्कुशे विवादः ? (इति मन्दं मन्दं पदं स्पन्दयति ।) ।

ललिता - कण्ह ! अणहिण्णो णासि ललिदा दुल्लालिच्चाणं, ता किं त्ति अप्पणो माहप्पं पेक्खाबिदुं पःउत्तो सि ? ।

कृष्णः - सुवीरंमन्ये ! पश्य विक्रमिणां चक्रवर्ती पुरस्तादेव चङ्क्रमीति । तदलं क्लीबभङ्गकारिणा कृत्रिमभुजङ्गमेनैवामुना मुधाटोपतरङ्गेण । तूर्णं विश्राणय घट्टशुल्कानि ।

ललिता - हन्त घट्टीघण्टाघोसण ! जै सुलुक्कग्गहे दीहाग्गहोसि । तदा सञ्झॉसरे अम्हदुआरमाअच्छेधि, सुट्ठु घणं घोलं दाइस्सम्ह ।

(कृष्णः स्मितं कृत्वा नान्दीमुखीमुखमवलोकते ।)

नान्दीमुखी - ललिदे! कामहेणुबिन्दवैणो वलविन्दस्स घरे किं घणं घोलं बि णत्थि जं तस्स किदे तुम्हाणं घरे गन्तब्बं ? ।

कृष्णः - सुदीर्घाक्षि राधिके ! फल्गुनि ललिताप्रलापारभटीपटले त्वं निबद्धप्रत्याशा मा खलु शुल्कनिर्यातनाय वैमुख्यमपेक्षिष्ठाः । तदेष सन्निकृष्टो रहस्यं वर्णयामि ॥३४६॥ (इत्युरसि पाणिमाधित्सति ।)

ललिता - दुल्लहफल्ले हठिल्ल ! ललिदाए पुरदो भुअणपराणो गन्धबाहोबि राहीए त्थणम्बरञ्चलस्स प्फसणं बि ण कादुं पहबेदि । एत्थ हत्थं णिक्खेबिदुं किदज्झबसाअस्स दे मुद्धदा च्चेअ पज्जबस्सदि ।

कृष्णः ः

कृष्णकुण्डलिनश्चण्डि

कृतं घट्टनयानया ।

फूत्कृतिक्रिययाप्यस्य

भवितासि विमोहिता ॥८८॥

ललिता (संस्कृतेन) - कृतं विभीषिकया, यतः—

विलसति सुसिद्धमन्त्रे

मण्डित मतिराहितुण्डिकी ललिता ।

सुकरं मूर्धोन्नमनं

न जिह्मगस्यात्र कृष्णस्य ॥८९॥

कृष्णः - नान्दीमुखि ! घट्टाधिकारिणामभिरूपायामप्यनृतवृत्तौ पराङ्मुखी मे दक्षिणस्य रसना । पाणिश्च हठचेष्टायां पृष्ठदायी । तदत्र किं दूषणमासां रामाणां विप्रतिपत्तौ ॥

ललिता (सनर्मस्मितं संस्कृतेन) ः

मिथ्या जल्पतु ते कथं नु रसना साध्वीसहस्रस्य या

बिम्बोष्ठामृतसेवनादघरिपो पुण्या प्रयत्नादभूत।

कस्मादेव बलात्करोतु च करः सोढुं क्षमः सुभ्रुवां

रक्तः सुष्ठु न नीविबन्धमपि यः का वान्यबन्धे कथा ॥९०॥

कृष्णः (किञ्चिद्विहस्य) - ललिते! सत्यं भवत्यः कृतपुण्यपुञ्जानां शिरोमणयः । यासां भागधेयसिद्धौषधिनाकृष्टा भगवत्याः पारिपार्श्विका नान्दीमुखीयं प्रत्युपस्थिता ।

ललिता - णंदीमुहि ! भावदीपाएहिं साबिदासि । तुरिअमिदो दूरीहोहि । पेक्खम्ह किमेस अम्हाणं करेदि ।

नान्दीमुखी - ललिदे ! महासंकडमेदं तुम्हाणं जं हठिल्लचक्कबट्टिणो हत्थे पडिदॉ त्थ । ता एत्थ समए परिच्चॉ ण क्खु सिणेहस्स अणुरूबो ।

अर्जुनः - पिअबास्स ! जॉ पगब्भॉ सुलुक्के बिपडिबज्जंति, तॉ तुण्णमम्ह पुरदो आणिज्जन्तु त्ति उज्जाणचक्कबट्टिणो सासणं कहं तुए विसुमरिदं ?

कृष्णः (हर्षमभिनीय) - साधु स्मारितमर्जुनेन । हन्त ललिते सखायो मे सख्यश्च ते घट्ट, एवाधितिष्ठन्तु । त्वं तु मया सार्धमेकाकिनी स्वयं प्रस्थाय निष्कुटचक्रवर्तिनः सुष्ठु गोष्ठीगङ्गावगाहनेन खेलय निजलोचनमीनयोर्मिथुनम् ।

ललिता - धम्मधुरीण ! ताए च्चेअ कुलङ्गणाए अप्पणो दोउलं रक्खिदं जाए पुण्णसिलोअमौलिणा तुए सद्धमेकागिणीए णिज्जणे चलिदम् ।

कृष्णः - किं वानया क्षेपिष्ठे घट्टकर्मणि दीर्घसूत्रता प्रस्तावनया । प्रसह्य तरसा शुल्कमेवाङ्गीकरवाणि । (इति राधिकामनुसाधयति )

ललिता (सोल्लुण्ठं विहस्य) - हंत ! सोम्म सुउमार ! अत्तणो णेत्तचत्तरे राहिआतणुप्फंससाहसिअदा तुअम्मि बट्टदि त्ति सब्बधा ण पत्तिआएदि । एसा ललिदा त्ति पसिद्धा सिद्धाणुसासना बल्लवी । ता पेक्खिदुं किदकोदूहला चिट्ठदि बित्थारेहि अप्पणो विक्कमसब्बस्सम् ॥

कृष्णः (किञ्चिद्विहस्य) - नमस्तुभ्यं, महाचण्डि ! चामुण्डे, नमस्तुभ्यम् । नूनं मुण्डमालाख्यमात्मनो मण्डनं विमुच्य दुर्वारमारसंहाराय गोपिकारूपेणोपस्थितासि ।

विशाखा - सहि ललिदे ! विजःइणी होहि ।

ललिता (स्मितं कृत्वा स्वगतं) - किदं सुट्ठु संलावविलसिदम् । ता दोणमहिट्ठामिअपूरस्स ओगाहणे तित्थमारम्भिस्सम् । (प्रकाशम्) बिसाहे, तत्थ गदुअ णिबेदेहि भावदीमम्हाणं बाढमेदं बिडम्बणम् ।

नान्दीमुखी (स्वगतम्) - एसा भावदी माहबीमण्डबंतरिदा पेक्खन्ती सब्बं सुणादि । (प्रकाशम्) ललिदे, भावदी क्खु गोउलेसरीए पासे बट्टदि ।

राधिका (सपरिहासं विहस्य जनान्तिकम्) - हला ललिदे, अप्पणो बि भुइट्ठो अम्हेसु तुम्हसिणेहो अज्ज च्चेअ सुट्ठु पच्चक्खीकिदो जं घट्टऽलदो जादमम्हाणं जादणं तत्थ अप्पसमप्पणेण मोआबिदुमुबक्कमन्ती तुममिङ्गिदेण लक्खीअसि ता धण्णासि ।

ललिता - अःइ सूरब्बदेक्कबिस्सुदे । असमबाणीसमरंमि च्चेअ सच्चं कुसलम्हि, तुममुण असमबाणसमरंमि, जं पुणो पुणो दिट्ठपुरिसऽरसोट्ठवसारासि । ता प्पसीद, कडक्खजिम्हणबाणेण णं महावीरम्मण्णं जिम्हांदी क्खणमेत्थ चिट्ठ । अम्हे थोअमग्गदो गदुअ पडिबालेम्ह तुमम् ।

राधिका (सप्रणयाभ्यसूयम्) - अबेहि, अप्पणो आआरसंगोबणेक्कदक्खे । अबेहि । दाणिं च्चेअ पेक्खिस्सम् ।

कृष्णः (स्वगतम्) - सम्प्रति मन्थरितचण्डिमेव संलक्ष्यते ललिता । (प्रकाशम्) साधु साधु, ललिते ! समयाभिज्ञासि यदद्य मुधा विवादघटां विघटय्य घट्टमधितिष्ठसि ।

ललिता - छलकेलिछैल्ल ! एसो हठिल्लदालगुडीमेत्तओट्टंभणो बल्लवाणं गणो बिअ ण क्खु सारग्गाहिणीणं बल्लवीणं गणो ।

विशाखा (सम्भ्रममभिनीय) - ललिदे ! महापमादो महापमादो ।

ललिता - कीदिसो एसो ?

विशाखा - अःइ कलहलोलुइदाविम्हारिदधम्मे ! विरमेहि ! तेहिं जण्णिएहिं संदिसिअ पेसिदमम्हाणं जं हब्बणिज्जं हेअंगवीणं हरंतीहिं तुम्हेहिं कुलंगणाणं कुलकण्णऽणं वा दूसणऽरिणिम्मि कामिजणिम्मि दिट्ठिक्खेबो बि सब्बधा ण कद्दब्बो । (इति नासिकाग्रे तर्जनीमासज्य) हद्धी हद्धी ! तुए उण उम्मताए मोहेण मोहं जेब्ब जप्पन्तीए बहुआलं बाणं बि संबीस्सिदं ।

ललिता (विषादमभिनीय) - बिसाहे ! सुट्ठु कधेसि सब्बं मुद्धाए मए विसुमरिदम् । ता चिन्तेहि एत्थ किंपि णिक्किदम् ।

वृन्दा (विहस्य) - यज्ञपुरुषस्य विष्णोरनुस्मरणमेव मुनयः सर्वाघविध्वंसनं व्याहरन्ति, ततः स्मर्यतामसौ । (ललिता “विष्णु विष्णु” इति कीर्तयन्ती नासिकामभिस्पृश्य कर्णं स्पृशति) ।

कृष्णः (सस्मितम्) - ललिते ! सत्यं विदूषितासि । तदत्र तरसा सन्निधेहि । सद्य एव दोषास्पृष्टां करवाणि भवतीम् । (इत्यनुसृत्य भुजाश्लेषं नाटयति) ।

ललिता (ससाध्वसमपसृत्य सनिर्वेदमिव) - हंत हंत ! परकलत्तामिलाबणविलाससाहसिएण कुलबालिआ हं प्फसणे दूसिदह्मि ।

राधिका (स्मितं कृत्वा) - ललिदे ! अम्ह सङ्गादो तुण्णमबेहि, जं रदहिण्डाप्फंसकलङ्किदा सि ।

ललिता - अःइ विणोदं कुणन्तीए अलिअं च्चेअ एदं भणिदं मए—कुदो मादिसीए पैब्बदासिहण्डिणीए प्फंसमहासाहसे एसो भुअभुअंगमो उत्थादुं पहबेदु ?

राधा - अःइ असच्चभासिणि ! विण्णादं विण्णादं, चिट्ठ चिट्ठ ! किदाब्भुत्थाणाई तुह तणुरुहाई च्चेअ सक्खित्तण तण्णन्ति ।

ललिता - राणारीअ ! सुट्ठु क्खुहिदम्हि, जं तुए दूसिदं मं सहीओ ण प्फंसन्ति । अदो “न दुःखं पञ्चभिः सह” त्ति भणिदो जधा पाडीहोदि, तधा करेहि ।

कृष्णः - चम्पकलते ! पयोधरोल्लेखिदीर्घशाखोऽयं तमालः । तदेनमालम्ब्य परिफुल्ला भव ।

चम्पकलता (सकम्पं किञ्चिदपसृत्य) - छःइल्ल, पुणो बि ललिदं ज्जेब मिलाणं करेहि, जं “न शयानः पतत्यधः” त्ति बानं सुणीअधि ।

ललिता - अबि णाम प्पिअसहीं विसाहं कठिनोरुपंचसाहोबसोहिदमःइरादो पेखिस्सम् ।

कृष्णः - विशाखिके ! तरुणालिङ्गिता सुच्छाया भव । तदितश्चम्पकलतेव मा भङ्गमुपयासीः ।

विशाखा (तूर्णमपसर्पन्ती) - कलंकिणि ललिदे ! “कथं विदूषयति निर्लज्जः स्वयं दुष्टः परानपि” त्ति बाणं प्पमाणं कादुं पःउत्ता सि । ता सुप्पाडं जेब्ब दे आउदम् । अलमलिएण विलक्खभाएण । दिट्ठिआ चिंदाउलासु अम्हेसु अतक्किदं सुलुक्कस्स जोग्गा किदासि तुमं देब्बेण ।

(ललिता किञ्चिदपसृत्य तं प्रेक्ष्य दृगञ्चलं कुञ्चयति ।)

कृष्णः (स्मित्वा राधां दिधीर्षन्) - विलोलाक्षि ! ललितालोचन भङ्गीवात्यया बाढमान्दोलितपाणिपल्लवोऽस्मि । तदद्य नारोपय सभ्ये मयि साभ्यसूयं चक्षुः ।

राधा (ससाध्वसं विशाखामनुसरन्ती) - सहि ! परित्ताहि अत्ताणं च्चेअ, जं राहाए मालिण्णे बिसाहा मलिणा भणीअदि ।

ललिता - अःइ गन्धब्बिए ! धुत्तमःउलिणा लुद्धएण अणुद्दुदा तुमं कीस णं पञ्चमुहीं मुक्किअ एक्कं कुरंगिअं सरणं गच्छसि ? ता मह अंगमलंकरेहि । तुरिअं संकाउलो भविअ पलाएदु एसो ।

राधिका (कुतुकेन भूरिणा भ्रूभङ्गेनाधिक्षिपन्तीव सनर्मस्मितं संस्कृतेन) ः

विश्रम्भघातिनि चिरादुपरुध्य शुद्धा

विश्रम्भतस्त्वमिह नः स्वगृहादनैषीः ।

लोभाद्व्रतं यदि निजं व्यधुनोस्तदस्तु

किं दूषयन्त्यपि सतीस्त्रपसे न देवि ॥९१॥

ललिता - हद्धी हद्धी ! सहि बुन्दे ! भणाहि कधं सुद्धा हविस्सम् ।

वृन्दा - ललिते ! कृतमेतया चिन्ताचर्यया । निकुञ्जमहातीर्थे रतिवल्लभजागर्याव्रते प्रारब्धे का तावदघस्य सम्भावनापि ?

कृष्णः - केलिकुतूहलितया कुतः स्वकर्मणि मन्थरोऽस्मि, यदद्य शुल्कार्थमुद्यमः खलु साधीयान्?

नान्दीमुखी - ललिदे ! पेक्ख, पच्चासीददि मज्झण्णो । ता कधीअदु केत्तिओ सुलुक्को तुम्हाणं सम्मदो ।

ललिता - हंत दाणिन्द ! जह बि अम्हाणं पञ्चपाइआ च्चेअ एत्त जुत्ता, तह बि तुम्हमुहमवेक्खिअ एसा मणिमुद्दिआ ओबणीदा । (इति चित्राङ्गुलेराकृष्य मुद्रिकां पुरस्तादुपन्यस्यति ।)

कृष्णः (सव्याजामर्षम्) - सखे, क्षिप्रं क्षिप्यतामद्रिमूर्धनि क्षुद्रेयं मुद्रिका । (सुबलः प्रक्षेपमुद्रामभिनीय मुद्रिकां करे सङ्गोपयति ।)

ललिता (सरोषम्) - बुन्दे, दिट्ठं तुए जं दुल्लहा मणिमुद्दिआ पक्खित्ता ।

नान्दीमुखी - हला ! जह तस्स णाणिहीणमहिबःइणो कुबेरस्स महाचिन्तामणिमणीसिदेण सादरपसारिदे हत्थे फुट्टकपद्दिआणिक्खेबो, तह जेब्ब एसो तुम्ह बाहारो ।

ललिता (स्वगतम्) - दोणं सुट्ठु उक्कण्ठिदाणमासासणं भंगीए करिस्सम् ।

(इति परिक्रम्य जनान्तिकम्)

हला राहि ! जधारिहं दाणं बिणा दुल्लहमम्हाणमिदो पत्थाणं, ता तुह कंठट्ठिदं हारं च्चेअ सुलुक्कीकरेम्ह ।

(इति बलादिव हारमुत्तार्य सनर्मस्मितम्)

उक्कंठिदे ! कीस अहीरासि ? एसा णिसिट्ठात्था मोत्तिआअवली दूदीआ कण्हमलंकादुं चलिदा, ता अहिसारे सज्जा होहि ।

राधा - अःइ सम्भोअसंरम्भणि अलमिमिणा दम्भगम्भीरिमारम्भेण । एत्थ विवादमहामहे अदक्खिणाबि तुमं दक्खिणासि णिम्मिदा पणएण सहीहिम् ।

ललिता (कृष्णमवेक्ष्य) - घट्टणाह ! एसा अणग्घा मोत्तिआवली मए उपणिहीकिदा । अदो प्पदोसे सुबण्णोबणएण पुणो तुअत्तो मोआबैदब्बा ।

कृष्णः (सहर्षं हारमादाय स्वगतम्) - सोऽयं शङ्खचूडस्य चूडामणिरेव नायकीकृतोऽस्ति । यः सानुकम्पमार्येण प्रलम्बरिपुणा राधिकायै प्रसादीकृतः । तदनेन ममाधुना प्रत्याशाबीजस्याङ्कुरावस्थता विस्तृता ॥ (इति हारेण स्वकण्ठं प्रसाधयति)

राधा - (जनान्तिकम्) ललिदे पेक्ख भाअधेअं तब स्सिणीए मोत्तिआवलीए ।

ललिता ः

तुह णिसेविअ उण राहि

त्थणसम्भुं मोत्तिआबली सुद्धा ।

हरिणो विहरै हिअए

तुह कहणिज्जो कहं महिमा ॥९२॥

राधा - कुडिले ! अलं पलाबेण । पेक्खीअदु इदो बि पौरं भंगुराए भमरकलङ्कदाए बणमालाए सोहग्गलीलाइदम् । (इति संस्कृतमाश्रित्य)

विशुद्धाभिः सार्धं व्रजहरिणनेत्राभिरनिशं

त्वमद्धा विद्वेषं किमिति वनमाले रचयसि ।

तृणीकुर्वत्यस्मान्वपुरघरिपोराशिखमिदं

परिष्वज्यापाद महति हृदये या विहरसि ॥९३॥

मधुमन्गलः - कल्लाणि ललिदे ! महाघट्टबालिंदो तुम्हेहिमाणंदिदो, ता एसो बुहुक्खिदो एक्काए हेअंगबीणगब्भाए गुरुगग्गरीए काअत्थो बि काअत्थो किज्जःउ ।

विशाखा - हंहो लोलुह ! मा क्खु एब्बं भणाहि सत्ततंतुणो किर हेअङ्गवीणमेदम् ।

मधुमन्गलः - बिसाहे ! धण्णॉ क्खु जण्णिअबम्हणीओ जाहिमप्पघरस्स बि तमङ्गिरससत्तमुबेक्खिअ तस्स सुट्ठु मिट्ठण्णेहिं सब्बे बल्लऽ भुंजाबिदा । तुम्हेहिमुण परघरस्स सत्ततंतुणो जोग्गेहिं बि णाणीदेहिं णबतंतुओ बि एक्कलो एसो बि ण भुंजाबीअदि ।

कृष्णः - ललिते ! यदेष महाघट्टेश्वरस्य ममोपहाराय हारो निसृष्टः, तदतीव सम्यगनुष्ठितम् । साम्प्रतमुद्यानचक्रवर्तिनोऽप्यभीष्टशुल्केन सपर्या पर्यालोच्यताम् ।

ललिता (सप्रणयरोषम्) - तुए जाणिअ पत्तम्हि । ता ण क्खु अजुत्ता एसा बिडम्बणकदत्थणा ।

नान्दीमुखी - महादाणीन्द । अप्पणो अहिमदं दाणं दिढं कहिज्जौ जहा मज्झतीभविअ मए परिच्छिज्जै ।

कृष्णः - नान्दीमुखि, समाकर्ण्यताम्—

वदितुम् अधिकमार्यापारिषद्यास्तवाग्रे

कथमुचितमथेष्टं केवलं मे परार्धम् ।

इह यदि तदभावं वक्षि किं तत्र कुर्यां

भवतु मयि परार्ध्यां न्यस्य शिष्टाः प्रयान्तु ॥९४॥

नान्दीमुखी - रङ्गिल्लपुङ्गव, चित्ता तुम्ह चित्ताणुबट्टिणी ता एसा च्चेअ सुलुक्काइदा ।

कृष्णः - हन्तोपकण्ठवर्तिनी चित्रा । तदसौ नातिदुर्लभा ।

(प्रविश्य) पौर्णमासी - नागर नागरीमूर्धाभिषिक्त । यत्र निबद्धमहास्पृहोऽसि तां किल परार्धेनापि दुर्लभामनर्घामेव जानीहि ।

कृष्णः (सापत्रपमभिनीय) - भगवति केवलं शुल्कवित्तानामुपलब्धये गृहीताग्रहोऽस्मि, न तु काकिनीपादमूल्यानां भवद्गोपीनाम् ।

राधा - भावदि दिट्ठिआ विडम्बणम्बुरासिणो पारमम्हेहिं दिट्ठं जं सामेत्थ तत्थहोदी समाअदा ।

पौर्णमासी (जनान्तिकम्) ः

दानीन्द्रस्य प्रसभमनुरीकृत्य मानोद्धुराणां

दानं विश्वप्रकटमटवीमण्डलाखण्डलस्य ।

संरब्धानां कलहलहरीलुब्धतादुर्मुखीणां

पातः शातोदरि न भविता किं विडम्बाम्बुधौ वः ॥९५॥

ललिता - भावदि ! पेक्ख दुल्लहो हारो अम्हेहिं दिण्णो तहबि ण मुक्किअम्ह ।

पौर्णमासी - ललिते ! पश्य भवतीनां कलहकूटकषायेण पाटलितचित्तदुकूलः प्रातिकूल इव शिखण्डचूडस्तिष्ठति । तदद्य विना प्रियोपहारमहार्यसंरम्भडम्भरोऽसौ मनस्वी ।

नान्दीमुखी - भावदि ! आणवेदु इमाणं मज्झे एदं भारं का क्खु बहिस्सदि ।

पौर्णमासीः

या पञ्चसु सरोजाक्षी

परमाराधिका भवेत।

धरा सैवास्य विज्ञेया

धुरीणाराधने धुरि ॥९६॥

(ललिता मनागिव स्मित्वा राधिकां पश्यन्ती दृगन्तं कूणयति ।)

वृन्दा - भगवति ! वेदिमध्यमेयं निवेदयति—“हन्त विश्ववेदिनि ! प्रपञ्चितचारुचातुरीचमत्कृतिं ललितामेवात्र महासङ्कटे निरटङ्कयदालिमण्डलम् । केवलमसौ प्रतीक्षायास्तवानुज्ञां प्रतीक्षमाणा समक्षमवतिष्ठते ।”

ललिता (स्मितं कृत्वा) - हिआराण्णस्स बिजाम्मि संबुत्त अलमिमाए हठरङ्गरक्खाए ।

पौर्णमासी - नायुक्तमुक्तं ललितया ।

राधा (किञ्चिदुच्चैरिव) - भावदि ! पसीद पसीद ! इमस्सिं दुरन्तब्बसणे कढोरघट्टीवालहत्थे मा क्खु कादरो पैदिदक्खिणी एसा जणा सुल्लुक्कीअदु । (इति संस्कृतेन)

भ्राम्यत्येष गिरेः कुरङ्गकुहरे कृष्णो भुजङ्गाग्रणीः

स्पृष्टो येन जनः प्रयाति विषमां कामप्यसाध्यां दशाम् ।

नाभद्रं न च भद्रमाकलयितुं शक्तास्मि दृष्टिच्छटा

मात्रेणास्य हताहमिच्छसि कुतः प्रक्षेप्तुमत्रापि माम् ॥९७॥

(इति लीलया शुष्कं रुदती पादोपकण्ठे लुठति ।)

पौर्णमासी (भुजभ्यामाश्लिष्य) - वत्से ! मा रोदनं कृथाः । सर्वमिदं ते शुभोदर्कं भविष्यति ।

कृष्णः - भगवति ! सत्यं भागधेयभागस्मि, यदत्र साधीयसि समये तवोपस्थितिर्बभूव । ततः स्वीकृतशुल्कमेवात्मानमवधारयामि ।

पौर्णमासी (जनान्तिकम्) - रामनीयकनिधे ! रमणीमणिरेव तवोपकण्ठस्थलशोभनीबभूव । किमन्येन फल्गुना शुल्केन ?

कृष्णः (सानन्दमात्मगतम्) - दिष्ट्या मदभीष्टा शुल्कीकृता भगवत्या राधिका । (प्रकाशम्) भगवति ! सत्यमस्य मेदुरमहारागकौमुदीडम्बरकरम्बितस्य रमणीरत्नस्य लब्धये भवत्याः प्रसादवीथिमन्तरेण नान्या युक्तिरभिवर्तते ।

पौर्णमासी (सनर्मस्मितम्) - नागरेन्द्र ! मया चिन्तामणिरियं प्रस्तुता । भवता तु कान्तामणिरवधारिता ।

कृष्णः (सलज्जस्मितम्) - भगवति ! मद्गिरामप्यत्रैव विश्रान्तिः । यदेतस्य ललनाललामस्य सङ्गमे भवत्पारिषद्याः साचिन्त्यविद्यासम्पदेव हेतुरासीत।

पौर्णमासी (सनर्मस्मितम्) - चातुरीविद्यामहोपाध्याय । कृतं वैलक्ष्यवैभवेन । चिन्तामणिलाभ एवावश्यं कान्तामणिलाभाय कल्पते । न हि प्रत्यूषशोभायामुपस्थितायां भानुजायाः श्रियो विष्णुपदसेवायां व्यभिचरिष्णुता घटते । ततस्त्वमद्य पूर्णोऽसि ।

वृन्दा - पूर्णिमायामुपस्थितायां को नाम कलानिधेरपूर्णतावकाशः ।

पौर्णमासी - वृन्दे ! राधामनुरुध्यमानेन विधुनैव मधुरीकृतेयं माधवीया पौर्णमासी ।

वृन्दा - तदेनं पूर्णमेव पूर्णिमासमक्षमुपलक्षयतु विशाखासख्या ।

पौर्णमासी - वैदग्धीचन्द्रिकाचन्द्र ! बाढमत्र प्रतिभूरभूवम् । सायं तवाभीष्टमेव शुल्कमर्पयिष्यामि । तदनुमन्यस्व साम्प्रतममूरध्वरवेदीप्रसाधनाय साधयन्तु ।

कृष्णः (सातपत्रम्) - यथाज्ञापयति भगवती ।

पौर्णमासी - सर्वानन्दकदम्बमूर्ते ! यद्यपि बाढमेतया हृदयङ्गमया ते लीलया कृतार्थास्मि, तथापि किमप्यभ्यर्थयितुमिच्छामि ।

कृष्णः (सहर्षम्) - भगवति शीघ्रमाज्ञापय किं ते भूयः प्रियं करवाणीति ।

पौर्णमासी - निरवद्यकेलिमाधुरीसुधासिन्धो ! साधीयसि प्रसङ्गे कृता हि प्रार्थना निश्चितमेव फलगर्भिनी भवेदित्यधुना निवेदयामि ।

सहचरीकुलसङ्कुलया गणैर्

अधिकया सह राधिकयानया ।

तमिह नर्मसुहृन्मिलितः सदा

घटय माधव घट्टविलासिताम् ॥९८॥

किं च—

राधाकुण्डकुटीरवसतिस्त्यक्तान्यकर्मा जनः

सेवामेव समक्षमत्र युवयोर्यः कर्तुमुत्कण्ठते ।

वृन्दारण्यसमृद्धिदोहदपदक्रीडाकटाक्षद्युते

तर्षाख्यस्तरुरस्य माधव फली तूर्णं विधेयस्त्वया ॥९९॥

कृष्णः (सहर्षाभ्युपगतम्) - भगवति ! तथास्तु । तदेहि प्रातिस्विकाभीष्टकृत्याय प्रयाम ।

(इति निष्क्रान्ताः सर्वे)

इति श्रीश्रीदानकेलिकौमुदी नाम भाणिका समाप्ता ।

ग्रथिता सुमनःसुखदा

यस्य निदेशेन भणिकास्रगियम् ।

तस्य मम प्रियसुहृदः

कण्ठतटीं क्षणमलङ्कुरुताम् ॥१००॥

गते मनुशते शाके

चन्द्रस्वरसमन्विते ।

नन्दीश्वरे निवसता

भाणिकेयं विनिर्मिता ॥१०१॥

श्रीश्रीहरिर्जयति ।

दानकेलिकलौ लुप्तधर्ममर्यादयोर्भजे ।

राधामाधवयोः कामलोभदम्भमदानृतम् ॥

अथ सोऽयं रसिकमुकुटमणिरभिनीतविदग्धमाधवादिनाटकायं रत्नो यत्नोरीकृतराधामाधवलीलाविलासाविरामरामणीयकपीयूषपरिवेषणव्रतः परमभागवतानुरागिणः प्रियसुहृदोऽनुरञ्जयन्नखिलकविमण्डलाखण्डलः श्रीरूपनामा अमृततरङ्गिनीमिव दानकेलिकौमुदीं नाम भाणिकां निर्मिमाणः प्रवरनान्दीमुपश्लोकयन्मङ्गलमाचरति—अन्तःस्मेरतया इति । माधवेन पथि पुरोऽग्रत एव रुद्धाया राधाया दृष्टिर्वा युष्माकं श्रियं प्रेमसम्पत्तिं क्रियात्करोतु । कथम्भूता ? किलकिञ्चितं भावविशेषं स्तवकयितुं स्तवीकर्तुं बहिरीषत्प्रकटयितुं शीलं यस्यां सा । स्याद्गुच्छकस्तु स्तवक इत्यमरः ॥

गर्वाभिलाषरुदितस्मितासूयाभयक्रुधाम् ।

सङ्करीकरणं हर्षादुच्यते किलकिञ्चितम् ॥ [उ.नी. ११.४४]

अत्र अन्तःस्मेरतयेति हर्षोत्थं स्मितम् । स्तवकपक्षे अन्तःस्मेरता अन्तरीषत्फुल्लता । जलकणेति रुदितमवहित्तोत्थम्, पक्षे मकरन्दोद्गमः । किञ्चित्पाटलितं श्वेतरक्तीकृतमञ्चलं यस्याः सा, इति शितिम्ना स्मितमारुण्येन क्रोधः । पक्षे, श्वेतारुणवर्णद्वयोद्गमः । रसिकतया उत्कर्षेण सिक्तेत्यभिलाषः । पक्षे, मधुरसोद्गमः । कुञ्चेति सङ्कुचितरूपेति भयम् । पक्षे, कुञ्चनं कोरकता । मधुरा व्याभुग्ना कुटिला च या तारा कनीनिका, तया उत्तरा श्रेष्ठा । पक्षे, माधुर्यं कुटिलाकृतित्वं च तदा मधुरव्याभुग्नतां राति गृह्णातीति छेदः, उत्तरा श्रेष्ठा ॥१॥

विभुर्व्यापकोऽपि चिच्छक्तिरूपत्वात। सदैवाभितो वृद्धिं कलयन्धावन्लोकवल्लीलाकैवल्यात। अनुरागो नाम सदानुभूयमानेऽपि वस्तुन्यपूर्वतया अननुभूतत्वभानसमर्पकः । प्रेम्णः पाकरूपभावविशेषः स च प्रतिक्षणं वर्धत एवेति । उपचितो वक्रिमा कौटिल्यपर्यायवाम्यलक्षणो यस्मिन्सोऽपि शुद्धः शुद्धसत्त्वविशेषात्मकत्वात्निरुपाधित्वाच्च । जयति सर्वोत्कर्षेण वर्तताम् । [उ.नी. १४.१४६१४८ असेxअम्प्ले ओफ़् अनुराग; अल्सो वेर्से क़ुओतेद्च्च्१.४.३१] ॥२॥

नान्द्यन्ते सूत्रधार आह इत्यन्वयः । यदुक्तम्, प्रस्तावनायां तु मुखे नान्दीकार्या शुभावहा । आशीर्नमस्क्रिया वस्तुनिर्देशान्यतमान्विता ॥ [ना.च. १५] इति ॥

चन्द्रिकादीपितत्वेन भावस्य समुद्रत्वं व्यञ्जितम् । उपत्यकाद्रेरासन्ना भूमिरित्यमरः । बन्धुरा मनोज्ञा ।

पुलकैस्तनोरुत्फुल्लतां तनोतीति तल्लीलाश्रवणोत्थेन सहसैव हर्षेण । शुष्यन्कोऽपीति तत्र अविशेषानुसन्धानेनोत्कण्टातिशयेन दैन्यनिर्वेदग्लानिभिः । गर्जन्धावतीति सद्य एव तदाकारायामन्तःकरणवृत्तौ तत्साक्षात्कारेण स्वस्य तत्परिजनत्वभावनया गर्वमदहर्षैः । कोऽपि पतन्सन्निष्पन्दतां विदन्तीति तद्दर्शनानन्दजाड्यमोहाभ्याम् । तत्र यथोत्थमेव प्रेमवतां श्रैष्ठ्यम् । यद्वा, वैष्णवतोषण्युक्तयुक्त्या प्रेम्नो विश्रम्भप्रधानतोत्कण्ठाप्रधानत्वाभ्यां भेदाभ्यां तदधिष्ठानां भक्तानामपि द्वैविध्येन समानेनाप्युद्दीपनेन विभावेन युगपदनुभवगोचरीकृतेन परस्परविजातीयभावोद्गमो नानुपपन्नः । तत्र विश्रम्भप्रधानानां विश्लेषस्फूर्तितारतम्येन दैन्यानुताप निर्वेदादितारतम्यात्मुखशोषवैवर्ण्यभूपातमूर्च्छा ज्ञेयाः । अच्युतस्य विभ्रमे विलासे उद्यति सति स्थेयसामतिस्थिराणामप्येषां काप्यनिर्वचनीया गतिरवस्थाभूत॥५॥

आमिति मान्तमव्ययं स्मरणे । साधिष्ठोऽतिश्रेष्ठो यः प्रेमसमूहः स एव कादम्बरा मदभेदास्तेषामाडम्बरः संरम्भः । कादम्बरस्तु दध्यग्रे मद्यभेदे नपुंसकम् । आडम्बरस्तुर्यपक्षसंरम्भगजगर्जितः इति मेदिनी ।

अहार्यां केनापि हर्तुमशक्यामत्याज्यां समग्रे स्थगयितुं संवरीतुम् ।

प्रेम्ना ऊर्जिता प्रवलिता हंसानपि आत्मारामानपि शुद्धामृतां ब्रह्मानन्दादपि । पक्षे स्पष्टम् ।

इयं नाट्यकला नृत्यवैदग्धी श्रेष्ठा राज्यश्रीरिव स्फुरति । अवगणितः तिरस्कृतसन्धिभूमा सन्धिबाहुल्यं यस्यां सा । मुखप्रतिमुखगर्वविमर्षनिर्वहणानां नाटकोक्तपञ्चसन्धीनां मध्ये भाणिकायाः प्रथमपञ्चमसन्धिभ्यां युक्तत्वात। पक्षे पञ्चभिः सह प्रीत्या स्वकार्यसाधनार्थं सन्धिः स च बलवता राज्ञा नाद्रियत एव बलिष्ठानि सप्ताङ्गानि यस्यां सा ।

उपन्यासोऽथ विन्यासो विरोधः साध्वसं तथा ।

समर्पणं निवृत्तिश्च संहारश्चापि सप्तमम् ॥ इति नाट्ये सप्ताङ्गानि ।

पक्षे स्वाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलानि चेति राज्यसप्ताङ्गानि । परमसुवृत्त्योर्भारती कैशिक्योर्युगेन आढ्यः पक्षे परमसुवृत्तियुकाढ्यश्च ॥

उपरूपकभिदां नाटकविशेषाम् ।

नाम्नैव आकृष्टा रसज्ञा रसिकाः । रसज्ञा जिह्वाचयेन यस्य सः । शीलेन स्वचरितेन नन्दं श्रीव्रजेश्वरं सदा सतामानन्दं च उद्दीपयन्प्रकाशयन्निजरूपेण स्वसौन्दर्येण उत्सवं दातुं शीलं यस्य सः । पक्षे निजः स्वीयो रूपः मल्लक्षणो जनः तस्य उत्सवदायी, सनातनो नित्य आत्मा श्रीविग्रहो यस्य । पक्षे सनातनो नाम आत्मा देहो यस्य सः । [अल्सो फ़ोउन्दिनुन्, १.१] यदुक्तं— सूत्रिवाक्यं तदर्थं वा स्वेति वृत्तमिमं यदा । स्वीकृत्य प्रविशेत्पात्रं कथोद्घातः स कीर्तितः ॥ इति ।

गान्धारः सङ्गीतनिष्ठस्तृतीयो ग्रामः तत्र गुरोरध्यापकस्य गान्धर्वं गानं रसज्ञरत्नमण्डली श्रेष्ठरसिकश्रेणी ।

इयं भाणिका महाविद्या महामन्त्ररूपा । प्रकटितं ललितालङ्कृतं सङ्गीतनिष्ठललितालङ्कारयुक्तं गान्धर्वं गानं यस्याः सा । नान्दी मुखे यस्याः सा । पक्षे, नान्दीमुखीति विशेष्यपदम् । प्रकटिता ललितयालङ्कृता गान्धर्वा श्रीराधा यया सा । महती विद्या यस्याः सा । पात्रप्रवेशार्थं कथोद्घातसंज्ञं नाम मुख्याङ्गमिदम् । यदुक्तं, सूत्रिवाक्यं तदर्थं वा स्वेति वृत्तमिमं यदा ।

अस्य प्रतिपाद्यस्य तीर्थं प्रस्तावनोच्यते प्रस्तावलक्षणम् ।

वृन्दे अस्य प्रसङ्गस्य विशेषविज्ञानशून्यतया मुग्ध इव जातोऽस्मि । तस्मात्स्फुटं कथ्यताम् ।

मण्डितं सनीडं निकटं यस्याः सा । समीपे निकटासन्नसन्निकृष्टसनीडवदित्यमरः । सखीभिरलङ्कृतपार्श्वा इत्यर्थः ।

वृन्दे, एषा निखिलमाधुरी वरीयसी राधिका कथमत्र लघौ अर्थे गुरुजनैरनुज्ञाता ।

हवनीयं हवनयोग्यम् । तत्तु हैयङ्गवीनं यत्सद्यो गोदोहोद्भवं घृतमित्यमरः ।

ईदृशोऽसौ कस्य महतो मखः ।

मधुपुरं त्यक्त्वा कथं वनमध्ये तेनारब्धो यज्ञः ।

स्फुटमभिचारिक एष यज्ञः ।

शान्तिकः शान्तिप्रयोजनकः तदस्य प्रयोजनमित्यर्थे अध्यात्मादिभ्यष्टिकन।

प्रियवयस्यस्य सुचिरं हृदयस्थिता सा गरिष्ठा केलिघट्टाधिकारितानुरूपस्य राधिकाप्रभृतिभ्यो दाणग्रहविलासस्य लालसा अद्यैव सिद्धा ।

भवद्विधानामिति पाठान्तरम्.

निधानं निधिः तद्वदाचरति निधानायते ।

वृन्दे वनान्तरालेऽकरालाणां मरालानां ध्वनिधोरणी धुनीदक्षिणे श्रूयताम् ।

तुलाकोटिर्नूपुरः ।

शोणे दुकूलोत्तमे कथम्भूते कुण्डलतया कुण्डलीकृतत्वेन क्ÿप्ते मूर्धा येन तस्मिन। तदपि एकं भूषणमिव तत्न तु दूषणमिति भावः । अचटुलां सुस्थिरः बृहत्तिमिरमण्डलोपरिस्तोकमार्तण्डमण्डलं तदुपरिस्थिरविद्युन्मण्डलमिव शिरसि शोभैवेति भावः ॥

दूरे पश्य तथाविधाभिरभितः स्मेरा सखीभिर्वृता

अहो चञ्चलाभिः सहचरीभिः पुनः पुनरुद्दीपितया राधिकया आखण्डलकोदण्डलतया इव जलदमण्डली मण्ड्यते निजमाधुर्येण वृन्दाटवी । पक्षे, चञ्चलाभिर्विद्युद्भिः सहचरीभिः सहगामिनीभिः । आखण्डलकोदण्ड इन्द्रधनुः तच्च स्वरूपतः पीतवर्णमपि नीलवर्णारुणश्वेतादि किर्मीरितम् । दार्ष्टान्तिके विविधमणिभूषणादिवत्त्वेन तथात्वम्.

यन्मल्लक्षणं जनं निकृष्टमपि बहु यथा स्यात्तथा मेने । अभीष्टां प्रेष्ठामपि रमां लक्ष्मीं तृणमिव त्यजनत एव ईर्षापन्नामीर्षावतीं सोऽयं मल्लक्षणो जनः वृन्दारूपः यस्या दास्यमपि प्राप्तुं नार्हतीत्यर्थः ।

वासयितुं सुगन्धीकर्तुमिति तद्वर्णयित्र्या मत्सरस्वत्या एव माहात्म्यं भविष्यति न तु वर्णनीयायास्तस्या इति भावः ।

षुषमा शोभा भूयसि बहुतरे दूरेऽपि किं पुनर्निकटे इति भावः । सुधा अमृतं मधु च चन्द्राणामावलिः पद्मानामाली श्रेणी पक्षे चन्द्रावली यूथेश्वरी पद्माली लक्ष्मी समूहश्च तत्पक्षे सुधातोऽपि शुद्धा ।

एषोऽपि कियान्तस्या उत्कर्षः ?

आगन्तव्यमिति पाठान्तरम्.

अहो वनलेखाया लोचनलोभनीयता ।

इयं वनालिर्वनश्रेणी वनरूपा सखी च । ध्वजाद्यैरङ्किताभिः पदततिभिः अलङ्कृता उज्ज्वला स्वाधीनभर्तृकेवेति भावः । नखरेषु कृष्णस्य नखेषु लुठितं कुट्मलं तच्चयनकाले यस्याः सा । पक्षे, नखराङ्कितस्तना इत्यर्थः । धिनोति प्रीणयति कृष्णसम्भुक्तस्वसखीमिव दृष्ट्वा सुखमेव प्राप्नोतीत्यर्थः । धुनोति कम्पयति इति तद्दर्शनेन ममाप्यौत्सुक्योदयादिति भावः । कम्पः सात्त्विकविकारः ।

स्मित्वेति वनाङ्कदर्शनेनैव तवाद्य गाम्भीर्यं विगलितमभूत। आस्तां तद्वेणुमाधुरीवार्तापीत्याह सदेति । तिरश्चामित्यतिचपलानां ज्ञानशून्यानामपि समाधिश्चित्तैकाग्र्यमतिदृढमतिस्थिराणां ज्ञानवतीनामपि भवतीनां चापल्यं विचारशून्यत्वं च भावीत्यहो विपरीतवैचित्रीकारित्वं वेणोरधुनापि भवत्यनुभूतमेवेति भावः ।

अपि नाम अतर्कितमागत्य हैयङ्गवीनोपहारिणीनामस्माकं मार्गमद्य रोत्स्यति व्रजेन्द्रनन्दनः ।

सखि ललिते इदानीं प्रस्थानावसरे ईषद्विहस्य किं भणितं भगवत्या ।

अपूब्बो इति पाठान्तरं.

एवं भणितमद्य युष्माकं कोऽप्यपूर्व उपस्थितो दृश्यते लाभः ।

ललिते कथाप्रसङ्गे पृच्छतां महातापसी सर्वज्ञा तत्रभवती पौर्णमासी ।

किं तत्प्रष्टव्यं ?

पूर्वभवे नान्दीमुखीप्रभृतिभिः कीदृशं महाव्रतं कृतमिति ।

एतासां महाव्रतकारिता कथं त्वया तर्किता ।

सहा च्चेअ इति पाठान्तरम्.

हद्धी खेदे । अयि मुग्धे त्वमपि एवं पृच्छसि । यत्तस्य मन्दान्दोलितमकरकुण्डलकिरणपरागकन्दलीसुन्दरस्य मुखारविन्दस्य आश्चर्यं स्वप्नेऽपि सुदूरतो युष्मादृशीनां दुर्लभगन्धलवं महामाधुरीमकरन्दं नेत्रेन्दिन्दिरैर्नेत्ररूपभ्रमरैस्ता नान्दीमुखीप्रभृतयः सर्वदा अनिवारितं पिबन्ति । तद्भणामि परमाभीष्टानुपलम्भमुर्मुरज्वालितानां युष्माकमपि तत्र महाव्रते दीक्षा सर्वदैव युक्ता । यथा तासां नान्दीमुखीप्रभृतीनां पदवी भाविनी भवेऽपि न दुर्लभा भवेत। मुर्मुरस्तुषाराग्निः । युष्माकमिति सख्यनैक्यात। औत्सुक्यं तु स्वस्यैवातिशयितुं तास्वारोपितम् ।

राधे ! नान्दीमुखी प्रभृतितो गोपकन्यागणतश्च किं वा अविशेषेण सर्वगोकुलवासिजनतोऽपि कापि एका महाभागिनीकृतमहाव्रतलक्ष्या लक्ष्यते ।

विशाखे, का खल्वेषा पुण्यवतीनां शिखामणिः ।

त्वत्तः का ईदृशी अन्या द्वितीया ।

सखि विज्ञातं सत्यं कथयसि ।

कलिता गहना या केलिमय्यः काकल्यस्ताभिः । श्लेषेण कलिः कलहो लान्ति सर्वतो ददातीति तां सीधुर्मधु ततश्च मत्ता मुखरा जगदुद्वेजिकापि तपोबलेन तथाभूताभवदिति भावः । यद्वा, तया अतिसौभाग्येनैव अधरमधुपानं लब्धं तेन च सा उन्माद्यभूतीकृता न तु तस्याः श्रेष्ठाया औत्पत्तिकः स स्वभाव इति भावः ।

सत्यं, मुरलीकूजिततरलीकृतधीरमानसा गौरी । उत्तमवंशोत्पन्ना साराहीना महासरसमधुरा । मुरली कीदृशी कूजितेन तरलीकृतं धीराणामपि मानसं यया सा । राधापक्षे, मुरल्याः कूजितेन तरलीकृतं धीरमपि मानसं यस्याः सा । गौरी अरुणा पक्षे, पीता गौरोऽरुणे सिते पीते इत्यमरः । उत्तमवंशाद्वृक्षविशेषादन्वयविशेषाच्च उत्पन्ना सारेण अहीना युक्तेत्यर्थः । त्वचि सारत्वात्महासरसी च रसिका च सङ्गीतरसिकत्वात। पक्षे, सा राही नाम सा राधानामेति भाषाश्लेषः हासरसे परिहासरसे तत्कर्तृतया तत्कर्मतया मधुरा माधुर्यवर्षिणीत्यर्थः ॥

तिमा इति । अःउरुब्बेण इति क्वचित्नास्ति.

श्लिष्टमर्थमवगम्याह हलेति कस्माद्धससि इति त्वयेदं श्लेषेण हास्यमात्रं क्रियते मयि तद्याथार्थ्यमालक्ष्येति भावः । मन्दभागिनाप्यनेन जनेन आत्मानं प्रणयिजनानां प्रसादात्तन्मुखमण्डलं द्वित्रिबारमपि दृष्टमस्ति तथापि प्रकृतिमादकेन तेनापूर्वेण तस्य माधुरीमधुना हृदयमुन्मथ्य तथा सर्वं विस्मार्यते । यथा प्रणिधानेन प्रेक्षणमपि दुर्लभम् ।

श्लाघ्यते कलिलकेलिकाकलीति पद्येन व्यञ्जितमेवार्थं सम्प्रत्यतितारतम्येनाभिधयैवाह—तपस्याम इति । बिम्बाधरमुररीकृत्य अत्र प्रकरणे सर्वत्र कान्तविश्लेषेण जनितमौत्सुक्यमेव सञ्चारी तदप्राप्तिकारणस्य स्वायोग्यत्वस्य कल्पनया दैन्यं च स्थायित्भावोऽनुराग एव अप्राणिन्यपि जन्मलालसा तस्यानुभावः अतिशयेन संबद्धहृदयाः ग्रस्तमनसः ॥

यद्गोवर्धनः पृष्ठतः संवृत्तः । तद्दक्षिणे गोविन्दकुण्डवर्तिनीमनुवर्तामहे वर्तनीं प्रस्थानम् ॥

परिहृतान्यनारीस्पृह इति सर्वमाधुर्यस्यैकत्र लाभादिति भावः ॥

अहो मानसगङ्गाया उत्फुल्ले कमलकलापे रोलम्बानां भ्रमराणां काकलीकलकलस्य कोमलता ॥

मदकलं मत्तमपिङ्गैः सम्यक्पीतैः स्फुरनधरकायः कायस्योत्तरभागो यस्य अत्र परागमधुकरभ्रमररमणीनिरोधध्वानोद्धत्यपदेशेन पीतवसनकृष्णगोपरमणीनिरोधमिथो वाक्कलयो भाविनोऽर्था ज्ञाप्यन्ते इत्युपन्यासोऽयं सप्तस्वङ्गेषु प्रथममङ्गम् । यदुक्तमुपन्यासः प्रसङ्गेन भवेत्कार्यस्य कीर्तनम् ।

नूनं वृन्दया किमपि हृदये कृत्वा इदं व्याह्रियते । हला वृन्दे धन्याः कुसुमकीट्यः भ्रमर्य इत्यर्थः । याः कान्तेन समं क्रीडन्ति मन्दभागिनीनां पुनरासां सूर्योपासिनीनां दूरात्क्षणमपि प्रेक्षणं दुर्लभं तेन धर्मकर्ममूढायाः कीटजातेरपि मनुषजातिरियं देवपूजापरापि दुर्भगेति द्योतितम् ॥५४॥

अश्रवणिर्वाधिर्यमविलोकनि रान्ध्र्यमाक्रोशे नञ्यनिरित्यनिः । विन्यासो नाम द्वितीयमङ्गमिदम् । यदुक्तं— निर्वेदवाक्यव्युत्पत्तिर्विन्यास इति कीर्त्यते इति ॥५५॥

रात्रिन्दिवमित्यादिकं वृन्दावचनं मिथ्याकल्पितत्वबुद्ध्या प्रत्युत्तरादानेनावगणितम् ।

राधे कथं मन्थरा इव लक्ष्यसे ।

भारश्रमजनितमेव मान्थर्यमनुमिमाना वृन्दाह हैयङ्गवीनेति । मल्लिकार्पणस्यापि पदं स्थानं सत्तव शिरो व्यथते । कृपां विधेहीति त्वद्दुःखदर्शनमेव मम महद्दुःखं, तदपाकुर्विति भावः ।

कलसस्य भारो न मां मन्थरयति विप्रयज्ञौपयोगित्वेन तत्श्रद्धया उत्साहाधिक्यादिति भावः । गव्यभारशुल्कग्रहणोपाधिकस्य कृष्णकर्तृकमन्निरोधस्यात्यभिलषणीयत्वादिति रहस्योद्भवः । पश्य भूरिः भूषणानामेव, यानि निवारितयापि ललितया प्रसभं हठातर्पितानि स्वसौन्दर्यसौकुमार्याभ्यां तेष्वरोचकतेति ध्वनिः ॥

सखि राधे क्षणं तिष्ठ सुष्ठु उद्भारयामि मण्डनभारमुत्तारयामीत्यर्थः ।

राधाया भूषणपरिधापनं ललितया विपक्षरमणामुखमोटनमात्रतात्पर्यकम् । तच्च तद्विनापि स्वतःसिद्धमित्याह—त्रपत इति । पद्मा चन्द्रासखी त्रपते स्वसख्यास्तादृशसौन्दर्यादर्शनादिति भावः ।

सखि वृन्दे, अत्र यज्ञे हैयङ्गवीनोपहारिणीणां हरिणीनेत्राणां सर्वाङ्गार्हस्य मण्डणकुलस्य मुनिजनादुपलब्धिः श्रूयते । तेन प्रकृतिमण्डनकुलस्येदानीमुत्तारमेवोचितं कृपया ब्राह्मणैर्दास्यमानानामतिसौभाग्यसाधकत्वात्तदानीमेव श्रद्धया धारणेन भारत्वमिति भावः ।

क्रियया यञीयहैयङ्गवीनोपहरणरूपाया आरम्भ एव गमनकाल एवेत्यर्थः । तत्तस्मादेभ्यो ब्रह्मकुण्डादिभ्यः प्राञ्जलं प्रकट अभीष्टप्राप्त्यन्तरायविघातार्थमपि अञ्जलिः क्रियताम् । धृतकनकघटत्वेन शिरसा नमस्कर्तुमशक्यत्वातञ्जल्यैव नमस्क्रियतामिति भावः । कामदेभ्य इति एष्वेव स्थानेषु भवतीनामभिलषणीयकामविलासो भावि नातिदुर्लभ इति सूचितम् ।

सखि चित्रे अतिचित्रा एषा निखिलजीवमण्डलीकुण्डिकाकुलालस्य पुण्डरीकयोनेर्ब्रह्मणः कुण्डेण मण्डिता गिरीन्द्रशिखरस्थली दक्षिणे राजते ।

इत एव भक्तानां वत्सलो हरिरायनामा नारायणो वसते ।

बहुलशिरस्त्वे प्रचुरफणत्वे बहुशृङ्गत्वे च । अयमघरिपुः श्रीकृष्णः पूर्णः । तस्य तुला नारायणोऽंश एव अस्य तु अङ्कादौ तस्य तु भोगेष्वेव उदरे कन्दरादौ तस्य तु उदराद्बहिरेव रतिलीलां तस्य तु शयनमात्रं प्रणयति प्रीणयति स प्रणयं करोति मात्रं प्रेयसीभिस्तस्य तु कथञ्चिदेकया पादसंवाहिकया पद्मयैवेति शेषात्विशेषमञ्चति प्राप्नोति । तेनैतत्कन्दरादावेवाद्य रतिलीलाभाविनीति सूच्यते ॥२२॥

तत्रासम्भावनानिरासेन राधामाश्वासयितुं पूर्ववृत्तां रतिलीलां स्मारयन्ती ललिताह निविडेति किर निक्षिप पत्रवल्लीमलेखीदिति तथैवाद्यापि लिखिष्यतीति विश्वस्ता भवेति भावः ।

अन्योन्यमन्त्रेण यत्स्यात्तज्जानन्ति जनान्तिकम् ॥

बलाका बकपङ्क्तिः, चञ्चला विद्युत्, अम्बुदो मेघ इति क्रमेण हारपीताम्बरश्रीकृष्णेष्वारोपिताः ।

चम्पकलते ! न खल्वयमम्बुदः पश्य एष कण्ठलम्बिविस्फारितहारः पीताम्बरो गिरिनितम्बालम्बते । तत्पुष्पितोऽस्माकं मनोरथशाखी । विरोधो नाम तृतीयमङ्गमिदम् । यदुक्तम्—भ्रान्तिनाशो विरोधः स्यादिति ।

गिरिशिखरभाक्सनम्बररुचिमाकाशस्य कान्तिं गौरीं शुक्लामुरीकुर्वन। पक्षे वस्त्रकान्तिं गौरीं पीतां जगदेव वंशस्तत्र मदनघूर्णैव घुनः तत्समूहः पक्षे चन्द्रिकास्पर्श एव वंशजातौ घुन उत्पद्यते इति लोकप्रसिद्धेः । अत्र मदनघूर्णेत्युन्मादः । धृतिध्वान्तमिति चापल्यम् । दृशां बन्धुरित्यौत्सुक्यमिति सञ्चारिभावत्रयम् ॥२६॥

मदनवेदनया उन्मादनमेव व्रत तदेव प्रणयितुं शीलमस्य तेन उरसा वक्षसा इति वक्षःस्थलं दर्शयति ॥२७॥

असकृदनुवारमेव नयनयोः पन्थानं प्रपन्न एव एकस्याप्यङ्गस्य प्रतीके एकस्मिन्नवयवेऽपि या श्रीः स्फुरति, तस्याः श्रियः शोभाया लवं लेशमपि पातुमियं दृङ्मदीया न समर्था । तेन तया शोभालव उत्तरङ्गया उपचितया मुहुर्विप्लुतेयं पातुमसमर्था व्याकुलायते इति भावः । अयमनुराग एव सदानुभूतवस्तुनोऽप्यननुभूतत्वमननमयः ॥२८॥

नवः सदा स्यादिति रागोन्मद इत्याभ्यां तस्य नित्यनवत्वं सम्भवे शश्वत्तथा भानं भवेत्, किमुत द्वयोरिति द्योतितम् ॥२९॥

कर्णे स्फुरन्ती या मणिशिला कुण्डलगता तस्या उपरि संक्ष्णुवाना तेजयन्ती मद्धृदयमेव लक्ष्यीकृत्य व्यद्धुमिति भावः । तत्प्रयोजनं स्वयमेवोन्नयन्नाह भ्रूधनुः कम्पनमात्रेणैव सूचितं लुञ्छनं मत्सर्वस्वापहरणं यया सा अतो मद्धैर्यधनं प्रत्यक्षमेव वनमध्ये बलाद्धरिष्यन्तीयं वा जनिमत्फुत्कारशङ्कया प्रथमं बाणांस्तेजयति किं च तत्तेजनं दर्शयन्त्येवेयं मामपि सर्वजगद्धैर्यसर्वस्वहारिणमपि व्यग्रीकरोति तैर्विद्ध्यन्ती सती किं करिष्यति तन्न जाने इति भावः ॥३०॥

विटङ्कः कपोतपालिका परिवादिनी सप्ततन्त्री वीणेव स्वराधिकेयमुपलब्धा । पक्षे स्वरैः षड्जाद्यैरधिका तारो मुक्ताहारः उच्चशन्दश्च तस्य श्रिया शोभया सम्पत्त्या च मूर्च्छितः वर्द्धितः एकविंशतिमूर्च्छनाप्रापितश्च । वल्गुः शोभनो रागोऽभिलाषो वसन्तादिरागश्च यस्यां सा श्रुतिः पाल्याः कर्णप्रदेशस्य पालिः कर्णलताग्रे च इति मेदिनी । द्वात्रिंशतिश्रुतिसमूहस्य च भूषां विस्तारयन्ती कलाभिः कलेन मधुरास्फुटध्वनिना च अञ्चिता पूजिता तारश्रिया नयनकनीनिकाशोभया सूचितानुरागा इति वा ॥३१॥

गोकुलानन्द युष्मत्पार्श्वे तिष्ठन्तीं मां यावदिमा न प्रेक्ष्यन्ते । क्षणं तावत्प्रच्छन्ना भवामि, स्वीयसूचकता दोषाच्छादनार्थमिति भावः ।

दोहदमौषधविशेषः । दम्भोलिर्वज्रः । तर्वादीनां यथाक्रमं हर्षमौनौत्सुक्यचापल्यानि कुर्वन्नपि आकाशादीनामिव पूर्वपूर्वधर्माणामुत्तरोत्तरेषु सम्भाराद्राधाया हर्षादीनि चत्वार्येव युगपदेव विस्तारयतीति भावः ॥३२॥

“पादयुगमप्या” इत्यत्र यतेरेकवर्णविच्छिन्नत्वात्यतिभङ्गदोषः, “पादयुगलं चारिप्सते” इति पाठेन सुसमाधेयः । इति सुरेन्द्रनाथशास्त्री.

राधाया देहे स्मरबान्धवेन यौवनेन वयसा सह सन्धातुं सन्धिं कर्तुमिच्छति सति बाल्यवयसाक्रमत उपेक्षमाणत्वेन निःसहायतया स्थातुमशक्यतया विचार्य प्रबलेन प्रबलसहायेन यौवनेनैवात्मरक्षणार्थं स्वस्मिन्नधिकारं तस्मै दित्सति सतीत्यर्थः । वक्त्राम्भोजं कर्तृ उदात्तेन कृपौदार्यमाधुर्यादिगुणमयेन नर्मवचसा सख्यं स्वसर्वस्वार्पणेन विनिर्मातुमिच्छति बाल्यसहचरप्रहसितबहुव्यर्थालापेनोपेक्ष्यमाणत्वादिति भावः । उदात्तः स्वरभेदे वाचान्तरे दयात्यागादि युक्ते च इति मेदिनी । तथैव भङ्गुरवीक्षितेन ऋज्ववलोकनस्य प्रोषितत्वादिति भावः । मैत्रीमीप्सति प्राप्तुमिच्छति आरिपस्ते आरब्धुमिच्छति लीलामन्दगतेनेति द्रुतचपलस्य सहसी तिरोधानादिति भावः ॥३३॥

अपवार्येति । अन्यस्य रहस्यकथनं तदनाकर्णितमपवारणम् । यदुक्तं—रहस्यं कथ्यतेऽन्यस्य परावृत्त्यापवारितं [ना.च. २१२] इति ॥

भङ्गिमा इति सुरेन्द्रनाथशास्त्रिसंस्करणे.

स्वात्मभासः इति सुरेन्द्रनाथशास्त्रिणा धृतपाथभेदः.

कुवलयं भूमण्डलं तत्रत्यानां युवतीनामक्षिण्येव भृङ्गास्तैः स्वाङ्गभासो निजाङ्गशोभा लेहयन्स्वादयन। कीदृशीः कुवलयस्य नीलोत्पलस्य दलानां लक्ष्मीतोऽपि लङ्गिमा मनोहरत्वं यासां ताः । अनो बहुव्रीहौ [पाण् ४.१.१२] इति डाप। तत्र गतिबुद्धी [पाण् १.४.५२] इत्यादिना न कर्मत्वं लिहेः, आस्वादनार्थत्वेऽपि प्रत्यवसानार्थताभावात्प्रत्यवसानस्य गलाधःकरणार्थत्वात। लेहनस्य तु तद्विनाभावस्याभावात्यथा “गोभिर्वत्सा लेलेह्यमाना अभूवन्” । अत्र स्वार्थान्तरसंक्रमितवाच्यध्वनिनैव तथात्वम् । वस्तुतस्तु, अक्षिपक्षे गलाधःकरणस्य प्रसङ्ग एव नास्ति, भृङ्गपक्षेऽपि नीलोत्पलदलशोभानां न तथाकरणं, किन्तु सौरभ्यवहनमात्रम् । “अपि मे धृतिं कवलयति, न पुनर्मय्येव दोषः” इति भावः ॥३४॥

स्थूले स्थौल्यवति श्लेषेण जडे । त्रिषु स्थूले जडेपि चेत्यमरः । मौलिश्चूडामणिः । श्रुतिसेविनोः कर्णपर्यन्तगामिनोः श्लेषेण वेदाभ्यासरतोः ॥३५॥

अवतरत्येष हठिलतारभटीवणिज्यमहासार्थवाहनाथः । तस्मादपेक्ष्यमाणा इव वयं सविश्रम्भं चलामः । अन्यथाऽस्यावज्ञायां व्यञ्जितायां तां स्वविषयां ज्ञात्वाऽस्मानयनमधिकमुद्वेजयिषति इति भावः । इवेति प्रेक्षणस्य तदविज्ञातमात्रत्वस्य विवक्षया ॥

सखि ! लघु लघु याहि, यदेषा स्फुटितोपलममण्डलीबन्धुरा वसुन्धराधरतटी ॥

अमूकमञ्जीरेति महादानी महाराजस्य ममाग्रे वादित्रवादनपूर्वकमासां गमनं स्वमहागर्वं मदनादरं च सूचयतीति भावः । व्याघोटनाय परावर्तनाय ॥८३॥

सुट्ठु णं नोतिन्सुरेन्द्रनाथशास्त्री एदितिओन्.

हन्त सगर्वा गव्यविक्रयिण्यः कथं घट्टचत्वरनाथमनाद्रियमानाः स्वच्छन्दं गच्छन्ति भवत्यः । तस्माद्व्यावृत्य सुष्ठु नोऽस्मान्प्रबोधयन्तु ।

अहो आत्मनो माहात्म्यं मा हरत । तूर्णं परावर्तयत ॥

भोः पृष्ठमांसाद कथं त्वया परावर्तिताः स्मः । क्रूराभिधायी पुरुषः पृष्ठमांसाद उच्यते (इति त्रिकाण्डशेषः) ॥

प्रथमं तावत्क्षौणीविलग्नमस्तकाः सत्यो वन्दन्तां महाघट्टदानीन्द्रं भवत्यः ॥

किं वन्दनार्हो न भवति वल्लवेन्द्रनन्दनः । किन्तु लोकोत्तरस्य यज्ञस्य हैयङ्गवीनोपहरणे आरब्धव्रतानमस्माकं ब्राह्मणेतरवन्दनं भगवत्या पौर्णमास्या निषिद्धम् । साध्वसं नाम चतुर्थमङ्गमिदम् । यदुक्तं— मिथाख्यानं तु साध्वसमिति ॥

(विहस्य) इति अधिकपाठः.

एसो बुंदाअणभूबिंदारओ इत्यंशः सुरेन्द्रनाथसंस्करणे नास्ति.

विसाखे ! एष वृन्दावनभूवृन्दारकोऽस्मन्महादानीन्द्रोऽपि इदानीमारब्धवतो वर्तते तद्व्रतिनीभिर्व्रतिनो वन्दने दूषणं नास्ति ।

कीदृशं तद्व्रतम्? ॥८८॥

नित्यमबलेति अबलेभ्यो वस्त्राद्युपार्जनाऽसमर्थेभ्योऽर्बुदसङ्ख्यविप्रेभ्यो वसनप्रदानम् । पक्षे अबलाब्बुदानां दशकोटिसङ्ख्ययुवतीनां द्विजवसनानामोष्ठाधराणां दानं खण्डनमोष्ठधरो तु रदनच्छदौ दशनवाससी इति दन्तविप्राण्डजा द्विजा इत्यमरः । दो अवखण्डने ॥

ततो युक्ता एषा घट्टाधिकारिता यदिदृश्या महापदव्याः समारोहणं विना निजमहाव्रतस्य रक्षणं दुष्करम् । पुरग्रामादौ भव्यजनसमाजे पराङ्गनार्बुदवर्षणस्य दुःशक्यत्वातिति भावः ॥

अधरखण्डनश्रवणोद्धुद्धस्मरविकारां राधां जानन्तत्सखीस्तथाभूतस्वज्ञानं ज्ञापयन्नपि तदात्वोचितामवहित्थामालम्बमानः पृच्छति । अभ्युक्ष्येति निष्कं पदकमभ्युक्ष्य पतयालुना पतनशीलेन स्वेदेन तथा निष्कम्पतया स्तम्भेन च विशेषेण अवस्थिता विशिष्टेत्यर्थः । तस्याः औत्सुक्योत्थं जाड्यं जानन्नप्यपह्नुत्य साध्वसत्वं बोधयन्नाह पञ्च आल्यः सख्यः यस्याः सा इति वृन्दाप्येका सखी तया सहैकीकृत्योक्तिः ससहायापि प्रथमं कु¸इचितलोचना भीता तः पञ्चालिकाधर्मं पुत्तलिकास्वभावं कथमवाप व्रीडोत्थमपि लोचनकुञ्चनं भयोत्थत्वेन प्रकाशितम् । पञ्चालिका पुत्रिका स्यादित्यमरः ॥

निभृताया उक्तेर्मुद्रामेव न तूक्तिमित्यथ तया तु एषा त्वा महादानीन्द्रं वञ्चयित्वा बहुद्रव्याणि नीत्वा गच्छतीति साध्वसादनुमीयते इति चौरस्य लक्षणमेवैतदिति तत्सखीर्ज्ञापयति । प्रियवयस्य दिष्ट्या वर्धसे इति तया अन्वेषणीयं लक्षणमियं साध्वसेनैव प्रकटीकरोतीति भावः । यतः सखीसहितापि साध्वसेन स्तम्भिता ॥

वृन्दा सस्मितमिति । तदवहित्था ज्ञानसूचकं स्मितम् । मृगाधिपतिः सिंहः । क्रोडपक्षे वराहः । पुण्डरीकेक्षणः पक्षे व्याघ्रेक्षणः । व्याघ्रेऽपि पुण्डरीको ना इत्यमरः । एणेक्षणेति अस्या दृघरिणी सिंहादीन्दृष्ट्वा बिभेति तेन च तव मध्याङ्गादि माधुर्यमेव एतद्दृशास्वादितमेव तत्स्वादनोत्थ एवासौ विकार इति द्योतितम् ॥

ललितापालितानां गोपालिकानां कस्मिन्नपि भयशब्दोऽपि कर्णकुहरं न गतः । तत्राप्यस्य गोकुलरक्षणव्रतस्यास्मद्राजकुमारस्य पुरतः कीदृशं भयं नाम ॥

हे ललामाङ्गि भूषिताङ्गि इति बहुविधभूषणपरिधानस्यैवायं गर्वः तद्गर्वखण्डनाय मया स्वहस्तेनैव भूषणान्युत्तारितान्यद्य भविष्यन्तीति भावः । यद्वा हे ललामाङ्गि आसां राधादीनां तवाङ्गमेव ध्वजभूतं तदद्य तवोत्कर्षासहिष्णुना महादानिना मया शुल्कार्थमेव धर्षित भविष्यतीति भावः । ललामं पुच्छ पुण्ड्राश्च भूषा प्राधान्यकेतुष्वित्यमरः ।

एदितिओन्रेअद्सापुच्छन्तु.

गोकुलयुवराज पश्य आरोहति भगवान्चण्डमयूखो गगनमण्डलं तस्मादापृच्छेमहि त्वां त्वरितं यज्ञमण्डपोपलम्भनस्य ॥

ललिते अद्य युष्मत्तः शुल्कं गृह्णीतुं न खलु युक्तम् । यत्सङ्गवेकाल एव हैयङ्गवीनभारभरभङ्गुरमध्यमा आत्मस्निग्धा भवत्यो घट्टे आगत्य वर्तन्ते । तस्माद्रिक्तत्वदूसणनिवारणार्थं किमपि अल्पमनुमन्य यथा सुखं यान्तु । अल्पार्थे थोअं शब्दः । अनुमन्य अनुमतिपूर्वकं दत्त्वेत्यर्थः ।

अहो अदृष्टपूर्वं हि खलु गोवर्धने घट्टदानम् ।

हन्त सख्यः प्रथमं सामघटना एव युक्ता ॥९८॥

जणे इति पाठान्तरम्.

गोकुलानन्दन एकग्रामवासिषु विशुद्धप्रकृतिषु मादृशजनेसु न युक्तं किल सुश्लोकस्य सल्लोकमौलेर्युष्मादृशस्य प्रातिकूल्याचरणं तदनुजानीहि त्वरितम् ।

हन्तेति अनुकम्पायां हे सुकुमारीति यथा तव अङ्गस्य सौकुमार्यं तथा वचनस्यापि किन्तु साम्प्रतं ममाङ्गीकृतस्यास्य घट्टकर्मणस्तद्वैपरीत्यमेवेत्याह सुष्ठ्वति सुष्ठु निर्बध्नता इति यस्तस्य निर्बन्धः स केनाप्यन्यथा कर्तुमशक्य इति भावः । अस्वैरी अस्वतन्त्रः ।

किं खलु कंसेन ।

तदा केन ॥१००॥

अम्मो इति सचकिताश्चर्ये अहो क्वापि न श्रुत एष महामन्मथनामा चक्रवर्ती ॥

आश्चर्यमाश्चर्यं महामन्मथोऽप्याभिर्न श्रुतः महाकटके प्रमदमङ्जरी नाम यस्य राजधानी । मधुमुखमहाबलविजयप्रमुखा यस्यामात्यवरा उत्तमा रामावली यस्य विहारपदम् । राजपक्षे कटकः सेनासन्निवेशः कन्दर्पपक्षे गोवर्धननितम्बः वक्ष्यमाणप्रकारेण स च महामन्मथ कृष्ण एव । अतएव राजपक्षे मधुमुखादयः स्पष्टार्थाः पक्षे मधुशब्दो मुखे आदौ यस्य स मधुमङ्गमित्यर्थः । महाबल इति महत्सुशब्दयोरैक्यात्सुबल इत्यर्थः । विजय स्पष्टार्थ एव उत्तमा रामावली उपवनश्रेणी पक्षे रामाश्रेणी ॥

साच्छुरितं सोत्प्रासस्मितम् । ललिते अतो दानमपरिहरन्नपि व्रजेन्द्रनन्दनस्त्वया नासूयितव्यः । यत्परितश्चोरचक्रवर्तिनश्चराश्चरन्ति ।

नीतिज्ञासीति चम्पकलताद्या अपर्यालोचितभाषिण्यो नीत्यनभिज्ञा न मत्प्रतिवचनार्हा इति भावः । शुल्कं घट्टादिदेयवस्तु ।

मोहन घट्टप्राङ्गणे कुलङ्गनानां तिलमपि विलम्बनं विडम्बनमेव ॥

घट्टदाणे

आदाणे

गोकुलानन्द तत्त्वं शृणु । दीयमाने कपर्दिकामात्रेऽपि घट्टदाने याज्ञिकघृतमशुद्धं भवति इति श्रूयते । न पुनरस्माकं पञ्चताम्रिकादाने कातरता । ताम्रिका ताम्रचतुर्थांशः विंशतिकपर्दिकाः । तस्मिनदाने इति पाठे कार्षिके ताम्रिके पण इत्यभिधानादाशीतिः कपर्दिकाः ॥

सखि राधे ! महाभारेण क्लिष्टासि तस्मादत्र घटिकां व्याप्य विश्रामार्थमवतारय घटिकाम् । घट्टशुल्कार्थमेतैर्बलादेव तारणात्श्रमापनोदनमिषेण अस्माभिरेव स्वयमवतारणं समञ्जसमिति भावः ।

सुबल अलं ताम्बूलेन यत्कथितमेव व्रतिन्यो वयमिति ॥

सुबल, किं मे मुखं पश्यसि । अविश्वासिनी विशाखा मह्यं कुप्यन्ती इदं भणति व्यञ्जनावृत्त्या कथयति । घट्टपालैः ठगबटिकाः प्रयुज्यन्ते इति प्रसिद्धिः श्रूयते । ठगबटिकाः सर्वस्वापहारार्थाः मनोदेहेन्द्रियमोहिन्यो गोलिकाः औषधविशेषक्ÿप्ताः । तदलमेषां भुजङ्गलतापल्लवेन ॥

बिम्बोष्ठीनामलं वस्ताम्बूलेन स्वभावादेवोष्ठरागः ताम्बूल कदा वा भवतीभिरास्वादितं नास्ति तत्राभ्यास इति भावः । तस्मात्कल्याणी भव यतुर्वरितं वीत्टिकापञ्चकम् ॥

उपभुज्येति तासां विश्वासार्थं द्विजैर्दन्तैर्विप्रैश्च संस्कृतम् ॥

अस्य कामुकीलक्षोपभोगेन सुष्ठु पावनस्य मुखबिम्बस्य यदि उद्गारं न ग्रहीष्यति मे सखी कथमात्मानं पवित्रयिष्यति ॥

ललिते ! विपरीतकारिणो वयं दिष्ट्या युष्माभिरेवोपदिष्टाः । तदिदानिं दानमेवानुमन्यताम् । विपरीतकारिण इति अनादरयोग्यासु आदरदानात॥

किं यूयं ब्राह्मणा यद्वो युष्मभ्यमस्माभिर्दानं किलानुमन्तव्यम् ॥

भवति चम्पकलते एष कुलिनोऽनुचानः ब्राह्मणोऽस्मि । अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः इत्यमरः । ततुदरपूरं दीयतां समत्स्यण्डिकं हैयङ्गवीणम् । मत्स्यण्डी फाणितं खण्डविकारः इत्यमरः ॥

सखि चम्पकलते ! घट्टीच्छलेन एते उदरम्भरा भिक्षन्ति । तद्दीयतामेका काकिणी । यथा तथा चनकान्क्रीत्वा गाश्चारयन्तः चर्वन्त्विति भावः । काकिणी विंशतिकपर्दिकाः ॥११३॥

हे परमाद्यून ! उदरभरणमात्रैकपरायण । आद्यून स्यादौदरिक इत्यमरः । महादानिनां महादात्èणां पक्षे घट्टदानग्राहिणां महापात्रं सम्प्रदानरूपोऽमात्यश्च ॥११४॥

हला ललिते ! एते महादानिनामिति अत्मानं श्लाघन्ते । तत्स्फुटं परमोत्तमवर्णानां वो सर्वोत्तमं पदार्थं दास्यन्ति । परम उत्तमो वर्णो रूपं ब्राह्मणजातिश्च यासां ताभ्य इति चतुर्थ्यर्थे षष्ठी प्रकृतेः । वर्णाः स्युर्ब्राह्मणादयः इति अमरः ॥११५॥

स्मित्वेति वाचिकं स्वयं दूत्यं तस्या अत्यौत्सुक्यविजृम्भितं ज्ञातवानिति भावः । हे वरवर्णिनि पक्षे परमब्रह्मचारिणि । वर्णिनो ब्रह्मचारिणः इत्यमरः ॥११६॥

विसङ्कटे पृथुनि क्व कियत्तप इति । तत्सिद्धक्षेत्रं तपः परिमाणं च सर्वैर्दुर्ज्ञेयमेव यतस्तद्विधो भाग्यवानन्यः कोऽपि मा भूत। मद्विधास्तु बह्व्य एव कृताल्पसुकृता अत्र वर्तन्ते इति भावः ॥११७॥ द्रष्टव्यं रसामृतसिन्धौ ३.३.९९.

ललिते दृष्ट्वा पतिव्रतासु मादृशीषु विदूषकता तव निकुञ्जराजस्येति त्वमेवानर्थकारिणी अत्रास्मान्बलादनैषीरिति तां प्रत्युपालम्भः ॥११८॥

तव मुकुलितामिति सुरेन्द्रनाथसंस्करणे.

रसाललतामाम्रलतां कूटं कपटं द्विरेफपतिं श्रिता तेन तवेवेयं भोग्या द्विरेफः को वराक इति वस्त्वर्थः । पक्षे द्विरेफो बर्बरेऽपि चेत्यमरः । अस्याः सर्वगुणमण्डितायाः पतिर्बर्बर एव इयं च विरुद्धलक्षणयैव पतिव्रतेति तां प्रतुपालम्भः । न ते सुलभेति शिरश्चालनार्थेन नञा वस्त्वर्थः । कुहूकण्ठेति दूरतोऽपि कण्ठस्वरश्रवणमात्रेणैव इयं वशीभवति किं पुनरिदानीं दर्शनादिति भावः ॥११९॥

ऋजुवृत्तिरिति । शुद्धचरितजनस्य कुटिलजनसङ्गेन वैगुण्यमेव भवति । तदितो वयं शीघ्रं निर्गच्छाम इति भावः । गुणच्युतिपक्षे गुणाच्च्युतिम् ॥१२०॥

हन्त घट्टाध्यक्ष घट्टाधिकारो यदि युष्माकमभीष्टः, तदा बहुजनसंघट्टे यमुणाघट्ट एव चत्वरं युक्तम् ॥१२१॥

अयि विशुद्धचित्ते सखि चित्रे ! एते शुल्कलक्षेण लुण्ठितुमेव अत्र दुर्गवने तिष्ठन्ति । तद्विरम ॥१२२॥

मित्रायितं मित्रवदाचरितं हितोपदेशात॥१२३॥

प्रियवयस्य, सत्यं भणसि । पश्य सखीनां सहस्रं राधिकामनुसर्पति इदानीं खलु चतुष्टयमेव ॥१२४॥

प्रभात एव कुन्दलतया सार्धं यज्ञे प्रेषितं मया सखीकुलं तेन यज्ञसमाधानं प्रवृत्तमेव अतो निश्चिन्ततयैवात्र विलम्बनीयमिति चेतस्याश्वासो व्यञ्जितः ॥१२५॥

सुबल! निश्चितमागता विद्धि सखीः । नहि वसन्तलक्ष्म्या अवतारे संवृत्ते कलकण्ठीनामनुपलम्भः सम्भाव्यते ॥१२६॥

ततः तासां सखीनां चरणलक्ष्मीभिर्युष्माकं घट्टोऽशोकत्वं लब्ध्वा उत्फुल्लिष्यति सुलक्षणयुवतीनां चरणाघातेनाशोकः प्रफुल्ली भवतीति प्रसिद्धिः । तेन च ता अत्रागत्य घट्टे पादाघातमेव कृत्यागमिष्यन्ति । ततश्च भवन्तोऽपि परमाश्रयणीयं निजोपजीव्यभूतं घट्टमिमं प्राप्ततत्पदाघातत्वेन जातभाग्यातिरेकं सफलं मंस्यन्ते इति स्वपक्षाणां गर्वसूचितः ॥१२७॥

ततश्च तच्छ्रवणमात्रेणैव ताः सखीरपि निरुद्ध्य विजिहीर्षोः श्रीकृष्णस्य सद्य एव तदाकारचित्तवृत्तिरभूदित्याह सव्यतो विलोक्येति ॥१२८॥

जगदित्यस्य नारायणमयं धीराः पश्यन्ति परमार्थिनः इति परार्धमिति पौराणवचनस्यार्थः प्रत्यक्षीकृतः ।

हसिज्जसिमिति सुरेन्द्रनाथसंस्करणे.

भो प्रियवयस्य ! असत्यं न हस्यते ललितया, यत्कमलकिञ्जल्करेणुपुञ्जपिञ्जरिता हंस्यस्त्वया सख्यः क्रियन्ते ॥१२९॥

वयस्य इत्यधिकपाठः सुरेन्द्रनाथसंस्करणे.

पुण्यमहरिति पुण्याहः, राजाहःसखिभ्यष्टचिति समासान्तः टच्प्रत्ययः इति सुरेन्द्रनाथशास्त्री ।

सस्मितमिति औत्सुक्यातिरेकोत्था स्वचित्तवृत्तितदाकारता सत्यैव सद्यो भूदिति भावः । किमस्माकमित्यनेन शुल्कार्थिनो मम शुल्कहेतुकैव तद्दिदृक्षा न त्वन्यार्थेत्यवहित्था सूचिता ॥१३०॥

त्रैलोक्ये कः साहसिकानां शिखामणिस्तिष्ठति यः खलु गोकुलबालिकानां दानं ग्रहीतुं वाङ्मात्रेणापि मनाग्व्याहरिष्यति तत्रापि सूर्योपासिकानामासाम् ॥१३१॥

स्मितं कृत्वेति तद्वचनप्राक्यर्यमाधुरास्वादनहर्षोत्थमत्र स्मितम् । लक्ष्मीर्मुखे यस्या इत्यहो मुखे कोमलाक्षरमयी लक्ष्मीर्निःसरति विरुद्धलक्षणया हे कटुभाषिणीत्यर्थः । दाक्षिण्यत इति एतत्कटूक्त्यनुरूपफलदानसमर्थेनापि मया दाक्षिण्यादेव सोढमिति भावः ॥ उद्योतमाने चक्रवर्तिनीति सद्यः शास्तिसामर्थ्ययुक्तं तत्रापि मृगीदृशां स्त्रीणाम् । तत्रापि ईदृशमौर्जित्यं प्राबल्यमसाम्प्रतमयोग्यम् ॥

ललिते धृष्टघट्टपालघट्टने पतितासि तन्न युक्तमत्र कुण्ठत्वम् । घट्टनं चालनम् ॥१३४॥

चतुरिकाणामिति पाठभेदः.

यौवनगर्वेति तर्हि स एव गर्वः प्रथमं मया खण्डयितुं योग्य इति भावः ॥१३५॥

त्वं चेच्चक्रवर्ती महाराजोऽसि तथैव तवानुरूपा महाराज्ञ्योऽपि दृश्यन्ते इति ता गणयन्त्याह सच्छिद्रेति विषाणिका शृङ्गिका आभिरालिङ्ग्यते इति युगपदेव सदैव सर्वलोकदृग्गोचर एव इति प्रथमं तासामेव यौवनगर्वमवतारयेति भावः । ताः सदैव सावधाना वञ्चयित्वा पराङ्गनास्वाभिलाषस्तव निष्फल इति भावः । अयं धर्षणेनेति वक्ष्यमाणराधास्वाभियोगपूर्वरङ्गो ललितया तन्निष्ठ एव निर्मितः । तस्य चक्रवर्तिनो घट्टीपालतया इति भयानकवन इति सुन्दरीजनस्वच्छन्दाकर्षणलोभात्राजन्वति देशे तु तदशक्यत्वादिति भावः ॥१३६॥

हन्त दुर्मदमुखराः न खलु युष्माभिर्हेलितुं युक्त एष महादानस्याधीशः । भवतु अधीशस्ततोऽपि किं श्लेषेण भवतु अहीशः भुजङ्गश्रेष्ठ इति ॥१३७॥

नकुलस्त्रियो नकुल्य एव तासां धर्षणे भुजङ्गेशः महासर्पः पक्षे महाकामुकः कुलस्त्रीणां धर्षणेन प्रयोजनेन क्षमः आसां धर्षणार्थं कथं समर्थ इत्यर्थः । पक्षे धर्षणे कथं न क्षमोऽपि तु क्षम एव यतो यस्मातेता नकुलीः कुलस्त्रीश्च दशनैर्दशन्सन्मङ्गलं भद्रं नाप्नोति ताभिरपि प्रतिदंशनसम्भवात्लोकनिन्दा राजदण्डादिभ्यश्चेति पक्षद्वयम् । तृतीयपक्षे एता कुलस्त्रीरेव दशन्सम्भुञ्जान एव मङ्गलं सुखमयमाप्नोति न त्वन्याः तासु रागाल्पत्वादिति भावः ॥१३८॥

हृदयङ्गममिति अर्थत्रयानुमोदनज्ञापनम् । अप्रौढद्विजराजेन अर्धचन्द्रेण राजतलिकं ललाटं यस्याः सा । पक्षे अप्रौढद्विजराजो द्विकलचन्द्र इव राजदलिकं यस्याः सा । आत्मनि देहे विभूतिं लब्धा प्राप्ता । विभूतिं कीदृशीं रुचां कान्तीनां नव्यां भूतिरपि देहगता अतिसुन्दरीत्यर्थः । पक्षे रुचां कान्तीनां नव्यां नवीनां विभूतिं सम्पत्तिं प्राप्ता । भूतिर्भस्मनि सम्पदि इत्यमरः । कृष्णवर्त्मा वह्निस्तद्रूपकृष्णस्य वर्त्मनि च विलसन्ती दृष्टिर्यस्याः सा । कृष्णेन वर्त्मना पक्ष्मला इति वा, वर्त्मनेत्रच्छदेऽध्वनि इत्यमरः । विशाखेन कार्त्तिकेयेन । विशाखया स्वसख्या च अञ्चिता पूजिता युक्ता च । विदग्धतां विशेषेण दग्धतां, पक्षे वैदग्ध्यम् । शिवस्य शम्भोर्मूर्तिः । पक्षे मङ्गलमूर्तिः । भोगीन्द्रं भुजङ्गेशम् । पक्षे भोक्त्èणामिन्द्रम् ॥१३९॥

कृष्ण ! अनया कूटवागुरया दुर्ग्रहा ललिता धूर्तहरिणीति युष्मत्सहचरा अपि सुष्ठु जानन्ति । तन्मुञ्च विफलं धृष्टग्रन्थिलत्वम् । तेनाद्याहं ललितैव राधाप्राप्तिप्रतिबन्धिनी तस्याः मया पाल्यमानत्वादिति भावः । तव सहचरा अपीत्यनेन पूर्वपूर्ववृत्तस्वप्राखर्यस्मारणेन तानपि भीषयति ॥१४०॥

सुबलमवलोकत इति अलीकवाग्विलासेनापि सम्मतिरियं पराजीयतामितीङ्गितविज्ञापनम् ।

ललिते ! एते कथं किल न ज्ञास्यन्ति यैस्तदा गन्धफलीहरणे निष्कुटस्वामिना लुण्ठितमणिमण्डलानां सूर्योपासिकानां कासामपि महाप्रभावानां दन्तशिखरेषु तृणगुच्छमरकतैः आरब्धा कापि आश्चर्यलक्ष्मीः प्रत्यक्षीकृता ॥१४१॥

काण्डे अवसरे जैनदीक्षामिति नग्नीकरणं लक्ष्यते अनुजगृहिरे अनुगृहीता ॥१४२॥

अलीअ इति पाठभेदः.

अलमनेन अलोकदर्पडिण्डिमाडम्बरेण ।

सखि विशाखे ! हन्त हन्त कल्ये प्रच्युतानर्घमणिकञ्चनसञ्चयकिरणोदञ्चिताया राधायाः कञ्चुलिकाया उल्लूञ्चनवृत्तान्तं सखीजने आर्यायै विज्ञापयितुं प्रवृत्ते सति मुखमध्यनिक्षिप्ततर्जनीशिखरस्य सुरेन्द्रगन्धर्वनाम अधीरं पुनः पुनर्व्याहरतः कस्यापि दर्पशौण्डस्य महाप्रचण्डस्य सा कापि चाटुग्रथिता कण्ठकाकली कं वा जनं न खलु कारुण्येनार्द्रितवती ?

सुरेन्द्रगन्धर्वनामा हाहा इति । दर्पशौण्डस्येत्यादि विरुद्धलक्षणया शौण्डो मत्तः । कञ्चुलिकाया उल्लूञ्चनेति तन्मात्रसाहसं कृष्णेन कृतम् । जैनदीक्षा किन्तु अलीकगन्र्वगाम्भीर्यमेवेति ध्वनितम् । अत्र मणिकाञ्चनसञ्चयकिरण्त्यादिकं शुल्कमात्रग्रहणार्थकत्वज्ञापनया आर्या समाधानमिति कं वा जनं न कारुण्येनाद्रितवतीति तेन कृपयार्दिभिरस्माभिरेव तस्या अग्रे तत्समाधानमपि कृतम् । अन्यथा न जाने किं फलं तदा अदास्यतेति भावः । समर्पणं नाम पञ्चममङ्गमिदम् । यदुक्तं—उपालम्भवचः कोपपीडयेह समर्पणमिति ॥१४३॥

दुर्लभा अत्र सा आर्या कण्टकाटवी जटिलेत्यर्थः । तस्मात्लुक्कनेऽपि किमप्यवष्टम्भनं न पश्यामि ॥१४४॥

विजयतु सललितानुभावभास्करो यः खलु तस्करविक्रमं कुण्ठयति । ललिताया अनुभावः प्राखर्यजनितप्रभाव एव भास्करः श्लेषेण च ललितोऽनुभावो यस्य तथाविधः ॥१४५॥

काणं सच्छिद्रं तवेति कपर्दापेक्षया सम्बन्धषष्ठी । हे कुमार युवराज! युवराजस्तु कुमारः इत्यमरः । कुमारललिताख्यच्छन्दश्च ॥१४६॥

सखि वृन्दे ! निवार्यतां परस्वग्रहाभिनिवेश आत्मनो वनप्रियः । वनप्रियः कोकिलः कृष्णश्च । इदानीं दुर्मुखशिलीमुखपालिताभिः रसालवल्लीभिः पल्लवहस्तेन पर्यस्तो भूत्वा नवमालिका मल्लीर्युष्मत्सखीर्महोत्सवयतु एषः । दुर्मुखशिलीमुखः द्विरेफपतिः । श्रितेति पूर्वोक्तवत्कटुभाषिणः स्वस्वपतय एव, श्लेषेण शिलीमुखाः शरा इति रसालवल्लीवैरिणः शरा इव अस्मद्द्रोहिण एव ते । ततश्च विरुद्धलक्षणयैव तैर्वयं पालिता भवाम इति स्वाभियोगो व्यञ्जितः । अलिबाणौ शिलीमुखौ इत्यमरः । पल्लवहस्तेनेति । नहि पल्लवचलनमात्रेण कोकिलः शङ्कते । कृष्णपक्षे, युवतीनां वाम्यकृतहस्तवारणं न किञ्चित्करमेव, प्रत्युत प्रेयसः सुखायैव तदिति नवमालिकामाल्य स्रग्विण्यः प्रगल्भाः सख्यः उल्लासिता एव भविष्यन्ति, न तु वारयिष्यन्ति इति स्वाभियोगः ॥१४८॥

विदिताकूत आह घट्टेति । प्रकटार्थे प्रथमे गुहेति द्वितीयार्थे प्रतुक्तिस्तां स्पृहां गिरो गोचरीकुर्विति अभिदह्यैव स्पष्टं कथय अलं व्यञ्जनया इति तस्या अत्यौत्सुक्यनिर्धौतशालीनत्वं प्रकटीकृत्य तां ह्रेपयामास । सेर्षमवज्ञामिति स्वधार्ष्ट्यप्रकटीकरणात्तुष्णीमिति लज्जाजनितमेव ॥१४९॥

ततश्च स्वेन निर्वचनीकृतत्वं तस्या मत्वा लब्धविजयो हृष्यन्नाह अरविन्देति अपश्चिमा अन्यूना श्रेष्ठेत्यर्थः । अपूर्वा अद्भुतचमत्काराभिधायिनी इति पूर्वार्धेन परमोत्कर्षमुक्ता पराजयप्राप्तिकारणमपकर्षमुत्तरार्धेन आह— कपटानामुत्कर्षेण घाटनाद्धेतोरदक्षिणा असरला च । अतः कथं वा अनुत्तरा अनुत्तमा न भवितासि असारल्येनोत्तमत्वापगमादिति भावः । श्लेषेण अपश्चिमा अपूर्वा अदक्षिणेति दिक्त्रितयत्वाभावऽदेव अनुत्तरा चतुर्थी दिगपि भवितुं न युक्तासि अनुत्तरा प्रत्युत्तरदानासमर्थेति युक्तमेवेति श्लेषोत्थध्वनिः ॥१५०॥

णाणाअबिन्द इति सुरेन्द्रनाथसंस्करणे.

नन्दीति । घट्टशुल्कप्रदानायेति श्रुत्वा तद्व्यवस्थामुपपादयितुमत्रागमने प्राप्तावसरेति ॥८२॥

राधाप्रमुखा अस्मद्बालिका अद्य हैयङ्गवीनं गृहीत्वा यज्ञे गमिष्यन्ति तदेतासां घट्टदाने अनुकूलेन भवितव्यं शुभंयुना । शुभंयुस्तु शुभान्वित इत्यमरः ।

टङ्कैरिति एककृष्णला परिमिता रक्तिका भवति । पञ्चभिस्ताभिर्माषः । शास्त्रीयव्यवहारिको माषस्तु दशरक्तिको न गृहीतः । तदानीं शास्त्रीयस्यैव व्यावहारिकत्वात। ततश्चतुर्भिर्माषैष्टङ्कः, स च अशीतिरक्तिकापरिमितसुवर्णमुद्रा चतुर्थांशः कर्षः सुवर्णमुद्रापरपर्यायः । तैश्चतुर्भिः पलं तच्च षोडश टङ्काः । पलानां शतं तुला सा च षोडशशतानि टङ्काः । विंशतिस्तुला भारः स च द्वात्रिंशत्सहस्राणि टङ्काः ।

इति गणनावेदिनो भणन्ति । एष पुनः राधिकादेः प्रत्येकं महाभारः यत्ललितया आत्मनो मुखेन भणितम् । पूर्वं भारावतरणसमय इत्यर्थः । अनेन महाभारेण क्लिष्टासीति ।

स्मितमत्र तच्चातुर्यश्लाघासूचकम् ।

भाराणां पञ्चाशता महाभारो भण्यते । स च षोडशलक्षाणि टङ्काः । अत एव पञ्चाणं गोपिकानां हैयङ्गवीणैः टङ्कानामसीतिलक्षाणि भवन्ति । परमपि घट्टपालवर्तनणिर्वाहणाय टङ्कलक्षचतुष्कं मया वर्धितम् । एवं च मिलित्वा चतुरशीतिलक्षाणि टङ्का गणिताः ।

उत्कोचरोचनायेति घट्टपालवर्तनस्य राजचतुर्थांशत्वेन नाय्यत्वात। विंशतौ लक्षेषु वर्धयितव्येषु लक्ष चतुष्टयमात्रं त्वया वर्धितमपराणि षोडशलक्षाणि एताभ्यः किञ्चिन्मात्र नवनीतप्राप्त्याशया अपलपितान्येवेति भावः । (१५५)

कृष्णस्य कर्णे मुखं विन्यस्येत्यनेन ललिताद्याः सखीरेव समभ्यूहयति राजस्वरूपाष्टङ्का राज्ञः कृते त्वया ग्राह्याः किं त्वायत्यां तदर्थमासामेकतरैव स्वाच्छन्द्येनोपादेया अतएव मया लक्षचतुष्टयं यद्वर्धितं तत्सुबलाद्यर्थमेव न त्वदर्थं भवतीति । (१५६)

अतएव सस्मितमिति तं प्रति प्रसन्नतालक्षणस्मितं ललितादिभिरभ्यूहितम् । (१५७)

दानीन्द्र यदि पञ्चगग्गरिकाणां शुल्कमेव चतुरशीतिलक्षप्रमाणं संवृत्तम् । ततो न जाने मूल्यं वा कियत।

विश्राणयन्ति ददति विश्राणनं वितरणमित्यमरः ॥

पुष्करेक्षण ! न दुष्करं खलु एतासामत्र चतुरशीतिलक्षाणां दानम् । तदनुकम्प्य किमपि समाधानं चिन्तय । दुष्करमित्यनेन तासां परमाढ्यत्वयशः प्रख्यापनया तासु स्वपक्षपातो ज्ञापितः । स च तासां दानव्यवहारो बाह्यः अभिलाषितवस्तुन्यन्तरे तु वास्तव एव ॥

प्रियवयस्य ! नान्दीमुख्या सूत्रितमिति सूत्रं कृतमित्यर्थः । मया तु तद्वृत्तीक्रियते इति अवधीयतामित्याह—एक्केति । एकैकश्चतुरशीतिलक्षाणि यानि जीवानि परमद्युतिमयानि जातरूपाणि स्वर्णानि तेभ्यो वरिष्ठरूपाः इत्यर्थः । यद्वा, जीविकारूपाणि स्वर्णानि तेभ्यो वरिष्ठरूपाः । पक्षे, चतुरशीतिलक्षाणि जीवानां जातानि जातयः, तेषां रूपेभ्यः सौन्दर्येभ्यः वरिष्ठसौन्दर्याः ॥

मुखं व्यावर्तयति इति । मया वृत्तिमात्रं कृतं वाक्यार्थतात्पर्यरूपमुदाहरणं तु त्वयैव कथ्यतां मया तु आभ्यो लज्जासङ्कोचाभ्यां कथयितुमशक्यत्वादिति भावः ॥१६२।

एतत्खलु मनोरथमात्रेण द्राक्षाभक्षणमदक्षस्य लोलुपकीरयूनः ॥

श्रिया इति सुरेन्द्रनाथसंस्करणे नास्ति.

निह्नुतमणिमण्डला इत्यनेन राजस्वार्थं द्रव्यमात्रमेव त्वया गृहीतुं व्यवसीयते न त्वन्यथेति तस्मिन्पक्षपातो व्यञ्जितः । १६४

तरुणी रत्नानां युवतीश्रेष्ठानां मालासु पङ्क्तिषु महिष्ठा महत्तमा । रत्नः स्वजातिश्रेष्ठ इत्यमरः । पक्षे इयं रत्नमाला मणिश्रेणी कीदृशी तरुणी अतिनिर्दोषकान्तिमतीत्यर्थः । यद्वा इयं तरुणी रत्नमालाभिर्महिष्ठा । रत्नान्येव विवृणोति शिखरेत्यादिना । पक्वदाडिमबीजाभं माणिक्यं शिखरं विदुरित्यभिधानात्तादृशमाणिक्यान्येव दन्ततया तस्यां तिष्ठन्तीत्यर्थः । एवं सर्वत्र व्याख्येयम् । हीति विस्मये राधिका इति तरुणीपक्षे हीरैः हीरकैरधिका । १६५ ।

ललिदाए इति पाठाधिक्यं सुरेन्द्रनाथसंस्करणे नास्ति.

भो दुर्वारवारण अस्या दुर्ललितया ललितया महावार्या अतिक्रमे संवृत्ते एव चम्पकलतादिवेष्टिताया अमृतसरस्या विगाहनं ते सुलभम् । हे वारण हस्तिन्दुर्ललिताया दुरतिक्रमणीयायाः । वारी तु गजबन्धनीत्यमरः ॥

हंहो कुम्भसम्भवप्रियगिरीन्द्रसिन्धुर! एषा न खलु युक्ता अतिभूमीः । कुम्भसम्भवोऽगस्त्यः तस्य प्रियो गिरीन्द्रो विन्ध्यः तस्य सिन्धुर हे तत्रत्य मत्तहस्तिन्नित्यर्थः । विन्ध्यो यथा मर्यादातिक्रम्य सूर्यमपि निरुरोध तथैव त्वमपि राधां निरुणत्सीत्यर्थः । अतिभूमिरतिक्रमः पक्षे सङ्कोचः ।

भावैरीर्ष्यागर्वहर्सादिभिरुध्बासितां व्यावहासीं परस्परनर्मोक्तिचेष्टामित्यर्थः ।

हे सद्मनर्दिनि, हे गेहनर्दिनि ललिताद्याश्रयबलमात्रमवलम्बैव स्वतो दुर्बलापि मुधाटोपमात्रेणैव नर्दसीत्यर्थः ।

तुअत्तो (त्वत्तो) नास्ति सुरेन्द्रनाथसंस्करणे.

किं वयं वणिज्यजीविकाः यद्घट्टपालात्त्वत्तो भयेन पलायिष्यामहे । वाणिज्यमेव आजिविका वार्ता यासां ताः ।

पयोधरोपरि मेघोपरि स्तनोपरि च । नक्षत्रमालामुडुश्रेणिं मुक्तामालां च । सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैरित्यमरः । अपहर्तुं निर्वापयितुमाक्रष्टुं च कल्यतां समर्थतां प्रातःकालत्वं च । प्रत्यूषोऽहर्त्मुखं कल्य ऊषः प्रत्यूषसी अपीति । कल्यो सज्जनिरामयौ इति चामरः ।

एषा सुदीर्घतमा तामसी श्यामा तत्कुतः कल्यस्याभ्युद्गमाशङ्कापि । सुदीर्घतमा तामसी कृष्णपक्षीया रात्रिः । श्यामा स्यात्शारिवा निशेति विश्वः । पक्षे अतिदीर्घतया प्राप्तुं प्रमातुं चाशक्येत्यर्थः । तामसी कोपतती श्यामा मल्लक्षणा नायिका अतः कल्यस्य समर्थस्यापि ।

प्रोल्लसच्चण्डकरे प्रोद्यत्सूर्ये । पक्षे प्रोल्लसन्तौ चण्डौ करौ पाणी यस्य तस्मिन्, प्रफुल्लानि पुण्डरीकानां कमलानामीक्षणानि नेत्राणि यस्मात्तस्मिन। शीतकाले भवेदुष्णी ग्रीष्मकाले च शीतला । पद्मगन्ध्रि मुखं यस्याः सा श्यामा परिकीर्तिता ॥ पक्षे, फुल्लकमललोचने मयि विस्फुरति सति तारा नक्षत्राणि मुक्तामालाश्च तमिस्ररूपं वसनं पक्षे नीलवस्त्रं च ।

हे सूर राहूत्थाने न खलु चण्डकरस्य चण्डिमा तेजः । सद्य एव उपरागेण तस्य तेजो ह्रासात। पक्षे, हे सूर वीर ! राधोत्थाने न चण्डस्य करस्य ॥

दुर्विषहता दुःसहत्वं तेन युक्तोऽयं चक्रलक्ष्मा रेखामयचिह्नधारीति दक्षिणकरतलं दर्शयति । तदुत्थानं यस्य राहोरुत्थानं चक्रदर्शनात्स बिभेतीत्यर्थः ॥

विहस्येति तद्वाक्यस्यार्थान्तरकरणाय सरस्वती साहाय्यमेव सूचयति । हन्त फुत्कारदुर्विषहेण हतायुतचक्रलक्षणनागरनागमोहदायिनं विषाणां महासारं किमिति उल्लासयसि त्वं गह्वरं गत्वा मुरलिकानागिनीं चुम्ब । चक्रलक्षणफणचिह्नधारि नगरसम्बन्धि महासर्पः । महान्तमासारं धारासम्पातम् ॥

नागरनागः नागरश्रेष्ठः सम्प्रतीकः शोभनाङ्गः । अङ्ग प्रतीकोऽवयव इत्यमरः । पक्षे सुप्रतीको दिग्गजः । गजेऽपि नागमातङ्गावित्यमरः । पद्मिनीनां कमलिनीनां पक्षे अङ्गनानाम् । करहाटं शिफाकन्द इत्यमरः । पक्षे करयोर्हाटकं स्वर्णकङ्कणम् । विषाणं दन्तं पक्षे शृङ्गम् । विषाणं पशुशृङ्गे भदन्तयोरित्यमरः ॥

पद्मिन्या वराटकस्यापि अप्रदानं जानीहि । वराटको बीजकोषः पक्षे कपर्दकः ॥

तद्वाक्ये प्राकृतस्यार्थान्तरे प्रत्युवाच कामिनीति स्वमुखेनैव तव प्रार्थनादिति भावः । वराटास्स वराटयेत्यर्थः । अप्पदाणमित्यस्यात्मदानम् ॥

शुल्ककृते स्वयमेव कारुण्येन गृहाण इमं जनमिति विरुद्धलक्षणया काक्वा उक्तिः ॥

स्फुटं विहस्येति गव्यभारेति विवक्षितश्लोकार्थस्मरणात। वास्तवे तु न पुनरत्यन्ततिरस्कृतवाच्यो ध्वनिरयमिति ॥

पदा चरणेन किं पुनः पाणिना हासदम्भतः उपहासच्छलतः ॥

इयमेव महाविडम्बनेऽपि क्रियमाणे सति सुष्ठु सत्कारबुद्ध्या दर्पोद्धुरता नाम भण्यते ॥

शृङ्गारोपितदामा विलक्षणो भवसि सर्वतो भद्र । कलिते जम्बुलगुडे प्रसादमननेन यत्फुल्लः ॥ हे भद्र बलीवर्द ! उक्षा भद्रबलीवर्द इत्यमरः । जम्बुले क्लेदविरसे गुडे कलिते दत्ते सति मम महानादरोऽयं कृत इति मत्वा फुल्लः पक्षे मस्तकार्पितमाल्यः । अथवा, सर्वतोमङ्गलशृङ्गारोपितदामा भवसि तथापि जम्बुसम्बन्धिनि लगुडे गवां पालनार्थं कलिते सत्येव त्वं फुल्लः । तच्चरितं विडम्बनमेव आदररूपतया मन्यसे इत्यर्थः ॥५१॥

पाणिपल्लवस्य कुतो वज्राणां स्पर्शने साहसं तदलं मुखाटोपेन । एषा युष्माकं प्रेक्षमाणानां चलितास्मि ॥

सुदीर्घाः कुन्तला एव पक्षा यस्याः सा । पक्षे कुन्तलपक्षः केशसमूहः । पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्पर इत्यमरः ॥

सर्वदाभिसारिकासहस्रसेवारत नाहं शारी यतुड्डयिष्ये । भाषाश्लेषेण अभिसारिकासहस्रसेवारत हे वनलम्पट इत्यर्थः ॥

लोलौ अक्षौ पाशकौ तयोर्दायभजनातष्टापदं शारिपट्टमभिलक्ष्यीकृत्य धृतासि । अष्टापदं शारिफलमित्यमरः । पक्षे लोलाक्षस्य चपलनेत्रस्य मम शुल्करूपदायभजनात्हेतोरष्टापदं कनकम् । चतुरशीतिलक्षटङ्कानभिलक्षीकृत्य शृङ्खलयिष्यामि । शारिबन्धेऽपि शृङ्खल इत्यमरः । पक्षे बाहुपाशाभ्यामित्यर्थात॥

नूनमेष महामन्मथस्य सेवायाः प्रभावः यत्पतिव्रतास्पर्शे पापात्ते भयं नास्ति ॥

स्मृत्वेति स्वस्पर्शशङ्कोत्थेन साध्वसेन स्तोभात्तस्याः श्लिष्टकथनाशक्तिमवधार्येति भावः । उत्कोपे उत्कटकोपवति पत्यौ । पक्षे उत्के उत्सुके उपपतौ मयि । यद्वा, उत्का त्वमुपपतौ उर्वी श्रेष्ठसेवा उर्वोः सेवा चेति रहस्यप्रार्थना भङ्गी ॥

हे वक्रवितण्डापण्डित ! विरम । कुलाङ्गनास्पर्शनं खलु अत्याहितप्रद भवति ॥

अस्य इति पाठान्तरम्.

कुलीनजनानां किल एवं चरितं यतो निर्जनवने परवनितानां निरोधेन इदं विडम्बनम् ।

अत एव मोहनेति वाम्योक्ता हर्षगर्वावहित्था । मोहन ! यथा त्वादृशेन तर्क्यते, तथा एष जनो न भवति । तदत्र भ्रमद्भ्रूभङ्गयुगलनर्तनेनाहितुण्डिकतालीलाडम्बरैरलं दुर्लभा तेऽत्र शुल्कभिक्सा । व्यालग्राह्यहितुण्डिक इत्यमरः ॥

अयि सुकले दानशीले सुकलो दातृभोक्तरीत्यभिधानात्पक्षे शोभनफणावति वरं शुल्कं पक्षे शोभनकलेवरम् । १९२।

असौ मल्लक्षणा कान्ता लोहमयी प्रतिकृतिः कनकप्रतिमा सर्वं च तैजसं लौहमित्यमरः । श्लेषभङ्ग्या हर्षजातोत्थं स्वाङ्गस्तम्भभारं दर्शयति । कृष्णवर्त्मा वह्निः कृष्णाश्रयणीयोपायश्च यत्प्रतिमायां कुहकस्य सर्पविशेषस्य आशीषो दंष्ट्रा बन्ध्यतां यान्ति । पक्षे कुहकस्य कपटिनः आशिषो वाञ्छा भोगः फणः भोगश्च ।

प्रतिमासीति स्पष्टं पक्षे मासि मासि अत्यद्भुता नित्यनवीना बहुल ऊहो वितरस्तन्मयी चुम्बके मणौ पक्षे चुम्बनकर्तरि । अपेहि अपेहि आर्तस्वरं “मा धारय” । पक्षे, “मा मां धारय.”

ललिते त्वं किं खलु कौतुहलं पश्यसि ?

अलमनेन कुट्टमितेन । किमिति पलायिष्यसि ?

तयोर्वाक्चातुर्यसुधाम्बुनिधौ चिरं निमज्ज्य पुनः सखी प्रार्थितसाहाय्या ललिता साटोपमाह । यद्यपि दुर्ललितशीलानां लुण्ठकानां युष्माकं दानगणनाप्रलापं न खलु वयं कर्णप्रान्तेऽप्यर्पयामः, तथापि किमपि भणितुकामास्मि ॥

सवयसा मधुमङ्गलेन पूर्वं चतुरशीति जीवजात्यादीनां प्रतिस्वं प्रत्येकमिहापि आसु मध्ये इत्यर्थः ॥

एष कोलाहलस्य प्रभवं विज्ञातुं चलितोऽस्मि ॥

ततो मनसि विभाव्य प्राप्ततदनुरूपोत्तरो ललितामाह—कठोरेति । कलालक्षैः षोडशलक्षैरिति अशीतिलक्षपरिमितस्य चतुर्थांशो घट्टपालेन न्यायतो लक्ष्यत एवेति भावः । योजयिष्यतीति त्वामपि शुल्कान्तःपातयिष्यति । पक्षे, चन्द्रस्य स्वाभिः षोडशभिः कलाभिः योजनमात्मसात्कार एव ॥

नान्दीमुखि ! भगवत्या निदेशस्य प्रतिपालनं साधु संवृत्तं यत्कोटिगुणीभूतमेव घट्टदानम् ॥

सखि राधे ! कथं प्रतिपालनं संवृत्तम् । यत्शुल्कस्य त्रिभागो गृह्यते । समुचितेऽपि प्रतिटङ्कं हेमटङ्कत्रये स्फुटमेकटङ्कनिष्टङ्कनेन गणयेत्युक्तत्वात॥

प्रियवयस्य निजवाहिनी निर्घोषवधिरीकृतदिङ्मण्डला विजयन्ते उद्यानचक्रवर्तिसिंहाः ॥

अथ किम् । महाभट्टारकस्य महाघट्टाधिकारे एव लेखः ॥

घटनिकृतयः कृतशाठ्याः कुसृतिर्निकृतिः शाठ्यामित्यमरः ।

दानीन्द्र ! प्रकृतिविशुद्धानामासां कुतः कूटलेशशिक्षाभिलाषोऽपि ? कूटं कपटम् ॥

इति किञ्चिदित्यादि कृष्णदाससंस्करणे नास्ति.

पुनर्निभाल्य इति कृष्णदाससंस्करणे नास्ति.

वराम्बरसंवृत्तादिति संवरणान्यथानुपपत्त्या तत्रैव बहूनि सुवर्णानि निह्नुतानि लक्ष्यन्ते इति भावः ॥

माधुरी इति सुरेन्द्रनाथसंस्करणे.

पुलकवृन्दमिति मन्निभालनजनितस्थायिभावकामविकारोत्थम् । स्मितमिति हर्षोत्थं मृषा भ्रूकुटीत्यवहित्था अमर्षनिर्माणं कुट्टमितमिदम् । यदुक्तम्—

स्तनाधरादिग्रहणे हृत्प्रीतावपि सम्भ्रमात।

बहिःक्रोधो व्यथितवत्प्रोक्तं कुट्टमितं बुधैः ॥ [उ.नी. ११.४९] इति ॥

एष नाट्यनिर्देशः कृष्णदाससंस्करणे नास्ति.

विंशतेरर्धान्दश शातकुम्भकुम्भान्कनककलशान्प्रत्येकमेव द्वितयधारणादिति भावः ॥

रतहिण्डक हिण्ड निजमण्डपम् । स्त्रीचोरो रतहिण्डकः । हिण्ड गच्छ ॥

पञ्चापयनिति सुरेन्द्रनाथसंस्करणे.

आरिप्सते इति सुरेन्द्रनाथसंस्करणे.

पञ्चमुखीं पञ्चमुखानि समाहृतानि पश्य । सगद्गदमिति निजानन्दमवधाप्यताम्, आनन्दयितुं तेन च त्वया एव मम सुखोपाये भूयोऽपि यतनीयमिति व्यज्यते । पञ्चमुखतः पञ्चेभ्यो मुखेभ्य उग्रत उग्रेभ्यो वस्तुत उग्रात्महादेवात। कीदृशात्? पञ्चमुखतः पञ्चसु भ्रूचापेषु समं सहैव पञ्चमुखात्सिंहादप्युग्रो विक्रमो यस्य तम् ॥

कस्मादिव विह्वलमप्यात्मानं न रुणत्सि । यत्कटाक्ष्यामहे जिह्मदृष्टिभिः किशोरिकाभिः । कर्मणि प्रत्ययः अस्मान्कटाक्षं कुर्वन्ति एते पराजिता इति कटाक्षविषया क्रियामहे ॥

किं नस्तेनेति मय्यपि तदपि कटाक्षेणानादरो, यतस्तेनापराधेन द्विगुणीकरणमित्यर्थः । पङ्क्तिकुम्भानां दशकलसानां शुल्कस्य द्विगुणीकरणे विंशतिलक्षाधिकं कोटित्रयं भवति । तस्य च प्रकटपञ्चकलशस्य शुल्केन अशीति लक्षमितेन मिलनेन कोटिचतुष्टयम् । तस्य शतगुणीकरणे वृन्दचतुष्टयं भवतीति गणनेन निष्टङ्क्याह ।

शृणु राजकुलस्य वृन्दचतुष्टयम् । तत्र राजस्वचतुर्थांशो घट्टपालवर्तनमिति । स च घट्टपालसर्वाधिकारि कायस्थदण्डधारिण इति त्रितयात्मकः । तत्र यथान्यायं विभज्य ते अधिकारिणः सर्वविद्यागुरोस्तव कलाकोट्यः चतुःषष्ठिकोट्यः विद्यानां चतुःषष्ठिसङ्ख्यत्वातुचिता एवेति भावः । सङ्ख्याभिज्ञस्य कायस्थस्य मम तत्त्वकोट्यः । सङ्ख्याशास्त्रविदां तत्त्वानि पञ्चविंशतिसङ्ख्यान्येव भवन्तीति सुबलप्रभृतीनां दण्डिकानां पशुपालानां पशुपतिकोट्य एकादशकोट्यः । पशुपाला रुद्रः एकादश भवन्तीति । वर्तनभूतवृन्दमेव त्रिधा विभक्तम् ।२१३।

युष्माकं भाजनानि न दृश्यन्ते क्व मास्यन्ति इयन्ति वित्तानि । तेन प्रथमं मधुमङ्गलद्वारा व्रजान्महाशकटादयस्तद्वाहका वृषमहिषखरोष्ट्राश्चानीयन्तामिति द्योतितम् ।२१४।

उदितवर्ष्म उक्तप्रमाणं वित्तं धनं पक्षे उदितमुदययुक्तं वर्ष्म देहं वित्तंख्यातम् । वर्ष्मदेहप्रमाणयोरित्यमरः ।२१५।

मोहन अस्मद्भगवत्याः स्नेहभाजनानां ऋज्वीनां कस्मादलीकमेव पङ्क्तिकुम्भानां दानं त्वया वर्ध्यते ।

नागरेन्द्र ! महाव्रतिन्याः प्रव्रजितायाः परिजनो मादृशी जनो निर्धारितमज्ञात्वा न खलु विज्ञापयति । तदपि यदि मम वचने सन्दिहानोऽसि, तदा स्वयमेवागत्य प्रत्यक्षं पश्य ।

हला ! एष दुर्ललितो गोकुलेन्द्रनन्दनः स दिव्यमपि मम वचनं न प्रत्येति, तत्प्रसीद ईषदम्बरमुत्क्षिप्य निजवक्षःप्रान्तं प्रेक्षयन्ती मोचय । हठिल्यशेखरस्य हस्तात्सपरिवारमात्मानम् ॥

अपेहि दुर्बुद्धिके, अपेहि । त्वमेवानर्थकारिणीति भद्रेनैव वयं विद्म इतोऽपसृत्य कंचिदेकान्ते निजवक्षःप्रान्तं दर्शयेति भावः ॥

कथं हितकथनेऽपि कुप्यथ ? दुर्वारोऽयं महाहठिल्यः स्वहस्तेनैव कञ्चुलिकामुद्घाट्य युष्मद्वक्षो द्रक्ष्यत्येव तदसमञ्जसमिति मत्वा मयैवोक्तं कोऽत्रापराध इति भावः ॥

प्रथमं कृष्णस्य दूतीं वृन्दामेव शुल्के उपयुञ्जाना दीपशिखया अग्नेः पूजनमारप्से । उपयुञ्जाना कृष्णायार्पयन्ती दीपशिखयेति । तदीयामेव वृन्दां तस्मै ददामीति नास्माकं कोऽप्यपचय इति भावः ॥

नागरेन्द्र क्व पञ्चघृतघटिका क्व एतावद्घटितं घट्टशुल्कम् । भवतु । तथापि उपकारिणं राजकुमारं त्वामपेक्ष्य अत्र निष्क्रिये अस्माभिर्निजप्रियसखी वृन्दा तुभ्यमर्पिता ॥

वृन्दपञ्चतये प्रस्तुते दातव्ये सति एकस्य वृन्दस्यार्पणं कथं युज्यते ? इत्यर्थः । गोसङ्ख्यानां गोपानां श्लेषेण गवि पृथिव्यां सम्यक्ख्यातिमतां सङ्ख्याविदां कायस्थानाम् ॥

रोषमिति वृन्दायाः स्वीयत्वानर्घत्वाभ्यां दातुमशक्यत्वव्यञ्जनया कृष्णेन सश्रद्धमत्याग्रहेण तां ग्राहयितुमिति भावः । इवेति तस्यां स्वीयत्वाभावात्वस्तुतो रोषाभावात्प्रत्युत दानसमाधाननिष्पत्तेरन्तः ससाधुवादमेवेति भावः । विशाखे ! सुष्ठु मुग्धासि यत्लघावस्मिन्नर्थे गुर्वात्मनः सख्या वृन्दाया अपणकर्तुमिच्छसि ॥

ललिते तिष्ठतु एतदलीकमाहात्म्यम् ।

तेत्तिस इति पाठभेदः.

शृणु बटो इति प्रक्रान्तमर्थमनुसृत्य अनुरूपप्रत्युत्तरदानासमर्थेति भावः । यद्वा, प्रक्रमिष्यमाणमर्थमपेक्ष्य अल्पज्ञेत्यर्थः । त्रयस्त्रिंशत्कोटिसुरेभ्यः सुरेन्द्रो वरिष्ठः । यदेष शतकोटिहस्तः शतकोट्योऽपि हस्ते यस्य स महासम्पन्न इत्यर्थः । पक्षे, वज्रपाणिः । ततो हिरण्यगर्भो भगवान्यदेष द्विपरार्धवैभवः । ततोऽपि देवी लक्ष्मी यदेषा सर्वसम्पत्तीनामीश्वरी । ततोऽपि वृन्दा या किल लक्ष्मीमपि तुच्छीकृत्य कथाप्यपूर्वश्रिया लुब्धेन विष्णुना कामिता इति भगवतीमुखात्श्रूयते । तेन पञ्चवृन्दमात्रटङ्केषु देयेषु ईदृशी वृन्दा दातुमयोग्येति भावः ॥

पदे निपतितेति कृष्णे स्वस्य पक्षपातं विज्ञापयितुं तेन च तं प्रसन्नीकर्तुम् । ललिते मधुरं मन्त्रयसि तथापि तात्कालिकं दुःसहदुःखं परिहर्तुमेवमयुक्तमपि कर्तुकामास्मि तत्प्रसीद अनुमन्यस्व वृन्दासमर्पणं पुरोडासावघ्राणेन तूर्णं पुनीम आत्मानम् ।२२५।

ललिते विज्ञातं ते आकूतं यदेकं दिवसमेवानुमन्यसे ।२२६।

न शुल्कितं न शुल्कीकृतं ममैव वृन्दां यदि मह्यमर्पयन्ति तर्हि लास्यवतो मन्मकरकुण्डलयोर्द्वयमेव मह्यं ददात्विति भावः ।२२७।

कीर्तिदाकीर्तिदायिनि राधे अयुक्तं खल्विदं यत्वनमालिन एव वृन्दायै अस्मै शुल्कार्पणम् ।२२८।

सखि वृन्दे किमिति तूष्णीं तिष्ठसि तूर्णमात्मनः पक्षमुल्लासय ।२२९।

द्यूतकारसभायाः सकाशादपि घट्टपालगोष्ठी श्लाघ्यते इति दुराचारत्वेनेति भावः । वुरुद्धलक्षणया वा स्वयं मल्लक्षणो जनः प्राञ्जलः सरलः । शुल्कार्थं विक्रयस्य आरम्भश्चेत।२३०।

अप्रतिमः अनुपमः पूर्णलक्ष्मीभरो यासां ताः ॥

विशाखे निश्चितं युष्माकं घट्टदाने अनुकूलो भविष्यामि यत्कायस्थविद्यापारं गतोऽस्मि तत्देहि मे पारितोषिकम् ॥

आर्य नव्यां शर्करां दास्यामि । नूनं परिहससि जानामि । भगवते सूर्याय शपामि ॥

प्रियवयस्य मानसमये प्रमदाशतकोटिरोषभञ्जने विलक्षणोऽस्मि दीपावलीकौतुके सुरभीशतकोटिपूजायामाचार्योऽस्मि तद्दीयताम् । अद्य महामहोत्सवे मह्यमनभ्यर्थितपूर्वा शतकोटिदक्षिणा ॥

तद्देहि प्रतिश्रुतम् । स्मित्वेति शर्करा कर्परांशेऽपि इति नानार्थवर्गात। यथा यदेव मया प्रतिश्रुतं तदेव दीयते नीयतामिति अभिप्रायात। धूर्तेति मम तु सरलविप्रस्य खण्डलिप्सया शब्दार्थस्यान्यथाकरणं कौटिल्यज्ञानं नैवासीदिति भावः । निष्कृतिर्वः करिष्यामि । प्रियवस्यस्य लघुनि कार्ये । अलं विलम्बेन, गृहाण शुल्कम् ॥

मधुसूदनो भ्रमरः विष्णुश्च । रेफेणाधिख्यां गता रेफद्वयवन्नाम्नात्यर्थः । पक्षे, राधिकाख्या नामा भ्रमरी कामिनी ।

गोकुलवीरवरेण्य अप्रतिमपूर्णलक्ष्मीभरा इमा इति स्वयमेव समर्थितम् । तद्वृन्दपञ्चकेन हेतुना कथमस्माकमेकतमा ग्रहीतुं युक्ता ॥

गम्भीरवेदी दुर्वारमदः स्तम्बेरमः हस्ती । यदुक्तं, त्वग्भेदाच्छोणितश्रावान्मांसस्य व्यधनादपि । संज्ञां न लभते यस्तु गजो गम्भीरवेद्यसौ ॥

प्रियवयस्य शतगुणशुल्क इत्यत्रासंखवाचिनः शतशब्दस्य पङ्क्तिदशके पर्यवसानं कुर्वद्भिरस्माभिस्तस्मै उद्यानचक्रवर्तिने सुष्ठु अपराद्ध तस्मै कापयितुमित्यर्थस्तस्येति वा ॥

प्रियोऽर्थप्रयोजनं येषु एवम्भूता ये रसास्तन्माधुरीं पक्षे प्रिया श्रीराधिका सैव अर्थः प्रयोजनं येषु तद्रसमाधुरीम् । पौरोगवः पाककर्माध्यक्षः ॥

स्मर्यते इति स्मृतिशास्त्रवचनमेवात्र प्रमाणसस्तीति भावः । द्राघिष्ठे अतिदीर्घतमे । अत्युन्नतया श्रिया उग्राणाम् ॥

दण्डेन विना क्षणमपि गोपानां नास्त्यवलम्बः तद्युक्तमेव दण्डग्रहणम् ॥

द्वितीयैव ललितामपेक्ष्य ललिता एका राधा द्वितीयेत्यर्थः पक्षे द्वितीया तिथिः । चन्द्रलेखा चन्द्रकला पक्षे नखाङ्कः ॥

हन्त देवतोपासनाय कुसुमविचिन्वतीनां खञ्जनाक्षीणां क्षेमं खलु वृन्दावनमुन्मदेन एकेन महाकलभेन्द्रेण सर्वमाक्रम्य भयङ्करं कृतम् । केवलं शैलेन्द्रस्य उपशल्यमात्रमवलम्बनमासीत। हा धिखा धिक्तत्रापि दानीन्द्रारम्भदम्भेन वर्त्मपातिता आरब्धा कस्मै विज्ञापयिष्यामहे राजपुत्रस्यास्य को नियन्तेति भावः ॥

महातापसीपरिवारस्य मे समक्षमक्षमं खलु एतत्कुलबालापीडनम् ॥

अहंयूनामहङ्कारवताम् । अहङ्कारवानहंयुः स्यादित्यमरः । पक्षे यूनां मध्ये अहं चूडामङिः । दर्पकस्य गर्वस्य उष्माणमुष्मत्वं तैक्ष्णमित्यर्थः । पक्षे कामोद्रेकम् ॥

हे कृष्ण ! श्लक्ष्णं कथयसि, अथ नापराध्यसि त्वम् । घट्टीदेव्या एव एष अपूर्वः कोऽपि प्रसादः । येन सत्कुलकुमारोऽपि धूर्तधुरणीनां सुष्ठु विस्मापनीं काञ्चनविद्यां झटिति अध्यापितोऽसि ॥

विषमेष्विति तटेष्वित्यस्य विशेषणम् । पक्षे, विषमेषु कन्दर्पः, तस्य रणाभियोगमित्येकं पदम् ॥

मोहन कियत्सहिष्यामहे । यदतिनिर्मथनादग्निश्चन्दनादपि जायते इति वचनं प्रमाणम् । तदत्र अस्मद्दूषणं न देयम् । तेन हि धीराणामपि चाञ्चल्यं जायते इति रहस्यो ध्वनिः ॥

कुटि कौटिल्यमिक्कृषादिभ्यः । नाटी नाट्यं कौटिल्यनाट्यमत्र परमपटौ मयि न फलितीत्यर्थः । रहस्यध्वनिपक्षे अपटोरेव बाह्यार्थानुसन्धायिनो भ्रमः स्यात्न तु परमपटो रहस्यवेदिनो ममेति । मया तु युष्मच्चापल्यं ज्ञायत एव अलं व्यञ्जनयेति भावः । अतनोरनल्पस्य पक्षे कन्दर्पस्य सङ्गरस्य युद्धस्य क्रियां व्यापारम् ॥

सांयुगीनो रणे साधुरित्यमरः । यतः संयुगे युद्धे उपयथापि स्पष्ट एवेत्यर्थः ॥

स्वरूपानभिज्ञासीति । ममाप्यतनुसङ्गरे पराजेतुं समर्था एतास्त्वं नाभिजानासीति भावः । अमूश्चमूरुलोचनाः कामस्य चमूः सेनाः पश्य प्रतीहीत्यर्थः । सेनाङ्गान्येवाभिनयेन तर्जन्या दर्शयन्नाह—उन्नताः श्रोणय एव रथा यासां ताः । मतङ्गजस्येव क्रमेण पादविन्यासेन उज्ज्वलाः पक्षे क्रमेण शक्त्या । क्रमशक्तौ परिपाट्यामिति विश्वः । सुष्ठु पदैरिति शोभना पक्षे पदातिशोभना ॥

नागर ! कुलबालिकाविमोहन ! इदं घटेन्द्रजालं तत्पुनरलं विस्तारेण । सखीसनाथा यज्ञवेदिकं चलितास्मि । इन्द्रजालमिति प्रकटीभूते घट्टशुल्कग्रहणादावर्थेन तात्पर्यमिति तव वाचैवावगम्यते व्यज्यमानेति दुर्लभेऽर्थे तु नास्त्येव न्यायः । अतो निर्विरोधमेवास्माकमितश्चलमिति भावः प्रकटः । रहस्यस्तु कालविलम्बासहिष्णवो वयं भवता शुल्कग्रहणमिषेण चलन्त्यो निरुध्यामहे इति ॥

आघ्रातासि ईषद्गृहीतासि पक्षे घनो निविडो घट्टश्चलनं चापलं यस्य तथाभूतेन करेण मत्पाणिना समाघ्रातासि परामृष्टासि । आघ्राणलिङ्गेन करस्य गजशुण्डत्वं दुर्वारितया व्यङ्जितम् । यदि यास्यसि स्वकरेणैव त्वामाकर्षयामीत्यर्थः ॥

किं खलु भोजराजस्याधिकारी भवसि, यत्करदानेनाराधनीयस्त्वं ?

स्पर्शयन्तु ददतु स्पर्शनं प्रतिपादनमित्यमरः ॥

हन्त मुग्धाविडम्बनचातुरीगर्वित पश्य इमा विदग्धाप्रवरा गोष्ठयुवतीवल्ल्यः राज्ञो घट्टदानं कर्त्तित्वा सलीलं चलन्ति । तदुद्यानचक्रवर्तिनं गत्वा फूत्कुरु ॥

हरेः सिंहस्य । निवृत्तिर्नाम षष्ठमङ्गमिदम् । यदुक्तं—निदर्शनस्योपन्यासो निवृत्तिरिति कथ्यते इति ॥

किं कर्तव्यं हरिणा यत्सरभसं वलिता पुरतो ललिता । पक्षे, सरभेन सिंहविमर्दनेन जन्तुना संवलिता ।

विग्रहं युद्धं, पक्षे देहम् ॥

गोपिकाहार शङ्खचूडोपमर्दनेन विख्यातविक्रमोऽसि तद्युक्ता विग्रऽभिलाषुकता । गोपिकां हरतीति स चासौ शङ्खचूडश्चेति तस्य पक्षे गोपिकानां हाराश्च शङ्खसम्बन्धिन्यश्चूडाश्च तासाम् ॥

हन्त सख्यः ! कृतं परिश्रमापनोदनम् । तत्त्वरितमुत्क्षिपथ निजां निजां गर्गरिकाम् ॥

संभृतेन सम्यक्धृतेनावष्टम्भकुम्भिका कनकघटी परिष्क्रियतां विभूष्यतां पञ्चमी सर्वा अपेक्ष्य राधैवेत्यर्थः । पक्षे पञ्चमी तिथिः ॥

ललिते ! भारदुःखप्रदा घट्टगृहं लम्भयामि । युष्मत्कुम्भिकास्तत्सुखं चलन्तु भवत्यः ॥

हा धिखा धिक्! अरे चिल्लातचातुर्यचौरचक्रवर्तिलीलामात्य शयिताया अपि ललितायाः कः खलु निःवाध्वसस्तृणमपि परिहर्तुमध्यवस्यते । प्रसिद्धचौरश्चिल्लातस्तस्येव चातुर्यं यस्य तथाभूतो यश्चौरचक्रवर्ती तस्य लीलामात्य ॥

प्रियवयस्य एकोऽहं कथं कुम्भपञ्चकमाहरिष्यामि । तदेभिर्वयस्यैः सार्धं स्वयमेव सन्निधेहि ॥

मटस्फटिभिराटोपैः ॥

प्रियवयस्य अलं वचनमात्रसुलभेन दर्पराशिना । सुष्ठु प्रत्यक्षीकृतविक्रमोऽसि यत्तस्मिन्दिवसे राधिकया सार्धं वर्तमाने क्रीडाद्यूते कूटेन जयमुद्घूष्य ललितया आकृष्टमुरलीकस्त्वं कौस्तुभसङ्गोपनं कुर्वन्सुस्मेरमुखीभिः कटाक्षविषयीक्रियमाणः शङ्काकुलस्तूर्णं संवृत्त आसीः ॥

परिस्पन्दनलवारम्भे इति सुरेन्द्रनाथसंस्करणे.

वैज्ञानिकः कुशलः । वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि इत्यमरः । महासमीरणस्य महावेगस्य, पक्षे महापवनस्य विक्रमस्य घाटी छलादाक्रमणम् ॥

विशाखे तदस्मत्प्रियसखीभ्रातरं सुदामयोगीन्द्रं वन्दस्व येन प्राणायमेन बलिष्ठं मारुतं निर्जितीकृत्य महारम्भाणां गोपीनां गोष्ठी उत्फुल्लीकृता । योगीन्द्रं पक्षे उपायेन्द्रमुपायोऽत्र सामादीनां चतुर्णां मध्ये पराभवलक्षणो दण्ड एव ग्राह्यं प्राणायामेन, पक्षे बलाधिक्येन मारुतम् । पक्षे, माशब्दो निषेधवाची लुप्तस्वकत्थनमित्यर्थः ॥

सस्मितमिति प्रस्तूयमानेऽप्युत्कर्षे परमोत्कर्षरूपोऽंशस्त्वया नाभिव्यञ्जित इत्यभिप्रायेण । साधु किमिति स्मारितं त्वया । स्मेरेति सदैवेयं कृष्ण एव सर्वोत्कर्षं निश्चितवती तदानीं तु कृष्णादप्युत्कर्षं श्रीदाम्नि दृष्ट्वेति भावः । अत एव इयमस्माकं चपला सखी कदाचित्कृष्णोत्कर्षं पश्यन्ती अस्मत्सखीति सखीत्वे चापल्यम् ॥

सवयसां मित्राणां गणान्तरे गणमध्ये जीयत इति पराजये जये च अस्मत्सवयस्त्वमेव कारणं, न तु युष्मद्भ्रातृत्वमिति । हे मदप्लुता मदव्याप्ता इति वृथैवायं भवतीनां मद इति भावः ॥

काञ्चन कामपि ॥

रतनारीकरतिवल्लभ हे ! शृणु, माधुरीमाहात्म्यैः पादपद्मस्पर्शसौभाग्यभाक्त्वमात्मनोऽमत्वा शङ्काकुलेन निजगृहावस्थितिमात्रकृतार्थंमन्येन भर्त्रापि दूरतः सादरं वन्द्यमानायाः ॥

मंजुलाणमिति सुरेन्द्रनाथसंस्करणे.

साभ्यसूयमिति मत्समक्षमेव मम स्तुत्या पत्युर्निन्दया च लज्जा च स्वाभियोगश्च व्यज्यमानौ भवेतां तौ माभूतामिति । ललिता स्मित्वेति त्वया तु लोच्यत इति तेन लज्जा स्वाभियोगौ मया तु सख्या यथार्थं वक्तव्यमेव । अत्र किञ्चिद्व्यज्यमानं स्याच्चेदिष्टापत्तिरेव औत्सुक्यमहाराजस्य प्राबल्ये को वा लज्जादिदस्युप्रभावः ? आकौमारं पूरुषजनपरिमलकणिकानभिज्ञसर्वाङ्गाया यस्या अस्मत्प्रियसख्या अङ्गानि सेवापर्युत्सुकेनापि मञ्जुना नवयौवनेन साध्वसादिव मन्थरीभूय, अद्यापि निर्भरं न परिशीलितानि । तस्या महासतीकुलचक्रवर्तिन्या अस्या अङ्गस्य प्रेक्षणे कृताध्यवसायो जनो महासाहसिकानां धुरन्धरो भण्यते, किं पुनः स्पर्शने ? तदपेहि । सर्वाः सस्मितमिति कृष्णं प्रलोभयति च निवर्तयति चेत्यभिप्रायात॥

अलमनेन गर्वभरेण पृच्छतामात्मनः प्रियसखी गान्धर्विका, यया दुर्वाससो मुनेर्मुखातस्मत्प्रियवयस्यस्य आकौमारमाश्चर्यब्रह्मचर्यमाधुरी स्वयमेवाकर्णिता ॥

ललिते सत्यापयति सत्यं कथयति एष मुनिपुत्रः । तत्तस्मात्प्रतीहि महावीरव्रतोऽपि प्रियवयस्यो नारीणां गणाद्बिभेति ॥

आं विज्ञातमतएव आसां कटकशब्दमात्रेण सम्भ्रमाकुला भूत्वा कम्पमानः पुलकिताङ्गो मया बारं बारं दृष्टोऽस्ति ॥

साबसेसा इति सुरेन्द्रनाथसंस्करणे.

माहुरी इति क्वचित्पाठः.

नागर ! सारशेषा न खलु युष्मच्चपलचातुरी तदलं पिष्टपेषेण ॥

निर्मितेत्यभ्यन्तरसुखस्य श्रोत्रस्यान्तेति गर्वेणावहित्थायां सत्यामप्युद्यन्मुखीति गूढस्मितमेवास्या हर्षव्यञ्जकम् । सौभाग्यगर्वजनितोऽयं बिब्बोकः । तथा हि, बिब्बोको मानगर्वाभ्यां स्यादभीष्टोऽप्यनादरः [उ.नी. ११.५२] इति । मैत्रीगौरवतिति तदीयतामयप्रणयात्चन्द्रावल्यादिनिष्ठात॥

कृष्ण ! गोकुले विख्यातगुणस्त्वं युवराजोऽसि इति वयं तूष्णीं वर्तामहे । यदि साम्प्रतं सीमोल्लङ्घने प्रवृत्तोऽसि, ततो वयं कस्मातात्मकार्यमुपेक्षिष्यामहे ? ॥

किं तत्कार्यं युष्माकं यदुपेक्षध्वे ?

गोबेहिन्तो इति सुरेन्द्रनाथसंस्करणे ॥

गोपेभ्यो निजवृन्दावनस्य संरक्षणमेव । इतोऽपरं किं कार्यं ? ॥

ललिते, गोकुलयुवतीकुलचक्रवर्तिनी अस्मत्प्रियसखी आज्ञापयति ॥

किं तत्? ॥

सर्वे गर्विता गोपा लताङ्कुरपुञ्जभञ्जनदक्षाणां गवां लक्षकोटी रक्षन्तः फलैः कुक्षिम्भराः पुष्पपल्लवैः मिथो णेपथ्यकारिणः सुचिरमस्मद्वृन्दावनस्य विध्वंसनं कुर्वन्ति । तन्णिष्टङ्कितं कथय । एते इतो वा विरमन्तु किं वा करं ददतु ॥

तत्थ इति सुरेन्द्रनाथसंस्करणे.

विपरीतवादिनि! मुनिव्रतिनी भव । अथवा अल्पमपि युष्माकं दूषणं नास्ति । प्रियवयस्यस्य कारुणिकतैवात्रानर्थकारिणी संवृत्ता । यया दक्षिणया अदक्षिणानां त्वादृशीनां तस्य वृन्दावने प्रवेशः प्रसादीकृतः । तत्न खलु युक्तप्रलापः ॥

आर्य ! अनार्योऽसि त्वमपर्यालोच्य मोघं जल्पसि ॥

घुष्टमभ्यस्तमुक्तं वा आत्मनो दृशा नेत्रेणापि दृष्टं महोत्सवं न स्मरति । नाक्षिपामुमित्यतिमूढः आक्षेपविषयोऽपि नैव भवतीति भावः ॥

सखि नन्दीमुखि अपि किं स किल प्रियसख्या महाभिषेकमहोत्सवस्त्वया स्मर्यते ॥

विशाखे ! कः खलु स प्राणी भुवने भवति, येन महामहोत्सवोऽपि विस्मर्तुं शक्यते ? ॥

नन्दीमुखि ! अक्षिभ्यां प्रत्यक्षीकृतोऽपि स महोत्सवो लोकोत्तरतया कर्णं मे उत्तरलयति, तत्श्रावयतु ॥

सखि चित्रे शृणु अनया वृन्दया गत्वा भगवती विज्ञप्ता “हन्त योगेश्वरि, वृन्दावनराज्ये अभिषिच्यतां राधा । यद्यस्मादाकाशे अशरीरिणी वाणी एवं प्रकटमस्माकं पुरतः आदिष्टवती इति ॥

मुकुन्दस्येति सर्वतोऽधिकं सौभाग्यं तस्याः सूचितम् ॥

ततो महातापस्या भगवत्या आहुताः पञ्चदेव्यः समागताः ॥

काः खलु ताः?

भानोः कलत्रे संज्ञाच्छाये । तनया यमुना । मानसपूर्विका मानसगङ्गा इत्यर्थः ॥७६॥

णलुप्तः क्वचित्पाठभेदः ।

ततः कनिष्ठया मार्तण्डमहिष्या छायया भणितं भगवति अनतिक्रमणीयं युष्मत्शासनं निश्चितं खलु अस्माभिः शिरसि गृहीतं किन्तु क्व महिष्ठा एषा राधा क्व वा षोडशक्रोशमात्रविस्तीर्णमिदं वृन्दावनराज्यमिति । न सुष्ठु प्रसीदति मे हृदयम् । तेन सर्वब्रह्माण्डाधिपत्य एवाभिषिच्यतामिति भावः ॥

मन्त्रतीर्थ इति सुरेन्द्रनाथसंस्करणे.

आम्नायानां वेदानां वस्तुज्ञापकत्वलक्षणं यद्वीर्यं, अध्वराणां ज्योतिष्टोमादीनां विशिष्टफलोत्पादकत्वलक्षणं, तीर्थानां पावनत्वलक्षणं, मन्त्राणां दुर्घटघटनलक्षणं तपसां वरणीयविशेषप्रापकत्वलक्षणं, तथा तत्तत्साध्यानां स्वर्गाणामैन्द्रियकसुखप्रापकत्वलक्षणं, तद्भोक्त्èणां स्वर्गिणां सुखप्रमत्ततालक्षणं, तथैव सिद्धानामणिमादीनामैश्वरसुखप्रापकत्वलक्षणं, तपसां महतां सिद्धमतां योगैश्वर्यादिलक्षणं, चिच्छक्तिर्मायातीताह्लादसत्ताज्ञानस्वरूपा अन्तरङ्गाशक्तिः, तस्या निरुपमनित्यकल्याणगुणः, तन्मयपदार्थसमुदायाविष्करणलक्षणं, वैकुण्ठस्य तत्कार्यस्य तत्तन्मयत्वसर्वोत्कर्षलक्षणं तद्वीर्यं प्रथते प्रख्यातं भवति, ततोऽपि जातिप्रमाणाभ्यां गहनं वीर्यं माथुरे मण्डले एव दीव्यति । ततोऽपि तुन्दिलतरं वृन्दावने षोडशक्रोशमात्र एव । तेन का वार्ता ? ब्रह्माण्डकोट्याधिपत्यानां तानि वृन्दावनैकप्रदेशप्रतीकोऽपि ब्रह्मणा दृष्टानीति भावः ॥

णिअदंत इति सुरेन्द्रनाथसंस्करणे.

ततो हर्षोत्फुल्ले सकलजने निपतद्दिव्यकुसुमवर्षं गगनं प्रेक्ष्य भानुनन्दिन्या यमुनया भणितं, “भगवति ! इत आगन्तुं पर्युत्सुकापि युष्मदनामन्त्रणेण शङ्कितहृदया दिव्यमञ्जूषिकया अनुगता प्रियसखी एषा सरस्वती अम्बरे विलम्बते तदाकर्ष्यतामिति विज्ञापितया भगवत्या सादरमाकारिता विरिञ्चिपुत्री सरस्वती तत्र प्रविश्य दिव्यमञ्जुषिकामुद्घाटयन्ती भणितुं प्रवृत्ता । (इत्यर्धोक्ते)

पद्मभुवः ब्रह्मणः प्रणयिनी सावित्री । सौवर्णपट्टं स्वर्णसिंहासनं कुवेरगृहिणी ऋद्धिः । प्रचेतसो वरुणस्य प्रिया गौरी । प्रभञ्जनवधूः शिवा । धूमोर्णा यमप्रिया मत्पाणिना प्राहिणोत्प्रस्थापयामास ॥

अम्बुदभाजि मेघान्तरिते इति तत्र प्रकटीभवितुं पुंसां तेषामयोग्यत्वात॥

ततो प्रेक्षमाणे सानन्दं व्रजेन्द्रनन्दने भगवत्या निदेशेन ताभिर्भुवनपावनतरङ्गिणीभिः सङ्गिणीभिः देवीभिः युष्माभिः सखीभिः सार्धं पुरटपट्टोपरि निवेशिताया राधाया दिव्यमहौषधिरसामृतपूरितेन मणिकुम्भनिकुरम्बेन महाभिषेकं कुर्वतीभिर्वृन्दावनराज्यस्य आधिपत्यमर्पितम् ॥

ततो हस्तमुत्क्षिप्य सरस्वत्या सरस्वती प्रकाशिता । इदं तत्सौगन्धिकं दाम यत्स्नेहेन अम्बया सावित्र्या प्रहितमिति श्रुत्वा देव्या एकानंशया तद्गृहीत्वा गोकुलाणन्दस्य कण्ठे निक्षिप्तम् ॥३०४॥

ततो नर्मसुस्मेरमुख्या मिहिरदुहित्र्या व्याहृतम् । अहो धर्मविस्मरणे कर्मठता बन्धुजनस्नेहानां, यैः स्नेहैर्विचक्षणा अपि अविचार्य प्रवर्तने इति समाकर्ण्य विन्ध्यवासिन्या भणितं “यमुने का खलु त्वया अविचारा दृष्टा प्रवृत्तिः?” ॥

ततोऽलं कठिनहृदयसङ्गिना अस्माकमनेन हारेण इति हसन्त्या हंसपुत्र्या कौतुकेन राधिकाया हारः खलु हारिणि हरिकण्ठे अर्पितः । हंसपुत्र्या यमुनया ॥

ततो एकानंशया कंसारिवक्षःस्थलाद्गृहीतेन कुरङ्गनाभिना मृगमदेन राधिकायास्तिलकं निर्मितम् ॥

सार्धमिति । नवाधिकारे प्रजानामाश्वासनं वाहिनीनां पतिभिः सेनापतिभिः शुचिं सद्गुणवदमात्यमुपधा शुद्धे अमात्ये, शुचिः उपधा धर्मादौ यत्परीक्षणमित्यमरः ॥

उत्कलिका उद्गतकलिका उत्कण्ठा च सुमना मालती पत्राङ्कुरेण चित्रा सती विरराज । पक्षे चित्रा सती सुमनाः सुचिता पत्राङ्कुरेण पत्रभङ्गेन विरराज । नवमालिका स्मेरा विकसिता बभूव । विशाखिका विगलितशाखापि चम्पकलता फुल्ला बभूव । पक्षे स्पष्टम् ॥

नन्दीमुखि तदा दिनेन्द्रनन्दिन्या यद्भणितं तन्नूनं त्वया विस्मृतम् ॥

कथं विस्मर्तव्यं यदेतया अस्माकमन्तिक एव मन्त्रितं ? अद्यप्रभृति आत्मनः क्रीडावने ललिता प्रभृतयः अस्मत्प्रियसख्यः सुखेन स्वच्छन्दं कुसुमान्यवचिन्वन्तु ।” तत्श्रुत्वा विन्ध्यवासिन्या भणितम् । यमुने तदपि माधवस्यायत्ता कुसुमानां समृद्धिरिति । माधवस्य वसन्तस्य कृष्णस्य च ॥

देव्या एकानंशया दत्तं विशेषकं तिलकं शनेरम्बया छायया त्वष्टुर्नन्दनया संज्ञया सौर्या यमुनया पद्मभुवः पुत्र्या सरस्वत्या ॥

हृदि स्वहृदि वरमणिः कौस्तुभः ॥

तत्श्रुत्वा यमुनया भणितं “देवि! अस्मद्भगिन्या राधिकायाः प्रेषिता सौगन्धिकमाला आत्मभ्रात्रे दत्ता” इति विहसन्त्या देव्याः कण्ठाच्चारुहारेण सार्धमुत्तार्य तां दिव्यसौगन्धिकमालां प्रियसखीकण्ठे निक्षिपन्त्या शंसितं, “अयि, गृहाण” आत्मनो प्रियसखीकण्ठे निक्षिपन्त्या शंसितं, “अयि! गृहाण आत्मनो मालं” इति ॥

प्रियवयस्य सर्वं स्मरन्नस्मि नासत्यं प्रगल्भन्ते गोपिकाः ॥

सखि वृन्दे, गण्यतामष्टवर्षिकः काननकरः । अत्र राधाया व्यक्तयौवने मध्यकैशोराद्य एवाभिषेकप्रकरणादवगतः । श्रीकृष्णस्य तु तदानीं शेषकैशोरमेव नित्यं स्थितं तच्च पौगण्डमध्य एवायं हरिर्दिव्यन्विराजत [भ.र.सि. ३.३.७१] इति भक्तिरसामृतसिन्धूक्तेः । पौगण्डस्येवाविर्भूतमेकादशसमास्तत्र गूढार्चिः सबलोऽवसत्[भा.पु. ३.२.२६] इति श्रीभागवतोक्त्या व्यवस्थापितं च । ततोऽत्राष्टवार्षिकानन्तरमष्टौ संवत्सरा व्यतिक्रान्ता इत्युक्तिर्न सङ्गच्छते । तत्र व्रजपुरवनितानां वर्धयन्कामदेवं [भा.पु. १०.९०.४८] इति । वृन्दावनं परित्यज्य स क्वचिन्नैव गच्छति [ल.भा. १.५.४६१] इति श्रीमद्भागवताद्युक्तेऽप्रकटप्रकाशगतैवेयं दानलीलेति केचिदाहुः । अन्ये तु कदाचित्स्यन्दोलिकया कर्हिचिन्नृपचेष्टया [भा.पु. १०.१८.१५] इति दशमप्रमाणितैव हिन्दोलनदानलीला प्रकटलीलागतापीत्याहुः । तन्मते एकादशसमा व्याप्य गूढार्चिः तदनन्तरं च प्रकटार्चिः सन्नावसदिति व्याख्याया अष्टवर्षिकत्वमुपपाद्यते । यद्वा, अभिषेकपूर्वतो केनाप्यगृहीतकराणामेषां करग्रहणमुचितमिति तदानीं कृष्णस्याष्टवर्षवयत्वादष्टवार्षिक इत्युक्तमिति ॥

धवला गाः प्रातिस्विकीः प्रत्येकवल्लवस्वामिकाः वृन्दशः शतकोटिसङ्ख्या प्रमाणेन चारयतां गोसङ्ख्यानां गोपानामसङ्ख्यानां सङ्ख्यातुमशक्यानाम् । तेनैते सर्वस्वमेव सदण्ड्य काननकरैरेव मूल्यभूतैर्भवत्या क्रीता एव कृष्णादयोऽभवन्निति द्योतितम् ॥

विशाखे वृन्दावनचक्रवर्तिनी आज्ञापयति गृहाण हठेन प्रथमं पटुंमन्यस्य बटोर्मणिमण्डनम् ।

भो प्रियवयस्य निश्चितमत्र समाधानं दुष्करं तस्मात्पलायनमेवास्माकं शरणम् ॥३१९॥

गोष्ठश्व इति सुरेन्द्रनाथसंस्करणे.

स्वस्थानस्थः परान्द्वेष्टि यः, स गोष्ठस्व उच्यते । जुगुप्सितसौर्यतया सम्बोधनं सुदर्शनश्चक्रं सुन्दरश्च ॥

सुबल अलं विलज्जितेन काननकर उपनीयताम् ॥

सामन्तश्रीस्त्वं तु मण्डलेश्वरीत्यर्थः ॥

मोआबिदब्बो इति सुरेन्द्रनाथसंस्करणे.

भो सुबल एवं भवतु । तथापि तस्य उद्यानचक्रवर्तिनो निदेशवर्तिना तव घट्टाध्यक्षेण वृन्दावनचक्रवर्तिन्या अस्मत्प्रियसख्याः कथं काननकरो मोचयितव्यः ॥

विशाखे निश्चितं खट्टारूढासि यत्समूढदुर्मदघूर्णिता त्वं तत्त्वमजानती प्रलपसि । खट्टारूढशब्दोऽयं जुगुप्सितगर्ववद्वाचकः । पक्षे खट्टामारूहासि घूर्णाकुलासीत्यर्थः ॥

किमत्र तत्त्वं ? कथय श्रोष्यामि ॥

किं विस्तरेण ? संक्षिप्तसारं शृणु । यः खलु महामन्मथचक्रवर्ती । स एव निश्चितं प्रियवयस्यरूपेण वर्तमानो ज्ञायताम् । द्वयोः किल परमार्थतो भिन्नता नास्ति । कथापक्षे तस्यातिविश्वासास्पदत्वात। सिद्धान्तपक्षे, महामन्मथस्य तत्स्वरूपशक्तिवृत्तित्वातित्यर्थः ॥

विशाखे ! इदमपि अल्पम् । एतत्तत्शृणु । स किल अश्रुतचरसाधर्मः सम्मोहनमाधुरीभरनव्यः सर्वोपरिविराजमानो प्रियवयस्यस्य सकलगोकुलपतित्वेन गोविन्दाभिषेकमहोत्सवः कस्य वा गर्वं न खलु खर्वयति ? ॥

ललिते ! सुष्ठु भणति अर्जुनः उपनिषद्भिर्वनं खल्विदं कृष्णवनं वर्ण्यते । उपनिषद्भिर्गोपालतापनीभिः ॥

मुञ्चय वाचालत्वम् । अस्मत्प्रियवयस्यस्यैव कन्ताराधाशता श्लेषेण कानाराधीशतेति । अतः करहारीभिर्युष्माभी राजकुलपुरुषा वयं खण्डकुण्डलिकाभिः सम्मन्यामहे ॥

हन्त तस्करचक्रवर्तिसामन्त सुबल ! मत्प्रियसख्या श्यामलाया व्रतवेदी एषा मण्डपिका कस्माद्युष्माभिर्घट्टघट्टनेन दूष्यते ? ॥

चङ्क्रमणया भ्रमणेन मनोऽपि भिन्द्यतेति राधाचक्रवेधस्तस्यातिसुकर इति भावः ॥

वंशिकारसिकेत्यनेन वंशीवादनकाल एव भङ्गीत्रयोपलब्धेः । वक्रेश्वरस्तन्नाम्ना शिवलिङ्गभेदः । प्रणयकर्तृत्वेन साधर्म्यम् ॥

अष्टावक्रायितमिति अष्टावक्र ऋषिर्वक्रेश्वरोपासक एवेति वन्दे इति तद्गिरैव मम वक्रेश्वरत्वेन मदुपासकत्वं तव सिद्धमिति तां प्रति साधुवादः ॥

अलक्ष्यवक्रिमापि त्वं लक्षवक्रिमासि तदात्मनः समानधर्मिणो जनेन सह क्रीडाविशुद्धधर्माणामस्माकमितो युक्ता गतिः । लक्षवक्रिमा लक्षसङ्ख्यकवक्रत्ववान॥

सज्जनानां सर्वपथीना गदिः प्रसिद्धा ॥

पुरुषोत्तम पुण्यश्लोकोऽसि तद्धर्मकर्मप्रवृत्तानामस्माकं कुरु मोक्षणम् ॥

शास्त्रकाराणां मुनीनामपि अविसंवादिनी एषा रीतिः । यदेते कामस्यानन्तरमेव मोक्षैश्पठन्ति । धर्मं किल दूरतः प्रठमकक्षारोहणे । धर्मार्थकाममोक्षैश्चतुर्वर्ग इति अत एव मोक्षं प्रति कामस्यैव सांमुख्यं धर्मस्य तु व्यवहितमेवेति भावः ॥

प्रियते इति सुरेन्द्रनाथधृतपाठभेदः ।

हे शुल्केन क्रीत, क्रीतात्करणपूर्वादिति डीप॥

मोहन ! भूरिणा तपोभरेण एव घट्टिपालस्य दासीत्वं सिध्यति, एतस्याः पुनर्मम सख्यास्तद्दुर्लभं यदतपस्विणी एषा ॥३३८॥

निकुञ्जलीलाकुञ्जरेन्द्र ! ललिता भणति । भूरिणेत्यादि वाचा व्यञ्जयतीत्यर्थः । शौल्किकेण त्वयैव सेवाकुलैरुपासणीया अस्मत्सखी । यदेषा सकलयौवनवतीमण्डलचक्रवर्तिनी, तदनेन विपरीतेन अलं जल्पितेन ।

छिल्लदु इति सुरेन्द्रनाथपाठः.

दुल्लीलालदा इति सुरेन्द्रनाथपाठः.

नागरंमन्य झिल्लतु विश्राम्यतु एषा दुर्लीलतावल्लरी ॥

विपणायिता विक्रीता स्ववशा स्वाधीना पक्षे करिणी । किमङ्कुशे इति यदीयं मह्यं विक्रीतैव ततोऽस्य स्पर्शे किं विप्रतिपद्यसे ? इति भावः ॥

कृष्ण! अनभिज्ञो नासि ललिता दुर्लालित्यानां, तत्किमिति आत्मनो माहात्म्यं प्रेक्षयितुं प्रवृत्तोऽसि ? ॥

विश्राणय देहि । विश्राणनं वितरणमित्यमरः ॥

घट्टीघण्टाघोषण ! यदि शुल्कग्रहे दीर्घाग्रहोऽसि । तदा सन्ध्यावसरे अस्मद्द्वारमागच्छ । सुष्ठु घनं तक्रं दास्यामि । घनं घोलमिति सर्वदिनपर्यन्तप्रतिनियतं याचककर्मकारादिजनप्रदानावशिष्टतया मन्थनीतलस्थमित्यर्थः । सन्ध्यावसर इति तदानीं सर्वजनानुपादेयत्वेऽपि जाताम्लातकतया सलवणं तद्भवताम्, अतिरोचकं भवेदेवेति भावः ॥

ललिते कामधेनुवृन्दपतेः सर्ववल्लवेन्द्रस्य गृहे किं घनं तक्रं नास्ति यत्तत्कृते युष्माकं गृहे गन्तव्यं ?

शुल्कनिर्यातनाय शुल्कार्पणाय ॥

दुर्लभफले हठिन्! ललितायाः पुरतः भुवनप्राणो गन्धवाहोऽपि राधायाः स्तनाम्बराञ्चलस्य स्पर्शनमपि न कर्तुं प्रभवति । अत्र हस्तं निक्षिप्तुं कृताध्यवसायस्य ते मुग्धतयैव पर्यवस्यति । श्लेषेण मुग्धता आनन्दमूर्च्छा ॥

कृष्णकुण्डलिनः कालसर्पस्य । पक्षे, कृष्णस्य कुण्डलधारिणः । घट्टनया चालनेन फूत्कृतिः फणाग्रस्पर्शाघातः, पक्षे चुम्बनं, लक्ष्यते ॥

मन्त्रित इति सुरेन्द्रनाथसंस्करणे.

ललिता आहितुण्डिकी व्यालग्राहिणी विलसति सुसिद्धमन्त्रे व्युत्पन्ना, अत एव जिह्मगस्य सर्पस्य । पक्षे, कुटिलचर्यस्य तव मूर्धोन्नमनं फणोत्क्रमणम् । पक्षे, चुम्बनाद्यौद्धत्यं लक्ष्यते ॥

रक्तः अनुरागी नीव्या बन्धं सोढुं न क्षमः कृपालुतयैव यः शीघ्रं तं बन्धं सोढुं न क्षमते स कथं बलात्करिष्यतीत्यर्थः । अन्यबन्धे कञ्चुलिकादिबन्धे ॥

नान्दीमुखि भगवतीपादैः शापितासि त्वरितमितो दुरीभव प्रेक्षामहे किमेष अस्माकं करोति ॥

ललिते महासङ्कटमेतद्युष्माकं यत्हठिल्लचक्रवर्तिनो हस्ते पतिताः स्थ । तदत्र समये परित्यागो न खलु स्णेहस्याणुरूपः । तेन यद्यपि त्वया शपथो दत्तस्तथापि मया न शक्यते गन्तुं धर्मापेक्षतोऽपि स्नेहापेक्षाया लोके बलवत्त्वेन दर्शनादिति भावः ॥

प्रियवयस्य याहि प्रगल्भाः शुल्के विप्रतिपद्यन्ते तास्तूर्णमस्मत्पुरत आनीयन्तामिति उद्यानचक्रवर्तिनः शासनं त्वया कथं विस्मृतम् ॥

धर्मधुरीण तयैव कुलाङ्गनया आत्मनो द्विकुलं रक्षितम् । यया पुण्यश्लोकमौलिना त्वया सार्धमेकाकिन्या निर्जने चलितम् ॥

कृष्णः—क्षेपिष्ठे क्षिप्रता मे ॥

उपसाधयति इति सुरेन्द्रनाथपाठः.

अम्हाणमिति सुरेन्द्रनाथपाठः.

हन्त ! सौम्य सुकुमार ! आत्मनो नेत्रचत्वरे राधिकातनुस्पर्शसाहसिकता त्वयि वर्तत इति सर्वथा न प्रत्येति । एषा ललितेति प्रसिद्धा सिद्धानुशासना बल्लवी तत्प्रेक्षितुं कृतकुतूहला तिष्ठति । सुष्ठु विस्तारय आत्मनो विक्रमसर्वस्वमिति सर्वमेतद्वचनाडम्बर्यं ललितायाः । एतेनैवोपाधिना श्रीकृष्णबलात्कारमाशासानायाः स्वसख्याः वामरूपप्रौढिरक्षार्थमेव । अन्यथा चिरादासन्नकान्तायाः प्रतिक्षणमनुभूतरूपगुणनर्मोद्रेकायाः सहसैवौत्सुक्यचुलुकितधैर्यपुञ्जत्वे दाक्षिण्यमयः प्रकट एव उन्मादोऽपि सम्भाव्येत स च दानघट्टविवादवचनसमरप्रतिकूल एवेति ॥

किञ्चिद्विहस्येति प्रायोऽज्ञानसूचक एव हासः स च युष्मत्सखी चापल्यप्रकटोत्थापनपूर्वकं तत्प्रौढिध्वंसकस्वविजयेच्छोर्मम प्रसभो नाभिप्रेत इति तदाज्ञापयति चेति ।

सखि ललिते विजयिनी भव ।

कृतं सुष्ठु संलापविलसितम् । तद्द्वयोरभीष्टामृतपूरस्य अवगाहने तीर्थमारप्स्ये ।

विशाखे तत्र गत्वा निवेदय भगवतीमस्माकं बाढमिदं विडम्बनम् ।

एषा भगवती माधवीमण्डपान्तरिता प्रेक्षमाणा सर्वं सृणोति ।

ललिते ! भगवती खलु गोकुलेश्वराः पार्श्वे वर्तते ।

इक्खिदेण इति सुरेन्द्रनाथपाठः.

हला ललिते ! आत्मनोऽपि भूयिष्ठोऽस्मासु युष्मत्स्नेहोऽद्यैव सुष्ठु प्रत्यक्षीकृतो, यद्घट्टपालतो जातामस्माकं यातनां तत्र आत्मसमर्पनेन मोचयितुमुपक्रमन्ती त्वमिङ्गितेन लक्ष्यसे तद्धन्यासि । इङ्गितेनेति सहसैव चण्डिममान्थर्यं तव कारणमन्यच्च दुर्वारमारसंहाराय गोपिकारूपेणोपस्थितेति त्वां प्रति यदैव कृष्णेनोक्तं तदैव सहि ललिते विजयिनी होहीति विशाखया तत्र मारसंहारे विजययुक्ता भवेति भङ्ग्या त्वयि परिहास एव व्यञ्जितस्तत्श्रुत्वा त्वया स्मितमेव कृतं न तु तां प्रति किञ्चित्प्रत्युक्तमिति तत्र तवाभिलाषोऽवगत इति ॥

सूरब्बदे इस्सुदे इति सुरन्द्रनाथसंस्करणे. सूरब्बदे कबिस्सुदे इति पाठोऽपि तेन धृतः.

अयि सूर्यव्रतैकविश्रुते । पक्षे, वीरव्रताख्याते । असमवाणीसमरे एव सत्यं कुशलास्मि । त्वं पुनरसमबाणसमरे यत्पुनः पुनः दृष्टपुरुषकारसौष्ठवसारासि । तत्प्रसीद कटाक्षजृम्भणबाणेन । एनं महावीरम्मन्यं जृम्भयन्ती क्षणमत्र तिष्ठ । वयमल्पमग्रतो गत्वा प्रतीक्षामहे त्वाम् । सूर्यव्रतेति तव सूर्यव्रतारम्भस्य कारणं प्रयोजनं च सर्वे जानन्त्येवेति भावः । असमवाणी वक्रवाग्विलासः असमबाणः कन्दर्पश्च । पुरुषकारः पुरुषार्थसाधकत्वं पुरुषायितत्वं च ॥

अपेहि, आत्मन आकारसङ्गोपनैकदक्षे ! अपैहि ! इदानीमेव प्रेक्षिष्ये ॥

खलकेलिछःइल्ल इति सुरेन्द्रनाथः. छलकेलि इल्ल इति तेन धृतः पाठान्तरम्.

बट्ठंहणो इति सुरेन्द्रनाथधृतपाठान्तरम्

छलकेलिविदग्ध । एष हठिल्लतालगुडीमात्रावष्टम्भनो वल्लवानां गण इव न खलु सारग्राहिणीनां वल्लवीनां गणः ।३६३।

संमीसिदं (< संमिश्रितम्) इति सुरेन्द्रनाथधृतपाठान्तरम्.

अयि कलहलोलुपताविस्मारितधर्मे विरम । तैर्याज्ञिकैः सन्दिश्य प्रेषितमस्माकं यत्हैयाङ्गवीनं हरन्तीभिः युष्माभिः कुलाङ्गनानां कुलकन्यानां वा दूषणकारिणि कामिजने दृष्टिक्षेपोऽपि सर्वथा न कर्तव्यः । (इति नासिकाग्रे तर्जनीमासज्य) हा धिखा धिक्त्वया पुनरुन्मत्तया मोहेन मोघमेव जल्पन्त्या बहुकालं वचनसंमिश्रितम् ॥३६४॥

विशाखे सुष्ठु कथयसि सर्वं मुग्धया मया विस्मृतं तच्चिन्तयात्र किमपि निष्कृतम् ॥३६५॥

दोषैरस्पृष्टां पक्षे दोषा भुजेन स्पृष्टाम् ॥३६६॥

हन्त परकलत्रम्लापनविलाससाहसिकेन कुलबालिकाहं स्पर्शे दूषितास्मि । स्मितमिति मदङ्गस्पर्शयितुकामयैवानया स्वस्पर्शपराभवोऽपि प्रथमं स्वीकृतमित्यभिप्रायात॥

ललिते ! अस्मत्सङ्गात्तूर्णमपेहि, यत्रतहिण्डकस्पर्शकलङ्कितासि । रतहिण्डकः स्त्रीचौरः ॥

अयि विनोदं कुर्वत्या अलिकमेव इदं भणितं मया—कुतो मादृश्याः पतिव्रता शिखण्डिन्याः स्पर्शमहासाहसे एष भुजभुजङ्गम उत्थातुं प्रभवतु ?

अयि असत्यभाषिणि ! विज्ञातं विज्ञातं, तिष्ठ तिष्ठ । कृताभ्युत्थानानि तव तनुरुहाण्येव साक्षित्वं तन्वन्ति ॥

रतनारीक सुष्ठु क्षुभितास्मि यत्त्वया विदूषितां मां सख्यो न स्पृशन्ति । अतो न दुःखं पञ्चभिः सह इति भणितिर्यथा प्रकटीभवति तथा कुरु ॥३७०॥

विदग्ध पुनरपि ललितामेव म्लानां कुरु यत्न शयानः पतत्यधः इति वचनं श्रूयते ॥३७१॥

अपि नाम प्रियसखी विशाखां कठिनोरुपञ्चशाखोपशोभितामचिरात्प्रेक्षिष्ये । पक्षे पञ्चशाखः पाणिः कठिनः इति पुरुषपाणेः काठिन्यं सल्लक्षणमेव ॥३७२॥

तरुणा वृक्षेण पक्षे तरुणेन मया यूना । सुच्छाया पक्षे सुकान्तिः । तत्प्रकटमेव तवाकूतमलमलिकेन विलक्षणभावेन दिष्ट्या चिन्ताकुलासु अस्मासु अतर्कितं शुल्कस्य योग्यकृतासि त्वं देवेन ।

कूणयति इति पाठान्तरम्.

ललितालापन इति सुरेन्द्रनाथपाठः.

सभ्ये इति त्वत्सख्या यदभिप्रेतमनुतिष्ठामि तत्तवैवेति विचारयेति भावः ॥

सखि परित्राहि आत्मानमेव यद्राधाया मालिन्ये विशाखा मलिना भण्यते । राधाविशाखयोरैक्यादिति ललितायां बहिरङ्गत्वं प्रकटमर्पयति ॥

लुद्धजणेण इति सुरेन्द्रनाथः.

अयि गान्धर्विके धूर्तमौलिना लुब्धकेन अनुद्रुता त्वं कस्मादेनां पञ्चमुखीं त्यक्त्वा एकां कुरङ्गिकां शरणं गच्छसि तन्ममाङ्कमलङ्कुरु त्वरितं शङ्काकुलो भूत्वा पलायतु एषः । गन्धर्वः सरभो रामः सृमरो गवयः शश इति गन्धर्वः प्रकृष्टपशुविशेषः । तस्य पत्नी गान्धर्विका । पक्षे, हे गान्धर्विके ! लुब्धकेन मृगायुना लोभिना च । पञ्चानां सखीजनानां मध्ये मुख्यां पञ्चमुखीं ललितां, पक्षे सिंहभार्याम् ॥

विश्रम्भो विश्वासः ॥

हा धिखा धिक्सखि वृन्दे भण कथं शुद्धा भविष्यामि ।

ललिते पश्य प्रत्यासीदति मध्याह्ने तत्कथ्यतां कियान्शुल्कः युष्माकं सम्मतः ॥

हन्त दानीन्द्र ! यद्यप्यस्माकं पञ्चपादिका एवात्र मुक्ता तदपि युष्मन्मुखमवेक्ष्य एषा मणिमुद्रा उपनीता । पादिका चत्वारिंशत्कपर्दिका ॥

वृन्दे दृष्टं त्वया दुर्लभा मणिमुद्रिका प्रक्षिप्ता ।

यथा तस्य नवनिधीनामधिपतेः कुबेरस्य महाचिन्तामणिमनीषितेन सादरप्रसारिते हस्ते छिद्रकपर्दिकानिक्षेपस्तथैवैष युष्मद्व्यवहारः ।

द्वयोरुत्कण्ठितयोराश्वासं भङ्ग्या करिष्ये । हला राधे ! यथार्थं दानं विना दुर्लभमस्माकमितः प्रस्थानम् । तत्तव कण्टस्थितं हारमेव शुल्कीकुर्मः ॥

उत्कण्ठिते ! कस्मादधीरासि ? एषा निसृष्टार्था मौक्तिकावली दूती कृष्णमलंकर्तुं चलिता ।

विन्यस्तकार्यभारा या द्वाभ्यामेकतरेण वा ।

युक्त्योभौ घटयेदेषा निसृष्टार्था निगद्यते ॥

तदभिसारे सज्जीभव ॥

अयि सम्भोगसंरम्भिणि ! अलमनेन दम्भगम्भिरिमारम्भेण । अत्र विवादमहामखे अदक्षिणापि त्वं दक्षिणा निर्मिता प्रणयेन सखीभिः ॥

भात्तो इति सुरेन्द्रनाथः.

घट्टनाथ एषा अनर्घा मौक्तिकावली मया उपनिधीकृता । पुमानुपनिधिन्यास इत्यमरः । अतः प्रदोषे सुवर्णोपनयेन पुनस्त्वत्तो मोचयितव्या । सुवर्णानां पक्षे सुवर्णाया राधाया उपनयेन ।

ललिते, पश्य भागधेयं तपस्विन्या मौक्तिकावल्याः ।

तव निषेव्य पुना राधे स्तनशम्भुं मौक्तिकावली शुद्धा । हरेर्विहरति हृदये तव कथनीयः कथं महिमा ।

कुटिले ! अलं प्रलापेन । प्रेक्ष्यतामितोऽपि प्रचुरं भङ्गुराया भ्रमरकलङ्कितायाः सौभाग्यलीलायितमिति । तस्या मत्सम्बन्धः कोऽस्तीति वृथा श्लाघया मां पीडयसीति ।

विशुद्धेति महाभावोन्मादेन मादनो नामायम् । यदुक्तमत्रेर्षाया अयोग्येऽपि प्रबलेर्ष्याविधायिनी [उ.नी. १४.२२१] ।

कल्याणि ललिते महाघट्टपालेन्द्रो युष्माभिरानन्दितः । तदेष बुभुक्षित एकया हैयङ्गवीणगर्भया गुरुतरगगर्या कायस्थोऽपि कायस्थः क्रियताम् । काये तिष्ठतीति कायस्थः । अधुनायं न काये तिष्ठति किन्तु कृतगर्गरीस्थ एव तद्गतप्राणत्वादिति भावः । तेन मत्काये गर्गरीघृतं स्थापयित्वा मज्जीवनमेव स्थापयेति द्योतितम् ।

हे लोलुप, मा खलु एवं ब्रूहि । सप्ततन्तोर्यज्ञस्य किल हैयङ्गवीनमिदम् ।३८९।

विशाखे धन्याः खलु याज्ञिकब्राह्मण्यः याभिरात्मगृहस्यापि तदाङ्गिरससत्रमुपेक्ष्य तस्य सुष्ठु मिष्टान्नैः सर्वे वल्लवा भोजिताः । युष्माभिः पुनः परगृहस्य सप्ततन्तोर्योग्यैरपि नवनीतैर्नवतन्तुकोऽपि एक एषोऽपि न भोज्यते ।

महोपहाराय इति सुरेन्द्रनाथस्य पाठः.

त्वया ज्ञात्वा प्राप्तास्मि तस्मान्न खलु अयुक्ता एषा विडम्बनकदर्थना इति मया सर्वशुल्कतयैव दत्तोऽपि हारस्त्वया स्ववर्तनमात्रपर्यवसितः कृतः इति यथासुखमेवाहमद्य त्वया विडम्बयितुं प्राप्तेति भावः ।३९१।

महादानीन्द्र आत्मनोऽभिमतं दानं दृढं कथ्यतां यथा मध्यस्थीभूय मया परिच्छिद्यते ॥

गदितुमिति पाठान्तरम्.

आर्यायाः पारिषद्याः पारिषदि साध्व्यो परिषदोऽन्य इत्यत्रान्योऽपि इति जयादित्यः । परार्धमेक दश शत सहस्रेत्यादीनामष्टादश यत्र एक सङ्ख्योत्तराः सप्तदशबिन्दवस्तिष्ठन्ति । परार्ध्यां परार्धमूल्यां पक्षे श्रेष्ठां राधां न्यस्य उपनिधीकृत्य न तु परार्धकनकटङ्कान्तयैव प्रयोजनं सिद्धेदिति भावः । पुमानुपनिधिर्न्यास इत्यमरः ।३९३।

रङ्गिलपुङ्गव चित्रा तव चित्तानुवर्तिनी तदेषैव शुल्कोचिता । चित्रेति पञ्चसु कनिष्ठत्वाच्च सैव नान्दीमुख्या तथा वक्तुं शक्या न तु ललिताद्याः इति भावः ।३९४।

भगवति ! दिष्ट्या विडम्बनाम्बुराशेः पारमस्माभिर्दृष्टं यत्स्वयमत्र तत्रभवती समागता ॥

अनुरीकृत्य अनङ्गीकृत्य मानोद्धुराणां गर्वोन्नतानां शातोदरि हे कृशोदरि ॥

भगवति ! पश्य दुर्लभो हारोऽस्माभिर्दत्तस्तदपि न मुच्यामहे ॥

पाटलितं श्वेतरक्तीभूतम् । एतच्चित्तस्य स्वतःशुद्धत्वात्सम्प्रति युष्मत्कलहकटुकृतत्वाच्च श्वेतरक्तत्वमित्यर्थः । शिखण्डचूडः पिञ्छचूडः प्रियस्य वस्तुनः । पक्षे, प्रियाया उपहारं विना अहार्यः त्याजयितुमशक्यः संरम्भडम्बरो यस्य सः मनस्वी धीरः ॥

भगवति ! आज्ञापय आसां मध्ये एतं भारं का खलु वक्ष्यति वोढुं पारयिष्यतीत्यर्थः ॥

या पञ्चसु मध्ये परमाराधिका परमाराधनयोग्या भवतीत्यर्थः । पक्षे, परः श्रेष्ठः प्रेममयः । मारः कन्दर्पः, तेन आराधिका तत्सुखोत्पादयित्री । पक्षे, श्रेष्ठा ॥

आलिमण्डलं कर्तृ निरटङ्कयत्निरनैषीत। असौ ललिता । प्रतीक्षायाः पूजायाः ॥

स्मितमिति तदवहित्थासमुद्घाटनार्थम् । हृदयरत्नस्य विजये संवृत्ते अलमनया हठरङ्गरक्षया ॥

अस्मिन्दुरन्तव्यसने कठोरघट्टीपालहस्ते मा खलु कातरः प्रकृतिदक्षिण एष जनः शुल्क्यताम् ॥

भ्राम्यति कामपीति असाध्यामिति दृष्टिच्छटामात्रेणेत्यादिभिस्तद्विषयकः स्वप्रेमैव भङ्ग्या पक्षे व्यञ्जितः ॥

साधीयसि समीचीने समये स्वीकृतचुल्कं प्राप्तशुल्कम् ॥

रमण्याः श्रीराधायाः मणिः शङ्खचूडरत्नं हारनायकीभूतं श्लेषेण स्त्रीरत्नं राधैव ॥

मेदुरः स्निघः महान्राग आरुण्यं प्रेमा च तस्य कौमुदीडम्बरेण करम्बितस्य युक्तस्य ॥

चिन्तामणिः हारनायकीकृता न तु राधारूपेत्यर्थः । कान्तामणिः कान्तैव मणिरित्यर्थः ॥

अत्रैव चिन्तामणावेव राधैव चिन्तामणिरिति भावः । ललनाया ललामस्य भूषणस्य श्लेषेण ललनासु भूषणभूताया राधाया इत्यर्थः । पारिषद्याः नान्दीमुख्याः ॥

वैलक्ष्यभावेन विस्मितबाहुल्येन । विलक्षो विस्मयान्वित इत्यमरः । चिन्तामणीति यदेइवास्या हारः प्राप्तस्तदैवेयमेव प्राप्ताभूदिति भावः ॥ भानुजायाः सूर्यसम्बन्धिन्याः श्रियः शोभायाः विष्णुपदमाकाशम् । पक्षे भानुजाया राधायाः श्रियः विष्णोस्तव पादसेवायाम् । संहारनामायं सप्तममङ्गम् । यदुक्तं संहार इति तत्प्राहुर्यत्कार्यस्य समापनमिति ।

कलानिधेश्चन्द्रस्य पक्षे कृष्णस्य ।

राधां विशाखानक्षत्रमनुराध्यमानेन चन्द्रेणैव माधवीया वैशाखी तस्यां विशाखानक्षत्रयोगो भवेदेवेत्यर्थः । पक्षे विधुना कृष्णेन । पूर्णिमा कर्त्री विशाखैव सखी तयैनं विधुमुपलक्षयतु पक्षे विशाखायाः सख्या राधया तेन तयो राधामाधवयोस्तत्रैव रहःकेलिकुञ्जे ललितादिभिः प्रवेशः कारितः पौर्णमास्या बलादिसूचितम् । ततः क्वचित्क्षणान्तरं विरचितदिव्या कल्पौ तावागतौ विलोक्याह वैदग्धीति ॥

साधीयसि श्रेष्ठे । वृन्दारण्यस्य तद्वासिमात्रस्यापि समृद्धेर्दोहदपदमभीष्ठो विषयः क्रीडाकटाक्षद्युतिरपि यस्य हे तथाभूत! तर्षो मनोरथः ।

सुमनसः पुष्पाणि सुमनसो भक्ताश्च । तस्य प्रियसुहृदः श्रीराधाकुण्डवासिनः श्रीरघुनाथदासस्येत्यर्थः ।

]