[[बालचरितम् Source: EB]]
[
[TABLE]
[TABLE]
PREFACE.
_______
This is termed Bâlacharita because it describes the feats performed by the young SrîKrishna from the sucking of the life of Pâlanâto the end of taking away the vital spirit of Kamsa.
In the verse,
“विन्ध्यमन्दरसारोऽयं बालः पद्मदलेक्षणः।
गर्भे यया धृतः श्रीमानहो धैर्येहि योषितः॥१२॥”
of the first Act the sentence “अहो धैर्ये हि योषितः” must be explained by supplying the ellipsis तस्याःऽuggested by the word यया. In so doing we have to lose the elegance of the meaning of the sentence denoted by the particle हिthat it is a general enunciation of a case deduced from a particular one: Hence the reading should be ‘‘गर्भेऽनया धृतः’’. ‘य’ might have been ignorantly inserted in the original manuscript by the scribe in the place of ‘न’. ‘अनया’ means ‘देवक्या’.
TRIVANDRUM.
T. GANAPATI SÂSTRÎ.
निवेदना।
_______
‘बालचरितम्’ इति बालस्य श्रीकृष्णस्य चरितं पूतनाप्राणचूषणादि कंसहननान्तमत्र वर्ण्यत इति कृत्वा। प्रथमाङ्कस्थे
“विन्ध्यमन्दरसारोऽयं बालः पद्मदलेक्षणः।
गर्भे यया धृतः श्रीमानहो धैर्यं हि योषितः॥१२॥"
इत्यस्मिन् पद्ये ‘यया’ इति यत्पदोपादानानुरोधात् ‘तस्या’ इत्यध्याहारेण ‘अहो धैर्यं हि योषितः’ इति वाक्यं पूरणीयम्। एवं तु अस्य वाक्यस्य हिशब्दस्वरसगम्यम् उक्तार्थसमर्थकसामान्यवाक्यरूपत्वमनादृतं स्यात्। अतो ‘गर्भेऽनया धृतः’ इति पाठः कर्तुं युक्तः। नकारस्थाने च प्रमादाद् यकारो मातृकायां लेखकेन निवेशितः स्यात्। ‘अनया’ इत्यस्य देवक्येत्यर्थः।
अनन्तशयनम्.
त. गणपतिशास्त्री.
पात्राणि ।
_____
पुरुषाः—
[TABLE]
| दामकः | कश्चिद् गोपालकः |
| गोपालकः | दामकः |
| अरिष्टर्षभः | असुरविशेषः |
| कालियः | यमुनाह्रदनिवासी महानागः |
स्त्रियः—
| देवकी | कृष्णस्य जननी |
| प्रतिहारी | देवक्या द्वारपालिका |
| धात्री | मायादारिकाया उपमाता |
| सर्वाः | चण्डालयुवतयः |
| कार्त्यायनी | कंसहस्तादुत्प्लुत्याकाशस्थिता देवी |
| सर्वाः | गोप्यो घोषसुन्दर्यादयः |
| राज्यश्रीः | राज्याधिदेवता |
| प्रतिहारी | कंसस्य द्वारपालिका मधुकरिका |
| प्रतिहारी | कंसस्य द्वारपालिका यशोधरा |
| कौमोदकी | तदभिमानिदेवता |
__________
॥ श्रीः ॥
श्रीगणेशाय नमः
महाकविश्रीभासप्रणीतं
बालचरितम्।
______
(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
** सूत्रधारः—**
शङ्खक्षीरवपुः पुरा कृतयुगे नाम्ना तु नारायण-
स्त्रेतायां त्रिपदार्पितत्रिभुवनो विष्णुः सुवर्णप्रभः।
दूर्वाश्यामनिभः स रावणवधे रामो युगे द्वापरे
नित्यं योऽञ्जनसन्निभः कलियुगे वः पातु दामोदरः॥
एवमार्यमिश्रान् विज्ञापयामि। अये किx खलु मयि विज्ञापन व्यग्रे शब्द इव श्रूयते। अङ्ग! पश्यामि।
(नेपथ्ये)
अहं गगनसञ्चारी।
** सूत्रधारः—**भवतु, विज्ञातम्।
पतत्यसौ पुष्पमयी च वृष्टि-
र्नदन्ति तूर्याणि च देवतानाम्।
द्रष्टुं हरिं वृष्णिकुले प्रसूत-
मभ्यागतो नारद एष तूर्णम्॥२॥
( निष्क्रान्तः )
( ततः प्रविशति नारदः )
** नारदः—**
अहं गगनसञ्चारी त्रिषु लोकेषु विश्रुतः।
ब्रह्मलोकादिह प्राप्तो नारदः कलहप्रियः॥३॥
भोः!
क्षीणेषु देवासुरविग्रहेषु
नित्यप्रशान्ते न रमेऽन्तरिक्षे।
अहं हि वेदाध्ययनान्तरेषु
तन्त्रीश्च वैराणि च घट्टयामि॥४॥
अपिच,
भक्तिः परा मम पितामहभाषितेषु
सर्वाणि मे बहुमतानि तपोवनानि।
सत्यं ब्रवीमि करजाग्रहता च वीणा
वैराणि भीमकठिनाः कलहाः प्रिया1मे॥५॥
तद् भगवन्तं लोकादिमनिधनमव्ययं लोकहितार्थे कंसवधार्थंवृष्णिकुले प्रसूतं नारायणं द्रष्टुमिहागतोऽस्मि। अये इयमत्र-
भवती देवकी। मायया शिशुत्वमुपागतं त्रिलोकेश्वरं प्रगृह्य वसुदेवेन सह शनैः स्वगृहान्निष्कामति। यैषा,
लोकानामभयकरं गुरुं सुराणां
दैत्यानां निधनकरं रथाङ्गपाणिम्।
शोकार्ता शशिवदना निशि प्रशान्ता
बाहुभ्यां गिरिमिव मन्दरं वहन्ती॥६॥
एष एष भगवान् नारायणः,
अनन्तवीर्यः कमलायताक्षः
सुरेन्द्रनाथोऽसुरवीर्यहन्ता।
त्रिलोककेतुर्जगतश्च कर्ता
भर्ता जनानां पुरुषः पुराणः॥७॥
हन्तैतदुत्पन्नं कलहस्य मूलम्। यावदहमपि भगवन्तं नारायणं प्रदक्षिणीकृत्य ब्रह्मलोकमेव यास्यामि। नमो भगवते त्रैलोक्यकारणाय।
नारायणाय नरलोकपरायणाय
लोकाननाय कमलामललोचनाय।
रामाय रावणविरोचनपातनाय
वीराय वीर्यनिलयाय नमो वराय॥८॥
(निष्क्रान्तः)
(ततः प्रविशति बालहस्ता देवकी)
देवकी—(क) हद्धि, पुत्तअस्स मे महाणुभावत्तणं सूअइस्सन्दाणि जम्मसमअसमुब्भूदाणि महाणिमित्ताणि पच्चक्खीकरअन्ती अवि कंसहद(अ)णिसंसत्तणं चिन्तअन्ती सुट्ठु ण पच्चआमि मन्दभाइणी। कहिंणु गदो अय्यउत्तो। (
परिक्रम्य अग्रतो विलोक्य
) अम्मो एसो अय्यउत्तो हरिसविह्मअफुल्लणअणो इदो एव आअच्छदि।
(ततः प्रविशति वसुदेवः)
वसुदेवः—(
सविमर्शम्
) भोः! किन्नुखल्विदम्।
भ्रमति नभसि विद्युच्चण्डवातानुविद्धै-
र्नवजलदनिनादैर्मेदिनी सप्रकम्पा।
इह तु (रहसि) नूनं रक्षणार्थं प्रजाना-
मसुरसमितिहन्ता विष्णुरद्यावतीर्णः॥९॥
(विलोक्य)
एषा देवकी,
अगणितपरिखेदा याति षण्णां सुताना-
मपचयगमनार्थं सप्तमं रक्षमाणा2।
________________________________________________________________
(क) हा धिक्, पुत्रकस्य मे महानुभावत्वं सूचयिष्यन्ति जन्मसमयसमुद्भूतानि महानिमित्तानि प्रत्यक्षीकुर्वत्यपि कंसहतकनृशंसत्यं चिन्तयन्ती सुष्ठु न प्रत्येमि मन्दभागिनी।क्वनु गत आर्यपुत्रः। अम्भोएषआर्यपुत्रो हर्षविस्मयफुल्लनयन इत एवागच्छति।
________________________________________________________
बहुगुणकृतलोभा जन्मकाले निमित्तैः
सुत इति कृतसंज्ञं कंसमृत्युं वहन्ती॥१०॥
** देवकी**— (
उपसृत्य
) (क) जेदु अय्यउत्तो।
** वसुदेवः**—देवकि! अर्धरात्रं खलु वर्तते। प्रसुप्तो मधुरायां3 सर्वो जनः। तस्माद् यावन्न कश्चित् पश्यति, तावद् बालं गृहीत्वापक्रामामि।
देवकी— (ख) कहिं अय्यउत्तो इमं णइस्सदि।
** वसुदेवः** — देवकि! सत्यं ब्रवीषि। अहमपि न जाने। किन्तु, एकच्छत्रच्छायां पृथिवीं समाज्ञापयति दुरात्मा कंसः। तत् क्वनु खल्वयमायुष्मान् नेतव्यो भविष्यति। अथवा यत्र दैवं विधास्यति, तत्र बालं गृहीत्वापक्रामामि।
देवकी— (ग) अय्यउत्त! इच्छामि दाव णं सुदिट्ठंकत्तुं।
** वसुदेवः**— अयि अतिपुत्रवत्सले!
किं द्रष्टव्यः शशाङ्कोऽयं राहोर्वदनमण्डले।
त्वयाप्यस्य सुदृष्टस्य कंसो मृत्युर्भविष्यति॥११॥
___________________________________________________________
(क) जयत्वार्यपुत्रः।
(ख) कार्यपुत्र इमंनेष्यति।
(ग) आर्यपुत्र! इच्छामि तावदेनं सुदृष्टं कर्तुम्।
_________________________________________________________
** देवकी—** (क) सव्वहाण भविस्सदि।
** वसुदेवः—** यद् भवत्याभिहितं तत् सर्वदैवतैरभिहितं भवतु। आनय।
** देवकी—**(ख) गह्णदु अय्यउत्तो।
** वसुदेवः—**(
गृहीत्या
) अहो गुरुत्वं बालस्य। साधु,
विन्ध्यमन्दरसारोऽयं बालः पद्मदलेक्षणः।
गर्भे यया धृतः श्रीमानहो धैर्यं हि योषितः॥१२॥
देवकि! प्रविश त्वमभ्यन्तरम्।
** देवकी—** (ग) एसा गच्छामि मन्दभाआ। (
निष्क्रान्ता
)
** वसुदेवः—**एषा देवकी,
हृदयेनेह तत्राङ्गैर्द्विधाभूतेव गच्छति।
यथा नभसि तोये च चन्द्रलेखा द्विधाकृता4॥१३॥
हन्त प्रविष्टा देवकी। यावदहमपि नगरद्वारं संश्रयामि एष भोः,
___________________________________________________________
(क) सर्वथा न भविष्यति।
(ख) गृह्णात्वार्यपुत्रः।
(ग) एषा गच्छामि मन्दभागा।
________________________________________________________
प्रथमसुतविनाशजातमन्यु-
र्नृपतिभयाकुलितः प्रगृह्य बालम्।
त्वरिततरमिह प्रयामि मार्गे
गिरिमिव मन्दरमुद्वहन् भुजाभ्याम्॥१४॥
(परिक्रम्य)
इदं नगरद्वारम्। यावत् प्रविशामि।
(प्रविश्य)
अये प्रसुप्तो मधुरायां सर्वो जनः। यावदपक्रामामि।
(परिक्रम्य)
निष्क्रान्तोऽस्मि मधुरायाः। अहो बलवांश्चायमन्धकारः। सम्प्रति हि,
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः।
असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता॥१५॥
अहो तमसः प्रभुत्वम्।
अप्रकाशा इव दिशो घनीभूता इव द्रुमाः।
सुनिविष्टस्य लोकस्य कृतो रूपविपर्ययः॥१६॥
नाहं गन्तुं समर्थः। अये दीपिकालोकः। किन्नुखलु दुरात्मा कंसो ममापक्रमणं ज्ञात्वा दीपिकाभिः परिवृतो मां ग्रहीतुमागतो भवेत्। भवत्वहमस्य दर्पप्रशमनं करोमि।
(खङ्गमुत्कोशयति) (निवृत्यावलोक्य)
अये न कश्चिद् दृश्यते। आ,
तमसा संवृते लोके मम मार्गमपश्यतः।
अपक्रमणहेतोस्तु कुमारेण प्रभा कृता॥१७॥
एष मार्गः। यावदपक्रामामि। अये इयं भगवती यमुना कालवर्षसम्पूर्णा (स)न्नि(हि)ता। अहो व्यर्थोमे परिश्रमः। किमिदानीं करिष्ये। भवतु, दृष्टम्।
इमां नदीं ग्राहभुजङ्गसङ्कुलां
महोर्मिमालां मनसापि दुस्तराम्।
भुजप्लवेनाशु गतार्थविक्लबो
वहामि सिद्धिं यदि दैवतं स्थितम्॥१८॥
(
तथा कृत्वा सविस्मयम्
) हन्त द्विधा छिन्नं जलम्, इतः स्थितम्, इतः प्रधावति। दत्तो मे भगवत्या मार्गः। यावददपक्रामामि।
(अवतीर्य)
निष्क्रान्तोऽस्मि यमुनायाः। अये हुङ्कारशब्द इव श्रूयते। व्यक्तं घोषसमीपे वर्तते मन्दभाग्यः। आ, अत्र च समीपघोषे मम वयस्यो नन्दगोपः प्रतिवसति। स खलु मया कंसाज्ञया निगलितः कशाभिहतश्च। यावत् प्रविशामि। अथवा रात्रौ वसुदेवः प्रविष्ट इति शङ्किता गोपालका भविष्यन्ति। तस्मादिह न्यग्रोधपादपस्याधस्तात् प्रभातवेलां रजन्याः प्रतिपालयामि। भो भो न्यग्रोधदेवताः! यद्ययं बालो लोकहितार्थः कंसवधार्थं वृष्णिकुले प्रसूतश्चेद्, घोषात् कश्चिदिहागच्छतु। न, न मम वयस्यो नन्दगोप एवागच्छतु।
(
ततः प्रविशति दारिकां गृहीत्वा नन्दगोपः
)
नन्दगोपः—
(सशोकम्) (क)
दालिए! दालिए! किं दाणि
_________________________________________________________
(क) दारिके!दारिके! किमिदानीं नो गेहलक्ष्म्यां न रन्त्वाततो न उज्झित्वा
_________________________________________________________
णो गेहलष्षिंणलमिअ तदो णो उज्झिअ णं गच्छषि। षम्पदि हि महिषषदसम्पादषदिषं अहो बलिअं अन्धआलं।
दुद्दिणविणट्ठजोह्णालत्ती वट्टइ णिमीलिआकाला।
षम्पाउदप्पषुत्ता णीलणिवषणा जहा गोवी॥१९॥
अज्ज हि अड्ढलत्ते अह्माणं कुडुम्बिणीए जषोदाए पषूदा इअं च दाली तवष्षिणी जादमत्ता एव्व ओग्गदप्पाणा षंवुत्ता। षुवे अह्माणं घोषष्ष उइदो इन्दयञ्ञोणाम उष्षुवो भविष्षदि। ता मां खु एदं दुक्खं गोवजणेहि अणुहूअमाणं त्ति मए एक्काइणा णिगलगुलुचलणेण इमं दालिअं गह्णिअ णिग्गदो ह्मि5। जषोदा वि तवष्षिणी णैव जाणादि दालओ वा दालिआ वा पषूद त्तिमोहं गदा। दालिए! दालिए!
_______________________________________________________
ननु गच्छसि। संप्रति हिमहिषशतसंपातसदृशमहो बलवदन्धकारम्।
दुर्दिनविनष्टज्योत्स्ना रात्रिर्वर्तते निमीलिताका(रा? शा)।
संप्रावृतप्रसुप्ता नीलनिवसना यथा गोपी॥१९॥
अद्य ह्मर्धरात्रेऽस्माकं कुटुम्बिन्या यशोदया प्रसूतेयं च दारी तपस्विनी जातमात्रैवापगतप्राणा संवृत्ता। श्वोऽस्माकं घोषस्योचित इन्द्रयज्ञो नामोत्सवो भविष्यति। तद् मा खल्वेतद् दुःखं गोपजनैरनुभूयमानामिति मयैकाकिना निगलगुरुचरणेनेमां दारिकां ग्राहयित्वा निर्गतोऽस्मि। यशोदापि तपस्विनी नैव जानाति दारको वा दारिका वा प्रसूत इति मोहं गता। दारिके! दारिके!।
___________________________________________________________
** वसुदेवः—** को नु खल्वयं रात्रौ परिदेवयति। अस्मत्सब्रह्मचारी खल्वयं तपस्वी।
** नन्दगोपः—**
(क)
किं दाणिं णो गेहलष्षिं णलमिअ तदो णो उज्झिअ णं गच्छषि।
** वसुदेवः—** स्वरेण प्रत्यभिजानामि। मम वयस्येन नन्दगोपेन भवितव्यम्। यावच्छब्दापयामि। वयस्य नन्दगोप! इतस्तावत्।
** नन्दगोपः—**
(सभयम्) (ख)
अविहा को दाणि मं षुदपुलुवेण विअ षलयोगेण णन्दगोव! णन्दगोव! त्ति मं षद्दावेदि। किण्णुलक्खशो वा, आदु पिपाषो वा। ईदिसीए पदिभअला अणीए मदलिआ दालिआ मम हत्थे। किंणुहु कलिष्षं।
** वसुदेवः—** वयस्य नन्दगोप! अलमन्यशङ्कया। इतस्तावत्।
** नन्दगोपः—**
(कर्णं दत्त्वा। सावधानम्) (ग)
अम्मो षलयोगेण भट्टा वपुदेव त्ति जाणामि। जाव उवषप्पिष्षं। अहवतहि मम किं कय्यं। एदिणा कंषष्य लञ्ञो वअणं षुणिअ अवलद्धो
_______________________________________________________________
(क) किमिदानीं नो गेहलक्ष्म्यां नरन्त्वा ततो न उज्झित्वा ननु गच्छसि।
(ख) अविहा क इदानीं मां श्रुतपूर्वेणेव स्वरयोगेन नन्दगोप! नन्दगोप! इति मां शब्दयति। किंनु राक्षसो वा, उत पिशाचो वा। ईदृश्यां प्रतिभयरजन्यां मृता दारिका मम हस्ते। किन्नुखलु करिष्यामि।
(ग) अम्भोस्वरयोगेन भर्ता वसुदेव इति जानामि। यावदुपसर्प्स्यामि।
__________________________________________________
कषाहि तालिअ णिअलेहि बद्धोह्मि। ता ण गमिष्षं। अहव धिक्खु मे णिषंषभावं। मम गुणषहष्षंकिदं, दुक्खे दुक्खइ, षुहे षुहिणो होदि, तहवि षुमलामि लाअषाषणेण किदं एक्कबन्धणं। जाव उवषप्पिष्षं। इयं दाली। किं कलिष्षं। होदु एवं दाव कलिष्णं।
(उपसृत्यावलोक्य च। सविस्मयम्)
पभादा लअणी। एषो भट्टा वषुदेवो दालअं गह्णिअ ट्ठिदो।
(उपसृत्य)
जेदु भट्टा जेदु।
** वसुदेवः—** वयस्य नन्दगोप! अपि भगवतीभ्यो गोभ्यः कुशलम्।
** नन्दगोपः—**
(क)
आम भट्टा! कुषलं।
** वसुदेवः—** अथ भवतः परिजनस्य कुशलम्।
** नन्दगोपः—**
(ख)
परिजणमिति। आम भट्टा! कुषलं।
** वसुदेवः—** वयस्य! किमिदानीं प्रच्छाद्यते।
__________________________________________________________________________
अथवा तत्र मम किं कार्यम्। एतेन कंसस्य राज्ञो वचनं श्रुत्वापराद्धः कशाभिस्ताडयित्वा निगलैर्बद्धोऽस्मि। तत्रगमिष्यामि। अथवा धिक् खलु मे नृशंसभावम्। मम गुणसहस्रं कृतं, दुःखे दुःख्यति, सुखे सुखी भवति, तथापि स्मरामि राजशासनेन कृतमेकबन्धनम्। यावदुपसर्प्स्यामि। इयं दारी। किं करिष्यामि। भवत्येवं तावत् करिष्यामि। प्रभाता रजनी। एष भर्ता वसुदेवो दारकं गृहीत्वा स्थितः। जयतु भर्ता जयतु।
(क) आम भर्तः! कुशलम्।
(ख) परिजनमिति। आम भर्तः! कुशलम्।
_______________________________________________________
** नन्दगोपः—**
(क)
भट्टा! णत्थि किञ्चि।
** वसुदेवः—** मम खलु प्राणैः शापितः स्याद्, यदि सत्यं न ब्रूयात्।
** नन्दगोपः—** (ख) का गई। षुणादु भट्टा। अज्ज अड्ढलत्ते अह्माणं कुडुम्बणी(ए), णहि णहि, तुह्माणं दाषीए जषोदाए पषूदा इअं च दाली तवष्षिणी जादमत्ता एव्व ओग्गदप्पाणा षंवुत्ता। षुवे अह्माणं घोषष्ष उइदो इन्दयञ्ञोणाम उष्षवो भविष्यदि। ता मा खु एदं दुक्खं गोवजणेहि अणुहूअमाणं त्ति मए एक्काइणा णिगलगुलुचलणेण इमं दालिअं गह्णिअणिग्गदो ह्मि। जषोदा वि तवष्षिणी णैव जाणादि दालओ दालिआ वा पषूद त्ति मोहं गदा।
** वसुदेवः—** हन्त भोः! न शक्यं लोकस्याधिष्ठानभूतं कृतान्तं वञ्चयितुम्। वयस्य! काष्ठभूतं कलेबरं त्यज्यताम्।
** नन्दगोपः—**(ग) ण षक्कुणोमि भट्टा! ण षक्कुणोमि।
** वसुदेवः—** ईदृशो लोकधर्मः। त्यज्यताम्।
__________________________________________________________________________
(क) भर्तः! नास्ति किंचित्।
(ख) का गतिः। शृणोतु भर्ता। अद्यार्धरात्रेऽस्माकं कुटुम्बिन्या, नहि नहि, युष्माकं दास्या यशोदया प्रसूतेयं च दारी तपस्विनी जातमात्रैवापगतप्राणा संवृत्ता। श्वोऽस्माकं घोषस्योचित इन्द्रयज्ञो नामोत्सवो भविष्यति। तद् मा खल्वेतद् दुःखं गोपजनैरनुभूयमानमिति मयैकाकिना निगलगुरुचरणेनेमां दारिकां ग्राहयित्वा निर्गतोऽस्मि। यशोदापि तपस्विनी नैव जानाति दारको दारिका वा प्रसूत इति मोहं गता।
(ग) न शक्नोमि भर्तः!न शक्नोमि।
__________________________________________________________________
** नन्दगोपः—**
(क)
जं भट्टा आणवेदि। दालिए! दालिए!
(इति रोदिति)
** वसुदेवः—** वयस्य! अलमलं रुदितेन। उत्तिष्ठोत्तिष्ठ।
नन्दगोपः—
(तथा कृत्बोपगम्य) (ख)
जेदु भट्टा। इमिणा दाषजणेण किं कत्तव्वं।
** वसुदेवः—** वयस्य! ननु त्वमपि जानासि दुरात्मना कंसेन मम षट् पुत्रा निधनमुपानीता इति।
** नन्दगोपः—**
(ग)
जाणामि भट्टा! जाणामि।
** वसुदेवः—** तत् सप्तमोऽयं दीर्घायुः। नास्ति मम पुत्रेषु भाग्यम्। तव भाग्याज्जीवितुं गृह्यताम्।
** नन्दगोपः—** (घ) भाआमि भट्टा! भाआमि। जदि कंषो लाआ षुणादि—वषुदेवष्ष दालओ णन्दगोवष्ष हत्थे णाषो णिक्खित्तो त्ति, किं बहुना, गदं एव्व मे षीषं।
_______________________________________________________________
(क) यद् भर्ताज्ञापयति। दारिके! दारिके!।
(ख) जयतु भर्ता। अनेन दासजनेन किं कर्तव्यम्।
(ग) जानामि भर्तः! जानामि।
(घ) बिभेमि भर्तः!बिभेमि। यदि कंसो राजा शृणोति—वसुदेवस्य दारको नन्दगोपस्य हस्ते न्यासो निक्षिप्त इति, किं बहुना, गतमेव मे शीर्षम्।
_________________________________________________________
वसुदेवः—
(आत्मगतम्)
हन्त विपन्नं कार्यम्। उक्तज्ञाः खलु नृशंसाः। तदेवं कथयामि।
(प्रकाशम्)
वयस्य नन्दगोप!
यद्यस्मि भवतः किञ्चिन्मया पूर्वकृतं भवेत्।
तस्य प्रत्युपकारस्य कालस्ते समुपागतः॥२०॥
** नन्दगोपः—**
(क)
किं किं पच्चुवकालं त्ति। जदि कंषोवा होदु, कंषष्ष पिदा उग्गषेणो वा होदु। आणेदु भट्टा दालअं।
** वसुदेवः—** वयस्य! गृह्यताम्।
** नन्दगोपः—**
(ख)
भट्टा! अचोक्खिदझि, मदलिआ दालिआ गहीदा। मुहुत्तअं पडिवालेदु भट्टा। जावजमुनाह(लं?लअं) गच्छिअ चोक्खं कलेमि।
** वसुदेवः—** वयस्य! घोषवासात् प्रकृत्या शुचिरेव भवान्।
नन्दगोपः—
(ग)
तेण हि अह्माणं घोषष्षउइदं पङ्खुणा चोक्खं कलेमि।
________________________________________________________________
(क) किं किं प्रत्युपकार इति। यदि कंसो वा भवतु, कंसस्य पिताग्रसेनो वा भवतु। आनयतु भर्ता दारकम्।
(ख) भर्तः! अशौचितोऽस्मि, मृता दारिका गृहीता। मुहूर्तकं प्रतिपालयतु भर्ता, यावद् यमुनाह्रदं गत्वा शौचं करोमि।
(ग) तेन ह्यस्माकं घोषस्योचितं पांसुना शौचं करोमि।
____________________________________________________
** वसुदेवः—** कोऽत्र दोषः। क्रियतां शौचम्।
** नन्दगोपः—**
(क)
जं भट्टा आणवेदि।
(तथा कुर्वन् सविस्मयम्)
अच्छलीअं अच्छलीअं भट्टा! अच्छलीअं। पङ्खूणि मग्गमाणष्ण धलणीं भिन्दिअ जुगप्पमाणा षलिलधाला उट्ठिदा।
** वसुदेवः—** बालस्यैव प्रभावः। क्रियतां शौचम्।
** नन्दगोपः—**
(ख)
भट्टा! तह।
(तथा कृत्वोपसृत्य)
भट्टा!
अअह्मि।
** वसुदेवः—** गृह्यताम्।
** नन्दगोपः—**
(ग)
भट्टा! अदिदुब्बला मे बाहा मन्दलषदिषं बालअं गह्णिदुं ण षमत्था।
** वसुदेवः—** वयस्य! महाबलपराक्रमः खलु भवान्।
** नन्दगोपः—**
(घ)
षुणादु भट्टा मम बल(पल)क्कमं। षन्दालिअमाणे वषभे षिङ्गं गह्णिअ मोचेमि। पङ्कुणिमग्गाणि भण्डषअडआणि आघट्टआमि। ईदिषो दाणि अहं दालअं गह्णिउं ण षमत्थोह्मि।
______________________________________________________________
(क) यद् भर्ताज्ञापयति। आश्चर्यमाश्चर्यंभर्तः! आश्चर्यम्। पांसून् मार्गयतो धरणीं भित्वायुगप्रमाणा सलिलधारोत्थिता।
(ख) भर्तः। तथा। भर्तः। अयमस्मि।
(ग) भर्तः! अतिदुर्बलौमे बाहू मन्दरसदृशं बालकं ग्रहीतुं न समर्थौ।
(घ) शृणोतु भर्ता मम बलपराक्रमम्। सन्दारयमाणे वृषभे शृङ्गं गृहीत्वा
_________________________________________________________
(ततः प्रविशन्ति पञ्चायुधानि गरुडश्च)
** गरुडः—**
अहं सुपर्णी गरुडो महाजवः
शार्ङ्गायुधस्यास्य रथो ध्वजश्च।
पुरा हि देवासुरविग्रहेषु
वहामि भो विष्णुबलेन विष्णुम्॥२१॥
** चक्रः—**
चक्रोऽस्मि6 कृष्णस्य कराग्रशोभी
मध्याह्नसूर्यप्रतिमोग्रतेजाः।
त्रिविक्रमे चामृतमन्थने च
मया हता दानवदैत्यसङ्घाः॥२२॥
** शार्ङ्गः—**
शार्ङ्गोऽस्मि विष्णुकरलग्नसुवृत्तमध्या
स्त्री विग्रहात् पुरुषवीर्यबलातिदर्पा।
यस्यार्थमाहवमुखेषु7 मयारिसङ्घाः
प्रभ्रष्टनागरथवाजिनराः प्रभग्नाः
(?)
॥२३॥
_____________________________________________________________
मोचयामि। पङ्कनिमग्नान् भाण्डशकटकान् आघट्टयामि। ईदृश इदानीमहं दारकं ग्रहीतुं न समर्थोऽस्मि।
_______________________________________________________
** कौमोदकी—**
कौमोदकी नाम हरेर्गदाह-
माज्ञावशात् (प्राक्) सरयूं प्रमथ्य।
मया हतानां युधि दानवानां
प्रपीडितं8 शोणितनिम्नगासु॥२४॥
** शङ्खः—**
(शङ्खोऽहमस्मि) क्षीरोदाद् विष्णुना स्वयमुद्धृतः।
मम शब्देन नश्यन्ति युद्धे ते देवशत्रवः॥२५॥
** नन्दकः—**
नन्दकोऽहं न मे कश्चित् सङ्ग्रामेष्वपराङ्मुखः।
गच्छामि स्मृतमात्रेण विष्णुना प्रभविष्णुना॥२६॥
** (श?च)9क्रः—**
चक्रशार्ङ्गगदाशङ्खनन्दका दैत्यमर्दनाः।
वासुदेवस्य कार्यार्थंप्राप्ताः पारिषदा वयम्॥२७॥
तस्मादागम्यताम्। वयमपि मनुष्यलोकमवतीर्णस्य भगवतो विष्णोर्बालचरितमनुचरितुं गोपालकवेषप्रच्छन्ना घोषमेवावतरिष्यामः।
** सर्वे—**
तथास्तु।
(विष्णुमुपस्थिताः)
** वसुदेवः—**वयस्य! बाल एव नमस्यताम्।
नन्दगोपः—
(क)
भट्टा! तह।लाअदालअ! ण मो दे णमो दे। ही,
(
दिहल होहि दूरत्तणय्येव अत्ताणं णिव्याभेभि?) गोपजणष्ष10तुमं गह्णिदुं को बलपलक्कमो।
** (श?च)क्रः—** नमो भगवते नारायणाय। भगवन्! महाविष्णो!
कार्याण्यकार्याण्य(
खिला)मराणां
त्वया भविष्यन्ति ब(ल?ला)नि लोके।
तस्माज्जनस्यास्य लघुत्वयोगात्
कुरु प्रसादं यदुवंशकेतो!॥२८॥
** वसुदेवः—** गृह्यताम्।
** नन्दगोपः—**
(ख)
जं भट्टा आणवेदि।
(गृह्णाति)
** वसुदेवः—** वयस्य! प्रभाता रजनी। प्रतिनिवर्ततां भवान्।
__________________________________________________________________
(क) भर्तः!तथा। राजदारक! नमस्ते नमस्ते। ही, (दि….?) गोपजनस्य त्वांग्रहीतुं को बलपराक्रमः।
(ख) यद् भर्ताज्ञापयति।
_______________________________________________________
** नन्दगोपः—**
(क)
अच्छलीअं अच्छलीअं भट्टा! अच्छलीअं। इमे बन्धणे पडिदे।
** वसुदेवः—** सर्वमेतत् कुमारस्य प्रभावः। प्रतिनिवर्ततां भवान्।
नन्दगोपः—
(ख)
जं भट्टा आणवेदि।
** वसुदेवः—** अथवा एहि तावत्।
** नन्दगोपः—**
(ग)
भट्टा! अअह्मि।
** वसुदेवः—**
जाने नित्यं वत्सलं त्वां प्रकृत्या
स्नेहोऽप्यस्मिन्नर्थ्यते रूढभावः।
अस्मिन् काले दग्धभूयिष्ठशेषं
न्यस्तं बीजं रक्षितुं यादवानाम्॥२९॥
कुमारस्य किं करिष्यति भवान्।
** नन्दगोपः—**
(घ)
षुणादु भट्टा। एकष्षिंगेहे गच्छिअ खीरं पिबइ, अण्णष्षिंगेहे गच्छिअ दधिं भक्खइ। अपरष्षिं।
__________________________________________________________________________
(क) आश्चर्यमाश्चर्यं भर्तः! आश्चर्यम्। इमे बन्धने पतिते।
(ख) यद् भर्ताज्ञापयति।
(ग) भर्तः! अयमस्मि।
(घ) शृणोतु भर्ता। एकस्मिन् गेहे गत्वा क्षीरं पिबति। अन्यस्मिन् गेहे
_______________________________________________________________
गेहे गच्छिअ णवणदिं गिलइ। अण्णष्षिं गेहे गच्छिअ पाअसं भुञ्जइ। इदलष्षिंगेहे गच्छिअ तक्कघटं पलोअदि। किं बहुणा, अह्माणं घोषष्ष पदी होइ।
** वसुदेवः—** एवमस्तु। प्रतिनिवर्ततां भवान्।
** नन्दगोपः—**
(क)
जं भट्टा आणवेदि।
(निष्क्रान्तः)
** वसुदेवः—**ननु निर्गतो नन्दगोपः। यावदहमपि मधुरामेव यास्यामि।
(परिक्रम्य)
रुदितशब्द इव श्रूयते। किन्नुखलु कंसभयात् प्रतिनिवृत्तो नन्दगोपः।
(परिक्रम्य)
अये प्रत्यागतप्राणेयं दारिका। यावदिमां गृहीत्वा देवक्या हस्ते निक्षिप्य दुरात्मानं कंसं वञ्चयामि।
(गृहीत्वा)
अहो गुरुत्वमस्याः। एतदपि कुमारात् किञ्चिदन्तरं महद् भूतम्। यावदपक्रामामि। अये इयं भगवती यमुना तथैव स्थिता। यावदपक्रामामि। निष्क्रान्तोऽस्मि यमुनायाः। एतन्नगरद्वारम्। तथैव प्रसुप्तो मधुरायां सर्वो जनः। यावत् प्रविशामि। (प्रविश्य) इदं खलु दुरात्मनः कंसस्य गृहं ज्येष्ठाश्रितमिव दृश्यते। इदमस्मदीयं गृहं श्रियारूढमिव दृश्यते। यावदहमप्यन्तःपुरं प्रविश्य देवकीं समाश्वासयामि। ईश्वराः स्वस्ति कुर्वन्तु।
(निष्कान्तः)
प्रथमोऽङ्कः।
________
_______________________________________________________________
गत्वा दधि भक्षयति। अपरस्मिन् गेहे गत्वा नवनीतं गिलति। अन्यस्मिन् गेहे गत्वा पायसं भुङ्क्ते। इतरस्मिन् गेहे गत्वा तक्रघटं प्रलोकते। किं बहुना, अस्माकं घोषस्य पतिर्भवति।
(क) यद् भर्ताज्ञापयति।
_______________________________________________________
अथ द्वितीयोऽङ्कः।
(ततः प्रविशन्ति चण्डालयुवतयः)
** सर्वाः—**
(क)
आअच्छ भट्टा! आअच्छ। अह्माणं कण्णणंतुए सह विवाहो हो(दि?दु)।
(ततः प्रविशति राजा)
** राजा—** भोः! किन्नुखल्विदम्।
यन्मेदिनी प्रचलिता पतिताग्रहर्म्या
सन्तानौरिव विकीर्णमहोर्मिमाला।
सेव्यैः प्रधानगुणकर्मफलैर्निमित्तैः
किं वाग्रतो व्यसनमभ्युदयो नु तन्मे॥१॥
** सर्वाः—**
(ख)
आअच्छ भट्टा! आअच्छ। अह्माणं कण्णआणं तुए सह विवाहो हो(दि?दु)।
** राजा—**
यस्मान्न रक्षिपुरुषाः प्रचरन्ति केचिद्
यस्मान्न दीपकधराः प्रमदाश्चरन्ति।
__________________________________________________________________________
(क) आगच्छ भर्तः! आगच्छ। अस्माकं कन्यानां त्वया सह विवाहो भवतु।
(ख) आगच्छ भर्तः! आगच्छ। अस्माकं कन्यकानां स्वया सह विवाहो भवतु।
__________________________________________________________
तस्मादिमा मम गृहं समनुप्रविष्टा
नीलोत्पलाञ्जननिभा भयदाः श्वपाक्यः॥२॥
** सर्वाः—**
(क)
आअच्छ भट्टा! आअच्छ। अह्माणं कण्णआणं तुए सह विवाहो होदु।
** राजा—** अहो सृष्टाः खल्वेताश्चण्डालयुवतयः —
क्रोधेन नश्यति सदा मम शत्रुपक्षः
सूर्यः शशी हुतवहश्च वशे स्थिता मे।
योऽहं यमस्य च यमो भयदो भयस्य
तं मापवादवचनैः परिधर्षयन्ति॥३॥
** सर्वाः—**
(ख)
आअच्छ भट्टा! आअच्छ।
** राजा—** आ अवध्वंसाः। कथं सहसैव नष्टाः। यावदिदानीमभ्यन्तरमेव प्रविशामि।
(ततः प्रविशति शापः)
** शापः—** हं, क्वेदानीं प्रविशसि। इदं खलु मम गृहं संवृत्तम्।
राजा—
कोऽयं विनिष्पतति गर्भगृहं विगाह्य11
उल्कां प्रगृह्य सहसाञ्जनराशिवर्णः।
________________________________________________________________
(क) आगच्छ भर्तः। आगच्छ। अस्माकं कन्यकानां त्वया सह विवाहो भवतु।
(ख) आगच्छ भर्तः। आगच्छ।
______________________________________________________________
भीमोग्र(दष्ट?दंष्ट्र)वदनो ह्याहिपिङ्गलाक्षः
क्रोधो महेश्वरमुखादिव गां प्रपन्नः॥४॥
को भवान्।
** शापः—** किं न जानीषे माम्। अहं खलु मधूकस्य ऋषेः शापो वज्रबाहुर्नाम।
श्मशानमध्यादहमागतोऽस्मि
चण्डालवेषेण विरूपचण्डम्।
कपालमालातिविचित्रवेषः
कंसस्य राज्ञो हृदयं प्रवेष्टुम्॥५॥
** कंसः—** असम्भाव्यमर्थंप्रार्थयसि।
सौवर्णकान्ततरकन्दरकूटकुञ्जं
मेरुं न कम्पयति वायसपक्षवातः।
हास्योऽसि भोः! समकरक्षुभितोर्मिमालं
पातुं य इच्छसि कराञ्जलिना समुद्रम्॥६॥
** शापः—** काले ज्ञास्यसि।
** राजा—** हं, कथं सहसैव नष्टः। यावदहमपि शयनमुपगम्य नयनव्याक्षेपं करोमि।
(स्वपिति)
** शापः—** अये प्रसुप्तः। अलक्ष्मि! खलति! कालरात्रि! महानिद्रे! पिङ्गलाक्षि! तदागम्यतामभ्यन्तरं प्रविशामः।
** सर्वाः—**
(क)
एवं होदु।
(प्रविश्य)
** राजश्रीः —** न खलु प्रवेष्टव्यम्।
** शापः—** का भवती।
** श्रीः—** किं मां न जानीषे। अहं खल्वस्य लक्ष्मीः।
** शापः—** एवम्। राजश्रीः! अपक्रामतु भवती। इदं खलु मम गृहं संवृत्तम्।
** श्रीः—** हं,
लङ्कोपमं मम गृहं नविचिन्त्य12 मूढ!
कस्याश्रयाद् विशसि मामवधूय रात्रौ।
किं भाषितेन बहुना न च शक्यमेतद्
द्रष्टुं प्रवेष्टुमिह13 तेऽद्य मयाभिजुष्टम्॥७॥
** शापः—**भगवति! पद्मालये! अपक्रामतु किल कंसशरीरात्। विष्णुराज्ञापयति।
** श्रीः—** कथं विष्णुराज्ञापयतीति भोः! कष्टम्।
न चाहं चिरसंवासात् त्यक्तुं शक्नोमि पार्थिवम्।
बलवान् गुणसङ्ग्राहो दृढं तपति मामयम्॥८॥
__________________________________________________________________________
(क) एवं भवतु।
__________________________________________
भवतु। अनतिक्रमणीया विष्णोराज्ञा। तस्मादहमपि विष्णुसकाशमेव यास्यामि।
(निष्क्रान्ता)
** शापः—** अपक्रान्ता राजश्रीः। हन्तेदानीमिदमस्माकमावासः संवृत्तः। अलक्ष्मि! खलति! कालरात्रि! महानिद्रे! पिङ्गलाक्षि! अभ्यन्तरं प्रविश्य स्वजातिसदृशी क्रीडा क्रियताम्।
** सर्वाः—**
(क)
अज्जप्पहुदि अवणीदधम्मचारित्तो होहि।
** शापः—**
परिष्वजामि गाढं त्वां नित्याधर्मपरायणम्।
प्राप्नोमि मुनिशापस्त्वामचिरान्नाशमेष्यसि॥९॥
(अन्तर्हितः)
(प्रविश्य)
** प्रतिहारी—**
(ख)
जेदु भट्टा।
** राजा—** ह।
** प्रतिहारी—**
(ग)
भट्टा! जसोधरा खु अहं।
** राजा—** यशोधरे! किं त्वया मातङ्गीजनप्रवेशो न दृष्टः।
________________________________________________________________
(क) अद्यप्रभृत्यपनीतधर्मचारित्रो भव।
(ख) जयतु भर्ता।
(ग) भर्तः! यशोधरा खल्वहम्।
____________________________________________________
प्रतिहारी—
(क)
हं मादङ्गिजणत्ति। णिच्चं भट्टिपादमूले वत्तमाणस्स व जणस्स इह प्पवेसो दुललहो, किं उण मादङ्गिजणस्स।
** राजा—** किं स्वप्नो नु मयानुभूतः। यशोधरे! गच्छ। बालाकिः काञ्चुकीयः प्रवेश्यताम्।
** प्रतिहारी—**
(ख)
जं भट्टाआणवेदि।
(निष्कान्ता)
(ततः प्रविशति काञ्चुकीयः)
** काञ्चुकीयः—** जयतु महाराजः।
** राजा—** आर्य! बालाके! प्र(वे?)ष्टव्यौ सांवत्सरिकपुरोहितौ—अद्य रात्रौ वातोद्भ्रामभूमिकम्पोल्कापाता दैवत(प्रमाच्च?)प्रतिभासिताः किमर्थमिति।
** काञ्चुकीयः—** महाराज!14 इत्यपेक्षितं भाति।”) सांवत्सरिकपुरोहितौ विज्ञापयतः।
** राजा—** किमिति।
** काञ्चुकीयः—** श्रूयताम्।
भूतं नभस्तलनिवासि नरेन्द्र! नित्यं
कार्यान्तरेण नरलोकमिह प्रपन्नम्।
___________________________________________________________
(क) हं मातङ्गीजन इति।नित्यं भर्तृपादमूले वर्तमानस्यैव जनस्येह प्रवेशो दुर्लभः, किं पुनर्मातङ्गीजनस्य।
(ख) यद् भर्ताज्ञापयति।
_________________________________________________
आकाशदुन्दुभिरवैः समहीप्रकम्पै-
स्तस्यैष जन्मनि विशेषकरो विकारः॥१०॥
राजा—
कस्मिञ्जाते सशैलेन्द्रा कम्पितेयं वसुन्धरा।
ज्ञायतां कस्य (पुत्रेति?)15 किं वा जन्मप्रयोजनम्॥११॥
इति।
** काञ्चुकीयः—** यदाज्ञापयति महाराजः।
(निष्क्रम्य प्रविश्य)
जयतु महाराजः। (अनृतं16 नाभिहितपूर्वं मया। भवतो भृत्यवर्गपरिवृताया धात्री हस्ते दृष्टा सा?)
** राजा—** अथवा ब्राह्मणवचनमनृतमपि सत्यं पश्यामि। गच्छ, वसुदेवस्तावदाहूयताम्।
** काञ्चुकीयः—** यदाज्ञापयति महाराजः। (निष्क्रान्तः)
** राजा—** धर्मशीलः सत्यवादी वसुदेवः। अथ तु मम समीपेऽनृतं न ब्रवीति। भवतु, श्रोप्यामस्तावत्।
__________________________________________________________________________
** राजा—** अपि सत्यम्।
** काञ्चुकीयः—** महाराज! अनृतं नाभिहितपूर्वं मया।भृत्यवर्गपरिवृताया धात्र्या हस्ते दृष्टा सा।’’ इति ।
(ततः प्रविशति वसुदेवः)
वसुदेवः—
षण्णां सुतानां समुपेत्य नाशं
वहन्निदं शोककृशं शरीरम्।
आहूयमानोऽकरुणेन राज्ञा
गच्छाम्यहं भृत्य इवास्वतन्त्रः॥१२॥
भोः! एवंविधा लोकवृत्तिः।
स्मरतापि भयं राजा भयं नस्मरतापि वा।
उभाभ्यामपि गन्तव्यो भयादप्यभयादपि॥१३॥
(उपसृत्य)
शौरसेनीमातः! आस्यते।
** राजा—** यादवीमातः! आस्यताम्।
** वसुदेवः—** बाढम्।
(उपविश्य)
शौरसेनीमातः! किमर्थं वयमाहूताः।
** राजा—** यादवीमातः! प्रसूतवती किल देवकी।
** वसुदेवः—** अथकिम्, प्रसूतवती।
** राजा—** किं प्रसूतम्।
** वसुदेवः—**
(आत्मगतम्)
मयापि नामानृतं वक्तव्यं भविष्यति। अथवा कुमाररक्षणार्थमनृतमपि सत्यं पश्यामि। किमिदानीं करिष्ये। भवतु, दृष्टम्।
(प्रकाशम्)
दारिका प्रसूता तया।
राजा—
दारिका वा कुमारो वा हन्तव्यः सर्वथा मया।
दैवं पुरुषकारेण वञ्चयिष्याम्यहं ध्रुवम्॥१४॥
(प्रविश्य)
** प्रतिहारी—**
(क)
जेदु भट्टा। अह्माअं भट्टिणी विण्णवेदि—दारिअत्ति बालेत्ति अ करीअदु किल महाराएण अणुक्कोसो।
** वसुदेवः—** शौरसेनीमातः! क्रियतां तपस्विन्या देवक्या वाक्यम्।दारिकासु स्त्रीणामधिकतरः स्नेहो भवति।
** राजा—** किं भवान् स्मरति समयम्।
मधूकस्य ऋषेः शापं श्रुत्वा मे समयस्तदा।
देवक्या धारितान् गर्भान् दास्यामीति य(या?था) कृतः॥१५॥
** वसुदेवः—** समय इति। एष न व्याहरामि।
** प्रतिहारी—**
(ख)
भट्टा! किं त्तिअह्माअं भट्टिणीए णिवेदिदव्वं।
** राजा—** यशोधरे! उच्यतां देवक्याः—न युक्तमिदानीं निर्बन्धमभिधातुम्। अन्यत् प्रियतरं करिष्यामीति।
____________________________________________________________
(क) जयतु भर्ता। अस्माकं भट्टिनी विज्ञापयति— दारिकेति बालेति च क्रियतां किल महाराजेनानुक्रोशः।
(ख) भर्तः! किमित्यस्माकं भट्टिन्यै निवेदयितव्यम्।
_______________________________________________________
** प्रतिहारी—**
(क)
जं भट्टा आणवेदि।
** राजा—** यशोधरे! एवं क्रियताम्।
** प्रतिहारी—**
(ख)
सुहं पविसदु किल भट्टा।
** वसुदेवः—** विविक्तमिच्छता मयापि नाम परापत्यं निधनमुपनेतव्यं भवति। किन्नुखलु कुमारमेवानीय प्रयच्छामि। अथवा,
दारिकेयं मृता पूर्वंपुनरेव समुत्थिता।
अस्य बालस्य माहात्म्यान्नैषा वधमवाप्स्यति॥१६॥
यावदहमपि देवकीं समाश्वासयामि।
(निष्क्रान्तः)
** राजा—** यशोधरे! प्रवेश्यतां सा दारिका।
** प्रतिहारी—**
(ग)
जं भट्टा आणवेदि।
(निष्क्रान्ता)
(ततः प्रविशति दारिकां गृहीत्वा धात्री रक्षिपुरुषाश्च)
** सर्वे—**
(घ)
सणिअं सणिअं अय्या। इदं मज्झमदुवालं। पविसदु अय्या।
** धात्री—**
(प्रविश्य) (ङ)
जेदु भट्टा। इअं दारिआ अह्मेहिचिरप्पहुदि रक्खिदा।
_____________________________________________________________
(क) यद् भर्ताज्ञापयति।
(ख) सुखं प्रविशतु किल भर्ता।
(ग) यद् भर्ताज्ञापयति।
(घ) शनैः शनैरार्या। इदं मध्यमद्वारम्। प्रविशत्वार्या।
(ङ) जयतु भर्ता। इयं दारिकास्माभिश्चिरात् प्रभृति रक्षिता।
_________________________________________________________
** राजा—** अहो राजदर्शनीयेयं दारिका। मयापि नामस्त्रीवधः कर्तव्यो भवति।
** धात्री—**
(क)
सणिअं सणिअं भट्टा!।
** राजा—** इयं कंसशिला। यावत् साहसमनुष्ठास्यामि।
अयं हि सप्तमो गर्भ ऋषिशापबलोत्थितः।
अस्मिन् नाशं गते गर्भे मम शान्तिर्भविष्यति॥१७॥
(गृहीत्वा प्रहृत्य)
अये,
एकांशपतितो भूमावेकांशाद् दिवमुन्नतः।
मां निहन्तुमिहोद्भूतः करैः शस्त्रसमुज्ज्वलैः॥१८॥
अये इयमिदानीं,
तीक्ष्णाग्रं शूलमालम्ब्य रौद्रवेषेण जृम्भते।
विनाशकाले सम्प्राप्ते कालरात्रिरिवोत्थिता॥१९॥
(ततः प्रविशति कार्त्यायनी17 सपरिवारा)
कार्त्यायनी—
सुम्भं निसुम्भं महिषंच हत्वा
कृत्वा सुरा(णां?ना)हतशत्रुपक्षान्।
__________________________________________________________________________
(क) शनैः शनैः भर्तः!।
________________________________________________________________
अहं प्रसूता वसुदेववंशे
कार्त्यायनी कंसकुलक्षयाय॥२०॥
** कुण्डोदरः—**
कुण्डोदरोऽहमजितो रणचण्डकर्मा
देव्याः प्रसूतिजनितोग्रमहानिनादः।
शीघ्रं प्रयामि गगनादवनीं विशालां
दृप्तान् जिघांसुरसुरानतिवीर्यदर्पान्॥२१॥
** शूलः—**
शूलोऽस्मि भूतमिह भूमितले प्रपन्नो
देव्याः प्रसादजनितोज्ज्वलचारुवेषः।
कंसं निहत्य समरे परिकर्षयामि
तं पादपं18 जलनिधेरिव कार्त्तिकेयः॥२२॥
नीलः—
अहं हि नीलः कलहस्य कर्ता
सङ्ग्रामशूरो नपराङ्मुखश्च।
निहन्मि कंसं युधि दुर्विनीतं
कौञ्चंयथा शक्तिधरः प्रकृष्टः॥२३॥
** मनोजवः—**
मनोजवो मारुततुल्यवेगो
देव्यास्तु कार्यार्थमिहोपयातः।
करोमि19 सङ्ग्रामशिरःसु दैत्यान्
वह्निर्नलानां निलयं यथैव॥२४॥
** कार्त्यायनी—**कुण्डोदर! शङ्कुकर्ण!20महानील! मनोजव! तदागम्यताम्। भगवतो विष्णोर्बालचरितमनुभवितुं गोपालकवेषप्रच्छन्ना घोषमेवावतरिष्यामः।
** सर्वे—**यदाज्ञापयति भगवती।
(निष्क्रान्ता सपरिवारा कार्त्यायनी)
** राजा—**अये प्रभाता रजनी
अतः प्रविश्य शान्त्यर्थंशान्तिकर्मोचितं गृहम्।
करोमि विपुलां शान्तिं मम शान्तिर्भविष्यति॥२५॥
(निष्क्रान्ताः सर्वे)
द्वितीयोऽङ्कः।
_______
अथ तृतीयोऽङ्कः।
________
(ततः प्रविशति वृद्धगोपालकः)
वृद्धगोपालकः—
(क)
भो मेघदिण्ण! क्खु, वषभदिअ! क्खु, कम्भदिअ! क्खु, घोषदिण्ण! क्खु पकालेथ पकालेथ गोधणं। एदेष्षिंकुन्दावणे पकामं पाणीअं पादूणं हुम्भारवं करन्तो आअन्तु गोधणं। एषो (जोवगाहजूवादो21?) णिक्कमिअ परि(ष्व?)घट्टिअवम्मीअमूलो भुजङ्गेहि कुवण्णेहिं णीलुष्षलादामेहि षिंगलग्गेहि विअ वषभो षोभदि। अण्णो वि एषो वषभो उशिदप्पशारिअपुच्छो णिकुञ्चिअजाणू षषीव धवलङ्गोअग्गविषाणेहि महीं (व्य? उक्खिव)न्तो विअ षोभदि। जाव दाणि दामअं (भट्टा? षद्दा)वेमि। अले दामअ! भअवदीर्णं22 पुथले ओदालिअ षहवच्छाणं तुवं पि आअच्छ।
________________________________________________________________________
(क) भोमेघदत्त! खलु, वृषभदत्त! खलु कुम्भदत्त! खलु, घोषदत्त! खलु, प्रकालयत प्रकालयत गोधनम्। एतस्मिन् वृन्दावने प्रकामं पानीयं पीत्वा हुम्भारवं कुर्वादायाति गोधनम्। एष (जोव….?) निष्क्रम्य परिघट्टितवल्मीकमूलो भुजङ्गैः कुवर्णैः नीलोत्पलदामभिः शृङ्गलग्नैरिव वृषभः शोभते। अन्योऽप्येष वृषभ उच्छ्रितप्रसारितपुच्छो निकुञ्चितजानुः शशीव धवलाङ्गोऽग्रविषाणाभ्यां महीमुत्क्षिपन्निव शोभते। यावदिदानीं दामकं शब्दयामि। अरे दामक! भगवतीः सुस्तलेऽवतार्यसहवत्सास्त्वमप्यागच्छ।
________________________________________________________________________
(ततः प्रविशति दामकः)
दामकः—
(क)
अहो महन्तं तिणजालं षामिणो णन्दगीवष्ष।षुदजणणदिणादो आलहिअ अहिअदलं आणन्दुब्मुदंवड्ढइ।भोदु, इह चिट्ठदु गोध(सुं? णं), जाव मादुलं उवषप्पिष्षं। (
उपसृत्य
) मादुल! वन्दामि।
** वृद्धगोपालकः—**
(ख)
षन्ती होदु षन्ती होदु अह्माणं गोधणष्ष अ।
** दामकः—**
(ग)
मादुल! जदप्यहुदि नन्दगोवपुत्ते पपूदे, तदप्पहुदि अह्माणं गोधणं वज्जिअरोअं षंवुत्तं। (न?) षव्वाणं गोवजणाणं पीदीवड्ढइ। अण्णं व, खादे खादे मूलाणि, (लु?) फलाणि गुझे गुझे। (मइकेत्तिअं एवं दुड्ढदि क्खोरे तत्तअं एह्णिदं?)
________________________________________________________________________
(क) अहो महत् तृणजालं स्वामिनो नन्दगोपस्य।सुतजननदिनादारभ्याधिकतरमानन्दाद्भुतं वर्धते। भवतु, इह तिष्ठतु गोधनं यावन्मातुलमुपसर्प्स्यामि। मातुल! वन्दे।
(ख) शान्तिर्भवतु शान्तिर्भवत्वस्माकं गोधनस्य च।
(ग) मातुल! यदाप्रभृति नन्दगोपपुत्रः प्रसूतः, तदाप्रभृत्यस्माकं गोधनं वर्जितरोगं संवृत्तम्। सर्वेषां गोपजनानां प्रीतिर्वर्धते, अन्यच्च, खाते खाते मूलानि, फलानि गुल्मे गुल्मे। (मइ……….?)
_______________________________________________________________
** वृद्धगोपालकः—**
(क)
अण्णं च इदं अच्छलिअं। दषरत्तप्पषूदे णन्दगोववुत्ते पूतणा णाम दाणवी विषषम्पूरिदत्थणा णन्दगोवीए रूवं गह्णिअआअदा। तदो ताए दालअं गह्णिअ तष्षमुहे त्थणं पक्खित्तं। तदो तं विजाणिअ (दवि?)पाडिदा (णि?) षा वि दाणवी भविअ तत्तोएव्व मुदा। तदो माषमत्तेणन्दगोववुत्ते षअडो णाम दाणवो षअडवेषं गह्णिअआअदो। तं पि जाणिअ एकपादप्पहारेण चुण्णीकिदो षो वि दाणवो भविअ तत्तो एव्व मुदो। तदो माषपरिवुत्ते नन्दगोववुत्ते एकष्षिंगेहे गच्छिअ खीरं पिबइ, अण्णष्षिंगेहे गच्छिअ दधिं भक्खइ, एकष्षिं गेहे गच्छिअ णवणीदं गिलदि, अण्णष्षिं गेहे गच्छिअ पाअसं भुञ्जइ, अपरष्षिंगेहे गच्छिअ तक्कघटं पलोअदि। तदो लुट्ठाहि गोवजुवदीहि णन्दगोवीए उत्तं। तदो लुट्ठाए णन्दगोवीए दामं गह्णिअतष्षमज्झे बन्धिअ षेषं उलूहले
__________________________________________________________________________
(क) अन्यञ्चेदमाश्चर्यम्। दशरात्रप्रसूते नन्दगोपपुत्रे पुतना नाम दानवी विषसम्पूरितस्तना नन्दगोप्या रूपं गृहीत्वागता। ततस्तया दारकं गृहीत्वा तस्य मुखे स्तनः प्रक्षिप्तः। ततस्तां विज्ञाय पातिता सापि दानवी भूत्वा तत एव मृता। ततो मासमात्रे नन्दगोपपुत्रे शकटो नाम दानवः शकटवेषं गृहीत्वागतः। तमपि ज्ञात्वैकपादप्रहारेण चूर्णीकृतः सोऽपि दानवो भूत्वा तत एव मृतः। ततो मासपरिवृत्तो नन्दगोपपुत्र एकस्मिन् गेहे गत्वा क्षीरं पिबति, अन्यस्मिन् गेहे गत्वा दधि भक्षयति, एकस्मिन् गेहे गत्वा नवनीतं गिरति, अन्यस्मिन् गेहे गत्वा पायसं भुङ्क्ते, अपरस्मिन् गेहे गत्वा तक्रघटं प्रलोकते। ततो रुष्टाभिर्गोपयुवतिभिर्नन्दगोप्यै
_______________________________________________________________
बज्झं। तदो तं पि उलूहलं आघट्टअन्तं पेक्खिअ जमलज्जुणे णाम दाणवे णिक्खितं। तदो दुवे एक्कीभूदे।तेधं(?) अन्तलेण गच्छन्तेण णन्दगोववुत्तेण आघट्टअन्तेण षमूलविडवं चुण्णीकिदे ते वि दाणवे भविअ तत्तो एव्व मुदो। तदो गोवजणेहि उत्तं—महाबलपलक्कमो अज्जप्पहुदि भट्टिदामोदलो णाम होदु त्ति। तदो आहावणप्पहावणमत्ते णन्दगोववुत्ते पलंबो णाम दाणवो णन्दगोववेसं गह्णिअ आअदो। तदो षङ्कलिषणं कण्ठे णिक्खिविअ गच्छन्तं तं विजाणिअ भट्टिणा पङ्कलिषणेण तष्षदाणवण्ष षीषे मुट्ठिप्पहारो किदो।तेण प्पहारेण उक्खित्तचक्खू षो वि दाणवो भविअ तत्तो एव्व मुदो। गोवजणेहि परिवुदो तालहलाणि गह्णिदुं तालवणं गदो। तहिं तालवणे धेणुओ णाम दाणवो गद्दभवेसं गह्णिअ आअदो। तदो तं पि जाणिअ भट्टिदामोदलेण तष्षवामपादं गह्णिअ उक्खिविअ पादिदाणि तालफलाणि। षोवि दाणवो
__________________________________________________________________________
उक्तम्। ततो रुष्टया नन्दगोप्या दाम गृहीत्वा तस्य मध्ये बद्ध्वा शेषमुलूखले बद्धम्। ततस्तदप्युलूखलमाघट्टयत् प्रेक्ष्य यमलार्जुनयोर्नाम दानवयोर्निक्षिप्तम्। ततो द्वावेकीभूतौ। तयोरन्तरेण गच्छता नन्दगोपपुत्रेणाघट्टयता समूलविटपं चूर्णीकृतौ तावपि दानवौभूत्वा तत एव मृतौ। ततो गोपजनैरुक्तं—महाबलपराक्रमोऽद्यप्रभृति भर्तृदामोदरो नाम भवतु इति। तत आधावनप्रधावनमात्रे नन्दगोपपुत्रे प्रलम्बो नाम दानवो नन्दगोपवेषं गृहीत्वागतः। ततः संकर्षणं कण्ठे निक्षिप्य गच्छन्तं तं
_________________________________________________________________-
भविअ तत्तोएव्वमुदो। तदो केसी णाम दाणवो तुलङ्गवेसं गह्णिआ आअदो। तदोतं पि जाणिअ भट्टिदामोदलेण तष्ष मुहे कोप्परोदिण्णो। तदो तेण दुवी(?) पाडिदो तुलङ्गो। षो वि दाणवो भविअ तत्तो एवमुदो। एदाणि अण्णाणि
(अ)
कम्माणि किदाणि भट्टिदामोदलेण।
** दामकः—**
(क)
मादुल! षव्वं दाव चिट्ठदु। अज्ज भट्टिदामोदलो इमष्षिं कुन्दावणे गोवकण्णआहि षह हल्लीषअं णाम पकीलिदुं आअच्छदि।
** वृद्धगोपालकः—**
(ख)
तेण हि षव्वेहि गोवजणेहि षह भट्टिदामोदलष्ष हल्लीषअं पेक्खह्म।
_______________________________________________________________
विज्ञाय भर्त्रा संकर्षणेन तस्य दानवस्य शीर्षे मुष्टिप्रहारः कृतः। तेन प्रहारेणोत्क्षिप्तचक्षुः सोऽपि दानवो भूत्वा तत एव मृतः। गोपजनैः परिवृतस्तालफलानि ग्रहीतुं तालवनं गतः। तत्र तालवने धेनुको नाम दानवो गर्दभवेषं गृहीत्वागतः। ततस्तमपि ज्ञात्वा भर्तृदामोदरेण तस्य वामपादं गृहीत्वोत्क्षिप्य पातितानि तालफलानि। सोऽपि दानवो भूत्वा तत एव मृतः। ततः केशी नाम दानवः तुरङ्गवेषं गृहीत्यागतः। ततस्तमपि ज्ञात्वाभर्तृदामोदरेण तस्य मुखे कूर्परो दत्तः। ततस्तेन द्विधा पाटितस्तुरङ्गः। सोऽपि दानवो भूत्वा तत एव मृतः। एतान्यन्यानि (च) कर्माणि कृतानि भर्तृदामोदरेण।
(क) मातुल! सर्वंतावत् तिष्ठतु। अद्य भर्तृदामोदरोऽस्मिन् वृन्दावने गोपकन्यकाभिः सह हल्लीसकं नाम प्रक्रीडितुमागच्छति।
(ख) तेन हि सर्वैर्गोपजनैः सह भर्तृदामोदरस्य हल्लीसकं पश्यामः।
_____________________________________________________________
** दामकः—**
(क)
जं मादुलो आणवेदि।
(निष्क्रान्तौ)
प्रवेशकः।
_____
(प्रविश्य)
** वृद्धगोपालकः—**
अणुदिअमत्ते षुय्ये पणमह षव्वाद(णे?)लेण षीषेण।
णिच्चंजगमादूणं गोणाणं अमिदपुण्णाण॥१॥
अहो अह्माणं पक्कणाणं षमिद्धी। आडोवषज्जाओ पडहरूववेसाओ वाहलिदुं गच्छामो। अह्माअं गोवकण्णआओ! घोषषुन्दलि! वणमाले! चन्दलेहे! मिअक्खि! आअच्छह आअच्छह षिग्धं।
(ततः प्रविशन्ति सर्वाः)
** सर्वाः—**
(ख)
मादुल! वन्दामो।
_____________________________________________________________
(क) यद् मातुल आज्ञापयति।
अनुदितमात्रे सूर्ये प्रणमत सर्वादरेण शीर्षेण।
नित्यं जगन्मातॄणां गवाममृतपूर्णानाम्॥१॥
अहो अस्माकं पक्कणानां समृद्धिः। आटोपसज्जाः पटहरूपवेषा व्याहर्तुंगच्छामः। अस्माकं गोपकन्यकाः! घोषसुन्दरि! वनमाले! चन्द्ररेखे! मृगाक्षि! आगच्छतागच्छत शीघ्रम्।
(ख) मातुल! वन्दामहे।
__________________________________________________
** वृद्धगोपालकः—**
(क)
दालिआ! एषो भट्टा दामोदलो गोक्खीरपण्डरेण भट्टिणा पङ्कलिषणेण षह गोवालएहि अ परिवुदो गुहाणिक्खित्तो23 षिंहो विअ इदो एव्व आअच्छदि।
(ततः प्रविशति गोपजनपरिवृतो दामोदरः सङ्कर्षणश्च)
** दामोदरः—**
(सविस्मयम्)
अहो प्रकृत्या रमणीयानां गोपकन्यकानां वेषग्रहणविशेषः।
एताः प्रफुल्तकमलोत्पलवक्त्रनेत्रा
गोपाङ्गनाः कनकचम्पकपुष्पगौराः।
नानाविरागवसना मधुरप्रलापाः
क्रीडन्ति वन्यकुसुमाकुलकेशहस्ताः॥२॥
** सङ्कर्षणः—** एते गोपदारकाः समागताः।
रक्तैर्वेसुकडिण्डिमैः प्रमुदिताः केचिन्नदन्तः स्थिताः
केचित् पङ्कजपत्रनेत्रवदनाः क्रीडन्ति नानाविधम्।
घोषे जागरि
(मा?ता)गुरुप्रमुदिता हुम्भा(र?)शब्दाकुले
वृन्दारण्यगते समप्रमुदिता गायन्ति केचित् स्थिताः॥३॥
** वृद्धगोपालकः—**
(ख)
आम भट्टा! षव्वा षण्णाद्धाआअदा।
____________________________________________________________
(क) दारिकाः। एष भर्ता दामोदरः गोक्षीरपाण्डरेण भर्त्रा सङ्कर्षणेन सह गोपालकैश्च परिवृतः गुहानिक्षिप्तः सिंह इवेत एवागच्छति।
(ख) आम भर्तः! सर्वे सन्नद्धा आगताः।
__________________________________________________________
** दामकः—**
(क)
जेदु भट्टा।
** सङ्कर्षणः—** दामक! सर्वे गोपदारकाः समागताः।
** दामकः—**
(ख)
आम भट्टा! षव्वे षण्णद्धा आअदा।
** दामोदरः—** घोषसुन्दरि! वनमाले! चन्द्ररेखे! मृगाक्षि! घोषवासस्यानुरूपोऽयं हल्लीसकनृत्तबन्ध उपयुज्यताम्।
** सर्वाः—**
(ग)
जं भट्टा आणवेदि।
** सङ्कर्षणः—** दामक! मेघनाद! वाद्यन्तामातोद्यानि।
** उभौ—**
(घ)
भट्टा! तह।
वृद्धगोपालकः—
(ङ)
भट्टा! तुझे हल्लीसअं पकीलन्ति।अहं एत्थ किं करोमि।
** दामोदरः—** प्रेक्षको भवान् ननु।
** वृद्धगोपालकः—**
(च)
भट्टा! तह।
(सर्वे नृत्यन्ति)
__________________________________________________________________
(क) जयतु भर्ता।
(ख) आम भर्तः! सर्वे सन्नद्धाआगताः।
(ग) यद् भर्ताज्ञापयति।
(घ) भर्तः!तथा।
(ङ)भर्तः! यूयंहल्लीसकं प्रकीडथ।अहमत्र किं करोमि।
(च) भर्तः।तथा।
_____________________________________________________________
** वृद्धगोपालकः—**
(क)
ही ही षुट्ठुईदं। षट्ठुवाइदं। षुट्ठुणच्चिदं। जाव अहं वि णच्चेमि। परिस्सन्तो खु अहं।
(प्रविश्य)
** गोपालकः—**
(ख)
हा हा भट्टा अवक्कमदु इमादो देसादो।
** दामोदरः—**दामक! किमसि सम्भ्रान्तः।
** गोपालकः—**
(ग)
एषो अलिट्ठवषभो णाम दाणवो पिण्डीकिदणिग्घादरूवो भूमिदलंखुरपुडेहि (द)लन्तो, जष्षघोषोमेघरवत्ति षङ्किदो जादो।
** दामोदरः—** एवं प्राप्तोऽरिष्टर्षभः। इमा नो गोपदारिका द्वारकांश्च24 गृहीत्वैतत् पर्वतशिखरमारुह्य दुरात्मनो मम च युद्धविशेषं पश्यत्वार्यः। अहमस्य दर्पप्रशमनं करोमि।
(सङ्कर्षणस्तैः सह निष्क्रान्तः)
__________________________________________________________________________
(क) ही ही सुष्ठु गीतम्। सुष्ठु वादितम्। सुष्ठु नर्तितम्। यावदहमपि नृत्यामि। परिश्रान्तः खल्वहम्।
(ख) हा हा भर्ता अपक्रामत्यस्माद् देशाद्।
(ग) एषोऽरिष्टवृषभो नाम दानवः पिण्डीकृतनिर्घातरूपी भूमितलं खुरपुटैर्दलन, यस्य घोषो मेघरव इति शङ्कितो जातः ।
________________________________________________________
** दामोदरः—** एष एष दुरात्मारिष्टर्षभः।
कृत्वा खुरैर्भूमितलं प्रभिन्नं
शृङ्गैश्चकूलानि समाक्षिपंश्च।
भयार्तगोपैः प्रसमीक्ष्यमाणो
नदन् समाधावति गोवृषेन्द्रः॥४॥
(ततः प्रविशत्यरिष्टर्षभः)
** अरिष्टर्षभः—** एष भोः!
शृङ्गाग्रकोटि25करणैः खमिवालिखंश्च
शत्रोर्वधार्थमुपगम्य वृषस्य रूपम्।
वृन्दावने सललितं प्रतिगर्जमान-
माक्रम्य शत्रुमहमद्य सुखं चरामि॥५॥
हुङ्कारशब्देन ममेह घोषे
स्रवन्ति गर्भा वनिताजनस्य।
खुराग्रपातैर्लिखितार्धचन्द्रा
प्रकम्पते सद्रुमकानना भूः॥६॥
क्वनुखलु गतो नन्दगोपपुत्रः। भो नन्दगोपपुत्र! क्वासि।
** दामोदरः—** भो गोवृषाधम! इत इतः। एष स्थितोऽस्मि।
** अरिष्टर्षभः—**
(दृष्ट्वा)
अहो,
सारवान् खल्वयं बालो यो मां दृष्ट्वा महाबलम्।
उग्ररूपं महानादं नैव भीतो न विस्मितः॥७॥
** दामोदरः—**
किमेतद् भो! भयं नाम भवतोऽद्य मया श्रुतम्।
भीतानामभयं दातुं समुत्पन्नो महीतले॥८॥
** अरिष्टर्षभः—** भोः! बालस्त्वम्। अतः खलु भयं न जानासि।
** दामोदरः—** भो गोवृषाधम! किं बाल इति मां प्रधर्षयति।
किं दष्टः कृष्णसर्पेण बालेन न निहन्यते।
बालेन हि पुरा क्रौञ्चःस्कन्देन निधनं गतः॥९॥
भवितव्यम्।26
अपीदं शृणु मूर्ख! त्वं कठिनोपलसञ्चयः।
किं न पल्लवमात्रेण शैलो वज्रेण पातितः॥१०॥
** अरिष्टर्षभः—**भो नन्दगोपपुत्र! किं व्यवसितम्।
** दामोदरः—** त्वां निधनमुपनेतुम्।
** अरिष्टर्षभः—** समर्थो भवान्।
** दामोदरः—** कः संशयः।
** अरिष्टर्षभः—** तेन हि गृह्यतां स्वजातिसदृशं प्रहरणम्।
** दामोदरः—** प्रहरणमिति। हं भोः!
गिरितटकठिनांसावेव बाहू ममैतौ
प्रहरणमपरं तु त्वादृशां दुर्बलानाम्।
अथ मम भुजदण्डैः पीड्यमानश्चशीघ्रं
यदि न पतसि भूमौ नास्मि दामोदरोऽहम्॥११॥
** अरिष्टर्षभः—** तेन हि प्रवर्ततां युद्धम्।
** दामोदरः—** भो गोवृषाधम! यदि ते शक्तिरस्ति, मां पादेनैकेन स्थितं स्थानात् कम्पय।
** अरिष्टर्षभः—** कोऽत्र संशयः। (तथा कर्तुं चेष्टायित्वामूर्च्छितः पतति)
** दामोदरः—** भो गोवृष! समाश्चसिहि समाश्वसिहि। अनेन वीर्येण भवान् गर्वितः।
** अरिष्टर्षभः—**
(आश्वस्य आत्मगतम्)
अहो दुष्प्रसह्यो27ऽयं बालः।
रुद्रो वायंभवेच्छक्रोविष्णुर्वापि स्वयं भवेत्।
अमिथ्या खलु मे तर्कः स एव पुरुषोत्तमः॥१२॥
आ,
यत्र यत्र वयं जातास्तत्र तत्र त्रिलोकधृत्।
दानवानां वधार्थाय (सौवर्त्त? संवृत्तो) मधुसूदनः॥१३॥
भवतु। विष्णुना हतस्याप्यक्षयो लोको मे भविष्यति। तस्माद् युद्धं करिष्यामि।
(प्रकाशम्)
भो नन्दगोपपुत्र! पुनरपि जातो मे दर्पः।
** दामोदरः—** हम्। तिष्ठ तिष्ठेदानीम्।
किं गर्जसे28 भुजगतो मम गोवृषेन्द्र!
पातप्रवृद्ध इव वार्षिककालमेघः।
एहि (क्षि)पामि धरणीतलमभ्युपेहि
वज्राहतस्तट इवाञ्जनपर्वतस्य॥१४॥
(तथा कृत्वा)
एष एष दुरात्मारिष्टर्षभः,
विसृतरुधिरधाराक्लिन्ननासास्यनेत्रं
चलितककुदवालः प्रस्फुरत्पादकर्णः।
निपतति विगतात्मा भूतले वज्रभिन्नो
गिरिरिव शिखराग्रैर्गोवृषो दानवेन्द्रः॥१५॥
(प्रविश्य)
** दामकः—**
(क)
जेदु भट्टा। एषो भट्टा षङ्कलिषणो
__________________________________________________________________________
(क) जयतु भर्ता। एष भर्ता संकर्षणः पर्वताद् यमुनाह्रदे कालियो नाम
____________________________________________________________
पव्वदादो जमुणाहले कालिओ णाम महाणाओ उट्ठिदो त्तिषु(णि)अ तं पडिगओ।वालेहि वालेहि भट्टा! षङ्कलिषणं।
** दामोदरः—** कालियो नाम मयापि श्रूयते सदर्पः पन्नगपतिः। भवत्वहमस्य दर्पप्रशमनं करोमि।
गोब्राह्मणादयस्तेन सुजूष्यन्ते29 किल प्रजाः।
अद्यप्रभृति शान्तात्मा निष्प्रभः स भविष्यति॥१६॥
(निष्क्रान्तौ)
तृतीयोऽङ्कः।
________
__________________________________________________________________________
महानाग उत्थित इति श्रुत्वा तं प्रतिगतः। वारय वास्य भर्तः!संकर्षणम्।
__________________________________________________
अथ चतुर्थोऽङ्कः।
(ततः प्रविशति दामोदरः)
दामोदरः—
एता मत्तचकोरशाबनयनाः प्रोद्भिन्नकम्रस्तनाः
कान्ताः प्रस्फुरिताधरोष्ठरुचयो विस्रस्तकेशस्रजः।
सम्भ्रान्ता गलितोत्तरीयवसनास्त्रासाकुलव्याहृता-
स्त्रस्ता मामनुयान्ति पन्नगपतिं दृष्ट्वैव गोपाङ्गनाः॥१॥
(ततः प्रविशन्ति गोपकन्यकाः)
** सर्वाः—**
(क)
माखु माखु भट्टा! एवं जलासअं पविसिदुं। एसो खु दुट्ठमहोरअकुलावासो।
** दामोदरः—** नखलु नखलु विषादः कार्यः।पश्यन्तु भवत्यः।
निष्पक्षिव्यालयूथं भयचकितकरिव्रातविप्रेक्षिताम्भो-
गम्भीरं स्निग्धनीरं ह्रदमुदधिनिभं क्षोभयन् सम्प्रविश्य।
गोपीभिः शङ्किताभिः प्रियहितवचनैः पेशलैर्वार्यमाणः
कालिन्दीवासरक्तं भुजगमतिबलं कालियं धर्षयामि॥२॥
_______________________________________________________________
(क) माखलु माखलु भर्तः!एतं जलाशयं प्रवेष्टुम्। एष खलु दुष्टमहोरगकुलावासः।
______________________________________________________
** सर्वाः—**
(क)
भट्टा! षङ्कलिषण! वालेहि वालेहि भट्टिदामोदलं।
(प्रविश्य)
** सङ्कर्षणः—** अलमलं भयविषादाभ्याम्। दर्शितोऽनुरागः। पश्यन्तु भवत्यः।
विषदहनशिखाभिर्यन्मुखात् प्रोद्गताभिः
कपिशितमशिवाभिश्चक्रबालं दिशानाम्।
सरभसमभियान्तं कृष्णमालक्ष्य शङ्की
नमयति शिरसान्तर्मण्डलं चण्डनागः30॥३॥
** सर्वाः—**
(ख)
हं भट्टिदामोदलोवि तादिसो एव।
** दामोदरः—** सर्वप्रजाहितार्थं द्रुततरं नागं मे वशं करोमि।
(इति हृदं प्रविष्टः)
** सर्वाः—**
(ग)
हा हा धूमो उट्ठिदो।
** दामोदरः—**अहो हृदस्य गाम्भीर्यम्। इह हि,
सितेतराभुग्नदुकूलकान्ति-
द्रुतेन्द्रनीलप्रतिमानवीचिम्।
इमामहं कालियधूमधूम्रां
सान्तर्विषाग्निंयमुनां करोमि॥४॥
(निष्क्रान्तः)
__________________________________________________________________________
(क) भर्तः! संकर्षण! वारय वारय भर्तृदामोदरम्।
(ख) हं भर्तृदामोदरोऽपि तादृशएव।
(ग) हा हा धूम उस्थितः।
_____________________________________________________________
(ततः प्रविशति वृद्धगोपालकः)
** वृद्धगोपालकः—**
(क)
हा भट्टा! एषो कण्णआहि वालिअमाणो जमुणाहलंपविट्ठो। माखु माखु षाहषं कलिअ पविषिदुं। एत्थ वग्घा वराहा हत्थिणो पाणीअं पिबिअ तहिं तहिं एव्व विमरन्ति। कहं ण दिस्सदि। किं दाणिं करोमि। होदु, इमं दाव कुम्भवलाअं आलुहिअ णिज्झाआमि।
(आरुह्यावलोक्य)
हा हा धूमो उट्ठिदो।
** सङ्कर्षणः—** पश्यन्तु भवत्यः।
दामोदरोऽयं परिगृह्य नागं
विक्षोभ्य तोयं च समूलमस्य।
भोगे स्थितो नीलभुजङ्गमस्य
मेघे स्थितः शक्र इवावभाति॥५॥
** वृद्धगोपालकः—**
(ख)
ही ही षाहु भट्टा! षाहु।
(ततः प्रविशति कालियं गृहीत्वा दामोदरः)
** दामोदरः—** एषभोः!
निर्भर्त्स्य कालियमहं परिविष्फुरन्तं
मूर्धाञ्चितैकचरणश्चलबाहुकेतुः।
________________________________________________________________
(क) हा भर्तः! एषकन्यकाभिर्वार्यमाणो यमुनाहृदं प्रविष्टः। माखलु माखलु साहसं कृत्वा प्रवेष्टुम्। अत्र व्याघ्रा वराहा हस्तिनः पानीयं पीत्वा तत्र तत्रैव विम्रियन्ते। कथं न दृश्यते। किमिदानीं करोमि। भवतु, इमं तावत् कुम्भपलाशमारुह्य निध्यायामि। हा हा धूम उत्थितः।
(ख) ही ही साधु भर्तः! साधु।
____________________________________________________
भोगे विषोल्बणफणस्य महोरगस्य
हल्लीसकं सललितं रुचिरं वहामि॥६॥
** सर्वाः—**
(क)
अच्छलीअं भट्टा! अच्छलीअं। कालिअस्स पञ्चफणाणि अक्कमन्तो हल्लीषअं पकीलदि।
** दामोदरः—** यावदहमपि पुष्पाण्यपचिनोमि।
** कालियः—** आः,
लोकालोकमहीधरेण भुवनाभोगं यथा मन्दरं
शैलं शर्वधनुर्गुणेन फणिना यद्वच्च यादोनिधौ।
स्थूलाखण्डलहस्तिहस्तकठिनो भोगेन संवेष्टितं
त्वामेष त्रिदशाधिवासमधुना सम्प्रेषयामि क्षणात्॥७॥
** वृद्धगोपालकः—**
(ख)
हा हा भट्टा! । एसो भट्टिदामोदलो पुप्फाणुकारेहि पदेहि आआरवन्तं विअ जमुणाहलं महाणाअं पादेण परिघट्टअन्तो पुप्फाणि अवइणोदि। (अवतीर्य) षाहु भट्टा! षाहु।फल्लेहि फल्लेहि। अहं वि षहाओ होमि। अहो भाआमि भट्टा! भाआमि। जाव इमं वुत्तन्तं णन्दगोवष्षणिवेदेमि।
(निष्क्रान्तः)
__________________________________________________________________________
(क) आश्चर्यं भर्तः! आश्चर्यम्। कालियस्य पञ्च फणानाक्रामन् हल्लीसकंप्रक्रीडति।
(ख) हा हा भर्तः! एषभर्तृदामोदरः पुष्पानुकाराम्यां पदाभ्यामाकारवन्तमिव यमुनाहृदं महानागं पातेन परिघट्टयन् पुष्पाण्यवचिनोति। साधु भर्तः! साधु। फालय फालय।अहमपि सहायो भवामि। अहो बिभेमि भर्तः! बिभेमि। यावदिमं वृत्तान्तं नन्दगोपाय निवेदयामि।
__________________________________________________________________
दामोदरः—
विध्वस्तमीनमकराद् यमुनाह्रदान्ताद्
दर्पोच्छ्रयेण महता दृढमुच्छ्वसन्तम्।
आशीविषं कलुषमायतवृत्तभोग-
मेष प्रसह्य सहसा भुवि विक्षिपामि॥८॥
** कालियः—** एष भोः!
रोषेण धूमायति31 इति धूमशब्दात् सूत्रमते क्यप् बोध्यो लोहितादित्वात्।”) यस्य देह-
स्तेनैव दाहं पृथिवी प्रयाति।
ज्वालावलीभिः प्रदहामि सोऽहं
रक्षन्तु लोकाःसमरुद्गणास्त्वाम्॥९॥
** दामोदरः—** कालिय! यदि ते शक्तिरस्ति, दह्यतां ममैकोभुजः।
** कालियः—** हहह,
चतुःसागरपर्यन्तां ससप्तकुलपर्वताम्।
दहेयं पृथिवीं कृत्स्नां किं भुजं न दहामि ते॥१०॥
हं तिष्ठेदानीम्। एष त्वां भस्मीकरोमि।
(विषाग्निं मुञ्चति)
** दामोदरः—** हन्त दर्शितं ते वीर्यम्।
** कालियः—** प्रसीदतु प्रसीदतु भगवान् नारायणः।
** दामोदरः—** अनेन वीर्येण भवान् गर्वितः।
** कालियः—**प्रसीदतु भगवान्।
गोवर्धनोद्धरणमप्रतिमप्रभावं
बाहुं सुरेश! तव मन्दरतुल्यसारम्।
का शक्तिरस्ति मम दग्धुमिमं सुवीर्यं
यं संश्रितास्त्रिभुवनेश्वर! सर्वलोकाः॥११॥
भगवन्! अज्ञानादतिक्रान्तवान्, सान्तःपुरः शरणागतोऽस्मि।
** दामोदरः—**कालिय! किमर्थमिदानीं यमुनाह्रदं प्रविष्टोऽसि।
** कालियः—**भगवतो वरवाहनाद् गरुडाद् भीतोऽहमिह प्रविष्टोऽस्मि। तदिच्छामि गरुडादभयं भगवत्प्रसादात्।
** दामोदरः—**भवतु भवतु।
मम पादेन नागेन्द्र! चिह्नितं तव मूर्धनि।
सुपर्ण एव दृष्ट्वेदमभयं ते प्रदास्यति॥१२॥
** कालियः—**अनुगृहीतोऽस्मि।
** दामोदरः—**प्रविशतु भवान्।
** कालियः—**यदाज्ञापयति भगवान् नारायणः।
** दामोदरः—**अथवा एहि तावत्।
** कालियः—**भगवन्! अयमस्मि।
** दामोदरः—** अद्यप्रभृति गोब्राह्मणपुरोगासु सर्वप्रजास्वप्रमादः कर्तव्यः।
** कालियः—** भगवन्! मद्विषदूषितमिदं जलम्। तदिदानीमेव विषं संहृत्य यमुनाह्रदान्निष्क्रामामि।
** दामोदरः—** प्रतिनिवर्ततां भवान्।
** कालियः—** यदाज्ञापयति भगवान् नारायणः।
(सपरिजनो निष्क्रान्तः)
।
** दामोदरः—** यावदहमपि हृदाद् गृहीतानि पुष्पाणि गोपकन्यकाभ्यः प्रयच्छामि।
** सर्वाः—**
(क)
एसो भट्टा अह्माणं हिअआणन्दं करन्तो अक्खदसरीरो इदो एव आअच्छदि। जेदु भट्टा।
** सङ्कर्षणः—** दिष्ट्यागोब्राह्मणहितं कृतम्।
** दामोदरः—** गृह्यन्तां पुष्पाणि।
सर्वाः—
(ख)
भट्टा! एदाणि सङ्घेहि अणवइदपुव्वाणि पुष्फाणि (अ)पलामिट्ठाणि चन्दादिच्चकिरणेहि अपरिमद्दिदाणि। भाआमो भट्टा!।
_______________________________________________________________
(क) एष भर्तास्माकं हृदयानन्दं कुर्वन् अक्षतशरीर इत एवागच्छति। जयतु भर्ता।
(ख) भर्तः! एतानि सङ्घैरनवचितपूर्वाणि पुष्पाण्यपरामृष्टानि चन्द्रादित्यकिरणैरपरिमर्दितानि। बिभीमो भर्तः!।
_______________________________________________________
** दामोदरः—** पूर्वं दृष्टभया वित्रस्तास्तपस्विन्यः। न भेतव्यं न भेतव्यम्। इदानीं खलु मत्करस्पर्शनात् सौभा(व? ग्य)मुपगतानि गृह्यन्ताम्।
** सर्वाः—**
(क)
जं भट्टा आणवेदि।
(प्रविश्य)
** भटः—** भो गोपालक! क्व गतो नन्दगोपपुत्रः।
** गोपालकः—**
(ख)
एषो भट्टा कालिअं णाम महाणाअं परिपीडिअ गोवकण्णआहि परिवुदो ट्ठिओ।
** भटः—**
(उपगम्य)
भो नन्दगोपपुत्र! अनुगतार्थनामधेयस्य महाराजस्योग्रसेनस्य पुत्रः कंसराजो भवन्तमाज्ञापयति।
** दामोदरः—** कथमाज्ञापयतीति।
** भटः—** मधुरायां धनुर्महो नाम महोत्सवो भविष्यति। तमनुभवितुं सपरिजनाभ्यां भवद्भ्यामागन्तव्यमिति।
** दामोदरः—** आर्य! अयं ननु देवरहस्यकालः।
** सङ्कर्षणः—** शीघ्रमिदानीं गमिष्यावः।
** दामोदरः—** बाढम्। प्रथमः कल्पः। एष भोः!
__________________________________________________________________________
(क) यद् भर्ताज्ञापयति।
(ख) एष भर्ता कालियं नाम महानागं परिपीड्यगोपकन्यकाभिः परिवृतः स्थितः।
_________________________________________________________
प्रभ्रष्टरत्नमकुटं परिकीर्णकेशं
विच्छिन्नहारपतिताङ्गदलम्बसूत्रम्।
आकृष्य कंसमहमद्य दृढं निहन्मि
नागं मृगेन्द्र इव पूर्वकृतावलेपम्॥१३॥
(निष्क्रान्ताः सर्वे)
चतुर्थोऽङ्कः।
_______
अथ पञ्चमोऽङ्कः।
(ततः प्रविशति राजा)
** राजा—**
श्रुत्वा व्रजे विपुलविक्रमवीर्यसत्त्वं
दामोदरं सह बलेन समाचरन्तम्।
आदिश्य कार्मुकमहं तमिहोपनीय
मल्लेन रङ्गगतमद्य तु घातयामि॥१॥
ध्रुवसेन! ध्रुवसेन!
(प्रविश्य)
** भटः—**जयतु महाराजः।
** राजा—** ध्रुवसेन! किमागतो नन्दगोपपुत्रः।
** भटः—**श्रोतुमर्हति महाराजः—प्रविशन्नेव दामोदरः ससङ्कर्षणो गोपजनपरिवृतो रजकेभ्यो वस्त्राण्याच्छिद्य गृहीतवानिति श्रुत्वा महामात्रेणोत्पलापीडो नाम गन्धहस्ती सञ्चोदितस्तमभिघातयितुम्। ततः,
तमापतन्तं सहसा समीक्ष्य
स
(मे)तगोपालकवृन्दमध्ये।
बालो बलेनाद्रिनिभं गजेन्द्रं
दन्तं समाकृष्य जघान शीघ्रम्॥२॥
** राजा—** कथं जघानेति। गच्छ। भूयो ज्ञायतां वृत्तान्तः।
** भटः—** यदाज्ञापयति महाराजः।
(निष्क्रम्य प्रविश्य)
जयतु महाराजः। एष इदानीं नन्दगोपपुत्र उत्सवाधिकारोच्छ्रितध्वजपताकमवसक्तमाल्यदामालङ्कृतमुत्थापितागुरुधूपसमाकुलं राजमहापथं प्रविश्य राजकुलद्वारे गन्धसमुद्गावसक्तहस्तां मदनिकां नाम कुब्जिकां दृष्ट्वा तस्या हस्ताद् गन्धमादाय स्वगात्रमनुलिप्य तेनैव हस्तेन कुब्जस्य (देह)स्यानुमार्जनेन विगतकुब्जभावां तां कृत्वा मालाकारापणेभ्यः पुष्पाण्याहृत्यावबध्य धनुःशालाभिमुखो गतः।
** राजा—** किन्नुखलु तेन व्यवसितम्। तेन हि शीघ्रं गच्छ।भूयो ज्ञायतां वृत्तान्तः।
** भटः—** यदाज्ञापयति महाराजः।
(निष्क्रम्य प्रविश्य)
जयतु महाराजः। धनुःशालारक्षकेण सिंहबलेन वार्यमाणस्तं कर्णमूले प्रहृत्य हत्वा धनुः समादाय द्विखण्डं कृत्वा साम्प्रतमुपस्थानाभिमुखो गतः। स हि,
आपीडदामशिखिबर्हविचित्रवेषः
पीताम्बरः सजलतोयदराशिवर्णः।
अभ्येति रोषपरिवृत्तविशालनेत्रो
रामेण सार्धमिह मृत्युरिवावतीर्णः॥३॥
** राजा—**सावेगमिव मेहृदयम्। गच्छ, यथानिर्दिष्टौ चाणूरमुष्टिकौप्रवेशय, वृष्णिकुमाराणां सन्नाहमाज्ञापय।
** भटः—** यदाज्ञापयति महाराजः।
(निष्क्रान्तः)
** राजा—** यावदहमपि प्रासादमारुह्य चाणूरमुष्टिकयोर्युद्धं पश्यामि।
(आरुह्य)
मधुरिके! विघाट्यतां द्वारम्।
** प्रतिहारी—**
(क)
जं भट्टा आणवेदि।
(राजा प्रविश्योपविशति)
(ततः प्रविशतश्चाणूरमुष्टिकौ)
** चाणूरः—**
(ख)
एसो ह्मि जुद्धसज्जो मत्तो हत्थीव दप्पसम्पुण्णो।
भञ्जेमि अज्ज बालं दामोदलं
(लं)
गमज्झमि॥४॥
** मुष्टिकः—**
(ग)
लोहमयमुट्ठिहत्थो णामेण अ मुट्ठिओ लुट्ठो।
पादेमि अज्ज लामं गिलिवलकूटं जहा वज्जो॥५॥
__________________________________________________________________________
(क) यद् भर्ताज्ञापयति।
(ख) एषोऽस्मि युद्धसज्जो मत्तो हस्तीव दर्पसंपूर्णः।
मनज्म्यद्य बालं दामोदरं रङ्गमध्ये॥
(ग) लोहमयमुष्टिहस्तो नाम्ना च मुष्टिको रुष्टः।
पातयाम्यद्य रामं गिरिवरकूटं यथा वज्रः॥
__________________________________________________________
** भटः—** एष महाराजः। उपसर्पेतां भवन्तौ।
** उभौ—**
(उपेत्य) (क)
जेदु भट्टा।
** राजा—** चाणूरमुष्टिकौ! सर्वप्रयत्नेन युवाभ्यामानृण्यं कर्तव्यम्।
** उभौ—**
(ख)
सुणादु भट्टा।
(अड्ढिद?)
करणसन्धाबन्धप्पहारेहि जुद्धविसेसेहि सिद्धिं गच्छामो। हं पेक्खदु भट्टा।
** राजा—** बाढमेवं क्रियताम्। ध्रुवसेन! प्रवेश्येतां गोपदारकौ।
** भटः—** यदाज्ञापयति महाराजः।
(निष्क्रान्तः)
(ततः प्रविशतो दामोदरसङ्कर्षणौध्रुवसेनेन सह)
** दामोदरः—** आर्य!
मर्त्येषु जन्म विफलं मम तानि घोषे
कर्माणि चाद्य नगरे धृतये32 न तावत्।
यावन्न कंसहतकं युधि पातयित्वा
जन्मान्तरासुरमहं परिकर्षयामि॥६॥
__________________________________________________________________________
(क) जयतु भर्ता।
(ख) शृणोतु भर्ता। (अड्ढिद?)करणसन्धाबन्धप्रहारैर्युद्धविशेषैः सिद्धिं गच्छामः। हं पश्यतु भर्ता।
_________________________________________________________________
सङ्कर्षणः—
प्रविश्य रङ्गं कृतलोहमुष्टिं
तं मुष्टिना मुष्टिकमद्य रुष्टम्।
हत्वा चरिष्याम्यनिलप्रचण्डः
प्रलम्बमम्भोदमिवान्तरिक्षे॥७॥
** भटः—** एष महाराजः। उपसर्पेतां भवन्तौ।
** उभौ—** आः कस्य महाराजः।
** भटः—** सर्वस्य जगतोऽस्माकं च।
** दामोदरः—** अद्यप्रभृति न भविष्यति।
** भटः—** जयतु महाराजः। एतौ तौ।
** राजा—**
(विलोक्य)
अयं स दामोदरः। अहो,
श्रीमान् मदान्धगजधीरविलासगामी
श्यामः स्थिरांसभुजपीनविकृष्टवक्षाः।
पूर्वंश्रुतानि चरितानि न चित्रमस्य33
लोकत्रयं हि परिवर्तयितुं समर्थः॥८॥
अयं नु ललितगम्भीराकृतिः पूर्वजोऽस्य राम इति श्रूयते।
अभिनवकमलामलायताक्षः
शशिनिभमूर्तिरुदारनीलवासाः।
रजतपरिघवृत्तदीर्घबाहु-
श्चलदसितोत्पलपत्रचित्रमालः॥९॥
** दामोदरः—** आर्य! एतावेवावाभ्यां युद्धसन्नद्धाविति मन्ये।
** सङ्कर्षणः—** भवितव्यम्।
** राजा—** ध्रुवसेन! प्रवर्ततां युद्धम्।
** भटः—** यदाज्ञापयति महाराजः।
(मालां क्षिपति)
** मल्लौ—**
(क)
अङ्घो! वादे
(ह)
वादे
(ह)
सङ्खपटहाणि।
** चाणूरः—**
(ख)
एहि दामोदल! अज्ज मे भुजजुअलेहि सिद्धिं गच्छ।
** दामोदरः—**
प्राप्तोऽस्मि तिष्ठ मम वेगमिमं सहस्व
** मुष्टिकः—**
(ग)
ए ए लाम! अज्ज मे मुट्ठिपिट्ठगत्तगलिअलुहिलपडलमज्जो जीविअं उज्झसि।
________________________________________________________________
(क) अङ्घो! वादयत वादयत सङ्ख्यपटहान्।
(ख) एहि दामोदर!अद्य मे भुजयुगलेन सिद्धिं गच्छ।
(ग) ए ए राम! अद्य मे मुष्टिपिष्ठगात्रगलितरुधिरपटलमञ्जा जीवितमुज्झसि।
_____________________________________________________
सङ्कर्षणः—
त्वामद्य मुष्टिक! यमाय निवेदयामि।
(सर्वे नियुद्धं कुर्वन्ति)
** दामोदरः—**
(चाणूरं निहत्य)
भग्नास्थिरेष निहतो
** सङ्कर्षणः—**
निहतो मयापि
** दामोदरः—**
कंसासुरं च यमलोकमहं नयामि॥१०॥
(प्रासादमारुह्य कंसं शिरसि निगृह्य पातयित्वा)
एष एष दुरात्मा कंसः।
विस्तीर्णलोहितमुखः परिवृत्तनेत्रो
भग्नांसकण्ठकटिजानुकरोरुजङ्घः।
विच्छिन्नहारपतिताङ्गदलम्बसूत्रो
वज्रप्रभग्नशिखरः पतितो यथाद्रिः॥११॥
(नेपथ्ये)
हा हा महाराजः।
(पुनर्नेपथ्ये)
भो भो वृष्णियोधाः! अनावृष्टिशिवकहृदिकपृथुकसोमदत्ताक्रूर-
प्रमुखाः! अयं खलु भर्तृपिण्डनिष्क्रयस्य कालः। शीघ्रमागच्छन्तु भवन्तः।
** दामोदरः—** आर्य! संवार्यतां सैन्यम्।
** सङ्कर्षणः—** अयमयं वारयामि।
द्रुततुरगरथेभभ्रान्तयोधोग्रनादं
विलसदमलखङ्गप्रासशक्त्यृष्टिकुन्तम्।
पवनबलविकीर्णं फेनजालोर्मिमालं
जलनिधिमिवं दोर्भ्यांक्षोभयाम्येष सैन्यम्॥१२॥
(ततः प्रविशति वसुदेवः)
** वसुदेवः—** भो भो मधुरावासिनः! अलमलं साहसेन।
ज्येष्ठोऽयं मम तनयस्तु रौहिणेयो
देवक्यास्तनयमिमं च किं न वित्थ।
(संरम्भं) त्यजत किमायुधैश्च कार्यं
कंसार्थं स्वयमिह विष्णुराजगाम॥१३॥
** सङ्कर्षणः—**
(विलोक्य)
अये तातः। तात! सङ्कर्षणोऽहमभिवादये।
** दामोदरः—** तात! दामोदरोऽहमभिवादये।
** वसुदेवः—** अक्षयविजयिनौ भवेतां भवन्तौ। सत्पुत्रजन्मफलमद्य प्राप्तवानस्मि।
** उभौ—** अनुगृहीतौ स्वः।
** वसुदेवः—** कोऽत्र।
(प्रविश्य)
** भटः—** जयत्वार्यपुत्रः।
** वसुदेवः—**अपविध्यन्तां कलेबराणि।
** भटः—**यदाज्ञापयत्यार्यपुत्रः।
** गोपालकाःसर्वे—**
(क)
ही ही गोवालआणं रज्जं संवृत्तं।
** वसुदेवः—** कोऽत्र।
** भटः—**जयत्वार्यपुत्रः।
** वसुदेवः—**गच्छ, शीघ्रं दामोदरस्यादेशादनावृष्टिमाज्ञापय—महाराजमुग्रसेनमपनीय निगलान्निर्वृत्ताभिषेकं कृत्वा प्रवेशयेति।
** भटः—**यदाज्ञापयत्यार्यपुत्रः।
(निष्क्रान्तः)
** वसुदेवः—**अये,
नदन्ति सुरतूर्याणि वृष्टिः पतति कौसुमी।
कंसान्तकस्य पूजार्थं प्रायो देवाः समागताः॥१४॥
__________________________________________________________________________
(क) ही ही गोपालकानां राज्यं संवृत्तम्।
_________________________________________________________
(नेपथ्ये)
श्रीमानिमां कनकचित्रितहर्म्यमालां
विस्तीर्णराजभवनापणगोपुराट्टाम्।
पायात् सदैव मधुरां कमलायताक्ष-
स्त्रैलोक्यजित् सुरवरस्त्रिदशेन्द्रनाथः॥१५॥
** वसुदेवः—** भो भो मधुरावासिनः! शृण्वन्तु शृण्वन्तु भवन्तः। अस्य खलु दैत्येन्द्रपुरार्गलोत्पाटनपटोः सर्वक्षच्चपराङ्मुखावलोकिनो वसुदेवसम्भवस्य वासुदेवस्य प्रसादात् पुनरधिगतराज्यस्योग्रसेनस्य शासनमिदानीमवघुष्यते।
** सर्वे—** प्रतिष्ठितमिदानीं वृष्णिराज्यम्।34
** वसुदेवः—** प्रवेश्यतां महाराजः।
** भटः—** यदाज्ञापयत्यार्यपुत्रः।
(निष्क्रान्तः)
(ततः प्रविशत्युग्रसेनः)
** उग्रसेनः—**
चिरोपरोधसम्प्राप्तः क्लेशो मे केशिसूदनात्35।
अपनीतः स्ववीर्येण यथा विष्णोः शतक्र(तु?तो)ः॥१६॥
भगवत्प्रसादाद् व्यसनार्णवादुत्तारितोऽस्मि।
______________________________________________
(प्रविश्य)
भटः—जयत्वार्यपुत्रः। इत्यपेक्षितं भाति।
____________________________________________
(ततः प्रविशति नारदः)
** नारदः—**
कंसे प्रमथिते विष्णोः पूजार्थं देवशासनात्।
सगन्धर्वाप्सरोभिश्चदेवलोकादिहागतः॥१७॥
** दामोदरः—** अये देवर्षिर्नारदः। देवर्षे! स्वागतम्। इदमर्घ्यं पाद्यं च।
** नारदः—** सर्वं गृह्णामि। गन्धर्वाप्सरसो गायन्ति।
नारायण! नमस्तेऽस्तु प्रणमन्ति च देवताः।
अनेनासुरनाशेन मही च परिरक्षिता॥१८॥
** दामोदरः—** देवर्षे! परितुष्टोऽस्मि। किं ते भूयः प्रियमुपहरामि।
** नारदः—**
प्रहृष्टो यदि मे विष्णुः सफलो मे परिश्रमः।
गमिष्ये36 विबुधावासं सह सर्वैः सुरोत्तमैः॥१९॥
** दमोदरः—** गच्छतु भवान् पुनर्दर्शनाय।
** नारदः—** यदाज्ञापयति भगवान् नारायणः।
(निष्क्रान्तः)
(भरतवाक्यम्)
इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम्।
महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः॥२०॥
(निष्क्रान्ताः सर्वे)
पञ्चमोऽङ्कः।
अवसितं बालचरितम्॥
________
श्लोकानुक्रमणी।
_______
| अगणितपरि | गिरितटकठि |
| अनुदिअम | गोब्राह्मणाद |
| अतः प्रविश्य | गोवर्धनोद्ध |
| अनन्तवीर्यः | चक्रशार्ङ्गगदा |
| अपीदं शृणु | चक्रोऽस्मि कृष्ण |
| अप्रकाशा इव | चतुस्सागरप |
| अभिनवकम | चिरोपरोध |
| अयं हि सप्त | जाने नित्वं वं |
| अहं गगन | ज्येष्ठोऽयं मम |
| अहं सुपर्णो | तमसा संवृते |
| अहं हि नीलः | तमापतन्तं |
| आपीटदाम | तीक्ष्णाग्रं शूल |
| इमां नदीं प्रा | दामोदरोऽयं |
| इमां सागर | दारिक वा कु |
| एकांशपतितो | दारिकेयंमृता |
| एताः प्रफुल्ल | दुद्दिणाविणट्ठ |
| एता मत्तचक्रो | द्रुततुरगरथे |
| एसो ह्मि जुद्ध | न चाहं चिरस |
| कस्मिञ्जाते स | नदम्तिसुरतू |
| कंसे प्रमथिते | नन्दकोऽहं न मे |
| कार्याण्यकार्या | नारायण! नमस्ते |
| किं गर्जसे भुज | नारायणाय |
| किं दृष्टः कृष्ण | निर्भर्त्स्य कालि |
| किं द्रष्टव्यः श | निष्पक्षिव्याल |
| किमेतद् भो | भ |
| कुण्डोदरोऽहम् | परिष्वजामि गा |
| कृत्वा खुर्रर्भू | प्रथममुतविना |
| कोऽयं विनिष्प | प्रभ्रष्टरत्नमकु |
| क्रोधेन नश्य | प्रविश्य रङ्गं कृत |
| कौमोदकी ना | प्रहृष्टो यदि मे |
| प्राप्तोऽस्मि तिष्ठ | विसृतरुधिर |
| भक्तिः परा मम | विस्तीर्णलोहि |
| भूतंनभस्तल | शङ्खक्षीरवपुः |
| भ्रमति नभसि | शङ्खोऽहमस्मि |
| मधूकस्य ऋषेः | शार्ङ्गोऽस्मि बि |
| मनोजवो मारुत | शूलोऽस्मि भूत |
| मम पादेन ना | शृङ्गाप्रकोटि |
| मर्त्येषु जन्म वि | श्मशानमध्या |
| यत्र यत्र वयं | श्रीमान् मदा |
| यद्यस्मि भवतः | श्रीमानिमां कन |
| यन्मेदिनी प्रच | श्रुत्वा व्रजे विपु |
| यस्मान्न रक्षि | षण्णां सुतानां |
| रक्तैर्वेसुकडि | सारवान् खल्व |
| रुद्रोवायं भ | सितेतराभुग्न |
| रोषेण धूमायति | सुम्भं निसुम्भं |
| लङ्कोपमं मम | सौवर्णकान्त |
| लिम्पतीव त | स्मरतापि भयं |
| लोकानामभ | हुङ्कारशब्देन |
| लोकालोकम | हृदयेनेह तत्रा |
| विध्वस्तमीनम | लोहमयमुट्ठि |
| विन्ध्यमन्दर | क्षीणेषु देवासुर |
| विषदहनशि |
]
-
“प्रियापदार्थोवीणयान्येति, वैरादौ लिङ्गवचनविपरिणामेन” ↩︎
-
“रक्षमाणा रक्षणशीला।” ↩︎
-
“तवर्गद्वितीयमध्यो मधुराशब्दः प्रसिद्धः।” ↩︎
-
“‘गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः। चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य॥’ इति शाकुन्तलश्लोक एतच्छायायोनिर्नूनम्।” ↩︎
-
“‘णिग्गदो झि’ इत्यस्य स्थाने ‘णिग्गदं’ इति पठनीयं भाति। अथवा ‘गह्णिअ’ इत्यस्य ग्राहयित्वेत्यर्थोविवक्षणीयः, अहमर्थस्य च प्रयोज्यकर्तृत्वं प्रयोजककर्तृत्व चेत्युभयं विवक्षणीयम्। उभयविवक्षा चात्मनो दारिकाग्रहणे स्वरसतोऽप्रवृत्तिं सूचयितुम्।” ↩︎
-
" चक्र इति तदभिमानिदेवाभिप्रायं पुंस्त्वम्। एवं शार्ङ्ग इति।" ↩︎
-
“यस्यार्थमिति यस्य विष्णोरर्थे इत्यर्थः। एवन्तु यदर्थमिति समासेन भाव्यम्। ‘अस्यार्थ आहवमुखेषु’ इत्येव वा पाठो भवेत्। एवञ्च पूवार्धे तत्पदापेक्षापि न।” ↩︎
-
“‘प्रक्रीडितम्’ इति वा पाठः संभध्यते।” ↩︎
-
“शक्रस्याप्रवेशेन शकारलेखन लेखकप्रमादायातमेव। " ↩︎
-
“धनूरेखान्तर्गतस्य वाक्यस्य स्थाने ‘अदिलहूहोहि। जरत्तणम्मिव अत्ताणं णिब्बाहेदि’ इति पाठः स्यादिति भाति। ‘अतिलघुर्भव। जरतृृणमिवात्मानं निर्वाहय’ इति च संस्कृतम्।” ↩︎
-
“अत्र विसन्धिता द्रष्टभ्य।” ↩︎
-
“नविचिन्त्येति नशब्दसमासः।” ↩︎
-
“‘इह’ इत्यस्य स्थाने ‘अपि’ इति स्यात्।” ↩︎
-
“इतः प्राक् ‘तथा। (निष्क्रम्य पुनः प्रविश्य ↩︎
-
" ‘पुत्रोऽभूद्’ इति स्यात्।” ↩︎
-
“अस्य धनुरेखान्तर्गतस्य पाठस्य स्थाने एवं पाठः कर्तव्यो भाति—” ↩︎
-
“कृतस्य शुभाशुभस्य कर्म कार्त्यं, तद् आययति प्रापयतीति कर्तरि ल्युट्। टित्त्वाद् डीप्। पुण्यपापफलदात्रीत्यर्थः। योगरूढश्चायं गौर्यांकार्त्यायनीशब्दः।” ↩︎
-
“पादपं वृक्षरूपतां प्रतिपन्नं तारकासुरामित्यर्थः।” ↩︎
-
“करोमि दद्दामीति यावत्।” ↩︎
-
“शङ्कुकर्ण इति शूलस्यैव नाम भवेत्।” ↩︎
-
“‘गोवषहजूहादो’ इति पठनीयं भाति। ‘गोवृषभयूयाद्’ इति चच्छाया।” ↩︎
-
“‘भअवदीर्णं’ इति भंगंवंतीर्गा इत्यर्थः ।” ↩︎
-
“‘णिक्खन्तो’ इति स्यात्। निष्कान्त इति चच्छाया।” ↩︎
-
“आर्थीदारकाणां गोपसम्बन्धः।” ↩︎
-
“शृङ्गव्यापारैः” ↩︎
-
“इन प्राक्’अरिष्टषेनः—‘इति पठनीय भाति, उत्तरंच ‘दामोदरः—’ इति।” ↩︎
-
“‘दुष्प्रसह’ इति स्यात्।” ↩︎
-
“कथञ्चित्कर्मवद्भावो बोद्धव्यः, आतिदेशिककार्यानित्यत्वेन यगभावश्च।” ↩︎
-
“‘यूप हिंसायां शुष च’।” ↩︎
-
“स इति शेषः।” ↩︎
-
“‘लोहितादिडाजभ्यः क्यप्’ (३ १. १३ ↩︎
-
“धृतये सन्तोषाय।” ↩︎
-
“चित्रमिति सामान्ये नपुंसकमेकवचनं च। सर्वेषां चरितानाम् आश्चर्यकरैकवस्तुत्वविवक्षया वा चित्रमित्येकवचनम्। अव्ययं वा।” ↩︎
-
“वसुदेवः— कोऽत्र। " ↩︎
-
“कर्तुद्देतुप्त्वविवक्षात्र बोद्धव्या। एवं विष्णोरित्यत्रापि।” ↩︎
-
“अत्र कर्मवद्भावो बोद्धव्यः।” ↩︎