[[श्रीमाधवमहोत्सवम् Source: EB]]
[
श्रीश्रीलजीवगोस्वामिप्रभुपादविरचितं
श्रीमाधवमहोत्सवम्
श्रीराधाश्यामसुन्दराभ्यां नमः
(१)
प्रथम उल्लासः
उत्सुकराधिकः
जीयाद्विकीर्णा किरणावली हरेः
श्रीराधिकाभागभिषेकवारिणा ।
आसारिणी यारुचदालिलोचनैः
सार्धं मयूरैरिव मेघसंहतिः ॥
॥१.१॥
जीयतां स्वभजनामृतान्धसां
चित्तविष्णुपदवृन्दनन्दिना ।
श्रीशचीस्तनजसिन्धुबन्धुना
हारिगौररुचिना हरीन्दुना ॥
॥१.२॥
अङ्घ्रियुग्ममिह सारसारस
स्पर्धि मूर्धनि दधातु मामके ।
यः सनातनतया स्म विन्दते
वृन्दकावनममन्दमन्दिरम् ॥
॥१.३॥
यस्य शासनबलात्कृताविह
प्रावृतं स्वयममुष तुष्यतः ।
रूपनाममहितस्य मत्प्रभोः
प्रीणतां करुणया हरेः प्रियाः ॥
॥१.४॥
प्रश्रितोऽयमनुयाचते जनस्
त्वं स्वतः प्रभुनिदेशभारति ।
तन्महामहविभाविवैभवैर्
आविरेधिनवकाव्यरूपिणी ॥
॥१.५॥
पातु मां पितृतया कृपान्वितस्
तत्प्रभुद्वयसहोदरप्रथः ।
यो विभाति रघुनाथदासता
ख्यातिभिर्जगति साधुवल्लभः ॥
॥१.६॥
यन्निदेशवरवीर्यसम्पदा
सन्मदात्प्रववृते कृताविह ।
हन्त तस्य कृपयैव सन्ततं
यान्तु तोषमपि ते महायशाः ॥
॥१.७॥
पाद्मकार्त्तिकमहिम्नि सूचितं
सुष्ठु मात्स्यमनु यद्विनिश्चितम् ।
वर्णितं प्रभुवराङ्घ्रिपङ्कजैस्
तन्मुदा प्रथयितुं ममोद्यमः ॥
॥१.८॥
राधिकानयननर्मरोचिषा
जीयतां तदभिषेककौतुके ।
माधवेन्दुमपि यत्तु मन्दितं
कुर्वदेव विततान नन्दितम् ॥
॥१.९॥
राधिका व्रजवधूव्रजाधिका
धन्यपुण्यवृषभानुकन्यका ।
शीलनन्दितसलीलमाधवा
सा सुखाकृतसखीषु खेलति ॥
॥१.१०॥
कीर्तिदाविशदकीर्तिभाविनी
भावनद्धवनितालिभिः सह ।
एकदा निजरसालचत्वरं
सा ययौ विधुकलेव कान्तिभिः ॥
॥१.११॥
चित्रसृष्टिकुशलेऽपि वेधसि
स्फारचित्रचयकारुचारुता ।
कीर्तिशुभ्रकिरण्ऽपि गोकुले
व्यूढशुभ्रकिरणालिविभ्रमा ॥
॥१.१२॥
पूर्णपूर्णविधुसारमाधुरीः
पक्षपक्षमिव मुञ्चती बलात।
शासतीव महतः कृपां सति
स्वाङ्गरत्नभृतरुक्मभूषणा ॥
॥१.१३॥
चित्रकल्पलतिकाभ्रमादिव
स्वर्वधूभिरनुलीलमीलिता ।
पूर्णभागपि कलामयात्मतां
श्रीनुतव्रजवधूगणे गता ॥
॥१.१४॥
तुल्यमूल्यवररत्नमालिके
वाङ्गजे महसि रङ्गदा मिथः ।
सद्रसैरिव समाहृतिर्युताप्य्
ऊढनर्मकलित्भिर्विभेदिताः ॥
॥१.१५॥
कृष्णचित्तकमलालयं गता
निर्जितान्यकमलालयस्थितिः ।
कृष्णहार्दसुखहृद्यवारिधौ
शीतदीधितिकलालिसोदरा ॥
॥१.१६॥
ग्लौकलेव सुतनुश्च सर्वदा
नन्यजद्युतिधुराधुरन्धरा ।
सा बभौ कविगिरां गुरुच्छवी
राधिकादिरखिला सखीततिः ॥
॥१.१७॥
(षड्भिः कुलकम्)
विभ्रमोल्लसितमञ्जुशिञ्जिता
रागबन्धमधुरा सखीततिः ।
तां वरालिमभितो विदिद्युते
शृङ्खला हरिकटीपटीमिव ॥
॥१.१८॥
बन्धुरामिह रसालबन्धुना
माधवीमथ विलोक्य माधवीम् ।
आललाप ललितां मदोल्ललां
राधिकाधिकविनोदमोदतः ॥
॥१.१९॥
चित्रपत्रनवगुच्छसुस्तनी
कृष्णभृङ्गलसदङ्गसङ्गिनी ।
माधवोज्ज्वलविलासशालिनी
पश्य भाति भवतीव माधवी ॥
॥१.२०॥
अद्य ते विधुरिहैव देवितः
किं स्वकीयकलया कलावति ।
बालिका सपदि माधवीलता
लालसीति हसितैरियं यतः ॥
॥१.२१॥
कृष्णभृङ्गललिताङ्गमाधवीं
चुम्बभीर्न हि रसालतत्पतेः ।
तस्य लोलदलपाणिकस्य यत्
कारये सपदि पाणिपीडनम् ॥
॥१.२२॥
त्वां निभाल्य सखि मञ्जु मारुतो
ल्लोलपल्लवकराम्रवल्लरी ।
कृष्णमाह्वयति दूरदृश्वरी
कौतुकाय किल कोकिलाकलैः ॥
॥१.२३॥
तेन तेन वचसैव योजितां
नर्मणा ललितयापि राधिकाम् ।
वीक्ष्य सस्मितमुखं विशाखया
तन्मनोरथपथो निरप्रथि ॥
॥१.२४॥
विद्म एव शतधा दृढव्रतां
त्वामिहाद्य बत का हसिष्यति ।
सङ्गृहाण सखि भूषणोचितां
कान्तकान्तनवमाधवीततिम् ॥
॥१.२५॥
देवपूजनमिषेण भाविनी
सा विचित्य कुसुमानि तान्यथ ।
प्रेयसे गुरुकलागुरुर्व्यधाद्
गुम्फितुं पुलकिताङ्गमिङ्गितम् ॥
॥१.२६॥
आस्तृतं कुसुमतुलिकासनं
दासिकाभिरभितः ससम्भ्रमम् ।
विभ्रमेण तदसावभूषयद्
गाङ्गनीरमिव पीतपद्मिनी ॥
॥१.२७॥
सव्यपाणिधृतसूतिसीवनी
सारितानि कुसुमानि राधिका ।
गुम्फतीतरकरेण लीला
गुम्फति स्म सुहृदां मनांसि च ॥
॥१.२८॥
शोणपाणिमुकुलेन पुण्ड्रकं
मण्ड्यते स्म पटु यद्यदेतया ।
तत्तु तन्नखरसोमसीमभाग्
अभ्यगादुदयदृक्षलक्षणम् ॥
॥१.२९॥
तत्र पुष्पजलपूगवर्णिका
भूषणव्यजनशारिशारिकाः ।
सादरं समभिगृह्य सेविकाः
सुन्दरीसमुदयं सिषेविरे ॥
॥१.३०॥
पुष्पचामरचयानुसञ्चरद्
भृङ्गसङ्घमनु तत्तनुरुचिः ।
हारि हारिहरिचूर्णकुन्तलं
स्वर्णवर्णकपटीव वर्ण्यते ॥
॥१.३१॥
राधिकामुखरुचा समं सखी
दृक्चकोरमिथुनैरथामृतम् ।
उद्गिरद्भिरपि सा पपे चिरं
लालसा न मतिशान्तये क्षमा ॥
॥१.३२॥
कर्णपालिरलिवन्नतभ्रुवां
तन्मुखाम्बुजवचोमधून्मदा ।
प्राप नैव विकृतिं तदा दृशो
लास्यमङ्ग सपदि व्यतन्वत ॥
॥१.३३॥
हारवल्लिरभवद्गुणश्रिया
तासु सा कुसुमकर्णिका गिरा ।
काञ्चनाञ्जनशलाकिका रुचा
कृष्णभावमहसा शिरोमणिः ॥
॥१.३४॥
अद्य किं वरसखीसुखाकृतं
केशवं नु कलयाम कानने ।
इत्थमत्र निभृतं मिथो न का
गण्डमण्डिपुलकं बभाषिरे ॥
॥१.३५॥
तां कयापि हरिचापलान्तर
व्यञ्जि नर्म रचितं व्यलोलयत।
पङ्कजस्य मरुदागमस्तदुत्
सङ्गसङ्गतृषितालिनीमिव ॥
॥१.३६॥
आलिगीतमिह केवलं न तत्
कण्ठ एव वहति स्म रागिताम् ।
राधिकाहृदि च तच्च नाद्भुतं
दिव्यवस्तुमहिमा हि तादृशः ॥
॥१.३७॥
अश्रुघर्मसलिले तदामिलल्
लोमलास्यमथ कम्पसम्पदि ।
स्तब्धता प्रलयधाम्नि तामनु
प्रेमसिन्धुरतिवेलतामगात॥
॥१.३८॥
साथ ताभिरपि सान्त्विता चिरान्
म्लानवक्त्रकमला व्यलक्ष्यत ।
येन चाभिरभितोऽपि भास्वती
शून्यमेव भुवनं स्म मन्यते ॥
॥१.३९॥
चित्रकेलिकलया स्वपालितां
तां निजप्रकृतिमागतां पुनः ।
आलयोऽथ विनिभाल्य दुःखिता
राधया जगदिरे सगद्गदम् ॥
॥१.४०॥
किं प्रतिस्वमिदमाहितं भवद्
भालचन्द्रमसि लेखलाञ्छनम् ।
त्वं च तद्गुणकुकूलवह्निना
गोपि दग्धहृदया भवेति यत॥
॥१.४१॥
तत्कृते सुमनसो धिया समं
सन्दिता न कति मम्लुरेतया ।
हा कथं तदपि हारितात्मनां
यान्ति तद्व्यसनतो दिनानि वः ॥
॥१.४२॥
कृष्णसङ्गघनरङ्गमङ्गलं
सर्वतो व्रजकिशोरिकाव्रजम् ।
आलयः किल विलोकयाम्यहो
यूयमेव हतवेधसा हताः ॥
॥१.४३॥
पातुमर्हथ न साधु माधुरीं
धन्यपुण्यवलिता हरेः किमु ।
अस्य दुर्भगजनस्य सङ्गतिः
किन्तु हन्त निखिलङ्गिलाजनि ॥
॥१.४४॥
भावयेत बत कापि दैवतो
गोकुले कुलवधूषु चेज्जनुः ।
नास्मदीयगणवर्तिनीषु धिग्
नापि मत्प्रतिमतामतासु नु ॥
॥१.४५॥
हा निमेषलवकोऽपि दुःसहो
यस्य कान्तिमनुभूय जन्तुभिः ।
अद्भुतं प्रियतमाभिमानिनी
तस्य गन्धरहितापि जीवति ॥
॥१.४६॥
कृष्णवर्त्मवलितापि सन्ततं
हा शमी कथमसौ च वर्तते ।
हन्त बाढमथवा घटेत तद्
दारुणस्थितिरपीयमीदृशी ॥
॥१.४७॥
तत्स्मृतिप्रथितचन्दनाटवी
दीप्रदैवदववृन्दमस्मकान।
उदिग्रद्गिरदुदेतु तत्तु फुत्
कुर्वती भ्रमति किं नु वंशिका ॥
॥१.४८॥
पाविके पिब हरेर्मुखाम्बुजं
जोषमत्र खलु का नियामिका ।
किं विडम्बयसि तेन मोहितां
मोहनैः कलपदैरिमां मुहुः ॥
॥१.४९॥
पूर्णिमा मुनिवरा च मामितो
नान्दिका तदनुगा च नास्मरेत।
दैवकं स्फुरति यस्य वाम्यतस्
तस्य चाङ्गमवलोच्यते तथा ॥
॥१.५०॥
इत्थमुद्धुरमनोजया गिरा
क्षोभलोलहृदयासु तासु च ।
शृण्वती कियदपीह साययौ
मन्दमन्दमथ नान्दिकामुखी ॥
॥१.५१॥
सुभ्रुवोऽथ पुरतो निभाल्य ताम्
उत्थिताः करपुटैः सभाजिताम् ।
सास्रमेतदुपगूढविग्रहा
विष्टरे द्रुतधियो न्यवीविशन॥
॥१.५२॥
स्वस्तिभावमनुयुज्य राधिका
कान्तवृत्तकलने ललन्मनाः ।
साम्प्रतं न भवती कुतः कुतश्
चागतेति वदति स्म गद्गदम् ॥
॥१.५३॥
फुल्लदुत्कलिकिकां निरूप्य सा
राधिकां हरिविलासपद्मिनीम् ।
एतदीयसुमनोऽभिवृद्धये
सान्त्ववाक्यमृदुसूत्रमातनोत॥
॥१.५४॥
आज्ञया भगवतीपदाब्जयोस्
त्वामहं कलयितुं सखीश्वरि ।
आयती पथि हरिं वने गता
गोकुलेऽपि किल गोकुलेश्वरीम् ॥
॥१.५५॥
सा हरेरुत तवाध्ववीक्षिणी
स्तन्यरोदननदीर्वितन्वती ।
भाषते स्म सखि कातरेक्षणा
मामुदीक्ष्य मधुसूदनप्रसूः ॥
॥१.५६॥
हन्त नान्दि विपिने त्वया शिशुं
किं न्यशामि मम दारुणात्मनः ।
खेलया क्षुधमितोऽपि नाययौ
सोऽधुनापि किमु वा कुमारकः ॥
॥१.५७॥
वासरान्तरुपभोज्यसञ्चयं
यं प्रगृह्य चलितं धनिष्ठया ।
खेलितस्खलितधीरुताच्युतः
प्राप तं स तु न वा तपोधने ॥
॥१.५८॥
किं सुतः सुतरुमूलमाश्रयन्
भुक्तवान्मधुरमन्नमिच्छया ।
वर्धते सबलबाललालितो
गोष्ठवर्त्म किमु वा विलोकते ॥
॥१.५९॥
रक्षणौषधिमणीर् मदर्पिताः
कानने वहति चच्चिदच्युतः ।
अप्रमत्तमभितो वसन्ति वा
तेऽतियुक्ततममल्लतल्लजः ॥
॥१.६०॥
क्षेमलक्षसुधया हरेर्मया
सान्त्विता व्रजभुवामधीश्वरी ।
सा स्मरन्त्यपि तवालि मां पुनः
स्नेहभिन्नहृदयोदयाब्रवीत॥
॥१.६१॥
हन्त नान्दि बत मद्वधूपदाद्
ऋअधिकापगमितापि वेधसा ।
तत्प्रतीतिविभवं सदा गता
मन्मनःस्थलमसौ विराजते ॥
॥१.६२॥
यद्यपीह विविधाः कुमारिकाः
सन्ति सद्गुणमणिप्रसाधिताः ।
भाति माधवशशीव राधिका
सा तु नः सति दृशां प्रकाशने ॥
॥१.६३॥
हन्त यासि यदि तत्र पुक्त्रिकं
राधिकां कलयितुं तदा स्वयम् ।
नामतो मम चिराय तच्छिरः
साधुगन्धमुपगूह्य सन्दिश ॥
॥१.६४॥
भङ्गुरेण विधिना स्वबालका
लोकनं क्षणिकमेव मेऽप्रथि ।
कैर्तिदेयि भवती च दूरगा
पुत्रि तेन कठिनात्मनाघटि ॥
॥१.६५॥
केशवाननमवीक्ष्य मानसं
क्वापि पुत्रि बत नावतिष्ठते ।
वासरं क्षपयितुं क्षमेऽञ्जसा
राधिके चरसि चेत्त्वमन्तिके ॥
॥१.६६॥
त्वं सुते परवती गुरोः कुले
चेतसा तु सततं दिदृक्ष्यसे ।
तं धिगस्त्वहह येन निर्ममे
प्रेमभूमनि विचारशून्यता ॥
॥१.६७॥
वत्ससोमविरहेण धूपितं
राधिके मम मनश्चकोरकम् ।
त्वत्तनूकुमुदवीथिभावितैः
शीतयाम्ब परिरम्भजीवनैः ॥
॥१.६८॥
इत्युदीरितवती व्रजेश्वरी
त्वामथाजिगमिषोः करे मम ।
शोणरत्नघटितं हरेरिमं
हारि हारमददात्कृते तव ॥
॥१.६९॥
वत्सलाश्च बलसूमुखाः सुखाद्
आलयश्च गुणमालिकादिकाः ।
त्वां सबाष्पमपराश्च काश्चन
प्रोचुरालि परिरम्भलम्भनम् ॥
॥१.७०॥
त्वन्महोदयमहो कमप्यसौ
वीक्षितुं विदधती पयोव्रतम् ।
पूर्णिमा भगवती यदब्रवीद्
आलि तच्च कमयालिपालिभिः ॥
॥१.७१॥
(युग्मकम्)
दूरतश्चलितुमस्मि नोचिता
नान्दिके व्रतवशादिति द्रुतम् ।
आशिषा समभिगम्य राधिकां
नन्दय त्वमथ मां च वार्तया ॥
॥१.७२॥
सा मृषा पतितयाभिमानिनः
सङ्गमात्खलु मया च रक्ष्यते ।
माययेति सततं निजा तनू
राधया बत तया च रक्ष्यते ॥
॥१.७३॥
सन्ततं कमपि भावमाश्रिता
सा निजैर्विकलमेव चिन्त्यते ।
जीवनात्मकनिधानधाम नो
यद्वदम्बुनिधिपात्रमन्तरा ॥
॥१.७४॥
मङ्गलार्घ्यमिदमङ्ग राधिका
मञ्जुमूर्धनि निधेहि तां ततः ।
शन्तमं च परिपृच्छ्य सन्ततं
मामकीनमथ वाचिकं वद ॥
॥१.७५॥
बाढमद्भुतगुणैर्युवां वरौ
राधिकामधुहराभिधौ भुवि ।
यौ विकृष्य मम वृत्तिकन्दलीं
दूरतः स्वविपिने बबन्धतुः ॥
॥१.७६॥
हन्त यावदधयाम राधिका
माधवेति मधुराक्षरावलिम् ।
पुत्रि तावदमृताभिलाषुके
सुश्रुतेऽपि हृदयं हृणीयते ॥
॥१.७७॥
पूर्णिमारुचिभरस्य पूरणे
भाति गोकुलमनभ्रपुष्करम् ।
माधवः स्वयमदभ्रचन्द्रमास्
त्वं तु पुत्रि वरशारदप्रभा ॥
॥१.७८॥
राधिके कति न सन्ति गोकुले
कृष्णसङ्गविभवा वराङ्गनाः ।
किन्तु माधवरतेस्त्वया विना
नेतरा भवति चक्रवर्तिनी ॥
॥१.७९॥
त्वां हरिं सुमुखि रक्तपद्मिनीं
सङ्गमय्य निखिला क्षणावली ।
त्वत्प्रसादवलिता न किं भवेत्
किन्त्वतृप्त्यलिभिराशु रुध्यसे ॥
॥१.८०॥
भक्तितः सुरगणैः समं वयं
जन्मतो व्रजजनैर्निजान्वयाः ।
सख्यतश्च ललितादिभिः शुभे
श्रीहरेरपघनास्त्वया भृताः ॥
॥१.८१॥
माधवक्षणदया निजाङ्गज
ज्योतिरुज्ज्वलतयालिशालिनी ।
नित्यमेव विधुना सहोद्यती
राधिके महसि पूर्णिमां भर ॥
॥१.८२॥
प्रस्थिताहमिति वन्यवर्त्मना
पूज्यपादकमलाभ्यनुज्ञया ।
विश्वतो वनसुरीसुगीतया
तत्र कीर्तिसुधया तवोक्षिता ॥
॥१.८३॥
त्वद्यशःश्रुतिसमूढमूढता
दूरभूगतिगतीरजानती
कञ्चिदालि मधुपालिपालितं
पुष्पिपुष्पवनभागमागमम् ॥
॥१.८४॥
तत्र केन च चिरेण चारुणा
गन्धसिन्धुविसरेण वासितम् ।
पुष्पवृन्दमनु चन्दनानिलो
मन्दतां किल मुदान्वविन्दत ॥
॥१.८५॥
आलि तैः परिमलैर्विसारिभिः
शङ्किताद्भुततया निरैक्षिषि ।
भृङ्गवृन्दमनु सान्द्रतातुला
श्यामलांशुभिरकारि कैरपि ॥
॥१.८६॥
अत्र पुष्पततिभिर्द्रुमोत्पलः
कोऽप्यगादिव सहस्रनेत्रताम् ।
वीक्ष्य यः कमपि कान्तमन्तिकं
कीर्णवान्मधुमिषाश्रुशीकरान॥
॥१.८७॥
आलि तेन मुहुरत्र चित्रभाग्
अग्रतस्तमपि नेत्रपान्थताम् ।
माधुरीभरधुरीणमानयं
प्रस्फुरत्परपरागचत्वरे ॥
॥१.८८॥
रूपमस्य यदपूर्वमन्वहं
तेन संस्तवविधावुता प्रभुः ।
संस्तुतस्तु तत एव तद्व्यधान्
नान्यतः स्फुरति तादृशो गुणः ॥
॥१.८९॥
यत्कृते त्वमसि राधिका सदा
स्वाश्रुभिः समभिषेकमागता ।
त्वत्कृते भजति योऽधिवासनं
दःउपनं स तु स एव नापरः ॥
॥१.९०॥
तस्य वा मुदिरमेदुरश्रियो
वर्णयेत्क इव साधु माधुरीः ।
त्वद्विधा सखि सतीशिरोमणिर्
यस्य कान्तिभिरियाय चित्रताम् ॥
॥१.९१॥
कृष्णकान्तिमनु पीतमम्बरं
किं च पिञ्छकुलमूढकृष्णलम् ।
कायमित्थमनलङ्कृतं च तैर्
एव तत्र वलयत्यलङ्कृतिम् ॥
॥१.९२॥
अङ्घ्रिपद्मगतहंसकध्वनिः
श्रोणिमेघचलशृङ्खलातडित।
हृन्नभोऽभिशुभहारतारको
वेणुरोहितवृतास्यचन्द्रमाः ॥
॥१.९३॥
धामवृष्टिमपि सुष्ठु यौवते
मानसे घनरसस्य सर्वदा ।
यद्दधाति स तु तेन शारद
प्रावृषेण्यगुणयुङ्निरीक्ष्यते ॥
॥१.९४॥
(युग्मकम्)
तस्य रूपमहसा नवं वयस्
तेन नागरकला तया स्मरः ।
तेन रागलहरी तया सदा
नन्दितेन्दुवदने भवत्यपि ॥
॥१.९५॥
तस्य रूपमहसा विमोहितः
स्वं धनुर्ध्रुवमहास्यदङ्गजः ।
सारथित्वमकरिष्यदस्य चेत्
सुभ्रुवो भवददभ्रविभ्रमः ॥
॥१.९६॥
तस्य रूपवरनीलिवारिजं
पश्यतो न सखि कस्य जायते ।
चिन्तनेन तव शारदश्रियः
कापि सा नयनभृङ्गलालसा ॥
॥१.९७॥
नीलनीररुहकान्तिशान्तिदं
स्फारहारमणिराजिराजितम् ।
काञ्चिकाञ्चिकनकांशुकांशुकं
कामकामनिधिरूपरूपकम् ॥
॥१.९८॥
वामवामकरगण्डमण्डलं
मान्यपाण्यपषदंशवंशकम् ।
पूर्णघूर्णनयुगक्षिलक्षितं
मन्त्रयन्तमिव येन केन च ॥
॥१.९९॥
वीक्ष्यमाणमपि वीक्षणाय ते
तं दिशं दिशमहं व्यलोकिषि ।
यद्व्यलोकिषि च तेन सत्वरं
तत्त्वमत्र तु तवैव वैभवम् ॥
॥१.१००॥
(सन्दानितकम्)
त्वां स मां त्वदभिसारलम्भक
प्रोदयामपि यतः स्म पृच्छति ।
तस्य चापलममूदृगात्मना
व्यज्यते खलु तद्धि चापलम् ॥
॥१.१०१॥
मां निशाम्य स पुनर्निरुत्तरां
वल्लभस्तव सुधीः कृतस्तवः ।
दक्षिणे स्मरशरव्रणाकुलस्
त्वत्कृते सखि जगाद सादरम् ॥
॥१.१०२॥
शंसदास्यमथ वंशिकापतेस्
तस्य तं परिमलं गुणस्य ते ।
उज्जगार न परं तवाधर
स्यापि तत्र बहुधा सुधामुखि ॥
॥१.१०३॥
हन्त या मधुरजीवितौषधिर्
या मनोऽलिकमलाकरावली ।
यापि मे हृदयहृद्यमालिका
साधुनापि सखि नाययौ वनम् ॥
॥१.१०४॥
नान्द्यसि त्वमनुवेलमाङ्गिनी
यन्मम स्मरविनोदनाटके ।
मामकाभिहितसूत्रधारतां
राधिकामभि तदेवमावह ॥
॥१.१०५॥
नो कदाचिदनुसन्दधाति यश्
चन्द्रकावलिमपीह विच्युताम् ।
तस्य ते विरहिणः शुभानने
याचनाचनमिदं निवेदनम् ॥
॥१.१०६॥
आविरेधि सखि चञ्चले रुचा
धिन्वमुं घनरसप्रदं निजम् ।
लोक एष चिरसन्दुतः स्फुटं
शीतलान्तरतरत्वं ऋच्छतु ॥
॥१.१०७॥
प्रेम्णि लाघवमिदं ममार्थये
त्वां विभर्तुमिह यद्बहिर्हृदि ।
गौरवं तु त इदं वसस्यसाव्
अन्तरेव हृदि यत्पृथुस्तनि ॥
॥१.१०८॥
एष धिग्विघटितोऽपि राधया
सर्वदैव हृदये तया सह ।
खेलतीति किल सङ्क्रुधा खलस्
तत्प्रलीनयति हन्त दुर्विधिः ॥
॥१.१०९॥
मानसे विभुतया समागताप्य्
आलि सह्यमिह मे निरुध्यसे ।
इत्यलं किल चलाक्षि मां क्रुधा
नोपयाति भवती च साम्प्रतम् ॥
॥१.११०॥
दक्षिणोऽहमनिशं वरानने
त्वं पुनश्चलसि वामपद्धतिम् ।
प्राणमूलमुभयोस्तु मेलनं
हा विधिः किमथवा विधास्यति ॥
॥१.१११॥
सा प्रिया न खलु हन्त मां त्यजेद्
अन्तिके तदधुनैव लप्स्यते ।
चित्तमित्थमितसम्प्रधारणं
द्रागथ प्रणयभाजनं कुरु ॥
॥१.११२॥
तन्निजां सुमुखि वृन्दकाटवीम्
एव वीक्षितुमिमामथाव्रज ।
अत्र चेन्मयि तमालसारणीं
दृष्टिमर्पयसि ते वदान्यता ॥
॥१.११३॥
इत्युदीर्य परिघूर्णतामुना
फुल्लचम्पकलतावलम्बिता ।
यत्र चाथ बत देवी राधिके
राधिके इति ममास्फुरन्मुहुः ॥
॥१.११४॥
राधिके त्वदभिधासुधां धयन्
माधवस्तु शनकैर्विलोचने ।
उद्विकाश्य मधुराक्षरावलीं
गद्गदस्वरमुवाच मां पुनः ॥
॥१.११५॥
साधय प्रियतमालि राधिकां
मद्दशां कथय साध्वि साधिकाम् ।
मद्वनस्रजमिमां समर्पय
प्रेयसीमहसि मां च तर्पय ॥
॥१.११६॥
एवमस्य विनिदेशशर्मणा
त्वत्पदं प्रति चलाक्षि चालिता ।
तस्य तेऽपि युगपद्दिदृक्षया
दोलिकेव मम धीश्च दोलिता ॥
॥१.११७॥
तस्य वेत्सि किमपि त्वमेव
तद्वेत्ति वा सुवदने स एव ते ।
अत्र नः प्रचुरदूत्यचातुरी
केवलं वहति सिन्धुसेचिताम् ॥
॥१.११८॥
नान्दिकावचसि तत्र सन्मतौ
लालसाभणितिमालिसंहतेः ।
बाष्प एव रुरुधे तदा परं
वाम्यरीतिरगमत्कलङ्कितम् ॥
॥१.११९॥
राधया प्रणयबिद्धबुद्धिता
धीरया यद्दपि संवृता हृदि ।
आर्तिसिन्धुमविशंस्तदन्तिका
जन्तवस्तदपि वीक्ष्य तन्मुखम् ॥
॥१.१२०॥
मौनितां क्षणमितासु तासु सा
नान्दिका सपदि कम्पसम्पदा ।
व्याजहार ललितामुखाः सुखाद्
आशिषो भगवतीकृता ऋताः ॥
॥१.१२१॥
येन तामसकुलं विलेख्यते
येन दैवपदवी सुरङ्ख्यते ।
येन विश्ववसतिः सुरङ्घ्यते
येन गोकुलमथो विभास्यते ॥
॥१.१२२॥
(अर्थत्रयवाची)
तेन चित्रमहसा महीयसा
कृष्णपक्षमहितेन पुत्रिकाः ।
राधिका मधुरमूर्तिमाधुरी
साम्प्रतं प्रथयिषीष्ट वो दृशः ॥
॥१.१२३॥
(युग्मकम्)
पुष्टिभृत्तदुदितेन तेन सा
स्वेन भाषितगुणेन तामपि ।
पुष्यति स्म ललिता यतो मिथः
स्पर्धिबुद्ध्युपकृतिर्महाजनः ॥
॥१.१२४॥
अद्य कोऽपि समहो महोदयः
पूरितेन्दुरिव पारिकाङ्क्षिणि ।
लोचनोत्पलविभुर्बभूव मे
येन चित्तमधुपो विघूर्णते ॥
॥१.१२५॥
चत्वरे क्वचन रत्ननिर्मिते
कृष्णनन्दितमना यदर्चिता ।
जीवितालिरमरीवरालिभिः
स्वप्न एव किमयं च नान्दिके ॥
॥१.१२६॥
सा निमील्य नयने चिरादिति
स्वाननेन्दुवचनांशुना पुनः ।
अस्रुघर्मसलिलान्यसिस्रवच्
चन्द्रकान्तवपुषोऽखिलाः सखीः ॥
॥१.१२७॥
चिन्तने स्फुटति चित्तपङ्कजं
रोमशैवलकुलं च हृष्यति ।
यस्य मानसरसस्य तत्र किं
नेत्रमीनयुगलेन रंस्यते ॥
॥१.१२८॥
गोपराजयुवराजकानने
राधिकां समभिषेकसाधिताम् ।
वृन्दया कनकदण्डमण्डितां
वेशयेम किमु केशवाग्रतः ॥
॥१.१२९॥
स्वप्नमङ्गलनिदिग्धनान्दिका
जल्पशीधुत इतश्च सुभ्रुवाम् ।
पूर्वरङ्गमनु रोमनर्तका
हर्षजातरुचिभूमिका व्यधुः ॥
॥१.१३०॥
हन्त वः प्रियसखीमुखेन्दुना
मानसाम्बुधिकुलं प्रफुल्ल्यपि ।
साम्प्रतं प्रतनिता चमत्कृतिर्
आलयः किमपि तत्र पर्वणि ॥
॥१.१३१॥
यर्हि भूषणमुखं लभेत सा
राज्यवस्तु निजमञ्जसा निजम् ।
तर्हि कृष्णविपिनेऽभिषेक्ष्यतेऽ
गीयत द्युमुनिनापि जात्वपि ॥
॥१.१३२॥
तत्र यर्ह्युदयिताभिषेचनं
तर्हि सा सवयसां च संहतिः ।
प्राक्तनी वलयितेत्यपि क्च्वचित्
प्रोज्जगौ स मुनिरुत्तनूरुहः ॥
॥१.१३३॥
राधिका तु निजशोकनाशनं
तन्मनःस्वमिति भावतृष्णया ।
नातिसम्प्रतियती च तत्कथा
भव्यधर्ममदिता व्यचिन्तयत॥
॥१.१३४॥
स्वस्य कृष्णवनराज्यनामतः
स्वीयकान्तिचयचायनादपि ।
रोम हृष्यति कथं ममाथवा
क्षोभमेव तनुते तदीयता ॥
॥१.१३५॥
तास्वथ प्रचुरहर्षधर्षित
प्राप्तशान्तिवलनासु नान्दिका ।
राधिकाभिसृतये सखीमिलद्
भ्रूकला निगदिता विशाखया ॥
॥१.१३६॥
कुत्रचिद्वरसखी न पारयेद्
अद्य गन्तुमिति तं प्रसादय ।
मालतीमिलितमल्लिकावलीं
तामियं यदधुनालि यास्यति ॥
॥१.१३७॥
सस्मितं तदवधार्य नान्दिकाम्
आपिपृक्षुमयितुं निजाश्रमे ।
राधिका भगवतीकृते नता
साश्रु कृष्णजननीकृतेऽब्रवीत॥
॥१.१३८॥
इष्टदेवमपि देवि सेवितुं
व्यूढपुष्पवरसङ्घसङ्ग्रहाः ।
श्रीव्रजेशगृहिणीगृहाङ्गनं
भाग्यभागथ निशामयेमहि ॥
॥१.१३९॥
सा च वाच्यमधिराधिकं तदा
चम्य रम्यमुखभां च काञ्चन ।
तृप्तिक्ÿप्तिमयता यतीश्वरी
विस्मिता स्म वदति स्मितान्विताम् ॥
॥१.१४०॥
यात यात सुमनोभ्य एव यद्
वाञ्छितं फलमवाप्स्यथात्र च ।
साम्प्रतं गुरुपदोरहं त्विदं
स्वप्नभव्यकुसुमं समर्पये ॥
॥१.१४१॥
इति मुदितमनस्कानन्द्य नान्दीमुखी ताः
प्रथममगमदुत्का माधवाश्वासनाय ।
अथ हरिमभिसर्तुं राधिकां मुख्यसख्यः
कुसुमहृतिमिषेण प्रेरयामासुराशु ॥
॥१.१४२॥
दिशि दिशि रसभङ्गैर्नेत्रमीनोत्प्लुतिश्रीर्
नयनसलिलबिन्दूल्लासिमुक्तावलीकः ।
दधदविहतघर्मैर्निम्नगाः कृष्णभृङ्गी
भविकमवतु मुख्यं राधिकौत्सुक्यसिन्धुः ॥
॥१.१४३॥
अमितभवदवाब्धौ दह्यमानं चिरान्मां
कथमपि कलयित्वा पूर्णकारुण्यमूर्तिः ।
निजसहजजनान्ते स्वीचकारेश्वरो यस्
तमिह महितरूपं कृष्णदेवं निषेवे ॥
॥१.१४४॥
इति श्रीराधाभिषेकचरिते श्रीमाधवमहोत्सवनाम्नि महाकाव्ये
उत्सुकराधिको नान्न प्रथम उल्लासः
॥१॥
*************************************************************
.
(२)
द्वितीय उल्लासः
उन्मन्युराधिकः
गोविन्दसान्द्रामृतसारसिन्धोः
सन्देशगन्धाननुभूय भूयः ।
ता इन्द्रवज्रायिततर्षबाधा
राधाप्रधाना दधिरे न धरियम् ॥
॥२.१॥
सखीभिरेषा झषकेतनात्मा
हारं विहारं प्रति भानुकन्या ।
उपेन्द्रवज्रायितराजिराजद्
द्रुवल्लिवृन्दागहणं जगाहे ॥
॥२.२॥
यस्य प्रसूनादिषु तासु सम्पद्
वीथीषु नानाद्भुतमाधुरीभिः ।
नान्यस्पृहा सावसरेति नासीद्
अल्पप्रथा कल्पनगाटवीति ॥
॥२.३॥
तस्मिन्न कस्मिन्नपि कोऽपि तृप्तिं
कदाचिदप्येति सदातनोऽपि ।
इतीव कश्चिद्बत मुग्धमेधा
यदीयवासं बहु मन्यते न ॥
॥२.४॥
तदेवमेवाखिलधामसारं
मन्ये न जन्युः परिहर्तुमिच्छेत।
विचित्रमुद्भेदवदन्यपुण्या
वल्येव तं चारयतेऽपि यत्र ॥
॥२.५॥
यस्मिन्नृतूनामपरे वरेण्येऽप्य्
अन्यस्य हानिः प्रतियोगिनोऽपि ।
न शर्मलक्ष्म्या इति जन्तुजातं
शिक्षामुपादत्त किमेभ्य एव ॥
॥२.६॥
देशे नदीवातहिमे किकीनां
हारीतकानां च पृथक्प्रणादैः ।
भास्वमणिज्वालिनि झिल्लिशब्दैर्
भूभृज्झरासारिणि चातकाद्यैः ॥
॥२.७॥
मेघापयानामलफुल्लपुष्प
जलस्थले हंसपिकादिनादैः ।
ऋतोरमुष्येयमियं त्वमुष्य
प्रसूतिभूमीति यदूहभूमिः ॥
॥२.८॥
(कुलकगर्भितयुग्मकम्)
सुधात्वसाम्येऽपि सरांसि यस्मिन्न्
असूयकानीव मुखान्मुरारेः ।
जलेन सार्धं पिबतो विरीणं
माधुर्यवर्यं मुहुराहरन्ति ॥
॥२.९॥
कंसारिवंशीकलमाधुरीभिर्
उद्वेलतां यस्य मुहुर्व्रजन्त्याः ।
नद्योऽपि साक्षाद्व्रजभावपूर
सम्पद्विलोभात्परितो वहन्ति ॥
॥२.१०॥
यस्मिन्निमन्त्र्येव कलेन वंशी
कंसान्तकस्य प्रतिपादपाली ।
दुग्ध्वा स्वयं दुग्धसुखासवानां
गवां नवं यामयति प्रवाहम् ॥
॥२.११॥
विश्वाधिवासाय कृतप्रयाशो
यस्यातुलं चन्दनगन्धवाहः ।
सौरभ्यमद्बिभ्यतयेव मत्तो
नृत्यं विधत्ते चलवल्लरीभिः ॥
॥२.१२॥
स राजते जङ्गमकल्पशाखी
यत्राद्भुतो नव्यतमालकल्पः ।
सङ्कल्पतो यः स्वयमेव लोकं
धिनोति पारेमनसं विलासैः ॥
॥२.१३॥
यस्मिन्प्रसूनादि विचिन्वतीनां
लक्ष्मीकुलाकर्षिगुणावलीनाम् ।
तासामधीशः स करग्रही ताः
कामं विलासेन भुनक्ति भुङ्क्ते ॥
॥२.१४॥
यत्रालिनः सङ्गतमञ्जुकुञ्जाः
कुञ्जा निजान्तर्मणिवेदिशुभ्राः ।
वेद्यो विराजद्वरपुष्पशय्यां
शय्याः प्रियासम्भृतकृष्णकामाः ॥
॥२.१५॥
चन्द्राननानामिह सान्द्रपुष्पे
वृन्दावने हारिविहारिणीनाम् ।
मरीचीवीचीरुचिरा विरेजे
घनाघने वा घनचञ्चलालिः ॥
॥२.१६॥
(चतुर्दशभिः कुलकम्)
वृन्दाटवीयं मधुशीकराणां
पूरेण राधामभिषिञ्चमाना ।
उदेष्यमाणमभिषेकलक्ष्मीं
तां सूचयन्तीव मनो धिनोति ॥
॥२.१७॥
कदा नु कृष्णे पुनरीक्षमाणे
राधासमाधारणकम्पिताङ्गीम् ।
रत्नोदकुम्भैः स्नपयाम नाम
स्फाराश्रुनेत्रैः स्वतनूरुतालि ॥
॥२.१८॥
कदा नु वृन्दावनपुष्पवृन्दं
सहेललीलायितमाददानम् ।
स्मेराननं वा व्रजनागरेन्द्रं
राधानिदेशेन निवारयाम ॥
॥२.१९॥
आल्या बकीजिद्वनभूमिपाल्याः
प्रसान्त्विवाक्यानि रुषा निरस्य ।
पुष्पं हरन्तीं मुखरामयत्वं
पद्मां कदा स्मोद्घटय्पम दण्ड्याम् ॥
॥२.२०॥
मा कृढ्वमौत्कण्ठ्यमितो वयस्याः
प्रायो महश्रीरुदगादसौ वः ।
भूयो मदीयं बत वामनेत्राः
कुतोऽन्यथा नृत्यति वामनेत्रम् ॥
॥२.२१॥
सखीजनः संवदमान एवं
दूरे मुदा स्तम्भमपि प्रपन्नः ।
स केवलं रश्मिकुलेन तस्याः
पुरो व्रजन्त्याः परिकृष्यते स्म ॥
॥२.२२॥
(षड्भिः कुलकम्)
स्वयं महाप्रेमविकारनद्या
सदोह्यमाना प्रियसिन्धवेऽपि ।
तस्या रसारालदशावशा स्याद्
इतीव तस्यात्मगुणैर्विकृष्टा ॥
॥२.२३॥
अंशस्तुरीयोऽयमभूत्पदेऽस्मिंस्
तथार्धमेतद्बत जायते स्म ।
एषा च पूर्तिः समगादपीत्थं
विचिन्तयन्ती त्वरयाध्वसङ्ख्याम् ॥
॥२.२४॥
वृन्दाटवीयं कुसुमाटवी सा
पुरश्च यस्यां स रहोनिकुञ्जः ।
तत्पुष्पशय्यामनु नागरोऽसौ
क्रमादिति प्राङ्मनसैव यान्ती ॥
॥२.२५॥
मत्स्फूर्तितस्तस्य विलासपूर्टिः
सा नागरी या स्फुरती दृशीति ।
विनिर्मिमाणा स्वपनेऽपि केलिं
साक्षादिवानेन सहागतेन ॥
॥२.२६॥
तं वारिदाभं विधुवक्त्रमुद्यद्
व्रजाम्बरं लोचनलोलतारम् ।
मुहुः स्फुरन्तंदधती स्वभावाद्
अन्तश्चिरं विष्णुपदायमाना ॥
॥२.२७॥
पश्यानि किं वेद्मि खगस्य चाराद्
दोधूयते मर्मरि पर्णवृन्दम् ।
कृष्णस्य किं वेत्यपि दृष्टिनष्टं
शोचन्त्य अनेहोलवकं प्रयाणे ॥
॥२.२८॥
कृष्णोऽयमालीजनवञ्चनाय
निलीय मह्यं पटु तिष्ठते नु ।
पश्यामि दम्भादिति साचिवक्त्रा
सखीषु तापिञ्छकुलं स्तुवाना ॥
॥२.२९॥
सोऽयं स्मरो मां व्रजनागरीणां
दिधीर्षते हन्त सखीसमक्षम् ।
भ्रमादितः स्मेरसखीजनाङ्के
शङ्काकुला मङ्क्षु निलीयमाना ॥
॥२.३०॥
स्वलालसाशङ्किसखीस्मितेन
प्रेमाभ्यसूयामुपजीव्य दूरम् ।
भ्रूभङ्गरङ्गाकुललोचनोल्ल
ङ्गितोल्लसत्कान्तपदेव यान्ती ॥
॥२.३१॥
ममार्ज भारादिव साङ्गरागम्
आलम्बतालीं कुचगौरवाच्च ।
हरेः पदव्यामथ कोमलाङ्गी
स्तब्धा मुहुः प्रेमभरेण जग्लौ ॥
॥२.३२॥
(दशभिः कुलकम्)
ऊर्ध्वं पिकानां वलितं चमूभिः
शिलीमुखैर्भिन्नतमं समन्तात।
हन्ताबला भूमितलं निरुद्धं
मीनध्वजाद्यूढपदैरटव्याः ॥
॥२.३३॥
निकुञ्जपुञ्जानिति वीक्ष्य साक्षाद्
भविष्णुकृष्णाद्भुतकेलिजालाम् ।
संलापदक्षः सह मुख्यसख्या
व्यलङ्घतैतान्सवयःसमूहः ॥
॥२.३४॥
(युग्मकम्)
लसन्तु राधे तव कुञ्जपुञ्जे
विनोदसौभाग्यविधा विदूरे ।
वृन्दावनस्येयमपूर्वलक्ष्मीर्
एकैव चेतांसि जडीकरोति ॥
॥२.३५॥
पुष्पेषु पूर्णं वरकृष्णलादि
विभूषणं कृष्णतमं ममात्मा ।
समीहते कृष्णमिवाद्य सख्यो
युष्मद्वशे कृष्णवनं विधातुम् ॥
॥२.३६॥
फुल्लत्प्रसूनैः पुलकिप्रवालैर्
वन्दारुभृङ्गैर्विपिनं बकारेः ।
प्रत्यङ्घ्रि ते वायुभिरानमन्तं
मूर्धाननमद्धाप्रयते वरोरु ॥
॥२.३७॥
वृन्दाटवी पुष्पसितापि सख्यः
सर्वत्र कृष्णस्फुरणं करोति ।
स्फूर्तिं तदीयामपि कुर्वती या
चित्तं समन्ताद्वितनोति रक्तम् ॥
॥२.३८॥
नीलाभफुल्लद्वनजातकान्तं
विलासदीव्यद्भ्रमरालिराजम् ।
पूर्णेन्दुलक्ष्मीभरदिग्धराधं
के माधवं माधवि न स्तुवीरन॥
॥२.३९॥
मनोजनिव्याप्तवसन्तलक्ष्मीं
वहन् प्रफुल्लोऽपि वनान्त एषः ।
सख्यः समालिङ्गति पुष्पकीटीर्
विश्वासभूः श्यामतनौ न रागः ॥
॥२.४०॥
द्वित्रान्पिबन्नेष मरन्दबिन्दून्
वल्लीवधूनां मधुसूदनाख्यः ।
राधे भृशं धावति भानुजात
श्रीपद्मिनीं गन्धभरान्मदान्धः ॥
॥२.४१॥
स्वयं धयन्त्यद्य मधूनि भृङ्गा
माद्यन्ति सार्धं व्रजयौवतैस्तु ।
वंशीकलं चन्दनगन्धवाहा
वहन्ति नाद्यापि कथं त्वमीभिः ॥
॥२.४२॥
हरेश्च गन्धस्तव चोपसेव्यः
प्रायो गता धैर्यममी वरालि ।
ख्याता जगत्प्राणतयापि वाता
व्रजन्त्यलं प्राणपदं व्रजे तु ॥
॥२.४३॥
कथं प्रगायन्ति पिका विहाय
स्वस्यात्र वृन्दाविपिनक्षितीशम् ।
युष्माकमेतानथवा विमोहं
कर्तुं दिदेशानुदिशं स एव ॥
॥२.४४॥
झङ्कारकोलाहलगर्जिनीभिस्
तृप्त्या मधुष्ठीवनवृष्टिकृद्भिः ।
भृङ्गावलीमञ्जुलकालिकाभिः
कलापिनोऽध्यालिमधौ नटन्ति ॥
॥२.४५॥
अनङ्गराजस्य निकुञ्जसभ्यैर्
अल्पस्मितास्यैः सुमनःसमूहैः ।
पश्येत सख्यो मृदुगुञ्जिभृङ्गाः
कृष्णस्य दूता इव मन्त्रयन्ते ॥
॥२.४६॥
तवालि कृष्णभ्रमरेण कर्णे
किं वर्णितं ग्रस्तमधीरिताक्षि ।
यच्छृण्वती त्वं मुहुरानतभ्रूः
सञ्चारयामासिथ साचि शीर्षम् ॥
॥२.४७॥
निजाननाम्भोजरसेन मत्ती
कृतं तमेतं मधुपप्रवेकम् ।
सख्यः स्फुटं मामथ घट्टयन्तं
द्रष्टुं विनोदादधुनार्हथैव ॥
॥२.४८॥
सखि त्वयायं परिचीयते किं
वासन्तिकामञ्जुलकुञ्जराजः ।
अस्मान्विना यत्र गतापि चाभिस्
त्वं कृष्णसारिण्यवलोक्यसे स्म ॥
॥२.४९॥
वेतस्वदेतत्पदमालयस्तद्
भयेन यस्मिन्मयि लीनवत्याम् ।
लुलुञ्च वो मत्प्रतिभूकृतानां
स श्यामलः कञ्चुलिका बलेन ॥
॥२.५०॥
चन्द्रानने नैष मुकुन्दगन्धः
किन्तु त्वदङ्गस्य तदङ्गभाजः ।
प्रतीहि नीलामिह कान्तिमेतां
स्वलोलनेत्रद्युतिमेव देवि ॥
॥२.५१॥
इत्थं मिथः प्रेममनोरथानां
कथाप्रथावेशमथागतासुः ।
आगम्य गम्यामटवीममूभिर्
मोदाद्विनोदान्निजगाद राधा ॥
॥२.५२॥
इतोऽद्य पुष्पाणि समञ्जरीणि
मञ्जूनि मञ्जूनि हृतानि केन ।
मन्ये व्रजस्त्रीव्रजवस्त्रचौराद्
अन्योन तस्मादिह जाघटीति ॥
॥२.५३॥
रुन्धे हरिश्चेद्भवतीं विशाखे
तस्यावरोधे ललितैव वीरा ।
कार्षेदसौ चेल्ललिते सखि त्वां
तद्वारणे किं न वयं प्रवीराः ॥
॥२.५४॥
साचिव्यतो नश्चलचिल्लिचापां
नासौ स्पृशेत्त्वां वैन्तालिचौरः ।
सर्वा वयं यद्यपयाम सद्यः
कुञ्जाङ्गपुञ्जाः शरणं तवामी ॥
॥२.५५॥
त्वां कुञ्जलीनं यदि वा स धूर्तः
परामृशेदालि विलासमत्तः ।
तदा त्वमम्भोजगदां क्षिपन्ती
न पौरुषं सन्तनितासि पूर्वम् ॥
॥२.५६॥
अन्याः समेयुः पुनरङ्गनाश्चेद्
एना हरनीत्हरयेऽपयाहि ।
तवापि चन्द्रावलिमर्पयित्वा
रहो जुषस्व त्वमपावृतैव ॥
॥२.५७॥
सङ्गं न वाङ्गीकुरुषे कुतस्त्वं
प्राणालि तस्मिन्वरपङ्कजाक्षे ।
न त्वं सतीनां कुलशीलितेन
व्रतेन रुद्धा सखि मादृशीव ॥
॥२.५८॥
यूयं मनस्कामनिकामपूरं
कृष्णं सतृष्णं मृगयध्वमद्धा ।
अहं पुनस्तं निजपुष्पदस्युं
मृग्यामि पुष्पाशुगवर्त्मवर्ति ॥
॥२.५९॥
न हेमयूथिदलपुष्पगूढस्
तमालशालः पूरतश्चकास्ति ।
ध्रुवं लतापाल्यपलाइताङ्गः
पीतांशुकप्रावृत एष कृष्णः ॥
॥२.६०॥
विलासिनीनां मुखशीधु साधु
निपीय शश्वन्मदविभ्रमेण ।
लोप्त्रीकृतैः पुष्पकुलैर्विलासी
युक्तं हरे त्वं गणिकावृतोऽसि ॥
॥२.६१॥
अन्वेषणीयः कथमस्तु सख्यः
स पुष्पचौरो भवतीभिरत्र ।
उद्भावितो येन विभुस्वभावो
व्यतानि तेनैव मयीन्द्रजालम् ॥
॥२.६२॥
प्रतिस्थलान्तः प्रतिकुञ्जमध्यं
प्रत्युद्भिदन्तं प्रतिपत्रकाधः ।
गवेषितो हन्त जनार्दनोऽसौ
शङ्के मृगाक्ष्यो न भवेदिहेति ॥
॥२.६३॥
सायस्य कारुण्यमहो ब्रुवे किं
कल्पायते यो नु विचिन्वतीर्नः ।
कृष्णस्य दारुण्यमहो ब्रुवे किं
नाद्यापि दृष्टिपथे बभूव ॥
॥२.६४॥
सावेगमेवं भणितानि तस्या
गान्धर्विकायाः परिशृण्वतीभिः ।
तुष्णीं स्थिताभिः सहसा सखीभिर्
वृन्दासखी काचिदिह व्यलोकि ॥
॥२.६५॥
सा तत्र मालत्यभिधा वधूभिर्
विधुमचिन्तानलधूपिताभिः ।
जिज्ञासिता सत्प्रियतैकधर्मा
घर्माम्भसा स्नातनिभा बभाण ॥
॥२.६६॥
श्रीराधिके कल्पलताधिराज्य
नीराज्यमूर्तिप्रतिबिम्बलक्ष्मि ।
प्रायः समक्षं यदिदं मदक्ष्णोर्
यूयं कुरुध्वं श्रवसोस्तदेव ॥
॥२.६७॥
भव्यं सुभव्यं दृशि मादृशीनां
तदा तदाकर्ण्य वराङ्गि नान्द्याः ।
प्रसूनतल्पं मयि कल्पयन्त्यां
छद्माञ्चिजल्पा समियाय पद्मा ॥
॥२.६८॥
ततः पिधानीकृतवल्लिसद्माः
पद्मादिगोष्ठीमवधारये स्म ।
आकर्णयाकर्णविलोलनेत्रे
दम्भोलिदम्भोक्तिमिमां च मां च ॥
॥२.६९॥
स चेदिहायाति वधूविडम्बि
वृन्दावने स्वैरविहारकारी ।
पद्मे वनं तस्य विचिन्वतीनां
विचेष्यते वः स्फुटमङ्गमङ्गम् ॥
॥२.७०॥
शारीमुखादालि मयाथ शैब्ये
राधाभिसारश्रवणार्तबुद्ध्या ।
श्यामः स आसीदभिषरितायाश्
चन्द्रावलेर्धाम जडीकृतात्मा ॥
॥२.७१॥
पद्माक्षि पद्मे नहि पुष्पवृन्दं
कथं सदैतच्चिनवाम वामम् ।
वृन्दाटवीभूपतिभूतिसान्द्रां
चन्द्रावलीं येन विभूषयेम ॥
॥२.७२॥
वृन्दावने कृष्णकृतानुमत्या
राज्याभिषेके सखि सिद्धकल्पे ।
चन्द्रावलेः सिद्धतमे निकामम्
राधादिवाटीरपि लुण्ठितासि ॥
॥२.७३॥
अस्माभिरेषा किल चेद्विचेया
राधाविहारास्पदपुष्पवाटी ।
शङ्के तदा दुर्ललिताथ पद्मे
विधास्यते सा ललिता विवादम् ॥
॥२.७४॥
धिग्मृद्वि कस्माल्ललिताविवादाद्
विशङ्कसे सञ्चिनु पुष्पमेव ।
रम्भोरु तासामिह विप्रलम्भे
स्तम्भेतदेवी स्वयमेव वाणी ॥
॥२.७५॥
एवं मयाकर्ण्य समं स्वमङ्गम्
अपावृतं तावकतामदं च ।
विधाय वामालिरभाषि वामं
कृपास्पदं सर्वनृपायते ते ॥
॥२.७६॥
पुष्पाणि बाला बत मा हरध्वं
गान्धर्विकाकेलिकलावनस्य ।
सखीभिरस्या ललिताविताभिः
श्रुते यदस्मिन्व्यसनेन भाव्यम् ॥
॥२.७७॥
अस्तीह गर्वार्बुदलब्धपर्वा
सर्वासु गोपीषु हरेः प्रिया का ।
राधामनागीप्सितपुष्पवृन्दे
या धास्यतेऽप्येकपरागरागम् ॥
॥२.७८॥
अये क एष प्रमदाजनो यश्
चितं कलाभिः किल्राधिकायाः ।
वृन्दावनं हन्त वशे विदध्यान्
मृगं वः सम्पूर्णमृगाङ्कमूर्तेः ॥
॥२.७९॥
अथाजगामेव सखीकुलेन्द्रो
चन्द्रालयः श्रीवृषभानुजाश्रीः ।
यत्रोदयप्रान्तमधिष्ठितायां
धैर्याणि जीर्यन्ति मलिम्लुचेषु ॥
॥२.८०॥
मदीयवाचां रचनां विचार्य
भ्रूचापमाचर्य च कुञ्चिताग्रम् ।
उवाच पद्मा च यदूढगूढ
स्मिता तदेतच्छृणु भानुपुत्रि ॥
॥२.८१॥
चन्द्रावलेः शीतलशीलभावं
पश्यालि मालत्यपि सेयमत्र ।
अस्मत्प्रतापांशुमदंशुदीप्तं
वृन्दावनं हन्त न पश्यतीव ॥
॥२.८२॥
वृन्दालि गोविन्दमहाभिषेकं
किं त्वं तमानन्दघनं न वेत्सि ।
हंहो विमुग्धे किमिहापि चन्द्रां
हर्यङ्कपर्यङ्कनृपां न वेत्सि ॥
॥२.८३॥
सा मत्सरान्मात्स्यमधीत्य कल्पं
परः शतं लब्धबलाबलाभिः ।
आदाय पुष्पाणि गताहमेका
वर्त्मोपजीवामि परं त्वदीयम् ॥
॥२.८४॥
चन्द्रावले राज्यविधानवृत्तेः
श्रुतं च यन्न खलु श्रद्दधाम ।
इयं तु तासां विजनात्मगोष्ठी
श्रद्धापयत्येव तदैतदस्मान॥
॥२.८५॥
गान्धर्विकायाष्तदुदन्तसन्ध्या
गुणात्परिम्लानदशावशाभ्याम् ।
नेत्रोत्पलाभ्यां प्रथमानमान
क्षपानुमानाङ्गगतिर्व्यतानि ॥
॥२.८६॥
पद्मालयत्वेन्निजप्रसिद्धेः
पद्मादूतायाः किल बिभ्यदेव ।
पपात तस्याः करपल्लवाग्र्यात्
पद्मं समुत्कम्पितमुत्पलाक्ष्याः ॥
॥२.८७॥
चन्द्रावलित्वेन नखालिमङ्घ्र्योस्
तवाभिषिञ्चानि न सा तदन्या ।
इतीव सान्त्वेन ववर्ष तस्या
रक्तीभवत्कृष्णचराक्षियुग्मम् ॥
॥२.८८॥
तस्या हरिप्रेमहुताशकोप
ज्वालेन सन्दूनतनूलतातः ।
रोमालयः स्वेदमरन्दबिन्दून्
उत्थञ पाथेयवदात्तवन्तः ॥
॥२.८९॥
अस्वादितं पूगमपूर्णचेलं
मौलिं हतं श्वासबलेन माल्यम् ।
तदा वराल्यो वृषाभानुजाया
वीक्ष्यापि तस्थुर्बत चित्रिताभाः ॥
॥२.९०॥
स्वकेलिपुष्पोत्करचौरपद्मा
सखीकलास्तब्धमथात्मकान्तम् ।
विचिन्त्य सार्द्रारुणसाचिनेत्रे
मार्जत्यसौ खञ्जितवाचमूचे ॥
॥२.९१॥
न बाधते मां कुसुमापहारो
हरेः समागत्यपयापनं च ।
अस्माकमाख्यानमयी वयस्यास्
तस्या मदश्रीर्मदरुः पिनष्टि ॥
॥२.९२॥
सोमाभया कामयते स दत्तां
वृन्दावने सम्प्रति राज्यलक्ष्मीम् ।
यन्नानुभाव्यं तदहो विधातुः
किमुज्झिता तस्य दृशापि लज्जा ॥
॥२.९३॥
इत्थं सताम्बूलमुदस्य जल्पं
निवर्तमानामथ कैर्तिदेयीम् ।
वीक्ष्यालिलोकेन कृतास्यवीक्षा
शीर्णाक्षरं सा ललिता ललाप ॥
॥२.९४॥
भजेत कामं भजतेऽभजद्वा
चन्द्रावली कृष्णवनाधिराज्यम् ।
इहाथ राधामभिषेक्तुमेव
प्रवेशयानीति तु मत्प्रतिज्ञा ॥
॥२.९५॥
सरोजिनीनां सखि मुद्रितानां
का हानिरासां रसपूर्णमन्तः ।
घूर्णन्मुहुर्यास्यति न प्रशान्तिं
तृष्णाकुलात्मा मधुपः स एव ॥
॥२.९६॥
ततः सखीभिः परिवार्यमाणा
मानाभिसम्भूतगभीरचर्या ।
राधा स्वबाधाभरभिन्नदेहं
गेहं प्रतस्थे बत मन्दमन्दम् ॥
॥२.९७॥
कृष्णाटवीचारिचराचराणाम्
उल्लुञ्च्य कोपादिव दृष्टिरत्नम् ।
ओषन्त्यमीषामपि चित्तकोषान्
व्रजाय वव्राज गृहीतमाना ॥
॥२.९८॥
प्रेमाश्रुधारां मधुभिर्दधाना
वृन्दाटवी तासु मनस्विनीषु ।
वातोल्ललैः पल्लवपाणिवृन्दैर्
भूयः स्थितानामिव मार्जयन्ती ॥
॥२.९९॥
पुरेव ताः स्निग्धवधूप्रधाने
लब्धे स्मितोक्तावकृतप्रमोदाः ।
तेनोत्कचित्तेन च नातिपृष्टा
विशन्ति मानान्यवशाः स्म वेश्म ॥
॥२.१००॥
अमूरितो हारितमित्रसङ्गा
म्लानानना मौनमिताश्चिरेण ।
दिनावसाने मधुपोक्तिरिक्त
स्थलाब्जिनीनामभजन्त साम्यम् ॥
॥२.१०१॥
राधा तु चिन्ताचयचुम्बिचेता
धूर्णाभिपूर्णाम्बुजलोचनश्रीः ।
तस्मादकस्मान्निमितास्यबिम्बा
विवेश संवेशकृते गृहान्तः ॥
॥२.१०२॥
बन्धोर्वियोगेन सरोजिनीषु
प्रदूनमूर्तिष्वलिनिष्क्रमेण ।
धूमायमानासु विवेश किं ता
मसेऽथ शोकादिव लोक एषः ॥
॥२.१०३॥
विततिरथ सखीनां देहलीचत्वरान्तर्
भुवि सममुपविश्य प्रेयसीप्रेमबद्धा ।
असकृदपि बलिष्ठोत्कण्ठमुत्थाय राधाम्
अनुरहसमुदीक्ष्योदीक्ष्य रात्रिं व्यनैषीत॥
॥२.१०४॥
प्रकटयति विदूराद्दुर्लभं कान्तवस्तु
प्रथयति निजतेजस्तद्विरोधाय भूयः ।
प्रणयरसविलासाम्नायधामाद्भुतो यः
स तमवतु भवन्तं राधिकामन्युभानुः ॥
॥२.१०५॥
निखिलजनकुपूयं मां कृपापूर्णचेता
निजचरणसरोजप्रान्तदेशं निनीय ।
निजभजनपदव्यैर्वर्तयेद्भूरिशो यस्
तमिह महितरूपं कृष्णरूपं निषेवे ॥
॥२.१०६॥
इति श्रीराधाभिषेकचरिते श्रीमाधवमहोत्सवनाम्नि महाकाव्ये
उन्मन्युराधिको नाम
प्रथम उल्लासः
॥२॥
******************************************
.
(३)
तृतीय उल्लासः
उत्फुल्लराधिकः
पूर्वागराजवनराजिविराजितभानौ
भानौ वसन्ततिलकप्रभशोणबिम्बे ।
कृष्णेन तृष्णगसुना प्रह्ताथ वृन्दा
वृन्दानि सा सवयसामिह विन्दति स्म ॥
॥३.१॥
विज्ञाय मानरहिता अपि ताः समाना
वृन्दाभिधा च वलते स्म भवन्त्यवृन्दा ।
वामा इमाश्च सवयोजनयोगचर्यां
दाक्षिण्यतो विदधिरे द्रुतमेव तस्याम् ॥
॥३.२॥
मौनं तदाश्रितवतीषु सखीषु देवीं
राधास्थितौ कृतमतिं ललिता चिरेण ।
द्रष्टुं स्वदिष्टनिहताः कथमत्र वास्मान्
आगा बतेति चलिताधरमाललाप ॥
॥३.३॥
वृन्दापि साथ ललितालपितं निशम्य
प्रेमावदीर्णहृदयापि भृतस्मितेव ।
किं वोऽपराद्धममुनेति कृतानुयोगा
वैवर्ण्यपूर्णमनया पुनरप्यभाषि ॥
॥३.४॥
आसीद्यदा प्रियसखी तस्य राधा
सर्वेश्वरी न हि तदा वयमास्म योग्याः ।
सम्भाषितुं च भवतीरथ वैपरीत्ये
किं भस्मपूर्णवदनैरधुना लपाम ॥
॥३.५॥
जानासि नूनमखिलं सखि तस्य वृत्तं
किं मामथापि परिपृच्छसि देवि भूयः ।
हन्तास्मदीयहृदयान्तरमर्म तस्मिन्न्
उद्घाटिते स्फुटति किं बत संविधास्ये ॥
॥३.६॥
भद्रश्रियं प्रियजनं सखि दक्षिनोऽयम्
इत्यर्पये स्म कुलभूभृति यत्र तस्य ।
वेवेष्टि कूटपवनाशनवीथिरेतं
हन्तास्मदङ्गपवनीयरसायनाभम् ॥
॥३.७॥
वृन्दा निशाम्य ललितां भृतकृच्छ्रवृन्दां
सा सान्त्वयन्त्यनुनयानुगरीतिचञ्चुः ।
तासामथात्तशपथा ससभां विशाखाम्
आलोक्य गद्गदपदा प्लुतमेतदूचे ॥
॥३.८॥
मिथ्यापराधमवधार्य निजान्तरात्म
प्रेष्ठाय कुप्यथ कथं बत गोष्ठदेव्यः ।
श्रुत्वा न चेन्मम वचो भवदन्तराणि
शान्तानि सन्ति बत मां समिषां प्रतीति ॥
॥३.९॥
साधारणत्वमधिगच्छति राधिकायाः
श्रीमाधवो नहितरामितराङ्गनाभिः ।
धारां घृतस्य सुधयन्नपि किं सुधाया
नाध्यायति क्रतुभुजां निकरः सदैव ॥
॥३.१०॥
राधाभिसारमवधार्य विधुतधैर्यः
सङ्केतधाम परिधावितुमुत्सुकोऽसौ ।
तत्रान्तिके विधिवशादुपसद्य चन्द्रां
तस्या भ्रमाद्वलितसम्भ्रममाबभाषे ॥
॥३.११॥
यां पूर्णचन्द्रतनुमाप्तुमुदूढतृष्णः
प्रागाशया स चलितश्चिकुरश्चकोरः ।
राधा प्रियेयमुदिता पुरतः स्वयं चेद्
वर्ण्यो विधिः किमिह कल्पनगेन्द्रकल्पः ॥
॥३.१२॥
चन्द्रावली स्मितनताभवदादिवाक्यं
सप्रेमगर्भमिव कंसरिपोर्निशम्य ।
राधाभिधायि वचनं परमाकलय्य
म्लानास्यमागतिपथं परमन्वियाय ॥
॥३.१३॥
कोपप्रकोपमथ वीक्ष्य मुकुन्दचन्द्रश्
चन्द्रावलेः कृतगृहव्रजनस्पृहायाः ।
तामेव तामिव विलक्ष्य विलक्षचित्तः
कान्तो व्यचिन्तयदिदं स नितान्तमन्तः ॥
॥३.१४॥
चन्द्रावली समनुनेतुमियं सदार्हा
मान्या यतः प्रणयिणीषु ममोत्तमासु ।
आच्छिन्नमस्ति हृदयं राधयेदं
बाढं भजे तदपि नायकनीतिदम्भम् ॥
॥३.१५॥
तस्यात्मनानुनयतोऽपि रुषा चलन्ती
सा पद्मया पथि सविस्मिति दृष्टपृष्टा ।
ज्ञातार्थतयाथ निजगर्वितगीर्बलानां
निर्वाहणाय वलितस्मितमभ्यधायि ॥
॥३.१६॥
एकः स गोकुलनिवासिकुलस्य बन्धुः
सिन्धुर्यथा निखिलनिर्झरसञ्चयस्य ।
तत्रापि जीवननिधौ भ्रमिवेगनुन्नाः
किं नाम विच्युतिगतीर्गणयाम सुभ्रु ॥
॥३.१७॥
विष्कम्भ्य सा द्रुतमिमां हरिमप्यदूरे
लब्ध्वा सराधिकधियं चतुरा तमूचे ।
चन्द्रावलीद्रवकलागतमूर्मिमत्त्वं
दृष्ट्वा कथं भ्रमसि कृष्णचकोर वीर ॥
॥३.१८॥
तां पद्मया सुवलितामघजिन्नितान्तां
राधाश्रिया वृतमनाश्च गभीरधर्मा ।
नर्मादिभिः सनिमिषं प्रतिनन्द्य मन्दं
धेनुप्रवेशसमयच्छलभाक्चचाल ॥
॥३.१९॥
एवं विशम्य मधुमङ्गलतोऽतिरङ्गात्
तस्मिन्प्रसूनविपिने त्वरितं व्रजन्त्याः ।
सा मालती पथि मया मिलताथ पृष्टा
सृष्टाश्रुधारनयनाञ्चलमेतदूचे ॥
॥३.२०॥
चन्द्रासखीकुसृतिभिर्वलिताधिकायाः
सिद्धे गृहाय गमने बत राधिकायाः ।
मद्वक्त्रतः श्रुतसमुन्नतमानवार्तः
पश्याग्रतो वितनुते किमसौ न वार्तः ॥
॥३.२१॥
आकाङ्क्षति क्षितपतां भवती च वृन्दा
वृन्दावनाखिलशरीरिगणाश्च यस्याः ।
तां राधिकामनुजिगीषुजनोक्तिवर्णः
कर्णज्वरं न कुरुते भुवि देवि कस्य ॥
॥३.२२॥
पद्माकृतेन सुमनोहरणेन चन्द्रा
वन्याधिराज्यवरणेन च या प्रतिज्ञा ।
कोपात्कृता ललितया सखि हे मुकुन्दस्
तां चेच्छृणोति बत किं घटते न वेद्मि ॥
॥३.२३॥
वृन्दावनप्रथितराज्यमथाभजन्ती
तस्मिन्नहो विहरते नहि राधिका चेत।
चक्षुष्मतां तदिदमेव महाक्षयान्तर्
व्योमान्तरगतनिरर्गलभानुवर्गः ॥
॥३.२४॥
सम्प्रेषिता पुनरहं हरिणा विशाखा
मुख्यासु तासु सन्दिशता यदाशु ।
तच्चाटु वा कथममूरवधारयेय्र्
योगादमुष्य बत मामपि नाप्यपश्यम् ॥
॥३.२५॥
आकर्ण्य तद्वदनतो मम देवि कृष्णस्
तृष्ण्;अम्बुधेः स विदधे यदपारदृश्वा ।
तद्वा कथं कथयितुं सखि बाढमीशे
यद्भावनान्न खलु गीरपराप्युदेति ॥
॥३.२६॥
एवं सखीविलपितैः परिलूनमर्मा
लब्धान्धमूकवधिरादिकलोकधर्मा ।
बोधं तया चिरतया बत लम्भिताहं
कुर्वे स्म मन्त्रमनयैव विवेकवाहम् ॥
॥३.२७॥
किं चिन्तयामि परिभूतिमिवाकलय्य
श्रीराधिकां प्रति बताद्य सपत्निकाभिः ।
तस्या महागुणवशीकृतमाधवाया
विन्देद्वनैन्द्रपदवी न दवीयसीत्वम् ॥
॥३.२८॥
तस्मात्पुरा तु विरहज्वरदूनमेनं
साश्वासमाश्वथ निभाल्य पुनश्च नूनम् ।
राधां मुधाचरितमानभरातिबाधां
सम्यक्प्रबोधनकृते तरसा व्रजानि ॥
॥३.२९॥
सार्धं तयानुगतयाङ्ग तिरोहिताङ्ग
यष्ट्या बकप्रशमनं समया मयाथ ।
धीरां विधाय धियमालि कुरुष्व कर्णे
तस्मिन्समं निशमितेन निशामितं च ॥
॥३.३०॥
कम्पं विभर्ति वरीवर्ति समाहिताभं
स्वेदं तनोति विवृणोति विवर्णभावम् ।
अश्रूणि मुञ्चति विलुञ्चति भूषण्लीं
सालीकदृग्विलपति प्रति युष्मदालीम् ॥
॥३.३१॥
शुष्का नगा उत नगा धुतनिर्झराङ्गा
दीर्णा क्षमा विदलिता बत मे क्षमा च ।
हा हा हरेर्विलपितैरपि तैर्न कस्य
कस्याङ्गमङ्गमुत शेषदशामियाय ॥
॥३.३२॥
हन्त क्व यामि किल राजति राधिकेयं
मान्तर्दधाः सखि मुहुर्बत कातरोऽस्मि ।
किं सत्यमेतदपि नो इति शङ्कमानं
मा मा क्षणं क्षिणु मनो मम रे मनोज ॥
॥३.३३॥
रे धैर्य धैर्यवलनामुररीविधाय
राधेक्षणं क्षणमपि प्रतिपालय त्वम् ।
आशां न पूरयसि चेदवलम्बितां हा
रुन्धीत तास्तु विजहन्निजहन्तृ कस्त्वाम् ॥
॥३.३४॥
एवं तु तच्चरितदूनतया मया सा
वामन्त्रितोऽथ मुहुरप्युपसद्य सद्यः ।
शुश्राव नो इति भृशं परिदूय भूयः
श्रीराधिकाप्रियतमेत्युदितः पुराह ॥
॥३.३५॥
वृन्दा किमत्र भवती भवतीयमारात्
किं वा त्वयालि कलिता ललिता सखी सा ।
मां प्राप्य रागयुगलं युगलं चलाक्ष्णोर्
यस्या विभेदमतनोदतनोरिवास्त्रम् ॥
॥३.३६॥
तीव्रांशुरेष नियतं सखि नायमिन्दुः
किं दूयते मम तनूरमूनान्यथा तु ।
राधाङ्गसङ्गमनु मां धिनुते यदेष
तत्तन्मुखस्य खलु कोऽपि परोऽनुभावः ॥
॥३.३७॥
यस्या विधातृनिकृतेर्वलतं तु राधा
मां हन्त सापि तपति स्मृतवर्त्म याता ।
तस्या भवेदतितरामथवा विधाने
चन्द्रस्य तापकतया कियती प्रयस्तिः ॥
॥३.३८॥
एवं तदा कथयतोऽप्यविलोलदृष्टे
राधासमाधिविदितां कियतीमवस्थाम् ।
तस्योररीकृतवतस्तदनन्यभावाद्
आनुग्यमेव रभसादहमाजगाम ॥
॥३.३९॥
संज्ञास्तु मालतिकया गमिता तदाहं
राधास्वहस्त्रचितामतिमुक्तमालाम् ।
कीर्णां तमालमभि तामुपलभ्यदैवाद्
घ्राणे मनाग्विनिदधे मधुसूदनस्य ॥
॥३.४०॥
राधाकराम्बुरुहभावितमाधवीनां
तासां वरैः परिमलैः पुलकोपगूढः ।
उन्मील्य नेत्रकमले कमलेक्षणः सः
तत्र भ्रमद्भ्रमरतां प्रथयन्नुवाच ॥
॥३.४१॥
त्वं देवि तत्र चलिता स्तवनानुपूर्व्या
काकुस्वरेण मदशेषदशां सखीभ्यः ।
विज्ञापयानय तदा पणगं प्रसाद
रत्नं तमः सपदि यन्मम संनिहन्यात॥
॥३.४२॥
राधाद्यभावमनुधावति मत्प्रतीपं
बाधाशतं स तनुते हतमन्मथश्च ।
तद्यूयमेव ननु तामनुबोधयन्त्यः
सन्दूयमानहृदि मय्यथ शं विधत्त ॥
॥३.४३॥
आकर्ण्य तत्तमनुमान्य परागताहं
तन्मालया सममवास्थित मालती सा ।
आमन्त्रिता पुनरनेन तु नातिदूरात्
स्निग्धे इति प्रतिगता गदितास्मि सास्रम् ॥
॥३.४४॥
किं भूषणैरहह वह्निकणा कुलाभैः
किं वेणुना मम विडम्बनचुम्बिना च ।
राधां विनेति वनदेवि तदालिवृन्दे
वृन्दे समर्पय गता रभसादमूनि ॥
॥३.४५॥
आम्रेडितं मुररिपोरुपलभ्य सख्यो
वैक्लव्यतश्चलकरं चरणौ गृहीत्वा ।
एका मया बत कथञ्चन तस्य कण्ठे
सा रक्षिता श्वसितदूनवनस्रगेव ॥
॥३.४६॥
एवं पुनः प्रचलिता ललिते तवालि
स्मृत्वा प्रतिश्रुतिमथो परितः स्वनेत्रे ।
नैवाददं प्रियसखीतुलिता लता यास्
ता एव यन्मम तमः सुवतेऽधुना तु ॥
॥३.४७॥
उज्झन्त एव मधुपा मधुगन्धमात्रं
घूर्णन्त्यथापि मधुशून्यलताद्रुजातिः ।
वृन्दावनेऽद्य बत राधिकया विसृष्टे
निर्द्वेषकाश्च विमृगाः स्वमनु द्विषन्ति ॥
॥३.४८॥
यस्मिन्विराजति हरिः सखि तापितास्मिन्
सम्भाव्यते न खलु चेदिति मानुयोजि ।
हन्तास्य वायुरपि यान्स्पृशति स्म ते वा
यान्ति स्म कां गतिमिदं नितरां न वेद्मि ॥
॥३.४९॥
नानेति सास्रमुखया हरिभूषणानि
तद्वाचिकानि च मयाक्षयकान्तिमन्ति ।
युष्मासु तानि खलु गोचरितानि तन्व्यो
धन्यं हृन्न्यस्तमतमाचरताचिरेण ॥
॥३.५०॥
वृन्दागिरा मुरहराभरणश्रिया च
श्रीराधिकासवयसां हृदयद्रवो यः ।
स प्राप कण्ठमपि नेत्रयुगं परन्तु
धैर्येण तस्य रुरुधे पतनार्थवर्त्म ॥
॥३.५१॥
प्रेमप्रकाशविवशा रभसाद्विशाखा
मूकास्यतां गतवतीषु चिराय तासु ।
आचष्ट चाटुलपितं ललिता कराब्जं
कम्प्रेण पाणियुगलेन तदा गृहीत्वा ॥
॥३.५२॥
कृत्वा सखीपरिभवेन हताः पुनर्नस्
त्यागाद्विडम्बयति स स्वकभूषणानाम् ।
साक्षात्तदस्य परिभाषणलोलचेता
याचे वरालि ललिते भवतीमनुज्ञाम् ॥
॥३.५३॥
ता ऊचिरे च ललितारचितास्यवीक्षाः
कुर्मः किमालिरपि कुप्यतु मानिनी सा ।
सोऽस्मान्द्विधा ग्लपयिता न हि साम्प्रतं तत्
साक्षादसाम्प्रतमुपव्रजनं च सद्यः ॥
॥३.५४॥
एवं निशम्य ललितापि जगाद वृन्दां
यद्येति तस्य मृदुलालिरियं सदेशे ।
आस्माकवाचिकमपि त्वमिदं स्मरन्ती
तत्कर्णयोरथ पथि प्रथितं विदध्याः ॥
॥३.५५॥
सोमाभयापि घनकुम्भगणान्धकारं
स्वारण्यमुज्ज्वलयितुं यदि वोद्यतोऽपि ।
कालात्ययं किमु करोषि मुधा सबाष्पः
किं भानुजाम्बररुचिं प्रति रोदिषि त्वम् ॥
॥३.५६॥
वृन्दालिवृन्दमनुमान्य विशाखयागात्
कृष्णाददूरमथ तस्य विचिन्त्य चाज्ञाम् ।
चन्द्राधिराज्यरचनीमगमन्मुनीशां
मन्त्राय तां प्रियसखीमभिरक्ष्य तत्र ॥
॥३.५७॥
वृन्दागतिं मुररिपुर्मृगयन्विशाखां
वीक्ष्य क्व सा स्रगिति जल्पितमालतीकाम् ।
निश्चित्य तां च पुलकाङ्कुरिताङ्गसङ्घः
शर्मस्खलत्पदमपद्यत चावदच्च ॥
॥३.५८॥
हन्त प्रियालि कुरुषे गुरुपक्षपातं
राधाङ्गसङ्गलवसङ्गिनि पुष्पसङ्घे ।
अस्याश्चिरं मिथुनभावचरस्य किं वा
वार्तां च वर्तनविधौ नतरां विधत्से ॥
॥३.५९॥
रोषच्छलान्मुखसरोरुहमावृणाना
प्रम्लानमूर्तिबकवैरिविलोकजाताम् ।
मृष्टां विधाय परितो नयनाम्बुधारां
राधालिरीषदपि वीक्ष्य तमेतदूचे ॥
॥३.६०॥
या वेदनास्ति भगवन्भवता वितीर्णा
निर्वाणतामिव तया बत विन्दमानाः ।
एताः कथं कलितदग्धपटस्वभावास्
त्वामात्मनश्च नितरामनुसन्दधीरन॥
॥३.६१॥
श्रुत्वापि हन्त भवता ग्लपितां ममालीं
पद्मासखीप्रभृतयः कति नो समाप्ताः ।
त्वत्प्रेमपात्रपदवीमधुनापि गन्तुं
हा हन्त हा मुहुरिमां श्वसतीं धिगस्तु ॥
॥३.६२॥
या मे सखी त्वदनुचिन्तनया वसन्ती
नाभाषते न च शृणोति न वीक्षते च ।
तस्याश्च कोपनपटुस्तवकूटभङ्गी
हे पूतनान्तक मनः समभीषयिष्ट ॥
॥३.६३॥
कृष्णो मुखाम्बुजमथावनतं विधाय
नेत्राम्बुसंवलनया निषिचंश्च माल्यम् ।
साङ्गुष्ठतर्जनिकया मृदु मर्दयंश्च
कातर्यपर्यवसितं पुनरेतदूचे ॥
॥३.६४॥
सा राजते प्रियतया बत जीवितश्रीः
कृष्णोऽपि तद्वशतया विदितस्त्वयास्ते ।
जीवातुरप्यसि सखी त्वमसौ विशाखे
हा धिक्कथं तदपि सा भवितव्यतेयम् ॥
॥३.६५॥
वीक्ष्याथ काकुभरकातरमाशु कृष्णं
हृत्कम्पसम्पदभिलङ्घितधीरचर्या ।
नेत्राम्बुसन्द्रुतमनोनिभमुद्गिरन्ती
सन्तीव्रवेदनवशादवदद्विशाखा ॥
॥३.६६॥
उष्णांशुनेव विधुवर्तिनिभा मदाली
हा भस्मितास्ति भवतैव भृशं पुरैव ।
किं तावदद्य निजविक्लवभावसर्पिः
पेषं पिणक्षि स पुनस्त्वमिमां वराकीम् ॥
॥३.६७॥
मानश्चिराय नहि तिष्ठति राधिकाया
गोष्ठेन्द्रसूनुरिह हन्त भृशं दुनोति ।
आश्वासनाय खलु भङ्गीभिरेष योग्यस्
तस्मादितीयमनुचिन्त्य पुनर्बभाषे ॥
॥३.६८॥
सन्धिः कथं भवतु यन्मृदुरस्मि जात्या
सख्यो विचित्रमतयो ललितापि वामा ।
एता मुकुन्द कथमप्यनुकूलिताः स्युस्
तस्यास्तु भङ्गुरदृशः पुरतोऽपि कास्तु ॥
॥३.६९॥
युक्तं ब्रवीषि तव दैन्यममूर्न मे चेद्
विज्ञापितं कृपयते न तदा मदागः ।
श्रीकान्त किन्तु भवता कृतमन्तुनेयं
ताभ्योऽपि भाययति मां रचितात्मगोष्ठी ॥
॥३.७०॥
काकुं करोषि किमु केशव विद्यमाना
राधासुधा सहचरीजनचक्रमध्ये ।
आचर्य किल्बिषमकृच्छ्रत एव लोभाल्
लभ्या कथं भवतु सा भवता बताशु ॥
॥३.७१॥
मालत्यये त्वमपि किं निजनाथवक्त्रं
दृष्ट्वा परं भृशमनन्वितमेव वक्षि ।
सर्वार्पणं विहितवानसकौ परस्यै
स्वं देहदानमनु किं प्रभवेन्मदाल्यै ॥
॥३.७२॥
वन्या तवैव सुहृदः सखि राधिकायाः
लीला तवैव सुहृदः सखि राधिकायाः ।
आत्मा तवैव सुहृदः सखि राधिकायाः
किं वा ममान्यदिह देयमिति ब्रुवाणे ॥
॥३.७३॥
कृष्णे कृताञ्जलिपुटे निजगाद तस्या
मालत्युदीक्ष्य मुखमिङ्गितरज्यदङ्गम् ।
वामा इमाः किल गतामपि कण्ठमिच्छाम्
अन्तर्नयन्ति मदिमां शृणु माधवेति ॥
॥३.७४॥
(युग्मकम्)
कुञ्जादितो निववृते कृतमानमुच्चैर्
गान्धर्विका खलु यदा निजमन्दिराय ।
सोत्प्रासमेवमदिशद्भवते मयीयं
यस्मादसौ नयनवारिभिराप्लुतास्याः ॥
॥३.७५॥
वृन्दाधिराज्यमभिलष्य वयं वराल्यास्
त्वामद्य देव रभसेन तया प्रयाताः ।
वर्ण्या गुणास्तव हरे कति वात्मना तां
यत्सृष्टवानसि पुरैव महाधिवृन्दाम् ॥
॥३.७६॥
श्रुत्वाथ कृष्णमुदिरस्तदिमां विशाखा
सौदामिनीं परिदधे हृदि फुल्लकायः ।
बाढं जगन्त्यसुखयन्घनपुष्पपूरं
धन्या विकीर्य तदुपर्यपि देवनागाः ॥
॥३.७७॥
श्रीगोकुलेन्द्रकुलकैरवचन्द्रमाश्च
राधाभिषेचनमहाम्बुधिकामधाम्ना ।
तस्मिन्ननन्तवरभोगरुचिप्रथिम्ना
सर्वाङ्गसङ्गिविलसत्पुलकश्रिया च ॥
॥३.७८॥
नारायणस्य किल तान्परितः प्रसिद्धान्
आनन्दसान्द्रविभवान्बलवद्विडम्ब्य ।
उल्लासयन्प्रबलमात्मभुवं समन्ताच्
छ्वासेन सच्छ्रुतिगणस्पृहनीयमूचे ॥
॥३.७९॥
राधाप्रसादनकृते सखि मद्वनैश्यम्
उत्कोचनीप्सितवती भवती यदेषा ।
एतन्महोपकृतरत्नवरार्पणस्य
नैमेयवस्तुनि मनो मम बम्भ्रमीति ॥
॥३.८०॥
उद्घाटितं त्वमकरोर्मम मर्मकामं
राधाभिषेकमभि मत्कमुदे स जातः ।
इन्दुर्निमथ्य जनितो ननु देवतत्या
सिन्धोः सदा भवति भाविनि भावुकाय ॥
॥३.८१॥
यस्यै वितीर्य नियतं हृदयाधिराज्यं
नाद्यापि हन्त मम तृप्यति बाढमात्मा ।
राधामिमां प्रति वनाधिपताप्रदाने
स्वस्मादपि प्रियसखि ह्रियमेव यामि ॥
॥३.८२॥
वृन्दावनं मम परं शिवधाम राधा
साधारणस्थितिविनिन्दिगुणेन्दुलेखा ।
मूर्धाभिषिक्तपदवीं तदमुष्य हृद्यां
सैवार्हतीत्यनुभजे भृशमुत्कतां च ॥
॥३.८३॥
तन्मा विधेहि चिरतां ललितादिकाली
मालीं च मद्विनयिता नय तामितीयम् ।
सम्प्रार्थिता मुरहरेण निभाल्य वृन्दां
तत्रागतां स्मितकलाकुलमाललाप ॥
॥३.८४॥
चौरी ध्रुवं न भवती बत मादृशीषु
प्रेम्णा कदाचन चिरं न च दत्तदृष्टिः ।
क्षिप्त्वा जुगोप वनमालिनि देवि मालाम्
आल्या यदत्र निभृतं किल तां किमेतत॥
॥३.८५॥
व्याजं हरौ विहितमागमने स्वकीये
सिद्धिं मनोरथपथेऽप्यनुमीय तस्याः ।
तद्भङ्गिभाजि हसितश्रियि वाचि वृन्दा
द्वित्रक्षणान्जडमनोऽवयवं मुदासीत॥
॥३.८६॥
माल्यस्तु केवलमिदं वदते तवाल्या
गोविन्दशान्तिविधये मुहुरेवमुक्ता ।
सा वृन्दयाभणदिदं नतरां सखी मे
जुष्टं तदर्हति पुनः किर कृष्णकण्ठे ॥
॥३.८७॥
वृन्दारिका स्मितमुखी परिकृष्य पाणाव्
आश्वासय स्वयमिति ब्रुवती विशाखाम् ।
माल्येन भूषणगणेन च तेन सख्या
राधैकवल्लभमभूषयदेतयाथ ॥
॥३.८८॥
वृन्दां बकारिरनया च विभूष्यमाणो
राधाभिषेचनकथां पुलकेन शंसन।
तस्या निशम्य ललितारचितां प्रतिज्ञां
क्रूराः स्थ यूयमिति सास्रमवोचदेताम् ॥
॥३.८९॥
देव्याऽथ सा निगदिता सखि पूर्णिमा ते
वर्त्माधितिष्ठति चिरादिति तं निदेश्य ।
तामागता कृतनतिश्च तयोपगूढा
बाष्पैर्मिथश्च भणितैर्व्यतिषिक्तमेति ॥
॥३.९०॥
सम्पूर्णकालनियमामथ पौर्णमासीं
स्मेरश्रियोन्मदसुधांशुमुखीं सखीं च ।
आसाद्य सम्भृतपदा त्वरितात्तपञ्च
शाखातदालिततिरौषधिवन्ननन्द ॥
॥३.९१॥
आलिङ्ग्य मङ्गलममूः परिपृच्छ्य सास्रे
उन्मार्ज्य नेत्रकुमुदे अथ पौर्णमासी ।
साशीःशतं सपदि किञ्चन याचिकास्मीत्य्
उक्त्वा कृताञ्जलिपुटा इदमभ्युवाच ॥
॥३.९२॥
यस्मै व्रतान्यकरवं वरपुष्पवन्तं
सन्तर्पणक्षमतमैर्बकजिद्वनस्य ।
राधाभिषेकसलिलैरभिलाषवृक्षं
शीघ्रं फलेग्रहितया तमुरीकुरुध्वम् ॥
॥३.९३॥
ता ऊचुरेतदपि देवि भवन्निदेश
माल्यैरलङ्कृतिकुलं कलयाम्बभूवे ।
अस्माभिरङ्ग यदि सा गुरुमानभिन्ना
खिन्नां धियं वितनुते न सखी निरीक्ष्य ॥
॥३.९४॥
आगच्छताथ विजनं विनिरूपयाम
किं सेहते चिरमनिर्मितरोषदोषा ।
एवं तदा भगवतीभणितेन सख्यः
सार्धं तया विदधिरे प्रमदात्तदेव ॥
॥३.९५॥
अन्तर्गृहे ललितया सुगृहीतहस्ता
गत्वा शनैर्भगवती तमसा परीते ।
तस्तावलक्षितममूरभितो विशाखां
तस्यास्तु शुश्रुवुरिदं रुदितानुजातम् ॥
॥३.९६॥
कोऽन्योन्यशामि शमितो मम येन मानो
निर्वाप्य भूतनिचयप्रलयाय भूतः ।
कल्पान्तकालकृतचण्डिमबाडवानां
यूथो यथा हि शतवार्षिकवर्षधाम्ना ॥
॥३.९७॥
कं वा ब्रवीम्यहमिहास्मि गृहीतमाना
चित्तं मदोद्धुरमहो मम वेत्ति को वा ।
पृथ्वि त्वमेव शरणं भव शीघ्रमस्या
मा माधव त्वमभितो भज जालधर्मम् ॥
॥३.९८॥
दूत्या विलोडिततमादपि मन्मनस्तस्
तीक्ष्णं परं लपितमुद्यदभूत्कथं नु ।
जात्यैव सार्द्रमथवा मथितं समन्तात्
स्निग्धं पयो वमति दारुणमिद्धमग्निम् ॥
॥३.९९॥
स्वप्नागमेऽद्य हरिणा प्रहितानि देव्या
वृन्दाख्ययानुनयता निजभूषणानि ।
नापश्यमीषदपि मानहता यदाहं
नान्धीकृतास्मि विधिनापि कथं तदैव ॥
॥३.१००॥
आकर्ण्य मानकटुतां मम निष्ठुरायाः
शय्यां पुरः स्वयमभूदनुसृत्य कम्प्रः ।
प्रेयान्नुवन्नवमतः स मया मुकुन्दस्
तेनाधिधन्व मम धीशफरी पपात ॥
॥३.१०१॥
कैङ्कर्यकार्यपदवीमपि नाहमीशे
यस्यार्जितुं जनिशतैस्तपसोर्जितेन ।
तेन व्रजेन्द्रतनयेन निजाङ्कपाल्याः
पाल्या कृता तदपि धिग्बत मानमैच्छन॥
॥३.१०२॥
एवं मुहुः श्रुतवतीषु चिराय तासु
स्वेदौघपुत्तलिनिभासु सखीं विशाखा ।
किं चेष्टसे त्वमिति तां ब्रुवती सशब्दं
बाष्पानवर्षदनयाथ मिथोऽङ्कपूरम् ॥
॥३.१०३॥
आगत्य माननिलया अथ पौर्णमास्या
लब्ध्वानुमोदमनुराधिकया विशाखा ।
राधेन्दुकान्तमुदितां वसतीमुखे तां
कुर्वत्यलं कुवलये मुदमाचचार ॥
॥३.१०४॥
तामास्वकोपसमयादमृतं दुहानां
नव्यां घनश्रियमथालिदृगालिकृष्णा ।
संलभ्य तत्क्लममहाशुचिसूर्यतप्ता
धारासहस्रमवहत्क्षणमुष्णशीतम् ॥
॥३.१०५॥
तस्याः पटः घटयति स्म लुठन्तमेका
काचिन्निरास्थदलिनोऽञ्चलचालनेन ।
मध्ये दधार करपद्मयुगेन चान्या
धन्यं भरण्यमिह यत्प्रणयाख्यरत्नम् ॥
॥३.१०६॥
तत्राथ तां समुपवेश्य गृहीतपूजा
पीठादिका भगवती शिरसा नमन्तीम् ।
अशृअविले च नयने परिमार्ज्य साश्रुर्
भ्रूधूननेन वैशितालिरिदं जगाद ॥
॥३.१०७॥
त्वं जन्मना शुचिमना हरिमानसा च
प्रेयानकिल्बिषसितस्त्वयि रागवांश्च ।
सख्योऽपि शीतलगुणा गुणेन मिथो वाम्
उष्णा च मानघटना घटते कुतोऽत्र ॥
॥३.१०८॥
बाले त्वमीहितवती यदि मानखेदान्
अर्थे लघौ च सुचिरादनुवर्तिनीं माम् ।
वृद्धां न पृच्छसि कथं किमु बाल्यभाव
प्राप्तस्वभावलसितं प्रथते तदेतत॥
॥३.१०९॥
चिन्तामणिर्व्रजभुवां तव नायकः स
श्रीदातृ कृष्णविपिनं प्रमदाटवी ते ।
त्वत्प्रेमसिन्धुरुचिदा बत पूर्णिमाहं
त्वद्वक्त्रजातविभवा किमशर्मबीजम् ॥
॥३.११०॥
एनामवाञ्चितमुखीमथ पौर्णमासी
मीलद्दृशं वरदृशं पुनरित्थमुक्त्या ।
सासान्त्वयन्न कलितं विधुवृत्तमेतत्
पद्मार्दने न किल ते तमसा यदासीः ॥
॥३.१११॥
पद्मा कदाचिदवदन्निजतन्त्रकृष्णं
मन्या हरे स्वहृदि कोऽपि ममास्ति बाष्पः ।
चन्द्रावलीद्युतिलसन्मुदिरात्मकान्ति
श्रेणीभिरेनमचिरेण बहिर्विधेहि ॥
॥३.११२॥
कात्यायनीं चिरतरं परिचर्य राज्यं
चन्द्राकृते ननु वृणे स्म भवद्वनस्य ।
वृन्दावनेश तदिमां स्पृःइतानुषङ्गाम्
अङ्गीकृतां जनयितुं भवतापि वश्मि ॥
॥३.११३॥
तद्याचितं तदवकर्ण्य चिराय राधे
तुभ्यं स्वराज्यवितरस्पृहिणा प्रियेण ।
कम्पं मुहुः प्रवहता भृतशर्मदम्भं
पृष्टा बभाण किमुतेति जगाद सेदम् ॥
॥३.११४॥
प्राक्चन्द्रनामवलिताह्वयशालिनी या
या माधवेन च समं श्रुतिगीतनामा ।
सा राधिकादिरसदा बकजिद्वनश्री
भागेव तन्मदलमत्र वरश्रमेण ॥
॥३.११५॥
राधे पुरा निजविभूतिजचन्द्रकान्ति
संज्ञे समाधवं ऋचं परिशिष्टगीते ।
कृष्णो निशम्य तदतीव निजप्रतीक्ष्यं
निश्वस्य सस्मितमथावददेवमस्तु ॥
॥३.११६॥
इति रहसि सखीनां पूर्णिमा कर्णकूपे
रचयदमृतरीतिं श्रीविधोर्यद्व्यलोकि ।
अथ नयनचकोरे तत्तु योग्यं विचित्रं
स्फुटमसुहृदि देव्याशीरमूष्वेव लब्धा ॥
॥३.११७॥
बकरिपुशुचिपक्षे यः प्रसन्ने भृतश्रीर्
अकुरुत तनुशीर्यत्कैरवालिं प्रफुल्लाम् ।
तनुरुहवनमुन्नं मेखलाऋक्षवृन्दं
स्खलितगुणमसौ वः पातु राधामुखेन्दुः ॥
॥३.११८॥
अशुचिमरुचिमन्तं सन्ततं भक्तियोगे
विहितविहितमन्तुं जन्तुजाताधमं च ।
अकृपणकरुणाभिः पाति मां पातिनं यस्
तमिह महितरूपं कृष्णरूपं निषेवे ॥
॥३.११९॥
इति श्रीराधाभिषेकचरिते श्रीमाधवमहोत्सवनाम्नि महाकाव्ये
उत्फुल्लराधिको नाम
तृतीय उल्लासः
॥३॥
***************************************
.
(४)
चतुर्थ उल्लासः
उद्द्योतराधिकः
राधाया व्रजविपिनेऽभिषेकपर्वण्य्
उन्मीलत्यथ परितो जनावलीषु ।
कृष्णाविष्कृतिदिनवत्प्रहर्षिणीषु
प्रोद्योतेषु च शकुनेषु शर्मदेषु ॥
॥४.१॥
गोविन्दः प्रमदमदेन घूर्णदात्मा
स्वप्रेम्णां ककुदि वनेन्द्रभद्रपीठे ।
तां मङ्क्षु स्वयमभिषेकमङ्गलाढ्यां
सन्द्रष्टुं द्रुतिमिह निर्दिदेश वृन्दाम् ॥
॥४.२॥
(युग्मकम्)
नागन्ता कथमपि सा विना वनस्य
स्वं राज्ये स्फुटमभिषेचनं यदद्य ।
तद्वृन्दे सखि ललिताप्रतिश्रुतं तन्
मच्छक्तेरजडतया त्वयाशु साध्यम् ॥
॥४.३॥
किन्तु त्वं भवति यथा तदाभिषेके
मात्èणां गतिकृतह्रीर्न मे न तस्याः ।
तासां स्यान्मुदपि यथा तथा विदध्या
राज्यं नौ सममुचितं यथा तथा च ॥
॥४.४॥
वृन्दाथ द्रुततनुधर्मशर्मवृन्दा
मूढासीत्पुनरवगाह्य बाह्यभावम् ।
आरब्धुं सपदि निदेशदेशरूपं
कंसारेरमुमनुपृच्छ्य गच्छति स्म ॥
॥४.५॥
कृष्णोऽपि प्रियतमनर्मबन्धुवृन्दं
सानन्दं कलयितुमत्र पर्ववृत्ते ।
वैचित्रीं विरचयितुं च भूषणानां
स्वीयानामुपपशुसङ्घमङ्घते स्म ॥
॥४.६॥
राधायां व्रजविपिनेऽभिषेक्तुमेनाम्
उत्कण्ठाकवलितचेतसो मुरारेः ।
सन्द्रष्टुं स्पृहितवतोऽस्य चित्रभावान्
उत्कायां निजवनराज्यपर्वजातान॥
॥४.७॥
लीलाश्रीस्पृहि च तयोरिहालितत्यां
कालातिक्रमसहनातिदूनमत्याम् ।
तत्रालं सुखकलनाय तूर्णमासां
घूर्णन्त्यां विविधमतेऽपि पूर्णिमायाम् ॥
॥४.८॥
सा वृन्दाम्बरभणितच्छलेन दूराद्
ऊर्ध्वस्था निजलपितामृतौघवर्षैः ।
प्रेमार्द्रव्रजजनकान्तिकल्पवल्लीम्
उत्फुल्लां किमपि तदा मुदा चकार ॥
॥४.९॥
(सन्दानितकम्)
श्रीराधामतुलगुणाम्बुधीन्दुलक्ष्मीं
श्रीवृन्दावनभुवि विश्ववन्दितायाम् ।
योगीन्द्रे द्रुतमभिषिञ्च काञ्चनालि
श्रीराजन्मणियुजि सिंहपीठपृष्ठे ॥
॥४.१०॥
राधायामयमभिषेककान्तिपूरः
श्रीदः स्याद्वनमनु गोकुलम्भुवं च ।
अंशूनामुदय इवामृतांशुमूर्तौ
यद्योग्ये खलु विभवोऽखिलं धिनोति ॥
॥४.११॥
या वृन्दाविपिनविभूतिरस्ति साक्षात्
कृष्णात्मा प्रियसवयाश्च राधिका या ।
स्वस्यासौ समहमभिन्नयैव लक्ष्म्या
प्रेम्णा तां स्वयमभिषेक्तुं ःअतेऽद्य ॥
॥४.१२॥
प्रेमाणं वहति यथा व्रजो न कर्तुं
तद्योग्यामुपकृतिमस्मि नैव लभ्या ।
इत्येषा स्फुटमधिदृष्टि तस्य गन्तुं
सङ्कोचं प्रथयति साम्प्रतं वनश्रीः ॥
॥४.१३॥
गोष्ठेशे तदिह विधेहि साधिवासां
गोष्ठेतां हरिजननीमुखाङ्गनाभिः ।
तन्मूर्तिप्रतिमसखीषु तां वानश्री
देवीभिः स्वयमभिषिञ्च कानने तु ॥
॥४.१४॥
उद्भाति व्रजविपिनं यथा यथा वा
राधा तद्द्वयपरभागिता यथा वा ।
संविन्त्से अन्नु भुवनोत्तरत्वमेषां
माधुर्ये स्वयमिति वर्णितैः किमु स्यात॥
॥४.१५॥
श्वस्तंमाद्द्रुतमभिषिञ्च पौर्णमासि
श्रीराधामधिमधुमासपौर्णमासि ।
अद्येमां प्रगुणगुणैः कृताधिवासां
गन्धाद्यै रचय च साधिताधिवासाम् ॥
॥४.१६॥
हे राधे त्वमिह च मास्म धार्ष्ट्यबुद्ध्या
सङ्कोचीर्षदिदमशेषदुःखहन्तृ ।
शालीना अपि कुलकन्यकाः सभायां
दृश्यन्ते पतिवरणाय वीतलज्जाः ॥
॥४.१७॥
राधाल्यः श्रुतिचषकेण तत्तु जल्प
माध्वीकं मुहुरपि पौष्करं निपीय ।
आलिङ्ग्य स्वकनिकटस्थिता मिथोऽमूर्
आत्मानं परमपि न क्षणं विदुः स्म ॥
॥४.१८॥
लोकानां कलकलतूर्यवर्यघोषा
घोषेऽथ श्रुतिजयिवैभवा बभूवुः ।
सिन्धुर्यैरमृतविमन्थगर्जगर्भं
गर्वश्रीभरमनु खर्वतामवाप ॥
॥४.१९॥
संफुल्लत्तनुमुपगम्य पौर्णमासीम्
आसीनामिह नमनस्य विस्मरन्ती ।
सोल्लासस्वरकलिताखिलालिमाला
मालाभिर्वलितकरा जगाद वृन्दा ॥
॥४.२०॥
कान्तश्रीरकृत तमस्कृदुत्सवं या
सैषाभूत्प्रमदकृदुत्सवे सहाया ।
लोकानां रतिहरदर्शपर्वपूर्वं
ग्लौमूर्तिः कलयति दर्शपर्व पूर्वम् ॥
॥४.२१॥
गोविन्दाटविभुवि राज्यपट्टहेतो
राधायां भगवति साधयाधिवासम् ।
शेषाभिः प्रियकलिताभिराभिरस्या
अस्माकं दिवि पुरतो वचो यथासीत॥
॥४.२२॥
वृन्दाया भणितमिदं निशम्य रम्यं
सा सुभ्रूततिरपि सापि पौर्णमासी ।
कर्तव्ये क्षणमभजद्विमूढभावं
मुद्वन्या मदयति तद्धियं हि पूर्वम् ॥
॥४.२३॥
कञ्जाक्ष्यः सममिह सङ्गताश्च सर्वा
गान्धर्वाप्रणयमयस्वभावभव्याः ।
यासां स्वैर्भुवि दिवि शिञ्जितैः समन्ताद्
आक्रान्ता गतिरतिहंसमण्डलासीत॥
॥४.२४॥
उत्फुल्लागमदथ तत्र कुन्दवल्ली
सन्निष्ठप्रमदमदान्विता धनिष्ठा ।
प्रेमश्रीरसभरमन्दिता च नान्दी
पूर्णेन्दोर्महसि यथा चकोरजातिः ॥
॥४.२५॥
तास्वङ्ग प्रणतवतीषु पौर्णमासीम्
उद्बाष्पं परिमिलितासु चालिपाल्या ।
कुन्दाह्वा न्यगददिदं सुभद्रसाध्वी
माध्वीकैरिव परिषिञ्चती जगन्ति ॥
॥४.२६॥
बन्धूनां हृदि नहि साम्प्रतं प्रमोदो
मात्येवं न च खलु वर्णनीयमस्मिन।
यः सोऽयं व्रजभुवमाशु पूरयित्वा
पोत्सर्पन्जगदपि सम्प्लुतं चकार ॥
॥४.२७॥
ते केचिद्विदधति गद्गदेन गोष्ठीं
अन्ये तान्पुलककुलाकुला द्रवन्ति ।
सृज्यन्ते स्मितवलिताः स्ववेशमेके
घूर्णन्तः परमपरे परिस्फुरन्ति ॥
॥४.२८॥
क्षत्तारः पशुपनृपेण संनियुक्ता
घोषश्रीरचनमनु प्रघोषणाय ।
वाक्स्तम्भं किमिह गता मुदाकरिष्यन्
पूर्वं तद्यदि न जनाः स्वयं व्यधास्यन॥
॥४.२९॥
मा स्नेहाद्व्रजनृप विस्मराद्य कृष्णः
कृत्स्नस्य प्रभवति शीर्ष्णि राधिका च ।
मौनी वागियमसकृत्कथं न सत्या
न्यादेवं स वदति फुल्लनेत्रमत्र ॥
॥४.३०॥
संफुल्लः स च वृषभानुरात्मपुत्री
श्रीलिप्सुर्भुवनवसूनि सञ्चिनोति ।
एतस्या लसदभिषेकमञ्जुवर्षा
सूत्स्रष्टुं दशशतधा मुदा जगत्याम् ॥
॥४.३१॥
अस्माकं सुकृतशतं यदस्ति बाल्यात्
तस्मात्तां कलितमहाभिषेकलक्ष्मीम् ।
गान्धर्वां किल कलये महीत्थमद्धा
वृद्धाभिर्मुहुरनवद्यमुद्यतेऽद्य ॥
॥४.३२॥
राधाया भृशमभिषेकवृत्तमत्ता
गोपेशासमितिगतासु गोपिकासु ।
गायन्ती पटु मुखरानटत्तथासौ
जीर्णाङ्गी कलकलवान्यथास हासः ॥
॥४.३३॥
श्रीवृन्दावननृपसम्पदाभिषेको
राधाया बत भवतादथो मयैव ।
इत्थं किं प्रसरिसरीति कीर्तिदायाः
स्तन्यं तत्प्रतिपदपूर्तिकाम्ययाद्य ॥
॥४.३४॥
मन्त्रार्थं विहितगतौ सुताभिषिक्तेः
श्लिष्टायां व्रजनृपयाथ कीर्तिदायाम् ।
एवं नः सुबहुसुतोत्सवे भवत्यौ
प्टामित्यखिलसभा सबाष्पमूचे ॥
॥४.३५॥
निर्मञ्छ्ये नियुतशतायुतैरसूनां
नापत्ये प्रभवति नौ भिदा कदापि ।
तत्रालि त्वमवसि राधया प्रसूत्या
मत्प्राणानिति किल पौनरुक्त्यमुक्तेः ॥
॥४.३६॥
इत्युक्त्वा पशुपनृपा कृपार्द्रनेत्रा
गोपीभिः परिणतधीभिरत्र मन्त्रम् ।
कृत्वासौ सपदि विलोक्य मां धनिष्ठां
नान्दीं च प्रसरवशाख्यदेवमार्यम् ।
॥४.३७॥
(युग्मकम्)
पन्थानं भगवति वश्चिरं निशाम्य
श्रुत्वाथ स्थितिमपि राधिकानिकाय्ये ।
लब्धुं त्वामविभूतया वयं प्रणामं
शंसन्त्यः पदसदने निवेदयाम ॥
॥४.३८॥
सन्दृष्टश्रुतचरवस्तुनिन्दि वृन्दा
रण्यं यद्विलसति जीवनं व्रजस्य ।
गान्धर्वा निपुणगुणा नु भाग्यलक्ष्मीर्
इत्यस्याः स्फुटमिह वैभवं स्वभावः ॥
॥४.३९॥
त्वं गोष्ठे भगवति भद्रकुम्भलक्ष्मी
राधा तु प्रविहितसौख्यसत्रदीक्षा ।
तद्वृन्दावनमणिवेदितोऽभिषेके
तस्यास्त्वां वयमिह भक्तितो भजाम ॥
॥४.४०॥
तस्मात्त्वं द्रुतमधिवासपर्वलक्ष्म्याः
प्रारम्भं रचय वयं त्वथागताभाः ।
आकर्षे नयनततेः स्वयं महःश्रीः
सालं तामनु किमुतोदिता महाश्रीः ॥
॥४.४१॥
तच्छीलग्रथितधिया तु तत्कृते यान्
जग्रन्थ स्फुटमणिभासुरान्पुराहम् ।
ग्रथ्नन्तु प्रतिपदमेव तां त एते
मङ्गल्यश्रियमनु हारिहारिहाराः ॥
॥४.४२॥
इत्येवं हरिजननीनिदेशमाल्याद्
उत्फुल्ला वयमिह शीघ्रमाव्रजन्त्यः ।
हर्षोद्यद्भ्रमरचितामथात्मनीत्थं
किर्मीरश्रियमभजाम तत्र तत्र ॥
॥४.४३॥
नृत्यन्ति क्षणरुचयोऽद्य फुल्लदङ्गं
गोविन्दं रसघनमेत्य बन्धुवीथ्यः ।
स्वं ज्योतिर्विदधदसौ तु साधु राधा
धामाद्रौ सुबलमटाट्यतेऽवलम्ब्य ॥
॥४.४४॥
राज्यार्थं कमनमना मुकुन्दकान्ता
का वृन्दावनवलयस्य तस्य नासीत।
राधायामिदमधुना स्तुते न वा का
युक्तं तन्निरुपधिहार्ददोहधाम्नि ॥
॥४.४५॥
अध्यास्ते त्रिभुवनमेव हार्ष एकः
सोमाभाहृदि परमस्ति सोऽयमाधिः ।
एवं किं स जनह्रियाद्य नेत्रनीरैः
शर्मोत्थभ्रमजनकैः स्वमाजुगोप ॥
॥४.४६॥
पद्माख्या यदियमतो न युक्तमस्याः
सोमाभामनु खलु सौख्यमेवमेव ।
तामुच्चैः किमयमितो महाधिराजः
प्रम्लातुं न्यदिशत तद्विलोकनेन ॥
॥४.४७॥
सौहृद्यं ययुरिह सुभ्रुवस्तटस्थाः
श्रीराधामनु सुहृदस्तु साहचर्यम् ।
अन्यत्वं नहि सहचर्य एव हर्ष
स्तब्धत्वादिव बत यातुमीशते स्म ॥
॥४.४८॥
गान्धर्वागृहमनु फुल्लनेत्रपद्मा
पश्येयं रसवलितालिपालिरेति ।
आगन्तुं द्रुतमनसां नदीव चक्रे
यास्माकं महजलधाविहानुकूल्यम् ॥
॥४.४९॥
योगीशा तदिह निशम्य फुल्लदङ्गी
राधालीर्न्यदिशत तत्र पर्वकृत्ये ।
गीस्तस्याः समसमये तु पुष्पवृष्ट्या
मूर्तेवाभवदिति सा जनेन मेने ॥
॥४.५०॥
आलीभिर्व्यरचि तदा महः प्रवृत्तं
तेनालीकुलमथवेरितं स्वयं वा ।
इत्येवंतनुमपि नो विवेकचर्यां
संपश्यन्नपि नितरां जगाम लोकः ॥
॥४.५१॥
अन्योन्यं वपुषि भुजालतोपगूढाः
संसृष्टाः स्वरबलेन तथा वराल्यः ।
गायन्त्यः प्रवलितमङ्गलं यदीयुश्
चित्ते च द्रवमिलनं न तत्तु चित्रम् ॥
॥४.५२॥
चित्रश्रीचयरचनाकलाचणानां
आश्चर्याण्यपि जगतां लिलेखिषुणाम् ।
निर्माणे स्फुरति परं स्म मण्डनानाम्
आलीनां मनसि करे च सा महश्रीः ॥
॥४.५३॥
प्रागद्रेरिव मणिकुट्टिमस्य दीव्यन्
यश्चन्द्रातप उपरि प्रतायते स्म ।
गान्धर्वाशरदिजपूर्णचन्द्रमूर्तेः
सान्निध्यं स खलु तदा पुरा व्यनक्ति ॥
॥४.५४॥
गौराङ्ग्यः पृथुलसुवर्णभद्रकुम्भान्
विन्यस्यासितमणिवेदिवीथिकायाम् ।
स्मेराक्षीर्व्यदधत ताः सखीर्बकीजिद्
वक्षःस्वस्तनपरभागरागरक्ताः ॥
॥४.५५॥
उद्भूतैर्दिशि दिशि धूपधूममेघैर्
वर्षद्भिः परिमलमुज्जहर्ष लोकः ।
उत्क्षिप्तास्तदनु च दीपनीपमालाः
प्राफुल्लन्वलयितपर्वशर्मपुष्पाः ॥
॥४.५६॥
माङ्गल्यध्वनिमधुरासु दिक्षु तासां
कादम्ब्यैरिव नयनैः समुह्यमानैः ।
आलीनां हृदयरथैरथेयमुच्चैर्
रूढाभिन्यविशत रत्नपीठपृष्ठम् ॥
॥४.५७॥
श्रीसख्यो विधिवदमुत्र पौर्णमास्या
निर्दिष्टाः कृततनुमार्जनादिशोभाम् ।
श्रीराधां महसि निजैरथाभ्यषिञ्चन्
पाण्यब्जैर्नयननटोत्तमास्त्वनृत्यन॥
॥४.५८॥
तां श्लक्ष्णांशुकमृजिताङ्गराजिराजत्
पत्रोर्णच्छविमभितो विधीयमानैः ।
मिर्मञ्छैः सह सुखसङ्कुलान्तरात्मा
भूयोऽस्मिन्भ्रमिभरमाप पर्वलोकः ॥
॥४.५९॥
अन्यस्मिन्नथ वरतुलिकानुकूले
श्रीपीठे पदयुगपङ्कजं दधाना ।
सा साक्षाच्छिवनिपदीपसभ्यसेव्या
भव्या भाकुलकुलदेवतेव रेजे ॥
॥४.६०॥
तामाञ्चन्कुसुमविलेपनादिलक्ष्मी
चित्राङ्गीं सुवलितवेणिमालिमुख्याः ।
तत्कान्तिं मणिनयनैरिवावलोक्य
स्मेराभैर्निजमहसा विभूषणैश्च ॥
॥४.६१॥
स्थानेऽस्मिन्मनसि च ताभिराशु दध्रे
गोपेन्द्राण्यवितसभासमागमश्च ।
सङ्कल्पक्षितिरुहबीजमीदृशीनां
चित्रं नाङ्कुरमुखमेव यत्फलि स्यात॥
॥४.६२॥
आयाता हरिजननीमुखाः पुरन्ध्र्यो
राधाया द्रुतमधिवासनं विधातुम् ।
आनम्रां पुनरथ तास्तदङ्गवल्लीम्
आलिङ्ग्य स्वयमधिवासिताः पुरस्तात॥
॥४.६३॥
आश्लेषे नयनजलैर्व्रजेशया सा
प्रागेव व्रजविपिनेऽभ्यषेचि नूनम् ।
प्रेमास्याः स्फुरति हि तादृशो यदस्यां
राज्यस्यार्पणमिति न त्वस्य स्वरूपम् ॥
॥४.६४॥
रोहिण्या पुलककुलाङ्कुरावलीनां
रोहिण्या श्रमसलिलोढरागरक्तैः ।
रोहिण्या निखिलमुदां वतंसलेखा
रोहिण्या शिरसि च सा तयाथ जघ्रे ॥
॥४.६५॥
ईदृक्षां कलयितुमेव सम्पदन्ते
दौहित्र्याः किल जरती च जीवतीयम् ।
चुम्बन्ती मुहुरिति जल्पितेन कं वा
साकार्षीदिह मुखरा स्मितोन्मुखं न ॥
॥४.६६॥
स्तन्यौघैः प्रतिहतिभीस्तदङ्गराग
स्यालिङ्गन्त्यनिविडमेव तां जगाद ।
वक्त्रं मावृणु महसा तवाद्य सुभ्रू
गोष्ठीयं जननि निमन्त्रितेति माता ॥
॥४.६७॥
प्रावोचन्नथ निखिलाश्च ता न विद्मः
सङ्कोचं तव खलु मातरूजितं न ।
चक्षुर्नस्तृषितमथापि यत्र भूयः
सम्पत्त्या द्रुतमनया स्वया धिनुष्व ॥
॥४.६८॥
आरब्धुं तमथ महाधिवासमासाम्
अन्योन्यामवृणुत वीथिरभ्यनुज्ञाम् ।
एकस्मिन्परनिरपेक्षहार्दयुक्ताः
स्वे वर्गे परवशतां जनाः प्रयान्ति ॥
॥४.६९॥
आरम्भक्षणमधि राधिकाधिवासे
चित्रश्रीरियमथ दीव्यति स्म तस्मिन।
योगीन्द्रापरिपठितेऽपि शान्तिपाठे
लोकानामनुववृधे दृशामशान्तिः ॥
॥४.७०॥
एतस्मिन्सुरसुमनोमनोज्ञवर्षं
वर्षद्भिः परिशुशुभे शुभे मरुद्भिः ।
दीपादिप्रतिहतिवर्जनेन पुण्यं
नैपुण्यं सुरपतिनान्वशासि येन ॥
॥४.७१॥
विश्वस्मिन्वरपणवाद्यवाद्यरुद्धे
फुल्लाक्षीष्वखिलसभासु वृन्दयाथ ।
मालाभिः समभिसभाज्य कैर्तिदेयी
साम्राज्ये निजविपिनस्य तस्य वव्रे ॥
॥४.७२॥
आलीदृक्प्रचयतया चकोरपाली
दीपानां प्रकरतया च तारकाली ।
नीराज्य वृषरविजामुखं निरीक्ष्य
स्वं चन्द्रं किल जहती ननर्त तत्र ॥
॥४.७३॥
प्रत्यूहं शमयितुमाशु विश्वमस्या
विन्यास्थन्मुहुरथ तन्त्रवेदमन्त्रान।
योगीशा पुनरिह नात्महर्षमोहात्
प्रत्यूहे प्रतिविधिमेव सा विवेद ॥
॥४.७४॥
यन्नेत्रान्तरपथमेत्य सान्द्रकम्पं
विघ्नानांव्यरचयदात्मनः श्रियाशु ।
तस्यां तन्निहितमहो तया वितेने
स्थेमानं भविकभरेष्वनर्घमर्घ्यम् ॥
॥४.७५॥
नो सख्यं मुखमिदमिच्छतीन्दुना ते
तेन त्वत्पदनखवन्दिना सितेन ।
कृष्णेऽस्मिन्महति तदेत्वितीव भाले
सालेखीदिह मृगनाभिना मृगाङ्कम् ॥
॥४.७६॥
आर्याणां ततिरथ कार्मणादिभाव्यैर्
युक्तां तां सुरभिशताधिवासिताङ्गीम् ।
दुर्वाणां सरजनैतैलवद्भिरग्रैर्
उद्गीतं शिरसि पटावृते ररक्ष ॥
॥४.७७॥
सेव्यश्रीर्वकरिपुराज्यलब्धलक्ष्मीः
सद्गन्धप्रसवमहौषधीभिरिद्धा ।
राधास्मिन्द्विजकुलसूक्तपूर्णसम्पद्
वृन्दाया विपिनविभूतिरेव रेजे ॥
॥४.७८॥
रेजुस्तामनु मृदुपञ्चशाखासन्धाव्
अङ्गुल्यः प्रतिसरमाबबन्ध तस्मिन।
मन्ये तन्मुररिपुमाशु जेतुमेकी
चक्रेऽसौ कुसुमशरेण पञ्चभल्ली ॥
॥४.७९॥
सा रम्भाङ्कुरमुकुरासिधेनुकानां
सद्भासोर्जितकरनीरजार्चिरुच्चैः ।
विश्वेषामपि दृशि मङ्गलं दधाना
माङ्गल्योचितमथ रोचते स्म तस्मिन॥
॥४.८०॥
अन्योन्यं दधिनवनीतसेककेलिं
तत्रामूरपि सकूलाः कुलाङ्गनाश्च ।
आचारान्न परमकुर्वतातिलोलं
गान्धर्वामहसि महीयसो मदाच्च ॥
॥४.८१॥
अन्योन्यं द्रुतमथ दिक्षु विक्षिपन्त्यश्
चक्षूंषि द्रववलिटा द्रुता द्रवन्त्यः ।
सिञ्चन्त्यः पुररजनिद्रवेण नार्यो
नाश्चर्यं यदिह मनोद्रवं च भेजुः ॥
॥४.८२॥
काभिश्चित्पटु जटिलां विकृष्यमाणां
नर्दतीं दधिघृतकर्दमेषु राधा ।
श्वश्रूं सा महसि निशाम्य नम्रवक्त्रा
स्मेरत्वं जनहसबिम्बमाशु दध्रे ॥
॥४.८३॥
सम्मत्या मुनिवरया जनैरलक्ष्यं
प्राश्याथ किमपि हुतावशेषभागम् ।
श्वश्रूं सा महसि निशाम्य नम्रवक्त्रे
स्मेरत्वं जनहसबिम्बमाशु दध्रे ॥
॥४.८४॥
राधा प्रागपि विनिषिद्धपुंसि वर्त्मन्य्
एतस्मिन्नुत जरतीभिरग्रगाभिः ।
निर्दिष्टे हरिजननीमनु प्रियालि
संवीताप्यवनतमूर्ध गच्छति स्म ॥
॥४.८५॥
सङ्गीतप्रकरसुधां निपाययद्भिस्
तां तस्याः स्मितममृतं दृशा पिबद्भिः ।
उत्फुल्लैर्व्रजवनिताजनैः समन्ताद्
गान्धर्वा सरभसखेलमन्वयायि ॥
॥४.८६॥
सद्वस्त्रां बहुरुचिदिव्यपुष्पवृष्ट्या
दीव्यद्वर्णकवपुषं सुचित्रवीथ्या ।
गाङ्गेयाभरणवतीं प्रदीपपाल्या
हारश्रीयुजमथ पूर्णकुम्भतत्या ॥
॥४.८७॥
गायन्तीं जनगणहूतिगीतिरीत्या
नृत्यन्तीं कुलयुवतीगतानुगत्या ।
धुन्वानां पटमभितः पताकिकाल्या
रम्भाणं पुलकवतीं विचित्रपङ्क्त्या ॥
॥४.८८॥
ताराणां वलयमपि स्वतोरणश्री
व्याजेन स्वककुतुके समाहरन्तीम् ।
शैलूषीमिव निजराज्यपर्वलक्ष्मीं
नेत्रश्रीमणिभिरसौ पुरश्चकार ॥
॥४.८९॥
(सन्दानितकम्)
देवीमद्भुतमहसाममूः शुभानां
तामद्धा महयितुमुद्यमं प्रपन्नाः ।
नेत्राणां सुकृतनिकायकायरूपां
सङ्कल्पश्रिय इव तत्र मूर्तिभाजः ॥
॥४.९०॥
सिञ्चन्तीं निजसुषमासुधाभिरुच्चैः
सम्फुल्लत्तनुलतिकाविकाशवत्यः ।
हंसन्तीं गतिमणिनूपुरध्वनिभ्यां
नेत्राभ्यां सरसिजकान्तिमाहरन्त्यः ॥
॥४.९१॥
भारेण स्तनजघनस्य विष्वगङ्गे
शोणाभां मुहुरतिमात्रमुद्गिरन्तीम् ।
तद्दृष्टेरपि विवशा मिथोऽविदूरात्
शोणाभां पदमवलम्बनं व्रजन्त्यः ॥
॥४.९२॥
कस्याश्चित्करमनु केलिपद्मलक्ष्मीम्
आलम्ब्य क्व च निजपाणिना दधानाम् ।
तां स्वासां मुखमिव सत्क्रियाभिरुच्चैर्
उल्लास्य प्रतिमुखवत्पृथूल्लसन्त्यः ॥
॥४.९३॥
आलोलद्भुजशिरसि स्फुरद्वतंस
द्योतेन व्रततिविलासहासजैत्रीम् ।
भृङ्ग्यो वा मणिगणझङ्कृतिप्रधानं
घूर्णन्त्यस्तदुदितकेलिमञ्जरीभिः ॥
॥४.९४॥
संवृष्टप्रसवततेः परागपूरैः
संमृष्टश्रमसलिलैर्विलिप्तमूर्तिम् ।
तत्रालम्बितबलवत्कदम्बधारा
पाल्यो वा पुलकभरेण शोभमानाः ॥
॥४.९५॥
नानोपायनगणपाणिभिर्मिलन्तीः
पृच्छन्तीं पुरनिलयादि तत्र तत्र ।
एतासां गदितमथो तथा च तस्याः
प्रेमोत्थस्मितभणितेन पूरयन्त्यः ॥
॥४.९६॥
मङ्गल्यध्वनिरथ हारिगन्धधारा
भासोऽङ्गं ललितमिति क्रमोदयश्रीम् ।
नेत्राणां सुकृतशतेन लोभयन्त्यश्
चक्षूंषि स्फुटमथ चत्वराङ्गनानाम् ॥
॥४.९७॥
स्त्रीबालैरथ परितश्चतुष्पथं तत्
प्रत्युद्यद्विकसितदृष्टि दृश्यमानाम् ।
पश्यन्त्यो वपुषि विकारराशिमेषां
प्रेओत्थं मुखमपि चारुलीलमस्याः ॥
॥४.९८॥
आलेख्यप्रसववितानपूर्णकुम्भ
प्रायेणाद्भुतरचनेन चारुचित्रम् ।
गान्धर्वां निजमहसि प्रवेश्य पूर्वं
सख्योऽपि प्रविविशुरध्वनां चतुष्कम् ॥
॥४.९९॥
(दशभिः कुलकम्)
ताश्चित्रा हरिपदसम्पदो वहन्ती
चेतोऽसौ भ्रमयति चत्वरस्य लक्ष्मीः ।
देवीनां नयनजलेन लूप्यमाना
या भूयः स्वयमपि तच्च शोषयन्ती ॥
॥४.१००॥
पर्वेदं मम वरमङ्गलानि धत्ते
वर्त्मालिः प्रमिलति चत्वरे तथात्र ।
स प्रेयान्विहरति सर्वतो विलासी
सम्भाव्यं तदिह चिरेण भाग्यमक्ष्णोः ॥
॥४.१०१॥
गन्धश्चेत्स्फुरति हरेरसौ विसारी
लोको मद्वपुरिव घूर्णते कथं च ।
साक्षाद्वा विलसति माधवोऽयमारात्
कस्मात्तं प्रतिदिशमेव लक्षयामि ॥
॥४.१०२॥
हे शृङ्गाटक पटुधाममाधवाङ्घ्रि
श्लिष्टाङ्ग व्रजवनराज्यतो मदिज्या ।
गन्धाद्यैः सदयमथ प्रसीद नित्यं
तां वृन्दागहनघनश्रियं लभेय ॥
॥४.१०३॥
सोऽयं तु स्वयमवभाति नीपराजेऽ
दूरस्थे सखिपरिवारगुप्तमूर्तिः ।
नेत्रे यन्मम चलतोऽन्यतस्तदङ्ग
स्फूर्तिश्रीनिचययुजोऽपि किन्तु नातः ॥
॥४.१०४॥
इत्याद्यं रहसि वचः सकृष्णचित्ना
जल्पन्ती निजमकृताथ सा समर्थम् ।
तादृश्या हृदि हरिधाम्नि दुग्धसिन्धु
प्रख्ये यान्त्यखिलरसा हि सामरस्यम् ॥
॥४.१०५॥
(षड्भिः कुलकम्)
गान्धर्वा महसि तदा मुदा वितेने
यस्यार्चां हरिपदचित्रचत्वरस्य ।
आनर्च स्वयमपि तां प्रसूनभव्यैः
स्वस्थानां तदिह दृशोः प्रसादपुष्पैः ॥
॥४.१०६॥
गान्धर्वा निजकरपल्लवात्प्रधानान्
सम्भारानिह विविधान्मुदा मुमोच ।
यं लोका विलसति फुल्लदेवपल्ली
वल्लीत्युन्नतशिरसा रसादपश्यन॥
॥४.१०७॥
गान्धर्वामथ मुहुराशिषां समूहैर्
योगीशाव्रजनृपदारसारवारः ।
धिन्वानः सह निजचेतसां वितत्या
काङ्कीत्तां निज सदनाय नायनाय ॥
॥४.१०८॥
अथ पथि गुरुसाध्वीः कुर्वती पूर्वतः सा
सुरपुरकृतसेका दिव्यदीव्यत्प्रसूनैः ।
नयननिचयनेत्री नेत्रवारां विहारे
सममगमदमूभिः साधिवासाधिवासम् ॥
॥४.१०९॥
नयनकुमुदवीथिमह्नि पूर्वत्र धिन्वन्
दिशी दिशी निशि जाग्रल्लोकपद्मं वितन्वन।
उषसि पुनरपूर्वां स्वीयलक्ष्मीं विवृण्वन्
जयति महसि राधोद्योतिमित्रो विचित्रः ॥
॥४.११०॥
अतिमुनिमतिवृन्दां वृन्दकाकाननीयां
निजचरितसुधालीं बन्धुहृत्सिन्धुपालीम् ।
विधुरिव विधुरं मां तां च संव्यञ्जयद्यस्
तमिह महितरूपं कृष्णरूपं निषेवे ॥
॥४.१११॥
इति श्रीराधाभिषेकचरिते श्रीमाधवमहोत्सवनाम्नि महाकाव्ये
उद्द्योतराधिको नाम
चतुर्थ उल्लासः
॥४॥
*****************************************
.
(५)
पञ्चम उल्लासः
उदितराधिकः
गोपेन्द्रवंशामृतरोचिषा रणद्
वंशीश्रियानन्दयता सुहृद्वरान।
श्रीभानुपुत्र्या तत्तदन्तकम्रया
स्तम्भादिसम्भावितकृष्णभावया ॥
॥५.१॥
आलीकुलेन प्रमदोन्मदात्मना
राज्याभिषेकोचितकर्म कुर्वता ।
राधाघजिन्मातृगणेन फुल्लता
सौवस्तिकं वस्तुचयं विचिन्वता ॥
॥५.२॥
योगीन्द्रया नन्दथुसान्द्रताशया
शान्तिश्रिये मन्त्रजपैकतानया ।
गोपेन्द्रमुख्येन समिद्धबुद्धिना
सर्वेण विस्मृत्य कथाः प्रकुर्वता ॥
॥५.३॥
लोकेन कोलाहलिना च नर्तकैः
संलोभनादर्थशतानि यच्छता ।
नैमित्तिकश्रीकृतिवाहितान्तरा
यामिन्यथ ब्राह्ममुहूर्ततामगात॥
॥५.४॥
(कलापकम्)
ये वा निशान्ते किल बालकादयो
निद्रामितास्तेऽपि तदैव तत्र च ।
पर्वोपलभ्य प्रमदाकुलाः समं
देहस्य लोम्नामपि जागरं दधुः ॥
॥५.५॥
सर्वोऽधुना धेनुधनीह पर्वणि
त्वदोहनं धेनुगणे समादिशत।
प्रत्यादिशन्नेव स तु प्रसुस्नुवे
कर्तुं धरां क्षीरधुनीधुराधराम् ॥
॥५.६॥
नित्यान्विधीनाशु विधाय पूर्णिमा
तस्मिन्नसौ मङ्गलभाजि वेश्मनि ।
सङ्गम्य तासु स्वकृताशिषा समं
भेजे स्वमाधारमथार्चनीयताम् ॥
॥५.७॥
राधासखीनां मुखचन्द्रचन्द्रिकां
मन्दप्रसादां विनिभाल्य पूर्णिमा ।
भव्यां निमित्तव्रततिस्तु विस्मिता
तस्मिन्निमित्तं परिपृष्टमाचरत॥
॥५.८॥
तत्रानुराधाभिदधे सगद्गदं
तां पौर्णमासीं तव देवि यत्कृते ।
अत्र प्रयाणार्थमितः प्रधाविता
वृन्दानया सार्धमिदं विदाङ्कुरु ॥
॥५.९॥
पद्माकृतिं पाति कुमुत्तनूमिव
श्रीरिन्दुमूर्तेः स्वरसेन सर्वदा ।
म्लानानना सा तु ततः प्रजायते
सर्वः स्वभावस्य वशः परस्य न ॥
॥५.१०॥
पद्माथ वातुलततिं न्ययूयुजद्
वृद्धां स्वमन्त्रैरुपजापचर्यया ।
तं येन कृष्णं जलदं रुरोध सा
धाराभिषेकादधिजीवितौषधि ॥
॥५.११॥
एतास्मि वृद्धे जटिले हिताय ते
दिष्ट्याद्य राज्याय वधूं पुरस्कुरु ।
त्रायस्व तां किन्तु मुकुन्दलोचनाल्
लब्धं च यत्तन्न मयाप्युरीकृतम् ॥
॥५.१२॥
यां यां सकृच्चुम्बकधर्मिणो रुचिः
कृष्णस्य कृष्णायससारधर्मिणीम् ।
अस्पृक्षदेषा गुरुगौरवं निजं
सन्त्यज्य दूरे च बभाज तं लघु ॥
॥५.१३॥
साक्षाद्वनश्रीरिति सोऽपि राधिकां
द्रष्टा यथाकाशवचस्तदा किल ।
त्वं तस्य तस्मादयनं निरुन्धती
बाधाततेर्मोहभयाद्वधूमव ॥
॥५.१४॥
एवं सखीतत्प्रतिपक्षपक्षतां
श्रुत्वा यदूचे शृणु तन्मुनीश्वरि ।
स्वप्राणरक्षाकृतिभाजने जने
न प्राणहृल्लज्जितमज्जिता हिता ॥
॥५.१५॥
सा सम्पदास्तां विरसा रसातले
राधोत्पलारण्यसतीमतीत्य हि ।
हा धिग्विधुः स्फारकराङ्कसद्वपुर्
यां रोचयेन्न प्रततेन रोचिषा ॥
॥५.१६॥
किं चाथ सा कूटपटुः करालिकां
कंसस्य गोपीमवलम्ब्य तत्सुतम् ।
आनेतुमिच्छत्यसुरं रजस्तमः
पूर्णं तमस्मिन्नभिषेकपर्वणि ॥
॥५.१७॥
एवं प्रसङ्गाकुलिते सखीकुले
दीव्यन्महोऽपि स्म न भाति गोकुलम् ।
तारालिभिर्विष्णुपदं रुचां पदं
यद्वद्घनच्छन्नकले कलानिधौ ॥
॥५.१८॥
एषां मनाङ्मुद्रितनेत्रमीनकं
चेतःसमुद्रं परिघूर्ण्य पूर्णिमा ।
उल्लासयन्ती भृशमन्तिकान्जनांश्
चिन्तामणिं व्यक्तमुदाहरन्मुदा ॥
॥५.१९॥
वत्सा निजाधिं विजहीत दुर्दमौ
विघ्नौ मिथो भिन्नतयेह तोहतः ।
सुन्दोपसुन्दाविव यत्परस्परं
बाढं सतां द्वेषिकुलं विनश्यति ॥
॥५.२०॥
यद्बोधयन्त्या मुनिवर्यया सखीः
पर्वत्वरार्थं जटिला समागता ।
प्रस्तावशेषेण तु सापि बोधिता
सर्वं समं पुण्यवतां हि सिध्यति ॥
॥५.२१॥
प्राग्दैत्यजन्यप्रतिबन्धवार्तया
वृद्धातिवृद्धां सुखमानसा तया ।
साक्षादुपालभ्य पुनश्च सामभिः
सन्तन्वती मोदमथानुशिक्षिता ॥
॥५.२२॥
यस्याघहन्तुर्बत नामधामतः
शान्तिं गता दानवशान्तिभिर्जनाः ।
शान्तात्मनीहापि पुरःस्फुरद्द्युतौ
वृद्धे वधूपर्वणि शङ्कितं कुतः ॥
॥५.२३॥
तस्यास्तदा पाणियुगेन गृह्णती
सा बाष्पयुक्ता युगमङ्घ्रिकञ्जयोः ।
ऊचेऽथ विद्या विदुरे निवेदितां
त्वं यज्ञवेदीवदिमां वधूमव ॥
॥५.२४॥
विश्वेषु विश्वस्तगुणाथ पूर्णिमा
वृद्धां प्रसाद्य स्वयमस्तशंसया ।
राधां समालिङ्गदतीव शर्मणा
स्वयं नटन्तीव च वाद्यमादिशत॥
॥५.२५॥
सख्यश्च यत्पूर्णिमया तदर्पणं
प्रत्यर्पणं स्वस्य तु तत्र मेनिरे ।
प्रत्याप्तजीवस्थितिरात्मना परं
जीवप्रदे प्रत्युपकारितां व्रजेत॥
॥५.२६॥
तत्रोद्यते लङ्गिमवाद्यमङ्गले
घोषो महान्घोषघनौघभूरभूत।
संमूर्च्छिते तद्घनगर्जिते मुदा
वृन्दावनान्तः शिखिनो नदन्त्यलम् ॥
॥५.२७॥
द्यावापृथिव्यावथ वाद्यविद्यया
विद्यार्थितां बाढमिते परस्परम् ।
आवृत्य यस्मात्प्रतिनाददम्भतः
शब्दानुवादानकृत द्वयं द्वयोः ॥
॥५.२८॥
लीने तु दोषाकरमण्डले स्फुटं
लाजायमाने वरतारकागणे ।
पद्मालयासद्मनि पद्मिनीचये
भानौ स्वयं न्यस्यति रश्मिपल्लवान॥
॥५.२९॥
मौहूर्तिकी तत्र मुहूर्तसुष्ठुतां
अवेदयद्वेदबुधा च पूर्णिमा ।
आपृच्छ्य गोपेन्द्रवधूमधूतधीर्
निन्येऽथ तां स्वस्तिकभाजि धामनि ॥
॥५.३०॥
(युग्मकम्)
आविष्कृतस्नेहभरा घृतश्रिया
माध्वीकमुद्बाष्पवती दधिस्मिता ।
दीपात्मरत्नैरुपदावलीधरा
शस्ताङ्कुरन्यासतनूरुहोद्गमा ॥
॥५.३१॥
अस्मिन्सवृन्तैः कदलीफलादिभिः
संसूचिताशीरिव सत्फलागमे ।
गोसङ्गिवत्सैः पृथुना स्वदोहनं
विडम्बयन्ती परिदुग्धवैभवा ॥
॥५.३२॥
तस्याः स्वयं कर्तुमिवाभिषेचनं
सानन्दमूर्धा हृतकुम्भसंहतिः ।
यात्राकृते यत्र तु रत्नचत्वरं
तस्यै दिदेशासनमादृतं क्षितिः ॥
॥५.३३॥
(सन्दानितकम्)
भूवेदिवत्से वरकञ्चुलीनिभां
तूलीं दधाने कुसुमालिमालिनि ।
रत्नावलीपूरितसम्पुटस्तने
राधा ययौ चारुनिवेशमङ्गनम् ॥
॥५.३४॥
चन्द्रावलीधामनि तूलिकातले
गान्धर्विका सा जगदेव धिन्वती ।
उज्जृम्भणं दुग्धमहोदधौ तदा
पद्मालयाया विदधे विडम्बितम् ॥
॥५.३५॥
उत्तंसिकर्णाद्भुतफुल्लवल्लिका
वक्राब्जलीलाणटनेत्रखञ्जना ।
वेणीमयूरा स्मितराजहंसिका
प्रस्थानभव्यप्रतिमा बभूव सा ॥
॥५.३६॥
आक्रम्य पद्भ्यां रचिताब्जमण्डलं
दण्डं किल स्पर्धिगणे विवृण्वती ।
सा विस्फुरद्वामभुजोरुलोचना
तत्रोत्थिता लोकतनूरुहैः सह ॥
॥५.३७॥
अग्रे वलद्वाद्यकलास्ततोऽबला
लाजप्रसूनै रणराजिराजिताः ।
श्रीपूर्णिमाविप्रगृहागता महा
माहात्म्यभाजोऽप्यभितो महोदृशः ॥
॥५.३८॥
नृत्यद्वराङ्गीजनकृत्यतत्पराः
क्रीडार्थवस्तूत्करकान्तिमत्कराः ।
वीणाप्रवीणा मुरलीकलाकराः
पश्चान्महोवस्तुधराः श्रियोऽपराः ॥
॥५.३९॥
इत्थं यथोक्तक्रमनिर्मितान्तरे
वृन्दावनस्य प्रसवैश्चिते पथि ।
तेन स्वयं मूर्धपटैरिवार्पितैः
राधा प्रतस्थे सवयोभिरावृता ॥
॥५.४०॥
(सन्दानतिकम्)
आयाति सा हन्त कदेति सूत्सुकान्
वृन्दादिलोकानभिषेकभूगतान।
तस्या ववुः शीतलगन्धबन्धुरा
लीलाभिराश्वासयितुं किलानिलाः ॥
॥५.४१॥
तस्मिन्प्रसूनाध्वनि राधिकदिकाः
सन्दीपवीथिविमलार्चिरावृते ।
छायापथे सद्ग्रहराजिराजिते
चन्द्राकृतिव्यूहतया विरेजिरे ॥
॥५.४२॥
राधा विशन्ती क्रमविप्रतिक्रमं
कृष्णस्य लीलाशतशीलताः स्थलीः ।
शोभां दधे कामपि तां यतो निजैर्
वृन्दैरुतादृष्टचरीव दिद्युते ॥
॥५.४३॥
आयाहि याहीति नयानयेति च
प्रायो मुमूर्च्छ व्रजसुभ्रुवां स्वनः ।
धन्येयमेषैव परन्तु साहसकाव्
इत्थं सुरस्त्रीजननिस्वनो यथा ॥
॥५.४४॥
एकाः सलज्जा इव मोहमायषु
राधाश्रियं वीक्ष्य विमानसुभ्रुवः ।
अन्यास्तु तस्यामनुवृत्तिलालसाः
संवर्णयामासुरिदं सखीं प्रति ॥
॥५.४५॥
पश्य श्रिया दीर्घतरांशुधारया
राधेयमेता बहिरन्तरं निजाः ।
आरज्य दूरादपि नः सुराङ्गना
रज्यन्त्यमूषामनुगीयति स्फुटम् ॥
॥५.४६॥
लक्ष्मीतपःस्तूपदुरापलक्षणे
कृष्णे च तृष्णाशतमोचिरोचिषः ।
अस्याः पदद्वन्द्वसुगन्धबान्धवः
किं वस्ति नो हन्त तथाविधो विधिः ॥
॥५.४७॥
राधामुखाम्भोरुहमाधुरीजुषां
व्यधादमूषां निम्षावृतिं दृशि ।
यो दूरतां नस्त्वनिमेषता जुषां
सूते तदस्य द्वयमेव मूढताम् ॥
॥५.४८॥
राधा सरूपास्वनुगासु मादृशां
निश्चीयते दृष्टिबलान्न यद्यपि ।
सर्वाक्षिभृङारतया तथापि सा
संस्तूयते पश्यत सुभ्रुवः स्वयम् ॥
॥५.४९॥
नो चन्द्रलेखा सखि सन्ध्यया वृता
वल्ली न वा शोणपरागरञ्जिता ।
निर्यासमूर्तिः सुषमाविलासयोः
सा राधिकेयं विधृतारुणाम्बरा ॥
॥५.५०॥
रागं तदागादलमङ्घ्रियुग्मके
संसृज्यमानैः कुसुमैरपीह सा ।
तद्यावलाक्षादपि तानि तं ययुर्
न्यस्यन्त्यमुष्मिन्मृदुतां निजां ह्रिया ॥
॥५.५१॥
पश्यालिनो वर्त्मनि सूनसञ्चिते
सत्यप्यमुष्याश्चरणे चरन्त्यमी ।
शङ्के तदामोदभरेण जङ्गमे
पङ्केरुहे ते इति तेऽन्वमन्वत ॥
॥५.५२॥
काश्चिद्दृशा लिम्पति चन्दनकुङ्कुमत्विषा
काश्चिच्छ्रियालङ्कुरुते करस्य च ।
काश्चिन्मुदा स्वादयते च वाक्सुधां
राधा पथीत्थं सुखमेव वर्षति ॥
॥५.५३॥
पश्यानुराधा ललितेति विश्रुता
तत्रापसव्ये रभसेन दीव्यति ।
पिञ्छाङ्कमञ्जुव्यजने यया धृते
राधा दृगन्तं किरति स्म कातरम् ॥
॥५.५४॥
सेयं विशाखा सखि याति वामतस्
तन्वान्यया या यमुनेति संमता ।
यस्या हरेश्चित्रफलाङ्कितं करं
रोमाञ्चिनीयं स्पृशती प्रकम्पते ॥
॥५.५५॥
एषैव सा चम्पकवल्लिका मुदा
पश्चाद्विशाखावपुषो विराजते ।
कृष्णार्थरत्नोज्ज्वलमल्पसम्पुटं
या बिभ्रती चित्तमिवानयेक्ष्यते ॥
॥५.५६॥
चित्रेयमस्याः सखि संस्करोति या
कृष्णस्मृतिस्वेदजलाक्तचित्रकम् ।
सा चात्र चित्रं कुरुते न केवलं
विचित्रतां सर्वजनस्य हृद्यपि ॥
॥५.५७॥
या तुङ्गविद्या सखि भाति तत्पुरः
प्रत्यग्व्रजन्ती हरिवर्णनापरा ।
सा यां विनिर्माति सरस्वतीं मुदा
सा तां व्यनक्ति स्म सरस्वतीं स्वयम् ॥
॥५.५८॥
एषेन्दुलेखा सखि या रहःसखी
ताम्बूलदा गच्छति दक्षिणाग्रतः ।
आसाद्य यां श्रीवृषभानुनन्दिनी
चित्ते च वक्त्रे च दधाति रागिताम् ॥
॥५.५९॥
वीणामचित्तां हरिगीतभावितां
निर्माति येयं किमुतालि रागिताम् ।
सङ्गीतलक्ष्मीरिव देहधारिणी
सा रङ्गदेवी पथि याति वामतः ॥
॥५.६०॥
पृष्ठे सुदेवी त्वनुयाति राधिकां
नित्यं हरिप्रेममदभ्रमाकुलाम् ।
गच्छन्त्यमूष्या वपुषोऽद्वितीयतां
भावस्य विज्ञा मनसोऽपि भाति या ॥
॥५.६१॥
एषा च सा कुन्दलता पुरोगता
राधां स्तुवाना सविशेषनर्मणा ।
पश्यालिभिर्भृउभ्रमणाकुलस्मितं
निष्कासयन्तीभिरिवाभिकृष्यत ॥
॥५.६२॥
पश्चात्पुरस्तादपि शश्वदुन्मदाः
क्रामन्ति सख्यः सखि राधिकानुगाः ।
आकृष्टिकार्ये प्रणयः सदा भवेद्
दक्षः स धात्रा हि महागुणः कृतः ॥
॥५.६३॥
सेवासुखा भानुमतीमुखाश्च ता
राधामुखं वीक्ष्य परः शता मुदाम् ।
नेत्रैः समन्तादमृतं वमन्ति तन्
निन्दन्ति युष्मानमृताशिनीः स्फुटम् ॥
॥५.६४॥
तां स्मेरनेत्रां पथि धामधामतो
रामाः क्रमाद्भव्यकराः समागताः ।
प्रत्यध्ववीथि क्षणदेशमण्डलीं
दीव्यच्चकोरामिव कृत्तिकादिकाः ॥
॥५.६५॥
वीक्ष्याभितः सम्प्रति तोरणश्रियं
चन्द्रावलेरन्यतमत्रपूस्तटात।
तामत्र राधासुहृदः स्मिताननाश्
चक्रुः स्फुटं पश्य कटाक्षवीक्षया ॥
॥५.६६॥
मासूयतां वस्तनपूर्वपर्वतैश्
चन्द्राकरादावृणु भानुजार्चिषम् ।
राधालिपाल्या स्वयमेव तत्पथा
ग्रण्या तदावर्यरुणाम्बरश्रिया ॥
॥५.६७॥
आस्माककेल्युक्तिभिरेवमुन्मुखी
सम्पश्यमाना हसयुक्सखीततिः ।
चन्द्रावली नोऽस्तु मुखश्रिया जिता
दूरेऽस्मदीशेयमितीव शंसति ॥
॥५.६८॥
(युग्मकम्)
यान्ती वनान्तर्व्रजयोरिहान्तरे
गव्योपवेशोदितशुभ्रधामनि ।
सा मञ्जुकाञ्चीकलवल्गु शोभते
हंसी यथा वर्षपयोधिसीमनि ॥
॥५.६९॥
नीपोदयाद्रौ सहमित्रतारकं
वीक्ष्योदितं तं विधुमालिसंहतिः ।
तामुत्पलाक्षीं बत ह्रीमधुच्छिदस्
त्रस्तावृणोत्कामशिलीमुखादहो ॥
॥५.७०॥
पश्य व्रजेशायुतकीर्तिदामुखा
राधामुपेताः स्वनिवृत्तिवाञ्छया ।
तत्पाणिमाधाय मुनीश्वरीकरे
शश्वद्वदन्ति स्म सबाष्पकाकुभिः ॥
॥५.७१॥
कृष्णाश्च राधा च समर्पितौ सदा
युष्मत्करे देवि विशेषतोऽद्य तु ।
एनां वनश्रीमहभाविताङ्कुरां
जीवातुवल्लीमवितुं त्वमाश्रयः ॥
॥५.७२॥
आश्लेषविश्लेषमिताः क्लमात्क्रमाद्
यान्तीममूं द्रष्टुममूः समुत्सुकाः ।
अशृआनि संमृज्य निवृत्य चासकृत्
यान्ति स्म तत्पर्वकथासुधाप्लुताः ॥
॥५.७३॥
अस्मिन्नथो हन्त मृगीदृगावली
शाखावृतत्वेन न चावलोक्यते ।
एवं वदन्ती सुरसुभ्रुवां ततिः
शीघ्रं गता द्रष्टुममूं समन्ततः ॥
॥५.७४॥
संवर्ण्य देवीकुलमेवमुद्यतं
तां साधु निर्वर्णयितुं वरश्रियम् ।
आविश्य वृन्दाविपिनं विकस्वरं
वर्षन्मुहुः पुष्पसमूहमन्वयात॥
॥५.७५॥
वृन्दावनं तर्ह्यपरस्परं गते
सार्थेऽन्तरङ्गाः सुखदाः परस्परम् ।
गान्धर्विकां गन्धगजेन्द्रगामिनीम्
ऊचुर्मुदा रङ्गपरा वरालयः ॥
॥५.७६॥
वृन्दावनीयं मधुपेन सङ्गता
क्षीणा वियोगे तव या पुरा सखि ।
फुल्लाधुना सा भवतीमिवानता
तद्गीतमन्त्रेण मुदोपतिष्ठते ॥
॥५.७७॥
मा तम्यतां तामरसानने पुरो
लालस्यते तेन तमालमौलिना ।
तस्याङ्कलक्ष्मीगतया तया त्वया
वृन्दावनं नन्दयिता निजश्रिया ॥
॥५.७८॥
खेलन्मरुल्लोललताभुजाशता
गन्धोल्लसद्गन्धफलीप्रदीपिका ।
एषा प्रवेशे तव कृष्णकानने
नीराजिका राजति चम्पकावली ॥
॥५.७९॥
पुष्पस्फुरत्पल्लवपाणिभिः श्लथैः
प्रेम्णानुगेनेव च शाखिनोज्झितैः ।
सूनप्रपातेन तवालि सर्वतो
मङ्गल्यलाजान्किरतीव माधवी ॥
॥५.८०॥
किञ्जल्कपुञ्जातुलकर्बुरासने
त्वं पुष्पकुम्भीनिकुरम्बसम्भवैः ।
राधे मरन्दैरभिषिच्यसेतरां
राज्याय फुल्लस्थलपद्मिनीकुलैः ॥
॥५.८१॥
गीते पिकैर्मञ्जुलपञ्चमस्वरे
श्रीखण्डवातेऽप्यथ पत्रवादके ।
नृत्यन्ति ते राज्यमहे लता ध्रुवं
धुन्वन्ति मौलिं रसिका इव द्रुमाः ॥
॥५.८२॥
अस्मिन्मरन्दच्छुरितानि मारुताह्
पीतानि पौष्पाणि रजांसि तन्वते ।
स्नेहार्द्रहारिद्रपरागसञ्चयान्
सिञ्चन्ति वल्लीततयोऽथवा मिथः ॥
॥५.८३॥
चित्रेन्दुवक्त्रे तव पर्वणो बलात्
फुल्ला दिवाप्यद्य कुमुद्वतीततिः ।
धत्ते किलास्मिन्कलहं जलाशये
भृङ्गालिघोषेण सरोजिनीकुलैः ॥
॥५.८४॥
अस्य त्वदीयस्य महस्य तेजसा
कीराः प्रगायन्त्यनधीतमप्यमी ।
त्वत्कीर्तिगाथाकुलमालिहा श्रुते
स्तम्भं लभन्ते मधुरिम्णि ते गिरः ॥
॥५.८५॥
अत्राभिषेकामृतवृष्टिसम्पदाम्
अभुद्गमे ते किमपि स्फुरन्मदाः ।
नृत्यन्त एते सकलाः कलापिनश्
चक्षूंषि पिञ्छैः सह नर्तयन्ति नः ॥
॥५.८६॥
एता हरिण्यः पदवीं तवागता
दूरे विहाय स्वकशावकानपि ।
अर्घ्यं दधाना इव दूर्विकाननाश्
चित्रन्ति शश्वत्तव लोचनश्रिया ॥
॥५.८७॥
त्वत्कस्तने कृष्णपदे तृणान्तरे
पर्यायदीव्यद्घुसृणाङ्गमङ्गलाः ।
एताः पुलिन्डीः सखि पश्य गैरिकं
गुञ्जाकलापं च तवाहरन्ति याः ॥
॥५.८८॥
वृन्दासखीनां सखि कृष्णकानने
तेऽमी च वाटीकुलपालिकागणाः ।
भावत्कपर्वार्थकृतस्त्वदानन
श्रीस्तम्भिताः कृत्यकृतेऽनुशेरते ॥
॥५.८९॥
राज्याभिषेकास्पदमेतदागताः
प्रायो वयं ते स्थगिता जना यतः ।
वाद्यानि सम्भिन्नतया परस्परं
सान्द्रीभवन्ति स्फुटमुल्लसन्ति च ॥
॥५.९०॥
एषा सवृन्दा सखि पट्टवाटतः
सामीप्यमाप्नोति तवालिसंहतिः ।
निष्पादयन्ती निजदृष्टिमण्डली
रूपैस्त्वदीयैरमृतौघसम्प्लुताः ॥
॥५.९१॥
वृन्दवनी कुञ्जमयीमग्रतो
या राजतेऽसौ वरहास्यभासुरा ।
चञ्चत्पताकारसनाभिरुन्मदा
राज्यश्रिया ते ग्रसते दिवः श्रियम् ॥
॥५.९२॥
एषा पुरः पश्य मुनीन्द्रवन्दिता
तस्मिन्पुरद्वारवरे मुदा स्थिता ।
वात्सल्यरङ्गात्कृतगीतमङ्गला
त्वद्वीथिमुत्पश्यति सङ्गिनीजनैः
॥५.९३॥
एवं सखीभिश्च सुखेन वर्णिता
निर्वर्णिता देववधूचयेन च ।
सा शोभया लोचनशर्मकर्मणां
सद्विश्वकर्मा प्रययौ पुरीपुरः ॥
॥५.९४॥
उदितमिह मुखेन्दो रोचिरस्याः प्रतिस्वं
निखिलमिव पिबन्तो दृक्चकोरा निपेतुः ।
अहह तदणुमात्रं स्पृष्टवन्तः परन्तु
प्रमदहततयामी भेजिरे जाड्यमेव ॥
॥५.९५॥
उदयमुदमितासौ कुञ्जपुर्याः पुरस्ताद्
अखिलतरुलतालीः फुल्लयन्ती स्मितेन ।
नयनकुवलयेभ्यः सेकमेता नयन्ती
विजयमयतु वृन्दारण्यपूर्णेन्दुलक्ष्मीः ॥
॥५.९६॥
स्वपदनखरमिन्दुं तापदग्धाय दत्ते
मुकुरमजितभक्त्या स्वं परिष्कुर्वते च ।
अपि किमपि कमित्रे यस्तु चिन्तामणिं मे
तमिह महितरूपं कृष्णदेवं निषेवे ॥
॥५.९७॥
इति श्रीराधाभिषेकचरिते श्रीमाधवमहोत्सवनाम्नि महाकाव्ये
उदितराधिको नाम
पञ्चम उल्लासः
॥५॥
***************************************
.
(६)
षष्ठ उल्लासः
उन्नतराधिकः
अथ परावरगे महयात्रिके
द्रुतविलम्बिततां निखिले गते ।
निजनिकुञ्जपुरीपुरतः पुरा
विपिनपालिकया समपूजि सा ॥
॥६.१॥
सुभगगन्धमुखैः शुभवस्तुभिः
सजयकारमसौ परिपूजिता ।
तरुपुरीमथ तां निजधामसाद्
अकृत देवतनुप्रतिमामिव ॥
॥६.२॥
निजनिकुञ्जपुरीं विशती तदा
बलवदुत्कलिकावलितापि सा ।
परिमलेन हरेरपि शान्तधीर्
इयमुपांश्ववदद्वनदेवताम् ॥
॥६.३॥
दृशि गतं च हरिं मनवै न तं
भ्रमधिया किमुतागतसौरभम् ।
किमिह दीव्यति देवि तवेशिता
वद बत स्वमतिं शमयाम्यतः ॥
॥६.४॥
अथ तदीक्षणवारिजवारिणः
पर्मृत्जकृतिमाममरी च सा ।
अवददुल्ललकातरलोचनां
निचितसामधुरं मधुरं वचः ॥
॥६.५॥
प्रणयितां युवयोरवलोकितुं
सहसुतात्र यतो जटिलागता ।
तदनतिप्रमणाः सखि माधवः
सखिभिरैदिह माधविकागृहे ॥
॥६.६॥
अथ शृणु त्वमिदं सखि शैव्यिका
यदतनोच्छठतां जरतीमनु ।
अकथितं सुहृदि स्वमनोऽसुखं
गतमपि प्रतरां न जहाति हि ॥
॥६.७॥
जरति साधु कृतं हरिणाविताम्
इह विधाय महे स्ववधूं त्वया ।
अपि तु मास्तु तया स तदन्तिकात्
युवत्मोहनदृग्व्यवधीयताम् ॥
॥६.८॥
त्वमनुसूनुरमुं निजशान्ततां
शमिजने प्रथयन्तमिदं वद ।
अहमपि त्वमपि व्यवधायिते
महसि कृष्ण वसाव वधूमनु ॥
॥६.९॥
इति विभिन्नधियं बत शैव्यया
सनुतमन्धनिभां विशतीममूम् ।
इह निशाम्य हुतं करसंज्ञया
सखि तदङ्गजनिं समबोधयम् ॥
॥६.१०॥
हसति दिव्यमरततिरीक्ष्यतां
यदसि धिक्स्ववधूनृपतेक्षिता ।
इति गिरा स पुनर्मम काम्यकं
प्रति पलायितवानथ तत्सुतः ॥
॥६.११॥
पुनरहं जरतीमभि तामिता
वदमिदं तनयस्तव वातकी ।
अजनि यद्यमुनादिशमद्रवत्
किमपि जल्पमनल्पकमुच्चरम् ॥
॥६.१२॥
इति निरस्य च तां हरिसान्त्वने
द्रुततरं विनिवेश्य च मालतीम् ।
शुभवतीं भवतीमहमागता
सखि न खिन्नय तत्स्वमनो मनाक॥
॥६.१३॥
इति तदुक्तिसुधाद्रवसम्प्लुता
पुरमदृष्टचरीं विनिभाल्य सा ।
निभृतकामनया हरिलब्धये
निभृतकामनयामनयाविशत॥
॥६.१४॥
इदमवीक्षितसीम च सल्लता
पुरमशीलितवन्मम भाति न ।
यदिह सङ्गमनेन च वृन्दके
स्फुरति केलिकला विहितेव नः ॥
॥६.१५॥
अवददेवमसौ प्रतिकुञ्जकं
लघु विधृत्य करे वनदेवताम् ।
नयननीरमिलत्पुलकाकुला
तदनुयोगपरा जगदेतया ॥
॥६.१६॥
(युग्मकम्)
कुसुमपल्लवषट्पदचित्रिता
तरुनिकुञ्जलसन्मणिकुट्टिमा ।
विविधरीतिभराजिरगोपुरा
लसति सेयमिह व्रततीपुरी ॥
॥६.१७॥
इह वरालि यथाक्रममुन्नतां
प्रतिदिशं सषडेकतरान्तराम् ।
वरचतुर्बलजां रुचिरामिमां
तव कृते चिरतो निरमापयम् ॥
॥६.१८॥
भवति वर्णयितुं यदि कृत्स्नशस्
तव पुरस्य निकुञ्जमयस्य तु ।
सखि सयत्नतरश्चतुराननोऽप्य्
अचिरतोऽचतुराननतामियात॥
॥६.१९॥
स्वयमुदंशुतया मणिजान्गृहान्
अजयदेष लतालयसञ्चयः ।
मधुपसूनपिकादिकमाधुरी
किमिति दृष्टिममीषु ददीत सा ॥
॥६.२०॥
कलितदीपमणीकलसीततिः
फलभरप्रणता व्रततीपुरी ।
सपदि ते महसा विकसत्तनुः
सुमुखि भाववशादिव जृम्भते ॥
॥६.२१॥
तरुवरावलितभाक्शतपत्रिका
भरणभूतमिदं सुमनःकुलम् ।
अभजदृक्षततेः सखितां रुचा
न परमुन्नतचारितयापि यत॥
॥६.२२॥
इह मयूरगणो युवयोः श्रियः
कलयितुं सततं निपतिष्यति ।
भजति कृष्णवरालि तडित्वतः
प्रतिनिधीनिव यद्भवतोः सदा ॥
॥६.२३॥
त्वमिह नाट्यकलोचितसद्मसु
प्रणयिता सखि चेत्सह खेलसि ।
फलमुपैतु मृगीषु दृगीशिता
शुभविधा तु विधातुरुदञ्चतु ॥
॥६.२४॥
प्रमनसामनिमेषसतभ्रुवां
त्वदभिषेकमहादिह पक्षणाम् ।
मुहुरशर्मकरीं सनिमेषताम्
इव मुदा परितः पतनाद्व्यधुः ॥
॥६.२५॥
प्रमनसामनिमेषनतभ्रुवां
त्वदभिषेकमहादिह पक्षाणाम् ।
मुहुरशर्मकरीं सनिमेषतां
इव मुदा परितः पतनाद्व्यधुः ॥
॥६.२६॥
स्फुरदशोकमिदं पुरराण्मुखं
तव पदाहतमुल्लसितं यतः ।
स्फुटमितो भविता सपदि स्फुटं
त्वदचिरेण तदन्तररञ्जनम् ॥
॥६.२७॥
लसति केसरवासितरङ्गणं
स्फुरति रङ्गणरञ्जितकेसरम् ।
अधिनिकुञ्जमिह भ्रमरावली
भ्रमति किं किमिदं भवतीति धीः ॥
॥६.२८॥
पुटितपाटलमल्लिकमुज्ज्वलं
विश तृतीयमिदं निलयस्थलम् ।
स्खलतु सान्ध्यमहःस्थिततारका
लसितचान्द्रकलास्मरणाज्जनः ॥
॥६.२९॥
विधुरुचाझरवद्द्युतिमल्लिका
रसतया विधुकान्तति यन्निजम् ।
पुरमिदं रविभाःस्फुटपाटलान्
अलतया रविकान्तति तत्पुनः ॥
॥६.३०॥
सखि तुरीयमिदं विकचद्रुमोत्
पलविकासि सदः कनकप्रभम् ।
त्वमवगाह्य ततिं कुरु तादृशं
निजरुचा मलिनामलिनामपि ॥
॥६.३१॥
इह गृहाभविकासितरूत्पले
सुरगिरिभ्रमतः सखि खेचरान।
प्रविशतः स्थगयन्सहसैव ते
मधुरिमा पुरपालजनायते ॥
॥६.३२॥
भृतलवङ्गलताललितश्रिया
परिमिलन्मधुसूदनयानया ।
प्रणयितां व्रज पञ्चमकक्षया
प्रकटयेव सखि स्वकलीलया ॥
॥६.३३॥
इह वलङ्गलतागृहसौरभं
कलय दिव्यतमं परिदीव्यति ।
भ्रमति यद्भ्रमर प्रकरे जनः
सुरभिधूपभरभ्रममञ्चति ॥
॥६.३४॥
सखि तमालगचम्पकपालिजं
सुखय षष्ठमिदं त्वतुलं सदः ।
छैव्युतं युवयोरिति यद्दृशां
अमृतसिक्ततया ववृधे द्रुतम् ॥
॥६.३५॥
य उपमाति हरिन्मणिहेमजैः
सचितमालतमालगचम्पकान।
अलमिमान्निलयैरपि तस्य दृग्
भ्रमररोचिररोचि रुचा न वाम् ॥
॥६.३६॥
अथ विचित्रलताकुलमन्दिरं
प्रविश सुन्दरि सप्तममन्तरम् ।
सपदि मोहनतावलनादिदं
सुमुखि गाम्यथ मोहननामताम् ॥
॥६.३७॥
विविधकान्तिचितैः सुमनःकुलैः
प्रचुरचारुचुर्चः सखि भावगाः ।
खगरुतैर्निखिलैर्मणितान्यसाव्
अनुहरत्यखिलानि लतापुरी ॥
॥६.३८॥
लसति पूर्वदिशि प्रथितं सदा
सदितः पुरमध्यमधामतः ।
यदनु चक्रवधूसमरागिणि
स्फुरति च क्षितिपासनभास्करः ॥
॥६.३९॥
त्वमभिषेकपरक्षणतः स्थितिं
विरचयेरिह तत्कनकासने ।
सखि सदा भवतीं स च वृन्दका
गहनभाग्यनिधिः स्वयमेष्यति ॥
॥६.४०॥
अथ विश प्रथमं दिशमुत्तरां
अभि सदस्यभिसेचनवस्तुभिः ।
प्रथितकान्ति चतुष्कमिदं शुभे
सुभगणं गगनं शशिमूर्तिवत॥
॥६.४१॥
इह तवाभ्युदयाय मुनीश्वरी
सृजति यज्ञशिवं बटुभिः पटु ।
सुरसरिद्धविषां द्रवधारया
स्फुरति धूमजटोपरि यस्य तु ॥
॥६.४२॥
इति तदा भणिता रविमित्रजा
विपिनदेवतया स्वपुरे यथा ।
अरजदत्र तथा तदुदंशुकं
वदति साधु मिथः प्रतिरञ्जिता ॥
॥६.४३॥
कुसुमतोरणमण्डपमण्डितं
ललितदीपनिपैरलमुज्ज्वलम् ।
समभिषेचनमङ्गलसङ्गि सा
पुरमदो रमदोत्सवमायत ॥
॥६.४४॥
अथ ददर्श तदन्तरनन्तरं
कुसुमराजिकृतं चतुरस्रकम् ।
द्विदशहस्तमितं ध्वजराजितं
किमपि धाम विमानसमाह्वयम् ॥
॥६.४५॥
कुसुमसद्म मणिक्षितिमध्यगं
तरुवरालिचतुष्टयमन्तरा ।
अरुचदंशुलसन्नभसि स्फुरन्
विधुरिवानुदिशाचलमध्यतः ॥
॥६.४६॥
प्रचुरकायमुरारिरमावलि
प्रतिनिधित्वमिता तरुमण्डपे ।
असितरत्नलसन्निपदीपिका
वलिर्दीपि मिथो द्वयमध्यतः ॥
॥६.४७॥
विशदकान्तिमता गरुडाश्मरेद्
अलघुलक्ष्मजुषा कुसुमौकसा ।
स्फुरति बाढमिहात्मन उद्यता
जलनिधेर्विधुनेव तदन्तरम् ॥
॥६.४८॥
किमपि पूर्णिमया परिलालिता
परिवृता परिवारजनैरियम् ।
उपरिमानसवाग्दिशि चत्वरे
ततवितानवरे समुपाविशत॥
॥६.४९॥
सितपरिच्छदभाग्विहितव्रता
रचितशान्तिकृतिः कलितासना ।
मुनिवरापि हुते हुतभोजने
शुभनिमित्तमथो निरवर्णयत॥
॥६.५०॥
रथघनध्वनिरुल्लसितः शिखा
ततिषु दक्षिणमाववृतेऽनलः ।
कलकलेन परिक्रमकृज्जनस्
तमुदयन्महसान्वकरोदथ ॥
॥६.५१॥
सुरवधूनिचये कुसुमावलेस्
त्यजति वृष्टिघटां मुहुरस्य च ।
अभिकुशीलवकर्म सखीगणे
स्मितमिषात्प्रतिवृष्टिमिवास्यति ॥
॥६.५२॥
अथ यथार्हविधिं स्वयमञ्चिते
घटय शीघ्रमिहेत्यखिलोदिता ।
भगवती किल तान्त्रिदशीः स्मरन्त्य्
अपि निजान्तरवद्बहिरातनोत॥
॥६.५३॥
(युग्मकम्)
सरविदारयुगा स्मरजित्प्रिया
रविसुता च समानसजह्नुजा ।
इह समेत्य निधाय चरादिका
शिरसि दिव्यजनुःकुसुमाञ्जलिम् ॥
॥६.५४॥
मुहुरमुं विनिभाल्य शुभाशिषा
समभियुज्य सखीजनतामपि ।
समभिनन्द्य मुनिप्रवरां च दृक्
सलिलयुक्पुलकं दधतुः स्थितिम् ॥
॥६.५५॥
(युग्मकम्)
श्रियमवेक्ष्य तनोरधि राधिकं
परिजनप्रणयस्य च तास्तदा ।
प्रसरदक्षिजलैः स्वमधुद्रव
स्नपितकाञ्चनफुल्ललता बभुः ॥
॥६.५६॥
अपि विमोहमिता बत राधिका
रुचितृषारभसेन हि चेतिताः ।
धृतधृतीस्त्रिदशीर्द्रवदाकृतीर्
अवददुल्लसितस्थिति पूर्णिमा ॥
॥६.५७॥
यदिह यूयमथ त्रिदशावली
प्रभुगृहा व्रजमङ्ग समागताः ।
सपदि विश्वजनार्पितविस्मयं
हरिवने तदिमामभिषिञ्चत ॥
॥६.५८॥
इति निशम्य तदा जननी शनेर्
मुनिवरामपि शिक्षयितुं किल ।
अवददेतदहो यदभूत्परं
स्वमनुगं प्रति शिक्षणकारणम् ॥
॥६.५९॥
अमरसूननिभं दुरतिक्रमं
तव निदेशमधाम शिखामनु ।
अपि तु संशयिना नहि चेतसा
मुदयितप्रथिमाप्रथि मामनु ॥
॥६.६०॥
खलु रमाप्यनया न समायते
निगममूर्तिमुखादिति नः श्रुतम् ।
वनमिदं मितयोजनपञ्चकं
तदिह राज्यमियं कथमर्हतु ॥
॥६.६१॥
इति शनैश्चरसूभणितस्मित
स्नपितयाथ तया कलितानना ।
सपुलकं किल मेकलवासिनी
कलय हन्त सखीति ललाप ताम् ॥
॥६.६२॥
श्रुतितपोऽध्वरमन्त्रसुराणिम
प्रभृतितीर्थमहत्परधामसु ।
लसति तारकपारकवैभवं
यदथ तन्निखिलं मथुराभुवि ॥
॥६.६३॥
वसति शक्तिरिहैव चिदाह्वया
भगवतः प्रतिमा सहजा हि सा ।
यदनयोः सततं सहयोगिता
सखि यथांशुमदंशुकुलश्रियोः ॥
॥६.६४॥
किमपि ये वसतो मथुराभुवां
ततिषु धामतया परतेजसी ।
व्रजवने तु घने स्फुटमत्र ते
विहरतश्चरणावरणेऽकृती ॥
॥६.६५॥
वनमिदं किल योजनपञ्चका
त्मकमिति प्रथितं खलु नान्यथा ।
तदपि दृष्टमिदं विधिना पुरा
लसदजाण्डशतादिकमंशतः ॥
॥६.६६॥
यदथ धाम भवेन्न निजं हरेः
स निजशक्तिमिहास्यति देवितुम् ।
सहजपूर्णतदीयविलासके
तदपि कृष्णवने किं कल्प्यते ॥
॥६.६७॥
यदतिधीगति पारकवैभवं
प्रणयसारमयं सखि तन्मये ।
भवति कृष्णवने खलु राधिका
नृपपदस्थितिभागिति हि स्थितिः ॥
॥६.६८॥
इति गिरा शरदेव सभासरो
वदनसद्मपद्मगणे परिफुल्लति ।
अभजदुत्कलिकामथ राधिका
यदिह नम्रमुखी समचिन्तयत॥
॥६.६९॥
स्ववनराज्यमहे कलयानि तं
कमपि तस्य विलासमपीति मे ।
नियतिरस्तु परं बत किं चिराद्
अजनि गन्धलवोऽप्यतिदुर्लभः ॥
॥६.७०॥
अभवदद्य मनो मम तादृशं
हरिकृतस्ववनार्पतः कथम् ।
अहह येन तदाननमीक्षितुं
सुरवधूपुरतोऽप्यथ वाञ्छति ॥
॥६.७१॥
अयि सखे क्व नु दीव्यसि साम्प्रतं
महसि मत्सविधे विविधो जनः ।
अहह मे समयं न च पूर्णिमा
स्मरति कृष्ण मया कथमीक्ष्यसे ॥
॥६.७२॥
इह वितर्क्य तदाननमुद्रया
भगवती न्यगदद्वनदेवताम् ।
मरकतं मम तद्व्रजमङ्गलं
सरभसन्त्वमुपह्वरमानय ॥
॥६.७३॥
इति निशम्य तथाकृतचिन्तनाः
ससृजुरुल्लसितं ललितादयः ।
चपलचित्त समाश्वसिहीति सा
स्वगतमाख्यदहो रविमित्रजा ॥
॥६.७४॥
अथ घने गगने कुसुमश्रिया
तदधि मूर्तिमिव स्वयमागतान।
विधिसुतां विनिभाल्य पतङ्गजा
मुनिवरां ननु सा समवेदयत॥
॥६.७५॥
अथ तयानुमता सरिदङ्गिनी
पटुरुचा पिटकेन सरस्वती ।
अविशदत्र निविश्य च पूर्णिमाम्
अवददेतमियं परिमुञ्चती ॥
॥६.७६॥
कमलजन्मसती कमलस्रजं
पुरटपट्टमथो मघवज्जनी ।
मणिमयाभरणं धनदाङ्गना
कनकदण्डवरं वरुणाबला ॥
॥६.७७॥
अनलबन्धुवधूः सितचामरे
वरदुकूलयुगं हुतभुक्प्रिया ।
पितृपतेर्गृहिणी मणिदर्पणं
मम समर्प्य करेऽवददीदृशम् ॥
॥६.७८॥
(युग्मकम्)
द्रविणवृन्दमिदं खलु वृन्दका
विपिनसिद्धमहार्यसुरैः पुरा ।
पुनरलम्भि सुरैर्युधि जित्वरैः
सपदि नः प्रति तैर्निरदायि च ॥
॥६.७९॥
परिकरस्य यदस्य महस्ततिः
परिहिनस्ति महःस्तुतिमेव नः ।
अनुपभुक्त इतः स तु राधिका
रुचिरुचिं भजतां सुनवां नवाम् ॥
॥६.८०॥
इति विमोचितदिव्यपरिच्छद
च्छविचये रविमित्रसुतार्चिषा ।
असविधात्सखितां परिचिन्वति
द्युमुनिगीतमवन्दि तदालिभिः ॥
॥६.८१॥
निखिलमेतदथो ललिताकरे
भगवती दधती पुलकाचिता ।
सूरवधूरवदद्यदतः परं
भविककार्यमिदं कुरुत स्वयम् ॥
॥६.८२॥
सममथानकदुन्दुभिवादनैः
सह तदा जगतामतिविस्मयैः ।
उदगमंस्तिसृणां सवितां वराः
सममसव्यकरान्तरजा झराः ॥
॥६.८३॥
निखिलतीर्थशिरोमणिवृन्दका
विपिनतीर्थतनुद्रवपूरजाः ।
अथ समेत्य जवादविदूरतो
वरसरः समभूदिह निर्झराः ॥
॥६.८४॥
अपि तदैव मणिप्रचितस्थलं
जलमयं जलजालिभिरावृतम् ।
विविधपक्षिरवोत्सवदं जवाद्
अभवदुच्छलितं सभया समम् ॥
॥६.८५॥
शुभमुहूर्तभराद्भुतधामतः
सकललोककुले परिफुल्लति ।
नटनगीतकलाकुलमङ्गल
प्रसितवाद्यभरे परिमूर्च्छति ॥
॥६.८६॥
त्रिसरिता स्वरिता दधिरे त्रिशः
प्रथममेव मिथः प्रमदेन ये ।
परिकरैरथ ते स्कह्तिआमिताः
सुवलिता वलितामुपनिन्यिरे ॥
॥६.८७॥
मुनिवरानुमतिप्रतिनिन्दिता
विबुधवृन्दवधूनिकरावृताः ।
जगृहुरष्ट मुदा ललितादिका
नवघटानथ तान्सह वृन्दया ॥
॥६.८८॥
(सन्दानितकम्)
निपनृपान्नव तान्नवरत्नजान्
कुसुमपल्लवगन्धफलार्चितान।
उपरिचारिवितानवरानुगाः
शिरसि साधु मुदा विनिधाय ताः ॥
॥६.८९॥
कनकसूर्पगदीपवतीशतीर्
अनु सगीतगतीर्युवतीततीः ।
स्मितभरादितरेतरमुत्कराद्
रुचिमिताः सहसा सरसा बभुः ॥
॥६.९०॥
(युग्मकम्)
अथ चतुर्विधवादनगीतिभिः
सविधिपूजितदिव्यतडागतः ।
घनरसैः कलसान्समपूरयन्
निजमनोविभवानिव सुभ्रुवः ॥
॥६.९१॥
मणिजभव्यकुटैर्मुकुटायितैर्
उचितघट्टतटाः परितः सखीः ।
अभिसभाज्य सभा सुदृशां ययौ
सुमनसां मनसामपि वृष्टिभिः ॥
॥६.९२॥
अहरदुरुवरैः करपुष्टतां
अथ जहार गतिं गतिविभ्रमैः ।
करिगणादिति किं नहि कुम्भकान्
अपि गणः सुदृशां च हरेत सः ॥
॥६.९३॥
मणिनिपा यदमी नवशेवधि
प्रभवशक्तिमयामरमूर्तयः ।
स्वयमितश्चलिताः किल कोमलास्व्
अधुरमूषु परस्परया रुचः ॥
॥६.९४॥
कुसुमसद्मगतां पूरतः स्थितां
कनकपीठमुखीं सुमुखीततिम् ।
मणिवरैरथ तां नैरमञ्छयन्
शिवनिपावनिपाननु सुभ्रुवः ॥
॥६.९५॥
इह परिक्रमणक्रमयोगतः
पुरटपट्टतलेऽष्टसु दिक्षु च ।
नवनिपानधिशालि निधाय तान्
अपि विधाय विधोचितमर्चितान॥
॥६.९६॥
घुसृणरक्तपटीयुतमाल्यकान्
विविधगन्धमहौषधिपाथसः ।
वदनमध्यलसन्नवपल्लवान्
मलयजच्छुरितानभिमन्त्र्य च ॥
॥६.९७॥
भगवतीप्रमुखा निजमूर्तिभिः
कलसराजततेरधिदेवताः ।
पृथगिव प्रकटय्य मुदा स्थिता
निखिलदृष्टिकुलं समदीदिवन॥
॥६.९८॥
(सन्दानितकम्)
मुनिवरा तु कयाचिदितो हरेर्
विजनमागमनं वृषभानुजाम् ।
समदिशन्मुद एव तदुत्थिता
यदिह मङ्गलवस्तुसभाजितम् ॥
॥६.९९॥
अथ तदागमनं समवेदयद्
भगवतीप्रहिता न तु राधिकाम् ।
प्रथममेव हि तां विचचार तत्
परिमलालिसखीकृतसंविदा ॥
॥६.१००॥
पुनरमूर्वरमङ्गलपाणयः
क्षितिमणीरमणीगणपूजिताः ।
तदभिषेकसभानयनेच्छया
विजयतामिति तां परितुष्टुवुः ॥
॥६.१०१॥
विविधनर्तनवादनगीतिभीस्
त्रिभुवनेऽथ मिथः प्रजिगीषति ।
हरिविहारवनप्रभुताकृते
धृतगमश्रियि भानुकुलश्रियि ॥
॥६.१०२॥
अधित वाचि तनौ च विवर्णतां
पुलककम्पितवानपि घर्मवान।
जडवदास दृशोस्तनुचेतसोर्
अपि निशाम्य हरिर्विजनादिमाम् ॥
॥६.१०३॥
(युग्मकम्)
अथ पुनः कलयंस्तत एव तां
निभृतकुञ्जतलात्कमलेक्षणः ।
सुबलपालितधीरलमुल्लसन्
मृदुलमाख्यदिदं पुलकाकुलः ॥
॥६.१०४॥
इयमियं सुकृतस्य ममोन्नती
रतिमहं न भजे पृथगेनया ।
इयमियं पुरतो मम चेतना
मन इदं ध्रियते न विनानया ॥
॥६.१०५॥
विजितसूर्यमिदं द्युतिकुङ्कुमं
छलितविद्युदियं तनुवल्लरी ।
जितवदिन्दुमिदं वदनाम्बुजं
सममदीपि सखे मम हृद्दिवि ॥
॥६.१०६॥
शशिकलात्र पदोर्नखरायते
रतिकलामनु विस्मयते रतिः ।
गुणविधौ कमला कमलायते
किमपरैतु तुलामपरैव सा ॥
॥६.१०७॥
कनकपीठगमे मम कुञ्जभाग्
अनृजुसार्द्रनटन्नयनच्छटा ।
द्विरदराजगतिः प्रतिविभ्रमं
जयति मां ललिता ललितासखी ॥
॥६.१०८॥
वृषरवेर्दुहितुः स्मितरोचिषि
स्वरबलाभिरिदं समुदीरितम् ।
कुसुमपुञ्जशतं नहि लक्ष्यते
यश इव स्फुटतद्यशसीदृशाम् ॥
॥६.१०९॥
श्रुतिगतं यदिदं ललितस्मितं
वदति तां ललिता कुमुदेक्षणाम् ।
तदिह मित्रपते मम वा विधेर्
अवसरं दिशति स्म चिरादसौ ॥
॥६.११०॥
विभवराजिवराजिरराजिते
भज विमानविमानपुरे रुचिम् ।
हरिविनोदविनोदनगन्धभाग्
अट विमानविमाननमुत्सृज ॥
॥६.१११॥
तरुगृहादुदितेऽपि हरावितो
दृगनुभाविनि भाविनि भाविनि ।
स्वनयनं सुमुखि त्वयका तु मा
सरभसं भ्रमिसम्भ्रमि सम्भ्रमि ॥
॥६.११२॥
किमिदमेव तया किल शिष्यते
प्रियतमा मम धामपिपासुदृक।
इह समुच्चरदक्षरजन्मभूर्
अवयवई हि स सम्पूटमिङ्ग्यते ॥
॥६.११३॥
अमलपुष्पगृहे रचितोदया
स्वजननेत्रचकोरकसेविता ।
कलय भाति सखे मम राधिका
विधुकला तु यथाधि पुनर्वसु ॥
॥६.११४॥
इयमियं कनकासनसम्मुखे
मुनिवरालिसुहृद्विबुधीवृता ।
स्वमणिदीपवरैरविरामया
विनिरमञ्छि मुदा रविरामया ॥
॥६.११५॥
सदसि गद्गदमङ्गलगीतिके
निपतदश्रुकुले पुलकाकुले ।
भ्रमति भानुसुतासुषमामनु
भ्रमति रत्नकुले हृदयं मम ॥
॥६.११६॥
कलय पीठवरान्तरपूर्वगौ
दधुरिमाः कलसाविह पार्श्वयोः ।
स्वतनुभव्यनिभौ किमु तां हृदि
स्वपदमर्पयतः स्वयमेव तौ ॥
॥६.११७॥
कनकपात्रगतस्तुयदक्षता
ङ्कुरफलं विदधे विदधेयभा ।
व्यधित तेन महः स्फुरदक्षता
ङ्कुरफलं कमला कमलानना ।
॥६.११८॥
सुबल पश्य पुरःस्थितपूर्णिमा
नुमतया स्तुतया निखिलैरपि ।
कनकपीठमिदं प्रिययानया
स्ववपुषा रुरुहे स्वरुचापि च ॥
॥६.११९॥
कुसुमधन्ववृता वनधामनि
ग्रतितवेदिषु दिव्यनृपासने ।
रुचिततिं किरती परितश्चिरं
निरुरुधे बत मां वरवर्णिनी ॥
॥६.१२०॥
मणिजचित्रविचित्रतयातुले
पुरटपीठतले रविमित्रजा ।
कनकदण्डमुखक्षितिपश्रिया
कनककञ्जमुखी हरते मनः ॥
॥६.१२१॥
किमिह काचिदसौ सपरिच्छिदा
जगदपूर्वतया अनमोहिनी ।
विविधमोहविधायकसम्पदा
किमुत दीव्यति वा मम राधिका ॥
॥६.१२२॥
अधिकमुग्धधियो मम राधिका
वरमहोभिरहो ललितादयः ।
न वचने न कृतौ न च वीक्षणे
प्रमदलीनतया भृशमीशते ॥
॥६.१२३॥
भवति सेयमहो मम राधिका
मयि च मानमुदस्य कृतोदया ।
मम समानपदेऽप्यभिषिच्यते
सुबल रे किमितः परमीप्सितम् ॥
॥६.१२४॥
इति रहः सुहृदा कृतभाषणे
मुरहरे विहितामथ राधया ।
बलवदुत्कलिकां तदवेक्षणेऽ
ज्ञपि विशाखिकया मुनिमानिता ॥
॥६.१२५॥
इदमथावयती मुनिमानिता
भगवती च तदा शिववल्लभाम् ।
अवददत्र किमस्ति सुमङ्गलं
कृतकृतिस्तु भवानि भवानि यत॥
॥६.१२६॥
अथ भवान्यभणद्भुवने वपुः
स्पृगसुभव्यसुभव्यपदं व्रजः ।
इह च गोधुगधीश्वरनन्दनो
स्फुरति भावुकभावुकदश्च नः ॥
॥६.१२७॥
मृदुहसं दधती मुनिराह सा
मम तु योगबलं कलयेत्यपि ।
अपि ततः स्मितनम्रमुखाम्बुजं
लघु विकृष्य तदानयति स्म तम् ॥
॥६.१२८॥
वसितपीतपटः शितिकान्तिमान्
मुरहरः पुरतःकृतराधिका ।
घनरसं व्यकिरद्वरचञ्चला
म्बुद इवेन्दुकलामुपसङ्गतः ॥
॥६.१२९॥
चटुलपिञ्छकुलश्रितकृष्णलः
कचशिखीरुरुचे मुरघातिनि ।
तदभिषेचनवृष्टिगदृष्टितां
कलयितुं किल स स्फुटरागवान॥
॥६.१३०॥
हसितपुष्पशरे रतिरोचने
कनककर्णिकयोर्मकराङ्किते ।
तदभिषेकमहोजनदर्पके
स सदने वदने च विदिद्युते ॥
॥६.१३१॥
अजितहृद्गगनं मणितारका
युतमपि श्रयितुं श्रियमुत्तमाम् ।
महसि पूर्णिमयोद्यति राधिका
तनुशशाङ्कतनुं द्रुतमैहत ॥
॥६.१३२॥
मदविलासभृतः स महान्गजः
करमिलन्मुरलीकलजामृतैः ।
कमलिनीमभिषेक्तुमिवात्र ताम्
अभजदेष विधिः क्व नु दृश्यते ॥
॥६.१३३॥
तदभिषेचनमङ्गलसंभृते
स्वरुचिदीपवलत्कदलीश्रिणी ।
मणिजकाञ्चिलसद्वसनाञ्चिनी
विलसतः स्म तदा हरिसक्थिनी ॥
॥६.१३४॥
कुतुकजागरकृत्कमलालया
प्रचुररागविलोचनतां गतः ।
किमु मुकुन्दपदोः कमलेशयोर्
नखमणिप्रचयः पुरु दिद्युते ॥
॥६.१३५॥
महसि चन्द्रजयी वयसि स्मर
प्रमदकृद्गुणसंसदि सद्गुरुः ।
प्रणयभूमनि तामधिकां स्वतो
हरिरभूत्प्रणयन्निव तद्वशः ॥
॥६.१३६॥
मधुरिमामृतसूर्नवयौवनो
ज्ज्वलमणीजनिभू रसवारिधिः ।
स वृषभानुसुतामभिषेचयन्
प्रियसखैः शुशुभे सरसीकृतैः ॥
॥६.१३७॥
दयितयोः सुषमे सुषमे तयोः
सपदि सङ्गमनं व्यतिजग्मतुः ।
अधिसदः क्षमता किल देहयोर्
इह नहीति पुरः स्वयमेव किम् ॥
॥६.१३८॥
रुचिकुरङ्गमदैर्मृदुचर्चया
रुचदमुष्य च सा चपला प्रभा ।
स च तदंशुभरैर्जलदप्रभः
प्रकृतिरेवमिहेदृशवस्तुनः ॥
॥६.१३९॥
हरिमहोनिकषाश्मनि राधिका
द्युतिहिरण्यजलेखचयो बभौ ।
उपहृतां किममुं मदनेन स
प्रमदनो हरिणीं स्म परीक्षते ॥
॥६.१४०॥
क्वचिदहो तिमिरं न महोमयं
न च सितांशुरुचिः कनकद्युतिः ।
भजतु को न्वनयोस्तपसा रुचां
रुचिरतां चिरतान्तमना अपि ॥
॥६.१४१॥
इह तयोर्यदथाहतलक्षणो
द्युतिविधुर्विबुधीनयनोत्पलम् ।
भृशमफुल्लयदस्य तदीशता
न हि सखी प्रमदाम्बुधिवर्धिनः ॥
॥६.१४२॥
गुरुजनः परितो हरिरग्रतः
श्रयति ह्रीर्वल्तोत्कलिकं मनः ।
इति कुरङ्गदृशोऽथ दृशोर्द्वयी
व्यधित साचि परन्तु गतागतम् ॥
॥६.१४३॥
अथ जने निखिले प्रमदाकुले
युगपदेव तदा ललितादयः ।
अपरिमान्त्य इवायवेषु ता
विपुलकैः पुलकैरिदमस्मरन॥
॥६.१४४॥
रचयति स्वसखीं हरिरद्य नः
स्वकरमण्ययुतेष्वधिवल्लभाम् ।
व्रजवनेऽत्र तवैवमुपागता
नयनकामनकामदमाधुरी ॥
॥६.१४५॥
निखिलमनसि हृष्टे रत्नवत्पीठपृष्ठे
कलयितुमभिषिक्तां तामशेषातिरिक्ताम् ।
हरिरपि लघु तस्यां किं सकृद्वीक्षितः स्याम्
इति कृतरसवृष्टिं तिर्यगाधत्त दृष्टिम् ॥
॥६.१४६॥
स्वमहसि हसिताभानूर्जिता पूजितासु
प्रतिहरि सरिदाभा तत्र चित्रायमाणा ।
अपि मदकृतघूर्णाजातलावण्यपूर्णा
कलयतु लल्ताल्यामुन्नतिं नेत्रलक्ष्मीः ॥
॥६.१४७॥
अकृत मृतमिवामुं मां प्रसादामृतान्तं
तमथ वलितबाल्यं पादपद्मावलम्बे ।
तदपि कलितलौल्यं स्नेहदृष्ट्यावृतौ यस्
तमिह महितरूपं कृष्णदेवं निषेवे ॥
॥६.१४८॥
इति श्रीराधाभिषेकचरिते श्रीमाधवमहोत्सवनाम्नि महाकाव्ये
उदितराधिको नाम
षष्ठ उल्लासः
॥६॥
***************************************
.
(७)
सप्तम उल्लासः
उत्सिक्तराधिकः
अरुचदिह जनानां पूर्णिमा चक्षुरिङ्ग
स्मितकुसुमितमूर्तिस्तां जवेनाभिषेक्तुम् ।
किमु सरभसमेतां तत्कृते शासदेव
स्वयमनुगुणदैवं मालिनीमाचचार ॥
॥७.१॥
अथ मुदिततरान्तःपूर्णिमोद्यत्तराभो
विधुरलमनुमोदी पर्ववारीन्द्रवेलाम् ।
असुरतिमिरहारी वेणुगानप्रकाशैर्
व्यतनुत भुवनोद्यद्वाद्यघोषामतीव ॥
॥७.२॥
मुररिपुमुरली सा कौतुकं तच्च तस्मिन्न्
अकृत विजयकेलिप्रायमन्योन्यमुच्चैः ।
यदितरमधुरिम्णा मोहिते प्राणिवृन्दे
मुहुरपरगुणश्रीराशु बोधं व्यधत्त ॥
॥७.३॥
अजनि विरलरीतिर्वीक्षिता कौतुकेऽस्मिन्न्
अखिलमपि समं यत्सन्मदान्नाट्यकर्तृ ।
अपि तु निजगणस्याप्येक एक सभासन्
नटगुणमनुलब्धः सन्व्यतिस्ते स्म तत्र ॥
॥७.४॥
यदनु विबुधवाद्यं गर्जपुष्टिं जिगाय
प्रणटितमथ शम्पासम्पदं चाप्सरोभिः ।
श्रियमपि करकाणां पुष्पवर्षं तदभ्रं
प्रति सदमृतवृष्टेर्धाम गान्धर्वगीतम् ॥
॥७.५॥
इह मुहुरमरैर्यद्वृष्टामासीत्प्रसूनं
तदपि कुसुमधूलिमन्मधूलीमवर्षत।
अमृतमनुविकीर्णे पञ्चवर्णे तु चूर्णे
स्वयमिव लघु पूर्णा सापि चित्रं ववर्ष ॥
॥७.६॥
जगुरिह परपुष्टाः पञ्चमं गानविज्ञैर्
मृदुकलमभजन्तोपाङ्गविद्भिश्च भृङ्गाः ।
ननृतुरपि नटद्भिर्बर्हिणस्तूर्यगर्जात्
कथमहह तिरश्चां मानवैरैकमत्यम् ॥
॥७.७॥
इति विलसति साङ्गे मङ्गलानां कुलेऽपि
स्वकजनमनु राज्ञ्यो राज्ञयोमा वितेने ।
महिममहितमर्चामङ्गलं राधिकायाः
पृथगवनिपतेः किं शोभते चारचक्रम् ॥
॥७.८॥
सदसि तदभिषेकारम्भपूजाविधाने
स्फुरति नयनवीथी स्फारतामाजगाम ।
अभिलषितविलासैर्वर्तनैः किं नु पूर्त्या
किमुत निखिलशोभास्वादकृद्योगशक्त्या ॥
॥७.९॥
सुषमकुसुमदूर्वालाजसिद्धार्थमन्त्रैर्
अतनुत गिरिजा यत्पूर्वमङ्गल्यकार्यम् ।
तदखिलमपि तस्यां मङ्गलस्याधिदेव्याम्
अजनि परमथेदं तुष्टिदं लोकदृष्टेः ॥
॥७.१०॥
यमियमदिशदर्घं दीर्घहर्षाभिवर्षं
सुभगशिरसि अस्या विन्ध्यदेवी तदा सः ।
अजनि महसि तस्मिंस्तोरणश्रीधराणां
नयनमणिततीनां तत्प्रसारिष्विवार्घः ॥
॥७.११॥
तरणिदुहितृकूले केलिशीला भवत्योऽ
नवरतमयि राधे मद्विधाराधनेषु ।
इह तु सखि वयं त्वामञ्चितास्म प्रणम्रा
न भव तदिति सा स्म प्राह पाद्यं निवेद्य ॥
॥७.१२॥
हरिमुखविधुबिम्बालम्बितां बिम्बदम्भाद्
इह तदुपहृतोपस्पृश्यगण्डूषमुद्राम् ।
चलदधरदले सा राधिका संस्पृशन्ती
व्यतनुत किल शीच्छीदित्युपस्प्रष्टुमेव ॥
॥७.१३॥
अभिलषितपदार्थेनोल्पमप्यन्यसाम्यं
झटिति हरति चित्तं सत्यमेवाखिलानाम् ।
अघजिदधरमध्वाभासताभागमुष्यै
विनिहितमधुपर्को दुर्गया रोचते स्म ॥
॥७.१४॥
तदनु रचितपूजामन्वथाचम्य भूयः
सपदि समभिषेकप्रावृषः प्रोद्गमाय ।
तनुरिव शुचिभानोः कीर्तिदाकीर्तिकर्त्री
दिशि दिशि निजतेजस्तामसद्रोहि तेने ॥
॥७.१५॥
अथ बहुविधगन्धं विन्ध्यदेवी निवेद्य
स्फुटितकुसुमपाल्या राधयामास राधाम् ।
दनुजदलनचित्तं नर्तयन्नेव तेने
यदनु मधुपसङ्घः स्फारझङ्कारवाद्यम् ॥
॥७.१६॥
अगुरुजगुरुधूपैर्वासिते धाम्नि तस्या
दनुजदमनचित्तं वासितं वासनाभिः ।
समजनि मणिदीपैर्दीपिते दीपितं तद्
यदभिवसति यस्मिंस्तत्तदेवानुयाति ॥
॥७.१७॥
अभिनवयवदूर्वामञ्जरीप्लक्षवल्कैः
सुवलितमणिदीव्यत्सम्पुटेनाथ देव्या ।
ललितमकलि तस्या या तु नीराजनश्रीर्
अखिलनयनरत्नैः सापि नीराजितासीत॥
॥७.१८॥
द्रुतमिदमभिषेके पूजनं पूजयित्वा
विहितमथ सजल्पस्तम्भया पौर्णमास्या ।
युवतिततिमनुज्ञां तत्कृते याचमानां
नयनसलिलधारासंज्ञयैवानुजज्ञे ॥
॥७.१९॥
व्यधित च वसुधारापातनाद्यं विधानं
प्रथममथ मुनीशा साभिषिक्तेः शिवाय ।
मतिरिह सुजनानां तर्पयन्ती च विश्वं
स्वयमयति न तृप्तिं तादृशे शर्मकृत्ये ॥
॥७.२०॥
इह महसि समेताश्चन्द्रकान्तिप्रियालीर्
मुदितमतिसुकण्ठीः श्रेष्ठगन्धर्वकन्याः ।
मुनिरखिलसखीनामन्तरानीय राधा
हरिचरितविदग्धीकृत्य गातुं दिदेश ॥
॥७.२१॥
सरभसमिह राधाधाम्नि ताश्चन्द्रकान्ति
प्रकृतिवलितमंशं लोकयित्वाथ फुल्लाः ।
जगुरभिनवपद्यैर्निर्मितालिप्रमोदैः
सदसि रसविशेषादुचकैर्नीचकैश्च ॥
॥७.२२॥
इयमिह किल मूलं प्राणसख्याः स्वरूपं
स्फुटमयमथ चास्याः प्राक्तपःक्रीतनाथः ।
इदमुदयति चास्यां राज्यमस्याभिषेक्तुं
न परिवृणु हठाद्रे बाष्प कण्ठं दृशौ च ॥
॥७.२३॥
मधुरिमभर एको वानयोः सद्गुणश्रीर्
अपि च तदपि वृन्दाकाननान्तर्विलासः ।
इह च किमपि कान्तालभ्यकान्ताधिराज्यं
तदपि च पुरु दुग्धेऽन्योन्यगूढस्मितादि ॥
॥७.२४॥
मुहुरखिलसखीनां शिक्षणं राधिकायाः
प्रणयविषयभावे मारुतस्तोमतुल्यम् ।
रसजलधिसदृक्षे तत्तदूर्मिप्रथानां
प्रभवति न निवृत्तिं कर्तुमावर्तनं च ॥
॥७.२५॥
गुरुकृतिमशिषत्सा पूर्णिमा ज्योतिषोक्तं
दिनमणिमुनिपत्नीगर्गकन्यादिवर्गः ।
यदनु बत तयोस्ते ते सुरेशा ग्रहेशाः
प्रतिलवमुपजीव्याश्चोपजीवित्वमापुः ॥
॥७.२६॥
व्रजवननृपपीठे प्राज्यराज्याभिषेके
वृषहरितनुजाया जायमानाङ्गलक्ष्म्याः ।
इह सवयसि लोकेऽन्योन्यमालिङ्ग्य मुग्धे
कलयतु सुहृदोऽमूरालिकर्माचरन्ति ॥
॥७.२७॥
दशशतनयनश्रीर्बिन्दुनानन्दसिन्धोर्
यदपि समवजज्ञे गोकुलप्राणिमात्रैः ।
इह कलय तथापि श्रीलराधाभिषेके
दशशतनयनश्रीरेभिरीहां बभूवे ॥
॥७.२८॥
पुलकमुखविकारैरद्य गोपेन्द्रसूनोर्
विधुमुखि परकाये शिक्षितः किं प्रवेशः ।
कलय किल तदङ्गे लब्धभावाह्पुरस्ताद्
वपुरपि बत तस्यास्ते बलादाविशन्ति ॥
॥७.२९॥
व्रजवनमिदमुच्चैः स्यन्दिता नन्दवृन्दं
पदमिदमिह वल्लीसद्म पद्माभिकाम्यम् ।
इह च कुसुमगेहं राजपीठेन राजत्
तदखिलमपि राधा धामधारां तनोति ॥
॥७.३०॥
स्नपयति मुहुरद्भिस्ताभिरेवालिसङ्घः
कलयत पुनरेनां ताभिरेवाष्टमृद्भिः ।
हरिपदकमलाभ्यां सर्वतः सञ्चरद्भ्यां
परिमलमुपलब्धं याश्च याश्च स्रवन्ति ॥
॥७.३१॥
प्लुततनुरथ राधा पञ्चगव्येन कान्ता
हरदखिलसखीनां पञ्चबुद्धीन्द्रियार्थान।
सपदि बत मुरारेरन्तरस्यान्तराले
कृतरभसममुञ्चत्किं च सा पञ्चबाणान॥
॥७.३२॥
सुरभिसुरभिसर्पिःक्षीरदध्यम्बुकुम्भैर्
अमलकनकरूप्यद्व्यष्टमृत्स्नाविपाकैः ।
कलय गुरुवयस्या बन्धुदास्योऽथ पूर्वाद्य्
उदगवधिककुब्भ्यस्तां क्रमान्मज्जयन्ति ॥
॥७.३३॥
बटुरथ मधुभिस्तां बह्वृचश्रेष्थ एष
स्नपयति कुशवार्भिश्छन्दसां गायकश्च ।
यदुदितमथ सूक्तं शान्तिके सम्प्रदिष्टं
हरिमनु सखि दृष्टं साम्प्रतं मोहनाय ॥
॥७.३४॥
कलसमथ मुनीशा वारि सम्पातवन्तं
बटुकुलकलमन्त्रैरुत्क्षिपत्यालि पश्य ।
किमिह मनुभिरुक्तैः राजसूयाभिषेके
दिनमणिसखपुत्री राजभूयं प्रयाति ॥
॥७.३५॥
सुरभिघुसृणचूर्णैरुक्षितां स्नातकोऽसौ
दशशतलघुरन्ध्रं शातकुम्भोदकुम्भम् ।
स्नपयति यजुषा तामोषधीगन्धबीज
प्रसवफलमणीभिः पूरयित्वा क्रमेण ॥
॥७.३६॥
समरुचिरसहस्रच्छिद्रगाङ्गेयकुम्भाल्
लघुनिपतदमुष्यां पश्य धारासहस्रम् ।
यदलमलभमानं चारु दृष्टान्तमुच्चैर्
अजनि सकललोके चारुदृष्टान्तमेव ॥
॥७.३७॥
अथ कुशपरिमृष्टां पूर्णिमा रोचनाभिः
परिमलितकरासौ योग्यं ऋग्वेदमन्त्रम् ।
पठति बटुसमूहे श्रीविशाखावयस्यां
स्पृशति शिरसि कण्ठे बाष्पतः कुण्ठदृष्टिः ॥
॥७.३८॥
विधिमिति रचयित्वा प्राक्तनं पौर्णमासी
पुनरथ निधिकुम्भैस्तामियेषाभिषेक्तुम् ।
असुवत कृतिसौकर्याय ये कामदोहा
सममणिलघुकुम्भान्पञ्च पञ्च प्रतिस्वम् ॥
॥७.३९॥
क्वचिदपि परिवारे राजलक्ष्मादिपाणौ
क्वचन च धृतवेत्रे कृत्यमाद्याभिषेके ।
विदधदिह जनोऽसौ शङ्खभेर्यादिचित्रे
श्रुतिगणगुणगाने सम्भ्रमी बम्भ्रमीति ॥
॥७.४०॥
त्वमसि खलु यदाद्या पुत्रि गोपाङ्गनानां
कलय तदमुनाद्येनाभिषेकं रसेन ।
इति मुनिवरयासौ क्ÿप्तमाशीर्विधानं
भवति नतशिराः स्वीकुर्वतीवाथ राधा ॥
॥७.४१॥
अथ बटुभिरमुष्यां पूर्णिमान्तश्चरेण
प्रथयति मनुमुच्चार्याभिषेकं निपेन ।
रुचिरुचिरसुधाभिः सापि नेत्राभिरामा
सललितमभिषिञ्चत्यङ्गसङ्घं जनानाम् ॥
॥७.४२॥
पतति निधिनिपानामर्णसा पूर्णमध्यान्
मणिमयनिपकाद्वारत्र गान्धर्विकायाम् ।
उदयमुदमितस्य स्वर्णवल्ल्यामिवेन्दोर्
अशकलकलबिम्बादंशुपीयूषपूरः ॥
॥७.४३॥
वृषरवितनयास्यादूर्ध्वगा रत्नकुम्भी
झमिति झमिति नादेनाम्बुधारां जहाति ।
उत किममृतमूर्तेर्मण्डली तत्स्तुवन्ती
स्वयममृतझरं स्वं मुञ्चती सिञ्चतीयम् ॥
॥७.४४॥
सिक्ता महापद्मनिधानसम्भवात्
पानीयमानीय निपादियं मुदा ।
राजन्महापद्ममुखी समीक्षता
गान्धर्विका सुष्ठु धिनोति नो मनः ॥
॥७.४५॥
विकसति जलसेकादस्य माणिक्यमूर्तेः
कलयत कलसस्य श्रीविशाखासखीयम् ।
दशशतकिरणस्य द्योतभेदेन योगात्
प्रतिलवमपि यद्वच्छुक्लपक्षेन्दुलेखा ॥
॥७.४६॥
प्रतिफलदभिषेकेणात्र कृष्णस्य बिम्बं
वहति वपुषि राधा राधिकायाश्च कृष्णः ।
द्विगुणमिव तमेतं रामसीताभिषेकं
व्रजवननवराज्ये तावमू किं भजेते ॥
॥७.४७॥
अपि मम गुणपूरैर्धौतमानेयमन्तस्
त्यजतिन बहिरुच्चैः सम्भृतं मानकल्कम् ।
इति मुररिपुरेनां पूर्णिमाद्यामरीभिस्
तमपि दवयितुं किं क्षालिताङ्गीं विधत्ते ॥
॥७.४८॥
यदपि पुलकशस्यं सिञ्चतस्तौ प्रतिस्वं
प्रणयकृषकवर्यावक्षिनीरैर्द्वयोश्च ।
तदपि परम अमुष्या स्तौमि तं यस्तु कुम्भैर्
अपि निजमघशत्रोः सेचयत्येव तेन ॥
॥७.४९॥
प्रियसख बत मा गाः सङ्कुचन्तावमस्मिन्
महसि न तव भावं प्रेक्षते कोऽपि लोकः ।
वृषदिनमणिपुत्रीधामलक्ष्म्यावृतत्वाद्
इति हसति मिषेण स्तोककृष्णोऽद्य कृष्णम् ॥
॥७.५०॥
सदसि धनु इवास्या जिह्मनेत्रत्रिभागं
हरिनयनकलम्बं समप्तन्नेव मुञ्चन।
सममभिनदिहान्तस्तस्य तस्याः सखीनाम्
अपि गतिरिह चित्रा भाति लोकोत्तरस्य ॥
॥७.५१॥
रसयति रसमस्मिन्पश्य नानाजनोऽयं
नवविलसितलक्ष्म्यामेतयोः स्वं स्वमेव ।
निजनिज उपजीव्ये भावपीयूषसिन्धौ
स हि कथमनिविष्टः सन्निवर्तेत जातु ॥
॥७.५२॥
अथ जलकणमुक्ताभूषितां भानुपुत्री
तनुमनुपमलक्ष्मीं वीक्ष्य दृष्टी सखीनाम् ।
ललितमनुहरन्त्यौ तां तदा वेशिभावात्
प्रमदसलिलधारामौक्तिकालीमधत्ताम् ॥
॥७.५३॥
सुमुखि नयनकोणं मा भ्रमादप्यमुष्मिन्
विकिर यदबलानां मान एवाभिमानः ।
इति मुहुरनभीष्टादालिमन्त्राद्विभुग्ना
दृगजितमभि तस्या रोषदम्भं विधत्ते ॥
॥७.५४॥
रसविततिभिरक्ष्णोः पर्व पूर्णं न तानि
प्रतिययुरथ पूर्तिं पर्वणस्ताभिरद्य ।
इति किल मुनिवर्या पूरयित्वाभिरेव
तमपरमपि देव्यारम्भयामास तस्याम् ॥
॥७.५५॥
अतुलविभववृन्दारण्यपर्जनय्सित्का
मधुरिपुरतिलीलाकामसाम्राज्यभूमिः ।
हरिमुखविधुरोचिःफुल्लरोमौषधिश्रीर्
इह मदयति राधा मादृशामक्षिभृङ्गान॥
॥७.५६॥
इयमखिलकलाभिः स्वालिरूपाभिरेतां
पुरमथनपुरन्ध्री तां पुनः सेत्कुकामा ।
प्रथममभिषिषेच स्वाङ्गमेवाथ बाष्पैर्
यजति यदिह लोके दीक्षिता एव देवम् ॥
॥७.५७॥
वनमधि बकशत्रोरद्वितीयामथ त्वां
रचयितुमभिषिच्यात्त्वद्वितीया वनश्रीः ।
अनु तदुदितमाशीर्वादमेवं द्वितीया
विधुतनुरिव राधा पश्य भात्यद्वितीया ॥
॥७.५८॥
सममणिनिपकेषु प्रक्रमादम्बु कुम्भाद्
अमलचलजाता विद्रुमात्पूरयित्वा
किरति वपुषि यस्मिन्भानुमित्रजाया
वितरति च मिथोऽंशूंस्तद्घटी चाम्बुदम्भात॥
॥७.५९॥
उपरि कलसकल्पः सूर्यबिम्बस्तदर्वाक्
तदुदकतनुरंशुस्तस्य मूले कचश्रि ।
घनकुलमधरस्मिन्नस्य वक्त्राभ इन्दुर्
विलसति तदधस्ताज्जङ्गमा कापि वल्ली ॥
॥७.६०॥
पद्माभिधानेन निधानगर्गरी
वर्गाधिपेनाधिगताभिषेचना ।
पद्माभियां सा विविधं विधायिका
राधा धराधीशतया धिनोति नः ॥
॥७.६१॥
सदसि भवति पीते दिव्यतत्पर्वदीव्यत्
प्रतिपदनवलक्ष्म्या तद्विषूचिनलक्ष्म्या ।
विलसति जलधारा लोकपुण्यावलीनां
परिणतिरधिगाङ्गेयाद्रि गङ्गेव देवी ॥
॥७.६२॥
वितरति मुहुरम्भः कालिका राधिकायां
विलसति भृशमन्तः प्रत्युतार्द्रीभवन्ती ।
सरिदिव विसरन्ती राति शश्वत्प्रतीचीम्
अपि घनरसधारासंहतिं तादृगर्था ॥
॥७.६३॥
विजहतु निजमस्मिन्देवि पूर्णत्वमुच्चैर्
मुहुरुदकमुचस्ते शेवधित्वान्न कुम्भाः ।
अयि बत कथमेषां सर्वतो वर्षुकाणाम्
अपि जननयनानामर्णसा पूर्णमन्तः ॥
॥७.६४॥
हरिरभिनदमुष्याः कञ्चुकं नीरसेकान्
मृदितनलिनभूतं सस्मितापाङ्गबाणैः ।
इयमपि लघु चक्रीकुर्वती चिल्लिचापं
हरति रसबलिष्ठा हन्त सर्वस्मस्य ॥
॥७.६५॥
अनुरहसमनेन प्रापिते नेत्रकोणे
द्रुतमपनयतेऽसौ स्वं दृगन्तं बलेन ।
अथ पुनरपनीते तत्र दत्ते स्वयं सा
अहह विहरतस्तौ क्ÿप्तसर्पापसर्पम् ॥
॥७.६६॥
किमपलपसि दत्तं राधिकावक्त्रपद्मे
सुहृदमनु च वामापाङ्गभृङ्गं मुकुन्द ।
इह नहि भज लज्जां पश्य तेनायमुच्चैर्
वलयितपरभागः सर्वमोहं तनोति ॥
॥७.६७॥
इति रहसि वसन्तक्ष्वेलितः प्रत्युत द्राग्
अधिकमभिनिवेशी स्वस्य वामे दृगन्ते ।
निदधदपरनेत्रं वेल्लितं तत्र सख्याद्
वहति रुचिविहस्तं माधवो द्वैधमन्तः ॥
॥७.६८॥
अजनिषत सखीनां पूर्वमक्षीणि भृङ्गा
विधुमुखि किल भावाश्चैतयोः पङ्कजानि ।
कलय सखि यदेतेष्वल्पं अप्युल्लसत्सु
प्रवलतरममूनि द्राङ्मुदाभिद्रवन्ति ॥
॥७.६९॥
त्वमसि जगति धीरावृन्दराज्ञीति सिद्धा
तनुमपि तनु कृष्णे मात्मतृष्णाविलासम् ।
इति रहसि वयस्या वाचमेवाचमन्ती
किल भजति सुदीप्तस्वस्पृहास्तम्भमेषा ॥
॥७.७०॥
अथ दिनमणिपत्नीयुग्ममीक्षस्व युक्तं
कलयति निधिकुम्भादन्यतो वार्घटीषु ।
यदिह फलमुदेति श्रीलराधाभिषेके
दृशि भरति कथं दृक्शर्म रुन्धानमश्रु ॥
॥७.७१॥
इह विजितसुधर्माधर्मके कृष्णवन्या
व्रततिसदसि राधा देवरामाभिषिक्ता ।
विधुरुचिधृतसौख्या स्मेरदृक्केलिफुल्ला
नयनमनु सुधां नः कल्पवल्लीव दोग्धि ॥
॥७.७२॥
हरिहुतवहमुख्यैः पालितास्वासु दिक्षु
क्रममनु मणिकुम्भा नीरपूरं दुहानाः ।
विदधति सुखमेते ये स्वयं तेन तेषां
पदमिव हरमाणा लोकपाला बभूवुः ॥
॥७.७३॥
व्रजविपिनमनु त्वं जीवनं स्यान्
मुररिपुरपि राधे यत्तृतीयं तथा ते ।
नृपपदमनु सिञ्चज्जीवनं सान्वयं स्ताद्
इदमिति रचिताशीराभिरेषा विभाति ॥
॥७.७४॥
संज्ञानया स्वावरसूर्यभार्यया
संज्ञानया तत्प्रियताभृशायता ।
शङ्खस्य कुम्भात्मनिधेरिमां जलैः
शङ्खस्य शब्दे प्रबलेऽभिषिञ्चति ॥
॥७.७५॥
अमलजलविकीर्णिर्भाति गान्धर्विकायां
कलय कलसवर्यस्यैकमुक्तामयस्य ।
इयमथ निजधारासिन्धुवेलेति तस्य
प्रपतति बत लावण्यापगा नूनमेनाम् ॥
॥७.७६॥
न नयनजलधाराः सन्त्यमूः किन्त्वमुष्याः
प्रतिफलितत्याद्धा साभिषेकं विशन्त्याः ।
नयनगणममुष्मात्सर्वतः शीतशुभ्राः
सुमुखि समभिषिकेर्निर्झरा निष्पतन्ति ॥
॥७.७७॥
व्रजवननृपपीठे सेकतो राधिकायाः
प्रथमनृपतिरेष प्रेक्ष्य तां भीतिमेति ।
इति हसति वयस्याजालमालुम्प कम्पं
स्वमिति स इह नीचैरुज्ज्वलेनान्वजल्पि ॥
॥७.७८॥
अपि लघु लघु तस्यामेष सन्तायमानः
प्रकटमुदधिनाद्य स्पर्धते स्माभिषेकः ।
नयनविषयसामोल्लङ्घिविष्वग्विभूत्या
भृशमजनै चमत्कार्येव तत्तच्छ्रिया च ॥
॥७.७९॥
जलनिधिरिव सोऽयं पश्य राधाभिषेकः
सकलमुखमृगाङ्ग्कं शश्वदुन्नम्य भाति ।
स्वजननयनमीनान्लोलयामास सर्वान्
निजघनरसजीवांस्तत्र यत्तन्न चित्रम् ॥
॥७.८०॥
अपि सखि तव मह्यं भाति मानप्रपञ्चः
स तु भृशमिह भीतस्तन्मया भण्यसे किम् ।
इति भणितरहस्यां द्रष्टुमेनामिवालीं
भ्रमितनयनसीम्ना कृष्णमालिङ्गतीयम् ॥
॥७.८१॥
अपि मुहुरभिषिक्तेरन्मये धाम्नि पीने
जननयनझषाली नो ममे फुल्लदङ्गी ।
हरिशफरतनुर्वा तेन किं तत्र भूयो
मनुरिव मुनिवर्या ता दिदेश स्रवन्ती ॥
॥७.८२॥
अथ रसभरधृष्णक्प्रेमतृष्णाश्च कृष्णा
प्रमुखवरतटिन्यो नेत्रबाष्पैरबाष्पैः ।
अतनुनिजतनूश्च ताश्च तीर्थानि भृत्वा
न्यविभरुरभिफुल्लाः कुम्भकान्कुम्भनीरैः ॥
॥७.८३॥
लघु लघु परमस्यां संविधत्ताभिषेकं
कलयत जलघर्षादप्यसौ भाति शोणा ।
इति गिरि मुनिराज्ञ्या बाष्पलक्षेण राधां
द्रवति न सखि दृष्ट्वा कस्य वा चित्तमत्र ॥
॥७.८४॥
हरिवनमनु तुर्यादप्युपायादमुष्मात्
कलय सलिलरूपाद्वल्लभश्रीविलासम् ।
इति सरिदुदिताशीःसिद्धिकर्णेजपं सा
दरमुकुलितनेत्रा शास्ति पद्मालिमुद्राम् ॥
॥७.८५॥
राधायतार्चिर्मकरादितः श्रिता
राधाय ताभिर्निपशेवधेः स्नुताः ।
राधायतावुच्छ्रितवल्लिवत्स्मितैर्
आधाय ताः सेकततीर्विराजति ॥
॥७.८६॥
अयमथ निजभासा हीरकुम्भः समन्ताद्
अहृत यमिह सारं तामसं तैजसं च ।
तमखिलमपि कृष्णामानसस्वर्नदीवार्
मिषमनु वलिमेतां स्वीयराज्ञीमनैषीत॥
॥७.८७॥
अयि रविसखपुत्रि त्वं रसेन्द्रेण सेव्या
स निधिरपि निधीनां माधवस्त्वानुयाति ।
तदिह घनरसौघे शैवधे चात्र कुम्भे
त्वमथ गतिरतीव स्तौति झात्कारि वारि ॥
॥७.८८॥
इयमनुपमदीर्घा निम्नगारूपवल्ली
ततिरपि विजहौ स्वं बान्ध्यमस्मिन्वने तु ।
कलय यदधिराधं दन्तकान्ति प्रसूनं
लसति लसदुरोजश्रीफलद्वन्द्वमत्र ॥
॥७.८९॥
वरयति वनमाली राधयापाङ्गदानं
प्रमदभरविपाकं पश्य सव्याजमत्र ।
इयमपि निजकान्तं द्रष्टुमुत्कण्ठते तं
तदपि तदभिरुन्धे को रसस्तं न जाने ॥
॥७.९०॥
प्रियसख मुरली ते विश्वमर्माणि भेत्री
निजगुणकलयापि प्रेष्ठ तद्वत्कटाक्षः ।
इयमपि तव गन्धस्यानुबन्धेऽपि मोह
स्पृगिति कुरु मुरारे तत्त्रयं नैकधाम्नि ॥
॥७.९१॥
इति मुहुरपि कर्णाकर्णि गन्धर्ववाण्या
सुपरिहसितमय्या श्रीविधुर्बोधितोऽपि ।
द्विगुणयति गुणन्तं स्वीयमस्यास्तु भावा
म्बुधिरलमपि फुल्लन्नाश्नुते व्रीडवेलाम् ॥
॥७.९२॥
युगपदुदकधारा सेयमिन्दीवराभैः
स्फुरति नयनबिम्बैरालि कृष्णादिकानाम् ।
तदिदमिह न चित्रं दृश्यतां चन्द्रकान्तिर्
विलसति किल तस्यां भानुजातीभवन्ती ॥
॥७.९३॥
अयमयमभिषेकश्रीपयोधेः प्रभूतः
परिकलय सखीनां भाव एवामृतांशुः ।
रचयति जनवृन्दे तं चमत्कारयनं
प्रमदयति च तासां चारु चक्षुश्चकोरान॥
॥७.९४॥
प्रियतममभिदृश्यापानतां नेत्रमुद्रां
कुरु सखि कुतुकेऽद्य स्वाधिराज्याभिषेके ।
वयमपि सममेताः श्वस्तु कुप्याम ते चेत्
स्मितविकचदृशस्ते चाग्रतः कृष्ण एति ॥
॥७.९५॥
सुहृदियमथ राधां श्यामलामङ्गलाद्या
विरचितसहभावा सम्बभाजाभिषेक्तुम् ।
हरिरपि समरूपां यामिहात्मैकचित्तां
स्वमिदमनुविधानं मेन एवं जनश्च ॥
॥७.९६॥
प्रकटपुरटपीठीचामरच्छत्रराज्य
श्रियि कलयति राधा पश्य गम्भीरभावम् ।
कलय पुनरियं तु श्यामला हन्त तस्याम्
इव तदतिसुहृत्त्वे प्रोद्धता स्वं व्यनक्ति ॥
॥७.९७॥
अपि निजसहचर्यः प्रेमपुष्ट्यातितुष्टा
नवनवरुचिवृद्धेर्रप्यमुष्याः समृद्धाः ।
सततमपि हृदङ्गाभेदगा नाद्य शेकुर्
दृशि रचयितुमेनां तन्महःपूर्णनेत्राः ॥
॥७.९८॥
भजतु घनरसस्त्वां पञ्चमस्तत्र चाङ्ग
प्रियमनुकलय त्वं पञ्चमं सिद्धिरूपम् ।
इति तदभिहिताशीर्गूढतृष्णाभिसूचि
स्मितनयनममुष्यास्तत्तदूरीकरोति ॥
॥७.९९॥
(अर्थत्रयवाची)
कूर्माभिधाननिधानगर्गरी
नीरैर्विभात्यायत साधु राधिका ।
ईदृक्सुधासञ्चयिनी हरेस्तनूः
किं मन्दरस्यायत सा धुराधिका ॥
॥७.१००॥
उपरि हरति नीलं धाम वैदूर्यकुम्भात्
तलमनु कनकाभां राधिकामूर्तिलक्ष्म्याः ।
उभयरुचिरिहान्तर्या तु तां तत्सखीनां
मनस इव हरन्ती नीरधारा विभाति ॥
॥७.१०१॥
समजनि कचकृष्णारण्यलग्नाथ कृष्णा
धरमनु पुरमध्यद्योतिनी ब्रह्मकन्या ।
कुचहरिगिरिसन्धौ हारलग्ना च गङ्गा
जलयुतिरपि तासां यन्निजा धामधामा ॥
॥७.१०२॥
कलितमिथुनभावा किं चकोरस्य जात्या
सखि हरिनयनाभ्यां दृग्द्वयी भानुपुत्र्याः ।
मुखशशिरुचमन्योन्याममून्यत्पिबन्ति
प्रकाटितरति सङ्गं कामयन्ते मिथोऽपि ॥
॥७.१०३॥
अमृतमहसि पारावारशून्ये समन्ताद्
अभजत परिपूर्तिं साधु राधेन्दुमूर्तिः ।
जननयनचकोरा मध्यमधास्य तस्याः
पथिभिरथ पुनस्ते हन्त कैर्निष्प्रयान्तु
॥७.१०४॥
प्रियसख कलयित्वा यां मुहुः कम्पसे त्वं
कलयसि पुनरेतां कृष्ण कस्मादुपांशु ।
हसितमुपशमार्थं यद्विदग्धेन तेन
प्रतिपवनवदूर्मिः स्रोतसि प्रस्तुतास्य ॥
॥७.१०५॥
सुमुखि समिषमीषत्पश्य कृष्णं महेऽस्मिंस्
तव धियमिव मा मामस्य दैन्यं दुनोतु ।
इति सरलसखीवाक्कोपितेवाथ नम्रा
मणिभुवि हरिबिम्बं वीक्षते सा सुगोप्यम् ॥
॥७.१०६॥
अथ पुनरभिषेक्तुं श्रीविशाखावयस्यां
धृतमुदमुदयुङ्क्ते प्राप्तवृन्दा तु वृन्दा ।
अपि पुलकदृगम्बुव्याप्तदेहस्य दम्भाद्
बहुकुसुममरन्दारण्यमस्या बभाज ॥
॥७.१०७॥
हरिवनमनु कालं पालयित्वा तु सालं
क्लममयितवतीव स्वैरमेनाममुष्य ।
त्रिजगति परिचित्यानन्दकन्दाकृतिं सा
स्फुटतरमभिषिञ्चत्येनदुल्लासयन्ती ॥
॥७.१०८॥
गुणमव गुणषट्केनाथ षण्णां ऋतूनां
अनुवनमयमस्मादङ्ग षष्ठोऽभिषेकः ।
इति गिरमनु देव्या नेत्रकान्त्या विशन्त्या
सलिलममरनद्या सात्मना सिच्यते किम् ॥
॥७.१०९॥
कुम्भप्रधानं कुसुमेन पूजितं
निधानरूपाङ्कि मुकुन्दनामकम् ।
धत्ते स्मितं तामभिषेक्तुमिष्टता
निधानरूपां किमु कुन्दनामकम् ॥
॥७.११०॥
अथ निधिनिपवर्याद्वारि शुभ्रं गृहीत्वा
कलय लघुकलस्या राध्यते राधिकेयम् ।
स्मरति तदनु लोकः कृष्णसन्देशमस्यां
सरसमुपहरन्तीं तामिमामेव वृन्दाम् ॥
॥७.१११॥
कचवनमनु माध्वीकाभमम्भोऽभिषिक्तेर्
मुखशशिनि सुधानां माधुरीमादधानम् ।
कुचगिरियुगमूले स्वान्तरस्थायिकान्त
प्रणयरसझरं वा मूर्तमस्यां प्रपश्य ॥
॥७.११२॥
इह सखि परमार्थान्नो सह्सराक्षलक्ष्म्या
हरिवनमनु राधा याति रत्नाभिषेकम् ।
प्रकटमपि समन्तात्पश्यतां नेत्रबिम्बैः
कलयितुमिव कृष्णं भ्राजते सा तथैव ॥
॥७.११३॥
इह सखि परमार्थान्नो सहस्राक्षलक्ष्म्या
हरिवनमनु राधा याति रत्नाभिषेकम् ।
प्रकटमपि समन्तात्पश्यतां नेत्रबिम्बैः
कलयितुमिव कृष्णं भ्राजते सा तथैव ॥
॥७.११४॥
इति तदभिहितेन स्तम्भयन्नेव भावं
स्वयमुत हरिरासीत्स्तम्भितस्तेन विष्वक।
बलवति विजिगीषा कस्य वा न प्रकामं
सपदि बत विदध्यात्कर्मभावं पराजेः ॥
॥७.११५॥
(युग्मकम्)
निजजनगिरिलज्जाकन्दरायां भ्रमन्ती
क्षणमपि पुनरेषा वेगदुर्वारभावात।
समभिसरति राधादृष्टिगङ्गा समन्ताद्
द्रुतमथ रसवार्धिं कृष्णमद्धाधिपर्व ॥
॥७.११६॥
अतिविरलनिमेषैरक्षिसङ्घः सखीनां
धयति मधुरिमाणं राधिकावक्त्रपद्मे ।
भरति मुखमभीक्ष्णं जातभीतिः परस्माद्
वहति गिरणमुद्रां यां सकृत्तद्वदेव ॥
॥७.११७॥
मतमपि मम यान्त्यास्तेऽभिषेकं हरौ च
स्नपनममृतदृष्ट्या किन्तु सुष्ठूर्मिमत्या ।
स हि युवतिविलासैरूर्मिमानित्थमस्याम्
अथ भणति रहस्यं पश्य काचिद्वयस्या ॥
॥७.११८॥
अथ रसपरिपूर्णं वामनेत्रं विकीर्ण
भ्रमरकमिह राधा यद्विचिक्षेप कृष्णे ।
कलितनयनलौल्ये केलिनीलाब्जवर्यो
पमम अपि किमपीदंतस्य मर्माविदासीत॥
॥७.११९॥
प्रभुरिहखलु राधारण्यराज्याभिषेके
प्रणयघनविकाशः सोऽयमेकः सखीनाम् ।
इति मुनिरपि वर्षासन्निभास्ताः स्वचक्षुः
शिखिनटनटयित्रीर्व्यापृतास्तत्र चक्रे ॥
॥७.१२०॥
सदयमिह वयस्याः पश्य राधाभिषेके
लघुलघुमिह पूर्वां कुर्वते स्वां वयस्याम् ।
क्रममनु किल यां यां शुक्लपक्षस्य चन्द्र
द्युतिभिरुपमिमीते काव्यविज्ञातृलोकः ॥
॥७.१२१॥
स्नपनमथ धनिष्ठाद्याभिरावेष्ट्यमानाः
समदधुरभिफुल्लाः कुन्दवल्लीमुखाश्च ।
अजनि च परभागः साधु राधामुखेन्दोः
स्फुरति समगुणैर्यत्कोऽपिप्भङ्गः प्रसङ्गे ॥
॥७.१२२॥
प्लुततनुरमुना त्वं सप्तमेनाम्बुनापि
व्रजवननृपदेवीः सप्तलोकश्रियश्च ।
अव सखि नवराज्यं ताः सितीकृत्य कीर्त्या
स्फुटमटविरसौ यां पुष्पदम्भात्प्रासोता ॥
॥७.१२३॥
इति किल सखि तासां वाचमेवाचरन्ती
विततनिजसमज्ञारूपवक्त्रप्रसत्त्या ।
स्नपनजलझरेण स्वैकतां भावयन्ती
जगदपि जलभूतं कुर्वती भाति राधा ॥
॥७.१२४॥
(युग्मकम्)
कुन्दाभिधावन्निधिकुम्भसम्भवैस्
तोयैर्मनोऽम्भोनिधिकुम्भसम्भवैः ।
साभिः समन्तादयते सुमज्जनं
कं नेदमामोदयतेऽसुमज्जनम् ॥
॥७.१२५॥
स्नपयति सखि वृन्दाकाननाधीशपीठे
कलय कलसराजः पुष्परागात्प्रजातः ।
अमलसुरभिनीरै राधिकां कल्पवल्लीं
स्वयमिव शशिबिम्बः शुद्धपीयूषपूरैः ॥
॥७.१२६॥
व्रजनरपतिदेवीस्नेहपीयूषमूर्तिर्
दनुजदमनचेतःकैरवोल्लासकर्त्री ।
हृदयशशभृदश्मद्रावयित्री सखीनां
व्रजति सखि धनिष्ठाद्याभिरेषाभिषेकम् ॥
॥७.१२७॥
निजरमणविलासस्मेरमुल्लोललीला
वलितनयनभृङ्गं भङ्गुराक्ष्या मुखाब्जम् ।
हरिवनमनु तस्याश्चित्रमत्राभिषेके
स्फुरदधरसुधाभिः सिञ्चतीदं जगन्ति ॥
॥७.१२८॥
समपलपति जातं भावतः कम्पमस्या
मुरहर जलधारा ते तु किं निह्नुवीत ।
हरिरिति मधुनाम्नः स्पष्टजल्पस्य स द्राग्
भरति मधुभिरास्यं पश्य लीलाम्बुजस्य ॥
॥७.१२९॥
अनुरहसमपाङ्गं प्राणनाथे विधत्ते
विभुजति पुनरेवं याचने दृष्टिमाल्या ।
प्रियसखि निजभोगीत्यस्य वित्तस्य शाश्वत्
प्रमिलनसदृशी सा साचि तस्या गतिर्हि ॥
॥७.१३०॥
बकरिपुपरिरम्भास्वादवाञ्छाविरक्तिं
व्रतमिव सखि कर्त्री स्वालिसौख्यैकतृष्णा ।
फलमलभत कस्तूर्यादिरालिः सखीनां
हरिवनवरराज्ये सिञ्चते तां यदद्य ॥
॥७.१३१॥
सखि लससि यथा त्वं सात्त्विकश्रीभिरुच्चैः
प्रियतमवरराज्ये तद्वदष्टाभिरङ्गैः ।
प्रकृतिभिरभिदीप्तैरष्टमुख्यालिः सखीनां
हरिवनवरराज्ये सिञ्चते तां यदद्य ॥
॥७.१३२॥
इति सुभगशुभाशीर्युक्तमेषाभिषिक्ता
प्रतिपदमपि तासां स्फीतचेतोरथेन ।
जगदिदमभिलङ्घ्य स्वश्रिया निर्ममेऽन्तः
पुरमपि परिकण्ठं तस्य वैकुण्ठनाम्नः ॥
॥७.१३३॥
राधामनु व्यूढरसाधिराजते
राधाम यत्रानुभजद्विराजते ।
स भाति नीलात्मककुम्भशेवधिः
स भाति नाना कमलावशेऽवधिः ॥
॥७.१३४॥
असितमणिजमेतं कुम्भमेवान्तरे स्वं
स्नपयितुमिव देहद्वैतमुत्प्रेक्ष्य बन्धोः ।
भृशमवमृशती सा तत्र चात्मायमानं
प्रतिफलनममुष्य स्फारकम्पं बिभर्ति ॥
॥७.१३५॥
इह सदसि दृगस्या व्रीडयानाप्तसङ्गा
सखि निजदयितस्य स्वाग्रगस्यापि लोला ।
श्रुतिपरमसखीं तद्वेणुगानाननाब्ज
श्रुतमधुपरिपूर्णां शश्वदालेढि तस्य ॥
॥७.१३६॥
घनपटपरिगूढेऽप्यंचुभिर्व्यक्तकल्पे
रविसखदुहितुः स्वैरङ्गसङ्घेऽभिषेकम् ।
अपि निविडनिचोलन्मन्यमेतैर्विभिन्नं
हरिरकुरुत दृष्टिश्रीनिगूढं ह्रियमेव ॥
॥७.१३७॥
लसति तदभिषिक्तेरम्बुपूरे विकासी
विसकुसुमनिकायश्चाक्षिरूपः सखीनाम् ।
भ्रमति च हरिचक्षुःपद्मपद्वन्द्वमस्मिन्
महसि दिवसरत्ने यत्नतस्तत्र कामम् ॥
॥७.१३८॥
नयनजलकुलैर्मा माचरस्त्वं मतेऽस्मिन्
श्रमसलिलविपक्वं मित्र निर्वापिताङ्गम् ।
तुदसि किमिति भूयः कण्टकैर्वेति कृष्णं
विहसति सुबलस्तेनोपगूढोऽपि गूढम् ॥
॥७.१३९॥
पयसि तदभिषिक्ते राधिकाया यदस्मिन्
नयनझषयुगेनोत्पुप्लुवे शश्वदाशु ।
तदुचितमुदितोऽयं यत्पुरस्तादमूदृक्
क्षणरुचिरुचियुक्तः कृष्णधाराधरेन्द्रः ॥
॥७.१४०॥
नहि परमिह वाम्ये शिक्षणंस्वार्थयोगाद्
अलभत किमु राधास्वात्मनो मन्त्रमेनम् ।
कलय सखि यदेतत्हन्त शुश्रूषुरेषा
कुटिलयति दृगन्तं वीक्ष्य कृष्णः पुरैव ॥
॥७.१४१॥
कुलमपरसखीनां मण्डयन्मण्डलं स्वं
विधुवपुरिव शश्वत्कृष्णवार्धिं प्रपुष्णत।
रुचिविसृतिभिरेतां वृन्दकारण्यलक्ष्मीं
सरभसमभिषेक्तुं पश्य विश्वग्विभाति ॥
॥७.१४२॥
महितगुणजनेन न्यस्तमेकत्र च द्राग्
भजति भविककार्यं सर्वतो भद्रभावम् ।
सुमुखि मधुरिकादिर्यत्प्रियालीसमूहः
स्नपयति खलु राधां स्नाति बाष्पेण विश्वम् ॥
॥७.१४३॥
परममिदमपूर्वं पूर्वमत्राभिषेके
विदधति लल्ताद्याः स्वीयकृत्यं जडाश्च ।
अथ न च तदपूर्वं कान्तयः शीतकान्तेः
सखि कुमुदविकासे पेशला एव दृष्टाः ॥
॥७.१४४॥
नवनववनभागे श्रीहरेः काननेऽस्मिन्
मधुररतिधनानां शेवधीन्गोपिकानाम् ।
अव सखि नवकुम्भानन्वमुं विश्वलक्ष्मीं
नवममपि तदेतं देवि दिव्याभिषेकम् ॥
॥७.१४५॥
इति निजगणसूक्तेनाभिषेकेण तस्या
मधुरिमभरवृष्टिर्विस्मृतात्मीयधर्मम् ।
अहह विदधतीयं माधवं तं च निन्ये
शुचिगुणमथ विश्वं पश्य सारङ्गतां च ॥
॥७.१४६॥
खर्वेण सिद्ध्या घटमानसन्निधेः
खर्वेण सिद्ध्या घटमानसन्निधेः ।
साराजिताराजितसर्वतोमुखं
सा राजिताराजितसर्वतोमुखम् ॥
॥७.१४७॥
इह समजनि गौर्युन्मेदुराङ्गी मरन्दैः
क्षितिरुहनिकराणां तद्भुवि स्वाभिधायाः ।
प्रथयदिव निरुक्तिं सिञ्चते साधु राधां
कलय कलयरूपं देवि गोमेदरत्नम् ॥
॥७.१४८॥
इह हरिवनवीथीराजराज्याभिषेके
प्रियरुचिकृतचित्राभीषुचित्राद्य राधा ।
तनुगतजलमात्रे स्तम्भयुक्केशवासो
ग्रथनसुमधुरेयं स्वाङ्गभूषां तनोति ॥
॥७.१४९॥
स्वरुचिमनुदुहाने पूरणायाखिलानां
स्नपनमटविराज्ये याति चात्रापि लब्धे ।
हरिहरितममुष्या वक्त्रचन्द्रे त्रियामा
रमणमणिवदात्मा स्वे रसे मे ममज्ज ॥
॥७.१५०॥
उपरि वहति गौरी जागुडप्रायगन्धां
कलय सुभगनेत्रे राधिका नीरधाराम् ।
नरपतिवरपीठे यद्वदद्रौ पुरस्तात्
तुहिनकिरणमूर्तिः प्रोन्नतामंशुमालाम् ॥
॥७.१५१॥
प्रियतम ननु राधां यां प्रति न्यस्यते स्म
प्रतिलवमभिगुप्तं ते दृगन्तस्मितश्रीः ।
कलय किल तयैव व्यज्यते तान्विलासान्
भजति कुमुदिनी किं कौमुदीमन्तरेण ॥
॥७.१५२॥
इति बकरिपुरेष प्रेयसा चार्जुनेन
श्रुतिकुहरतलेऽपि न्यस्तमुक्तं न वेद ।
स्वरतिविरतिभीत्या तस्य नेत्रद्वयी तु
भ्रमति तदिव लोला लिप्समाना वरीतुम् ॥
॥७.१५३॥
(युग्मकम्)
सममजनि सखीनां नन्दथुः सिन्धुरेष
स्फुरति हि महराजे पश्य राधामसिक्त ।
तडिदुदयिविलासान्येतमेतानि पीत्वा
नयनजलदवृन्दान्यालि वर्षन्ति सन्ति ॥
॥७.१५४॥
प्रतिहरि सखि वाम्यं शिक्षयामास कापि
त्वयि यदिह तथा यत्कापि दाक्षिण्यमेव ।
द्वयमपि न मतं नः किं तु तेनाभिषिक्तेस्
तव निजरसपूरेणाग्रहः पूरणाय ॥
॥७.१५५॥
इति निगदितमाल्या गुप्तमस्यास्तु भावं
तदनुगमयदुच्चैरावीरासीत्परन्तु ।
अनुगतमिदमेवाकारि तेन स्वदोर्भ्यां
त्वरयितुमिव गाग्गां सन्तरन्स्रोतसैव ॥
॥७.१५६॥
(युग्मकम्)
अथ निखिलनिपाम्भःपूरितं सर्वगन्धौ
षधिफलभृतमन्तःशोणबीजं वराल्यौ ।
कनककलसमुच्चैराददातां कराभ्यां
कलय गणकरामास्ताः पुरस्ताद्विधाय ॥
॥७.१५७॥
सितवसनपरीतं शुभ्रसूत्राञ्चिकण्ठं
विरचितशुचिवेषं क्षीरिवृक्षच्छदाग्रम् ।
निपमिममुपगृह्य श्रीलराधाभिषेकं
वितनुत इह पूर्णं पूर्णयित्वा जगन्ति ॥
॥७.१५८॥
(युग्मकम्)
निरुदकलसधारा तन्मुखश्रीः स्वबन्धोर्
अतिचपलतयाक्ष्णोर्व्यूहतुल्येषु तेषु ।
न्यधित वरविलासं भिन्नशुभ्राभ्रलेखा
विधुरुचिरिव कृष्णावारिपूरोत्पलेषु ॥
॥७.१५९॥
उपरि समभिषिक्तः प्रेयसा सुष्ठु सृष्टा
हृदयकमलमस्या वारि दृग्भ्यां जहाति ।
बहिरपि विनियुक्तं चित्रसम्भारदम्भाद्
भवति किल निगूढप्रेमवस्त्वन्तरङ्गम् ॥
॥७.१६०॥
विलुलितकचबन्धं लुप्तपत्रं श्रमाम्भः
परिचितमनुशीर्यन्माल्यमत्राभिषेके ।
अवनमति यदैषात्मानमन्वीक्ष्य मेने
हृदि किमपि तदास्मिन्कृष्णचापल्यमासीत॥
॥७.१६१॥
अपि भृशमभिषिक्त्या स्फायितैरंशुदीप्तैर्
इयमघजिदटव्यां भाति लोकस्य चान्तः ।
घनसमयजवृष्ट्या विश्वजीवातुलक्ष्मीर्
इव शशिमुखि जातिः कापि दीप्रौषधीनाम् ॥
॥७.१६२॥
श्रीवृन्दावनराज्यलाभवलितां गान्धर्विकाश्रीसुधां
तामास्वाद्य विशाखया ललितया चात्मैकवेद्यां पराम् ।
यद्भावादुदजृम्भि किञ्चन जनस्तेनैव संघूर्णते
को जानाति तयोरहो किमपि यच्चित्ते समुद्भ्राजते ॥
॥७.१६३॥
पूर्णे राधाभिषेके द्युतिमतिजलधौ लङ्घितव्रीडवेले
भावाख्यौ मीनमुख्यौ रविसखतनयाकृष्णयोरद्भुतौ तौ ।
आनन्दादुत्क्षिपन्तावमृतमतनुतां तं तथात्मानुभावं
तद्गत्येकानुवेधाद्दिशि विदिशि यथा घूर्णते लोकसङ्घः ॥
॥७.१६४॥
कर्णौ मङ्गलगानवादनमिदं काव्यं सजिह्वाधरौ
घ्राणे सौरभमक्षिणी रुचिकुलंपाणी च सेवासुखम् ।
श्रीराधामनु वृन्दकावनमहाराज्याभिषेकाङ्गताम्
आयातं बत जन्मजन्मनि युवामव्याजमव्यादिह ॥
॥७.१६५॥
इति ततिभिरमूषां साधु राधाभिषिक्ता
कवितमधुभिराभिः सिच्यमानाभिरेव ।
भवति हि नितरां सा तादृशां सेवनश्रीर्
अविकलफलदात्री सद्य एवोद्यमस्य ॥
॥७.१६६॥
सुरपुरवरनारीलेखया साभिषिक्ता
रहसि महसि वृन्दारण्यराज्यासनेऽपि ।
भुवनयुववधूनामूर्ध्वसूत्सिक्तधामा
स्वजनभजनभव्यं सार्वभौमीयमव्यात॥
॥७.१६७॥
अहमतिशयतृप्तो यः कृपापूरितग्लौर्
अहमतिमतिशीतः पाप्मनां पावको यः ।
अहमसनतनस्वान्वेदधामा स्वयं यस्
तमिह महितरूपं कृष्णदेवं निषेवे ॥
॥७.१६८॥
इति श्रीराधाभिषेकचरिते श्रीमाधवमहोत्सवनाम्नि महाकाव्ये
उत्सिक्तराधिको नाम
सप्तम उल्लासः
॥७॥
**************************************
.
(८)
अष्टम उल्लासः
उज्ज्वलराधिकः
अथ वृन्दाटवीदेवी तद्वृन्देषु पुरस्कृता ।
अनुष्टुबादिच्छन्दःसु गायत्रीव व्यरोचत ॥
॥८.१॥
मदाघूर्णैरपि तदा तेषां नेत्रमधुव्रतैः ।
सम्पन्मधुभरः पातुमैषि तस्ञः पुनः पुनः ॥
॥८.२॥
अंशुरंशुकमेतस्याः क्लिन्नमात्मनि लीनयन।
स्वयं दृशा दुष्प्रवेशः शाटीपाटवमीयिवान॥
॥८.३॥
तदाङ्गमार्जनावर्षपरिकर्मणि कर्मणि ।
इष्टमुनिवरादिष्टमीहामूहे सखीजनः ॥
॥८.४॥
तता काण्डपटी ताभिः समन्तादपि सुभ्रुवः ।
अदीव्यत्परिवेषश्रीरमृतांशुतनोरिव ॥
॥८.५॥
ययोर्निमेषः कल्पाय कल्पते व्यतिलोकने ।
ययोर्निमेषः कल्पाय कल्पते व्यतिलोकने ॥
॥८.६॥
विशेषं दयितौ लब्धौ तौ तिरस्करिणीकृतम् ।
प्रेम्ण किल मिथः प्रेमा साक्षादक्ष्णोरपुस्फुरत॥
॥८.७॥
रुद्धा दृष्टिचकोरीणां तृप्तिं कर्तुमिवालिभिः ।
चन्द्राननेयं तन्मध्ये स्वकुलैरावृतांशुभिः ॥
॥८.८॥
गुरूणां व्यवधाकारिं प्रतिसीरामिहान्तरा ।
अथ राधाधिनोदालीः स्वैरस्मेरसमीक्षया ॥
॥८.९॥
ताभिरुद्गमनीयं सा रमणीयं समर्पितम् ।
विदलद्दलनीलाब्जलोचनश्रीरशिश्रियत॥
॥८.१०॥
यदेतद्वसितं देव्या वस्त्रमुद्वापने तनोः ।
बिभ्रंशादिव तद्भीतं सिष्वेद स्नानवार्मिषात॥
॥८.११॥
अथ शुष्केण वस्तेण मृष्टं कुन्तलमण्डपम् ।
मल्लीवलयिधम्मिल्लमस्यामाल्यो विनिर्ममुः ॥
॥८.१२॥
राधा तत्राभिषेकान्ते कान्तिसाम्राज्यमात्मनः ।
द्रष्टुं किल परिष्कारमवातीतरदालिभिः ॥
॥८.१३॥
अवन्त वस्त्रं सा हंसैर्यैर्विचित्रितमत्र तान।
काञ्चिवल्ल्या नादयन्ती न्यस्तजीवानिवाकृत ॥
॥८.१४॥
रक्ता मृगमदैश्चोली चित्रसौरभवासिता ।
तया परिहिता सूक्ष्मा भिन्नासीन्नाङ्गरागतः ॥
॥८.१५॥
श्यामस्य तस्य चोलस्य रक्तकं बहिरुद्बभौ ।
कृष्णो रागावृतं किं वा तस्या हृदयमभ्यगात॥
॥८.१६॥
अरिक्ततार्थमेवादौ पुष्पैरेषा परिष्कृता ।
कृष्णस्य तद्वनश्रीर्वा रेजे पुष्पेषुकान्तिदा ॥
॥८.१७॥
भिन्ना वृतिकया कान्त्या धन्वती सा बहिःस्थितान।
आकृष्टेऽन्तःपटे सुष्ठु सन्नटीव विदिद्युते ॥
॥८.१८॥
राधामाधवयोर्द्वन्द्वं रूपं मुहुरपीक्षितम् ।
मेने तदा यदाश्चर्यं तन्नाश्चर्यमपीदृशि ॥
॥८.१९॥
तदा तां स्तोतुमारब्धा विबुधादिवधूजनः ।
उद्यतीं रविमूर्तिं वाप्रातः सन्ध्याभिवन्दकाः ॥
॥८.२०॥
तस्या निर्मञ्छने चन्द्रस्तपःक्षीण इतीव ते ।
अनानीय तमात्मीयचिन्तारत्नेन तद्व्यधुः ॥
॥८.२१॥
सार्धं परार्धमणिभिश्चक्षुर्भिर्भ्रमितैरमी ।
प्रेम्णा निर्मञ्छनाकर्म स्वैरपि स्फुटमाचरन॥
॥८.२२॥
वृन्दावनमहाराज्ञी स्नानसिंहासनात्परम् ।
अरूरुचत्पीठरत्नं नखरत्नैः पदाब्जयोः ॥
॥८.२३॥
अथ हैयङ्गवीने सा मुखमालोकयन्मुदा ।
स्वजनस्नेहसन्दोहे निमग्नमिव चाक्षुषे ॥
॥८.२४॥
सा राजपदवीं याता दानं दित्सुरिवाभितः ।
प्रसादकरविक्षेपादाजह्रे सर्वहृण्मणीन॥
॥८.२५॥
लिखितस्वाह्वयं वृन्दाटव्याः पल्लवसम्पुटम् ।
दानारम्भे सूनपूर्णं मुनीशामनु सादिशत॥
॥८.२६॥
सा सदा तान्स्नेहदानैर्ब्रह्मडिम्भान्प्रधिन्वती ।
तद्दक्षिणावद्व्यतरत्तेभ्यस्तानि धनानि तु ॥
॥८.२७॥
येष्वेकमेकं रत्नेषु परा स्याद्गुरुदक्षिणा ।
स्नातकेभ्यो ददौ तानि यावदृढं क्षितीश्वरी ॥
॥८.२८॥
विहापयन्त्या रत्नानि तस्या व्यञ्जितसौहृदाः ।
दन्तश्रीः प्रसृतास्तेषामनुव्रज्यामिवाकरोत॥
॥८.२९॥
तस्या विनयसम्पत्तिस्तृप्तिकर्त्री यथाजनि ।
नान्येषां स्थूललक्ष्याणां तद्वदंहतिसंहतौ ॥
॥८.३०॥
वितीर्णं ब्रह्मपूजायां तयापाङ्गमणिं गते ।
गोपाले ब्रह्मताप्यद्धा सिद्धाभूद्ब्रह्मवादिनाम् ॥
॥८.३१॥
मधुमङ्गलनामाथ कृष्णबन्धुर्विदूषकः ।
मणिकन्दूकमासाद्य स्वाद्यमोदकवद्व्यधात॥
॥८.३२॥
तस्य मध्विति नाम प्राक्पदेनाहूय कापि तम् ।
जहास किञ्चिद्दिशती रसनासरविप्रुषम् ॥
॥८.३३॥
वृणीध्वमिष्टं भूदेवा इत्यालिद्वारतद्गिरि ।
देहि त्वदिष्टमित्यूचे साञ्जलिर्मधुमङ्गलः ॥
॥८.३४॥
स्मेरे सखीजने राधा कृतसन्धा तथाकृत ।
भ्रूर्गतं स यथा मोहात्तमालं बत माधवः ॥
॥८.३५॥
माल्यं दिशन्ती साभिप्रैन्मदिष्टं नयतादिति ।
स्वस्तीत्युक्त्वा स जग्राह माधवं मधुमङ्गलः ॥
॥८.३६॥
ततः स्वकण्ठे तं सक्तं कृत्वा स च विदूषकः ।
तथानर्तीदनेनापि तथानर्तीद्यथानर्तीव संसदि ॥
॥८.३७॥
कटाक्षेणाथ गोविन्दमित्राण्यालिततिर्मिथः ।
दृष्ट्वा जहास कुरलादाकृष्टपटसंवृतम् ॥
॥८.३८॥
स्वस्थे सख्यौ तमाचख्यौ संवृत्य स्मितमुज्ज्वलः ।
अनासीनश्चिरं क्षीणः स्वं श्रमं वेतेसि वा न वा ॥
॥८.३९॥
अदीव्यदेवमेतेषां वैदग्धीदिग्धचेतसाम् ।
सभायां समभावानां निह्नुतिर्नर्मकर्मणि ॥
॥८.४०॥
राधे नित्यं सखीनेत्रकैरवश्रीविकासीनि ।
सेव्या पूर्णिमया वृन्दारण्यसाम्राज्यमाश्रय ॥
॥८.४१॥
एवमाशीशिषत्पौर्णमासीमुखगुरुस्त्रियः ।
विवर्धिष्णुश्रिया जातास्तया तु फलिताशिषः ॥
॥८.४२॥
(युग्मकम्)
तस्या राज्याभिषेकान्ते लब्धे बन्धविमोचने ।
चित्रं बद्धमभूद्भूरि तेनाजितमनः पुनः ॥
॥८.४३॥
तस्याः प्रेम्णा सिताः सर्वा मुक्तिदानाख्यपर्वणि ।
अकम्पन्त तदादेशान्निजत्यागभयादिव ॥
॥८.४४॥
असत्त्वादन्यबन्दीनां क्रीडापत्रिमृगाः परम् ।
तयाभुवन्बहिर्मुक्ता नान्तः स्वप्रेमबन्धनात॥
॥८.४५॥
यदा तत्राभिषेकान्ते त्यक्तहिंसे जगत्यपि ।
वृन्दावने सदा शान्ते सा नाशिषदबध्यताम् ॥
॥८.४६॥
आद्यूनधनिकस्वैरतर्पणे चिन्तिते तया ।
नूनं नानारसानूहुर्नद्यो रत्नानि पर्वताः ॥
॥८.४७॥
धूर्याणां धुर्विमोके तु लब्धे वीक्षितमन्यथा ।
मधुपुष्पधुरां भूरि स्वतःस्तब्धा नगा दधुः ॥
॥८.४८॥
अदोह्यानां तथोस्राणां प्रस्नवाः प्लावका भुवाम् ।
राज्यादस्याः स्वय्म्भूष्णौ शस्ये वृष्टियशो ययुः ॥
॥८.४९॥
(कलापकम्)
गोविन्दस्याभिषेकेण पुरा यदपि तद्विधम् ।
वृन्दावनमथाप्यस्याः स एवादीव्यदद्भुतम् ॥
॥८.५०॥
सा स्ववेशाय पूर्मध्यं पूर्णिमानुसृताविशत।
ताराः परिचिकीऋषुर्वा पुरोऽद्रिं शशिनस्तनूः ॥
॥८.५१॥
सा कृष्णं पूर्णिमा देवीरग्रे कृत्वा तदास्पदम् ।
दिव्यालिवन्दितैः पुष्पैः सिक्तागाद्विश्ववन्दिता ॥
॥८.५२॥
तद्गौरीमण्डलं कान्त्या जितकुङ्कुमकन्दलम् ।
कृष्णाग्रं संव्रजद्भ्रेजे निजवक्षोजसम्मितम् ॥
॥८.५३॥
घनाग्रा चन्द्रलेखा चेन्मध्ये भानां विराजते ।
कृष्णपश्चादालिवृता राधा तर्ह्युपमीयते ॥
॥८.५४॥
मध्येकक्षं तथा राधामधिमाधविकागृहम् ।
परिवार्यानयन्सख्यो वृन्दयादिष्टवर्त्मना ॥
॥८.५५॥
तदा तद्भासयामास वासन्तीसदनान्तरम् ।
वृन्दारण्यधराधीशा मधुश्रीरिव देहिनी ॥
॥८.५६॥
विष्णोः पूजामसौ तत्र व्यदधाद्विधिगोचरम् ।
यत्र देवीगणे स्मेरे सलज्जं सिस्मिये हरिः ॥
॥८.५७॥
दन्तिदन्तासने देवीं तुलकादिकृतश्रियि ।
निवीस्टामभितोऽभीष्टा यथायथमथासत ॥
॥८.५८॥
पूर्णिमा तन्मुखस्याग्रे मधुपर्कमथार्पयत।
ससर्पिःपायसेनापि सुधांशोस्तर्पणं मतम् ॥
॥८.५९॥
अथ सा पूजयामास मुनीशां गुरुमात्मनः ।
संज्ञाच्छाये अपि तदा सर्वग्रहविदां गुरू ॥
॥८.६०॥
यत्कान्तिकीर्तितस्त्रासादकीर्तिः सर्वतो द्रुता ।
स्पर्धिनं चन्द्रमन्वद्धा सम्बद्धा लाञ्छनायते ॥
॥८.६१॥
यस्या गीतां सदाजस्रं शुश्रूषुरिव चारुताम् ।
स्मरे नानुमृतिं भेजे रतिः स्मरहरोषिते ॥
॥८.६२॥
यस्याः सेवोचितं न स्यात्पुंदेहमिति किं स्मरः ।
रुद्रात्क्रोधाग्निमुत्पाद्य प्लुष्टः प्रागादनङ्गताम् ॥
॥८.६३॥
फुल्लतां कुर्वती शश्वत्कृष्णाङ्गद्युतिवारिधेः ।
उदयन्ती तनुर्यस्या धत्ते विधुतनोस्तुलाम् ॥
॥८.६४॥
अङ्गरागश्रिया यस्या दुर्वर्णानि सुवर्णताम् ।
रजतानि पुलिन्दानां कलत्राणि च बिभ्रति ॥
॥८.६५॥
अलङ्कारैरलं नस्ते स्वयं तु वयमित्यदः ।
यस्यास्तद्बिम्बदम्भेन व्यज्यते स्माङ्गपङ्क्तिभिः ॥
॥८.६६॥
यस्याः सुवलिताङ्गानि प्रेक्ष्यावयवराजयः ।
हरेः स्विद्यन्ति गुणिषु गुणवानेव मेद्यति ॥
॥८.६७॥
सर्वाङ्गसुष्ठुतालक्ष्मीर्यस्याः श्रीकृष्णचेतसि ।
धरियाणां चौर्यकर्त्री च श्लाघ्यते मुनिभिः सह ॥
॥८.६८॥
यस्या विआल्समाधुर्यामतृप्तिरिव माधवी ।
माधवश्चादधात्पुष्पलक्ष्येणाक्षीणि लक्षशः ॥
॥८.६९॥
यस्या लब्धासनात्कुञ्जादञ्जसा सह सौरभैः ।
निष्क्रम्या विभ्रमन्भृङ्गान्स्वर्णजातीसमा रुचः ॥
॥८.७०॥
सौरीमानसगङ्गाभ्यां चारुचामरवीजनात।
यस्या विसार्यमाणेव रेजे विसृमरा रुचिः ॥
॥८.७१॥
अधःस्थेनापि येनासीत्पूर्णिमेन्दोरधःकृतिः ।
ऊर्ध्वस्थेनामुना च्छत्रेणाभूद्यस्याः समुन्नतिः ॥
॥८.७२॥
अनिमेषवधूभिश्च वन्द्या यस्या दिदृक्षया ।
अनिमेषदशां लब्धुं सख्यस्तृष्णामकुर्वत ॥
॥८.७३॥
कृष्णाद्या वामपुरतः पुरताह्पूर्णिमादयः ।
यस्याः सव्यपुरो देव्यश्चक्षुःपूर्णामृतं व्यधुः ॥
॥८.७४॥
तस्या वृन्दावनेश्वर्या भूषां कर्तुमथागताः ।
तद्रूपवैभवेनाल्यः स्वयमासन्विभूषिताः ॥
॥८.७५॥
(पञ्चदशभिः कुलकम्)
आकल्पारम्भणे तस्मिंस्तस्यां प्रत्यफलत्प्रभोः ।
मुखश्रीः कापि तद्युक्तं सैव तत्पर्तिकर्म यत॥
॥८.७६॥
प्रसाधनाय राधाया दृष्ट्वा देवीः समुत्सुकाः ।
सख्यः प्रोचुरिमां स्पृष्ट्वा प्रागाशिषयत स्वयम् ॥
॥८.७७॥
तत्केशवेशकर्मासीत्प्रसूतिर्विश्वकर्मणः ।
तस्माज्जन्मगुणस्तस्या यस्मिन्द्विगुणितामगात॥
॥८.७८॥
तता काण्डपटी ताभिः पुनः काण्डमवाप्यसौ ।
या दृष्टिकाण्डाभेद्यापि ध्यानभेद्या हरेरभूत॥
॥८.७९॥
आयत्यां च वितत्यां च नितम्बः केवलस्तदा ।
स्रस्तस्य कचहस्तस्य मर्यादां पर्यविन्दत ॥
॥८.८०॥
व्यञ्जता मञ्जुलं भव्यं नेपथ्यारम्भसम्भृतम् ।
मुक्तेन केशमेघेन ववृषे पुष्पसंहतिः ॥
॥८.८१॥
केशपाशः स जेता च नीलनीरमुचां रुचा ।
कृष्णापूर इवान्योन्यं संमर्दादिव भङ्गवान॥
॥८.८२॥
यदा तस्याः केशमेघा ववृषुः सौरभामृतम् ।
विजह्रुस्तर्हि कृष्णस्य श्वासप्रश्वासचातकाः ॥
॥८.८३॥
हरिदृक्पद्ममेवैतान्यत्पपौ केशपद्मपान।
तदस्य किमिहावेशाद्भावे विनिमयो मिथः ॥
॥८.८४॥
रूक्षितत्वेऽपि ये स्निग्धाः वियुतत्वेऽपि ये युताः ।
केशास्तेषु वृथैवासीद्वस्त्रकङ्कतिमार्जनम् ॥
॥८.८५॥
मृष्टं तनुपटेनासौ राधायाश्चारु कैशिकम् ।
मणिकङ्कतिकाग्रेण पतिस्वं संव्ययीयवत॥
॥८.८६॥
भृशं भ्रमति चेदभ्रे चिरश्रीरचिरप्रभा ।
तदोपमीयते राधाकेशे रत्नप्रसाधनी ॥
॥८.८७॥
परितोऽथ परिष्कृत्य कराभ्यां कचसञ्चयम् ।
सीमन्तं रचयाञ्चक्रे सीमान्तं सा वरश्रियाम् ॥
॥८.८८॥
साथ वृन्दावेन्श्वर्या वेण्या बन्धनमातनोत।
बाढमासीन्मुकुन्दस्य मङ्क्षु शृङ्खलितं मनः ॥
॥८.८९॥
प्रसूनमणिफुल्लश्रीस्तस्या वेणीव या लता ।
तदूर्ध्वं लोलभृङ्गाणां लीलामापुः सखीदृशः ॥
॥८.९०॥
प्रवेणीशिखरे तस्या न्यस्तं चन्द्रकिचन्द्रकम् ।
तत्र बद्धे कृष्णचित्ते काममुद्रेव राजते ॥
॥८.९१॥
रेजे पुष्पेषुतूण्येव वेण्या पुष्पितया तया ।
सा गता काण्डपृष्ठत्वं निर्जेतौमजितं यया ॥
॥८.९२॥
संज्ञात्वेन यथात्मानं तथा च्छायामनन्दयत।
छायात्वं वा सखीत्वं वा तद्धेतुः किमुत द्वयम् ॥
॥८.९३॥
राधामूर्धाणमाघ्राय संज्ञया चापचक्रमे ।
प्रसाधयितुं तां छाया वाञ्छया चोपचक्रमे ॥
॥८.९४॥
शीर्षण्ये नलिकाक्लिन्ने तस्याः कङ्कतिमार्जिते ।
तया चित्रं कृतं रेजे तारावारवदम्बरे ॥
॥८.९५॥
सिन्दूररेखा तन्मूर्धमध्ये रेजे तयार्पिताम् ।
सा दध्रे यद्रुचा कृष्णनेत्रपद्मे विरेजतुः ॥
॥८.९६॥
सीमन्तपट्टीं विस्पष्टमहारत्नां तयार्पिताम् ।
सा दध्रे यद्रुचा कृष्णनेत्रपद्मे विरेजतुः ॥
॥८.९७॥
स्वच्छरत्नावलीमौलिः सा बभ्राजे यदन्तरे ।
कापि बिम्बितलक्ष्मीर्वा कवरश्रीरलक्ष्यत ॥
॥८.९८॥
शोणाम्बरतले तस्यामुत्तंसग्रहसङ्ग्रहः ।
तदन्तर्गुप्तवक्त्रेन्दुं व्यक्तं कुर्वन्नदृश्यत ॥
॥८.९९॥
पुण्ड्रं पश्चादहं दद्यामिति देव्या निवेदिताः ।
सौख्यप्रसाधनं तस्या व्यधुः सख्यः प्रसाधनम् ॥
॥८.१००॥
यासां वैस्वर्यवैवर्ण्यपुलका एव सात्त्विकाः ।
कम्पस्तम्भादिभावाभिस्तद्वेषे ताः पुरस्कृताः ॥
॥८.१०१॥
रेजे भ्रमरकश्रेणीसखीभावं गता लता ।
रोचनापल्लवमयी कस्तूरीरचिता परम् ॥
॥८.१०२॥
अलिपालिद्वयीचुम्बिस्वर्णाब्जच्छदसम्पदा ।
चिल्लीपत्रावलीमध्ये भालमस्या व्यरोचत ॥
॥८.१०३॥
कृष्णधाम्नोपगूढे च सदा कृष्णैकतर्षिणी ।
इतीव चक्षुषी तस्या ररञ्जाते वराञ्जनैः ॥
॥८.१०४॥
रेजाते नेत्रकमले तस्याः कज्जलरेखया ।
मनोजेन नवे शस्त्रे धाराग्रेणेव संस्कृते ॥
॥८.१०५॥
नूनं विधात्रा राधायाच्चपले वीक्ष्य चक्षुषी ।
श्रुतिमर्यादया शिष्टे तथापि बत तादृशे ॥
॥८.१०६॥
किं तस्या वर्त्मनां वृन्दे नेत्रकैरवयोरली ।
यद्विधूदयवेलासु रसानाकर्षतस्तयोः ॥
॥८.१०७॥
तस्या भ्रूधनुषा नासावज्रपुष्पशरे युते ।
मुक्ताफलं कृष्णसारं नाविध्यापि विध्यति ॥
॥८.१०८॥
भ्रमद्भ्यां भ्रमराभ्यां वा दृगन्ताभ्यां सुचुम्बिते ।
तस्या वतंसैरुत्फुल्ले रेजतुः श्रुतिसल्लते ॥
॥८.१०९॥
वयर्थ्यमाययु लोध्रपरागः पाण्डुगण्डयोः ।
स्वर्णावतंसे विन्यस्तेऽविन्दत्सन्ध्याविधुद्युतिम् ॥
॥८.११०॥
अस्याः कस्तूरिकाचित्रं यद्विरेजे कपोलयोः ।
किन्तरां तदगादिन्दोः कलायास्तु कलङ्किताम् ॥
॥८.१११॥
ओष्ठहल्लकमुत्फुल्लं सदालक्षि श्रिया ययोः ।
ते तस्यां द्विजपङ्क्ती द्वे द्विजराजतयेक्षिते ॥
॥८.११२॥
स्वत ओष्ठपुटे रक्ते स्मितेनापाटलीकृते ।
ताम्बूलश्रीर्वृथा भूता सलज्जेव व्यलीयते ॥
॥८.११३॥
रुरुचे चिबुकं तस्या गन्धोरुश्यामबिन्दुना ।
शयानेनेव भृङ्गेण पाइक्माम्रफलीतले ॥
॥८.११४॥
अस्याः कपोलदम्भालिभालचन्द्रा यदाननम् ।
अधीशमिव सेवन्ते तत्तूल्योऽभूत्स लाञ्छनी ॥
॥८.११५॥
स्पृष्टा करेण कंसारेः कदापि सुरसुभ्रुवाम् ।
पाय्चजन्यभ्रमं धत्ते या तद्ग्रीवा रराज सा ॥
॥८.११६॥
श्रीराधा श्रीहरिर्वा तत्प्रेमा वेति त्रिकं परम् ।
वस्त्विति व्यञ्जती ग्रीवा रेजे तस्यास्त्रिरेखिका ॥
॥८.११७॥
कृष्णनामाङ्कितं देव्या ग्रैवेयकमरोचत ।
सदान्तश्चारि तन्मन्त्रमहोव्यक्तिमिवागतम् ॥
॥८.११८॥
तदंसौ रेजतुर्नम्रौ हरिदोर्मणियूपयोः ।
असकृद्वहनेनेव स्रग्भारेणाथवा किल ॥
॥८.११९॥
हरेर्विहारसरसी सा सत्यमभितोऽपि याम् ।
आरोहदेशमासन्नं सन्नालं सरसीरुहम् ॥
॥८.१२०॥
अधिदोः स्वस्तिकं कृष्णेनाश्लेषे मणिमालिका ।
मण्डनं स्वयमङ्केन तस्या भवति मण्डनी ॥
॥८.१२१॥
मणिकिर्मीरिते तस्याः प्रगण्डयुग्ममण्डिते ।
अङ्गदे रेजतुर्ये तु कृष्णे भृशमनङ्गदे ॥
॥८.१२२॥
तस्या रेजुर्महारत्नकर्बुरद्योतकर्बुराः ।
प्रकोष्ठधाम्नोः कटकाः कलेन चटका इव ॥
॥८.१२३॥
स्तवकौ पारिहार्यस्य तस्या मुक्तामुखौ शिती ।
किं तौ पाण्यम्बुजस्कन्नं पिबन्तौ मधुपौ मधु ॥
॥८.१२४॥
एतस्याः पाणितलयो रेजे यावकजो द्रवः ।
उदयद्भास्वतो रश्मी रक्तसारसयोरिव ॥
॥८.१२५॥
राधया करशाखासु या धृताः परितोऽपि ताः ।
ऊर्मिका इव कंसारेरूर्मीरस्य हृदि व्यधुः ॥
॥८.१२६॥
तस्या नखरमाणिक्यलक्ष्मीमनु मनोरमाः ।
ऊर्मिकामणयोऽदीव्यन्यथा तां ललितादयः ॥
॥८.१२७॥
भुजयोरन्तरं रेजे स्तनस्तवकसङ्कुलम् ।
ते हि कल्पलतालीलामीयतुर्मधुसूदने ॥
॥८.१२८॥
तदुरोजमणिश्यामकञ्चुलीव्यतिषङ्गजाः ।
इन्द्रचापनिभा रेजुः शोभा हारबलाकया ॥
॥८.१२९॥
उरो गुञ्जादिहारेण तस्या हारि न केवलम् ।
हरेश्चित्तं हरत्येवमपि हारितया मतम् ॥
॥८.१३०॥
हारास्ते न परं शौरेश्चेतसः पश्यतो हराः ।
आत्मीयतरले मङ्क्षु साङ्क्रामन्त्यास्तनोरपि ॥
॥८.१३१॥
स्तननव्याब्जयोरस्याः पायं पायं रसार्णवम् ।
सूक्ष्मरोमालिभिर्नाभिबिलं मधुगृहीकृतम् ॥
॥८.१३२॥
तदा तस्याः कृशोदर्या वलयः कामतर्पणात।
उपेन्द्रे वलितां याता येन द्वाःस्थायितां स तु ॥
॥८.१३३॥
अस्यां तुलसिकामाला मध्यमा रङ्गणस्रजोयः ।
रेजे यत्रापि भृङ्गाणां मालादृब्धेव दृश्यते ॥
॥८.१३४॥
पञ्चबाणस्य बाणानां व्यूहश्रेण्येव तां हरिः ।
पञ्चवर्णप्रसूनानां मालयापश्यदञ्चिताम् ॥
॥८.१३५॥
तस्या न वर्ण्यते मध्यं मध्येश्रोणिपयोधरम् ।
मांसलानां सभापातीकृशो वा केन गण्यते ॥
॥८.१३६॥
तस्याः श्रोणिफलं वासो वव्रे वासोऽथ मेखलाम् ।
मेखला कलमाधुर्यं कृत्स्नमेव हरेर्मनः ॥
॥८.१३७॥
सर्वाक्षिप्रतिबिम्बाम्बुजन्मवश्याभिराजितौ ।
तेनतुः कर्मतामस्या मञ्जुशिञ्जानहंसकौ ॥
॥८.१३८॥
मञ्जिरौ खञ्जनावङ्घ्री पद्मे तत्रेति निश्चितम् ।
तयोः श्रुते तयोः शब्दे हरेः फलति कामना ॥
॥८.१३९॥
पादाङ्गुलीयकान्यस्या मणिजानि विरेजिरे ।
चारुताराचयश्रीणि नखचन्द्रावलीमनु ॥
॥८.१४०॥
अपूर्वां रचयित्वा तु विधिस्तामङ्घ्रिकञ्जयोः ।
चित्रं सौभाग्यमुद्राद्यं स्वशिल्पव्यञ्जकं व्यधात॥
॥८.१४१॥
सखीकराम्बुजस्पर्शादेव तत्पादपल्लवौ ।
अलं शोणीकृतौ लेभे मृषा लाक्षारसो यशः ॥
॥८.१४२॥
राधाङ्गधामसाम्राज्ये जाम्बूनदविभूषणम् ।
दधार काञ्चनक्षौणेरिन्द्रगोपावलीमहः ॥
॥८.१४३॥
भूषणान्यपि लावण्ये तस्या भूषात्वमैयरुः ।
स्रवन्त्यः स्फुटमायान्ति महत्त्वं सिन्धुसीमनि ॥
॥८.१४४॥
स्वमातृप्रेषितां ब्रह्मकन्या सौगन्धिकस्रजम् ।
दातुं वष्टि स्म यर्ह्यन्तःपटी विघटितीकृता ॥
॥८.१४५॥
तस्या गृहीत्वा शिवया कण्ठे कृष्णस्य नर्मणा ।
निदधे मालिका तत्रावेशव्याजाद्भ्रमादिव ॥
॥८.१४६॥
स्मित्वा तां यौम्नाचख्यौ माल्यं सख्याः कथं मम ।
भ्रातृसादकृथाः किं वां किं वा प्रेमा करोति न ॥
॥८.१४७॥
तस्यामपलपन्तीव देवी स्वां नर्मचातुरीम् ।
सदास्मि भ्रान्तिशीलेति व्यञ्जयन्ती स्मितानना ॥
॥८.१४८॥
अपि हारेण तां मालां हरन्ती हरिवक्षसः ।
स्वमाल्यं नय देवीति राधाया निदधे हृदि ॥
॥८.१४९॥
(युग्मकम्)
सुराब्जमायोपर्यस्या विरराज मुखाम्बुजम् ।
पार्श्वयोरग्रतः श्रेणीकृतै राजा निजैरिव ॥
॥८.१५०॥
भूषणस्योपजीव्या च सा रेजे हारतो यतः ।
चित्रं तदापहारेऽपि प्रससाद भृशं हरिः ॥
॥८.१५१॥
मुक्तावल्या मदाल्याः किं परपुंसस्तनुस्पृशा ।
इत्येतद्व्याजतः कृष्णा राधाहारं हरौ न्यधात॥
॥८.१५२॥
पश्य लोलुपया गर्वं दर्शयन्त्यापि संसदि ।
प्रत्याख्ययेव हारोऽसौ हरेर्विनिमितोऽनया ॥
॥८.१५३॥
इति कृष्णोरसि न्यस्य करं हारिणि पार्वती ।
तद्विलेपनकस्तूरीं रसधारामिवोदिताम् ॥
॥८.१५४॥
आदायानुल्बणं स्मेरा वृषाभानुकुलश्रियः ।
लिलेख तिलकं भाले तिलकं निजजातिषु ॥
॥८.१५५॥
(सन्दानितकम्)
विदग्धयोस्तयोस्तेन नर्मणा सकला सभा ।
सिस्मिये यत्कृते पुष्पवर्षं तत्र व्यलोकि न ॥
॥८.१५६॥
निचोलावृतसर्वाङ्गी जगृहे सा प्रबोधनम् ।
बकारेरपि यत्रासीन्मनोजस्य प्रबोधनम् ॥
॥८.१५७॥
सुखाभा तन्मुखान्तर्यद्विरेजे कृष्णवीक्षया ।
तच्छाया भैरुद्व्यक्ता व्यानशे कृष्णमप्यथ ॥
॥८.१५८॥
सङ्क्रामन्त्यास्तदा तस्यामर्पिते मणिदर्पणे ।
सङ्क्रामय्य प्रियं पर्वण्युपजह्रुरिवालयः ॥
॥८.१५९॥
सा मिथःप्रतिबिम्बाप्तप्रियासङ्गा मदालसा ।
दर्पणार्पणकारिण्यां भुजकल्पलतामधात॥
॥८.१६०॥
स्वजनेनाभितो व्यक्तैः कृष्णराधादिसङ्गमैः ।
ध्यानं मदनगायत्र्या दर्पाणार्कस्थमैक्ष्यत ॥
॥८.१६१॥
ततो राधा स्वाभिर्मुहुरुपहृतैर्भूषणगणैर्
धृतैः कैश्चित्कैश्चित्कृतपरिधिभावैः स्वमभितः ।
विराजन्ती ताश्च स्वयमथ पुरस्कृत्य विविधैर्
अलङ्कारैस्तस्मिन्न्यशमयदुपश्लोकितमिदम् ॥
॥८.१६२॥
अयि श्रीगोविन्दप्रियवनमहादेवि सुषमा
तवालङ्कर्त्रीयं भुवनगृहरत्नं विधुमपि ।
अलङ्कारान्धत्ते स्वयमपररत्नैः करुणया
स्फुटं तद्दीनानां स्वभजनरतिं नः प्रथयति ॥
॥८.१६३॥
कचान्तः सिन्दूरादितमरुणतामञ्जनरुचा
तथाक्षिद्वन्द्वं ते शिति मणिसरैः कर्बूरमुरः ।
तवाशेषे गौरि प्रचुरयशसा श्वेतति पदे
गुणाः किं ते कान्त्याहुतिमित इतः प्रापुरभितः ॥
॥८.१६४॥
तवोत्तंसः शीर्ष्णि श्रवणयुगले कुण्डलयुगं
तथा घ्राणे मुक्ता हृदि विविधमालासमुदयः ।
ककुद्मत्यां काञ्ची करपदयुगे कङ्कणमुखं
किमामुक्तिं भेजे किमथ हृदये नः शशिमुखि ॥
॥८.१६५॥
विराजन्ती हस्ताधरकिशलयैर्भूषणमणि
प्रसूना तन्वाना द्युतिभरपरागान्दिशि दिशि ।
सुधावर्षिण्येषा स्मितमनु चलन्नेत्रमधुपा
विधात्री कामान्वः किमिह सुरवल्ली विलसति ॥
॥८.१६६॥
परो दाता लोकः कटकमुकुटाद्यैः कविजनान्
विरोचिष्णून्हृष्टः प्रियसखि समन्ताद्वितनुते ।
स्वयं धृत्वा तानि स्फुरितवपुषा त्वं निजरुचा
चिरत्नां रत्नालङ्कृतिरुचिमहो नो दमयसि ॥
॥८.१६७॥
शणी छत्रं ज्योत्स्ना व्यजनयुगमृक्षावलिरलं
क्रियाजातं जज्ञेऽजनिषत चकोरा जनदृशः ।
कथं राधे दाम्ना वसितमिव माल्यप्रतिभटः
मिलद्भृङ्गं ह्रीणा त्वमपलपितासि स्तुतिकृति ॥
॥८.१६८॥
असौ ते सौन्दर्योन्नतिततिरियं वेशरचना
वयोलक्ष्मीरेषा हरिसखगुणोन्मीलितमदः ।
इदं लीलाराज्यं वरदयितभाग्याम्बुधिरयं
विधात्रा लब्धैतद्व्यतिघटनमस्मान्भ्रमयति ॥
॥८.१६९॥
इदं श्रुत्वा सर्वैः प्रचुरपुलकैः सभ्यनिवहैः
समं राज्ञ्या दत्तं स्तुतिकृतिगणे भूषणशतम् ।
ददाने तु श्रीशे स तु कविजनः कौस्तुभमणिं
स्वयं प्रेम्णा नादादपि निजमनःस्थं कमितवान॥
॥८.१७०॥
रसततिभिरितीयं प्राप्य दिव्याधिराज्यं
हरिजलधरवर्यं शश्वदुल्लासयन्ती ।
स्वजननयनरूपामूष्णती चातकालीं
निखिलजनदृगम्भोनिम्नगां सुष्ठु तेने ॥
॥८.१७१॥
व्रजवनगणराज्ये राजपट्टाभिषिक्तेर्
अधिकमधिगतश्रीर्मञ्जुकुञ्जासनस्था ।
हरिमुखविधुलक्ष्म्या सान्द्रितैरत्र भावैर्
मणिभिरपि समन्तादुज्ज्वला पातु राधा ॥
॥८.१७२॥
निजगुणगणदाम्ना विप्रमुक्तान्निरुन्धे
प्रणयविनयजालै रुध्यते तैः समन्तात।
अथ च विपथपन्नं त्रायते मद्विधं यस्
तमिह महितरूपं कृष्णदेवं निषेवे ॥
॥८.१७३॥
इति श्रीराधाभिषेकचरिते श्रीमाधवमहोत्सवनाम्नि महाकाव्ये
उज्ज्वलराधिको नाम
अष्टम उल्लासः
॥८॥
*****************************************
.
(९)
नवम उल्लासः
उन्मदराधिकः
गान्धर्वायाः सिंहपीठप्रयाणे
तस्मिन्योगीन्द्रादिजल्पोऽनुकूलः ।
वायुश्चासीद्वासनामाधुरीभिर्
यौ तौ लोकैस्तुष्टिदौ तुष्टुवाते ॥
॥९.१॥
अथोन्मूखीयमुद्बभौ नृपासनोदयाद्रये ।
हरेः सहाशया यथा विधोरखण्डमण्डली ॥९.२॥
निखिलसभासु निरीक्ष्य फुल्लदृक्षु
प्रियतमवंशकलादिवाद्यवन्द्ये ।
अजिरवरेऽवततार साथ राज्ञी
स्फुरदुरुमङ्गलसङ्गतक्रमेण ॥
॥९.३॥
छत्रमुखक्षितिपालकलक्ष्मा
सक्तकरैः स्वजनैरनुषद्भिः ।
स्तब्धतामपि गतं निजदेहं
तद्गुणेन किल कृष्टममानि ॥
॥९.४॥
देववृष्टमनुयन्प्रतिपुष्पं
यश्च यश्च मधुलुब्धतयासीत।
तत्र दिव्यमधुपः स स तस्यां
प्राप तत्तदुपदातुमिवाथ ॥
॥९.५॥
पञ्चवर्णपटवाससंहतिं
सम्भजद्भिरिह पुष्पपांशुभिः ।
लाजवृन्दमपि पुष्पमण्डलैर्
वृष्टिरप्रथत दृष्टिमोहिनी ॥
॥९.६॥
अथ तामनिमेषवीक्षणाद्
अधिषट्यः सममेव विस्मिताः ।
भुवि दिव्यपि वन्दिसुभ्रुवः
स्तुवते स्म प्रतिकान्तिविभ्रमम् ॥
॥९.७॥
उपरि यत्र वनं विरलायते
सपदि तत्र मुदा सुरसुभ्रुवाम् ।
अजनि भानुसुतामवलोकितुं
रथकुलेऽथ परस्परघटना ॥
॥९.८॥
अथ कक्षात्रितयादधीश्वरी
स्वगणैः पट्टगृहान्तमागता ।
उदयाद्रिस्थलमण्डलादिव
ग्रहवृन्दैर्नभ इन्दुमण्डली ॥
॥९.९॥
स्फुटचम्पकालिभिरभाजि
वरणपदमूढजातिभिः ।
यत्र भजति भगणः सशशी
खलु तासु तोरणविलासभूरिताम् ॥
॥९.१०॥
दिशि दिशि मधुपाः सगोत्रभावाद्
बहुरुचि पुष्पलतालयावलिभिः ।
पतदथ मणिसानुबुद्धि यस्मिन्
घनकुलमच्छ पतन्ति मत्सरेण ॥
॥९.११॥
विविधरागसुपरागमण्डलैर्
मलयजानिलविलासलालितैः ।
निजकणैरिव परीतमुच्चकैर्
लसति यत्र मणिमुद्रिताङ्गनम् ॥
॥९.१२॥
मणिकुट्टिमं कुसुमपुञ्जिनि यत्र
प्रसवश्रियाधिवसति द्रुमराजः ।
हरिदासवर्यगिरिमस्तजकूट
प्रचितस्थले मणिरुचा मुरजिद्वा ॥
॥९.१३॥
सोऽयं कृष्णवनस्य भूरुहां
राजा यत्र विचित्रभूरुहः ।
यस्मादेव विभाति सार्वया
लक्स्मा तेषु नृपांशभागिव ॥
॥९.१४॥
शोभास्पदप्रसवसारसम्पदा
वृन्दावनस्य च गुणैर्वृतोऽखिलैः ।
कल्पद्रुमं स जितवानिदं कियद्
यत्राश्रिता व्यसनिता हरेरपि ॥
॥९.१५॥
मलयगिरिभुवं गन्धसारवल्लीं
स तरुरुदवहद्यत्र फुल्लदङ्गः ।
खगरुतिमणितं तेन चारु जज्ञे
यदनिशमपि तद्भाति नातिचित्रम् ॥
॥९.१६॥
अधियत्सुरशाखिनायकः
स मिथश्च प्रतिकूलधर्मिणीः ।
स्वगुणैरखिला ऋतुश्रियो
मिलितीकृत्य सदोपगूहते ॥
॥९.१७॥
स विराजति यत्र भूरुहेन्द्रः
श्रितसिंहासनकाञ्चनप्रकाण्डः ।
कनकांशुकशोभिताधराङ्ग
स्थिरपद्मासनरीतिरच्युता वा ॥
॥९.१८॥
मणिकलसीनां वीथी घन
रसपूर्णा यदाश्रिता सुभगा ।
चलपल्लवरदवसना
भृङ्गध्वनिभिर्जगौ भव्यम् ॥
॥९.१९॥
दीपा यदभिविरेजुरुदग्राः
कज्जलमोचिशिखालसदग्राः ।
श्रेणीरचनावलितालिकुलाः
किं वा स्वर्णसरोरुहमुकुलाः ॥
॥९.२०॥
मणिचत्वरपार्थिवासन
दुर्मरत्नगृहादयो मिथः ।
अधियद्बत साधवोऽपि ते
परितः परभागमाहरन॥
॥९.२१॥
यत्र नार्पमासनं तदङ्घ्रिपीठशोभिसीम ।
राधिकाङ्घ्रिसेवनार्थशिष्यतोकसेवितं वा ॥
॥९.२२॥
इदं राजासनं यस्मिन्सेवितं विविधासनैः ।
समासविधिना भेजे राजदन्तादितामिव ॥
॥९.२३॥
तुलिका यदनु राजपीठग
व्याघ्रमुख्यमृगचर्मपञ्चका ।
काञ्चनाद्रिगतधातुचित्रगा
चन्द्रदीधितिरिवाभिराजते ॥
॥९.२४॥
सुगन्धसम्पूटदुरापसूनवत्
पुटाच्छगेण्डुकविलासनीरजैः ।
विभाति यत्र च तदीयतुलिका
यथेयमञ्चति सुखानि पार्थिवी ॥
॥९.२५॥
यस्मिन्नृपासनमिदं स्वनिवेशमात्रात्
कृष्णेन सञ्जयति तां परिभिन्नदृष्टेः ।
राज्येऽपि सम्पदियमत्र परा परस्माद्
उत्फुल्लता यदुदभूदनयोः सदापि ॥
॥९.२६॥
आस्थानं तदिदमुदीक्ष्य पीठलक्ष्म्या
गोविन्दस्फुरणभृताथ सा विशाखाम् ।
आलम्ब्य क्षणमयते स्म चित्रभावं
स्वं भावं सममनुकुर्वताखिलेन ॥
॥९.२७॥
(सप्तदशभिः कुलकम्)
हरिरसौ सखि पुरश्चलन्नपि
क्षितिपपीठमधिरूढवानपि ।
चलदृशा तरुगृहान्निचाययन्
मदभिमोहरचनो निवार्यताम् ॥
॥९.२८॥
तदा च तस्या निजकेलिवल्ली
समा समुल्लासितरा विशाखा ।
तदीयगुप्तोक्तिसुधाभिराभिर्
बभार सद्यः पुलकाङ्कुरालिम् ॥
॥९.२९॥
(युग्मकम्)
उपसुरतरु राधाकृष्णयोर्विश्वमेव
द्युतिभरममरीणां पातुकामा तु दृष्टिः ।
अपरमपि न भागं तस्य लेभे सभान्तर्
विविशतुरुत पीतां तेन तौ तां विधाय ॥
॥९.३०॥
राधा स्थिता भविकभागभिराजपीठं
नीराजितापि शतशो जननेत्ररत्नैः ।
नीराज्यते मणिवरैरथ वृन्दया स्म
प्रेम्णा कृते न पुनरुक्तिरितीव तत्र ॥
॥९.३१॥
विश्वग्वाद्येऽनवद्ये जयजयभणितैर्बृंहिते लोकसङ्घे
सिञ्चत्यन्योन्यमस्रैर्मधुभिरपि मुदा जङ्गमे स्थावरे च ।
पुष्पौघे वृष्यमाणे बकशमनमनोवृत्तिलक्षे विलक्षे
गान्धर्वा भद्रपीठं त्रिभुवननयनैरर्च्यमानारुरोह ॥
॥९.३२॥
श्रीगान्धर्वा ललितापाणिपद्मं
धृत्वा कृत्वा चरणौ चाङ्घ्रिपीठे ।
आलीभिः स्वहृदये वोढुमिष्टाप्य्
आरोहत्तत्प्रमुदे सिंहपीठम् ॥
॥९.३३॥
स भवति शशी हैमी धाम्नाचला दिविषल्लता
मणिगिरिशिरः फुल्ला क्रामेदसौ च पुरो दिशि ।
कलयति तथाप्यस्या दीव्यद्विलासतनुश्रियोऽ
रुणमपि न तद्भूभृत्पीठाधिरोहकलाजुषः ॥
॥९.३४॥
ध्रुवा द्यौरिति पूर्वांशे बटुभिः पठिते मनौ ।
राधां न्यवीविशत्तस्मिन्नीराज्य मुनिपुङ्गवा ॥
॥९.३५॥
निर्मञ्छिता सा मणिदीपमालया
समञ्चितस्वान्तधनो जनो बभौ ।
उपविशत्पीठवरे हरेः प्रिया
तदा सभानेत्रसुखं समुत्थितम् ॥
॥९.३६॥
उपरि सितातपत्रलसितस्फुटपुष्पवितानमुल्लसद्
विसरुचिचामरार्चिरभितः कनकासनमेतया स्थितम् ।
सितरुचिदीव्यदृक्षरुचिरं निजया सुरसिन्धुशीकर
व्रजयुगमोचि मेरुशिखरं द्युतिदेवतयेव दिद्युते ॥
॥९.३७॥
नीराजने तत्र मणिप्रदीपकास्
तस्या महोभिः कृतसङ्क्रमा रुचिम् ।
सम्भेजिरे द्वित्रगुणां सदाश्रयाद्
अच्छो न को वा खलु याति सम्पदः ॥
॥९.३८॥
वृन्दामुख्याः फुल्लमुखाब्जं वनदेव्यः
स्वीयां देवीं तामनमस्यन्सममत्र ।
जातौ दध्रे नो परमाभिर्विबुधत्वं
गान्धर्वाया भक्तिमहिम्नां समयेऽपि ॥
॥९.३९॥
गिरितरुलतौषधीनां
ह्रदह्रदिनीतीर्थदेशदेवानाम् ।
तनवो दिव्याः सत्त्वैः
सममगमंस्तत्र भूभृतः सदसि ॥
॥९.४०॥
अथ महनीयजनान्प्रति स्वयं
नवनृपयाभिमते तयासने ।
इह पुरतो हरये मुदा विचार्य
निभृतमिमं त्रिविधं व्यधाद्विकल्पम् ॥
॥९.४१॥
प्रियां निजे पुरस्कृतां नृपासने
विना क्षमा किमन्यगा हरेः स्थितिः ।
पुरोदिशं पुरो गिरौ सुरज्य वा
किमप्युदासितुं सितांशुरर्हति ॥
॥९.४२॥
राज्ये सिद्धेऽस्मिन्भानुपुत्र्या मुकुन्दो
नैकस्मिन्पीठे स्थातुमीष्टे तया तु ।
चन्द्राह्वामुग्धः सोऽपि सूर्याह्वयाङ्गाद्
वक्तायां लक्ष्म्यामाश्नुते ताश्च लक्ष्मीः ॥
॥९.४३॥
यतो मित्राल्लज्जावलितवदनुद्भावितकले
विधावह्नः प्रान्ते नवकुमुदिनी मानकृदिव ।
न वक्त्राग्रान्मुद्रा विसृजति गते तत्र तु मुधा
तदालीनां दृश्यः स्फुरति स तयो रङ्गनिकरः ॥
॥९.४४॥
इति कृतमतिपूर्णिमायादमुं
हरिमनु समदत्त रत्नासनम् ।
पृथुघृणिघटया तदप्यात्मना
यदतनुत नृपासनेनैकताम् ॥
॥९.४५॥
पृथक्पदस्थावपि तौ तदान्तिके
मिथः स्फुरन्तौ जगतां मनस्यपि ।
स्वयं स सर्वैश्च विनिश्चितौ चिराद्
एकत्र पीठे विहितस्थिती इति ॥
॥९.४६॥
अभिमुखमुदयाचलद्वयं
व्यतिवसतेऽत्र च किं विधू विधून।
जनयत इति राजदासनौ
स्मितवदनावथैतौ जगौ जनः ॥
॥९.४७॥
अयमिह मणिवेद्यां कल्पशाखी तमालः
स्फुटमियमिह दिव्या कापि गाङ्गेयवल्ली ।
द्युतिकिसलयवृन्दं द्वाविइमौ सङ्गमार्थं
मिथ इव तनुतस्तावेवमेके शशंसुः ॥
॥९.४८॥
न्यविशत मुदा नतभ्रू
जनता मान्या परीत्य गान्धर्वाम् ।
कनकालुकां सुधायाः
सुरवीथी वा विलोडने सिन्धोः ॥
॥९.४९॥
दीव्यत्कुसुमसुवर्षे कृष्णस्मितभरसान्द्रे ।
आडम्बरवरलक्ष्म्या नृत्ते जगदनुवृत्ते
॥९.५०॥
स्तुतिकृज्जल्पे जनसुख
बाष्पावलिशुक्तिस्फुटमुक्ताकल्पे ।
गान्धर्वाया विलसित
वृन्दं भरतीसङ्घेष्वनुविदधत्सु ॥
॥९.५१॥
आलीसङ्घे निजास्यश्रीवृन्दपीयूषसिन्धोः
श्वसोल्लासेन चञ्चद्वक्षोजमस्थानशैलात।
आविर्भूतामिवैनामारूढशुभ्रांषुपीठां
मध्ये तत्स्पृष्टलक्ष्मीं निर्माति चाश्चर्यलक्ष्मीम् ॥
॥९.५२॥
वृन्दाटवीकनकदण्डविभूषणानि
छायामहो ददति यामनु भानुपुत्रीम् ।
छायाममूमनुभजन्ति सदा स्म पश्येत्य्
उत्फुल्लनेत्रमिह पश्यति लोकसङ्घे ॥
॥९.५३॥
अवददिदं भगवतीह
गुरुभिरियमत्र लज्जते ।
व्रजकुलहृदयपते तद्
असौ भवता सखीः समधिकार्य नन्द्यताम् ॥
॥९.५४॥
(पञ्चभिः कुलकम्)
हरिरपि निभृतार्पितां राधयापाङ्गलीलावलिं
सपदि नतदृशा समादाय चादेशमालामिव ।
अधिकृतिमदिशत्प्रतिस्वं सखीभ्यो वरैर्भूषणैर्
इदमिदमिति यद्वचोऽपूरयन्नर्मणा पूर्णिमा ॥
॥९.५५॥
राधिकास्यचन्द्रबन्धुतस्तदोदितं हरेर्
वक्त्रसम्पुटात्पटुस्मितस्तु चारुचन्दनम् ।
पौर्णमासजल्पचन्द्रवासितं न कस्य वा
धूमिकानिभं बहिस्तथान्तरं व्यधादिह ॥
॥९.५६॥
एधि त्वं ललिते सा वृन्दाकाननराज्ञ्या
राधाया युवराज्ञी नाम्नैवास्यनुराधा ।
प्रेम्णा द्वन्द्वचरी या वन्यायां विभूतायां
स्वं जैवातृकमग्रे कृत्वा सन्दधसेऽत्र ॥
॥९.५७॥
मतिसचिवपदं शाधि तस्या विशाखे
मतिरपि युवयोरेकरूपा यथाख्या ।
अपघनमहसा त्वां च वृन्दावनश्रीर्
अनिशमपि भजेत्त्वत्कृतैः सान्त्वमन्त्रैः ॥
॥९.५८॥
एवं तत्प्रभृतीनां कृत्वासौ विनियोगं
तद्वत्तत्प्रतिरूपाः काश्चित्तत्र विधाय ।
वृन्दामन्वितवृन्दां वन्यापालनकृत्ये
सम्मान्याभरणाद्यैराद्यैष्तामवति स्म ॥
॥९.५९॥
ततश्च वृन्दावनवासिनः स्वकान्
यथायथं तेन कृतप्रसादकान।
मुनीश्वरी स्वाननवर्णमद्भुतं
यातापि शीर्णाखिलवर्णमब्रवीत॥
॥९.६०॥
फुल्ला वल्लीवधूभिर्वितरत रुचितं शाखिसभ्या द्विजेशा
गानं सारङ्गसङ्घैः कुरुत मृगजना गर्वपूर्वं रमध्वम् ।
आभिः श्रीराधयास्मिन्निजगणपतिभिर्जुष्टयाबोधि राष्ट्रं
कृष्णं वृन्दां नयन्त्या शुचिपदविरसौ भाति राजन्वती भूः ॥
॥९.६१॥
आचार्यां पूजयित्वाथ पौर्णमासीमधीश्वरी ।
ग्रहाधिपतिभार्ये च बटुत्रयमपूजयत॥
॥९.६२॥
शैलूषसूतमगधादिकुलाङ्गनाभिस्
तस्मिन्कला निजनिजा कलयाम्बभूवे ।
दत्तावधानमपि तत अमत्र सर्वं
स्वस्वाभिमुख्यरसिकं खलु मेनिरे याः ॥
॥९.६३॥
अमुष्याश्चरित्रस्मृतिप्रावृतानां
महेनामुना शाच्वदुद्घूर्णितानाम् ।
नटीनां तदा लास्यमस्ति स्म नाट्यं
कदाचित्तु नृत्यं च तण्डुप्रणीतम् ॥
॥९.६४॥
स्तोत्रकोलाहलं तस्मिन्नशृणोद्वृषभानुजा ।
यत्स्तोत्रतामगादन्यास्वथ वल्गद्गुणोष्मसु ॥
॥९.६५॥
वृन्दाकाननदेवि सोमसमतां प्राग्व्यज्य कीर्तिश्रिया
पद्माङ्गं मधुसूदनेन रहितं चक्रे यया त्वत्कया ।
चित्रं चित्रमहो महामहिमभिर्ब्रह्माण्डकोटिस्थिता
चन्द्रावल्यपि हन्त शश्वदनया निष्कृष्णलक्ष्मा कृता ॥
॥९.६६॥
कदाचिद्भूभागं दहति घृणिसृष्ट्यैव विफलं
कदाचिद्वा भास्वानवति जलवृष्ट्या मरुमपि ।
प्रतापस्ते राधे युगपदमृतेन स्वकजनान्
सदा सिञ्चत्युच्चैर्ग्लपयति तु तापेन विमुखान॥
॥९.६७॥
दुग्धाम्भोनिधिभावमम्बुधिततिर्ज्योत्स्नीगुणं तामसी
श्वेतद्वीपपदं जगाम सहसा चित्रं तमोभूरपि ।
वृन्दाकाननदेवदेवि यशसांवृन्दाद्भवत्या यतस्
तस्मादेव हरौ सदा कथमहो श्यामारुचिर्वर्धते ॥
॥९.६८॥
श्रीलवृन्दावनेशे जिगीष्वेव तेजस्तव प्राग्
विजित्यैव चन्द्रावलीमन्यतः
साधुसाधारणं मृग्यदक्ष्णोऽपि कोणं सहस्राक्ष
पत्न्यामदत्त्वा विधेरङ्गनाम् ।
सौष्ठवासद्विधिं जानदेतामुमेत्याह्वयाद्यां
दशां स्वाह्वया लम्भयद्गर्वितां
पार्वतीं प्रसृतां च श्रियं स्वाश्रिय सन्त्यजज्
जेजयीत्यङ्गतामेव लीलाकृते ॥
॥९.६९॥
राज्यं कृष्णविलासभू सवयसः कृष्णस्य ताः सुप्रियाः
प्रेयानेष च कृष्ण एवमधिभु त्वं तु त्वमेवासि भोः ।
तर्हि श्रीवृषभानुनन्दिनि मनस्तत्तत्तया चित्रतां
गच्छन्नः कथमीहतां स्तुतिकथां तेनात्र किं कथ्यताम् ॥
॥९.७०॥
एवं विद्यावृन्दचित्रं दधानाः
सभ्यैः सार्धं तत्तदाभ्यां वितीर्णम् ।
चिन्तारत्नं मेनिरे ता न चित्रं
लब्ध्वा स्मेराण्येतयोर्वीक्षितानि ॥
॥९.७१॥
राधिकाथ मधुहन्तुरुद्यता
माधुरीपरिमलेन शीलिते ।
गौरवे सदसि घूर्णदन्तरा
नम्रनेत्रयुगला व्यचिन्तयत॥
॥९.७२॥
गुरुषु यद्बत पश्यसि केशवं
ननु तदेव सुदैवमिति स्मर ।
न कुरु हन्त दुरन्तमनः पुनः
प्रणयकेलिषु तत्र च लालसाम् ॥
॥९.७३॥
इह महसा विलासनिलयेऽमुनातिचेतोहरे
कथमपि लालसै रुषितया मयाद्य लब्धो हरिः ।
यदि गुरुभिः सहैव गमनं भजेदसौ दुर्लभो
बत कथमालितते हृदयाचिषस्तु सोढासि मे ॥
॥९.७४॥
त्वं मानवह्नेरवितां विधाय मां
हरीन्दुना राजपदेऽभिषेच्य च ।
कथंविधे साम्प्रतमालिलिङ्गिषाद्
अवेन तस्याभिदुतां न रक्षसि ॥
॥९.७५॥
इह सहवासिता रहसि वां मधुरेति पृथङ्
मधुरिपुराधिके प्रति रहः प्रतियत्नकृत्योः ।
तदतुलभावमन्त्रिवरयोरनुभावबुधा
विबुधवधूरथो भगवती मुदिताभिदधे ॥
॥९.७६॥
अस्मिन्युष्माभिः सदसि नृपपदे साधु राधाभिषिक्ता
लक्ष्मीः पीयूषैरनिमिषमपि वोऽसिञ्चदस्याश्चिराय ।
सेयं शालीनानिशमपि दधतां सान्द्रमामोदवृन्दं
स्वैरं स्वाराज्ये धृततदुपकृतास्तद्भवत्योऽपि देव्यः ॥
॥९.७७॥
पाणिभिः साक्षतैः कम्प्रतारोचनैर्
लोचनैश्चामृतस्राविभिस्तर्षिभिः ।
देवतायोषितस्तां तदाधीश्वरीं
गद्गदं प्रोचिरे सम्मदादाशिषः ॥
॥९.७८॥
राधे सदा कृष्णवनान्तरुन्मदा
स्वभागधेयं भज कान्तमन्तिके ।
अनैरनासाद्यमिदं सदः सदाप्य्
अस्माद्भजेदुन्मदराधिकप्रथाम् ॥
॥९.७९॥
योगीन्द्रायां विहितविनया यथायथमर्चिता
देव्यः स्वाभिः स्वपदमचलन्हरौ मुहुरीक्षणम् ।
यद्गान्धर्वावपुषि च दधुश्चिरादुपगूहनं
ताभिस्तेनाजनि परिचयः पथोऽप्यथ दुष्करः ॥
॥९.८०॥
अन्ये च केचिद्व्रजयोषितां कृते
सन्देशदम्भात्प्रहिता मुनीशया ।
बभाज राधा भविकाभिषेचनं
मयाविता चेह वसेत्क्षपामिति ॥
॥९.८१॥
हरिमपि सावदद्विहितनित्यविधिरीषदहं
पुनरियमाव्रजामि ननु यावदवतात्तदिमाम् ।
अथ जननीं प्रनन्द्य पुनरेहि यदसौ विधिना
वसति निशामिहांमदवितेति पुनरन्तरधात॥
॥९.८२॥
धेनुवीक्षणाय यामि सोऽहमित्थमेष चाह
तत्प्रयाणमङ्ग वीक्ष्य पश्यति स्म सर्वतश्च ।
पुप्लुवे च राधिकाञ्चि पीठमेव राजलक्ष्म
चित्रमत्र वीक्षितं च मेघविद्युदङ्गधाम ॥
॥९.८३॥
तदनु कलनमनु दिग्वररामा
विलसितविहसितवृन्दमिवाथ ।
समपतदिह सुरधामवधूनां
सजयभणिततति पुष्पजवर्षम् ॥
॥९.८४॥
अधिक्षितिभृदासनं रुचिभरेण तौ दम्पती
पुरोगिरिहरिन्मणिप्रकरचन्द्रलेखारुचः ।
बलादहरतां यथा मकरकेतनः स्वस्थितिं
विहाय सहसावहन्मुहुरबाधनिःसीमताम् ॥
॥९.८५॥
अन्योन्यं त्विट्सदमृतनदीमज्जनाद्वक्त्रसोमा
मोदास्वादाद्रसनृपसभादीक्षितौ क्ÿप्तकामौ ।
राधाकृष्णौ व्रजवनमहाराजसिंहासनस्थौ
तौ रेजाते सपदि कृतया राजसूयश्रियमेव ॥
॥९.८६॥
वृन्दारण्यक्षितिनिजविभुतारक्षिवत्कंसवैरी
सम्भ्रान्तोऽपि श्रवणगचलदृक्कोणबाणैरविध्यत।
विद्धाप्येषा तदुदितविभुता भ्रूधनुर्द्राक्चकर्ष
स्वीयं जातु प्रथयति न जनश्छिद्रमूर्जस्विभावः ॥
॥९.८७॥
दृष्ट्वा काकूत्थस्तुतिभिरपि तां स्वेन चाराध्यमानां
भुग्नामेवास्ये व्यधित बहुधा माधवः साधुभङ्गीः ।
पूर्वं क्ÿप्तश्चेद्भवति विफलो मन्त्रणातन्त्रविद्भिर्
बुद्ध्या साधीयाम्स्त्वरितमपरः साधनीयो ह्युपायः ॥
॥९.८८॥
आरोहस्त्वं किमिति शठ नः सिंहपीठं प्रियाल्याः
सेयं मुग्धा मम नरपतेः पट्टदेवीति सिक्ता ।
इत्थं स्वैरं विवदनमपि प्रेमसंवादरीतिं
संवादः सोऽप्यसमशरतां प्राप यत्तन्न बुध्ये ॥
॥९.८९॥
मृषारोषावेशादथ भगवतीं यान्तीः सखीर्नोत्सवे
भवेदद्य द्वन्द्वं सदृशमिति सा मीमांसिता श्वः पुनः ।
इति स्मेरं वृन्दा विनयविलसद्भङ्गीभृतैर्भङ्गुरैः
करेणाकर्षन्ती कथमपि किल व्याघोटयत्पाटवैः ॥
॥९.९०॥
वृन्दा तद्युग्मलीलातृषितमतिगतीरप्यमूर्वीक्ष्य मिथ्या
द्वन्द्वव्यञ्जिप्रलापाः स्फुटमिदमवदत्तत्र हासं विधातुम् ।
हुङ्कारेणालमस्मद्वनपतिममुकं चास्मदीयाधिराज्ञी
सेयं स्वीयानुभावैः सपदि वशयिता शश्वदस्मादृशं च ॥
॥९.९१॥
तद्वाण्यां धववाचितां पतिपदे नीत्वा सखीः सस्मिता
वामाश्चाभिनिरूप्य फुल्लनयनप्रान्तश्रिया तामपि ।
पश्यन्ती ललितां विलोचनकलां तस्मिन्ददाना प्रिये
भूयः कम्रविलासिनम्रवदना साभूद्विशाखासखी ॥
॥९.९२॥
दृष्ट्वा राधां किमपि कलितास्य प्रसादां मुकुन्दः
किं त्वं कान्ते क्षिपसि तमिमं सुक्षणं स्वक्षणं च ।
एवं प्रोच्य स्वहृदि कलयंस्तत्कराब्जं बलेन
स्मेरोदस्रां स निजभुजयोरन्तरे तां चकार ॥
॥९.९३॥
सव्येनालिङ्ग्य राधामसुररिपुर् असवेय्न तद्बाष्पपूरं
दूरं चक्रे करेण प्रतिमुहुरपि तत्क्लेअदमाशङ्कमानः ।
नाजानादेष यत्तु स्वनयनसलिलस्वेदसम्प्लाविताङ्गी
साधारण्यं तदाधात्पुनरियमभिषेकस्य तस्यापि तत्र ॥
॥९.९४॥
वृन्दारण्ये सुरतरुसभारत्नवेदीमहिष्ठे
पीठे राधा महसि महिता राजलक्ष्म्यादिलक्ष्म्या ।
कृष्णाङ्कस्था न यदुपमिता नैष दोषः कवीनां
किं त्वस्याः श्रीभरमनु समस्याविधातुर्विधातुः ॥
॥९.९५॥
मिथः श्यामं ज्योतिः परिवहदभितो रागावकीर्णं मिथो
मिथः किर्मीरत्वं विरचयदमितालङ्कारलक्ष्म्याङ्गजम् ।
मिथो दृग्भ्यां वर्षत्प्रतिदिशममृतासारं दधानं गुणं
रसानां रूपाणामपि मिथुनमिदं रेजेऽधिराजासनम् ॥
॥९.९६॥
सा तस्याङ्के विपुलपुलकैरुन्मुखत्वं समन्ताल्
लब्धस्याक्ष्णोः प्रमदमदधात्फुल्लरोमालिमूला ।
यस्यामस्यामवयवकुलं नीपभावं प्रपेदे
यस्मिन्नस्मिन्नभजदभितो भृङ्गतामङ्गसङ्घः ॥
॥९.९७॥
स्वेदाश्रूभ्यां द्रवन्ती पुलकशवलनादङ्कुरान्भावयन्ती
स्तम्भं कम्पं च धर्त्री विलयगतमतिश्चित्रवैवर्ण्यवर्णा ।
वृन्दारण्याधिदेवी नवयुगयुगली शश्वदुत्फुल्लदङ्गी
विद्युत्त्वद्विद्युदाभाखिलजनममृतैः सिक्तमुच्चैश्चकार ॥
॥९.९८॥
सौन्दर्याणां शरीरं नवतरुणरुचां मन्दिरं सद्गुणानां
साम्राज्यं संमदानां धनमखिलकलासंसदामादिशास्त्रम् ।
स्मारस्वामोदभाजां सुरतरुकुसुमं स्वाश्रयाणां निधानं
श्रीराधामाधवाख्यं मिथुनमिह वने चारुराज्यं बभाज ॥
॥९.९९॥
सख्यो वीक्ष्याभिरूपं कमपि बत तयो रूपलीलाप्रकाशं
स्थित्वा षष्ठीवदस्मिन्प्रमदसमुदयैर्लब्धसंज्ञा पुनश्च ।
तौ गान्धर्वामुकुन्दौ व्यतिकरजमदान्मोहमुच्चैर्भजन्तौ
नानानर्मादिभङ्गीविरचनकलया चेतयामासुराशु ॥
॥९.१००॥
राधामूरौ निवेश्य स्फुटपुलकयुजा सान्त्वितां कंसहन्त्रा
ताम्बूलं तन्मुखान्तः स्वयमुपहरता तेन संलाल्यमानाम् ।
देवस्त्रीकीर्णपुष्पे जगति च मुदिते सिंहपीठे निविष्टां
ताः फुल्लाः सेवमाना नरपतिविभवैरित्थमुल्लस्य दध्युः ॥
॥९.१०१॥
सखीयं श्रीराधा स्वमहितजलधिं लङ्घयामास साङ्गं
पुनश्चावव्राज व्रजकुलजनिधेः काननीयं प्रदेशम् ।
निजश्रीसम्पद्भिः सपदि च विदधे तौ बलादेव वश्यौ
किमन्यद्वा हंहो हृदय वद सखे त्वन्मनोराज्यमिज्यम् ॥
॥९.१०२॥
इति भणितमखण्डं काव्यखण्डं निदिष्टं
गुरुभिरुचितयेदं मे धिया मेधया च ।
कथयितुमपि किञ्चिन्नाषडक्षीणमीशे
स्फुरति शशिनि वृत्तं यत्परं राजवृत्तम् ॥
॥९.१०३॥
इति रचितमखण्डं काव्यखण्डं रसज्ञैः
कथमपि तनुरंशः स्वद्यते यद्यमुष्य ।
फलति मम तदानीमेष कार्त्स्न्येन यत्नः
सकृदघरिपुलोकालोकितानामिवायुः ॥
॥९.१०४॥
व्रजविपिनमहीक्षित्पीठपृष्ठे प्रियाङ्के
प्रियविनिहितनानाभावमद्धा लिहाना ।
म्हुरिह पुलकाद्याकीर्णमोहं वहन्ती
वितरतु वरलक्ष्मीं राधिकोद्यन्मदश्रीः ॥
॥९.१०५॥
उभयभुवनभव्यं यः सदा मे विधाता
निधिवदपि यदीयं पादपद्मं निषेव्यम् ।
अकृपणकृपया स्वप्रेमदं सर्वदा यस्
तमिह महितरूपं कृष्णदेवं निषेवे ॥
॥९.१०६॥
इति श्रीराधाभिषेकचरिते श्रीमाधवमहोत्सवनाम्नि महाकाव्ये
उनमदराधिको नाम
नवम उल्लासः
॥९॥
समाप्तमपीदं काव्यम्
सप्तसप्तमनौ शाके जीवो वृन्दावने वसन।
स्वमनोरथवन्नव्यं काव्यमेतदपूरयत॥
**********************************************************
]