दशावतारचरित्रम्

[[दशावतारचरित्रम् Source: EB]]

[

॥श्री॥

महाकविश्रीक्षेमेन्द्रप्रणीतम् दशावतारचरित्रम्

(१)

मत्स्यावतारः प्रथमः

अशेषविश्ववैचित्र्यरचनारचये नमः ।

मायागहनगूढाय नानारूपाय विष्णवे ॥१॥

देवः पायादपायात्त्रिभुवनभवनस्तम्भभूतः स युष्मान्

आयुष्मान्यस्य भक्त्या प्रभवति पुरुषः स्वर्गमार्गेऽपवर्गः ।

मत्स्यः कूर्मो वराहः पुरुषहरिवपुर्वामनो जामदग्न्यः

काकुत्स्थः कंसहन्ता स च सुगतमुनिः कर्किनामा च विष्णुः ॥२॥

आदिमत्स्यः स जयताद्यः श्वासोच्छ्वासितैर्जलैः ।

गगने विदधेऽम्भोधिं गगनं च महोदधौ ॥३॥

तं नमस्कुर्महे कूर्मं यः कपाटमसङ्कटम् ।

अतीतसर्वब्रह्माण्डमवशेषमिवावहत॥४॥

वराहं नौमि सानन्ता येनोत्क्षिप्ता क्षितिः परम् ।

अधोधृतार्धच्छत्रेव तलस्थार्कातपासहा ॥५॥

जयाय नृहरिर्वोऽस्तु दैत्योरःशोणितार्णवे ।

हारमौक्तिकगर्भास्ताश्चेरुर्यन्नखशक्तयः ॥६॥

त्रिविक्रमोऽस्तु भूत्यै वः प्राग्लघ्वी मध्यमा ततः ।

यस्य पश्चादनन्ताभूत्सत्सङ्गतिरिवाकृतिः ॥७॥

अभग्नं जामदग्न्यो वः प्रयच्छतु जयोदयम् ।

यत्कुठारकठोराग्नौ भूपालैः शलभायितम् ॥८॥

नौमि रामं रिपोश्चक्रे यः काञ्चननिभैः शरैः ।

होमानलशिखारूढमिव वक्त्रवनं पुनः ॥९॥

शौरिर्जयति कंसस्य जीवितप्रथमातिथिः ।

यश्चक्रे चक्रदानेन बाणबाहुप्रतिग्रहम् ॥१०॥

यस्य सभ्रूभ्रमाकम्पा माररामाः ससैनकाः ।

चक्रुर्न रागं न द्वेषं स शान्त्यै सुगतोऽस्तु वः ॥११॥

स्वच्छन्दप्रोच्छलन्म्लेच्छतिमिरोद्भेदसच्छविः ।

कर्किविष्णुः प्रकाशाय प्रभातार्क इवास्तु ॥१२॥

अवतारकथायुक्त्या भक्त्या भगवतो हरेः ।

श्रीव्यासदासः क्षेमेन्द्रः कुरुते सरसां स्तुतिम् ॥१३॥

स्वजनस्थितिखिन्नस्य पुण्यारण्यविहारिणः ।

हरिभक्तिरसासिक्ताः श्रूयन्तां मम सूक्तयः ॥१४॥

सन्तोषो यदि कीं धनैः सुखशतैह्किं यद्यनायत्तता

वैराग्यं यदि किं व्रतैः किमखिलैस्त्यागैर्विवेको यदि ।

सत्सङ्गो यदि किं दिगन्तगमनप्रस्थानतीर्थश्रमैः

श्रीकान्ते यदि भक्तिरप्रतिहता तत्किं समाधिक्रमैः ॥१५॥

लसति हसति हर्षात्तीव्रदुःखे परेषां

स्खलति गलति मोहादात्मनः क्लेशलेशे ।

नदति वदति निन्द्यं मानिनां किं न नीचः

परुषवचनमल्पं श्रावितो हन्तुमेति ॥१६॥

पुण्यान्यहीनहरिणानि तपोवनानि

सत्सङ्गतानि शमधर्मविवेचनानि ।

एतानि तानि भवबन्धविमोचनानि

चर्चोचितानि चरितानि च चक्रपाणिः ॥१७॥

मान्यः किल मनुर्नाम जगज्ज्येष्ठः प्रजापतिः ।

चचार पूर्वमुर्व्यां यः सर्वतीर्थपथातिथिः ॥१८॥

स बदर्याश्रमं प्राप्य नरनारायणाश्रयम् ।

हरिसन्दर्शनधिया चचार सुचिरं तपः ॥१९॥

तं कदाचिदतिस्वल्पतनुस्तनुतरेऽम्भसि ।

उवाच तलसंलीनस्त्रासान्मत्स्यशिशुः शनैः ॥२०॥

भीतोऽहं स्थूलमत्स्येभ्यो रक्ष मां करुणानिधे ।

भक्षयन्ति क्षुधा नित्यं दुर्बलं बलवत्तराः ॥२१॥

आश्वासनं विषमशोकविमोहितस्य

भीतस्य भीतिशमनं कृशपक्षपातः ।

धृत्यै विपन्निपतितस्य करावलम्बः

सम्पूर्णपुण्यनिचयस्य समुच्चयोऽयम् ॥२२॥

मुनिः श्रुत्वैतदाश्चर्यकारि मत्स्यशिशोर्वचः ।

दयार्द्रस्तं समादाय जलकुम्भान्तरेऽक्षिपत॥२३॥

अवर्तमानं कालेन तत्र वृद्धिमुपागतम् ।

समीपवाप्यां चिक्षेप गङ्गायामथ सागरे ॥२४॥

कालेन सकलाम्भोधिव्यापी विपुलविग्रहः ।

कौतुकालोकनायातं मनुं मत्स्यः समभ्यधात॥२५॥

अधुना विषमः कालः कलुषः समुपस्थितः ।

विपरीतनिमित्तानि प्रवृत्तानि प्रजापते ॥२६॥

परदारपरप्राणपरवित्तापहारिणः ।

विचरन्ति नराः कामक्रोधलोभपरायणाः ॥२७॥

धनं नास्त्यस्ति वा स्तोकं तदधर्म्यं न तिष्ठति ।

मुष्णाति दक्षिणं पाणिं वामो वामं च दक्षिणः ॥२८॥

दास्यं द्विजः श्रयति शूद्रतपस्विशिष्यः

शूद्रान्वयः कृषिवणिक्क्रियया कृतार्थः ।

वैश्यः स्वजात्यरुचिविप्रविवाहकारी

होता गुरु वदति मन्त्रपदानि शूद्रः ॥२९॥

शौचं नास्ति कुतः परोपकृतयः सत्यस्य वार्तैव का

रौद्रः क्षुद्रतया परं परधनद्रोही दरिद्रो जनः ।

लेशेनापि सुखं खपुष्पसदृशं स्वैरापचाराः स्त्रियः

सम्पूर्णं युगसंक्षेपयस्य पुरतः संलक्ष्यते लक्षणम् ॥३०॥

कल्पान्तघनसङ्घातनिर्घातसलिलाहतम् ।

जगदेकार्णवीभूतमचिरेण भविष्यति ॥३१॥

सर्वबीजभूतां तस्मिन्काले सप्तर्षिभिः सह ।

मत्सृष्टां नावमारुह्य स्थातव्यं स्थितये ॥३२॥

मनःप्रकम्पनं श्रुत्वा मत्स्यस्य वचनं मनुः ।

तत्तथेति प्रतिश्रुत्य जगाम निजमाश्रमम् ॥३३॥

अथोद्ययौ दिशां देहपरित्यागाग्निमण्डली ।

कालजिह्वासमूहाभा द्वादशार्कोदयद्युतिः ॥३४॥

अनेकोच्चण्डमार्तण्डप्लुष्टे भुवनमण्डले ।

चराचरजगत्सर्वः सहसा भस्मसादभूत॥३५॥

अथादृश्यत कार्तान्तमहिषस्येव सन्ततिः ।

निर्दग्धजगदङ्गारमलिना मेघसन्ततिः ॥३६॥

ततः पपात नीरन्ध्रधारासारभरः क्षितौ ।

विश्वसङ्क्षयशोकाश्रुप्रवाहः ककुभामिव ॥३७॥

संवर्तकानलप्लुष्टे सप्तपातालमण्डले ।

कल्पान्तपवनापातभग्ने ब्रह्माण्डमण्डपे ॥३८॥

पुष्करावर्तकाम्भोभृत्सृष्टवृष्टिसमुत्प्लवैः ।

जगदेकार्णवीभूतं क्षणेन समपद्यत ॥३९॥ (युग्मम्)

विपुले विप्लवे तस्मिन्मत्स्यस्य वचनं स्मरन।

भुजविक्षिप्तसलिलस्तं द्रष्टुमगमन्मनुः ॥४०॥

स ददर्श महामत्स्यं चण्डांशुशशिलोचनम् ।

कृतैक्यमिव संहारे दिनरात्रिप्रकाशयोः ॥४१॥

बिभ्राणं मेरुसङ्काशं शृङ्गं शिरसि काञ्चनम् ।

अम्भोभिरावृतस्थानं निर्यान्तमिव बाडवम् ॥४२॥

पुच्छाच्छोटोच्छलितसलिलालोलकल्लोलजालैः

श्वासाभ्यासप्रसरदमलोत्तुङ्गरङ्गत्तरङ्गैः ।

खं कुर्वाणं श्रितमिव घनोल्लासकैलासलक्षैर्

दृष्ट्वा मत्स्यं हरिरिति मनुस्तत्प्रणामानतोऽभूत॥४३॥

तदुच्चशृङ्गसंलग्नां नावं धृतिमिवायताम् ।

आरुरोह गिरा तस्य सह सप्तर्षिभिर्मनुः ॥४४॥

तस्मिन्काले निरालम्बे मार्कण्डेयो निराश्रयः ।

देवर्षिः सलिलग्रस्तं दृष्ट्वा जगदचिन्तयत॥४५॥

अहो बत महानेष कालः सङ्कलिताखिलः ।

जगद्ग्रासरसाभ्यासादनिशं न निवर्तते ॥४६॥

क्व स सनगरग्रामग्रामः समग्रगिरीश्वरः

प्रथितभुवनाभोगः सेन्दुग्रहार्कगतिर्गतः ।

अहह कुटिलस्वप्नोत्पन्नैरिवाश्रितविभ्रमैर्

भ्रमयति भवे भावैः कालः कृतैरथ संहृतैः ॥४७॥

मान्यास्ते मुनयस्तपोवनबुवस्तास्तीर्थसार्थार्थिताः

शौर्योत्साहमहोदयाः क्व बत ते भूभूषणं भूमिपाः ।

अन्ते सज्जनमन्युनीचविनयस्त्रीचित्तधूर्तभ्रम

स्वप्नाकारमधर्मलब्धधनवत्कष्टं न किंचित्स्थितम् ॥४८॥

इति सचिन्तयन्दोर्भ्यां विक्षिप्तसलिलस्तरन।

तामासाद्य मुनिर्नावमाललम्बेऽम्बरोन्मुखीम् ॥४९॥

आकृष्यमाणः स तया मत्स्यशृङ्गाग्रकृष्टया ।

मग्नोन्मग्नः प्रपेदेऽन्तं संसारस्येव नाम्भसः ॥५०॥

त्वङ्गत्तुङ्गतरङ्गभङ्गविहितव्योमाङ्गनालिङ्गने

वाताघातविभक्तयोजनशतावर्ते च निम्नेऽन्यतः ।

अक्षोभस्थितिनिश्चले स्फटिकभूतुल्ये प्रसन्ने क्वचिन्

नासालग्नजलः श्वसन्मुनिवरस्तोये श्रमार्तोऽभवत॥५१॥

अनर्कचन्द्रनक्षत्रे दिनरात्रिविवर्जिते ।

अप्रमाणे गते काले मध्यं प्रापाम्भसो मुनिः ॥५२॥

तत्र सप्तर्षिभिर्जुष्टां मनुना च प्रजासजा ।

नावं मत्स्यं च नापश्यन्मुह्यमानमना मुनिः ॥५३॥

अथ विद्रुमवैदूर्यहेमशाखासहस्रिण ।

उद्गतस्याम्भसो मध्यान्न्यग्रोधस्य महातरोः ॥५४॥

अङ्के पर्यङ्कबन्धेन स्थितं कमललोचनम् ।

ददर्श श्यामलं बालं दीप्ताभरणभूषितम् ॥५५॥ (युग्मम्)

तत्समीपमवाप्तोऽथ स मुनिर्जलविह्वलः ।

निपीतः शिशुना तेन पयश्चुलुकलीलया ॥५६॥

तस्योदरे सगिरिगह्वरसागराणि

द्वीपापगानगरतीर्थतपोवनानि ।

पश्यन्नशेषभुवनान्यनिशं महर्षिर्

नैवान्तमन्तरचरः क्वचिदाससाद ॥५७॥

प्रयाते विपुले काले निष्क्रान्तस्तन्मुखान्मुनिः ।

अपश्यन्नाभिजाम्भोजे तस्य जातं प्रजासृजम् ॥५८॥

ब्रह्मणो मानसाज्जातैः प्रजापतिभिरद्भुतः ।

मनुमुख्यैः कृतः प्राग्वत्सर्गः पुनरदृश्यत ॥५९॥

अथ बहुविधवर्णाकारचेष्टानुभावं

समविषमविभागं कर्मरेखाविभागैः ।

नवविधिविहितं तद्विश्वनिर्माणचित्रं

भुवनभवनभित्तिव्यक्तसंसक्तमासीत॥६०॥

इति श्रीव्यासदासापराख्यश्रीक्षेमेन्द्रविरचिते

दशावतारचरिते मत्स्यावतारः प्रथमः

॥१॥

*****************************************************

.

(२)

कूर्मावतारो द्वितीयः

दक्षस्ततः सर्गविधानदक्षः

प्रजापतिः कान्तिविभूषिताशः ।

एकधिकाः सर्वगुणोन्नतेभ्यः

शतार्धसङ्ख्याः प्रददौ स्वक्न्याः ॥१॥

ज्येष्ठामुमाख्यां भगवान्पिनाकी

त्रयोदशान्याः किल कश्यपश्च ।

सप्ताधिकां विंशतिमत्रिपुत्रश्

चन्द्रः प्रपेदे दशकं च धर्मः ॥२॥

असूत देवानदितिः समस्तान्

दैत्यान्दितिः कश्यपतः क्रमेण ।

कद्रूश्च नागान्गरुडारुणौ च

खगादिनाथौ विनताभिधाना ॥३॥

दनुस्तथा दानवसङ्घमुग्रं

शुनां जनित्री सरमा बभूव ।

अन्यासु चाभूदथ कश्यपस्य

हंसादिभेदेन विहङ्गवर्गः ॥४॥

ततः सुराणां बलवत्तराणां

दितेः सुतानां च भुजोर्जितानाम् ।

दुग्धोदधौ मन्दरभूधरेण

सुधाप्तये मन्थमनोरथोऽभूत॥५॥

अथार्थितोऽभ्येत्य हिताय विष्णुः

सुरासुरैः प्रीतिधृतैककार्यः ।

मन्थक्षमं मन्दरमादरेण

दलद्दरीकन्दरमुज्जहार ॥६॥

तटे निविष्टेषु सुरासुरेषु

तार्क्ष्यध्वजं क्षीरनिधिर्निरीक्ष्य ।

प्रक्षेप्तुमभ्युद्यतमद्रिराजं

कृताञ्जलिर्विग्रहवानुवाच ॥७॥

चतुर्मुखः सृष्टिमिमं तनोषि

विष्णुः स्थितिं पासि जगन्निवास ।

अन्ते हरः संहरसि त्रिलोकीम्

एकस्त्रिधा कारणभेदतस्त्वम् ॥८॥

भवद्भुजोत्क्षेपरयेण मुक्तः

स्वातन्त्र्यनिर्यन्त्रगतिः प्रमाथी ।

न सप्त पातालतलावभेदी

क्वाप्येष विश्राम्यति शैलराजः ॥९॥

मन्थप्रयत्नो यदि सर्वथैव

तच्चिन्त्यतामस्य धृतिर्महार्द्रेः ।

वोढुं दृढोपक्रमकार्यभारं

धृत्या विहीनः किल कः समर्थः ॥१०॥

यथार्थमाकर्ण्य सुधार्णवोक्तं

युक्तं विनिश्चित्य तथेति विष्णुः ।

मन्थोद्यमे मन्दरधारणाय

द्वितीयरूपेण बभूव कूर्मः ॥११॥

घनप्रमोदप्रतिमेन तेन

विस्तारिणान्तः परिपूर्यमाणः ।

तरङ्गदोर्भिर्गगनाग्रगङ्गां

क्षीरोदधिः क्षीव इवालिलिङ्ग ॥१२॥

क्षिप्रस्य सावेगमथाच्युतेन

सेहे भरं भूमिभृतः स कूर्मः ।

नवेश्वरस्येव विशृङ्खलस्य

स्वकार्यसिद्ध्यै मतिमान्विकारम् ॥१३॥

गिरा गरीयान्गरुडध्वजस्य

वक्रक्रियां वासुकिरादधानः ।

आकर्षयोग्यं हृदयग्रहेण

चक्रे गिरिं मुग्धमिवातिधूर्तः ॥१४॥

अथाद्रिनाथे त्रिगुणानुबद्धं

मन्थोत्थिता मन्थनकार्यसिद्ध्यै ।

भुजङ्गराजं जगृहुर्महेच्छाः

पुच्छेन देवा वदनेन दैत्याः ॥१५॥

अथ मथनविधाने क्षोभनेऽब्धेः प्रवृत्ते

भुवनभवनभङ्गभ्रान्तिहेतुर्बभूव ।

कठिनकमठपीठप्रष्ठपृष्ठप्रतिष्ठ

प्रविलुठदचलेन्द्रोद्घातनिर्घातघोषः ॥१६॥

ततः श्रियः स्फाटिकमण्डपाभं

दन्तायतस्तम्भचतुष्टयाङ्कम् ।

मन्थोत्थमैरावतमिन्दुशुभ्रं

द्विपेन्द्रमिन्द्राय ददावुपेन्द्रः ॥१७॥

स सत्त्वमुच्चैः श्रवसं च सप्तिं

निर्दोषमुत्साहगौणौपपन्नम् ।

प्रभाभिरामं सकलक्रियार्हं

सूरप्रतापोदयसुप्रकाशम् ॥१८॥

श्रमश्वसद्वासुकिसृग्विनिर्यद्

विषानलोल्काविकरालवक्त्रान।

विलोक्यदैत्यान्पुरतः पयोधेर्

अथोद्ययौ हास इवामृतांशुः ॥१९॥

स्वयं समादाय हरिर्हिमांशुं

हरस्य चूडाभरणीचकार ।

गुणोचितस्थानसमर्पणेन

पुष्णन्ति मानं महतां महान्तः ॥२०॥

अथोदितं कौस्तुभमब्जनाभः

स्वभावहृद्यं हृदये बबन्ध ।

सम्पूरिताशं विशदप्रकाशः

कृतज्ञधीः साधुरिवोपकारम् ॥२१॥

समुन्मिषद्विद्रुमहेमशाखा

सहस्रनिर्यन्नवरत्नपत्रः ।

जातः सुधाब्धेरथ पारिजातः

स्वयं महेन्द्रोपवनं जगाम ॥२२॥

अथोद्ययावुत्कालकूटः

समीरसम्मोहितदेवदैत्यः ।

दानोद्यतस्य स्वरसेन सिन्धोर्

अत्यर्थमर्थार्थनयेव कोपः ॥२३॥

विष्णोर्गिरा विश्वहितप्रवृत्तः

शिवस्तदत्युग्रतरं निगार्य ।

गौरीपरिष्वङ्गरसादिवाभूत्

कपोलकालागुरुनीलकण्ठः ॥२४॥

सुधाब्धिमध्यान्नवनीतमृद्वीम्

अभ्युद्गतां कान्तितरङ्गिताङ्गीम् ।

ततः श्रियं श्रीरमणः प्रपेदे

स्वयंवरक्षिप्तकटाक्षमालाम् ॥२५॥

अथौषधीनां घनसौरभेण

श्रमापहारी त्रिदशासुराणाम् ।

हर्षाय धन्वन्तरिराविरासीत्

पीयूषपूर्णः कलशश्च पश्चात॥२६॥

सुरापनीतद्विरदाश्वरत्न

शशाङ्कलक्ष्म्यक्षमिणोऽतिजिह्माः ।

दिवौकसां मूलवधे प्रवृत्ता

दैत्याः सुधां जह्नुरलक्ष्यवेगाः ॥२७॥

पीयूषपूर्णं कलशं जवेन

हृत्वा प्रयातेष्वसुरेषु विष्णुः ।

मन्याचलेन्द्रं स्वपदे निधाय

क्षणं प्रदध्यौ विबुधार्थसिद्धिम् ॥२८॥

सुनिर्मलाङ्गीं सुरवैरिवासां

वामाकृतिं कामकृपाणवल्लीम् ।

तनीयसीं विश्वतनुस्तनुं स्वां

लावण्यलीलालहरीं चकार ॥२९॥

तरलदलनलीलामित्रनेत्रत्रिभागैः

श्रवणकुवलयस्य क्लैब्यमापादयन्ती ।

अमृतहरणहेलादृप्तदैत्येश्वराणां

हृदयहरणसज्जा सा समीपं जगाम ॥३०॥

शृङ्गारिणीं भगवतस्तनुमच्युतस्य

दृष्ट्वाद्भुतां त्रिभुवनाभिमतां बभूव ।

भव्यप्रभावविभवाय मनोभवस्य

तद्विभ्रमप्रभवभावभवोऽभिमानः ॥३१॥

मनसिजविजयोद्यद्यद्वैजयन्तीविलासां

तुहिनकिरणहासां तां विलोक्यैव दैत्याः ।

झटिति गतविवेकाः शेकुराश्चर्यमोहाद्

अमृतमनृतलब्धं नैव पातुं न हातुम् ॥३२॥

सन्त्यज्य लब्धामृतपाणतृष्णां

ते प्रेमलब्धामृतपानलुब्धाः ।

गाढाभिलाषोष्णविषानुबन्धाद्

ऊचुर्मिथः प्रस्खलितप्रतापाः ॥३३॥

पूर्णेन्दुर्वदने गतौ गजपतिर्लावण्यसारे सुधा

श्रीर्गात्रे मधुराधेर्ऽरुणमणिः सम्भाव्यते सुभ्रुवः ।

नीतं यत्त्रिदशैरहो सुमतिना भीतेन दुग्धाब्धिना

तत्सर्वं परितोषणाय वनिताव्याजेन नः प्रेषितम् ॥३४॥

तीव्रश्रमाप्तममृतं यदि बुद्धिमोहाद्

एतत्कराम्बुरुहदत्तमिदं न पीतम् ।

तत्किं वृथा दलितकन्दरमन्दराद्रिम्

अन्द्यैरुपद्रवशतैः परिखेदितोऽब्धिः ॥

इत्युक्त्वामृतपूर्णरत्नकलशं तस्यै ददुर्दानवाः

साप्यादाय तमम्बरेण सहसा धामामराणां ययौ ।

अन्यायेन यदर्जितं कथमिह स्वास्थ्येन तद्भुज्यते

यत्नात्तोऽपि पलायते विहगवन्मूढस्य हस्तान्निधिः ॥३६॥

प्रत्याहृतं तत्कमलाघवेन

पातुं प्रवृत्तेष्वमृतं सुरेषु ।

विवेश राहुः सुररूपगूढस्

तन्मध्यमास्वादविशेषलुब्धः ॥३७॥

जिह्वाग्रलग्नं रससारमाद्यं

आस्वादयन्विस्मयलोलवक्त्रः ।

राहुर्मुहुः कातरतामवाप्तः

संसूचितः सोमदिवाकराभ्याम् ॥३८॥

अर्धग्रोत्काररावप्रविलुठदमृते कण्ठपीठेऽथ राहोर्

वक्त्रस्य क्रूरकोपात्क्रमरहिततया चक्रिचक्रेण कृत्ते ।

निर्यान्ती व्यक्तरक्तस्रतिभरशबला शेषपीयूषधारा

हाराग्रालीनपीनारुणमणिकिरणश्रेणिशङ्कां चकार ॥३९॥

इति स भगवान्विष्णुः कूर्माकृतिर्धृतभूधरः

सुरहितविधौ बद्धश्रद्धः सुधां विदधेऽम्बुधेः ।

अविचलतया संसक्तानां परोपकृतिव्रते

भवति महतां स्फीतोत्साहे मनागपि न श्रमः ॥४०॥

इति श्रीव्यासदासापराख्यश्रीक्षेमेन्द्रविरचिते

दशावतारचरिते कूर्मावतारो द्वितीयः

॥२॥

*************************************************************************

.

(३)

वराहावतारस्तृतीयः

अथामृते विष्णुहृते दितेः सुतः

कृतो हिरण्याक्ष इति प्रभावभूः ।

तपः श्रिया सर्वजगज्ज्योतिर्जिताम्

अवाप भूतिं परिभूतवासवः ॥१॥

कदाचिदास्थानसमाभुवं श्रितः

स विप्रचित्तिद्रुमभौमतारकान।

निसुम्भसुम्भान्यकजम्भशम्बरान्

महासुरान्वृत्रमुखानभाषत ॥२॥

अपि श्रुतं दृष्टमदृष्टमीदृशं

सुरैः कृतं वक्रतया कुकर्म यत।

न मर्मसंलग्नविषोक्षितेषुवत्

करोत्यहो दुःसहदाहलाघवम् ॥३॥

न लज्जते सज्जनवर्जनीयया

भुजङ्गवक्रक्रिययापि दुर्जनः ।

धियं कुमायासमयाभिचारिणीं

विदग्धतामेव हि मन्यते खलः ॥४॥

रणाग्रभित्तिर्लिखितेव चक्रिणा

दिगन्तपट्टेष्वयशोयषीभरैः ।

भुजाभिमानाभरणः करोति किं

सुधापहारं वनिताकृतिच्छलात॥५॥

निपीयपीयूषमुपायमायया

जराक्षयादक्षयकायतां गताः ।

ध्रुवं समुत्सारितसम्पदः सुराः

सदैव निन्दन्त्यतिदीर्घजीवितम् ॥६॥

अदानभोगेन धनोदयेन किं

मदस्पृशा द्वेषजुषा श्रुतेन किम् ।

सदम्भसम्भारवता व्रतेन किं

विपद्विमानेन कुजीवितेन किम् ॥७॥

यस्मिन्नूर्जिततेजसा निजभुजोत्साहार्जिताः सम्पदो

भुजन्तेऽल्पतरोऽप्यनल्पसुकृतैह्पूज्यः स जीवक्षणः ।

याच्ञाक्लिष्टनिकृष्टचेष्टमनिशं कष्टेऽप्यपुष्टाशनं

काकानामिव पुण्यपिण्डकभुजां कस्येष्टमायुश्चिरम् ॥८॥

विवासिताः स्वर्गपदान्मयाधुना

सुधानिबद्धायतजीवितद्विषः ।

व्रतानि देवाः कुगतिक्षताः क्षितौ

चरन्ति तीर्थेषु तपोवनेषु ॥९॥

घनावमानाशनिशातितौजसां

वियोगिनां दैवनिपीतसम्पदाम् ।

प्रतिक्रियाहीनरिपुप्रणामिनां

प्रजायतेऽतीव तपोवनादरः ॥१०॥

रिपोर्गतस्यापि शरीरशेषतां

न नामयुक्तं क्षणमप्युपेक्षणम् ।

अतः सुराणां व्यसनप्रवासिनां

समूलनिर्मूलनकर्म कुर्महे ॥११॥

इति स्थिरान्तर्गतगूढमन्युना

यथार्थयुक्तं सुरवैरिभूभृता ।

निशम्य दैत्याः प्रमदात्तमूचिरे

सुधापहारोग्रनिकारदारिताः ॥१२॥

वयं त्वदाज्ञापरतन्त्रवृत्तयः

पराभवं शत्रुकृतं सहामहे ।

रिपुक्षमापङ्ककलङ्कितं यशो

न नाकिकान्ताश्रुजलैः पुनीमहे ॥१३॥

स कुञ्जरेन्द्रः स हयः स कौस्तुभः

प्रसह्य सा श्रीः स शशी स पादपः ।

हृताः सुरैरेव विलोकिताः पुरः

प्रणष्टचेष्टैर्लिखितैरिवासुरैः ॥१४॥

अमर्षिभिर्मर्षित एष दुःसहः

सुधाशया दैत्यवरैर्व्यतिक्रमः ।

न सापि पीता बत निष्फलोदयः

कृतोऽतिलोभादभिमानविक्रयः ॥१५॥

पुनः पुनः किं विपुलं विचार्यते

समीहितं हन्त हिते विधीयताम् ।

भवत्यभावप्रभवे दिवौकसां

न नाम नामापि यथा जगत्त्रये ॥१६॥

इति प्रवृद्धोद्धतमन्युमूर्च्छितैः

सुरारिभिः क्रूरतरैरुदाहृतम् ।

प्रियं समाकर्ण्य हिरण्यलोचनः

प्रमोददिग्धः सचिवानभाषत ॥१७॥

अतीव युक्तं मतमायतिक्षमं

भवद्भिरुक्तं हितयुक्तमुत्तमम् ।

विनाशसज्जः प्रथमे दिवौकसां

क्षितिं स्थितिं देहधृतिं हराम्यहम् ॥१८॥

ममाज्ञया सम्प्रति सैन्यनायकाः

प्रविश्य पातालतलं बलाधिकाः ।

क्षितिं समाक्षिप्य नयन्त्वदृश्यताम्

असंशयं संक्षय एव विद्विषाम् ॥१९॥

इति प्रभोर्भ्रूभ्रमभीमशासनं

निशम्य दैत्याः पृथिवीप्रवासनम् ।

समुच्चलन्तश्चरणैः प्रचक्रिरे

क्षितिं क्षयत्रासविसंस्थुलामिव ॥२०॥

अथ दितिसुतसेना मज्यमानाननानां

स्थितिविदलनलज्जां दिग्गजानां दिशन्ती ।

धरणिहरणसज्जा मज्जयन्ती दिगन्तान्

अविशदतिविशालोत्तालपातालमूलम् ॥२१॥

क्षितौ हृतायां दितिजैः सदानवैर्

जगत्सु जाते स्थितिलोपविप्लवे ।

भुवं समुद्धर्तुमथाच्युतः स्वयं

वराहवक्त्रः प्रविवेश भूतलम् ॥२२॥

स राजवर्ताचलतुल्यविग्रहः

सशङ्खचक्रः शशिसूर्यवानिव ।

अकालसन्ध्यामिव पिङ्गलोचनः

प्रभां बभार क्षयलक्षणां द्विषाम् ॥२३॥

स सप्तपातालतलान्तकोटरे

निसूदितामुन्मददानवैर्महीम् ।

समुज्जहाराम्बुविहारलीलया

तनीयसीं शेवलवल्लरीमिव ॥२४॥

पोत्रप्रान्तसमुद्धृता भगवतः क्रोडाकृतेः श्यामला

दंष्ट्राग्रे शशिनीव लक्ष्मलहरीशोभां दिशन्ती क्षणम् ।

वक्रालोकनकम्पभीतितरला स्वेदाम्बुतिम्यत्तनुर्

लीलापल्लवमुस्तपत्रलतिकालीलामुवाह क्षितिः ॥२५॥

अथाययौ भूमिसमुद्धृतिक्रुधा

सुधापहारस्मृतिवर्धमानया ।

भरेण दैत्याधिपतिश्चलच्चमू

रजः पटग्रस्तसमस्तवासरः ॥२६॥

ततस्तदुत्सृष्टराश्ममुद्गर

त्रिशूलपाशाङ्कुशशक्तितोऽमरैः ।

बभूव देवः परिपूरिताकृतिर्

महाभ्रवर्षैरिव निश्चलोऽचलः ॥२७॥

आशाकाशप्रसृतवपुषा व्याप्तसप्ताब्धिलोकः

स्तोकारम्भक्षुभितभुवनभ्रंशशङ्कानिलीनः ।

स्वस्थां धृत्वा स्थिरनिजपदे क्ष्मां हिरण्याक्षमुग्रं

क्रोडीकृत्य प्रसभमवधीत्क्रीडया क्रोडराजः ॥२८॥

इति स भगवान्विष्णुर्जिष्णुर्जगत्कुशलक्रिया

प्रणिहितमतिः कृत्वा विश्वं समृद्धृतकण्टकम् ।

निजनिजपदे धृत्वा देवाञ्जगत्त्रितयस्थितिं

विभुरभिनवोत्साहां चक्रे पुनः प्रथमामिव ॥२९॥

इति श्रीव्यासदासापराख्यश्रीक्षेमेन्द्रविरचिते

दशावतारचरिते वराहावतारो तृतीयः

॥३॥

***************************************************

.

(४)

नृसिंहावतारश्चतुर्थः

हते महावराहेण हिरण्याक्षे क्षितिद्रुहि ।

हिरण्यकशिपुः श्रीमान्भवत्तत्सुतोऽधिकः ॥१॥

नो ननाम रणे यस्य क्षणाद्विश्वक्षयं विना ।

दोर्दण्डपीडनक्रीडाव्रीडाकुण्डलितं धनुः ॥२॥

प्रतापकेसरी यस्य निःशेषीकृतविद्विषः ।

अलब्धयुद्धा सुष्वाप जगद्गिरिगुहागृहे ॥३॥

स जभवृत्रनमुचिप्रमुखैर्दैत्यदानवैः ।

हेमसिंहासनासीनः सह भेजे सभाभुवम् ॥४॥

प्रणमद्दैत्यसामन्तप्रतिबिम्बभरक्षमे ।

विपुले रत्नपर्यङ्के विन्यस्तचरणाम्बुजः ॥५॥

पार्श्वे हठहृतामर्त्यतरुणीचामरानिलैः ।

प्राणेशविरहोच्छ्वासैरिव लोलांशुकाञ्जलः ॥६॥

तस्याग्रे विग्रहग्रस्तसमस्तसुरसम्पदः ।

तेजसा मुद्रितः कश्चिन्न वक्तुमभवद्विभुः ॥७॥

तस्मिन्निःशब्दशञ्चारे दैत्यवृद्धः सभातले ।

प्राह राहुः शिरः शेषः सुरवैरं वहन्मखे ॥८॥

दैत्याधिनाथ धन्योऽसि युधि येनासिधारया ।

क्षमापङ्ककलङ्काङ्कं कुलस्य क्षालितं यशः ॥९॥

सुरापकारशल्यानि भ्रूभेदेन तवाधुना ।

कामं कङ्कमुखेनेव हृदयादुद्धृतानि नः ॥१०॥

पूज्यं जन्म प्रथितयशसस्तस्य माहाम्त्म्यपूतं

मानस्तस्यामरगिरिगुरुर्वर्धते निष्प्रमाणः ।

बद्धस्तेन स्थिरगुणकथा हेतुरौचित्यसेतुर्

यस्योन्नत्या कुलमविकलं याति सर्वोन्नतत्वम् ॥११॥

अल्पागसां वृथास्माभिः कृता हिंसा दिवौकसाम् ।

विष्णुर्मूलं विकाराणामवलेपादुपेक्षितः ॥१२॥

तन्वी मूर्तिः कुसुमकलिकाकोमला सा च वाणी

वक्त्रं सौम्यं हृदयमदयं दूषितं चेष्टितं च ।

वैदग्ध्यं तद्बत मधुरिपोर्मायया मौग्ध्यदिग्धं

वामामूर्तेरमृतहरणे हन्त किं विस्मृतं वः ॥१३॥

यश्चमत्कारविरहान्न स्मर्ता स्नेहवैरयोः ।

तेन तुष्टेन रुष्टेन मित्रारिविफलेन किम् ॥१४॥

दैत्येश्वरे हिरण्याक्षे क्षपिते तार्क्ष्यलक्ष्मणा ।

शृङ्गभङ्गः समुत्तुङ्गो दैत्यक्षितिभृतां कृतः ॥१५॥

साधारोदधिमन्थोत्थां लक्ष्मीं वक्षसि कुर्वता ।

तेनाबलानामस्माकं स्त्रीत्वमेवोपपादितम् ॥१६॥

लक्ष्मीकौस्तुभपरिजातहरणं स्त्रीमायया वञ्चनं

मत्कण्ठे कठिनेऽमृतस्य लुठतो विघ्नाय चक्रक्रिया ।

दैत्येन्द्रैरवलेपविद्रुतमदैर्दैवेन वा मुद्रितैर्

वैकुण्ठस्य शठस्य कुण्ठपतिभिश्चिन्त्यं न तच्चिन्तितम् ॥१७॥

अधुन दानवपते खड्गपातपवित्रितः ।

पितुर्विष्णुवधश्रद्धाश्राद्धकालो विधीयताम् ॥१८॥

इत्युक्ते राहुणा स्पष्टं क्लिष्टमुखत्विषः ।

बभूवुर्लक्ष्यवैलक्ष्याः प्रेक्षमाणाः क्षणं क्षितिम् ॥१९॥

अमानमौनमूकेषु दानवेष्वभिमानिषु ।

उवाच तारकः कृत्वा राहोरभिमुखं मुखम् ॥२०॥

साभिमानमसम्भाव्यमौचित्यच्युतमप्रियम् ।

दुःखावमानदीनं वा न वदन्ति गुणोन्नताः ॥२१॥

सर्वङ्कषेण कालेन दैत्येन्द्रे कवलीकृते ।

किं मिथाकारणत्वेन नीयते विष्णुरुन्नतिम् ॥२२॥

कल्पान्ते क्षिप्यते येन सुमेरुः पांसुलीलया ।

विलम्बं कुरुते तस्य कः कालस्य बलीयसः ॥२३॥

यस्य त्रैलोक्यभर्तुः सुरपतियशसां हर्तुराश्चर्यकर्तुः

कोटीनां षण्णवत्या सुगणितवयसो वर्षसङ्ख्या बभूव ।

निःशङ्काश्वासलीलालससरलमतेरङ्कसुप्तस्य मैत्र्याश्

चित्रं तस्यापि कालः कवलनकलनातीतविघ्नः कृतघ्नः ॥२४॥

देवमेव वधे तस्य कारणं दैत्यभूभृतः ।

हरिर्हन्ति हिरण्याक्षमिति किं केन सङ्गतम् ॥२५॥

निर्यन्त्रणं स्वतन्त्रस्य विचित्रचरितं विधेः ।

किं पात्यते न कीटेन शतशाखी वनस्पतिः ॥२६॥

बलवान्दुर्बलं हन्तीत्येष नास्त्येव निश्चयः ।

दीपं हन्ति पतङ्गोऽपि पन्नगं च पिपीलिकः ॥२७॥

भीरुर्जयति सङ्ग्रामे याति वीरः क्षयं क्षणात।

एवंविधा एव भवे भवन्ति भवितव्यता ॥२८॥

दैत्येन्द्रस्यारिसंहारे प्रेरणा क्वोपयुज्यते ।

प्रेर्यते दन्तिदलने कानने केन केसरी ॥२९॥

राहो निन्दापदेशेन कृता शत्रोः स्तुतिस्त्वया ।

न वेत्सि हृदयाभावादनौचित्योक्तिलाघवम् ॥३०॥

इत्युक्ते तारकेणाप्तजीविनामिव मानिनाम् ।

साधु साध्विति दैत्यानां निश्चेरुर्युगपद्गिरः ॥३१॥

अथ धर्ममतिः प्राह हिरण्यकशिपोः सुतः ।

प्रह्लादः पितुरासन्ने यौवराज्यासने स्थितः ॥३२॥

तात तिष्ठत्सु वृद्धेषु षाड्गुण्यज्ञानमानिषु ।

मद्विधानामिदं वक्तुं युक्तमल्पधियां कथम् ॥३३॥

प्रस्थितानाममार्गेण निपातभयशङ्कया ।

दूराद्वारणनादेन येन केनचिदुच्यते ॥३४॥

अयुक्तं यद्भगवतो विष्णोर्निन्दाभिनन्द्यते ।

अशक्तं वाङ्मयं पापमभ्यस्तं स्वस्तिनाशनम् ॥३५॥

यस्य सद्गुणनिन्दायां श्रद्धया वाक्प्रवर्तते ।

सत्क्षेत्रोप्तमपर्याप्तमयशस्तस्य जायते ॥३६॥

विष्णोर्जगन्निवासस्य नैव द्वेष्योऽस्ति न प्रियः ।

दोषं वैरं गुणे प्रीतिर्निसर्गेण जगद्गुरोः ॥३७॥

गुणहीना वयं नूनं त्रिदशा गुणशालिना ।

हरिः कुतोऽन्यथास्मासु विमुखस्तेषु संमुखः ॥३८॥

प्रयत्नः स्वगुणाधाने येन बुद्धिमता कृतः ।

भूतये प्रणतास्तस्य मित्रतां यान्ति शत्रवः ॥३९॥

मित्रसृष्टिर्न भिन्नास्ति शत्रुजातिर्न भिद्यते ।

गुणेन जायते मित्रं दोषेणोत्पद्यते रिपुः ॥४०॥

हिंसाविरहिता चेष्टा वाणी विनयकोमला ।

यस्यावैरं मनस्तस्य शत्रुशून्या दिशो दश ॥४१॥

न तु विश्वाकृतेर्विष्णोः कर्तुं शक्या प्रतिक्रिया ।

यस्योदरदरीकोणे लीना शेते जगत्त्रयी ॥४२॥

आशाकाशावकाशप्रविसृतवपुषा व्याप्तनिःशेषविश्वः

श्वासोल्लासावहेलातलतरलतरोतालकल्लोलभाग्भिः ।

शुण्डोच्चण्डाभिघातस्फुटितमपि पुनः स्फाटिकस्फारवार्भिश्

चक्रे मत्स्यावतारस्त्रिभुवनमिव यः कस्य देवः स जेयः ॥४३॥

यस्याकरोद्विकचनाभिभवाब्जकोषे

सामस्वरेण विदधद्भ्रमराभिशङ्काम् ।

यज्ञोपवीतमुरसा धवलं दधानः

संलग्ननालतनुतन्तुरिवाब्जयोनिः ॥४४॥

दृष्ट्वैवावर्तमानं घनभुवनगणं जातलोकानुकम्पः

सम्पन्ने सर्वबन्धे स्थितिधृतिदलनातङ्कमाशङ्कमानः ।

पृष्ठे ब्रह्माण्डमन्यत्पृथुतरमकरोत्कूर्मरूपः कवाटं

यस्तस्याचिन्त्यशक्तेर्वदति मितमतिः कः स्तुतिं कश्च निन्दाम् ॥४५॥

परोक्षेऽधोक्षजाक्षेपमधिक्षेपविवक्षया ।

राहोर्व्याहरतो देहविरहात्तस्य शोभते ॥४६॥

न वैरे वाच्यता राहोर्यस्याद्यापि न शाम्यति ।

कण्ठे कठिनवैकुण्ठचक्रधारोद्धतव्यथा ॥४७॥

आक्रान्तिभरवक्त्रेण क्रूरचक्रेऽस्य चक्रिणः ।

किं दृष्टं नष्टचेष्टेन विश्वरूपं न राहुणा ॥४८॥

कुचितं दैत्यवीरेण तारकेण महात्मना ।

कथितं यत्स कालेन दयितो मत्पितामहः ॥४९॥

कालश्च भगवान्विष्णुः विश्वव्यापी सनातनः ।

अनाद्यनन्तस्य यस्यान्तर्यान्ति कल्पान्तकोटयः ॥५०॥

पूज्यतां विनय्¸अद्विष्णुस्त्यज्यतां मोहदुर्ग्रहः ।

रक्ष्यतां यक्षिणी लक्ष्मीः स्वहिते धीर्निधीयताम् ॥५१॥

मूर्खमन्त्रः खलप्रीतिः पथ्यद्वेषः प्रमादिता ।

प्रभविष्णुविरोधश्च विधिवैमुख्यलक्षणम् ॥५२॥

प्रह्लादगदितं श्रुत्वा निःशश्वासासुरेश्वरः ।

अङ्कुशाकर्षकर्षणक्लेशी वन्य इव द्विपः ॥५३॥

सोऽवदद्बत दैत्यानां दुर्निमित्तमुपस्थितम् ।

यदादिशति वृद्धानामुपदेशमयं शिशुः ॥५४॥

कुलस्यान्तनिमित्तेन स्त्रीणां दुश्चरितेन वा ।

पापशापेन वा नूनं जायन्ते कुलपांसनाः ॥५५॥

स्वकुलत्यागनिःस्नेहाश्चपला मलिनाः खलाः ।

कोकिला इव कुर्वन्ति परपक्षसमाश्रयम् ॥५६॥

कुलक्रमागतेयं श्रीः प्रह्लादाय न रोचते ।

यस्य वन्दिपदे शत्रोः स्तोत्राङ्के रमते मतिः ॥५७॥

तेजोजीवदरिद्राणां दैन्यम्लानयशस्त्विषाम् ।

जायते शत्रुषु त्रासात्क्लीबानामिव संनतिः ॥५८॥

वंशक्षयक्षमः कृष्णवर्त्मा भवति दारुणः ।

दाहाय जनकस्यादौ टङ्कारमुखरः खलः ॥५९॥

सेक्तारं जनकं त्यक्त्वा परेषां वेश्मसंश्रयाः ।

वक्त्रवृक्षाः कुजन्मानः फलन्ति च नमन्ति च ॥६०॥

कुठारिकेण येनैव च्छिन्नमूलः कृतस्तरुः ।

तस्यैव निर्माणतया मूढः पतति पादयोः ॥६१॥

कस्य प्रह्लाद मत्स्यादिमहाकारविकारिणः ।

विष्णोः स्तुत्या करोषि त्वमेताः शिशुविभीषिकाः ॥६२॥

भवत्येव भवे स्थूलाः सूक्ष्माश्चान्ये किमद्भुतम् ।

ब्रह्माण्डपरमाणुभ्यां दर्शिता स्थूलसूक्ष्मता ॥६३॥

अब्धौ धूमसमूहतुच्छतनवस्तोयं पिबन्त्यम्बुदा

पीत्वा लम्बनशून्यमम्बरतलं व्याप्यातताः शेरते ।

तद्गर्भाम्भसि विस्फुरन्ति दहनोद्गारोद्गता विद्युतः

संसारे किमभित्तिचित्ररुचिरे नालोक्यते कौतुकम् ॥६४॥

वृत्रे शत्रुहरे मघौ जयनिधौ सुम्भासुरे भासुरे

मायाधाम्नि मये रणार्णवयशः सन्तारके तारके ।

जृम्भे स्तम्भितलोकनाथपृतने रुद्धाम्बरे शम्बरे

वातापिन्यपि तापने प्रतपति स्वस्तिच्युतः क्वाच्युतः ॥६५॥

उपदेशस्त्वया प्राप्तः कस्य मूर्खगुरोर्मुखात।

जलशायी जलपतिर्दैवतं यस्य सोऽच्युतः ॥६६॥

विचार्यमाणस्तस्यास्ति गुणलेशो न कश्चन ।

एतावदेव जानेऽहं दम्भसिद्धोऽयमच्युतः ॥६७॥

ध्यानं नेत्रनिमीलनं विहसनं भ्रूकुञ्चनं घूर्णनं

शूत्कारश्वसनं विमूढगणनं शिष्यस्पृहोल्लासनम् ।

मूर्खत्रासनमुन्नतासनमतिप्रह्वस्य पादार्पणं

धूर्तानां स्तुतिभूतिसूतिसदनं दम्भप्रभावादिदम् ॥६८॥

विश्वव्यापी स चेद्देवः सर्वस्यात्मा हृदि स्थितः ।

न तद्विरहितं किंचिदचरेषु चरेषु च ॥६९॥

योऽयं मरकतस्तम्भः सभायां मे पुरःस्थितः ।

अस्यान्तःस्थं न पश्यामि दुष्पुत्र तव दैवतम् ॥७०॥

इत्युक्ते दितिजेन्द्रेण सहसा महसां निधिः ।

दीर्णान्मरकतस्तम्भान्निर्ययौ नरकेसरी ॥७१॥

सुवर्णशुक्तिद्वन्द्वाभं विभ्राणः श्रवणद्वयम् ।

अन्तःस्फुरत्प्रकोपाग्निर्यज्ज्वालायुगोपमम् ॥७२॥

सितः केसरभारोऽस्य बभौ स्कन्धद्वयाश्रयः ।

मेरुशृङ्गयुगासङ्गिशुभ्राभ्रवलयप्रभः ॥७३॥

जृम्भमाणस्य तस्यास्ये ललास रसना मुहुः ।

कल्प्¸अन्तानललेखेव हेमाचलगुहागृहे ॥७४॥

नखास्तस्य बभुर्भीतिभग्नेनाङ्ककलोज्ज्वलाः ।

दैत्यासृक्पानसन्नद्धमृत्युस्फटिकशुक्तयः ॥७५॥

तस्य रौद्रतयोन्निद्ररोमाञ्चोत्कटकण्टकाः ।

असूचयन्बहिर्घोरक्रौर्यकर्कशतामिव ॥७६॥

दैत्यकल्पान्तकालेन द्वादशार्कोदयत्विषा ।

तत्तेजसा व्यदीर्यन्त तेजांसि च तमांसि च ॥७७॥

करालकेसरिमुखं दृष्ट्वा दितिजकुञ्जराः ।

ते भग्नवदनोत्साहा ययुर्मददरिद्रताम् ॥७८॥

तद्दर्शनाद्भुताक्रान्तः किमप्यातङ्कशङ्कितः ।

आसनादुच्चलन्नूचे हिरण्यकशिपुः श्वसन॥७९॥

नायं सिंहो न चायं पुरुषवपुरहो कोऽप्यपूर्वप्रकारः

क्षिप्रोपेक्षाक्षमास्मिन्न हि न हि तरसा गृह्यतां गृह्यतां भोः ।

आस्तां सज्जोऽहमस्य स्वयमिह दमनायेत्युदार्यासुरेन्द्रस्

तं चक्रे शस्त्रवृष्ट्या निचितमुपचितादञ्चिरोमाञ्चपूर्णम् ॥८०॥

व्याप्तः शस्त्रास्त्रवर्षेण हेलोन्मीलितलोचनः ।

हरिर्दैत्येन्द्रमादाय विस्फुरन्तमपीडयत॥८१॥

उत्तानमङ्के विन्यस्य पिङ्गभ्रूभङ्गया दृशा ।

अकालसन्ध्यामसृजन्नृहरिस्तं विलोकयन॥८२॥

दैत्येन्द्रहाररत्नाङ्के स्ववक्त्रं प्रतिबिम्बितम् ।

करालक्रूरमालोक्य सोऽभूदद्भुतविस्मयः ॥८३॥

अयं मां योद्धुमायात इतीव हसितच्छलात।

दैत्यवक्षसि चिक्षेप हरिर्नखपरम्पराम् ॥८४॥

तस्योग्रसिंहनखशुक्तिशिखावखात

वक्षःस्थलव्रणगुहाप्रतिशब्दधीरः ।

भोस्तिष्ठ तिष्ठ चपल क्व गमिष्यसीति

कण्ठे स्वनः सह यया वसुभिः समाप्तिम् ॥८५॥

विदीर्णे दैत्येन्द्रे खरनखरदानैर्नरहरेश्

चकाशे रक्ताक्तत्रुटितततहाराग्रगलितः ।

शुकीतुण्डाघातव्यतिकरदलद्दाडिमरुचिर्

व्रजद्भिर्जीवांशैश्चित्त इव लुठन्मौक्तिकभरः ॥८६॥

वृत्रश्चित्रार्पिताभस्तिमिततमनमत्तारकस्तारकोऽपि

ध्वस्तः स्तम्भेन जम्भः प्रणिहितनयनः शम्बरोऽप्यम्बराग्रे ।

वातापिः सानुतापः क्षतधृतिरभवन्निर्ममः कालनेमिः

दैत्येन्द्रे रौद्रवृत्त्या नरहरिदलिते विप्रचित्तिर्विचित्तः ॥८७॥

हत्वा हिरण्यकशिपुं हरिर्हरिणलीलया ।

हर्षेण दर्शनायातान्ददर्श त्रिदशान्पुरः ॥८८॥

भीमग्नै रावणाग्रात्सुरपतिरचलद्विद्रुताश्वश्च भानुस्

त्रस्तं तत्याज वाहं महिषमपि यमश्चन्द्रमा निर्मृगोऽभूत।

पार्श्वे वक्त्रं विविग्नं गणपतिरकरोदित्यमर्त्योत्तमानाम्

अग्रे तस्योग्रमूर्तेः स्थगितगतिरभूत्सम्भ्रमः सप्रहर्षः ॥८९॥

इति स भगवान्कृत्वा विष्णुर्जगज्जनितोदयं

कुशलमचलं प्रह्लादाय प्रदाय सहायुषा ।

निजनिजपदे देवान्धृत्वा स्थिरस्थितिपालने

दमितमगमत्सौम्यां मूर्तिं विधाय सुधाम्बुधिम् ॥९०॥

इति श्रीव्यासदासापराख्यश्रीक्षेमेद्रविरचिते

दशावतारचरिते नरसिंहावतारश्चतुर्थः

॥४॥

******************************************************

.

(५)

वामनावतारः पञ्चमः

भक्त्याभिषिक्तः प्रह्लादः स्वयं देवेन विष्णुना ।

विदधे धर्ममर्यादां दितिजानां विभूतये ॥१॥

विकासहेतुर्गुणिनां मित्राभ्युदयकारिणः ।

प्रभातस्येव तस्य श्रीर्निदेषाभिमताभवत॥२॥

कालेन दैत्यमातङ्गाः संजातनिजदुर्मदाः ।

तच्छासनाङ्कुशाकर्षक्लेशलेशं न सेहिरे ॥३॥

राज्येऽभिषिच्य प्रह्लादः पात्रं पुत्रं विरोचनम् ।

भेजे सन्तोषसाम्राज्ये निःसङ्ख्यसुखसम्पदम् ॥४॥

कालेनासुरराज्येऽथ दैत्यदोषासहिष्णुना ।

त्यक्ते विरोचनेनापि तत्सुतोऽभूद्विभुर्बलिः ॥५॥

विक्रमप्रभवा संयत्सम्पन्नाभिनवोदया ।

सहस्रगुणतामेति धर्मेणाप्यायिता यदि ॥६॥

मार्गणापूरणासक्तिविस्तीर्णगुणसन्ततिः ।

स्वचापतुल्यस्त्रैलोक्यमजयल्लीलया बलिः ॥७॥

ससत्त्वतातिगाम्भीर्यं तेजः स्फूर्जितमूर्जितम् ।

तत्तस्य भूषणमभूद्दूषणं यन्महोदधेः ॥८॥

न बाणदानपूर्णेन शत्रुणा याचकेन च ।

प्रधने मार्गणे तस्य पुनः पाणिः प्रसारितः ॥९॥

क्षीणदोषस्य तस्याद्यैर्भाविभिर्वा दिनैरिव ।

न ग्रीष्मान्तदिनाभस्य महत्त्वेऽनुकृतं परैः ॥१०॥

शासनोल्लासितस्तस्य भ्रूलिसासाभ्रविभ्रमः ।

चकार सुरहंसानां सहसैव विवासनम् ॥११॥

विपपन्नविभवोत्पन्नदैन्याः शून्यवनाश्रयाः ।

गुणाप्तजनरागेण तेन विस्मारिताः सुराः ॥१२॥

अतपत्तपनो भूत्वा सोमो भूत्वासृजत्सुधाम् ।

उवाह हव्यं भूत्वाग्निर्वायुर्भूत्वा ववौ स्वयम् ॥१३॥

स दधार धरां धीरः शेषात्मा सचराचरम् ।

विधिर्भूत्वासृजद्विश्वं कुर्वन्सर्वामरक्रियाः ॥१४॥

मौलौ कमलजन्यस्तां हेममालामुवाह सः ।

सन्ध्यामिव जगद्वन्द्यां प्रतापार्कोदयाग्रजाम् ॥१५॥

तस्यातपत्रैर्यात्रासु गन्धर्वगणगीतिभिः ।

ननृतुः षट्सहस्राणि सुरवारमृगीदृशाम् ॥१६॥

तं सभाम्भोजिनीराजहंसं सिंहासनस्थितम् ।

सेवाप्ताः सप्तलोकेशमसुरेन्द्राः सिषेविरे ॥१७॥

तारकस्त्रिशिराः वृत्रः शम्बरस्तुरगाननः ।

विप्रचित्तिर्द्रुमः सुन्दः सुबन्धुर्बन्धुरन्धकः ॥१८॥

वातापिर्नमुचिर्जम्भः सुम्भः शम्भुर्जलोद्भवः ।

मायावी महिषः क्रौञ्चः कैटभो मधुरिल्वलः ॥१९॥

राहुर्गजासुराद्यश्च तत्सभासभ्यतां ययुः ॥२०॥

स बभौ जाह्नवीधूतव्यजनेनोपवीजितः ।

सेवाप्तेनेव लोलांशुकलापेन हिमत्विषा ॥२१॥

बिम्बितानन्तसामन्तलोकमौक्तिकशोभिना ।

स हारेण हरेश्चक्रे विश्वरूपप्रतिक्रियान॥२२॥

मणिकङ्कणकेयूरकिरणैः सोऽदिशद्दिशाम् ।

दरिद्र्यद्रावणोन्निद्रां सृष्टिं रत्नमयीमिव ॥२३॥

मौलौ तस्य सितोष्णीषपल्लवश्चपलाञ्चलः ।

शुशुभे भुवनाक्रान्तिहर्षहास इव श्रियः ॥२४॥

वज्रदन्तः प्रतीहारस्तस्याग्रे विदधे दिशः ।

हेमवेत्रांशुभिः पिङ्गः भ्रूभङ्गैरिव निश्चलाः ॥२५॥

सभां निःस्पन्दनिःशब्दां स कृत्वाङ्गुलिसंज्ञया ।

प्रसादप्रणयोत्साही दैत्यराजं व्यजिज्ञपत॥२६॥

पततिविनयपूते यस्य यस्य त्वदीयः

शिरसि नखमयूखोत्केसरः पादपद्मः ।

उपविशति सहर्षा तत्र तत्रातपत्र

व्यजनतिलकहासा हारझङ्कारिणी श्रीः ॥२७॥

एते बहिः प्रतीक्षन्ते देव सेवार्थिनस्तव ।

शक्रभ्रंशनिरालम्बाः सिद्धगन्धर्वकिन्नराः ॥२८॥

दृशं देहि प्रसादार्द्रां प्रणमत्येष मातलिः ।

प्रवेशप्रतिषेधोऽस्य नारदेन निवारितः ॥२९॥

एष विज्ञापयत्यग्रे हयग्रीवो हयाधिपः ।

उच्चैःश्रवाः श्रीसहजः कस्यां धुरि निधीयताम् ॥३०॥

आज्ञामर्थयते देव गजाध्यक्षो गजासुरः ।

क्वास्तामैरावणो गन्धं सहते नान्यदन्तिनाम् ॥३१॥

भार्गवस्य गिरालब्धतत्तुल्याभ्यर्चनासनः ।

मान्यतामवधानेन प्रस्तुताशीर्बृहस्पतिः ॥३२॥

विज्ञप्त्यवसराकाङ्क्षी राहुर्बहुमतस्तव ।

कमलाकेलिसदनं वदनाब्जं निरीक्षते ॥३३॥

प्रभोरभिमुखः कृत्वा क्षणं विज्ञापनमिति ।

परिवृताननोऽग्रस्थान्प्रतीहारोऽब्रवीत्पुनः ॥३४॥

रम्भे स्तम्भय विभ्रमभ्रमकरीं निर्ह्लादिनीं मेखलां

गीतं संवृणु चित्रसेन चतुरं स्वैरं पुनर्गास्यसि ।

आशीर्न प्रतिषिध्यते कुरुत तां सङ्क्षिप्य सप्तर्षयो

राहुर्दैत्यमहत्तमः प्रकुरुते विज्ञप्तिमग्रे प्रभोः ॥३५॥

द्रष्टा स्वर्गपुरे धृतः क्षितितले दत्तोऽधिकारी क्षमः

पाताले विहितश्च तत्समुचितास्तत्रैव विज्ञप्तयः ।

देवः सम्प्रति निवृत्तिप्रणयिनीं निश्चिन्ततां सेवते

पर्याप्तां सुखसुप्तसप्तभवनव्यापारपारङ्गमः ॥३६॥

इत्युक्ते वज्रदन्तेन तद्भ्रूनिर्दिष्टवेत्रिभिः ।

कृते सम्भ्रामे निःशब्दे भ्रूलेखाङ्गुलिसंज्ञया ॥३७॥

बलिः स्तोकनमन्मौलिरभिनन्द्य बृहस्पतिम् ।

तन्मानालोकनोत्साहादुच्चैरुच्चारिताशिषम् ॥३८॥

कृत्वा दृक्संविभागेन प्रणतानां कृतार्थताम् ।

विभज्याभिमताज्ञाभिः प्रणयं शासनार्थिनाम् ॥३९॥

स प्रसादादरस्निग्धस्मितदिग्धाधरद्युतिः ।

चक्रे श्रवणसन्नद्धं राहोरभिमुखं मुखम् ॥४०॥

क्षणं कुण्डलयोस्तस्य चण्डरश्मिशशित्विषोः ।

राहुसन्दर्शनत्रासादिवाभूत्कम्पविप्लवः ॥४१॥

उच्यतामिति तेनोक्तः प्राह राहुरदेहताम् ।

दंष्ट्रांशुपटलस्पर्शपटेनाच्छादयन्निव ॥४२॥

जीर्णत्वादतिवृद्धानां क्लेशाय चिरजीवितम् ।

सर्वभाववियोगेन सदा येषामनिर्वृतिः ॥४३॥

रम्यं किं त्वेकमेवास्ति विस्तीर्णस्यायुषः फलम् ।

दृश्यते यत्क्वचित्किंचित्सोत्कर्षचरिताद्भुतम् ॥४४॥

सर्गारम्भदिने जातैर्नास्माभिर्दृष्टमीदृशम् ।

तदैश्वर्यं त्वदैश्वर्यप्रभावस्योपमाक्षयम् ॥४५॥

इयं श्रीरपरिश्रान्ता प्रभावोऽयं भुजोद्भवः ।

इयं शक्तिर्यशः सिक्ता कस्यान्यस्य यथा तव ॥४६॥

सर्गारम्भान्निसर्गेण नैव दृष्टो न च श्रुतः ।

अदर्पसम्पत्प्रणयी निर्लोभविभवो जनः ॥४७॥

नतिर्मूर्ध्नि श्रुतं श्रोत्रे हृदये सत्त्वमुज्ज्वलम् ।

मौलिकुण्डलहारास्ते पुनरुक्तं विभूषणम् ॥४८॥

यशः सप्तसु लोकेषु श्रीराश्रितगृहेषु च ।

प्रोषितारातिचित्तेषु प्रतापाग्निस्त्वयार्पितः ॥४९॥

श्रुतमाश्रितवात्सल्यं कस्य वा सदृशं तव ।

प्रभोः प्रापयतो भृत्यान्भ्रुवैव भुवनेशताम् ॥५०॥

त्वत्पादाब्जप्रणामे नखकिरणमिलन्मौलिपट्टेन बद्धे

जम्भेनोत्तम्भिता भूः सरभवनवती शातकौम्भाद्रिभर्तुः ।

पातालं तालकेतोः सकलमुपनतं तारकेणाहृता भूः

कौवेरः कोष एव प्रविशति नमुचेर्वेश्म युष्मद्विलब्धः ॥५१॥

प्रसादभूमयः सर्वे दैत्यास्ते भुजशालिनः ।

महोत्साहात्स्वयं राहुरबाहुः क्वोपयुज्यते ॥५२॥

अहं हि हितमात्रैकचिन्तालब्धप्रजागरः ।

त्वत्पितामहमुख्यानां भोगभागी निरर्गलः ॥५३॥

अत्यन्तस्थविरः कायापायसङ्कुचितोद्यमः ।

चित्तग्रहं न जानेऽहं तारुण्यतरलस्य ते ॥५४॥

तुहिनातपतुल्योऽयं वीणापटहसंनिभः ।

स सङ्गः श्लिष्टतामेति वृद्धस्य तरुणस्य च ॥५५॥

केशोत्तालनमङ्गभङ्गवलनं भ्रूविभ्रमोल्लासनं

यत्तत्कत्थनमप्रसङ्गहसनं दन्तप्रभादर्शनम् ।

उत्सिक्तैः प्रकटीकृतं विटनटैः कौटिल्यनात्यायितं

यूनां वृद्धमतिद्विषामभिमतं प्रायः प्रभूणामिदम् ॥५६॥

भवानभिमुखायातैर्भृत्यै अभिमुखीकृतः ।

उत्सङ्गवर्धितमपि त्वां न जानामि सेवितुम् ॥५७॥

कोषप्रवेशकुशलाः सकलां कमलश्रियम् ।

मधुपा मधुरालापनिपुणा एव भुञ्जते ॥५८॥

अङ्के वृद्धिमुपागतं शिशुतया सर्वाङ्गमालिङ्गितं

मत्स्यः श्रीपरिरम्भनिर्भरतरं व्याकोशकोषोन्मुखैः ।

आशाप्तैः परिपीयमानमनिशं निःस्पन्दमिन्दिन्दिरैर्

दूरादेष निमेषशून्यनयनः पद्मं समुद्वीक्षते ॥५९॥

दैवेन पक्षपातोऽयं कृतः कायव्ययाय मे ।

त्वत्कृतः पक्षपातस्तु न मयाप्तः शरीरदः ॥६०॥

ऐन्द्रं वारुणमाग्नेयं याम्यं सौम्यं च पावनम् ।

प्राजापात्यं च कुर्वाणः कर्म सर्वं त्वमास्थितः ॥६१॥

आस्तां शरीरविरहक्लेशप्रशमनं मम ।

त्वद्विभूतिप्रभावेऽस्मिन्प्रकृतं हारितं मया ॥६२॥

पीयूषपानपैशुन्यमन्युशल्यानुबन्धिनः ।

विधिना मम निर्दिष्टो चन्द्रार्कौ जातु भोजनम् ॥६३॥

भवद्भ्रूभङ्गसिंहेन त्रासितो हरिणाश्रयः ।

न वेद्मि विद्यते क्वेन्दुर्विद्रुताश्च क्व भास्करः ॥६४॥

चिरसेवापरिश्रान्तः क्षीणवृत्तिर्निरुद्यमः ।

विशेषलाभत्यक्ताशः स्वेनैवार्थेन तुष्यति ॥६५॥

तस्मान्ममानुरोधेन क्रियतामर्कचन्द्रयोः ।

त्वदादेशविमुक्तैव निर्विघ्ना गगने गतिः ॥६६॥

इत्युक्ते राहुणा नासान्यस्ताङ्गुलितलः क्षणम् ।

अलुलोके बलिः क्षोणीं वैलक्ष्यक्षामलोचनः ॥६७॥

सोऽवदन्मुखमुद्यम्य शनैर्मुकुलितस्मितम् ।

दिशन्दिक्षु प्रसादार्द्रां दृष्टिं चन्द्रमयीमिव ॥६८॥

मदाज्ञाप्रतिषिद्धोऽपि स्वाधिकारोऽर्कचन्द्रयोः ।

अधुना निर्विबन्धेन वज्रदन्त विमुच्यताम् ॥६९॥

इति शासनमम्लानप्रसादप्रभवं विभोः ।

प्रतीहारः समादाय वेत्रिमण्डलमादिशत॥७०॥

अत्रान्तरे समासन्नस्नानावसरसूचकः ।

उदभूद्भुवनव्याप्तिमुखरः शाङ्खनिःस्वनः ॥७१॥

राहोराश्रितवत्सलः फलवतीं कृत्वार्थनां मानदः

सर्वाशापरिपूरकः प्रणयिनामुन्निद्रकल्पद्रुमः ।

वेत्रिव्रातनिवेद्यमानविनमत्सामन्तचूडामणि

व्याकीर्णांशुविचित्रितादुदचलत्सिंहासनाग्राद्बलिः ॥७२॥

अथ कीर्तिसुधाधौतसुकृतः स्नपनं विधिम् ।

विधाय प्रययौ श्रीमान्दानस्थानभुवं बलिः ॥७३॥

तत्र त्रिवेदीविद्वद्भ्यः काञ्चनप्रचयान्बहून।

मेरुभ्रमोपविष्टाभ्रानदभ्रान्प्रत्यपादयत॥७४॥

मुहुर्विप्रार्प्यमाणानां हयानां हेममालिनाम् ।

स्खलत्खलीनफेनौघैर्यशः सिक्तेव भूरभूत॥७५॥

दन्तिदानक्षणे तत्र घटासंघट्टघट्टिताः ।

संश्लिष्टघण्टाटङ्कारैर्ययुर्मुखरतां दिशः ॥७६॥

रत्नभारानताश्चेरुर्यस्यां यस्यां दिशि द्विजाः ।

सन्तः सन्तोषिताश्चक्रुस्तस्यै तस्यै नमो नमः ॥७७॥

तस्याग्रे रोहिणाद्रेः शिरसि धृतमहारत्नसम्पूर्णपात्रः

कैलासः शक्रशैलः सह बहलतरैः कल्पवृक्षैः सदेहैः ।

भूमिश्चिन्तामणिः श्रीर्विविधनिधिगणः कामधेनुः सुधाब्धिः

भूक्षेपाज्ञाविलासे प्रचरणचतुरा दानकाले बभूवुः ॥७८॥

सम्पूर्णेष्वर्थिसार्थेषु याचकाभावदुःखिनः ।

विश्रान्तपाणेश्चिन्तान्तर्मुहूर्तमभवद्बलेः ॥७९॥

दानोद्यमेऽर्थिविरहाद्विपुलां विभूतिं

स क्षिप्रमूषरमहीमिव मन्यमानः ।

दृष्टिं मुहुर्दिशि प्रदिदेश दीर्घाम्

अस्तोकलोककरुणामृतवृष्टिमिष्टाम् ॥८०॥

सर्वार्थानर्थिसार्थेभ्यः परिकल्प्याविकल्पयोः ।

निजजीवितदानेन बलिश्चक्रे मनोरथम् ॥८१॥

अथ त्यक्तजलासङ्गः प्रसन्नगगनद्युतिः ।

प्रतिबद्धः शरत्कालः श्रीकान्तः समुपाययौ ॥८२॥

मयूरा मौनिनोऽरण्ये ययुर्दैन्यनिलीनताम् ।

शरत्कालेन बलिना सुरा इव हृतश्रियः ॥८३॥

ववुर्देवकदम्बेषु यातेषु विशरारुताम् ।

द्युलोकशोकनिःश्वासा इव सप्तच्छदानिलाः ॥८४॥

तीव्रशूरप्रतापेन नष्टमाना समाययौ ।

विलुप्तावरणोत्साहा हीनतां सुरवाहिनी ॥८५॥

सदा नवप्रभोल्लासं बभौ भ्राजिष्णुतारकम् ।

शरन्निशासु विपुलं दैत्यैश्वर्यमिवाम्बरम् ॥८६॥

लोकपालवियोगिन्यः ककुभः काशपाण्डुराः ।

फुल्लैः कमलकह्लारैः कृतशय्या इवाबभुः ॥८७॥

शुशुभे शैलशीर्षेषु नक्तं दीप्तौषधिव्रजः ।

नश्यतामिव मेघानां विद्युल्लेखाचयश्च्युतः ॥८८॥

भग्ने प्रभौ सहस्राक्षे पयोदास्त्यक्तकार्मुकाः ।

ययुस्तीव्रव्रतेनेव तनुतां भस्मपाण्डुराः ॥८९॥

बलिराज्योपमे तीव्रप्रतापे शरदुद्भवे ।

नाक्रान्तिः शक्रचापस्य भ्रष्टस्यादृश्यत क्वचित॥९०॥

ययुः शुकमृगापाते कलमक्षेत्रपङ्क्तयः ।

विधवा इव तारुण्ये कृच्छ्रसंरक्षणीयताम् ॥९१॥

काशेन्दुहंसकुमुदैर्महीव्योमसरिद्दिशः ।

दानोदितैरिव बलेर्यशोभिः शुभ्रतां ययुः ॥९२॥

अथास्मिन्समये जग्मुः सुराः शरणमच्युतम् ।

निवारितार्चा बलिना बलिना बलिना जिताः ॥९३॥

घनावमानसन्तप्ता मानलोपाप्तलाघवाः ।

प्रकाशाशाप्रणयिनः शारदा इव वासराः ॥९४॥

ते क्षीरोदधिमासाद्य ददृशुः शेषशायिनम् ।

सप्रसादं सकमलं शरदारम्भसंनिभम् ॥९५॥

समुच्छ्वसत्फणाग्रस्य फुल्लफेनाम्बुधेरिव ।

शेषस्योपरि पर्यङ्कबन्धेन सुखमास्थितम् ॥९६॥

प्रभाभिरामं श्रीकान्तं पीताम्बरमनोहरम् ।

प्रभातमिव लोकानां कल्याणोदयकारणम् ॥९७॥

तं प्रणम्य सहस्राक्षप्रमुखास्त्रिदिवौकसः ।

धृतिसञ्जीवनं प्रापुस्तत्प्रसादावलोकनम् ॥९८॥

प्रवासव्यसनोद्विग्नान्भगवान्भूतभावनः ।

तान्विभाव्याभवत्क्षिप्रं वैलक्ष्यविनताननः ॥९९॥

शनैश्चिन्ताविषावेशप्रशमासङ्गिनीं गिरम् ।

उज्जगारामृतोद्गारगुर्वी गरुडलाञ्छनः ॥१००॥

चिरप्रवासनिःश्रीकशोकशल्यशलाकया ।

चिन्तया व्यथिता यूयं सततं प्रथमानया ॥१०१॥

दैत्यदौरात्म्यसंजाता सह्या सर्वात्मना विपत।

ते कथं भाजनं भूतेर्ये सहन्ते न दुर्दशाम् ॥१०२॥

सुखलवदशाहर्षक्लैब्ये खलः खलु खेलते

स्खलति भजते क्लेशलेशे विषादविषूचिकाम् ।

भवति न सतां दर्पोद्दामा न दैन्यमयी मतिर्

दुरभिभवता गम्भीराणां सुखेष्वसुखेषु च ॥१०३॥

त्यक्त्वा श्रीदुर्जनान्दैत्यान्साधून्युष्मानुपैष्यति ।

स्थिरा सतां न विपदः खलानामिव सम्पदः ॥१०४॥

वित्ते त्यागः क्षमा शक्तौ दुःखे दैन्यविहीनता ।

निर्दम्भता सदाचारे स्वभावोऽयं महात्मनाम् ॥१०५॥

स्वाम्ये पेशलता गुणे विनतता हर्षे निरुत्सेकता

मन्त्रे संवृतता श्रुते सुमतिता वित्तोदये त्यागिता ।

साधौ सादरता खले विमुखता पापे परं भीरुता

दुःखे क्लेशसहिष्णुता च महतां कल्याणमाकाङ्क्षति ॥१०६॥

उक्ते हिते भगवता पद्मनाभेन भूतये ।

सुरास्तमूचिरे बाला इव वात्सल्यलालिताः ॥१०७॥

देव त्वय्यपि सन्नद्धे हितचिन्तासु नः परम् ।

इयती कर्मवैचित्र्याद्दुर्वारा दुःखसन्ततिः ॥१०८॥

जीवामः क्लिष्टसंश्लिष्टा निश्चेष्टा नष्टवृत्तयः ।

वनान्तविवरालीनाः शिशिरे मधुपा इव ॥१०९॥

बलिना वयमाक्रान्ताः प्राक्तनेनेव कर्मणा ।

त्वत्प्रभावोद्भवां भोक्तुं विभूतिं न लभामहे ॥११०॥

बलिप्रभावादस्तोकैस्त्रिलोकी लोककण्टकैः ।

इयं त्वद्भुजगुप्तापि लुण्ठ्यते दैत्यदस्युभिः ॥१११॥

सा नन्दनोद्यानवती हृता तेनामरावती ।

वने विनोदयत्यस्मान्मनोरथपथागताः ॥११२॥

वने स्वर्गपुरीमेव चिन्तयन्त्यः सुराङ्गनाः ।

काङ्क्षन्त्युत्कण्ठया निद्रां स्वप्नसन्दर्शनाशयाः ॥११३॥

अग्रे समग्रसैन्यानां बलिसंश्रयनिर्भयः ।

अहो बाहुविहीनोऽपि राहुराहवमीहते ॥११४॥

दैवेनेवार्पिताक्रान्तिर्बलिनाश्चर्यकारिणा ।

सहस्राक्षस्य निर्बन्धादन्धकः श्रीनिबन्धकः ॥११५॥

जृम्भते तारकः कामं त्रिदशश्रीप्रतारकः ।

दुःशीलः स बलेः शक्त्या लीलातरलतारकः ॥११६॥

गजासुर कथायाते स्पर्धाबन्धे मदान्धधीः ।

बलेरग्रे गणपतेरेकदन्तस्य लज्जते ॥११७॥

शोचन्सिंहनखोत्खातं हिरण्यकशिपुं रुरुः ।

असन्निधानुशयो हरिणा योद्धुमिच्छति ॥११८॥

सहस्रदोष्णा बाणेन बालेन बलिसूनुना ।

गुहवाहमयूरोऽपि नीतः क्रीडाशिखण्डिताम् ॥११९॥

वह्निवाहशुकस्तेन न्यस्तः काञ्चनपञ्जरे ।

गुहोपवनवापीषु राजहंसाश्च वारुणाः ॥१२०॥

सोऽपि प्रतापशिखिना युगपत्संयुगोन्मुखः ।

अचिरात्त्रिपुरप्लोषं रौद्रो बाणः करिष्यति ॥१२१॥

शम्बरोऽम्बरचित्राभं दर्शयत्यद्भुतं रणे ।

यदस्य शत्रुहृदये शक्तिर्व्रजति शूलताम् ॥१२२॥

यान्ति निष्फलतामेव तेषूपायाः प्रकल्पिताः ।

उपकाराः कृतघ्नेषु सज्जनेष्विव मन्यवः ॥१२३॥

समतां सामविमुखः सामस्वनविधायिनः ।

स तवाप्यश्वशीर्षस्य हयग्रीवः समीहते ॥१२४॥

सुरसर्वस्वहारिभ्यस्तेभ्यः किं वा प्रदीयते ।

मेरुरत्नाकरवती कोषो येषां जगत्त्रयी ॥१२५॥

बलिशासनवश्यानां भेदो नास्ति सुरद्विषाम् ।

आलिङ्गति हयग्रीवं निर्वैरो महिषासुरः ॥१२६॥

भवद्भ्रूभङ्ग एवैकस्तेषां दण्डः क्षयक्षमः ।

सोऽप्यस्मद्भाग्यलेशेन मन्ये विस्मारितस्तव ॥१२७॥

बलिः करोति भगवन्लोकपालक्रियाः स्वयम् ।

लोके द्रष्टासि निःशेषे शेषे शेषे नु केवलम् ॥१२८॥

इत्युक्ते त्रिदशैरूचे विचार्य चिरमच्युतः ।

सुराणां विभवभ्रंशं बलेश्च गुणगौरवम् ॥१२९॥

बलिः पुण्यप्रवृत्तत्वान्नोच्छेद्यः सत्त्वसागरः ।

चिरं क्लेशार्दिता यूयमिति दोलायते मनः ॥१३०॥

विचार्यमाणस्तु बलेर्नात्मदोषः प्रदृश्यते ।

दैत्यदुर्जनसङ्गेन स गतश्चिन्तनीयताम् ॥१३१॥

शमयति यशः क्लेशं सूते दिशत्यशिवां दशां

जनयति जनोद्वेगायासं नयत्युपहास्यताम् ।

भ्रमयति मतिं मानं हन्ति क्षिणोति च जीवितं

गिलति सकलं कल्याणानां कुलं खलसङ्गमः ॥१३२॥

सर्वात्मना गुणनिधिर्न वध्यः सुकृती बलिः ।

किं त्वस्य विभवभ्रंशं करोमि भवतां हितम् ॥१३३॥

हितक्रियासु युष्माकं न कार्यं गणयाम्यहम् ।

गम्यतां त्यज्यतां चिन्ता यतिष्ये कुशलाय वः ॥१३४॥

इत्युक्ते विश्वगुरुणा तं प्रणम्य ययुः सुराः ।

अचिन्तयच्च तत्कार्यं भगवान्गरुडध्वजः ॥१३५॥

अत्रान्तरे भृगुसुतः षाड्गुण्यज्ञानलोचनः ।

शुक्रः प्रोवाच वात्सल्यान्निर्जनावसरे बलिम् ॥१३६॥

औचित्याभरणं चित्तं सत्याभरणमाननम् ।

गुणाभरणमैश्वर्यं भुवनाभरणस्य ते ॥१३७॥

लोके त्वत्सदृशी लक्ष्मीर्न श्रुता न विलोकिता ।

शक्यानुकर्तुं लेशेन या न पूर्वैर्न चापरैः ॥१३८॥

गुणक्षये पलायन्ते धीवराणामिव क्षणात।

एताश्चपलचारिण्यश्चमर्य इव सम्पदः ॥१३९॥

क्षीयते श्रीः प्रमादेन शरत्कालेन निम्नगा ।

ग्रीष्मागमेन रजनी कृष्णपक्षेण चन्द्रिका ॥१४०॥

नीतेरश्रवणं हिते विहसनं धूर्तव्रजावर्जनं

दोषे व्याकरणं गुणेऽप्यगणनं छिद्रच्छलालोकनम् ।

लोकानां विनिपातलक्षणमिदं श्रीभोगनिर्वासनं

साधूनां दलनं खलेषु ललनं मित्रादिसन्दूषणम् ॥१४१॥

दोषा अपि न बाधन्ते विचारविमलीकृतः ।

गुणा अप्यगुणायन्ते गाढग्रहगणीकृताः ॥१४२॥

न शरीरविकाराय स्वल्पमात्राहृतं विषम् ।

देहं चन्दनलेपोऽपि निविडः पीडयत्यलम् ॥१४३॥

गुणरत्नावलीमध्ये सारभूतं गुणद्वयम् ।

तवैतद्दोषतां यातमतिनिर्बन्धसेवया ॥१४४॥

श्लाघ्यमाश्रितवात्सल्यं दानं च श्रीविभूषणम् ।

विभवायासतां नीतं भवतात्यन्तवर्धितम् ॥१४५॥

कुर्यादाश्रितवात्सल्यात्पक्षपातं न दुर्जने ।

कृष्णपक्षाश्रयेणैव पक्षे पक्षे क्षयो विधुः ॥१४६॥

चित्रं चारित्रचित्रं ते दिग्भित्तिलिखितं महत।

दैत्यदुर्जनवात्सल्यधूमेन मलीनीकृतम् ॥१४७॥

भूतैर्दुर्व्यसनं धृतेरसहनं मानोन्नतेर्याचनं

प्रीतेर्विस्मरणं तनोर्निकषणं नीतेरसन्मन्त्रणम् ।

कीर्तेर्लोभधनं स्थितेः प्रवसनं वृत्तेरसञ्चिन्तनं

शक्तेर्दुर्जनपक्षपातकरणं निःशेषनिर्मूलनम् ॥१४८॥

अतिप्रदाननिर्बन्धः सर्वस्वक्षपणक्षमः ।

छिनत्त्यन्यार्थवैफल्याद्धर्मवृक्षं क्रियाफलम् ॥१४९॥

सर्वोपजीव्यं सर्वस्वं सकृद्येन व्ययीकृतम् ।

पुनः सर्वार्थिदानस्य तेन मूलक्षयः कृतः ॥१५०॥

वित्तायत्तः सदा धर्मः कामो वित्तनिबन्धनः ।

वित्तायत्तानि चित्तानि वित्तं जीवितवर्धनम् ॥१५१॥

धनं रूपमवैक्लव्यं धनं कुलमसङ्कुलम् ।

धनं यौवनमम्लानं धनमायुर्निरामयम् ॥१५२॥

रूपं वेषैर्बलं भृत्यैरुत्तमैर्मानमर्थिभिः ।

महाकुलविवाहैश्च कुलं क्रीणाति वित्तवान॥१५३॥

भिषग्भैषज्याभ्यां तरति धनवान्रोगविपदं

धनेनान्धश्चक्षुर्युत इव चरत्यर्पितकरः ।

धनैः सत्कारार्चां जगति गतजीवोऽपि लभते

धनेन प्राप्नोति प्रगुणगुरुमाराध्य सुगतिम् ॥१५४॥

श्राद्धोत्सवलसद्बन्धुर्जीवतीव शवः श्रिया ।

भोज्योपचारविरहाद्बन्धूनां निर्धनो मृतः ॥१५५॥

क्लेशलभ्यं धनं येन क्षपितं नातिमात्रया ।

कुलमानगुणाचारनिधनं तेन रक्षितम् ॥१५६॥

गुणा धनेन लभ्यन्ते न गुणैर्लभ्यते धनम् ।

धनी गुणवतां सेव्ये गुणी न धनिनां क्वचित॥१५७॥

सेव्यन्तेऽर्थार्थिभिर्भूया जयजीवेति वादिभिः ।

स्याच्चेन्न धनसम्बन्धः कः सेव्यः कश्च सेवकः ॥१५८॥

सदृशे पुरुषत्वेऽपि तुल्यपादकरोदरे ।

एकः प्रभुः परो दासः इति वित्तविजृम्भितम् ॥१५९॥

सर्वे धनमदान्धस्य प्रातः प्रातर्धनाशया ।

सेवां विधातुं धावन्ति विविधाराधनोद्यमैः ॥१६०॥

सिद्धौ वेतालवद्यस्य भोग्यस्तस्यैव भूपतिः ।

शेषाः शीतातपश्रान्ताः दिनान्ते यान्ति निष्फलाः ॥१६१॥

दिशति कथमप्यन्तस्तारां दृशं मदमन्थरां

वदति विरलं देवोऽस्मीति प्रमूढ्मदो नृपः ।

प्रणमति च तं भीत्या भृत्यस्तदुत्तरकातरस्

तदिदमखिलं दानादानं धनोपनिबन्धनम् ॥१६२॥

क्षीणे धने गुणे ग्लाने म्लाने माने गते जने ।

कलत्रमपि वैमुख्यमचिराद्याति निश्चितम् ॥१६३॥

धनवैक्लव्यवैराग्यादपक्वाः प्रव्रजन्ति ये ।

धनोपायव्रतं तेषां धने ध्यानं धने जपः ॥१६४॥

पुंसां निवृत्तवित्तानां प्रवृत्ते वित्तयाचने ।

उत्तानपाणिदीनानां मन्ये मरणमुत्तमम् ॥१६५॥

जीवत्यर्थक्षये नीचो यां चापचयवञ्चनैः ।

कुलाभिमानमूकानां साधूनां नास्ति जीवितम् ॥१६६॥

अप्रस्तावस्तुतिभिरनिशं कर्णशूलं करोति

स्वं दारिद्र्यं वदति वसनं दर्शयत्वेव जीर्णम् ।

छायाभूतश्चलति न पुनः पार्श्वयोर्नापि पश्चान्

निःस्वः खेदं दिशति धनिनां व्याधिवद्दुश्चिकित्स्यः ॥१६७॥

तस्मात्सर्वप्रयत्नेन रक्ष्यं मानार्थिभिर्धनम् ।

महाव्ययपरिष्कारैर्विशेषेण नरेश्वरैः ॥१६८॥

अश्वमेधस्त्वयारब्धः क्रतुः सर्वस्वदक्षिणः ।

एवमेव त्वमुद्दामवर्षी यज्ञे विशेषतः ॥१६९॥

दृश्यन्ते दुर्निमित्तानि प्रवृत्तानि समन्ततः ।

दैत्यानां यैः कुवृत्तानां निवृत्तिः सूच्यते श्रिया ॥१७०॥

इत्युक्तं कविना श्रुत्वा बभाषे तं शनैर्बलिः ।

सत्त्वोदधिः सृजन्दन्तकान्त्या चन्द्रकलामिव ॥१७१॥

युक्तं कल्याणसंयुक्तमुक्तमुन्मुक्तसंशयम् ।

भगवन्भवता सर्वमखर्वप्रतिभोद्भवम् ॥१७२॥

न जातु मे भुजच्छायाविश्रान्तिसुखशायिषु ।

अपत्येष्विव दैत्येषु पक्षपातो निवर्तते ॥१७३॥

चिराश्रितपरित्यागे मतिर्यस्य प्रवर्तते ।

भूमिर्भारं वहन्ती तं मन्ये मज्जति लज्जिता ॥१७४॥

स्वजनद्रोहरौद्रस्य चिताग्नेरिव भीषणा ।

भूतिः सर्वजनोद्वेगकारिणी क्वोपयुज्यते ॥१७५॥

आशाप्ताश्रितपक्षपातविकला या शक्तिरुज्जृम्भते

दीर्घा वेतसवल्लरीव विफला कस्योपकाराय सा ।

वन्द्यश्चन्दनपादपः पृथुभुजच्छायाश्रया यस्य ते

सन्तापं प्रविहाय शीतलतया सर्पाः सुखं शेरते ॥१७६॥

प्रदानफलशून्याभिः किमेताभिर्विभूतिभिः ।

दृश्यते यासु भग्नाशाविमुखं मुखमर्थिनाम् ॥१७७॥

आयाति धातुरादेशात्तदादिष्टं पलायते ।

न त्यागेन न भोगेन क्षीयते रक्ष्यते धनम् ॥१७८॥

निर्बन्धादपि लुब्धेन निरुद्धं बद्धमुष्टिना ।

निर्यात्यलक्षितं क्षिप्रं मत्स्यपुच्छोपमं धनम् ॥१७९॥

कुर्वन्ति सुधियो यत्नादेतदर्थं धनार्जनम् ।

आर्तोपकारसन्तोषः कदाचिल्लभ्यते धनात॥१८०॥

क्षणेन वृद्धिं व्रजतां क्षणात्क्षयमुपेयुषाम् ।

धनानां च धनानां च केन विज्ञायते गतिः ॥१८१॥

गुप्तं विनष्टं प्रकटं विनष्टं

कीर्णं विनष्टं मिलितं विनष्टम् ।

स्वयं विनष्टं परतो विनष्टं

दीनार्तदत्तं द्रविणं न नष्टम् ॥१८२॥

मृत्पाषाणगुणैः सुवर्णमणिभिः शुक्त्यस्थिभिर्मौक्तिकैर्

लोके मूढतमे धनं धनमिति व्यक्त्या प्रसिद्धिं गतैः ।

यः कोषः क्रियते न तस्य रुचिरं पश्यामि किञ्चित्फलं

निःशेषाश्रितभृत्यबान्धवसुहृद्दीनार्थिदानं विना ॥१८३॥

त्यक्ता मर्त्यभुवं स्थितस्य विजने मेरोः सुवर्णश्रियं

विश्रान्तां स्वशरीर एव वहतः किं निष्फलेनायुषा ।

एकस्योन्नतिरेव सत्ववसतेर्विन्ध्यस्य बन्ध्या न सा

दत्त्वा या किल तामनन्यमहिमा शेते सुखं भूसमः ॥१८४॥

इत्युक्तं बलिना श्रुत्वा चिन्तयन्भवितव्यताम् ।

किञ्चिदालक्ष्यः शुक्रश्चक्रे नतं शिरः ॥१८५॥

अथाश्वमेधासम्भारः प्रावर्तत महान्बलेः ।

पुनः प्रदानदक्षस्य दक्षस्येवापरिक्षयः ॥१८६॥

ततः प्रजापतिगणे प्राप्ते सप्तर्षिभिः सह ।

अभूत्सुरर्षिभिर्जुष्टं ब्रह्मलोकनिभः सदः ॥१८७॥

तस्मिन्क्रतौ महादानपरिपूर्णेऽर्थिमण्डले ।

बभूव याचकाभावाद्बलेश्चिन्तैव केवलम् ॥१८८॥

अत्रान्तरे दैत्यजयासहिष्णुर्

विष्णुस्त्रैलोकीकुशलप्रवृत्तः ।

देवस्तनुं स्वां बलिवञ्चनाय

विश्वाकृतिर्वामनतां निनाय ॥१८९॥

धृतैव चित्ते लघुतां करोति

या धैर्यमानाहरणैकभूमिः ।

सा दुर्दशेवातिशयेन याच्ञा

न कस्य मानाक्षतिमातनोति ॥१९०॥

श्यामः शिशुः कुञ्चितकृष्णकेशस्

त्रिदण्डिकालङ्कृतपाणिपद्मः ।

सकङ्कणः कुण्डलवान्किरीटी

स ब्रह्मराज्यप्रतिमश्चकाशे ॥१९१॥

स मञ्जुसामस्वरसारेणोद्यद्

दन्तांशुसूत्रत्रयसंनिवेशम् ।

यज्ञोपवीतं धवलं दधानः

शनैर्बलेर्यज्ञमहीमवाप ॥१९२॥

स वेत्रिभिस्तत्र सुदुर्लभार्थि

सन्दर्शनात्यादरविस्मयेन ।

असंनिरुद्धः प्रसभं प्रविश्य

वृतं मुनीद्रैर्बलिमालुलोक ॥१९३॥

बलिश्च तं पद्मदलायताक्षं

विलोक्य लक्ष्मीनिलयं प्रहृष्टः ।

अदापयत्तस्य सुर्वणपीठं

समुन्नतं मानमिवादरेण ॥१९४॥

सामस्वरेणाशिषमभ्युदीर्य

क्षणं स विश्रम्य जगाद धीरः ।

सन्दर्शयन्दन्तरुचान्तरस्थ

जगत्त्रयश्चान्द्रमिव प्रकाशम् ॥१९५॥

इन्द्रस्य चन्द्रस्य चतुर्मुखस्य

रुद्रस्य दक्षस्य मनोश्च यज्ञाः ।

पुरा बभूवुर्न बभूव कश्चिद्

आश्चर्यकृत्त्वत्सदृशस्तु यज्ञः ॥१९६॥

अहो महात्मा सुकृती जगत्स्य्

जातस्त्वमेवाद्भुतसत्त्वसिन्धुः ।

यश्चारुरत्नाश्वगजेन्द्रचन्द्र

लक्ष्मीप्रदानेष्वपि निष्प्रकम्पः ॥१९७॥

धवस्त्रिलोक्यास्तिलकः कुलस्य

सर्वस्वदानेष्वतिमुक्तहस्तः ।

दत्त्वाप्यशोकः सरलः प्रकृत्या

त्वं श्रीफलोऽप्यर्थिषु कल्पवृक्षः ॥१९८॥

इत्युक्तमत्यर्थसुधास्वभावं

तेनान्तरस्थामृतसिन्धुनेव ।

श्रुत्वा बलिः प्रीतिविकासिताक्षस्

तमस्यधादागतपक्षपातः ॥१९९॥

अल्पं वयः स्वल्पशरीरतेयम्

अनल्पकल्पः प्रतिभाविकल्पः ।

कर्णानुकूलं च वचस्तवैतत्

कस्याद्भुतार्थं न मनः करोति ॥२००॥

हर्षं वर्षति दर्शनं नयनयोः सूतं श्रुतौ वाक्सुधां

चित्तं चन्दनपेशलश्च सहसा स्नेहः परं लिम्पति ।

बध्नन्त्यन्यमनस्कतामपि गुणा भाग्यैर्भवत्सगमः

सञ्जातः सुकृताय मे सुमहते कीर्तिप्ररोहाय च ॥२०१॥

निरर्गलं सम्प्रति कथ्यतां तद्

यदीप्सितं प्रीतिपदोपयुक्तम् ।

सर्वस्वमेतन्मम जीवितं वा

न नाम किञ्चिद्भवतेऽस्त्यदेयम् ॥२०२॥

इति प्रयन्तात्प्रथमादरेण

सोऽभ्यर्थितः सर्वपरिग्रहाय ।

दैत्याधिपेनप्रथ्मानमान

महोदया च प्रणयात्तमूचे ॥२०३॥

त्वद्दर्शनात्प्रीतिसुधानिधानात्

परं किमस्मादुपयुज्यते मे ।

न नाम बन्ध्यं क्रियते वचस्ते

पदत्रयी देहि वसुन्धरायाः ॥२०४॥

श्रुत्वैवमाश्चर्यकरं वचस्तद्

बलिः सर्वलक्ष्यमिवाबभाषे ।

अहो भवान्सङ्कुचितार्थवादी

विडम्बनायैव मम प्रवृत्तः ॥२०५॥

अहं प्रदाता त्वमुदारशीलः

प्रतिग्रहीतात्र पदत्रयी किम् ।

प्रदीयते यद्यवमानलीला

विनिर्मिता नर्ममयी स्मिताय ॥२०६॥

गृहाण सर्वं मम विद्यते यत्

त्वद्दर्शनानन्दसमुद्भवस्य ।

मनः प्रसादस्य हि सत्यमस्य

न तुल्यमूल्या सकला त्रिलोकी ॥२०७॥

इत्यर्थितः पूर्णपरिग्रहाय

पुनः प्रयत्नाद्बलिनापि देवः ।

यदाग्रहीन्नाभ्यधिकं तदास्मै

पदत्रयीमेव बलिर्दिदेश ॥२०८॥

प्रतिग्रहाग्रावसरेऽथ विष्णोर्

उत्तानहस्ताम्बुरुहेऽम्बुधाराम् ।

सुवर्णभृङ्गगारमुखात्पतन्तीम्

अस्तम्भयद्दैत्यहिताय शुक्रः ॥२०९॥

तं शुक्रवक्रक्रममाकलय्य

चक्री त्रिलोक्याक्रमणाभिकामः ।

स्तोकस्मिताङ्ककुशतूलिकाग्र

भेदेन चक्रे कविमेकनेत्रम् ॥२१०॥

विश्वाकृतिर्दानजलं गृहीत्वा

लोकत्रयाक्रान्तिविवर्धमानः ।

बभौ जगन्मण्डपमानदण्ड

शोभाभिरामोदितदण्डपादः ॥२११॥

त्रैलोक्याक्रान्तिलीलाप्रविसृतवपुषः श्रीपतेर्दण्डपादः

प्रौढौत्क्षेपोग्रवेगोल्लसदतुलबलोद्भ्रान्तकल्पान्तवातः ।

निःशेषाशाप्रबन्धप्रचलतभुवनाखण्डनाकाण्डकल्प

भ्रश्यद्ब्रह्माण्डरक्षानिहितमरकतस्तम्भशोभां बभार ॥२१२॥

प्रवर्धमानस्य विलम्बिहार

पर्यन्तसक्तस्तरणिर्मिउहूर्तम् ।

विष्णोर् बभौ नाभिभवाब्जचुम्बी

कुर्वन्मुहुर्लोहितरत्नशङ्काम् ॥२१३॥

प्राप्तेऽत्र विष्णोश्चरणारविन्दे

विरञ्चिलोकं त्रिदशाभिनन्द्ये ।

पादार्घ्यदानावसरेऽब्जजन्मा

कमण्डलुं निर्जलमालुलोके ॥२१४॥

धर्मे द्रुते तत्क्षणमम्बुभावं

यातेऽथ पाद्ये कमलासनेन ।

भक्त्या प्रदत्तं बलिकीर्तिशुभ्रा

तरङ्गभङ्गैरुदियाय गङ्गा ॥२१५॥

किं विष्णोः पदपद्मस्फुटनखकिरणश्रेणिरच्छोच्छलन्ती

विश्वव्याप्तिप्रजातोर्जितविजयलसद्वैजयन्ती सिता किम् ।

किं स्वर्गश्रीप्रहर्षोचितहसितरुचिः प्रोन्मिषत्संशयानाम्

इत्युच्चैः खेचराणां चिरममरसरित्सम्भ्रमेऽभूत्प्रवादः ॥२१६॥

एकक्रमावृतसमस्तजगत्त्रयस्य

शेषक्रमद्वितयदानविशुद्धिधीरः ।

निर्व्याजधर्मधवलः स्थिरसत्त्वसत्यस्

तत्याज दैत्यतिलकः सकलां त्रिलोकीम् ॥२१७॥

तस्याथ शक्त्यसमयप्रतिपन्नसर्व

त्यागस्य दीर्घगुणपाशनियन्त्रितस्य ।

धीरस्य सप्तमतलान्तसुतालनाम्नि

पातालधाम्नि भगवान्स्थितिमादिदेश ॥२१८॥

जातो जगत्युचितकृद्बलिरेक एव

तस्यैव सप्तभुवनाभरणं यशांसि ।

येनातिदानविततद्रविणावशेष

शुद्धिकृता स्वतनुबन्धसमर्पणेन ॥२१९॥

अश्रद्धया कुहकदम्भभरेण यद्यत्

पित्र्यक्रतुव्रतजपादि करोति लोकः ।

तत्तद्बलेर्नियमसङ्कलितात्मवृत्तेर्

वृत्त्यै विचार्य परिकल्पितमच्युतेन ॥२२०॥

साश्चर्यं युधि शौर्यमप्रतिहतं तत्खण्डिताखण्डलं

याच्ञोत्तानकरः कृतः स भगवान्दानेन लक्ष्मीपतिः ।

ऐश्वर्यं स्वकराप्तसप्तभुवनं लब्धाब्धिपारं यशः

सर्वं दुर्जनसङ्गमेन सहसा स्पष्टं विनष्टं बलेः ॥२२१॥

सशरशवरत्रासत्वङ्गन्मृगीतरलाः श्रियः

सुखमपि कपिप्रेङ्खद्वल्लीदलाञ्चलचञ्चलम् ।

प्रतिदिनमियं भुङ्क्ते जन्तोरभावविधायिनी

प्रसभपतिता भावं भावं भवे भवितव्यता ॥२२२॥

इति स भगवान्विष्णुः कर्तं सुराश्रयिणीं श्रियं

बलिभुजतरुच्छायाहीनान्विधाय महासुरान।

अपि खलजनासङ्गाद्भूमेर्गतस्य तलं बलेः

प्रणयरचितां पुण्ये कीर्तिं निनाय समुन्नतिम् ॥२२३॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते दशावतारचरिते

वामनावतारः षष्ठः

॥५॥

****************************************************************************

.

(६)

परशुरामावतारः षष्ठः

बद्धे बलौ निश्चलधर्मसेतौ

भग्नेषु दैत्येषु निराश्रयेषु ।

बभूव निर्विघ्नं महोत्सवश्रीर्

विशल्यकल्याणवती त्रिलोकी ॥१॥

शक्रेण वृत्रे निहते सजम्भे

सुम्भे निसुम्भे प्रसभं भवान्या ।

जीर्णेऽप्यगस्त्येन समस्तलोक

शोकेऽथवा तापिनि सेल्वले च ॥२॥

चामुण्डया चण्डपराक्रमे च

ग्रस्ते च पातालततानतेन ।

रुरौ रणप्रच्युतरक्तबिन्दु

वृन्दोदरोद्यद्रुरुकोटिलक्ष्मी ॥३॥

गुहेन भिन्ने युधि तारके च

गजासुरे धूर्जटिनान्धके च ।

दैत्येषु चान्येषु हतेषु देवैर्

निःशङ्कमासीत्सुरराजराज्यम् ॥४॥

यातेऽथ काले शनकैर्विशाले

दैत्येश्वराः क्ष्मामवतीर्य सर्वे ।

क्रमेण ते दुर्मददस्युरूपाः

सपापशापाः क्षितिपा बभूवुः ॥५॥

शशास तस्मिन्समये महीयान्

महीपतिर्हैहेयवंशजन्मा ।

प्राज्योतिर्जितश्रीर्जगदर्जुनाख्यः

सहस्रबाहुः कृतवीर्यसूनुः ॥६॥

स्पर्धानुबन्धोद्धतदर्पयुद्ध

संनद्धधीरं दशकन्धरं यः ।

गदाग्रहेलाहतिनष्टचेष्टं

शय्याङ्कपर्यङ्कतले बबन्ध ॥७॥

अत्रान्तरे शौर्यनिधिर्भृगूणां

कुले विशाले जमदग्निपुत्रः ।

हरिस्तमः कुञ्जरपुञ्जभेदी

प्रतापदीप्तोऽवततार रामा ॥८॥

तस्योपदेष्टा भगवान्बभूव

शार्ङ्गे धनुर्वेदविधौ पिनाकी ।

आदानसन्धानदृढातिदूर

लक्ष्येषु दत्ताद्भुतलक्षशिक्षः ॥९॥

शस्त्रास्त्रविद्याविदितप्रकर्ष

सङ्घर्षयुद्धे जिततारकारिः ।

पुत्राधिकां वल्लभतां गुणेन

जगाम रामस्त्रिपुरान्तकस्य ॥१०॥

मदग्रहोदग्रगजासुरास्थि

विसंस्थुलाखण्डनखण्डधारम् ।

ददौ त्रिशूली परशुं स्वमस्मै

क्रूरं कुमारावजयेन तुष्टः ॥११॥

ततः कदाचिन्मृगयारसेन

स कार्तवीर्यः प्रविसारिसैन्यः ।

वनं विगाह्य क्षयेषुश्चक्रे

मृगद्वीपि मृगेश्वराणाम् ॥१२॥

मन्त्रद्विषां दुःसहमोहहेतुर्

दयादरिद्रं हृदयं सदैव ।

कर्षत्यलं शोणितमांसलुब्धा

धराधराणां मृगयापिशाची ॥१३॥

तुरङ्गसेनामृदितस्थलानि

शराहताशेषमृगद्विपानि ।

विश्वद्रुतोपद्रुतपादपानि

प्रविश्य चक्रे स तपोवनानि ॥१४॥

अथाश्रमाग्रं जमदग्निजुष्टं

भग्नद्रुमं रुग्णविविग्नसत्त्वम् ।

कृत्वा शनैः श्रान्तहयः स तस्थौ

विश्रामकामः कुसुमस्थलीषु ॥१५॥

होमावशेषैः सकुशैः पयोभिः

संवर्धितानां स कुरङ्गकाणाम् ।

मुनीन्द्रशिष्यैरपि वार्यमाणः

सेन्यैः क्षयं निष्करणश्चकार ॥१६॥

स कामधेनुं मुनिहोमहव्य

योग्यां सवत्सां गुणगौरवेण ।

कण्ठे गृहीत्वा जमदग्निनापि

रुद्धां मदान्धस्तरसा जहार ॥१७॥

क्रौर्येण कीर्तिव्यसनेन लक्ष्मीर्

द्वेषेण विद्या विनतिर्मदेन ।

क्षमातिकोपेन धृतिर्भयेन

प्रयाति लोभेन च सर्वमेव ॥१८॥

यातः स हृत्वा मुनिहोमधेनुं

लोभेन विक्रीतविवेकसत्त्वः ।

यशांसि लोकत्रयविश्रुतानि

चकार धिक्कारकलङ्कितानि ॥१९॥

निरुद्धाशाः सर्वे दधति भृशमुद्वेगकलनां

विवेकालोकस्य प्रभवति न लेशः क्वचिदपि ।

न मित्रस्यालोको भवति परिहारेण वदने

घने लोभे जन्तोः स्थितिमुपगते कस्य सुगतिः ॥२०॥

गतेऽथ तस्मिन्नृपतौ स्वदेशं

महामुनीनां विहितापकारे ।

रामः समभ्येत्य गजाश्वभग्नं

तपोवनं निर्मृगमालुलोके ॥२१॥

निवृत्तवेदस्मृतियज्ञविद्या

पुराणज्ञानं विरताग्निकार्यम् ।

भग्नाननोद्विग्नजनं विलोक्य

तपोवनं प्राप च शोकशङ्कुम् ॥२२॥

विज्ञाय राज्ञा तदशर्मकर्म

स कार्तवीर्येण कृतं सकोपः ।

शुश्राव तेनैव पितुः सवत्सां

बलेन नीतामपि होमधेनुम् ॥२३॥

स निःश्वसन्दुःसहकोपकम्प

लुठज्जटाभारभृतांसकूटः ।

क्षत्त्रक्षयोत्कण्ठमकुण्ठधारं

कुठारमादाय जवाज्जगाम ॥२४॥

स हैहेयीं हेममयी अवाप्य

प्रतापदीप्तामिव राजधानीम् ।

युद्धाय संनद्धभुजासहस्रम्

अस्रस्तधैर्योऽर्जुनमाजुहाव ॥२५॥

तयोः प्रवृत्ते भुवनपकम्प

दीक्षाक्षमे सङ्क्षयधाम्नि युद्धे ।

क्षोभः प्रभूताद्भुतसम्भ्रमोऽभूद्

अभूत भूताभिभवप्रगल्भः ॥२६॥

तस्याषण्ढप्रतापः कठिनमदभराकुण्ठस्य वेगान्

निक्षिप्तस्कन्धपीठे गिरिदलनसहं घोरधारं कुठारम् ।

भूभर्तुर्धेनुचौर्याचरणघनरुषा कार्तवीर्यस्य रामः

स्रस्तांसं दोःसहस्रं युधि नवनलिनीनाललावं लुलाव ॥२७॥

प्रतापमित्रे निहते सहस्र

करेऽथ तस्मिन्भुवनैकशूरे ।

रामस्य निर्यत्ननिपातितारेर्

मम प्रसारी न शशाम मन्युः ॥२८॥

द्विबाहुना बाहुसहस्रदीप्ते

हते नृशक्रे मुनिना प्रसह्य ।

स शृङ्गभङ्गः क्षितिभृत्कुलस्य

तीव्रः परं मानविनाशनोऽभूत॥२९॥

कालेन तन्मन्युघनानुतापाः

पापाय सर्वे मिलिताः क्षितीशाः ।

वैरप्रतीकारविधानसज्जा

जग्मुर्वनं भार्गवकुञ्जरस्य ॥३०॥

रामे फलेध्माहरणाय याते

शून्यं प्रविश्याथ तपोवनं ते ।

निष्कृत्तकण्ठस्रतशोणितौघ

मग्नं निर्जघ्नुर्जमदग्निमेव ॥३१॥

रामस्ततः पितृवधोद्धतशोकवह्नेः

शान्तिं न बाष्पजलबिन्दुभिरप्यवेत्य ।

आसीत्क्षणं क्षितिपजीवितजातलज्जस्

तद्रक्तसागरनिमज्जनसज्ज एव ॥३२॥

गत्वा जवेन रणयज्ञविधानदीक्षा

क्षेत्रं क्षणात्क्षितिपवंशवनोग्रवह्निः ।

कृत्वा समस्तनृपसंहृतिमेकवारं

वैरक्षयेण न मनाग्विरराम रामः ॥३३॥

स स्नात्वा रक्तपूर्णे रणसरसि लसत्कीर्तिघोतोत्तरीयः

क्रोधानृण्यं विधातुं कृतसकलजगत्क्षत्त्रवंशाग्निकार्यः ।

शार्द्धश्रद्धाविधानं व्यधितशरकुशाकीर्णभूपालमौलि

श्रेणीहेमांशुनिर्यत्तिललवकलितन्यस्ततन्मुण्डपिण्डः ॥३४॥

निक्षत्त्रां क्षत्रियारिर्जलनिधिपरिखामेखलान्तामखिन्नः

कृत्वा त्रिसप्तकृत्वः पितृवरनिधनक्रोधनः क्ष्मां क्षणेन ।

यः प्रादादेकविप्रार्पितजलचुलुकस्तोकदानातिलज्जा

मज्जन्मानाननाब्जः स्मितसितयशस्तस्य किं वर्ण्यन्तेऽन्यत॥३५॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते दशावतारचरिते

परशुरामावतारः षष्ठः

॥६॥

***************************************************************************

.

(७)

रामावतारः सप्तमः

कालप्रवाहे महति प्रयाते

सन्मध्यवेगातिरते गते च ।

तरङ्गलोलाद्भुतभाववर्गे

रक्षःकुलैर्भारयुगाभवद्भूः ॥१॥

अत्रान्तरे सालकटङ्कटानां

वंशे विशाले क्षणदाचराणाम् ।

पुष्पोत्कटा नाम बभूव कन्या

तारुण्यदर्पेऽपि विवाहहीना ॥२॥

सा मेरुपार्श्वे मणिहेमवल्ली

विलासरम्योपवने चरन्ती ।

सुतं पुलस्त्यस्य तपोनिधानं

सन्ध्याक्षणे विश्रवसं ददर्श ॥३॥

ध्यानावसाने मुनिना सकम्पा

प्रीत्याथ सा तेन विलोकितैव ।

नवाभिलाषोद्भवविह्वलेव

भावान्विता गर्भवती बभूव ॥४॥

क्रमेण तेनैव मुनेः सपर्या

विधायिनी तस्य तपोवने सा ।

असूत पुत्रत्रितयं विचित्र

कर्मप्रकारेण विभिन्नरूपम् ॥५॥

दशाननाद्याः परिवर्धमानाश्

चक्रुश्चिरं घोरतरं तपस्ते ।

पितामहप्रीतिवरादवापुर्येन

त्रिलोकीक्षपणक्षमत्वम् ॥६॥

महेश्वराराधनहोमवह्नौ

छित्त्वा दशास्यः स्वशिरांसि हुत्वा ।

जभारिसाम्राज्यजयी जगाम

जगत्त्रयी लुण्ठनकण्टकत्वम् ॥७॥

त्रैलोक्यपुण्यैरथ कुम्भकर्णस्

तपोवराप्तौ विपरीतवाचा ।

अक्षीणनिद्रः सततं बभूव

प्रबोधनादेकदिनाप्तभोज्यः ॥८॥

वरप्रदानेऽथ विधिं ययाचे

विभीषणो धर्ममतिं मनीषी ।

तद्वाक्यतुष्टेन पितामहेन

नीतः स धीमानमरत्वमेव ॥९॥

भ्रातुर्बलाद्वैश्रवणस्य लङ्कां

हुत्वा पुरीं रत्नहिरण्यहर्म्याम् ।

दशाननः पुष्पकमुज्ज्वलं च

विमानराजं विजयोद्यतोऽभूत॥१०॥

जित्वा स विश्वं विगतारिचिन्तः

सञ्जातसङ्ग्रामवियोगखेदः ।

लोकत्रये चित्तविनोदनाय

विमानमारुह्य चिरं चचार ॥११॥

स निर्झरोद्गारतुषारशैल

सुवर्णरत्नोज्ज्वलतुङ्गशृङ्गे ।

क्षणं न्यषीदद्दिवसावसाने

तद्भीतिलीनास्विव पद्मिनीषु ॥१२॥

तापं म्हुर्दिक्पतिवल्लभानां

करावमर्षैः ककुभां विधाय ।

कुमुद्वतीबन्धनपापशापाज्

जगाम दुःशील इवास्तमर्कः ॥१३॥

सान्ध्यं प्रकाशं परिपीय रक्तं

निजौजसा लोकनिमीलनानि ।

निशागमोत्साहपदं क्रमेण

तमांसि रक्षांसि स तुल्यमापुः ॥१४॥

अथोद्ययावग्रसरप्रकाश

भ्रश्यत्तमः स्तोकयुतान्तरीक्षे ।

सुधातरङ्गाकुलकालकूट

करम्बिते क्षीरनिधाविवेन्दुः ॥१५॥

तमः समूहस्तरुकुञ्जपुञ्ज

तलस्थितश्चान्द्रमसं प्रकाशम् ।

बभौ दशग्रीव इव प्रयत्नात्

कैलाशमुल्लासयितुं प्रवृत्तः ॥१६॥

जहार लक्ष्मीं कमलाकराणां

चकार भङ्गं सुरचक्रनाम्नाम् ।

बभार दोषाश्रयवान्कलङ्कं

लङ्कापतिर्दिग्विजयीव चन्द्रः ॥१७॥

हृन्मर्मसंलग्नशिलीमुखेषु

दीर्णेषु सद्यः कुमुदव्रजेषु ।

सरःसु चन्द्रप्रतिबिम्बमूर्तिर्

दशास्यभीतेव मुहुश्चकम्पे ॥१८॥

समीराः सोत्कण्ठा इव ललितवल्लीकुलवधू

समाकर्षैः क्रीडानिविडदशकण्ठानुकृतयः ।

विचेरुर्वापीनां कुमुदमधुमाद्यन्मधुकरा

कुलश्रेणीवेणीहठहरणहेलातरलिताः ॥१९॥

उन्निद्रचन्द्राभरणे निशीथे

तस्मिन्महानन्दघनप्रकाशे ।

प्रीतिः सुखस्पर्शमयी बभूव

वैराग्यभाजां मधुरागिणां च ॥२०॥

लङ्केश्वरस्तत्र शशाङ्करत्न

शिलातले रश्मिविलासहासे ।

सुखं शयानः पुरतः प्रयान्तीं

जितेन्द्रलक्ष्मीं ललनां ददर्श ॥२१॥

दशाननोत्सादितनाकलोक

लक्ष्मीमिवैकां विजने भ्रमन्तीम् ।

मैत्रीमिव प्रेमभराभिरामां

तारुण्यलावण्यमनोभवानाम् ॥२२॥

विलोक्य लङ्कापतिरङ्कमुक्त

शशाङ्कशङ्काजननाननां ताम् ।

स्वप्नेऽप्यदृष्टां मनसाप्यचिन्त्यां

हर्षामृतक्षैब्यमिवाससाद ॥२३॥

अचिन्तितापातकिरातभीतां

मृगीमिवालम्ब्य बलेन पाणौ ।

स तां बभाषे विभवाभिमानं

तद्भोग्यशून्यं विफलं विचिन्त्य ॥२४॥

कस्यान्तिकं कुञ्जरगामिनि त्वं

प्रयासि धन्यस्य रणोज्झितासोः ।

आराधितः केन तपोविशेषैः

सौभाग्यभूमिर्भगवान्मनोभूः ॥२५॥

न त्यज्यसे सुभ्रु कुरु प्रसादं

लब्धां सुधां मुञ्चति मन्दपुण्यः ।

त्यक्तान्ययत्नोपनतानि मोहात्

पुनर्न लभ्यानि समीहितानि ॥२६॥

इति ब्रुवाणेन दशाननेन

तन्वी घनालिङ्गनपीडिताङ्गी ।

काञ्चीविमुक्तिप्रतिषेधदिग्धं

वैलक्ष्यमुग्धाक्षरमाचजक्षे ॥२७॥

बलेन नीवी ननु न प्रमोच्या

विमुञ्च मां दुर्व्यसनस्पृहां च ।

अशीललीलाशकलीकृतां त्वं

ह्रियं श्रियं रक्ष यशः कुलं च ॥२८॥

रम्भाभिधानां सुरलोककान्तां

त्वद्भ्रातृसूनोर्नडकूवरस्य ।

प्राणोपमानां धनदात्मजस्य

न वेत्सि किं मां सुमते स्नुषां त्वम् ॥२९॥

इति ब्रुवाणामबलां बलेन

सन्दूष्य मातङ्ग इवाब्जिनीं ताम् ।

म्लानाननाब्जामवमानलीनां

लज्जानिमज्जद्वदनां मुमोच ॥३०॥

उच्छिष्टाधरपल्लवां नखमुखोल्लेखावखातस्तनीं

विस्रस्तांशुककेशपाशकुसुमामुत्कम्पिनीं मन्युना ।

श्वासायासवतीं सबाष्पनयनां तन्वीं वहन्ती तनुं

सा गत्वा नडकूबरस्य विदितं पौलस्त्यवृत्तं व्यधात॥३१॥

दृष्ट्वाभिभूतां नडकूबरस्तां

श्रुत्वा कुवृत्तं च निशाचरस्य ।

अकामकान्तारतिसङ्गमान्तं

तस्यास्तु दुर्जीवितमित्युवाच ॥३२॥

नक्तंचरैस्तत्क्षणवर्ण्यमानं

तच्छापमाकर्ण्य भृशं दशास्यः ।

अन्तर्वहन्दुश्चरितानुतापं

विमानमारुह्य शनैर्जगाम ॥३३॥

सुखक्षैब्यक्षामाः प्रकटमवटापातगतयः

क्षिपन्तः शीलाख्यं व्यसनमविलक्ष्याः क्षतधियः ।

स्खलन्तः कुर्वन्ति प्रसभमवलेपेन किल तद्

यदुद्भूतस्तापः प्रचलति न जीवान्तनियतः ॥३४॥

व्योम्ना व्रजन्तं पुरतस्तमेत्य

माहेश्वरः प्राह गणः सकोपः ।

हंहो निवर्तस्व भजस्व नीतिं

व्योम्ना गतिर्नेह नभश्चराणाम् ॥३५॥

सतीसहायः स्फटिकाद्रिशृङ्गे

देवो मृडः क्रीडति चन्द्रचूडः ।

पार्श्वेन यात्यत्र मरीचिमाली

भयेन नोच्चैर्मरुतोऽपि वान्ति ॥३६॥

श्रुत्वा मदोद्गारगिरं गणस्व

दुष्टद्विपः कृष्ट इवाङ्कुशेन ।

दष्टाधरः कोपकषायचक्षुर्

नोवाच किंचित्स हरानुरोधात॥३७॥

श्वसन्विमानादवरुह्य सज्जः

स मज्जयन्भूमिमिवाभ्युपेत्य ।

स्कन्धेन पातालतलान्तमूलात्

कैलासमुल्लासितमुज्जहार ॥३८॥

विघूर्णमानाद्रिगुहागृहेभ्यः

समन्ततः सम्भ्रमविद्रुतानाम् ।

सन्त्रस्तविद्याधरसुन्दरीणां

काञ्चीरवैः खं मुखरीबभूव ॥३९॥

क्ष्मान्तोत्क्षेपातिवेगप्रसरदानलोल्लासकैलासकम्प

क्षोभे बिभ्यद्भवानीनिभृतभुजलतालिङ्गितश्चन्द्रचूडः ।

दाशास्यैर्हर्षहासं व्यभजत चरणाकुञ्जिताङ्गुष्ठपीडा

व्रीडानिर्भुग्नमीलन्नयनगलगलद्गर्गरोद्गाररावैः ॥४०॥

अत्युग्ररावेण दशाननस्य

प्रसादवान्रावण इत्यभिख्याम् ।

चक्रे पिनाकी प्रियतां प्रयान्ति

प्रायः प्रभूनां विपरीतचेष्टाः ॥४१॥

तुष्टात्पुनः प्राप्य वरं त्रिनेत्रात्

त्रैलोक्यलक्ष्मीपरिभोगभव्यम् ।

व्रजन्विमानेन दशाननः खे

सकौतुकः पुष्पकमित्युवाच ॥४२॥

य एष दूरात्कनकाचलस्य

संलक्ष्यते दक्षिणपार्श्वदेशे ।

शृङ्गाग्रलग्नोज्ज्वलरत्नशैलस्

तदङ्गविश्रान्तिसुखे ममेच्छा ॥४३॥

इति ब्रुवाणः क्षनदाचरेन्द्रः

क्षणाद्विमानेन जवेन नीतः ।

तस्याद्भुताद्रेर्विचचार पद्भ्यां

रत्नस्थले कल्पलतावृतान्ते ॥४४॥

वैदूर्यगारुत्मतपद्मराग

वज्रेन्द्रनीलामलशैलशृङ्गम् ।

पश्यन्नवालोकनहर्षमानी

न रावणः कौतुकतृप्तिमाप ॥४५॥

क्वचित्स्खलन्निर्झरराजवन्तं

गुहागृहोद्गीर्णमहाट्टहासम् ।

भीत्येव नीहारपटावृतानि

निमीलयन्तं ककुभां मुखानि ॥४६॥

समुल्लसन्नीलमणिस्थलोरु

स्थूलांशुपुञ्जोन्नतदण्डपादम् ।

पुनः प्रवृत्तं बलिवञ्चनाय

व्याप्ताम्बरं विष्णुमिवाप्रमेयम् ॥४७॥

बलान्वितोद्यद्घनकालनेमिं

प्रह्लादसंरब्धजलोद्भवोग्रम् ।

सतारकाग्रं कटकं वहन्तं

यातं हिरण्याक्षमिवाचलत्वम् ॥४८॥

सुविस्मयानन्ददृशा समन्तान्

निर्वर्णयन्नेव मुहुर्महाद्रिम् ।

तदुच्चशृङ्गाश्रमधाम्नि दिव्यां

कन्यामपश्यत्स तपःप्रसक्ताम् ॥४९॥

तन्वीं स्तनाभोगभरादवाप्त

संसक्तकृष्णाजिनगाढबन्धाम् ।

लतामिवोद्यत्स्तवकाभिलाष

निःस्पन्दलीनालिकुलाभिरामाम् ॥५०॥

पौलस्त्यविध्वस्तसमस्तलोक

घनावमानानालतीव्रचिन्ताम् ।

शक्रश्रियं स्वर्गवियोगखिन्नां

रक्षःक्षयायेव तपःप्रवृत्ताम् ॥५१॥

तां वीक्ष्य रक्षःपतिरक्षयेन्दु

मुखीं सखीनेत्रसुधां निपीय ।

मेने तदुच्छिष्टरुचापि शिष्टां

स्पृष्टां न संश्लिष्टनिकृष्टसृष्टिम् ॥५२॥

पुनः सदाचारपरम्परार्ह

पाद्यासनादिप्रणयप्रवृत्ताम् ।

तामब्रवीदद्भुतरूपसम्पत्

सम्पन्नपूजः क्षणदाचरेन्द्रः ॥५३॥

का त्वं मनोजन्मविवर्जितेव

रतिर्विरागव्रतदुर्ग्रहेण ।

मदेन विद्या कपटेन मैत्री

लोभेन लक्ष्मीरिव लुप्तशोभा ॥५४॥

ध्यानावधानं पर्मोऽवमानस्

त्रपाकरं पारमथाक्षसूत्रम् ।

वने निवासस्तव यौवनेऽस्मिन्

जपश्च शापः कुसुमायुधस्य ॥५५॥

त्यक्त्वाग्रहं ब्रूहि विचिन्त्य तन्त्री

त्वमेव सत्यं यदि युक्तमेतत।

बिम्बाधरे चुम्बनकेलियोग्ये

जपेन पापार्जनमेव मुग्धे ॥५६॥

निरञ्जनत्वं कुसुमप्रसक्तिश्

चित्रं जटाबन्धनकारणं ते ।

अनङ्गरागं कुरु मा शरीरम्

अनङ्गरागं वह चेतसि त्वम् ॥५७॥

भोगोत्सवं मानय मा नय त्वं

क्लेशैरदोषं कृशतां शरीरम् ।

अहं हि ते तन्वि समीहिते च

हिते च सम्पादनबद्धकक्षः ॥५८॥

शृङ्गारस्य गतैव भाग्यगुरुतानङ्गस्य नाङ्गस्पृहा

लावण्यं घनमन्युदैन्यमलिनं का यौवनस्योन्नतिः ।

नोद्यानं दयितं मधुर्विधिहतः कस्येन्दुरानन्दनः

कान्ते ते तपसि स्थिता यदि मतिस्तत्सर्वमस्तं गतम् ॥५९॥

श्रुत्वैतदुक्तं दशकन्धरेण

सा किञ्चिदाकुञ्चितचेतनेव ।

जगाद खेदेन विनिःश्वसन्ती

ह्रियावमानेन च मन्युना च ॥६०॥

व्रते विवादं विमतिं विवेके

सत्येऽतिशङ्कां विनये विकारम् ।

गुणऽवमानं कुशले निषेधं

धर्मे विरोधं न करोति साधुः ॥६१॥

कचस्य वाचस्पतिसम्भवस्य

स्वाध्यायजा वेदवतीसुताहम् ।

देया मयेयं स्वयमच्युताय

मनोरथोऽभूत्पितुरित्ययं मे ॥६२॥

कालेन दैत्यैः स हतः पिता मे

मातानलं शोकमिव प्रविष्टा ।

वरार्थिनी देवमनन्यचित्ता

तपःप्रवृत्ता हरिमर्थयेऽहम् ॥६३॥

इति ब्रुवाणां दशकन्धरस्तां

गाढानुबन्धेन घताभिलाषः ।

पुनः पुनः क्षीब इव प्रलापी

कोपाग्निसन्तापवतीं चकार ॥६४॥

स्मृत्वा स शापं नडकूबरोक्तं

सन्त्यक्तकान्ताहठसङ्गवाञ्छः ।

नखक्षतोच्छिष्टकुशस्थलीं

तां कृत्वा जगाम स्वपुरीं सकामः ॥६५॥

सा मानिनी दुर्विषहावमानं

रक्षःकरस्पर्शममृष्यमाणः ।

कुलाभिमानेन्धनमात्मशुद्ध्यै

पूर्वं प्रकोपाग्निमिवाविवेश ॥६६॥

चिरं विचिन्त्याच्युतमच्युताशा

जन्मास्तु मे राक्षससङ्क्षयाय ।

उक्त्वेति दृष्ट्वा रविमद्रिशृङ्गात्

तापेन तन्वी तनुमुत्ससर्ज ॥६७॥

अम्लानं कुशलं कुलं च विमलं सत्सङ्गगण्या गुणा

मान्या मानघनोन्नतिर्विनिधनं धर्माविधानं धनम् ।

कीर्तिर्मूर्तिरसङ्क्षयाद्भुतवती शक्तिश्च संरक्षते

जन्तोरिन्दिर्यसंयमेन सकलं नष्टं न यस्यास्ति सः ॥६८॥

प्रविश्य लङ्कामलका विजित्य

हत्वा पुनर्वैश्रवणस्य कोशम् ।

काले विशालेऽनिलवत्प्रयाते

लङ्कापतिः पुष्पकमित्युवाच ॥६९॥

दृष्टा पुरश्चर्यगिरिर्मया यः

पुनस्तदालोकनकौतुकं मे ।

रम्यं निपीतं बत नेत्रपातैर्

न विस्मरत्येव मनः कदाचित॥७०॥

इत्यादराभ्यर्थनयन्त्रितेन

नीतः क्षणेनैव स पुष्पकेण ।

तं देशमेत्यायतकालजिह्वा

लीढं न तं प्रौढगिरिं ददर्श ॥७१॥

उत्पत्तिवृद्धिक्षयपाकयुक्त्या

क्षणे क्षणे दृष्टविनष्टसर्वः ।

प्रायः प्रपञ्चप्रणयी भवोऽयं

अभावसद्भावसमस्तभावः ॥७२॥

तत्राभ्यपश्यन्नगराण्यरत्न

प्रयत्नक्रयविक्रयाणि ।

परस्परारब्धविरोधयुद्ध

सन्धानसन्नद्धधराधिपानि ॥७३॥

दृष्ट्वा तवाश्चर्यमचिन्त्यरूपं

चक्रभ्रमारूढमिवाप्ररूढा ।

प्रौढोऽपि मूढत्वमिवानुभूय

शनैः स सम्प्राप्तधृतिः प्रदध्यौ ॥७४॥

अहो नु नानाद्भुतविभ्रमाणां

हर्ता च कर्ता च सदैव कालः ।

येनानिशं दर्शयता विचित्रं

निपीतमन्यद्बत वान्तमन्यत॥७५॥

क्षणं विचिन्त्येति नयौ पुरीं स्वाम्

अनित्यतानष्टधृतिर्दशास्यः ।

गिरेर्वियोगादचलं द्वितीय

निवोद्वहन्विस्मयभारमन्तः ॥७६॥

गते निगीर्णाद्भुतचक्रवाले

काले विशाले बहुमोहजाले ।

स्मृत्वा समारुह्य विमानराजं

तमेव देशं स पुनर्जगाम ॥७७॥

स तत्र चित्राणि पुराणि तानि

न हेमहर्म्याणि न मन्दिराणि ।

स्वप्नान्तराणीव कृतभ्रमाणि

जन्मान्तराणीव गतान्यपश्यत॥७८॥

तत्रालुलोके स तमालताल

तालीसहिन्तालनिरन्तरालम् ।

वनं विशालं विवलत्पियाल

मालावलीसंततत्नक्तमालम् ॥७९॥

घोरैर्धुरद्व्याघ्रघनप्रघोषैर्

इवोच्चरोमाञ्चचयाञ्चितानाम् ।

विशङ्कटैरुत्कटकण्टकानां

व्याप्तं समूहैः खदिरद्रुमाणाम् ॥८०॥

अन्तःश्वसन्निश्चलदुष्टसत्त्वैः

कम्पप्रदं पिप्पलपल्लवानाम् ।

तमःपिशाचाचितमर्कभासा

भीत्यैव दूरात्परिवर्ज्यमानम् ॥८१॥

गतेष्वभावं नगरेषु तेषु

दृष्ट्वा तदुग्रं गहनं गभीरम् ।

रक्षःपतिग्रस्तसमस्तलोक

कुलाय कालाय नमश्चकार ॥८२॥

सोऽचिन्तयत्कालवैहङ्गमोऽयम्

अलक्ष्यदाक्ष्यक्रमपक्षवेगः ।

दिवानिशं याति विचित्रशक्तिर्

अहो कदाचिन्न चलत्यखिन्नः ॥८३॥

अत्युच्चापातनिम्नोन्नतिकरणपटुः श्लिष्टदूरस्थितानाम्

इष्टानिष्टव्रजानां सततमिव घनाश्लेषकेलिप्रसक्तः ।

पर्यन्ताभावभूमिप्रपतनचतुरानन्यथा सर्वभावान्

प्रातः प्रातर्विधत्ते नवनवरचनाश्चर्यकृत्कालपाकः ॥८४॥

इत्यद्भुतामालयन्नचिन्त्यां

कालयस्शक्तिं स विसंस्थुलोऽभूत।

अनित्यताचिन्तनभङ्गभाजां

नाङ्गानि केषां शिथिलो भवन्ति ॥८५॥

प्राप्तः स लङ्कां विभवोपभोग

हर्षोत्सवैर्विस्मृतकाललीलः ।

मेने सुखक्षीबत्याक्षयाणि

सम्भोगलीलाधनजीवितानि ॥८६॥

शनैः प्रयाते क्षणसङ्ख्ययापि

प्रवर्धमाने युगदीर्घकाले ।

पुनर्विमानेन तमेव देशं

कुतूहलात्तः प्रययौ दशास्यः ॥८७॥

स तत्र निघातधनप्रवाह

दीर्णोर्वरा निष्क्रमणक्रमेण ।

ददर्श पातालमिवान्तहीनं

खातं प्रजातं भुवनव्रणाभम् ॥८८॥

क्षणं तदालोकनभुग्नकण्ठः

स्थित्वा प्रयातः स पदं स्वमेव ।

काले प्रयाते पुनरागतोऽथ

सरः समुद्रोपममभ्यपश्यत॥८९॥

अनन्तपद्मान्वितमप्रमेयम्

उदग्रनागेन्द्रसहस्रसेव्यम् ।

परागपुञ्जेन भुजङ्गलोकम्

इवान्तराले कपिलेन जुष्टम् ॥९०॥

हंसांसकण्डूयनलोलनाल

फुल्लारविन्दोत्थितषट्पदानाम् ।

मुहुः समूहैर्विहितान्धकारं

क्रोशान्निशाशङ्कितचक्रवाकम् ॥९१॥

स्वादूदकं कोमलवीचिवातं

पद्मोज्ज्वलं भृङ्गगणोपगीतम् ।

ससौरभं पुण्यवतामिवैकं

सर्वेन्द्रियाणामुपभोगपात्रम् ॥९२॥

सविभ्रमं श्रीरमणं पराग

पीताम्बरं नाभभवोद्भुताब्जम् ।

नीलोत्पलश्यामलमाकलय्य

सरः स निःस्पन्दतनुः प्रदध्यौ ॥९३॥

अहो नु नेत्रार्पितकौतुकानि

वैचित्र्यमेतत्त्रीकृतविस्मयानि ।

पिबत्ययत्नेन कियन्ति कालः

सृजत्यजस्रं च महाद्भुतानि ॥९४॥

क्षणं विचिन्त्येति लसद्विवेकः

स शङ्करार्चारसमादरोऽभूत।

अनित्यताचिन्तनखैदजन्मा

न सद्विचारः कुशलाय कस्य ॥९५॥

अयःपिण्डक्रूरं श्रयति न मनः क्वापि मृदुतं

न यावत्संस्पृष्टं सकलभवभावक्षयधिया ।

मनाक्तस्मिन्याते प्रशमलवपाकप्रणयितां

नमत्येतत्कस्य द्विजगुरुहरार्चासु न शिरः ॥९६॥

सरस्तटे टङ्कितरत्नपीठे

लिङ्गं विधाय स्फटिकाद्रिशृङ्गम् ।

सपुष्पकोपाहृतदिव्यपद्मैर्

अर्चां चकारामृतरश्मिमौलेः ॥९७॥

स त्र्यम्बकस्याम्बरचुम्ब्यमानां

विधाय पूजां कमलोपचारैः ।

ह्रदस्य विष्णोरिव मध्यजातं

समादधे मूर्ध्नि विधातुमब्जम् ॥९८॥

तस्यान्तरे काञ्चनकर्णिकस्य

विचित्ररत्नोज्ज्वलपल्लवस्य ।

स दिव्यपद्मस्य ददर्श कन्यां

तद्भीतिलग्नामिव जातु लक्ष्मीम् ॥९९॥

आदाय कन्यां कमलं विधाय

तच्चन्द्रचूडस्य किरीटकोटौ ।

प्रीतिं वहन्विस्मयगर्भगुर्वी

लङ्केश्वरः स्वां नगरीं जगाम ॥१००॥

मन्दोदरी तद्दयिताथ तत्र

तेनार्पितां कल्पितपुत्रिकां ताम् ।

अनन्यलावण्यवर्ती विलोक्य

कन्यामभूद्विस्मयनिश्चलेव ॥१०१॥

कदाचिदुत्सङ्गगृहीतकन्यां

तां नारदोऽभ्येत्य मुनिर्जगाद ।

पत्युस्तवेयं चपलेन्द्रियस्य

कन्या भविष्यत्यभिलाषभूमिः ॥१०२॥

श्रुत्वैतदाच्छाद्य महार्हपट्टैः

सुवर्णमञ्जुषधृतां कुमारीम् ।

मन्दोदरी भूमिलतावखाते

तत्याज रत्नाकरपारतीरे ॥१०३॥

काले प्रयाते जनकेन राज्ञा

यज्ञाङ्गने हैमहलेन कृष्टे ।

लब्धा समृद्धेन्दुमुखी सुता सा

सीतेति नाम्ना भुवने प्रसिद्धा ॥१०४॥

ततः कदाचिन्मणिमन्दिरस्थं

दशाननं शूर्पणाखाभ्युपेत्य ।

सद्यः प्रकृत्याखिलकर्णनासा

स्वसा श्वसन्ती विजने जगाद ॥१०५॥

अहो प्रमादस्तव दुर्जयस्य

जनत्रयीराज्यजयोर् जितस्य ।

यत्त्वं प्रजातारिनवाङ्कुरोऽपि

धत्से सुखी क्षीब इवातिनिद्राम् ॥१०६॥

मन्त्रद्विषः शक्तिमदेन यस्य

निश्चेतनस्येव दिनानि यान्ति ।

दुर्वृत्तगोष्ठीपतितेव पतितेव

पत्नी न तत्र तिष्ठत्यपरोन्मुखी श्रीः ॥१०७॥

रामः पितुर्निश्चलशासनेन

भ्रात्रा जटाभृत्सह लक्ष्मणेन ।

सीताख्यया चारुदृशा च पत्न्या

धन्वी वने दाशरथिः स्थितोऽस्ति ॥१०८॥

यस्याङ्गना सा सुरसिद्धसाध्य

गन्धर्वविद्याधरसुन्दरीणाम् ।

साश्चर्यसौन्दर्यमदं वहन्ती

दृष्टा मया त्वद्भवनोचितैव ॥१०९॥

तां त्वत्कृते हर्तुमहं प्रवृत्ता

यावन्मनोजन्मजयप्रशस्तिम् ।

रामानुजात्तावदयं भयाप्तः

पराभवः कर्तितकर्णनासः ॥११०॥

मन्मन्युशल्यव्यथयाभिभूतः

सुरासुरश्रीहरणप्रगल्भाः ।

त्वद्भ्रातरस्ते खरदूषणाद्या

रामेण सर्वे निहताः ससैन्याः ॥१११॥

सुखोन्मुखः कभुजङ्गमोऽपि

विषोष्मशान्त्यै बिलवेश्मशायी ।

पिपीलकेनोदररन्ध्रयुक्त्या

विदार्यते निश्चलकल्प एव ॥११२॥

आगुप्तचारः स्वपरप्रदेशे

जगत्त्रयीराज्यगृहीतभारः ।

अहो प्रसिद्धां भुवनत्रयेऽपि

त्वं दण्डकारण्यकथां न वेत्सि ॥११३॥

इति स्वसुर्मर्मं विदारणोग्रां

श्रुत्वा गिरं दुर्विषहं दशास्यः ।

जवेन पारं जलधेर्जगाम

कालेन कामेन च कृष्यमाणः ॥११४॥

स प्राप्य मारीचममात्यमुख्यम्

अरण्यप्रयन्ततपः प्रसक्तम् ।

न्यवेदयन्मर्त्यविकारमस्मै

सीताफारव्यसनोद्यमं च ॥११५॥

लक्ष्मीशरीरक्षपणाभियोगे

गाढानुबन्धेन मदप्रमूढम् ।

साचिव्यमन्त्रावधि याच्यमानो

विचार्य मारीचमुनिस्तमूचे ॥११६॥

अहो बतायं तव मोहमन्त्रः

स्वतन्त्रवाचा च्युतनीतितन्त्रः ।

किं शत्रुणा पुत्रकलत्रमित्र

देहापहारी व्यसनाय दत्तः ॥११७॥

धूर्तैर्यदुक्तं हृदयग्रहाय

निन्द्यं मदोत्तुङ्गमसङ्गतं च ।

तदीश्वराणां परिणामकष्टं

निर्दिष्टदुर्वेदमनिष्टमिष्टम् ॥११८॥

सर्वोपकारः सुकृतप्रहारः

क्लेशावतारः कुशलापसारः ।

शीलापचारः कुपदाभिसारः

पापप्रकारः परदारहारः ॥११९॥

पथ्यं न जिघ्रन्त्यथ चर्वयन्ति

स्पृशन्ति शृण्वन्ति विलोकयन्ति ।

विनाशकाले चपलेन्द्रियाणां

सर्वेन्द्रियाणीव पुरः प्रयान्ति ॥१२०॥

रामस्य हर्तुं कथमिच्छसि

त्वं पत्नीमयत्नक्षतराक्षसस्य ।

यद्भीतिनीत्येव तपस्ततं मे

क्व रक्षसामस्ति विवेकपाकः ॥१२१॥

जातः कृती तततपश्चयऋष्यशृङ्ग

मन्त्राहुतिप्रसृतयागविधिप्रभावात।

पृथ्वीपतेर्दशरथस्य पितुर्नियोगाद्

यः कौशिकस्य मखरक्षणदीक्षितोऽभूत॥१२२॥

शूरः शिशुः कौशिकशासनेन

मन्मातरं वर्त्मनि ताटकां यः ।

हत्वा प्रपेदे मुनिआ वितीर्णां

सजृम्भकामस्त्ररहस्यविद्याम् ॥१२३॥

अस्स्त्रोद्यत्पक्षपातैः कुशिकसुतमखत्राणसज्जस्य यस्य

प्रक्षिप्तो योजनानां शतमुदधितटे मूर्छितः प्रच्युतोऽग्रे ।

वृक्षेष्वद्यापि बाणासनचकितभिया रामनामादिवर्णे

राकारामादिशब्देष्वपि भयसमयान्न क्वचिन्निर्वृतिर्मे ॥१२४॥

यः प्राप यज्ञे जनकस्य पुत्रीं

चण्डीशचापाक्रमणेन सीताम् ।

नीतां त्रिलोकीविजयाशयेन

शक्तित्वमेतां कुसुमायुधेन ॥१२५॥

आकर्णाकृष्टभङ्गोद्भवरवमुखरोच्चण्डचण्डीशचाप

क्रोधाध्मातस्य सर्वक्षितिपवधविधेर्द्वन्द्वयुद्धातितिथिर्यः ।

चापश्रीकुञ्जनेन व्यधित भृगुपतेः सर्वधर्मस्य गोप्ता

पुण्यब्राह्मण्यजन्मापचयपरिचयक्षत्रवृत्तेर्निरोधम् ॥१२६॥

यः सत्यपाशग्रथितस्य मुक्त्यै

पुतिर्गिरा निर्जनसंश्रयाय ।

ययावरण्यं सह लक्ष्मणेन

भ्रात्रा समानव्रतया च पत्न्या ॥१२७॥

वियोगशोकात्पितरि प्रतप्ते

स्वर्गं प्रयाते भरतेन यत्नात।

अभ्यर्थ्यमानोऽपि निजं न राज्यं

जग्राह रामः स्थिरसत्यकामः ॥१२८॥

तत्पादुके मूर्ध्नि निधाय धीमान्

करोति शत्रुघ्ननिषेव्यमाणः ।

राज्यं जटाभृद्भरतस्तदीयं

वनान्तवासावधिं तत्प्रविष्टम् ॥१२९॥

सहायतां ते कुपदे करोमि

कथं शरीरप्रतिकूलकार्ये ।

अकुर्वतस्त्वद्विशिखैर्विनाशस्

ततस्तु रामान्निधनं वरं मे ॥१३०॥

श्रुत्वेति मारीचवचः प्रहृष्टस्तं

राक्षसेन्द्रः प्रथमं विसृज्य ।

मायानिधानं स्वविनाशसज्जः

पश्चाद्ययौ कल्पितभिक्षुवेषः ॥१३१॥

अर्थानर्थक्षयभयजयान्सर्वथा वेत्ति सर्वः

श्रेयः प्राप्तुं किमपि यतते वर्जयत्येव दोषान।

तज्ज्ञोऽप्यन्ते पतति विवशः क्लेchAchokArthigarthe

दैवादिष्टे पतनसमये लङ्घने कस्य शक्तिः ॥१३२॥

अथ कनककुरङ्गं विद्रुमोत्तुङ्गशृङ्गं

रुचिरमणिविचित्रं लोचनानन्दमित्रम् ।

द्युतिमिव विकिरन्तं संनिकर्षे चरन्तं

जनकनृपतिपुत्री कौतुकात्तं ददर्श ॥१३३॥

तच्चर्मलोभात्प्रणयप्रयत्नैर्

अभ्यर्थितो मैथिलराजपुत्र्या ।

धृत्वाश्रमे लक्ष्मणमात्तचापः

ससार सारङ्गवधाय रामः ॥१३४॥

मायामृगस्तीक्ष्णतराननेन

स पत्रिणा रामधनुश्च्युतेन ।

बिद्धः पतन्राक्षसरूप एव

हा लक्ष्मणेत्यार्तरवं रुराव ॥१३५॥

श्रुत्वा प्रलापं सहसैव सीता

भर्तुर्विरुद्धं परिशङ्कमाना ।

तत्कम्पिताङ्गी विससर्ज यत्नात्

ससम्भ्रमं लक्ष्मणमीक्षितं तम् ॥१३६॥

अभ्येत्य सीतामथ कूटभिक्षुर्

दशाननश्चन्द्रमुखीं ददर्श ।

सुरासुराणां कलहोपशान्त्यै

सुधां सुदेहामिव निर्जनस्थाम् ॥१३७॥

प्रणामिनीं स्वागतवादिनीं तां

पाद्यासनातिथ्यविशेषसज्जाम् ।

उवाच कौटिल्यनिलीनमायः

प्रच्छन्नकायः क्षणदाचरेन्द्रः ॥१३८॥

लावण्यं सकलाङ्गसङ्गसुभगं माधुर्यधुर्यं वचस्

तीक्ष्णान्तानयनद्वयी च सुतरां प्राने कषायच्छविः ।

मूर्तिः कान्तिसुधाचिता रसमयी चित्रं चमत्कारिणी

यत्नेनाप्यभिलक्ष्यमम्लकटुकं किंचिन्न ते चेष्टितम् ॥१३९॥

एकाकिनी निर्जनकाननेऽस्मिन्

करोषि किं रत्नविमानयोग्या ।

घोरं घुरद्व्याघ्रगुहाग्रमेतत्

कस्मात्तवेष्टं विषमाश्मकाष्ठम् ॥१४०॥

एता निर्भरदर्भसूचिनिचयैर्दुःसंचरा भूमयः

क्षुत्क्षुण्णाजगरोग्रकोपविषमश्वासोष्मशुष्यद्रुमाः ।

ग्रीष्मग्लानिनिमग्नमत्तमहिषश्लिष्यत्करीषोन्मिषत्

पङ्कव्याकुलविक्लवत्तृणकुलक्लेदातितिक्तं पयः ॥१४१॥

दिव्यारत्नहिरण्यहर्म्यरुचिरा रम्या तव श्रीसखी

लङ्का स्फाटिकमन्दिरांशुनिवहैः स्वर्गं हसन्ती मुहुः ।

तस्याः सुभ्रु विभात्यशोकवनिकालङ्कारभूता मरुत्

त्वङ्गत्कल्पलतापरागपटलीसंसर्गरङ्गा रतिः ॥१४२॥

जगज्जयोद्योगरणाङ्कितश्री

लङ्काधिनाथः प्रणयी तवाहम् ।

यं त्रासलोलांशुकपल्लवाङ्गा

भ्रूभङ्गभग्नास्त्रिदशा नयन्ति ॥१४३॥

श्रुत्वैतदुक्तं दशकन्धरेण

भयेन कोपेन च कम्पमाना ।

जगाद जिह्मं जनकात्मजा तं

समुद्भवद्बाहुशिरःसहस्रम् ॥१४४॥

अहो प्रशान्तव्रतकष्टकूटस्

त्वं शष्पसञ्छन्न इवान्धकूपः ।

पापाप्लुतं जल्पनं जल्पतस्ते

किं नांअ भूमौ पतिता न जिह्मा ॥१४५॥

इति ब्रुवाणां कपटाकृतिस्तां

करेण मातङ्गनिभः प्रमाथी ।

आकृष्य रम्भामिव वेपमानां

जहार मत्तः पिशिताशनेन्द्रः ॥१४६॥

तारप्रलापां शरणैषीणीं

तां दयाभिमानी न ररक्ष कश्चित।

प्रायः स्वरक्षाप्रणयी जनोऽयं

परार्तिकाले विरलप्रयत्नः ॥१४७॥

सीतां हरन्तं रजनीचरेन्द्रं

लतामिवोग्रानिलमम्बरेण ।

धीरः कृपावानरुणस्य सूनुर्

अभ्याद्रवद्गृध्रपतिर्जटायुः ॥१४८॥

निकृत्तवर्मायुधमौलिवाहं

कृत्वा दशास्यं नखचञ्चुपक्षैः ।

दैवप्रमाणे विजये जटायुर्

जुहाव जीवं निजमाजिवह्नौ ॥१४९॥

जायन्ते निधनं प्रयान्ति सततं जन्मभ्रमे जन्तवः

कोऽप्येकः किल जायते स सुकृती यः पीतपुण्यामृतः ।

आर्तत्राणपवित्रितेन तृणवन्नीतेन जातु व्ययं

व्याप्ताशेषयशोमयेन वपुषा कल्पस्थितिर्जीवति ॥१५०॥

लङ्काधिनाथः समुपेत्य लङ्काम्

अशोकनाम्नीं वनिकां प्रविश्य ।

न्यवेशयन्मैथिलजां क्षयाय

कुलस्य मानस्य च जीवितस्य ॥१५१॥

दिनेषु यातेष्वथ रामवृत्तं

ज्ञातुं विसृष्टः प्रणिधिर्निगूढः ।

सुकेतुनामा दशकन्धरेण

विज्ञाय सर्वं स समाजगाम ॥१५२॥

स तापसव्यञ्जनरञ्जितेन

वेषेण लङ्कापतिमभ्युपेत्य ।

स्वैरं बभाषे भुवनत्रयेऽपि

समस्तकार्येषु कथान्तरङ्गः ॥१५३॥

न युज्यते वक्तुमसंमतं यन्

न चाहितं न प्रकटं न गुप्तम् ।

प्रायः प्रभूणामतिसंनिकर्षः

क्षुराग्रधारे नवपादचारः ॥१५४॥

श्रुतं च दृष्टं निवेद्यमानं

सत्यं वचः प्रीतिकरं न राज्ञाम् ।

तुष्यन्ति भूपाः स्तवकस्तवेन

शून्येन वेश्याप्रणयोपमेन ॥१५५॥

कर्णानुकूलं हृदयग्रहाय

यदुच्यते तत्क्षणदृश्यदोषम् ।

बाल्लभ्यभावप्रभवाय भूत्यैर्

द्रोहप्रकारः परमं प्रभूणाम् ॥१५६॥

सहायहीनस्य पदच्युतस्य

क्षामस्य कान्ताविरहान्वितस्य ।

रामस्य वृत्तं शृणु देव सर्वं

श्रुत्वा विचार्य क्रियतां हितं यत॥१५७॥

हत्वा स मारीचममेयमायं

त्यक्त्वाश्रमं लक्ष्मणमाप्तमग्रे ।

विलोक्य सीताहरणाभिशङ्की

ध्यात्वापतत्तन्मुखदत्तदृष्टिः ॥१५८॥

दृष्टाश्रमं शून्यमचिन्तितोग्र

शोकाभिकाताप्तमुहूर्तमोहः ।

आसाद्य संज्ञां शनकैः प्रपेदे

चक्रभ्रमारूढ इवाकुलत्वम् ॥१५९॥

जटायुषस्तत्क्षणमुक्तजीव

शेषस्य कृत्वान्त्यविधिं विधिज्ञः ।

तद्दुःखतापं दयितावियोगे

रामः क्षते क्षारमिवाससाद ॥१६०॥

शैले शैले स्थलजलबिलप्रायपुञ्जे निकुञ्जे

कृत्वा कृत्वा हृदयमसकृज्जीविताशाविहीनम् ।

शोकेनान्तर्विहितवसतिः प्रस्खलद्बाष्पवर्षी

रामः सीतां धृतिमिव वने हारितां नाससाद ॥१६१॥

सरः फुल्लैर्व्याप्तं विकचकुमुदेन्दीवरवनै

रजः पुष्पालेख्यं स खलु निखिलेन्दुद्युतिमुखः ।

वहन्नन्तर्द्वेषादिव कमलखण्डेषु विमुखः

क्षपामन्तश्चक्राह्वयसदृशवृत्तिः समनयत॥१६२॥

दृष्ट्वा श्रियः पुत्रमवाप्तघोर

कबन्धरूपं स विमोच्य शापात।

राकावियोगग्लपितः शशीव

ययौ तदुक्तेन पथा हितेन ॥१६३॥

शनैरवाप्याचलऋष्यमूकं

सुग्रीवनाम्ना प्लवगेश्वरेण ।

परस्पराबद्धहितप्रतिष्ठं

स प्राप विख्यातबलेन सख्यम् ॥१६४॥

तस्याग्रजेनातिबलेन राज्यं

हृतं समाकर्ण्य स वालिनाम्ना ।

चकार मित्रोपकृतिप्रयत्न

संनद्धधीस्तन्निधने प्रतिज्ञाम् ॥१६५॥

किष्किन्धामेत्य रामः प्रथितभुजबलं वालिनं शौरशाली

सुग्रीवाहूतमुग्राननविशिखहतं कीर्तिशेषं चकार ।

सन्नद्धः सप्तसिन्धूद्धतसलिलचयाशान्तिसन्तोषवृद्ध्या

सन्ध्याध्यानाय धीरः क्षणगमनपटुर्यः सदैवात्र दृष्टः ॥१६६॥

सुग्रीवं हनुमन्मुखैः परिवृतं राज्येऽभिषिच्य स्वयं

कृत्वा वालिजमङ्गदं तदनुगं तद्यौवराज्यार्जितम् ।

रामः प्रस्रवणे गिरौ समनयद्विद्युत्प्रभापिङ्गल

श्मश्रुव्याकुलमेघसङ्घकलिले कालं वियोगाकुलः ॥१६७॥

संरम्भोर्जितगर्जितं जलधरं क्षिप्रोद्यतां विद्युतं

खद्योतस्फुटनं कदम्बपवनं तां सस्मितां केतकीम् ।

सेहे सर्वममोघमेघचरितं रामः सुहृन्निर्मितां

सीतान्वेषणसंविदं धृतिमयीमाशां निवेश्याशये ॥१६८॥

ततः प्रयाते घनमेघकाले

प्रशान्तबाष्पेषु दिशां मुखेषु ।

मित्रोदमश्रीरिव हर्षहेतुः

पद्माकराणां शरदाजगाम ॥१६९॥

उद्योगकालेऽपि निरर्गलस्य

वक्तुं सुहृदश्च्युतस्य ।

क्रुद्धेन सौमित्रिरथाग्रजेन

ययौ विसृष्टः कपिराजधानीम् ॥१७०॥

श्रीभोगसक्तं दयितानुरक्तं

हरीश्वरं विस्मृतमित्रकार्यम् ।

अभ्येत्य लज्जावनतं जगाद

रामानुजः कोपकषायनेत्रः ॥१७१॥

आश्चर्यं निजकार्यकालविनतः पर्याप्ततात्पर्यवान्

क्रौर्यौदार्यमनार्यं वेत्सि न घनक्लेशाश्मशय्याश्रयम् ।

उच्छिष्टं पिबसि प्रियाधरदलस्यालग्नरागं मधु

प्रायेणोपकृतिः कृतघ्नहृदये पाषा;नपट्टे कृषिः ॥१७२॥

सोल्लासाः कृकलासकूर्मशफरोत्फालऽहिजिह्वालता

सन्ध्यावर्णपलाशपर्णकरिणीकर्णानुकारक्षमा ।

विद्युन्नृत्तनरेन्द्रवृत्तवनिताचितासवोन्मत्तधी

दुर्नीतोन्नतिचारणस्तुतिकलालोलाः खलप्रीतयः ॥१७३॥

स लक्ष्मणेनेति विडम्ब्यमानः

सदोषवैलक्ष्यविषण्णचित्तः ।

प्रसाह्य तं संवरणप्रणामैश्

चक्रे स्वसैन्यं विजयाय सज्जम् ॥१७४॥

नम्रः समभ्येत्य ततः कपीन्द्रः

प्लवङ्गसङ्घैः परिपूरिताशः ।

रामं प्रसादाभिमुखं विधाय

दिशो विजेतुं बलमादिदेश ॥१७५॥

सीतान्वेषणशासनप्रणयिनां दर्पेण संसर्पतां

सम्पूर्णे भुवने कपिक्षितिभृतां सैन्येन दिग्व्यापिना ।

मेघग्रस्तमिवाम्बरं घनतमः सङ्घातपीतं दिनं

दिक्चक्रं च बभूव विन्ध्यशिखरप्राकारसम्पूरितम् ॥१७६॥

वेगेनाङ्गदमैन्द्रनीलहनुमन्मुख्याः प्लवङ्गास्ततः

प्राप्ता दक्षिणसिन्धुमुद्धततरत्वङ्गत्तरोङ्गत्तरम् ।

आलिङ्गन्तमिवाम्बरप्रणयिनीं गङ्गां दिगन्तादिभिर्

दृष्ट्वा बन्ध्यपरिश्रमाः प्रमुमुचुश्चिन्तानिमग्ना धृतिम् ॥१७७॥

ततोऽब्रवीद्वालिसुतः समुद्र

सन्दर्शनत्यक्तजयाभिमानः ।

सीता न लब्धाब्धिरयं न लङ्घ्यः

कपिप्रभोः कः सहते प्रकोपम् ॥१७८॥

इहैव नस्त्यक्तपरिग्रहाणां

युक्तं तपः सङ्गलितग्रहाणां

भग्नेऽभिमाने विततेऽवमाने

वनं विना भेषजमस्ति नान्यत॥१७९॥

मिथ्यापुत्रकलत्रमित्रभरणारम्भाभियोगग्रहैर्

आशापाशजुषां प्रभुप्रणयिनां सेवाव्रतैः शुष्यताम् ।

अन्ते हन्त दिशन्ति सन्ततमहामोहप्ररोहावहा

वैश्याविभ्रमचञ्चला भ्रममदोन्मत्तक्रमं सम्पदः ॥१८०॥

धन्यो जटायुर्जगति प्रवीरो

जीवत्यलोभोज्झितजीवितोऽपि ।

छिन्नस्य यस्योचितराजकार्ये

लोके प्ररूढा किल कीर्तिलक्ष्मीः ॥१८१॥

इत्यङ्गदेनाभिहिते समीपं

सम्पातिनामा शनकैरवाप्तः ।

प्लवङ्गमान्गृध्रपतिर्जगाद

नवोद्भवत्तत्क्षणलक्ष्यपक्षः ॥१८२॥

भ्राता जटायुर्मम पूर्वमर्क

पथे व्रजन्मत्सहितो जवेन ।

स्पर्धानुबन्धी स मया स्वपक्षै

संरक्षितः प्रज्वलिताखिलाङ्गः ॥१८३॥

निर्दग्धपक्षं पतितं क्षितौ मां

दिवाकराख्यो मुनिरित्युवाच ।

भविष्यसि प्रौढगतिhsapakShas

त्वं रामवृत्तामृतपूर्णकर्णः ॥१८४॥

इहाद्य मे रामकथामृतेन

पक्षैः प्रजातैर्विगतः स शापः ।

पश्यामि लङ्कोपवने निरुद्धां

सीतां निगद्येति जगाम गृध्रः ॥१८५॥

महामतेर्जाम्बवतो मतेन

प्लवङ्गमैः सादरमङ्गदाद्यैः ।

अभ्यर्थितोऽब्धेस्तरणेऽभिमानी

समीरसूनुर्ववृधे हनूमान॥१८६॥

महेन्द्रमारुह्य गिरिं सपाद

भरेण गुर्वीकृतमुत्पपात ।

आदातुमिच्छन्निव नाकचुम्बि

दिनेशबिम्बं पुनरम्बराग्रम् ॥१८७॥

स्वच्छाम्बुप्रतिबिम्बितेऽस्य वपुषि क्रूरप्रकोपाकुलैर्

द्रष्ट्राकोटिविपाटनेन मकरैर्मिथ्याभियोगे कृते ।

दूरोद्गारितदूरुवातविधुतस्फीतैस्तटाम्बुस्फुटच्

छुक्तिव्यक्तसृतैर्जहास जलधिर्मुक्तासमूहैर्मुहुः ॥१८८॥

व्रजन्स धीरः शतयोजनान्तं

क्रमेण तद्ग्रासविवर्धितास्याम् ।

जघान घोरामथ सिंहिकाख्यां

क्षपामिवार्कस्तमसो जनित्रीम् ॥१८९॥

मानाय मैनाकमथार्णवेन

विश्रान्तये रत्नगिरिं विसृष्टम् ।

करेण संस्पृश्य स लङ्घिताब्धिर्

लङ्काङ्कशैलस्य तटे पपात ॥१९०॥

अथ निशि शशिहासोल्लासशुभ्रासु दिक्षु

स्फुटमणिकिरणेषु तत्प्रियान्तःपुरेषु ।

प्रतिपदमत्यत्नात्तेन सर्वं विचिन्त्य

दुर्ततरमभिपत्य स्वैरमाभाष्य सीताम् ॥१९१॥

सुरतरुवनिकाया मूलभङ्गं विधाय

प्रविधुतकुलशैलान्किङ्करान्मन्त्रिपुत्रान।

सुरपुरभयदीक्षादक्षमक्षं च हत्वा

स्वयमभिसरता तामिन्द्रजिद्युद्धभूमिम् ॥१९२॥

तृणमिव वहता तच्छद्मना ब्राह्ममस्त्रं

हुतवहहुतलङ्कातङ्कनिःशङ्कशक्त्या ।

कृतमिह कपिना यत्तच्चे देवेन दृष्टं

तदपि कुमतिसृष्टं दैवदिष्टं न नष्टम् ॥१९३॥ (तिलकम्)

यद्भक्तियुक्तं विनयप्रमुक्तं

विज्ञाप्यसे शक्तिलवेन देव ।

आकुञ्चितभ्रूभ्रमकारि वक्त्रं

न तत्र कार्यं स्वहितं विचार्यम् ॥१९४॥

श्रुत्वैतदुक्तं प्रणधिव्रतेन

रक्षःपतिः क्ष्मां क्षणमीक्षमाणः ।

न किञ्चिदूचे चरणाञ्चलेन

समुल्लिखन्स्फाटिकपादपीठम् ॥१९५॥

अथ प्रभाते किल मन्त्रिमुख्य

निषेव्यमाणं क्षणदाचरेन्द्रम् ।

भ्राता सभाग्रस्थितमभ्युपेत्य

विभीषणः सम्प्रति तं बभाषे ॥१९६॥

अत्यल्पकेऽपि व्यसनांशलेशे

न संवृत्तिर्यैः क्रियते प्रयत्नात।

तेषां प्रवादादवमानपूर्णाः

सक्तापवादा विपदो भवन्ति ॥१९७॥

नहि धीमतां धावति धीः कुकार्ये

क्षणादकार्याद्विरमन्ति भव्याः ।

कुर्वन्त्यकार्यं विरमन्ति नैव

हितं न शृण्वन्ति च देवदग्धाः ॥१९८॥

पराभवं यत्स कपिस्तवापि

चकार सोऽयं कुनयप्रभावः ।

सीतापहारप्रभवावमाने

तत्त्याग एव प्रशमाभ्युपायः ॥१९९॥

अहो नु चारैर्न निवेदितं भो

रामः समुद्रस्य तटीमवाप्तः ।

यद्भृत्यसुग्रीवविधौ विधेयः

स मारुतिस्तत्पृतनापदातिः ॥२००॥

प्रसाद्यतामात्महिताय रामः

सीतार्पणेनैव स शान्तिमेति ।

अयं प्रमादस्य शरावपातः

सीतापरित्यागकरावलम्बः ॥२०१॥

हितं तवैते न वदन्त्यमात्यास्

त्वद्भ्रूलताधीनविभूतिभोगाः ।

चित्तग्रहाय प्रियतामवाप्तुं

कर्णानुकूलं कथमन्त्यतथ्यम् ॥२०२॥

सत्ये शङ्काचकितमतयो वञ्चकग्रामलीनाः

शैलस्थओल्पकृतिविफलाः स्वल्पदोषेऽतिकोपाः ।

मत्न्रोद्विग्नाः पिशुनवचना घर्मनर्मोक्तिहृष्टाः

साधुद्विष्टाः प्रखलसुहृदः सर्वदा भूमिपालाः ॥२०३॥

इति ब्रुवाणं कुchalAnubanDhAdh

विभीषणं भ्रूभ्रमणप्रकोपः ।

आकृष्य खड्गं चरणाञ्चलेन

न्यपातयन्निर्विकृतिं दशास्यः ॥२०४॥

स वेत्रिभिस्त्रासितसर्वलोकैर्

निष्कासितः सज्जनसंश्रयार्थी ।

गुणाभिसारि गग्नं विगाह्य

जगाम रामस्य समीपमेव ॥२०५॥

अन्येद्युरन्तःपुरसौधशृङ्ग

स्थितं समेत्य प्रणिधिर्दशास्यम् ।

सुग्रीवसैन्यार्णवमध्यचारी

जगाद विज्ञातसमस्ततत्त्वः ॥२०६॥

इतः प्रयातस्य विभीषणस्य

प्रणामिनः पादनखांशुपट्टम् ।

रामेण मौलौ प्रविसार्य दत्तो

लङ्काधिपत्ये प्रथमाभिषेके ॥२०७॥

मन्त्रान्तरङ्गत्वमतीव यातः

स तस्य निर्व्याजहितोपदेष्टा ।

न बान्धवत्वं सहजं जनस्य

स एव बन्धुः किल योऽनुरक्तः ॥२०८॥

विभीषणस्यानुमते त्रिरात्रं

रामेऽब्धितीरेऽथ कृतव्रतेऽपि ।

गाम्भीर्यनिःस्यन्दतयाम्बुराशिर्

न किंचिदूचे तरणाभ्युपायम् ॥२०९॥

रामस्य चापाक्रमणेन सिन्धुर्

भयादथामन्यत सेतुबन्धम् ।

मृदोरवज्ञामुखभङ्गकारी

लोकः किलायं भयभोज्य एव ॥२१०॥

अथाम्बुधौ मन्दरतुल्यशैलेः

सेतुर्निबद्धोऽद्भुतकृत्प्लवङ्गैः ।

प्रभावशक्त्या दृढनिश्चयानां

शिलाः प्लवन्ते सलिले किमन्यत॥२११॥

रक्षःकुले सेतुरभावहेतुर्

दैवेन सृष्टः सलिलप्रचारः ।

नूनं स निर्विघ्नगतागताय

लङ्कापदां राघवसम्पदां च ॥२१२॥

तीर्त्वार्णवं सेतुपथेन रामस्

ततस्त्रिकूटस्य तटे निविष्टः ।

प्लवङ्गसैन्येन धनेन यस्य

त्रस्ता इव क्वापि दिशः प्रयाताः ॥२१३॥

इत्युक्त्वा प्रणिधौ मनागपसृते लङ्कापतिभ्रातरं

व्यायन्मानुषसेवकं क्षतकुलं प्रम्लानमानाननः ।

सङ्कल्पैरपि दुष्करेऽद्भुतनिधौ सेतौ निबद्धेऽम्बुधौ

लज्जाद्वेषविमर्शकोपकलनाव्याकीर्णचित्तोऽभवत॥२१४॥

अथोच्चचारोद्धतयुद्धशंसी

भेरीनिनादः क्षणदाचराणाम् ।

शिलाहताट्टालपरम्पराणां

झाङ्काररावश्च घनः कपीनाम् ॥२१५॥

युद्धे प्रवृत्ते कपिराक्षसानां

द्रुमाद्रिशस्त्रास्त्रसमाहता भूः ।

पुनः प्रजाताखिलदाहशङ्का

लङ्का चकम्पे भयविह्वलेव ॥२१६॥

ततः प्रतीहारपतिः प्रविश्य

विद्युन्मुखाख्यः क्षणदाचरेन्द्रम् ।

व्यजिज्ञपत्सङ्गररङ्गभङ्गं

प्रत्यक्षमालोक्य निशाचराणाम् ॥२१७॥

देवद्वन्द्वरणे प्रसक्तसुभटे तुल्यत्वमासीत्क्षणं

रक्षोवानरसैन्ययोरथ मनाग्ग्लाने बले रक्षसाम् ।

वीरेणेन्द्रजिताभ्युपेत्य निहतौ भूमौ च्युतौ राघवौ

नागास्त्रेण समावृतौ त्रिशिरसा भग्नं कपीनां बलम् ॥२१८॥

दिव्यप्रभावौ गरुडेन साक्षात्

स्पृष्टौ विनष्टाखिलपाशबन्धौ ।

अथोत्थितौ दाशरथी वृथैव

किं पौरुषैर्दैवमलङ्घ्यमेव ॥२१९॥

लभ्दाधिकोत्साहबलैः प्लवङ्गैर्

निपीड्यमानेषु निशाचरेषु ।

प्रहस्तधूम्राक्षमहोदराद्याः

प्राप्ता रणे मन्दबलत्वमेव ॥२२०॥

भग्नेऽथ सैन्ये क्षणदाचराणां

मानानुबन्धादविलुप्तधैर्याः ।

हस्ताः प्रहस्तप्रमुखाः क्रमेण

ते सङ्गरोर्वीकुलभूधरेन्द्राः ॥२२१॥

त्वदाज्ञया देव विबोधनाय

प्रमृद्यमानोऽपि गजाश्वसैन्यैः ।

अत्यन्तनिद्रातरुणीकरालो

न कुम्भकर्णो विजहाति निद्राम् ॥२२२॥

श्रुत्वा प्रतीहारगिरं दशास्यः

सङ्ख्ये तनुत्यागसमुद्यतोऽभूत।

चित्तानुवृत्तान्तसहायहीनं

कस्येष्टमैश्वर्यमरण्यतुल्यम् ॥२२३॥

स्नानार्चनादि प्रविधाय तूर्णं

कार्यानुरोधादथ कुम्भकर्णः ।

श्रुत्वाखिलं रामविरोधवृत्तं

पौलस्त्यमेत्य प्रणतोऽभ्युवाच ॥२२४॥

अहो महान्दुःसहदुर्ग्रहोऽयं

सन्मन्त्रिमन्त्रैर्न निवारितस्ते ।

क्रोधेन्धने किं भवता स्मराग्नौ

हुता विधःतिर्गणिता न नीतिः ॥२२५॥

लोलानिबद्धाम्बुधिमध्यसेतोः

शक्तिर्मनुष्यस्य न चिन्तिता किम् ।

भ्रूभङ्गभीतिस्तिमिताम्बुराशौ

यस्याज्ञया भूमिधराः प्लवन्ते ॥२२६॥

स दीर्घदर्शी हितकृन्मनीषी

विभीषणः किं भवता निरस्तः ।

मन्त्रागमत्वं प्रथमं निहत्य

पश्चाद्विषं भक्षितमप्रमेयम् ॥२२७॥

व्यसनपतनसक्तिस्तद्विरामेऽप्यसक्तिर्

हितसचिवविरक्तिर्दुर्जनेष्वेव भक्तिः ।

उचितमतिवियुक्तिर्दुर्ग्रहाणाममुक्तिः

क्षितिपरिवृढलक्ष्मीसङ्क्षये लक्षणानि ॥२२८॥

श्रुत्वानुजोक्तं हितयुक्तमेतन्

नक्तंचरेन्द्रो न विवेद युक्तम् ।

निपातकाले किल नैव बुद्धिर्

भवेद्यथा मोहरजोविशुद्धिः ॥२२९॥

स तं जगाद प्रतिबोधितोऽद्य

शिक्षाप्रदानाय न पण्डितस्त्वम् ।

मिथ्या भुजौ भूरिभुजस्तवेमौ

भजस्व गत्वा धनमोहनिद्राम् ॥२३०॥

इत्यग्रजेनाभिहितो विचिन्त्य

प्रभावशक्तिं भवितव्यतायाः ।

संनद्धबुद्धिर्निधने रिपूणां

न कुम्भकर्णस्तमुवाच किंचित॥२३१॥

सम्प्राप्ते कुम्भकर्णे रणभुवमभवायाससंमन्त्रितानाम्

भग्ने सैन्ये कपीनां दिशि दिशि रजसा भूयसा संवृत्तायाम् ।

तत्कायच्छाययाधो जगति गुरुतरैः संनिरुद्धेऽन्धकारैर्

अर्के साकारराहुग्रहणसमयधीः खेचराणां बभूव ॥२३२॥

ततः प्रविश्यारिबलप्रहारो

विदीर्णकायः स्रुतशोणितौघः ।

नक्तंचरः कुञ्जरकर्णनामा

व्यजिज्ञपत्संसदि राक्षसेन्द्रम् ॥२३३॥

देव त्वदाज्ञापरुषाक्षराणि

ध्यायन्कपीनां युधि कुम्भकर्णः ।

चक्रे महन्मन्युमनन्तमन्तः

प्रारब्धकल्पान्तकृतान्तलीलः ॥२३४॥

भग्नाशङ्कं दधाने जगति स गगनासङ्गितुङ्गोत्तमाङ्गः

पद्भ्यां भूकम्पकारी भयनिविडमिलद्वारणायूंषि पिंषन।

सुग्रीवं विग्रहोग्रं लघुविहगमिवादाय मुष्टिग्रहेण

ग्रीवाकर्षैर्बभञ्ज द्रुमवदवगतिव्याहतानङ्गदाद्यान॥२३५॥

क्षिप्रं विभीषाणमतेन निकृष्टचापस्

तं राघवः स्वकटकोपरि भूधराभम् ।

बाणैर्निपात्य घनकायभरावपिष्ट

रक्षःकुलं भुवनविस्मयमाततान ॥२३६॥

हते विकीर्णे युधि कुम्भकर्णे

निकुम्भकुम्भादिषु च च्युतेषु ।

मानानुबन्धादपराङ्मुखानां

क्षणं क्षयोऽभूत्क्षणदाचराणाम् ॥२३७॥

शोकप्रकोपानललिह्यमानः

कुलक्षयादिन्द्रजदभ्युपेत्य ।

सैन्यं कपीनां निखिलं क्षणेन

स रामसुग्रीवमुखं जघान ॥२३८॥

हतेषु सर्वेषु हरीश्वरेषु

कण्ठावकीर्णक्षणजीवितेन ।

अभ्यर्थितो जाम्बवतो हनूमान्

एको विसृष्टः कपिजीवितायै ॥२३९॥

स योजनशतत्रयीं दिवि विलङ्घ्य भास्वत्प्रभः

स पुष्करमपाहरत्सकलमौषधिक्ष्माधरम् ।

यदग्रसरसौरभैरभवदाप्तजीवं क्षणात्

सराघवकपीश्वरं हरिसुसैन्यमत्यद्भुतम् ॥२४०॥

मानं नेच्छति यच्छति व्यसनितां मुग्धां विधत्ते धियं

कीर्तिं हन्ति कलङ्कयत्यपि कुलं सोत्कर्षविद्वेषवान।

यद्यत्कर्म विधीयते सुमतिना कार्यानुबन्धोद्यमैस्

तत्तत्सर्वमलक्षितः क्षपयति क्षिप्रं विरुद्धो विधिः ॥२४१॥

ओ)०(ओ

अथेन्द्रजित्सर्वजगज्जयोग्र

ब्रह्मास्त्रसिद्ध्यै विहितापचारः ।

वनं समागत्य निकुम्भिलाख्यं

यागोग्रवह्नौ रुधिरं जुहाव ॥२४२॥

यागार्धविघ्ने युधि वध्य एष

नैवान्यथेत्याशु विभीषणेन ।

उक्ते हिते राघवशासनेन

तं लक्ष्मणो योद्धुमथाजगाम ॥२४३॥

अथेन्द्रजिल्लक्ष्मणयोर्मदेन

युद्धे प्रवृत्ते कपिराक्षसानाम् ।

परस्परं दीर्घमहास्त्रदीप्तं

सैन्यद्वयं प्रेक्षकतामवाप ॥२४४॥

क्रोधाकुलेनेन्द्रजिता प्रसह्य

शक्त्याथ हृन्मर्माणि दारितोऽपि ।

तं पत्रिणा लण्ठनिकृत्तवक्त्रं

सौमित्रिराश्चर्यनिधिश्चकार ॥२४५॥

श्रुत्वैतदुग्र्âशनिपाततुल्यं

शोकेन निर्भिन्नधृतिर्दशास्यः ।

व्याप्तः स्फुटद्भिः कटकाग्ररत्नैः

पपात कल्पान्त इवाचलेन्द्रः ॥२४६॥

स लब्धसंज्ञः प्रियपुत्रशोके

भ्रातृक्षयस्योपरि मर्मलग्ने ।

सीताभिलाषं सहसा विहाय

बबन्ध चित्ते मरणाभिलाषम् ॥२४७॥

भ्रात्रा भुजेन सकलोद्यमदक्षिणेन

पुत्रेण सर्वगुणसङ्गमवल्लभेन ।

मानेन मौलिमणिना रहितस्य जन्तोः

किं जीवितेन शितशल्यशतायितेन ॥२४८॥

प्राप्तस्ततः समरभूमिमभग्नमानो

भृत्यानुजात्मजनिकृत्तशरीरपूर्णाम् ।

लङ्केश्वरः पृथुविषादभरश्रमेण

विश्रान्तये निजवपुः क्षयमाचकाङ्क्ष ॥२४९॥

संनद्धे दशकन्धरे युधि भयव्याघूर्णदिङ्मण्डले

पैशाचाश्वरथस्थिते हरिरथारूढे च रामे पुनः ।

बाणेषु प्रसरत्सु देहदलनव्यापारपाराप्तये

ह्येकस्य स्वतनुक्षये रिपुवधे चान्यस्य लोभोऽभवत॥२५०॥

अग्रे शरीरनिरपेक्षमरक्षिताङ्गं

रक्षःपतिं घनरणक्षयमीक्षमाणः ।

रामः क्षणं स्थगितनिश्चलचापपाणिः

साश्चर्यशौर्यभरविस्मयवान्प्रदध्यौ ॥२५१॥

कायः कैलाशमूलोद्धृतिविपुलशिलोल्लेखविख्यातसारस्

तेजः शक्रेभकुम्भस्थिरशरशकलक्लेशनिःश्वासदीप्तम् ।

मानश्चाशेषलोकेश्वरमुकुटतटीलालिताज्ञाविलासः

सर्वं साश्चर्यमस्य त्रिभुवनजयिनः पापशापेन नष्टम् ॥२५२॥

ध्यात्वेति निर्विवरमार्गणवर्षिणोऽस्य

दष्टौष्ठमाकुलितकुण्डलदीप्तमण्डम् ।

रामः शरेण दहनार्चितदुर्निमित्त

क्रूरार्धचन्द्रवदनेन शिरश्चकर्त्त ॥२५३॥

रोमाञ्चसञ्चरणपीनकपोलभित्ति

यद्यत्पपात वदनं दशकन्धरस्य ।

आजन्मनोऽन्यमुखतत्क्षणदर्शनेन

प्रीत्येव विस्मयमयद्युति तत्तदासीत॥२५४॥

दृष्ट्वा च्युतानि वदनानि नवक्रमेण

कण्ठस्खलत्कनकपुङ्खशराचितानि ।

व्याप्तानि दीप्तहरहोमहुताशलेशैः

संस्मारितानि दशमं दशकण्ठवक्त्रम् ॥२५५॥

कृत्ते च मूर्ध्नि दशमे दशशेखरस्य

प्रत्यक्षदृष्टवदनच्युतमन्युवह्निः ।

शान्तोऽपि कण्ठविगलद्घनशोणितौघैर्

आसीत्सशेष इव कुण्डलरत्नभाभिः ॥२५६॥

हत्वाथ रामः समरे दशास्यं

विभीषणं तद्विभवेऽभिषिच्य ।

लङ्काकलङ्केन परस्थलस्थां

सीतामवाप्तामपि नाभ्यनन्दत॥२५७॥

तीव्रे वियोगदहने तनुतां गतापि

भर्त्रार्पिता विषमधाम्न्यनपायवह्नौ ।

कोपानले निपतिता विपुलेऽथ सीता

शुद्ध्यै विवेश हिमसंहतिशीतमग्निम् ॥२५८॥

पतिव्रतां तां स्वयमेव दोर्भ्याम्

आदाय रामाय ददौ हुताशः ।

स लोकपालस्तुतशीलसत्त्वां

तां प्राप्य लक्ष्मीं प्रययावयोध्याम् ॥२५९॥

तत्र प्रणामैर्भरतेन हार्ष

बाष्पाभिषेकार्चितपादपद्मः ।

सुग्रीवलङ्कापतिसेव्यमानः

स प्राप राज्यं तिर्दशाभिषिक्तः ॥२६०॥

काले प्रयाते प्रणिधिः प्रजानां

वृत्तान्तवेदी विजने समेत्य ।

व्यजिज्ञपद्दूरतप्रवासे

लोकापवादं जनकात्मजायाः ॥२६१॥

जायां स जानन्नपि शुद्धशीलां

लोकापवादप्रसरासहिष्णुः ।

सौमित्रिमादिश्य सगर्भभारां

तत्याज वाल्मीकितपोवने ताम् ॥२६२॥

नित्यार्द्रदुःखे जनजीवितेऽस्मिन्

सुखान्यनित्यानि सयौवनानि ।

घनानि विद्युद्द्युतिचञ्चलानि

क्षणक्षयाणि प्रियसङ्गमानि ॥२६३॥

बाल्ये भूमितलेऽर्पिता तदनु च क्लिष्टा वने भीषणे

पौलस्त्येन हृता भयक्षतधृती रुद्धाय लङ्कावने ।

लब्धा शुद्ध्यनले च्युता पुनरपि त्यक्ता सती जानकी

संसारे सतताश्रुपातिनि नृणां धिङ्नित्यदुःखस्थितिम् ॥२६४॥

आश्वास्यमाना जनकोपमेन

वाल्मीकिना दीनदयान्वितेन ।

कालं तनुत्यागमनोरथैः सा

नित्याश्रुपातार्द्रकुचा निनाय ॥२६५॥

सासूत भर्तृप्रतिबिम्बरूपौ

पुत्रौ तनुत्यागविशेषविघ्नौ ।

वाल्मीकिना क्षत्रियसंस्क्रियाभिः

कुशो लवश्चेति कृताभिधानौ ॥२६६॥

प्रवर्धमानौ मुनिआ स्वकाव्यम्

अध्यापितौ गीतिविभक्तवर्णम् ।

पूर्वं भविष्यच्चरितं निबद्धं

रामायणं करणरसायनं तौ ॥२६७॥

निरास सीताविरहे द्वितीये

शशीव रामस्तनुतामवाप्तः ।

प्रदीप्तदुःखाग्निचितां विवेद

श्मशानभूमि प्रतिमां विभूतिम् ॥२६८॥

किं भोगरागैः किमयत्नरत्नैः

किं नन्दनैश्चन्दनचन्द्रसौधैः ।

वियोगशल्यैर्हृदयेऽवसन्ने

किं नित्यशोकेन कुजीवितेन ॥२६९॥

कदाचिदास्थानसभासनस्थं

रामं प्रहारक्षतमस्तकः श्वा ।

व्यजिज्ञपद्देव यतिव्रतेन

हतोऽस्मि विप्रेण विनापराधम् ॥२७०॥

भिक्षुर्विलक्षः क्षतकारणं तत्

पृष्टोऽपि किंचिन्न यदाचचक्षे ।

तद्दण्डमूकेषु सभास्थितेषु

तदा पुनः प्राह सनिश्चितं श्वा ॥२७१॥

देव द्विजन्मा स्वमठेऽधिकारी

पुराहमासं विगतस्पृहोऽपि ।

केनाक्रमेnopagathA न जाने

तथापि मे निन्द्यतमा श्वजातिः ॥२७२॥

कालञ्जरे देव मठाधिकारी

विधीयतामेव विवेकहीनः ।

न यस्य कोपप्रशमेऽपि शक्तिर्

लोभप्रहाणेऽपि स किं समर्थः ॥२७३॥

एकोदरा मोहमहीप्रजाता

मदस्मरक्रोधविषादलोभाः ।

एकानुमानेन भवन्ति जन्तोः

सर्वे सदा स्थूललघुक्रमेण ॥२७४॥

श्रुत्वैतदुद्दामगजाधिरूढं

भिक्षुं नृपः स्फीतमठाधिनाथम् ।

चक्रे चलच्चामरचारुचञ्चद्

विकुञ्चितोष्णीषविलासहासम् ॥२७५॥

धर्मस्य गोप्ता च्यवनेन रामः

प्रीत्यार्थितः क्रूरतरासुरस्य ।

त्रैलोक्यशत्रोर्लवणभिधस्य

वधाय शत्रुघ्नमथादिदेश ॥२७६॥

शूलायुधे तेन हतेऽथ दैत्ये

तत्कानने काञ्चनतौरणाङ्का ।

दिव्येव शत्रुघ्ननिवेशिताभूत्

पुरी प्रथार्हा मधुराभिधाना ॥२७७॥

काले प्रयाते सुतमष्टवर्षं

स्कन्धे समादाय मृतं द्विजन्मा ।

उच्चैः प्रचुक्रोश सभाङ्गनाग्र

द्वारान्तिके वेत्रिभयानभिज्ञः ॥२७८॥

अयं शिशुर्मे स्थविरस्य सूनुर्

व्यसुत्वमाप्तस्तिलतोयदाता ।

नृपापचारेण भवत्यवश्यं

अकालमृत्युर्व्यसनं प्रजानाम् ॥२७९॥

धर्मद्रोहिणि विद्रुतार्द्रकरुणे क्षुद्रैः प्रजोपद्रवैर्

धूर्तैर्भुक्तधने प्रधानविमुखे विज्ञप्तनिद्राजुषि ।

कायस्थैरजितैर्जिते क्षितिपतौ लब्धोदयैरिन्द्रियैर्

दुर्भिक्षानलचौरवारिमकरैर्दीनो जनः पीड्यते ॥२८०॥

नाथे दिक्षु भगीरथे शुभकथे पुण्याप्ततीर्थप्रथे

क्रान्तस्वर्गपथे पृथौ दशरथे याते यशःशेषताम् ।

कष्टं नष्टधृतिः प्रकृष्टविपदामाधारभूताधुना

दैवी मज्जति राजदुष्कृतिभरैर्भाराभिभूतेव भूः ॥२८१॥

विप्रार्तनादेन विचार्यमाण

कारुण्यदैन्यव्यसनेऽपि रामे ।

सभ्येषु मूकेषु मुनीश्वरेषु

समभ्यधान्नारद एव वाग्मी ॥२८२॥

शूद्रस्तपस्तीव्रतरं करोति

शम्बूकनामा दिशि दक्षिणस्याम् ।

स एव वर्णाश्रमधर्मलोपः

पुत्रक्षये कारणमग्रजाते ॥२८३॥

श्रुत्वोदितं नारदवाच्यमेतत्

स्मृताप्तमारुह्य विमानराजम् ।

अदक्षिणं धर्मपथस्य राजा

गत्वावधीद्दक्षिणदिक्स्थितं तम् ॥२८४॥

रामासिपट्टेन निकृत्तकण्ठे

शूद्रे विमानेन दिवं प्रयाते ।

निजात्मजे तत्क्षणलब्धजीवे

ममार्ज निन्दां स्तुतिभिर्द्विजातिः ॥२८५॥

हैमी कृता तस्य सुवर्णकारैर्

अभिन्नरूपा रघुराजपत्नी ।

अभूत्परित्यागघनावमान

मन्युव्रता मौनवतीव सीता ॥२८६॥

वाल्मीकिशिष्यानुगतौ कुमारौ

रामात्मजौ तत्र लवः कुशश्च ।

अगायतां श्रोत्रसुखं नृपाग्रे

स्वरेण रामायणमादिकाव्यम् ॥२८७॥

पुत्रौ परिज्ञाय मुनीन्द्रवाक्यात्

तौ तुल्यरूपानुभवेन रामः ।

करोतु सीता पुनरेव शुद्धिं

इत्यर्थनां तत्र मुनेश्चकार ॥२८८॥

वाल्मीकिशिष्यैरथ रामपत्नी

तां प्रापिता यज्ञभुवं क्षणेन ।

लज्जावती राजसहस्रमध्ये

मन्युप्रगल्भां गिरमुज्जहार ॥२८९॥

यथार्यपुत्रान्न परः प्रमृष्टश्

चित्तेन वाचा मम कर्मणा वा ।

तत्सत्यसङ्कल्पगुणेन तेन

ददातु माता वसुधावकाशम् ॥२९०॥

अथोत्थिता मूर्तिमती क्षितिस्तां

अङ्के समादाय तलं विवेश ।

काकुत्स्थहृद्भङ्गभियेव

काञ्च्या सुताररावेण निवार्यमाणा ॥२९१॥

रामस्ततः प्राप्तवधूनिराशः

पातालसंहारविलाससज्जः ।

निवारितः पद्मभवेन साक्षात्

स्नेहार्द्रतां पुत्रयुगे बबन्ध ॥२९२॥

अथाश्वमेधे विधिमाजि पूर्णे

कालेन साक्षाद्विजने समेत्य ।

संस्मारितो वैष्णवधाम रामः

सहानुजैर्दिव्यपदं प्रपेदे ॥२९३॥

अथ स भगवान्विष्णुः कृत्वा जगन्निरुपप्लवं

दशमुखभयं हृत्वा हर्षप्रदस्त्रिदशश्रियः ।

पवनतनयं धृत्वा धीरोन्नतं सविभीषणं

भुवनभवने कीर्तिस्तम्भं जगाम सुधाम्बुधिम् ॥२९४॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते दशावतारचरिते

रामावतारः सप्तमः

॥७॥

***********************************************************

.

(८)

कृष्णावतारोऽष्टमः

अहो कालसमुद्रस्य न लक्ष्यन्तेऽतिसन्तताः ।

मज्जन्तोऽन्तरनन्तस्य युगान्ताः पर्वता इव ॥१॥

युगदीर्घे प्रयातेऽथ काले दिनक्षणक्रमैः ।

कैटभारिं पुनर्भूमिर्भारार्ता शरणं ययौ ॥२॥

सा ददर्श सुधाम्भोधौ प्रबुद्धं शेषशायिनम् ।

विश्वरूपं फणारत्नसहस्रप्रतिबिम्बितम् ॥३॥

सुखप्रबोधपृच्छान्ते चतुर्मुखमुखैः सुरैः ।

मुनिभिर्नारदाद्यैश्च प्रणतैः परिवारितम् ॥४॥

पादसंवाहनव्यग्रां श्रियं प्रेमामृतह्रदे ।

वहन्तं हृदये व्यक्तं कौस्तुभप्रतिबिम्बिताम् ॥५॥

मही मरकतश्यामा व्यक्तमौक्तिकभूषणा ।

खलक्ष्मीर्लक्ष्यनक्षत्रमालेव प्रणनाम तम् ॥६॥

सा प्रणामचलत्कर्णोत्पलालिस्वनसंनिभाम् ।

विज्ञप्तिं ज्ञातवृत्तस्य चक्रे विश्वान्तरात्मनः ॥७॥

भगवन्भवतः सर्वलोकचिन्तार्तिहारिणः ।

वात्सल्यपेशलस्याग्रे पुनरुक्तं निवेद्यते ॥८॥

हिरण्याक्षबलात्क्षिप्ता निक्षिप्तक्षितिभृत्कला ।

समुत्क्षिप्ताक्षयैवाहं वराहवपुषा स्वयम् ॥९॥

कालनेमिप्रभृतयः पुरा मद्भारशान्तये ।

ये हृता भवता दैत्यास्तेऽवतीर्णाः पुनर्नृपाः ॥१०॥

उग्रसेनस्य तनयः क्रूरः क्रूरतरानुगः ।

वृष्णिवंशे समुत्पन्नः कालनेमिर्महासुरः ॥११॥

अनन्तदैत्यभूपालबलभारभरार्दिता ।

अधर्मबहुलं कालं न सहे बोढुमक्षमा ॥१२॥

श्रुत्वैतदुक्तमुर्वर्या भगवान्सस्मिताननः ।

करिष्याम्युचितं सर्वमित्युक्त्वा विससर्ज ताम् ॥१३॥

पृथिव्यामथ यातायां विधाय हृदयस्थितम् ।

विष्णोः समीहितं सर्वं सुरान्प्राह पितामहः ॥१४॥

भूमिभारावताराय देवोऽवतरति क्षितिम् ।

यदुवृष्णिकुले याति वसुदेवस्य पुत्रताम् ॥१५॥

यूयमंशावतरणं कुले कुरुत भारते ।

इत्युक्ते पद्मगर्भेण तथेयुक्त्वा ययुः सुराः ॥१६॥

ततः कदाचित्प्रययौ नारदो मथुरां पुरीम् ।

स्वच्छन्दवादनिरतः कलिकेलिकुतूहली ॥१७॥

स रहः कंसमभ्येत्य प्राप्तपूजासनोऽवदत।

धर्ममार्गेण वर्तस्व रक्षेमां विद्रुतां श्रियम् ॥१८॥

पितृष्वसुस्ते देवक्या यः समुत्पद्यते सुतः ।

स सुरैर्निश्चितोऽन्ताय विभूतेर्जीवितस्य ते ॥१९॥

उक्त्वेति याते देवर्षौ कंसः पापी पितृष्वसुः ।

देवक्याः किङ्करान्गर्भनिधनाय समादिशत॥२०॥

हतेषु षट्सु बालेषु वसुदेवसुतेष्वथ ।

सपत्न्यै सप्तमं गूढं रोहिण्यै देवकी ददौ ॥२१॥

स विष्णोः शयनाभ्यासाद्भूभारभरणक्षमः ।

अवतीर्णः शिशुः शेषः प्रीतिमन्तर्वहन्निव ॥२२॥

अथाष्टमं सुतं जातं वसुदेवः स्वयं निशि ।

गोकुले नन्दगोपस्य निदधे वधशङ्कितः ॥२३॥

नन्दपत्न्याः यशोदायाः कन्यां विनिमयेन सः ।

आदाय गूढसञ्चारी निजजायान्तिकेऽक्षिपत॥२४॥

सा कन्या करुणाहीनैः प्रबुद्धैरथ किङ्करैः ।

शिलायामाहता दीप्ता विद्युल्लेखेव खं ययौ ॥२५॥

साष्टादशभुजा कान्ता प्रदीप्तविविधायुधा ।

कंसस्यायुः पिबन्तीव भेजे विन्ध्यवसुन्धराम् ॥२६॥

रोहिणीभवनाज्ज्येष्ठमपि गूढमतिः सुतम् ।

वसुदेवः क्षयभयान्नन्दगोपगृहेऽत्यजत॥२७॥

तौ सङ्कर्षणकृष्णाख्यौ यशोदा दधती ययौ ।

विश्रुता दानसम्भोगौ श्रीरिव स्पृहणीयताम् ॥२८॥

सङ्कर्षणः शशिसितः कृष्णो मरकतद्युतिः ।

बभतुः प्रथमोद्भेदौ गङ्गायमुनयोरिव ॥२९॥

स्वदेहरक्षायत्नेन बालोद्दलनशालिना ।

कंसेनान्यत्कृतं मोहादन्यद्दैवेन निर्मितम् ॥३०॥

कलयति धिया स्वार्थं सर्वः सदभ्युदयेच्छया

किमपि यतते तावद्यावत्फलं परिदृश्यते ।

तदनु च विधिः क्रीडोन्मत्तः करोति यदश्मना

जलभृतघटं भङ्क्त्वा दूरादिवाशु जलस्थितिम् ॥३१॥

राज्यार्हौ गोकुले बालौ कंसः श्रुत्वा तयोः क्षये ।

चक्रे गूढोद्यमोपायान्गर्भव्यत्ययशङ्कितः ॥३२॥

स्तन्यतृप्तः शिशुः कृष्णः कदाचिन्निद्रयान्वितः ।

पादप्रहारेणाविद्धं बभञ्ज शकटं महत॥३३॥

विसृष्टामथ कंसेन पूतनां निशि राक्षसीम् ।

विषार्द्रस्तनदां कृष्णश्चक्रे निष्पीतजीविताम् ॥३४॥

किञ्चित्सञ्चरणाभ्यासे पाणिमालम्ब्य यत्नवान।

दत्तद्वित्रिक्रमश्चक्रे हर्षं मातुस्त्रिविक्रमः ॥३५॥

ततः कुमारयोः पातभीत्या हरिणवेगयोः ।

अविश्रान्तानुसरणे यशोदा श्रममाययौ ॥३६॥

उद्विग्ना गतिविघ्नाय कृष्णस्य जननी व्यधात।

बलिबन्धनधीरस्य दाम्ना बन्धमुलूखले ॥३७॥

दामोदरस्ततो नाम्ना समाकर्षन्नुलूखलम् ।

मध्येन निर्ययौ वेगाद्यमलार्जुनवृक्षयोः ॥३८॥

संलग्नोलूखलाकर्षात्पेततुस्तौ महाद्रुमौ ।

यमुनाक्षोभसम्भूतभयकम्पितगोकुलौ ॥३९॥

ततः कृष्णाश्रयेण श्रीर्गोकुले जितनन्दना ।

स्वभावरमणीयेऽपि रमणीयतराभवत॥४०॥

स्निग्धश्यामास्तरुतृणभुवः सम्पतन्निर्झरौघा

मेघप्रेमोन्मुखशिखिमुखस्थायिनो मन्थघोषाः ।

गायद्गोपीस्तिमितहरिणीहारिणः काननान्ताः

कान्ताश्चक्रुः प्रमदसमयं यामुनाः कूलकच्छाः ॥४१॥

ततः स्तोकपरिम्लाने शैशवे शिशिरोपमे ।

माघवयाभवत्किंचिदुन्मुखी यौवनद्युतिः ॥४२॥

ततः कृष्णस्य गोपालडिम्भमण्डलवर्तिनः ।

बभूव कन्दुकोद्दामक्रीडासु निविडो रसः ॥४३॥

पतिते यमुनाकूलसलिले केलिकन्दुके ।

ददर्श कालियस्योग्रं नागस्य भवनं हरिः ॥४४॥

व्याप्तं कल्पान्तरजनीकवलीकारविभ्रमैः ।

कृतान्तमहिषश्यामैर्निस्त्रिंशविमलैर्जलैः ॥४५॥

कालः कथं वसतीह्भयस्यापि भयङ्करः ।

स तैराकृष्यमाणोऽपि कृष्णस्तद्दर्शनोद्यतः ॥४६॥

कदम्बशाखामालम्ब्य भवनोपान्तवर्तिनीम् ।

पपात दुरितोत्पातः सावेगः क्षुभितेऽम्भसि ॥४७॥

भ्रमद्यमभुजाभेन शौरिभोगेन भोगिनः ।

आलिङ्गितस्तमाधूय वेगेनाचक्रमे शिरः ॥४८॥

पादाक्रान्तफणस्य फूत्कृतिविषावेगोष्णनिःश्वासिनः

कोपक्लेशविशेषदन्तकषणप्रोद्भूतधूमैर्हरेः ।

कालभ्रूभ्रमभङ्गुरैर्वृतमभूत्पातालमूलोद्गतैः

कालैः कलियबान्धवैरिव जलं साहायकाभ्यागतैः ॥४९॥

पीडितः शरणं शौरिं स यातस्तद्गिरा ययौ ।

रौद्रः समुद्रं तत्पादमुद्रया तार्क्ष्यनिर्भयः ॥५०॥

ततस्तालवने दैत्यं धेनुकं खररूपिणम् ।

जघान गोकुले विघ्नं हेलयेव हलायुधः ॥५१॥

अथ गोपालरूपेण प्रलम्बो नाम दानवः ।

कन्दुकक्रीडया प्रीतिं विदधे रामकृष्णयोः ॥५२॥

कदाचित्स्कन्धमारूढस्तेन वेगवता हृतः ।

रामस्तस्याकरोन्मुष्टिपातेन शतधा शिरः ॥५३॥

अथ गोवर्धनगिरौ शक्रयागमहोत्सवे ।

भक्ष्यभोज्यमहारम्भसम्भारो गोकुलेऽभवत॥५४॥

पूज्यः पर्वत एवायमित्युक्त्वा शक्रपूजनम् ।

निवार्य कृष्णस्तद्भोज्यं बुभुजे दिव्यरूपभृत॥५५॥

यतः प्रलम्बमानेन मन्युना शतमन्युना ।

प्रेरिता घननिर्घोषघोरमेघाः समाययुः ॥५६॥

तैर्ग्रस्तवासरालोकैर्निगीर्णभुवनैर्घनैः ।

आहूतेव महारावैः कालरात्रिरदृश्यत ॥५७॥

विरावकृत्हृद्घट्टमेघसङ्घट्टविप्लवे ।

खं क्षितौ जलरूपेण भयभग्नमिवापतत॥५८॥

ते शक्रक्रोधसंनद्धाः शक्रचापचिता घनाः ।

सद्यः पोतमिवाम्भोधिं वमन्तः क्ष्मामपूरयत॥५९॥

संरम्भेण घनाघनैर्घनतरैः सम्पीड्यमानैर्मिथः

प्रोद्भूतेऽथ पृथुव्यथारवनिभे संस्फूर्जिते गर्जिते ।

भीत्या क्वापि ययुः क्षितिच्युतनभः सम्भावनाकम्पिताः

कल्पान्तागमशङ्किता इव महानीहाररुद्धा दिशः ॥६०॥

धारासारशनिनिपतनक्लेशसम्पीडितानां

सीदद्वत्सप्रणिहितदृशां शीतवातार्दितानाम् ।

वेगक्षोभागतगिरिनदीनाददीनानानां

प्राणत्राणं क्वचिदपि गवां नाभवद्विह्वलानाम् ॥६१॥

अङ्गभङ्गं गवां दृष्ट्वा गोविन्दः करुणाकुलः ।

त्राणाय गिरिमुद्धृत्य गोवर्धनमधारयत॥६२॥

छत्त्रीकृते गिरौ तस्मिन्दोर्दण्डधृतिनिश्चले ।

गोगणानां सगोपानां पुनर्जीवागमोऽभवत॥६३॥

उत्क्षिप्तेऽसुरवैरिणा क्षितिघरे क्षीरोदधिः क्षोभवान्

भेजे भीतिमकाण्डदण्डमथनक्षोभाभिशङ्की पुनः ।

विन्ध्यस्यासमयोद्गमं विगणयन्मन्ये श्वसन्कम्पवान्

ह्रस्तन्यस्तसमस्तशापसलिलः क्षोभादगस्त्योऽभवत॥६४॥

अवहदहतधैर्ये दोष्णि कृष्णस्य भार

श्रमशमनधियेव क्ष्माधरः सापरोधः ।

अविरतनिपतद्भिर्निर्झराणां सहस्रैः

स्फटिकविकटजम्भस्तम्भसम्भारशोभाम् ॥६५॥

गोवर्धनस्य धरणे व्रजसुन्दरीणां

साहायकोच्चचरणाचितदोर्लतानाम् ।

अप्राप्तिलोलकरविभ्रममाकलय्य

कृष्णः स्मितांशुधवलाधरपल्लवोऽभूत॥६६॥

कृष्णेनाश्चर्यनिधिना गोगणे परिरक्षिते ।

लज्जयेव न्यवर्तन्त पवनोच्छ्वासिनो घनाः ॥६७॥

ततः शक्रः समभ्येत्य प्रसाद्य विजने हरिम् ।

कामधेनुगिरा तस्मै गोपालाधिपतां ददौ ॥६८॥

अथ प्रपेदे गोविन्दः प्रौढं मदमिव द्विपः ।

सहकारतरुः कान्तं वसन्तमिव यौवनम् ॥६९॥

तस्य सानन्दशृङ्गारे वयसि व्यक्ततां गते ।

बभूवाभिनवोत्साहः प्रतापाभरणेन सः ॥७०॥

तस्य निर्भरतारुण्यलावण्यं नयनामृतम् ।

पिबन्तीनामभूत्गोपकान्तानां मदविभ्रमः ॥७१॥

व्यामूढस्खलितार्घविक्लवपदा वाणी गतिश्चास्फुटा

चित्तं भ्रूयुगलं च वीचिरचनासंवादि दोलायितम् ।

निद्रा किं च दरिद्रतामुपगता लज्जा च सज्जा स्मरे

क्षैब्यं माधवयौवनद्युतिपदे गोपाङ्गनानामभूत॥७२॥

स्वैराचारस्मरपरिचये तत्र शौरेः प्रवृत्ते

वेषालापोद्धतगतितयान्योन्यसम्भाव्यमाने ।

आसील्लज्जाविनयनिभृता व्यक्तसंसक्तमन्युस्

तासामन्तः कलुषकलनानल्पसङ्कल्पजल्पः ॥७३॥

कर्णाभ्यर्णविकीर्णलोचनरुचः सन्त्येव चन्द्राननास्

त्वत्तोऽन्या नवयौवनोन्नतिलसल्लावण्यगण्याः परम् ।

यासामेष हरिर्मनोरथशतैरर्थी क्षणलोकने

किं कृष्णेन विलोकिताहमिति ते रूढः प्रमूढे मदः ॥७४॥

अन्तर्लोचनयोर्विशत्यविरतं लग्नश्च पाणौ गतिं

निर्बन्धेन रुणद्धि धावति मुहुर्दशाभिकामोऽधरे ।

सख्यः किं करवाणि वारणशतैर्नैवापयाति क्षणं

कृष्णः षट्चरणः प्रयाति चपलः पुष्पोच्चये विघ्नताम् ॥७५॥

कर्षत्यंशुकपल्लवं परिहृतः प्रत्याहृतिं नोज्झति

प्रक्षिप्तश्चरणे लगत्यविरतं तिष्ठत्यदृश्यः पथि ।

अङ्गान्युल्लिखति प्रसह्य यदि वा लब्धावकाशः क्वचित्

किं शौरिर्घनकुञ्जवञ्जुललताजालान्तरे कण्टकः ॥७६॥

स्वच्छाम्बुप्रतिबिम्बवक्त्रतिलकोल्लेखादरालोकनं

यत्नेनोच्चितचूतपल्लवलवे कर्णावतऽसस्पृहा ।

एतस्याः कुसुमेषु बन्धनधिया केशावकाशक्रिया

केनायं नवरागयोगगुरुणा वेषोपदेशः कृतः ॥७७॥

कोऽयं याति लघुक्रमैरहमहं कस्त्वं सखि श्यामला

श्वासायासवती क्व यासि तिमिरे तं नष्टमिष्टं मृगम् ।

अन्वेष्टुं यमुनातटीमुपगता भीतास्मि भूतभ्रमान्

मूढे कृष्णभुजङ्ग एष विटपे कौटिल्यलीनः स्थितः ॥७८॥

सन्तप्तैव हता करोमि किमहं तां प्रेषयन्त्या मया

लब्धं मौग्ध्यफलं भुजङ्गनिकटं वक्रां द्विजिह्वां सखीम् ।

धिग्दूतीं तरुणीं करोति किल या स्वीकृत्य दूरे प्रियं

हस्तोत्सृष्टखगः प्रयत्ननिचयैर्नायाति तृप्तोऽन्यतः ॥७९॥

जानेऽन्यासहितं विलोक्य कुटिलं तं कूटकोषं त्वया

प्रत्यक्षागसि निह्नवासहनया कोपेन दष्टोऽधरः ।

श्वासायासविसंस्थुलां न च कुचोत्कम्पं विमुञ्चस्यहो

मोहाद्दुःसहविप्लवे चलपया किं प्रेषिता त्वं मया ॥८०॥

न स सखि यमुनायास्तीरवानीरकुञ्जे

गहनभुवि भवत्या मत्प्रियः क्वापि दृष्टः ।

सुमुखि फलमियत्तु स्नेहमोहात्त्वयाप्तं

कुचमुखलिखितेयं कण्टकोल्लेखरेखा ॥८१॥

इत्यभून्मदनोद्दामयौवने कालियद्विषः ।

गोपाङनानां संरम्भगर्भोपालम्भविभ्रमः ॥८२॥

प्रीत्यै बभूव कृष्णस्य श्यामानिचयचुम्बितः ।

जाती मधुकरस्येव राधैवाधिकवल्लभा ॥८३॥

लावण्यं नवनीतसारममृतस्येवोद्वहन्त्यो नवं

तन्वाना द्युतिदिग्धदुग्धधवलां मुग्धस्मितांशुच्छटाम् ।

माद्यद्यौवनकुम्भिकुम्भसुभगाभोगस्तनोत्तम्भिता

धैर्यं कस्य न दीर्घनेत्रवलनैर्मथ्नन्ति गोपाङ्गनाः ॥८४॥

कदाचिदथ यातेऽस्तं गभस्तिमतिं शर्वरी ।

आययौ गोपकान्तेन शनैः कृष्णाभिसारिणी ॥८५॥

शशाङ्काकृतसङ्केतसमागमविलोकिनी ।

क्षपा प्रतीक्षमाणेव तमः श्यामाम्बरा बभौ ॥८६॥

अथोद्ययौ सुधास्यन्दस्वेदार्द्रप्रसरत्करः ।

तुल्यालिङ्गनजामीर्ष्यां दिशन्निव दिशां शशी ॥८७॥

ततस्तारुण्यवानिन्दुर्मीलत्तरलतारकम् ।

मुखं चुचुम्ब श्यामायाः कराकृष्टतमः पटः ॥८८॥

त्यक्त्वा पूर्वां स्पृशन्किंचिद्दक्षिणां च तथोत्तराम् ।

शिश्रिये पश्चिमामाशां सुधांशुर्बहुवल्लभः ॥८९॥

अत्रान्तरे समभ्यायादरिष्टो दुष्टचेष्टितः ।

जङ्गमः शृङ्गवानद्रिरिव दैत्यो वृषाकृतिः ॥९०॥

किंचित्कुञ्चितकण्ठकायकषणक्लेशत्रुटत्पादप

प्रोद्भूतोत्कटटाङ्कृतैर्गललुठद्गम्भीरघोरस्वनैः ।

सीत्कारश्वसितैः खुराग्रविषमोत्खातावकीर्णक्षितैस्

तस्योद्गारभरेण भग्नमभवत्कम्पाकुलं गोकुलम् ॥९१॥

तद्भीतिच्युतगर्भासु गोषु गोपगणे गते ।

कृष्णं गोपाङ्गनाः कण्ठे जगृहुर्भयविह्वलाः ॥९२॥

शृङ्गप्रहाराभिमुखं दोष्णा कृष्णस्तमुद्धतम् ।

निपीड्य कण्ठे कण्ठेच्छं चकार गतजीवितम् ॥९३॥

निष्पिष्टे शौरिणारिष्टे कंसामात्ये महौजसि ।

सत्कथा प्रपथे लोके पृथुविस्मयकारिणी ॥९४॥

ततः प्रभाते कंसस्य सुहृत्केशी महासुरः ।

आययौ हयरूपेण खुराघातक्षतक्षितिः ॥९५॥

करालो मांसलः शृङ्गो कृष्णतालुस्त्रिकर्णवान।

लक्षितः ककुदावर्ती जगत्सङ्क्षयलक्षणैः ॥९६॥

तस्य ह्रेषितनिर्घोषैर्घोरैः खुररवेण च ।

त्रस्तगोगणमुद्विग्नगोपं वनमकम्पत ॥९७॥

शूत्कारश्वसितेन तर्जितमरुत्कोपात्तमृत्युस्थितिस्

तेजोनिर्जितपावकः श्रमजलैर्विक्षिप्तपाथः पतिः ।

निश्चेष्टां वसुधां विधातुमुदितः कल्पान्तकालोपमः

सोऽभूदाकुललोकपालविभवऽवष्टम्भकृद्दुःसहः ॥९८॥

दन्ताभिघातसज्जस्य तस्यास्ये द्विगुणीकृतम् ।

उत्क्षिप्ताग्रखुरस्याशु न्यदधद्भुजमच्युतः ॥९९॥

तद्दन्तकषणेनापि निर्विघ्नघनविभ्रमः ।

कृष्णप्रसारितो बाहुः केशिवक्त्रं द्विधा व्यधात॥१००॥

भग्ने निपतिते तस्मिन्कंसस्येव मनोरथे ।

अभूज्जम्भारिभवने तार्क्ष्यध्वजजयस्वनः ॥१०१॥

अत्रान्तरे वृष्णिवृद्धैः सह स्वसचिवक्षयम् ।

चिन्तयन्मन्त्रभवने कंसः प्रोवाच निःश्वसन॥१०२॥

इयं जनितलज्जेव मानम्लानिर्महीयसी ।

यन्मेरुतुल्यैर्युष्माभिः क्रियते तृणचिन्तनम् ॥१०३॥

उद्भवः शनिरक्रूरः शतधन्वा विदूरथः ।

भोजाद्याश्च ममपूर्वं शृण्वन्त्य्वसमविग्रहम् ॥१०४॥

पितुः स्वसुः पतिर्वृद्धः स्नेहसामान्यवृत्तिभिः ।

वसुदेवः स चास्माभिः पूजितः परिपूरितः ॥१०५॥

स्वसुतौ तेन निन्यस्तौ गोकुले गूढचारिणौ ।

शोकातङ्काङ्कुरौ यौ मे विषपादपतां गतौ ॥१०६॥

ज्ञातिभ्यो भयमस्तीति सत्यमाह महामतिः ।

विभीषणमतोपायैर्हन्यमानो दशाननः ॥१०७॥

मर्मज्ञः स्वजनः पुंसां क्षये जागर्ति नापरः ।

शिक्षापक्षिभिराकृष्टाः क्षयं यान्त्येव पक्षिणः ॥१०८॥

सदा दारूणि दह्यन्ते दारुजेन च वह्निना ।

क्रिमिणा स्वाङ्गजातेन पात्यन्ते प्रौढपादपाः ॥१०९॥

मृज्जातलोहकुद्दालैः खन्यते मृण्मयी मही ।

स्वजातैर्निर्झरैर्नीताः कर्षद्भिर्भूधराः क्षयम् ॥११०॥

ज्ञातिप्रहारः निःशर्ममर्मपाणी पराधिकः ।

लोहाधिकां व्यथामस्थ्नः करोत्यस्थिमुखः शरः ॥१११॥

सहभोग्यामपि ज्ञातेर्नेच्छन्ति ज्ञातयः श्रियम् ।

काङ्क्षन्ति भूतिमन्येषां दूरालोकननिष्फलाम् ॥११२॥

किं कृतं सुकृतं तावद्वसुदेवेन धीमता ।

बन्धुद्रोहविदग्धेन गोपालौ कुर्वतौ सुतौ ॥११३॥

उपेक्षितौ बन्धुधिया तत्सुतौ दयया मया ।

भुजच्छेदप्रवृत्तौ मे प्रयातौ चिन्तनीयताम् ॥११४॥

कृष्णेन निहतोऽरिष्टः स च केशी सुहृन्मम ।

तद्भ्राता मिष्टिना पिष्टः प्रलम्बः स च धेनुकः ॥११५॥

अधुना कोपविवलद्भ्रूलतां नीतिमेतयोः ।

करोम्यहं यथा बालौ पुनर्नैवं करिष्यतः ॥११६॥

इति कंसेन सावज्ञमन्तर्गम्भीरमन्युना ।

उक्ते तमुद्धवः प्राह षाड्गुण्य विनयेद्धधीः ॥११७॥

राजन्न स्वजने कोपं कुपितः कर्तुमर्हसि ।

स्वीकार्याः सर्वथा क्रुद्धलुब्धभीतावमानिताः ॥११८॥

क्रुद्धान्प्रसादनैर्लुब्धान्धनैर्भीतांश्च सान्त्वनैः ।

माननैरवमानार्तान्नियेद्भिन्नानभिन्नताम् ॥११९॥

विभिन्नस्वीकारः शमयति नृपाणां रिपुभयं

निजैर्जीवीच्छित्तिर्भवति कुपितैर्धातुभिरिव ।

न वैरं वैरेण प्रशममुपयाति क्वचिदपि

प्रदीप्तोऽग्निः शान्तिं व्रजति जलपुञ्जैर्न शिखिना ॥१२०॥

बान्धवी पुत्रसदृशौ रामकृष्णौ न ते परौ ।

लक्ष्मीरक्षा क्षितीक्षानां राजपुत्राभिरक्षणम् ॥१२१॥

समीपे सर्पाभः परमुपसरन्मेषहननः

खलग्रामे मूर्खः परपुरगतः शत्रुबलकृत।

हते तस्मिन्पापं किमपि कुलबीजाङ्कुरहतिर्

न दूरे नादूरे भवति सुखरक्ष्यः क्षितिपजाः ॥१२२॥

निरस्तः क्ष्माभुजा बन्धुः क्षीणवृत्तिर्विपद्गतः ।

तन्नामविक्रयोत्क्षेपैर्लक्षितो दिक्षु भिक्षते ॥१२३॥

परमं श्रीमतामेतन्माननामविनाशनम् ।

यद्यात्यपूरितो बन्धुः परस्योत्तानपाणिताम् ॥१२४॥

त्वद्बन्धुसुतयोर्नैव युक्ता गोपकुले स्थितिः ।

न यावद्विप्रकीर्णौ तौ तावत्स्वीकरणक्षमौ ॥१२५॥

इत्युद्धवेनाभिहिते हिते सुविहते श्रियः ।

अच्छिन्नदानव्रतवानक्रूरः कंसमभ्यधात॥१२६॥

एकपात्रोचितां यस्य श्रियं नाश्नन्ति बान्धवाः ।

तस्यात्मपोषतोषस्थकोषक्लेशाय सम्पदः ॥१२७॥

त्यागभोगभरोद्घृष्टा मानोन्मृष्टा महात्मनाम् ।

भान्ति भृत्यगृहोत्सृष्टा बन्धूच्छिष्टा विभूतयः ॥१२८॥

भूतिमालोक्य विमुखा यस्य निःश्वस्य बान्धवाः ।

गच्छन्ति न विशेषोऽस्ति श्मशानस्य च तस्य च ॥१२९॥

रत्नाकरसमृद्धश्रीर्बन्धुर्यस्य त्वमीदृशः ।

स कृष्णः कानने शष्पशय्यापरिचिताकृतिः ॥१३०॥

स्वकर्मभागिनः सर्वे निष्फलः स्वजनोऽर्थवान।

नातरङ्गस्य शङ्खस्य हृता सुषिरताब्धिना ॥१३१॥

ज्ञातिर्न दीनः कृष्णस्तु दयया संविभज्यते ।

हेलोर्मिनिर्मितं मन्ये तेनैश्वर्यं दिवौकसाम् ॥१३२॥

धेनुत्राणे शिखरिपतिना कृष्णदोष्णिस्थितेन

श्रान्ते शक्रे विफलजलदे लज्जिते शैलशत्रौ ।

लब्धाकाशप्रसभगतिना निर्झरोद्घातघोषैर्

हर्षस्पर्शः प्रकटित इव स्फीतफेनाट्टहासः ॥१३३॥

मददलनविधाने कालियस्याहिभर्तुर्

दमनशमितशक्तेर्देहसन्देहभाजः ।

शरणगमनदैन्यम्लानमानस्य कृष्णः

शिरसि चरणमुद्रां तार्क्ष्यरक्षां चकार ॥१३४॥

नाम्ना मानमहोन्नतिं प्रतनुते बध्नाति शोभां गुणैः

पुष्णात्याजिषु जिष्णुना शशिसितं भ्राजिष्णु दोष्णा यशः ।

हर्षं वर्षति निश्चलेन सहजप्रेम्णा च चित्तस्य यः

स श्लाघ्यः सुकृतेन बान्धवमणिर्भाग्योद्भवैर्लभ्यते ॥१३५॥

अबन्ध्यसङ्गतिर्बन्धुः कृष्णतुल्योऽस्ति कस्तव ।

येन शक्रोऽपि गोपानां गौरवावनतः कृतः ॥१३६॥

उक्तं निःशल्यकल्याणमस्माभिर्यदि मन्यसे ।

तत्त्वद्गिराहं गच्छामि कृष्णाह्वानकृतार्थताम् ॥१३७॥

विपुलः प्रस्थितश्चायं धनुर्यागमहोत्सवः ।

करोम्यहं तमुद्दिश्य केशवस्य निमन्त्रणम् ॥१३८॥

इत्यक्रूरवचः श्रुत्वा कंसः कुटिलचेष्टितः ।

व्रएति निःश्वसन्नुष्णमभ्यधात्तमधोमुखः ॥१३९॥

अथ सज्जरथे हन्तुमक्रूरे व्रजमुद्यते ।

अभूच्चन्द्रोदयोद्भूत इव वृष्णिकुलाम्बुधिः ॥१४०॥

अतिक्रम्याथ मथुरामक्रूरः प्रथितो रथी ।

अवापाग्रसरत्सैन्यः पर्यन्तग्रामममेखलाम् ॥१४१॥

प्रत्यग्रपाकविनमत्कलमक्षेत्रपङ्क्तिभिः ।

हरितालरजःपुञ्जरञ्जिताभिरिवाचिताम् ॥१४२॥

कदलीश्यामलारामबटवाटलतावृताम् ।

लम्बमानघनालाबुतुम्बकूष्माण्डमण्डलाम् ॥१४३॥

वलत्कुटिलकल्लोलकुल्याकलकलाकुलम् ।

द्राक्षासुशीतलतलस्थलीशय्याश्रयाध्वगाम् ॥१४४॥

अध्वन्यजग्धपूर्वेक्षुशल्कशूक्लीकृतस्थलाम् ।

पाकपिङ्गलनारङ्गीवनैः सन्ध्यान्वितामिव ॥१४५॥

ययौ स पश्यन्निःशङ्कशुकाशननिवारणे ।

उदञ्चद्भुजलक्ष्योच्चकुचाग्राः शालिपालिकाः ॥१४६॥

स व्रजन्गोपकुलोपान्तवनमालां व्यलोकयत।

उत्सरन्निर्झरासारस्निग्धश्यामलशाद्वलाम् ॥१४७॥

गोरक्षादक्षशवरैः कृतक्षुद्रर्क्षसङ्क्षयम् ।

घोरव्याघ्रपथाबद्धयन्त्रकूटघटावटाम् ॥१४८॥

तालीतालतमालसालकदलीपथ्यामलीश्यामलं

खर्जूरार्जुनसर्जबिल्वबकुलप्लक्षाक्षलक्षाकुलम् ।

पर्यन्ते स ददर्श हर्षजननं स्फीतोपदेशं गवां

निःश्वभ्रस्थलपुष्पशष्पशबलं निःशङ्कुलं गोकुलम् ॥१४९॥

अच्छिन्नोदितमन्थमन्थररवं निर्घोषमेघभ्रम

भ्राम्यन्मत्तमयूरनृत्तरुचिरं गोपाङ्गनागीतिभिः ।

निःस्यन्दस्थितमुक्तशष्पकवलक्लीबाङ्गसारङ्गकं

प्रीतिं प्राप स वीक्ष्य यामुनवलद्वीचिव्रजं गोकुलम् ॥१५०॥

ततस्तत्सैनिकैः कृष्णः प्रथ्माप्तैर्निवेदितम् ।

पितुः पितृव्यमक्रूरं शुश्रावाभ्यर्च्यमागतम् ॥१५१॥

घृतकुम्भदधिस्थालिसहस्रोपायनैः पुरः ।

प्रणम्यमानं गोपाग्र्यैर्ददर्शाक्रूरमच्युतः ॥१५२॥

रथाग्रादवरुह्याथ लोलकुण्डलकङ्कणः ।

दृष्ट्वा दामोदरं दूरादक्रूरः समचिन्तयत॥१५३॥

अय

ं स भगवान्विष्णुरवतीर्णः सनातनः ।

भुवो भारावताराय मां जगादेति नारदः ॥१५४॥

एष पद्मपलाशाक्षः श्रीमान्मरकतद्युतिः ।

स्निग्धलावण्यपीयूषैर्लिम्पतीव मनो मम ॥१५५॥

वृष्णियादववंशस्य कियती स्पृहणीयता ।

अवतीर्णः स्वयं यस्मिन्भगवानेषु केशवः ॥१५६॥

इति द्यायन्प्रहर्षश्रुसंरुद्धनयनः स्खलन।

अकुण्ठोत्कण्ठया शौरैरक्रूरेऽन्तिकमाययौ ॥१५७॥

पपात पादयोस्तस्य साग्रजः प्रणतोऽच्युतः ।

गाढालिङ्गनसङ्गत्या हृदयं प्रविशन्निव ॥१५८॥

प्राप्तपूजासनः कृष्णं सोऽवदत्तन्मुखे दिशन।

प्रमोदविस्मयस्नेहबहुमानमयीं दृशम् ॥१५९॥

कृष्ण त्वद्दर्शनानन्दसुधासम्पूरिते हृदि ।

त्वत्सम्भाषणहर्षस्य क्वावकाशो विधीयताम् ॥१६०॥

वसुदेवस्य पुण्यानां पूर्णता किं दरिद्रता ।

यस्त्वां तनयमासाद्य स्वदृशाद्यापि नेक्षते ॥१६१॥

भवतस्त्रिजगज्जन्मस्थितिसंहृतिकारिणः ।

गूढजन्मकथा केन कथ्यते सर्ववेदितनः ॥१६२॥

सततं सहते तीव्रां त्वत्कृते कंसवाच्यताम् ।

वसुदेवश्चलत्येषा नूनं न भवितव्यता ॥१६३॥

जगद्धरणधीरेव धन्या देवी वसुन्धरा ।

भारावतारसंनद्धश्चित्ते वहसि यां सदा ॥१६४॥

विस्मृता देवकी किं ते त्वन्नाम्नापि स्रुतस्तनी ।

त्वां विना या सुतं रामं कौसल्येवावसीदति ॥१६५॥

धनुर्योगे विसृष्टोऽहं कंसेन त्वन्निमन्त्रणे ।

त्वदागमनमानेन धन्या नन्दन्तु यादवाः ॥१६६॥

तत्सर्वं करमादाय प्रातः कंसस्य शासनात।

आयान्तु नन्दगोपाद्या सर्वे समयवर्तिनः ॥१६७॥

इत्यक्रूरवचः श्रुत्वा तमाभाषत केशवः ।

प्रातरेवाहमागन्ता त्वदाज्ञा केन लङ्घ्यते ॥१६८॥

ततः प्रभाते संनद्धं रथमारुह्य सानुगाः ।

मथुरां ययुरक्रूरसङ्कर्षणजनार्दनाः ॥१६९॥

कथं राधामनामन्त्र्यागतोऽहमिति माधवः ।

अरतिं म्लानतां चिन्तां व्रान्भेजे विनिःश्वसन॥१७०॥

यच्छन्गोकुलगूढकुञ्जगहनान्यालोकयन्केशवः

सोत्कण्ठं वलिताननो वनभुवा सख्येव रुद्धाञ्चलः ।

राधाया न न नेति नीविहरणे वैक्लव्यलक्ष्याक्षराः

सस्मार स्मरसाध्वसाद्भुततनो रावोक्ति रिक्ता गिरः ॥१७१॥

गोविन्दस्य गतस्य कंसनगरीं व्याप्ता वियोगामिना

स्निग्धश्यामलकूललीनहरिणे गोदावरीगह्वरे ।

रोमन्थस्थितगोगणैः परिचयादुत्कर्णमाकर्णितं

गुप्तं गोकुलपल्लवे गुणगणं गोप्यः सरागा जगुः ॥१७२॥

ललितविलासकलासुखखेलनललनालोभनशोभनयौवनमानितनवमदने

अलिकुलकोकिलकुवलयकज्जलकालकलिन्दसुताविवलज्जलकालियकुलदमने ।

केशिकिशोरमहासुरमारणदारुणगोकुलदुरितविदारणगोवर्धनधरणे

कस्य न नयनयुगं रतिसज्जे मज्जति मनसिजतरलतरङ्गे वररमणीरमणे ॥१७३॥

उदीयमाने गुणसागरस्य गुणे गुणे रागरसेन शौरैः ।

गोपाङ्गना गूढरसानुरागा मुहुर्मुहुर्मोहहता बभूवुः ॥१७४॥

गोविन्दे गुरुसन्निधौ परवशावेशादनुक्त्वा गते

सुप्तानां बकुलस्य शीतलतले स्वैरं कुरङ्गीदृशाम् ।

स्वप्नालिङ्गनसङ्गतेऽङ्गलतिकाविक्षेपलक्ष्म्या मुहुर्

मुग्धा वञ्चक मुञ्च मुञ्च कितवेत्युच्चैरुच्चेरुर्गिरः ॥१७५॥

राधा माधवविप्रयोगविगलज्जीवोपयानैर्मुहुर्

बाष्पैः पीनपयोधराग्रगलितैः फुल्लत्कदम्बाकुला ।

अच्चिन्नश्वसनेन वेगगतिना व्याकीर्यमाणैः पुरः

सर्वाशाप्रतिबद्धमोहमलिना प्रावृण् नवेवाभवत॥१७६॥

ज्ञात्वा कंसः समायान्तौ कुमारौ रामकेशवौ ।

चाणूरमुष्टिकौ मल्लौ विदधे तद्वधोद्यतौ ॥१७७॥

अथ राजपथं प्राप्तौ बलात्सङ्कर्षणाच्युतौ ।

राजार्हं चक्रतुश्चारुमाल्याम्बरविलेपनम् ॥१७८॥

तौ विचित्राम्बरधरौ स्रग्विणौ चन्दनाचितौ ।

जनतानन्दजननौ राजद्वारमवापतुः ॥१७९॥

हर्म्यस्था देवकी दृष्ट्वा कृष्णं कमललोचनम् ।

बाष्पसंरुद्धनयना मुमोह प्रस्रुतस्तनी ॥१८०॥

अथ राजाज्ञयोत्सृष्टं महामात्राङ्कुशेरितम् ।

गजं कुवलयपीडं ददर्शायान्तं केशवः ॥१८१॥

क्रोधान्धं मम दोषदुःखतरं भूभारभूताकृतिं

कुर्वाणं करदण्डकृष्टजनताजीवापहारं मुहुः ।

मातङ्गं कुनृपोपमं मुरारिपुर्दृष्ट्वा प्रहारोद्यतं

हस्तोत्पाटितया जघान निजया निर्दारितं दंष्ट्रया ॥१८२॥

अथ राजाज्ञया मल्लनागौ चाणूरमुष्टिकौ ।

कुमारयोरभिमुखौ चक्रतुर्जनसङ्क्षयम् ॥१८३॥

जानुबन्धभुजाकर्षतलाघातघने रणे ।

कृष्णश्चाणूरमवधीन्मुष्टिकं च हलायुधः ॥१८४॥

भुजयोरिव कंसस्य मल्लयोश्च्युतयोस्तयोः ।

भ्रूभङ्गभीषणस्योच्चैरुच्चचारोत्कटं वचः ॥१८५॥

वध्यतां वसुदेवोऽयं क्रियतां तत्सुतक्षयः ।

विधीयतां च गोपानामुचितं राजशासनम् ॥१८६॥

कंसस्येति ब्रुवाणस्य मदोद्दामस्य गर्जतः ।

दुष्टद्विपस्येव हरिर्वेगेनान्तिकमाद्रवत॥१८७॥

सन्त्रस्ते वेत्रिसङ्घे नवभयसमयोद्भ्रान्तसामन्तचक्रे

हस्तस्रस्ते तरुण्याः शशिकरधवले चामरे विह्वलायाः ।

कृष्णः कंसं चकर्ष प्रविलुलितसितोष्णीषविश्लेषकेशैः

क्रोधाग्नेर्धूममालामिव कुसुमचलद्भृङ्गमालां दधानम् ॥१८८॥

आकृष्टस्य सुरारिणारुणमणिव्याकीर्णदीर्घद्युतिर्

मौलिर्वक्षसि मौक्तिकांशुशबलः कंसासुरस्य च्युतः ।

व्यक्तोऽभून्नरसिंहशुभ्रनखरव्यापारविश्रः क्षणं

दीर्णस्येव पुनर्हिरण्यकशिपोः स्फीतः स्रुतासृग्भरः ॥१८९॥

हत्वा दूरतराकृष्टं मदान्धं कंसकुञ्जरम् ।

उग्रसेनं प्रविदधे राज्ये तज्जनकं हरिः ॥१९०॥

पादयोर्वसुदेवस्य देवक्याश्चाच्युतः पतन।

बभूवानन्दनिस्पन्दनिविडालिङ्गनातिथिः ॥१९१॥

आविर्भूताः स्वयं विद्या कलाश्च सकलास्ततः ।

निनाय स्पृहणीयत्वमवधानेन माधवः ॥१९२॥

दक्षिणापथनाथस्य भीष्मकस्यात्मजां हरिः ।

जहार रुक्मिणीं कन्यां लक्ष्मीं जन्मान्तरागताम् ॥१९३॥

रुक्मिण्यामथ कृष्णस्य प्रद्युम्नः प्रथमः सुतः ।

जाम्बवत्यामभूत्साम्बः प्रतिबिम्बनिभौ पितुः ॥१९४॥

सुन्दरीणां सहस्राणि षोडशान्तःपुरे हरेः ।

बभूवुस्तासु पुत्राणां लक्षसङ्ख्योऽभवद्गणः ॥१९५॥

नाडायनीं चन्द्रसेनां प्रद्युम्नः प्राप वल्लभाम् ।

यस्यामजीजनत्पुत्रमनिरुद्धं मनोभवम् ॥१९६॥

ततः शक्रगिरारुह्य गरुडं गरुडध्वजः ।

गगने दैत्यचक्राणां चक्रे चक्रायुधः क्षयम् ॥१९७॥

मुरसुन्दहयग्रीवनरकाद्या महासुराः ।

प्रययुश्चक्रिचक्राग्नौ क्षिप्रासङ्गपतङ्गताम् ॥१९८॥

जरासन्धेन संरुद्धां मागधेन प्रमाथिना ।

मथुरामथ सन्त्यज्य सानुगः प्रययौ हरिः ॥१९९॥

द्वारकामथ कंसारिः पश्चिमाब्धितटे व्यधात।

जितलङ्कालकानाकनागेन्द्रनगरीं पुरीम् ॥२००॥

बलात्क्षीरोदजन्मानं पारिजातं जनार्दनः ।

हृत्वा शक्रपुरोद्याना द्वारकायां न्यवेशयत॥२०१॥

अत्रान्तरे कंससुहृत्करालः कालविग्रहः ।

प्रतिज्ञां कालयवनश्चक्रे वृष्णिकुलक्षये ॥२०२॥

कृष्णस्तं दुर्जयं मत्वा निःसहायो भुजायुधः ।

बुद्धियुद्धे धियं धृत्वा ययौ यवनमण्डलम् ॥२०३॥

हेमरत्नमयं तस्य प्रविश्य भवनं हरिः ।

भयप्रदं यमस्यापि ददर्श यवनेश्वरम् ॥२०४॥

सोऽपि कृष्णं विलोक्यैव पतितं भुजगोचरे ।

मनोरथशतावाप्तं जिघृक्षुस्तं समाद्रवत॥२०५॥

तस्मिन्नभिद्रुते रौद्रे जवेन प्रययौ हरिः ।

न च पश्चाच्चचालास्य यवनः पूर्वकर्मवत॥२०६॥

चतुःसमुद्ररशना विगाह्यापि महीं हरि ॥

दृष्ट्वा तमचलं पश्चाद्विवेश हिमवद्गुहाम् ॥२०७॥

तत्रेन्द्रार्थे हताशेषदैत्यस्य युगविस्तरः ।

यातः कालः प्रसुप्तस्य मुचकुन्दस्य भूपतेः ॥२०८॥

अर्धनिद्रादरिद्रं मां शयानं यः करिष्यति ।

स भस्मसाद्यास्यतीति राजर्षिः समयं व्यधात॥२०९॥

तस्य शय्याङ्कपर्यङ्कवक्रपादतलान्तरे ।

तस्थावलक्षितः शौरिः शङ्कासङ्कोचिताकृतिः ॥२१०॥

प्रविश्य कालयवनः शयानं वीक्ष्य भूपतिम् ।

कृष्णोऽयमिति निश्चित्य निर्निद्रमकरोत्पदा ॥२११॥

प्रबुद्धः कालयवनं पादस्पृष्टवपुर्नृपः ।

दृशा ददाह निःशेषं निद्राशेषकषायया ॥२१२॥

निर्दग्धे कालयवने पर्यङ्कचरणाञ्चले ।

कायसङ्कलनालीनं दृष्ट्वा कृष्णमभाषत ॥२१३॥

कस्त्वं परिमिताकारः कान्ताकर्णोत्पलद्युतिः ।

बिभर्षि गुणगम्भीरमहो माहात्म्यमुन्नतम् ॥२१४॥

इयतीं ह्रस्वतां याता सृष्टिः कालनिमीलिता ।

मद्गुल्फपरिमाणं यद्वपुः स्वल्पतरं तव ॥२१५॥

इत्युक्तो मुचुकुन्देन प्रश्रयप्रणयी हरिः ।

स्ववृत्तं लोकवृत्तं च सर्वं तस्मै न्यवेदयत॥२१६॥

कालं विशालं विज्ञाय क्ष्मापालः क्षणवद्गतम् ।

दीर्घशय्यामिवोत्सृज्य भोगाशां समचिन्तयन॥२१७॥

अहो कालगलत्सर्वभावभोगाभिमानभूः ।

स्वप्नप्रकारः संसारः पर्यन्तासत्यविभ्रमः ॥२१८॥

भूमिः सङ्कुचिता ग्रीष्मातपन्यस्तार्द्रचर्मवत।

वैराग्यं जनयत्येव जराजीर्णेव कामिनी ॥२१९॥

तानि मित्राण्यतीतानि ते भृत्यास्ते च बान्धवाः ।

परेषु रमते नात्मा यूथभ्रष्ट इव द्विपः ॥२२०॥

यस्मिन्नित्यमधूपमं तदखिलं कालेन लीढं सुखं

यातं हन्त पुरातनं विरसतां क्षुण्णेक्षुशुल्कोपमम् ।

आमाम्रप्रतिमस्य नास्त्यभिनवस्यास्वादने स्वादता

नेदानीं मम कृतमस्ति महता राज्येन भोगेन वा ॥२२१॥

मलिनाक्षमतां भूतिः सा भूतिः शोभतेऽधुना ।

मुक्तिकान्ताधवलतां करोत्युद्धूलनेन या ॥२२२॥

इति संचिन्त्य राजर्षिः कैलासं तपसे ययौ ।

गत्वा कृष्णश्च वृष्णिभ्यः स्ववृत्तान्तं न्यवेदयत॥२२३॥

उषानिरुद्धविवाहः

बलेर्बाणासुरः सूनुरासीद्बाहुसहस्रवान।

यस्यास्थानसभासभ्यो भगवानभूद्भवः ॥२२४॥

दीप्तरत्नगृहालोकैः सृजन्सन्ध्यामिवानिशम् ।

बभूवाकाशगं यस्य नगरं शोणिताबिधम् ॥२२५॥

उषा नामाभवत्तस्य कन्या लावण्यवाहिनी ।

आललम्बे स्तनतटीं यस्यां मज्जन्निव स्मरः ॥२२६॥

युद्धं विना मे मिथ्यैव भाराय भुजकाननम् ।

इति तेनार्थितः शर्वः प्राप्स्यसीति तमभ्यधात॥२२७॥

हरं कदाचिदुद्याने देव्या सह विहारिणीम् ।

दृष्ट्वोषा स्वविवाहाय स्पृहां चक्रे घनस्तनी ॥२२८॥

यः करिष्यति ते स्वप्ने कन्याभावव्यतिक्रमम् ।

भविष्यति स ते भर्ता तामुवाचेति पार्वती ॥२२९॥

अथाययौ यौवनकृद्वल्लीनां कुसुमाकरः ।

कुर्वाणः सरसां प्रीतिलतां जनमनोवने ॥२३०॥

चञ्चच्चूतरजःपुञ्जपीताम्बरमनोहरः ।

अतसीकुसुमश्यामः शुशुभे नवमाधवः ॥२३१॥

नम्रानना नवोद्भूतरजसा स्तवकस्तनी ।

मालती यौवनवती कन्येवोच्छ्वासिनी बभौ ॥२३२॥

ववुर्मलयनिःश्वासा इव चन्दनचुम्बिनः ।

पवनाः पन्नगीदंशशङ्कयेव शनैः शनैः ॥२३३॥

कूजत्कोकिलकण्ठवंशविरुतैः स्फायिन्यवाप्ते परं

चूतामोदमदाकुलालिपटलीवीणास्वनस्वादुताम् ।

शिक्षाचक्षणदक्षदक्षिणमरुद्दत्तोपदेशक्रमैर्

मञ्जर्यो ननृतुर्मधूत्सवलसत्पुष्पायुधाराधने ॥२३४॥

हेमहर्म्यप्रसुप्ताथ नीता स्वप्ने मनोमुषा ।

उषा केनापि कान्तेन शीलांशुकदरिद्रताम् ॥२३५॥

तस्या धीधृतिचौरेण विज्ञाय हृदयं हृतम् ।

हेलाहरणभीत्येव हारस्तरलतां ययौ ॥२३६॥

लज्जामज्जनविह्वला ननननेत्यल्पप्रलापोद्गतिर्

नीवीमुक्तिनिरोधनिर्धुतिविधौ पाणिः क्वणत्कङ्कणः ।

शीतेनेव विकूजिता जवजुषः श्वासस्य शीत्कारिता

तस्या भ्रंशभयोच्चलत्कलकला क्श्ञ्ची सकम्पाभवत॥२३७॥

प्रबुद्धा वृत्तकर्तव्या सा मुग्धा स्वप्नसत्यताम् ।

मन्यमाना मुहुर्मोहं कुललज्जाकुला ययौ ॥२३८॥

शयनं विप्लवस्थानं भयेनेव विहाय सा ।

हर्म्यस्था प्रददौ प्रातर्दिक्षु चक्षुर्विलज्जिता ॥२३९॥

सा सोत्कम्पकुचन्यस्तहस्तानभ्यस्तमन्मथा ।

मुमूर्छादयन्तीव प्रविष्टं हृदये प्रियम् ॥२४०॥

सा निशश्वास बाष्पाम्बुबिन्दुभिर्मौक्तिकैरिव ।

छिन्नस्य शीलहारस्य कुर्वाणा ग्रथनं पुनः ॥२४१॥

प्रदध्यौ नवविध्वंससाध्वसायासिता चिरम् ।

क्षितौ सा चिन्तयानेव च्युतं चित्तमधोमुखी ॥२४२॥

किं कस्य कथयाम्येतत्कं पृच्छामि करोमि किम् ।

का गतिः केन दृष्टाहं कुतस्तत्सङ्गमः ॥२४३॥

इति सन्देहनिष्पन्दां चिन्ताविक्रीतचेतनाम् ।

विलोक्य चित्रलेखाख्या सखी प्राणसमावदत॥२४४॥

तन्वि किं खेदभारोऽयं भीरु किं भयकारणम् ।

पुत्री त्रैलोक्यभर्तुस्त्वं वध्यः कस्तेऽपराध्यति ॥२४५॥

किं शय्यावलनाविमर्दगलितैः कर्णोत्पलस्य च्छदैर्

लीनैः कामकृपाणलेशसदृशैर्व्याप्ता तवेयं तनुः ।

भ्रश्यन्मौक्तिकयोर्बिभर्षि कुचयोर्भिन्नेभकुम्भभ्रमं

स्पष्टोऽयं रतिसङ्गमव्यतिकरः कस्येति मे संशयः ॥२४६॥

इत्युक्ते सस्मितं सख्या सनिःश्वासाश्रुवर्षिणी ।

उषा शनैरवोचत्तां लिखन्ती क्ष्मामधोमुखी ॥२४७॥

दृष्टः स्वप्ने मया कोऽपि रमणस्तनुकम्पनः ।

पीयूषवर्षी संस्पर्शे स्मरणे मरणोपमः ॥२४८॥

जाने कम्पतरङ्गिताङ्गलतिका स्वप्नेऽहमालिङ्गिता

संस्पर्शे कुचयोः निरर्गलतया हारोऽपि पार्श्वे कृतः ।

एतावत्तु सखि स्मरामि यदतो वृत्तं परं तत्परं

धैर्यस्योद्दलनं शरीरशमनं ध्यात्वापि नो वेद्मि किम् ॥२४९॥

मूर्च्छाच्छादितमीक्षते न नयनं तापे तनुः पच्यते

कम्पः सूचयतीव जीवगमनं मोहे मनो मज्जति ।

प्राग्जन्मार्जितकर्मणा बलवता कामेन कालेन वा

नो जानामि स केन मे धृतिहरः कण्ठे भुजगोऽर्पितः ॥२५०॥

त्यज्यते सहजा लज्जा सह्यते गुरुवाच्यता ।

गण्यते न घना कीर्तिर्यत्कृते सोऽपि दुर्लभः ॥२५१॥

इयं शीलविलुप्तिर्मे मानम्लानिमहीयसी ।

दुर्लभे वल्लभे प्रीतिस्तनुत्यागेन शाम्यति ॥२५२॥

इति ब्रुवाणां तामश्रुकणाकीर्णकुचस्थलीम् ।

सन्तापपिशुनोच्छ्वासां चित्रलेखावदत्सखीम् ॥२५३॥

किं न स्मरसि मुग्धे त्वमहो विरहकातरा ।

देव्यादिष्टः स ते स्वप्नदृष्ट एव वरो वरः ॥२५४॥

समाश्वसिहि हे तन्वि तनुस्तापक्षमा न ते ।

करोमि योगशक्त्याहमुपायं त्वत्समीहिते ॥२५५॥

उल्लिख्य निखिलं चित्रपटे त्रिभुवनं तव ।

सदृशं दर्शयाम्येव तत्रालोकय वल्लभम् ॥२५६॥

इत्युक्त्वा चित्रलेखायां गतायां व्योमवर्त्मना ।

उषा जीवमिवापेदे प्रियसन्दर्शनाशया ॥२५७॥

साभ्येत्य तस्यास्त्रैलोक्यचित्रं पटमदर्शयत।

किं दुष्करमदृश्यं वा योगिनां ज्ञानचक्षुषाम् ॥२५८॥

उषा चित्रपटे दृष्ट्वा सुरासुरनरोरगान।

ददर्श दयितं स्वप्नदृष्टं जितशशिस्मरम् ॥२५९॥

अयं स सखि मे धैर्यहारी हृदयतस्करः ।

इत्युषावचनं श्रुत्वा चित्रलेखा जगाद ताम् ॥२६०॥

दिष्ट्या धन्यासि सुभगे यस्यास्ते नवमन्मथः ।

लक्ष्मीवल्लभपौत्रोऽयमनिरुद्धाभिधः प्रियः ॥२६१॥

प्रद्युम्नतनयस्यास्य लावण्यामृतदीधितेः ।

कान्त्या क्षैब्यमिवायान्ति सुरविद्याधराङ्गनाः ॥२६२॥

रूपेणाप्रतिमेन नेत्रसुखदः कन्दर्पदर्पच्छिदा

शौर्ये वज्रधरोपमां न सहते धीरः सुमेरोरयम् ।

अस्यामर्त्यमृगेक्षणाभिरनिशं सोत्कण्ठमाकर्णितं

चन्द्रोत्सङ्गमृगापहं गुणगणं गायन्ति खे खेचराः ॥२६३॥

पश्चिमाब्धौ हरिपुरी द्वारका वृष्णियादवैः ।

सिंहैरिव महोत्साहैर्गुप्ता हैमवती गुहा ॥२६४॥

तस्यामन्तःपुरे श्रीमान्वसत्येष प्रियासखः ।

आनीयते कथं तावदिति दोलायते मनः ॥२६५॥

त्वद्भाग्यानि पुरस्कृत्य गच्छामि गगनेन तम् ।

हेलार्पिताद्भुतनिधिर्विधिः सिद्धिं विधास्यति ॥२६६॥

इत्युक्त्वाकाशमाविश्य सा बभौ द्वारकां क्षणात।

कुर्वाणा रशनारत्नैः शक्रचापचिता दिशः ॥२६७॥

सा गूढमायया हृत्वा रत्नपर्यङ्कशायिनम् ।

आनिनाय मुहूर्तेन व्योम्ना प्रद्युम्ननन्दनम् ॥२६८॥

स्वप्नवृत्तान्तमावेद्य सकन्यान्तःपुरान्तरम् ।

प्रवेशितस्तयापश्यदुषां रतिमिव स्मरः ॥२६९॥

स तां दृष्ट्वा नवोन्मेषनिर्माणातिशयं विधेः ।

अचिन्तयत्सुधापूरैरिव पूरितलोचनः ॥२७०॥

इन्दोः सङ्क्षयरक्षणाक्षतसुधा किं वेधसा निर्मिता

किं धैर्यापहरा हरस्य विहिता कामेन कान्ता तनुः ।

किं तारुण्यवसन्तकान्तिलतिका शृङ्गारसिक्ता लता

किं लावण्यतरङ्गिणी पुनरियं जन्मान्तराप्ता रतिः ॥२७१॥

कटाक्षः सन्धत्ते कुवलयकुलक्लैब्यकलनां

मुखे दृश्यश्चन्द्रद्युतिहरणहेलापरिचयः ।

असंरुद्धा बाधाधरदलरुचिर्विद्रुमतरोर्

अहो सारङ्गाक्ष्याः प्रसभविजयी रूपविभवः ॥२७२॥

इति सर्वाङ्गनिर्मग्नलोचनस्तां विलोकयन।

अनिरुद्धोऽधरे तस्या बभूवाशापथातिथिः ॥२७३॥

सापि साङ्गमिवानङ्गं तमभ्यस्तं मनोरथैः ।

विलोक्य प्रत्ययासत्ये पुनः स्वप्नमशङ्कत ॥२७४॥

सोत्कम्पा कररोधेन राविणीं मणिमेखलाम् ।

मुहुर्मौनवतीं चक्रे पैशुन्यचक्रितेव सा ॥२७५॥

नवे मौनवति प्रेम्णि तयोः प्राह सखी पुरः ।

दन्तांशुसूत्रैः कुर्वाणा ग्रथनं चित्तयोरिव ॥२७६॥

यस्त्वया प्रेमकुसुमैर्देवश्चित्रपटेऽर्चितः ।

अहो भक्त्या स ते तुष्टः सखि प्रत्यक्षतां गतः ॥२७७॥

स्वप्नसम्पादितप्रीतिर्योऽर्थितस्तैर्मनोरथैः ।

प्राक्पूजा कीदृशी तस्य ब्रूहि त्वमुपपद्यते ॥२७८॥

मौनमालम्बसे पृष्टा दृष्टा क्षौणीं निरीक्षसे ।

लतेव कम्पसे कम्पात्कोऽयं ते चित्तविभ्रमः ॥२७९॥

मानस्तत्क्षणशासनागतजने सुभ्रु क्व सम्भाव्यते

स्वप्नाभ्यस्तसमागमेऽपि नववत्किं लज्जया लीयसे ।

का तस्मिन्परता सदा वसति यश्चित्ते निबद्धो गुणैः

प्रारब्धा सखि कस्य तावदियती प्रेम्णि त्वयापह्नुतिः ॥२८०॥

इति सख्यां ब्रुवाणायामनिरुद्धः प्रगल्भताम् ।

निनाय दयितां प्रौढः प्रणयैः प्रेमपेशलैः ॥२८१॥

तदा प्रीतेर्यदायत्तं चिन्तितं यन्मनोरथैः ।

मन्मथेन यदादिष्टं स्वैरं तत्तदभूत्तयोः ॥२८२॥

दिनेष्वथ प्रयातेषु प्रच्छन्नधृतवल्लभा ।

उषाभूदभिमानाक्तसम्भोगलक्षणा ॥२८३॥

व्याकीर्णा कबरी मुखं वितिलकं ताम्बूललिप्तेऽक्षिणी

कण्ठे कङ्कणलक्ष्म हारविरतिर्दंशोऽधरे निर्व्रणः ।

प्रातः प्रच्युतचन्दना स्तनतटी सायं स्ववेषक्रिया

सम्भोगाभरणा तनुर्वरतनोः शाङ्कास्पदत्वं ययौ ॥२८४॥

किञ्चिन्मुकुलिते लोके कन्यायाः कामलक्षणे ।

फुल्ले शनैः कर्णपथं बाणस्यापि कथा ययौ ॥२८५॥

तयस्तद्भ्रूभ्रमादिष्टाः किङ्कराः क्रूरकारिणः ।

आययुर्युद्धसंनद्धाः कन्यकान्तःपुराङ्गणम् ॥२८६॥

निरुद्धऊ प्रियया यत्नादनिरुद्धोऽथ सस्मितः ।

घोरकिङ्करसङ्घाताञ् जघान परिधायुधः ॥२८७॥

हतेऽयुते किङ्कराणां स्वयं बाणः समाययौ ।

रथी बाहुसहस्रात्तसमस्तायुधमण्डलः ॥२८८॥

शस्त्रवृष्टिं तदुत्सृष्टां प्राद्युम्निः खड्गचर्मभृत।

छित्त्वा धैर्यनिधिश्चक्रे रणे बाणस्य विस्मयम् ॥२८९॥

उषा सन्त्रासतरला पितुः पत्युश्च सङ्गरे ।

प्राणेशपक्षपातेन भेजे सन्देहसाध्वसम् ॥२९०॥

बाणेन प्रहितां शक्तिं मृत्युदंष्ट्रामिवोत्कटाम् ।

आदाय तस्मै प्राद्युम्निस्तामेव प्राहिणोद्बली ॥२९१॥

परहस्तगता शक्तिः प्रविष्टान्तः कृतव्यथा ।

निजा सुतेव बाणस्य हृदये शल्यतां ययौ ॥२९२॥

वीरं विज्ञाय तं बाणः स्पष्टयुद्धेन दुर्जयम् ।

आदाय तामसीं मायामदृष्टः प्रविवेश खम् ॥२९३॥

निरन्तैरस्मदुत्सृष्टैर्वेष्टिताङ्गं भुजङ्गमैः ।

दृष्ट्वानिरुद्धं संरुद्धमुषाभून्मोहमीलिता ॥२९४॥

बद्धेऽनिरुद्धे तनयां बाणः स्वैरापचारिणीम् ।

आकृष्टः स्नेहकोपाभ्यां न तत्याज न चाग्रहीत॥२९५॥

असंस्पृष्टं याच्ञावचनघनदैन्येन वदनं

न कृच्छ्रेऽप्यारूढा गुणमणिततिर्विक्रयतुलाम् ।

असेवासन्तापं वपुरननुभूतप्रभुभयं

कुलं कन्याहीनं नहि नयति मानं मलिनताम् ॥२९६॥

अत्रान्तरे द्वारकायामनिरुद्धापहारजः ।

वृष्णीनामभवत्क्षोभः शोकचिन्तानुबन्धवान॥२९७॥

बाणस्य नगरे रुद्धमनिरुद्धं सहोषया ।

विज्ञाय नारदगिरा सस्मार गरुडं हरिः ॥२९८॥

हलयुधेन सहितः प्रद्युम्नेन च सूनुना ।

प्रययौ शोणितपुरं तार्क्ष्यमारुह्य माधवः ॥२९९॥

खे योजनसहस्राणि विलङ्घ्य गरुडध्वजः ।

दीप्तं बाणपुरं दूराद्ददर्शार्कशतोपमम् ॥३००॥

अग्निमाहवनीयाख्यं तार्क्ष्यः प्राकाररक्षिणम् ।

पीतोद्वान्तखगङ्गाम्बुनिर्झरेण न्यवारयत॥३०१॥

पुरद्वारमथोन्मथ्य प्रविष्टं शार्ङ्गिणं बलात।

निःसङ्ग्ख्याः सङ्ख्यसंनद्धा दितिजाः पर्यवारयन॥३०२॥

चक्रिचक्रनिकृत्तानां शरीराणि सुरद्विषाम् ।

चक्रुः पक्षक्षयक्षिप्तनिपतत्क्षितिभृद्भ्रमम् ॥३०३॥

अत्रान्तरे नागपाशपञ्जरे सिंहविक्रमः ।

बद्धोऽनिरुद्धः सस्मार दुर्गां स्तुतिपदार्चिताम् ॥३०४॥

निष्पिष्टमत्तमहिषासुरमस्तकाग्र

प्रत्यग्रनिर्गतघनस्रुतिशोणितार्द्रम् ।

पादाम्बुजं पुनरलक्तकभक्तिचित्रं

वन्दे भवप्रभवतापहरं भवान्याः ॥३०५॥

शूलप्रहारसृतरक्तभरैकबिन्दु

संजातघोररुरुलक्षगुरुप्रमाथे ।

पातालमूलगननान्तविकासितास्य

ग्रस्तोग्रदानवतनुं प्रणमामि कालीम् ॥३०६॥

भीमोद्भवद्विभवशुब्म्हनिशुम्भकाय

निष्पेषदुःसहतराशनिघातघोराम् ।

कात्यायनीं स्वकरकृत्तशिरःशरीर

वीरोपहारपरितोषवतीं नमामि ॥३०७॥

क्षुभ्यत्सप्तार्णवघनरवः पद्मगर्भाण्डखण्डा

काण्डभ्रंशप्रभसरभसः सप्तपातालभेदी ।

धैर्योन्माथी जयति चकिताशेषलोकेश्वराणां

चण्डश्चण्ड्याः प्रलयसमयोत्साहलीलाट्टहासः ॥३०८॥

इति स्तुता भगवती दुर्गा दुर्गापहारिणी ।

स्वकरस्फोटितोग्राहिपञ्जरं तममोचयत॥३०९॥

भुजङ्गपाशनिर्मुक्तः प्राद्युम्निः समराङ्गणम् ।

प्रययौ युध्यमानस्य समीपं कालियद्विषः ॥३१०॥

अथ कल्पान्तपर्जन्यगर्जितोर्जितविभ्रमः ।

बाणासुररणारम्भदुन्दुभिध्वनिरुद्ययौ ॥३११॥

दैत्येन्द्रायुधवृष्टिनष्टगमने सेनारजः स्फूर्जित

ग्रस्ताग्रे प्रसरत्पिनाकिविशिखव्रातावकीर्णे रणे ।

कल्पान्तागमशङ्किते त्रिभुवने चेरुः शरीरच्छिदः

शूराणामनिरुद्धराममुरजित्प्रद्युम्नमुक्ताः शराः ॥३१२॥

गरुडादवरुह्याथ बलेन बलिना रणे ।

हलेन हलिना कृष्टा दैत्यदेहा द्विधा ययुः ॥३१३॥

ततस्त्रिनेत्रानुचरः प्रदीप्तस्त्रिशिखज्वरः ।

क्षिप्तेन भस्मना रमं भ्रममूर्च्छाकुलं व्यधात॥३१४॥

सन्तापमूर्च्छितं कृष्णस्तं परिष्वज्य विद्रुतम् ।

कृत्वा जटाभिराकृष्य जग्राह ज्वरमञ्जसा ॥३१५॥

कृष्णोऽप्यथ ज्वराविष्टः श्वसन्रोमाञ्चं कर्कशः ।

असृजद्वैष्णवं घोरं ज्वरं रौद्रज्वरापहम् ॥३१६॥

ज्वरयोः सम्प्रवृत्तेऽथ भुवनाकम्पने रणे ।

वैष्णवः प्रलयार्काभः शार्वं ज्वरमपातयन॥३१७॥

कण्ठे निपीड्य निष्पिष्टस्तेन रुद्रज्वरः क्षितौ ।

प्रयातः शरणं कृष्णमवदद्बाष्पगद्गदः ॥३१८॥

देवेन त्रिपुरारिणा त्रिजगतीजीवापहारक्षमः

सृष्टः स्पष्टविनष्टधरियशरणिर्देव त्वयाहं कृतः ।

त्वां यातः शरणं शरीरधृतये त्वन्नाममन्त्राक्षर

क्षिप्ताप्तस्मृतिजापिनां न भविता मत्स्पर्शतापः क्वचित॥३१९॥

इति भीत्या ब्रुवाणं तं ररक्ष गरुडध्वजः ।

शरणाप्ते विरुद्धेऽपि वैरक्रूरा न साधवः ॥३२०॥

ततः श्रीकण्ठवैकुण्ठौ व्याप्तदेहौबभूवतुः ।

पिनाकशार्ङ्गनिर्गच्छद्बाणजालैर्निरन्तरैः ॥३२१॥

क्षणं तुल्ये तयोर्युद्धे जगत्सङ्क्षयकारिणि ।

घनैः शौरिशरासारैर्ययौ विमुखतां हरः ॥३२२॥

ग्रस्तशक्तेः कुमारस्य जितस्य हरिणा रणे ।

रक्षायै शम्भुना सृष्टा तस्थौ नग्नाङ्गना पुरः ॥३२३॥

अथ बाणः स्वयं योद्धुं मधुसूदनमाययौ ।

क्षिपन्बाहुसहस्रेण दीप्तायुधपरम्पराम् ॥३२४॥

सहस्राश्वं रथं तस्य मनोरथमिवायतम् ।

ससूतं शरवर्षेण प्रममाथ मुरान्तकः ॥३२५॥

उपनीतं गणैस्तूर्णं शासनात्त्रिपुरद्विषः ।

मऊरमारुरोहाथ बाणः षण्मुखवाहनम् ॥३२६॥

यत्नेन युध्यमानस्य च्छिन्नास्त्रस्य मुरारिणा ।

मुक्तकेशी विवस्त्रा स्त्री बाणस्याग्रे व्यदृश्यत ॥३२७॥

रक्षायै कौटवीं सृष्टां तस्य देवेन शूलिना ।

वञ्चयित्वाच्युतश्चक्रं पार्श्वाञ्चितमथासृजत॥३२८॥

चक्रं क्रमेण पतितं स्कन्धयोः कीर्णपावकम् ।

चकर्त क्रकचक्रूरं बाणस्य भुजकाननम् ॥३२९॥

चक्रोत्कृत्तभुजद्रुमव्रणमुखोद्भूतैर्घनासृग्भरैः

प्रोद्यद्विद्रुमपादपानुकृतिभिस्तुल्यप्रमाणैः क्षणम् ।

अप्राप्तोद्धतयुद्धतृप्तिरधिकश्रद्धः स वीरोऽभवद्

व्याप्तः सततरक्तचन्दनचितैर्जातैरिवान्यैर्भुजैः ॥३३०॥

बाणाश्छिन्नभुजोऽभ्येत्य शम्भोर्भगवतश्चिरम् ।

ननर्त प्रियनृत्तस्य तोषाय प्रणयी पुरः ॥३३१॥

भक्त्याभवद्भगवतः स भवस्यातिवल्लभः ।

वरान्नन्दिसमः श्रीमान्महाकालश्चतुर्भुजः ॥३३२॥

कल्याणं तनुते यशः परिचितां लक्ष्मीं ददात्यक्षयाम्

आक्रान्तिं विदधाति सप्तभुवनन्यस्तेप्सिताज्ञाक्षराम् ।

संसारं कुरुते विकारिनिकरं निःशेषमेव क्षणाद्

भक्तिः कल्पलता चराचरगुरोः किं किं न सूते फलम् ॥३३३॥

उषासहितमादाय प्रद्युम्नतनयं ततः ।

द्वारकां विजितारातिर्जगाम गरुडध्वजः ॥३३४॥

ओ)०(ओ

कदाचिदथ देवर्षिर्द्वारकामेत्य नारदः ।

अवाप्य पूजामुचितां कथान्ते कृष्णमभ्यधात॥३३५॥

गङ्गाभिलाषी नृपतिर्ब्रह्मशापान्महाभिषः ।

भरतस्य कुले जातः शन्तनुः प्रतिपात्मजः ॥३३६॥

गङ्गापि धातुः शापेन पतन्ती वसुभिः पथि ।

वशिष्ठशापपतितैर्होमधेनुनिकारतः ॥३३७॥

स्वजन्मनेऽर्थिता जाता वधाय च महीं गता ।

स्वतीरोपवनोपान्ते विचचार सुलोचना ॥३३८॥

तत्र शन्तनुना गङ्गा सङ्गमं गजगामिनी ।

भेजे यथेष्टकरणप्रत्याख्यानधृतावधिम् ॥३३९॥

सा जातानवधीत्सप्त स्वून्स्वेच्छाविधायिनी ।

जातेऽष्टमे सुते राज्ञा निरुद्धा प्रययौ दिवम् ॥३४०॥

देवव्रताख्यः स शिशुर्दिवि देवैः कृतव्रतः ।

सर्वविद्यापगाम्भोधिर्ववृधे वसुरष्टमः ॥३४१॥

दृष्ट्वा कदाचित्कालिन्दीकूले कुवलयेक्षणाम् ।

शन्तनुर्दाशतनयां तत्पितुर्याचकोऽभवत॥३४२॥

गाङ्गेयस्त्वत्सुतः क्ष्माभृद्दौहित्रो मे न राज्यभाक।

इत्युक्त्वा न ददौ दाशस्तस्मै सत्यवतीं सुताम् ॥३४३॥

देवव्रतः पितुर्ज्ञात्वा तीव्रस्मरशरव्यथाम् ।

गत्वा ययाचे दाशेशं तनयां विनयोन्नतः ॥३४४॥

दौहित्रवंशराज्यार्थी स सुतां न ददौ यदा ।

तदा राज्ये विवाहे च गाङ्गेयः समयं व्यधात॥३४५॥

भीषणीयप्रतिज्ञात्वाद्भीष्मोऽयमिति खे चिरम् ।

विचचारोदिताश्चर्यं खेचरोच्चारितं वचः ॥३४६॥

आनीतामथ भीष्मेण कन्यामासाद्य शन्तनुः ।

परितोषाद्ददौ तस्मै स्वच्छन्दनिधनं वरम् ॥३४७॥

कालेन जनयित्वाथ पुत्रं चित्राङ्गदाभिधम् ।

तसां विचित्रवीर्यं च शन्तनुस्तनुमत्यजत॥३४८॥

ततश्चित्राङ्गदो राजा गन्धर्वेण प्रमाथिना ।

चित्राङ्गदेन समरे नामद्वेषान्निपातितः ॥३४९॥

शिशोर्विचित्रवीर्यस्य प्राप्तराज्यश्रियः कृते ।

जहार काशीराजस्य भीष्मः कन्याः स्वयंवरे ॥३५०॥

भ्रात्रे विचित्रवीर्याय हस्तिनापुरमेत्य सः ।

त्यक्त्वा साल्वोत्सुकामम्बामम्बिकाम्बालिके ददौ ॥३५१॥

राजचूततरौ तस्मिन्नवयौवनमाधवे ।

कान्तालतावलयिते यातिते कालदन्तिना ॥३५२॥

विच्छिन्ने शन्तनोर्वंशे तत्पुत्रक्षेत्रजार्थिना ।

भीष्मेण प्रेरिता साध्वी प्राह सत्यवती शनैः ॥३५३॥

कानीनस्तनयो मेऽस्ति तत्तु कामात्पराशरात।

सञ्जातो यमुनाद्वीपे कृष्णद्वैपायनो मुनिः ॥३५४॥

तं स्मरामि सुतक्षेत्रपुत्रोत्पत्त्यै तपोनिधिम् ।

उक्त्वैति सा भीष्ममते तं सस्मार स चाययौ ॥३५५॥

अम्बाश्वश्र्वा विसृष्टाथ तेजोराशिं विलोक्य तम् ।

निमीलिताक्षी तद्दृष्टिस्पृष्टा गर्भं समाददे ॥३५६॥

अन्धोऽक्षिमीलनात्सूनुर्भावीत्युक्ते महर्षिणा ।

द्वितीयं जनयापत्यमिति माता जगाद तम् ॥३५७॥

भयपाण्डुरवक्त्रान्या लेभे गर्भं मुनेर्दृशा ।

अप्रसूतिः सुतः पाण्डुर्भवितेत्यभ्यधान्मुनिः ॥३५८॥

तस्यां भयाद्विसृष्टायां शूद्रायां गर्भसम्भवे ।

धर्मावतारमुक्त्वास्याः पुत्रं प्रायान्महामुनिः ॥३५९॥

जातेऽन्धे धृतराष्ट्रेऽथ पाण्डौ च भुजशालिनि ।

माण्डव्यशापभूर्धर्मः शूद्रायां विदुरोऽभवत॥३६०॥

धृतराष्ट्राय गान्धारीं सुबलस्तनयां ददौ ।

कुन्तिभोजसुतां कुन्तीं पाण्डुर्माद्रीमावाप च ॥३६१॥

युवा दिग्विजयी पाण्डुर्मृगयाव्यसनी वने ।

मृगरूपरतासक्तमवधीत्किन्दमं मुनिम् ॥३६२॥

भविष्यसि त्वं दयितारतिपर्यन्तजीवितः ।

तेनेति शप्तस्त्यक्तश्रीर्ययौ पाण्डुस्तपोवनम् ॥३६३॥

ततः पुत्रशतं लेभे गान्धारी तुल्यगर्भजम् ।

ज्येष्ठो दुर्योधनस्तेषां तस्य दुःशासनोऽनुजः ॥३६४॥

कुन्ती मुनिवरावाप्तमन्त्रा भतुरनुज्ञया ।

धर्मानिलेन्द्रानाहूय वने पुत्रानजीजनत॥३६५॥

युधिष्ठिरं भीमसेनमर्जुनं च सुरोचितान।

सपत्न्या दत्तमन्त्रा च माद्री प्रापाश्विनौ यमौ ॥३६६॥

स्नातां पुष्पोच्चये माद्रीं विलोक्य कुसुमागमे ।

आलिङ्ग्यानङ्गसङ्गेऽभूत्पाण्डुः शापादजीवितः ॥३६७॥

प्रयाते त्रिदिवं पाण्डौ पाण्डुपुत्राः पितृव्यजैः ।

वृद्धिआगता धार्तराष्ट्रैः सह दुर्योधनादिभिः ॥३६८॥

भीष्मः पितामहस्तेषां चापाचार्यं कृपं व्यधात।

द्रोणं च सर्वशिष्यस्य शिष्यं रामस्य धन्विनः ॥३६९॥

अश्वत्थामा प्रियः सूनुर्द्रोणस्य तनयोऽभवत।

यथार्जुनः समतास्त्रविद्याविमलदर्पणः ॥३७०॥

कन्यायां गूढजन्मा यः कर्णः कुन्त्यां विवस्वतः ।

प्रयातः सूतपुत्रत्वमस्त्राणि प्राप भार्गवात॥३७१॥

संस्पर्धयार्जुनरणाह्वानधीरोऽस्त्रदर्शने ।

नीतस्तत्प्रतिमल्लत्वात्कौरवेणाङ्गराजताम् ॥३७२॥

ततः कर्णेन संमन्त्र्य भ्रात्रा दुःशासनेन च ।

दुर्योधनः पाण्डवानां धियं गूढवधे व्यधात॥३७३॥

ते तेन विहिते दीप्ते जतुवेश्मनि निर्गताः ।

विदुरेण रहः स्नेहान्निर्दिष्टबिलनिर्गमाः ॥३७४॥

युधिष्ठिरार्जुनौ कुन्तीं वहन्भीमो महाबलः ।

नकुलं सहदेवं च विवेश निशि काननम् ॥३७५॥

तत्रोग्रविग्रहं हत्वा हिडिम्बं राक्षसेश्वरम् ।

भीमस्तदनुजां भेजे हिडिम्बां दिव्यरूपिणीम् ॥३७६॥

जाते घटोत्कचे तस्याः पुत्रे भीमपराक्रमे ।

एकचक्रां पुरीं जग्मुः प्रच्छन्नाः पाण्डुनन्दनाः ॥३७७॥

प्रजाक्षयक्षमस्तत्र राक्षसोऽभूद्बकाभिधः ।

यस्मै राजान्नशकटं प्राहिणोत्सनरं सदा ॥३७८॥

स्थिता विप्रगृहे कुन्ती सहभिक्षाशनैः सुतैः ।

बकवारे दिव्जस्याप्ते भीमं तद्दययादिशत॥३७९॥

व्रजन्भीमोऽन्नशकटं भुञ्जानः क्रोधसम्मुखम् ।

बकं हत्वा द्विजगृहं विवेशालक्षितो निशि ॥३८०॥

अथ दूरपथायातैः कथितं पथिकद्विजैः ।

नानाकथाप्रसङ्गेन शुश्रुवुः पाण्डुनन्दनः ॥३८१॥

पाञ्चाल्यो द्रुपदः पूर्वं द्रोणस्य सुहृदः शिशुः ।

व्यधाद्दास्यामि ते प्राप्तराज्यार्धमिति संविदम् ॥३८२॥

द्रोणेन प्राप्तराज्योऽथ सोऽर्थितः प्रददौ न तत।

भिक्षाभुग्ब्राह्मणो राज्ञः कथं मित्रमिति ब्रुवन॥३८३॥

इति द्रोणः कृतस्तेन राज्ञा भग्नमनोरथः ।

अर्जुनेन रणे बद्धं तं राज्यार्धमदापयत॥३८४॥

ततस्तेनावमानेन पुत्रं द्रोणवधक्षमम् ।

अभिचारोग्रयागेन द्रुपदः सममाप्तवान॥३८५॥

यागाग्निमध्याज्जातोऽस्य धृष्टद्युम्नाभिधः सुतः ।

कृष्णा च कन्यका यस्याः प्रत्यासन्नः स्वयंवरः ॥३८६॥

वयं तत्रैव गच्छामः सर्वराजसमागमे ।

प्राप्तुं प्रतिग्रहाभ्यर्चामित्युक्त्वा प्रययुर्द्विजाः ॥३८७॥

ततः पाञ्चालनगरं व्रजन्तः पाण्डवा निशि ।

गन्धर्वराजं ददृशुर्गङ्गाम्भसि विहारिणम् ॥३८८॥

विवस्त्रान्तःपुरवधूदर्शनक्रुद्धमर्जुनः ।

व्याधाद्दग्धरथं युद्धे तमाग्नेयास्त्रतेजसा ॥३८९॥

युधिष्ठिरेण कृपया रणे रक्षितजीवितः ।

सख्यं किरीटिना कृत्वा जितश्चित्ररथो ययौ ॥३९०॥

ततः प्रभाते प्रच्छन्नाः पाण्डवाः विप्ररूपिणः ।

प्रविश्य पाञ्चालपुरं कुम्भकारगृहे स्थिताः ॥३९१॥

इत्युक्त्वा नारदे याते सङ्कर्षणजनार्दनौ ।

जग्मतुर्लक्ष्यभेदाङ्कं द्रष्टुं कृष्णास्वयंवरम् ॥३९२॥

तौ पाञ्चालपुरं प्राप्य सर्वराजसमागमे ।

पूज्यमानौ विविशतुः स्वयंवरसभागृहम् ॥३९३॥

हेमासनोपविष्टेषु द्रौपदी सर्वराजसु ।

जगज्जयपातकेव कन्दर्पस्य समाययौ ॥३९४॥

राधावेधपणे तस्मिन्भुजलभ्ये स्वयंवरे ।

अशक्ताः पार्थिवाः सर्वे ययुर्लज्जानिलीनताम् ॥३९५॥

विलक्षेषु क्षितीशेषु द्विजमध्यादथोत्थितः ।

विद्ध्वा धनञ्जयो लक्ष्यं क्षितौ क्षिप्रमपतयत॥३९६॥

हारं कण्ठे विनिक्षिप्य द्रौपद्या फाल्गुने वृते ।

युद्धोद्धताः समुत्तस्थुः क्रुद्धा सर्वे क्षितीश्वराः ॥३९७॥

जित्वाथ शल्यकर्णादीन्वीरान्भीमधनञ्जयौ ।

पुरः कृष्णां समादाय ययतुर्भ्रातृभिः सह ॥३९८॥

भिक्षेवोपनता कृष्णा सहेयं भुज्यतामिति ।

चक्रुस्ते शासनान्मातुः सहभोगाय संविदम् ॥३९९॥

रामकृष्णौ निशि स्वैरं कुम्भकारगृहे स्थितान।

पाण्डवानेत्य सानन्दौ प्रेम्णा सम्भाष्य जग्मतुः ॥४००॥

अन्विष्य द्रुपदस्तेषां विज्ञायाधर्मनिश्चयम् ।

कृष्णायाः बहुपत्नीत्वं विरुद्धं नाभ्यमन्यत ॥४०१॥

ततस्तं भगवान्व्यासः समभ्येत्यावदन्मुनिः ।

पञ्चेन्द्राः समदाः पुर्वं क्रुद्धा बद्धा पिनाकिना ॥४०२॥

त एव पाण्डवा जाताः स्वर्गश्रीस्तव चात्मजा ।

तेषामेकैव सा पत्नी नैवायं धर्मसङ्करः ॥४०३॥

इत्युक्त्वा मुनिना दत्तदिव्यदृष्टिर्नरेश्वरः ।

सत्यं विज्ञाय तत्सर्वं तद्विवाहममन्यत ॥४०४॥

ज्ञात्वा जतुगृहान्मुक्तान्पाण्डवाप्राप्तसंश्रयान।

हस्तिनापुरमानाय्य धृतराष्ट्रोऽभ्यपूजयत॥४०५॥

इन्द्रप्रस्थेऽभिषिक्तोऽथ तेन राजा युधिष्ठिरः ।

गुणैः श्रियं श्रिया धर्मं धर्मेण प्राप्तवान्यशः ॥४०६॥

निर्दिष्टां नारदेनाथ मुनिना भेदभीरुणा ।

भूतये पाण्डवाश्चक्रुर्मर्यादां दृढनिश्चयाः ॥४०७॥

अन्तःपुरे भ्रातरं यः पश्येत्कृष्णासखं रहः ।

अविश्रान्तः स तीर्थानि व्रजे द्वादशवत्सरीम् ॥४०८॥

चौरात्तं गोगणं विप्राक्रन्दाकृष्टस्ततोऽर्जुनः ।

आजहार समादाय धर्मजान्तःपुराद्धनुः ॥४०९॥

स्मृत्वाथ संविदं पार्थस्तीर्थार्थी जाह्नवीजले ।

मज्जन्नुलूपीं पाताले नागकन्यामवाप्तवान॥४१०॥

जनयित्वा सुतं तस्यामिरावन्तं जगाम सः ।

नगरं मणिपूराख्यं चित्रवाहनभूपतेः ॥४११॥

प्राप्य तस्य सुतां कन्यां पार्थः पृथुललोचनाम् ।

चित्राङ्गदां सुतं तस्यां बभ्रुवाहनमाप्तवान॥४१२॥

सर्वतीर्थाप्लुतः प्राप्य प्रभासं श्वेतवाहनः ।

रैवताचलयात्रायां प्राप वृष्णिसमागमम् ॥४१३॥

अर्जुनोऽथ धृतोत्कण्ठः शैलारोहसमुत्सवे ।

उत्साहोच्छलितं चेतः सानुगस्य हरेर्व्यधात॥४१४॥

तत्र कृष्णानुजां दृष्ट्वा सुभद्रां कामकौमुदीम् ।

कन्यामनुमतेर्शौरेर्जहार श्वेतवाहनः ॥४१५॥

युद्धोद्धतान्वृष्णिवीरान्परिसान्त्व्य जनार्दनः ।

निःसङ्ख्यं द्रविणं दातुमर्जुनाय ययौ स्वयम् ॥४१६॥

इन्द्रप्रस्थमथासाद्य सुभद्रासहितोऽर्जुनः ।

प्रणम्य धर्मजं भेजे कृष्णेन सहितः सुखम् ॥४१७॥

अभिमन्युं सुभद्रायां पार्थः पुत्रमजीजनत।

द्रौपदी प्रतिविन्ध्याद्यान्पतिभ्यः पञ्च चात्मजान॥४१८॥

ततः कदाचिद्यमुनाजलकेलिविहारिणम् ।

सकृष्णमर्जुनं विप्ररूपः प्राह हुताशनः ॥४१९॥

उचितं दीयतां मह्यं भवद्भ्यां भोजनं हितम् ।

अर्थिनामर्थनाबन्ध्या न भवन्ति भवद्विधाः ॥४२०॥

श्वेतकेर्नृपतेः पूर्वं यज्ञे द्वादशवर्षिके ।

अच्छिन्नाज्यभरेणाहमनलो जडतां गतः ॥४२१॥

वनं स्वास्थ्याय सत्वाढ्यं दग्धुमिच्छामि खाण्डवम् ।

रक्षतीन्द्रः सुहृन्मेघैस्तक्षस्यास्पदं हि तत॥४२२॥

व्यस्तमेघौघविघ्नोऽहं भवत्सायकसञ्चयैः ।

अखण्डः खाण्डववनं ज्वलाम्येतन्ममाशनम् ॥४२३॥

इति वह्निर्वदन्नर्थी ताभ्यामङ्गीकृतेप्सितः ।

धनुः पार्थाय गाण्डीवं ददौ चक्रं च चक्रिणे ॥४२४॥

तद्दत्तं रथमारुह्य तदीयाक्षयसायकः ।

हरिणा सह संनद्धः किरीटी खाण्डवं ययौ ॥४२५॥

अग्नौ प्रज्वलिते वराहमहिषव्याघ्रद्विपद्वीपिनां

निष्पीतायुषि गाढलीढगगने दैत्यातिदेहद्रुहि ।

रुद्धे मेघजलेऽर्जुनास्त्रपटलैर्युद्धोद्धतं वज्रिणं

विष्णुः सायकवर्षीणं विमुखतां बाणैर्निनायाक्षयैः ॥४२६॥

सुतमथ मयलीलं तक्षकस्याश्वसेनं

जठरमपि जनन्याः सम्प्रविश्य द्रवन्तम् ।

अकृत दिवि किरीटी पत्रिणा खण्डपुच्छ

भयमपि शरणाप्तं चक्रिभीतं ररक्ष ॥४२७॥

ततः कृष्णाज्ञया दिव्यां सभां मणिमयीं मयः ।

विदधे धर्मपुत्रस्य प्राणरक्षाप्रतिक्रियाम् ॥४२८॥

तस्यां सभायामाश्चर्यनलिन्.ईं निर्ममे मयः ।

नीलरत्नोत्पलवतीं हेमाब्जां स्फटिकोदकाम् ॥४२९॥

सभासीनमथाभ्येत्य धर्मजं नारदोऽवदत।

राजन्न लोकपालानां त्वत्समासदृशी सभा ॥४३०॥

यजस्व राजसूयेन कुरुष्व सफलां श्रियम् ।

इति त्वामवदत्पाण्डुः पिता शक्रसभास्थितः ॥४३१॥

इत्युक्त्वा नारदे याते राजसूयमनोरथम् ।

अकुण्ठत्कण्ठया राजा वैकुण्ठाय न्यवेदयत॥४३२॥

कृष्णस्तमूचे श्लाघ्येषा धर्मधीः किन्तु मागधे ।

न जीवति जरासन्धे क्रतुः कर्तुं न शक्यते ॥४३३॥

रुद्रयागोपहाराय तेन रुद्धा गिरिव्रजे ।

षडशीतिर्नृपतयस्तस्य शेषाश्चतुर्दश ॥४३४॥

शरीरार्धद्वयं जातं जरा निशि निशाचरी ।

सन्धाय विदधे बालं जरासन्धं तमुक्तटम् ॥४३५॥

तत्सन्निरोधविश्वस्ताः सन्त्यज्य मथुरां वयम् ।

विधाय द्वारकां दुर्गां पश्चिमाब्धितटे स्थिताः ॥४३६॥

इति स्वैरं ब्रुवाणेन नृपः संमन्त्र्य शौरिणा ।

व्यादिशन्मागधवधे भीमपार्थौ भुजाविव ॥४३७॥

ततः स्नातकवेषेण प्रच्छन्नछत्रवृत्तयः ।

जरासन्धपुरीं जग्मुः कृष्णभीमधनञ्जयाः ॥४३८॥

तत्र त्रयोदशाहानि युयुधाने भुजायुधौ ।

वीरौ भीमजरासन्धौ श्रान्तोऽभून्मागधस्ततः ॥४३९॥

ततः सन्धिं द्विधा कृत्वा हते भीमेन मागधे ।

मुमोच कृष्णः क्षितिपान्यज्ञागमनसंविदा ॥४४०॥

भीमः किरीटी नकुलः सहदेवश्च दिग्जये ।

आजहुर्विपुलं वित्तं राज्ञे यज्ञभरक्षयम् ॥४४१॥

कृतेषु शैलतुल्येषु रत्नकाञ्चनराशिषु ।

राजसूयसमारम्भः प्रावर्तत महीपतेः ॥४४२॥

प्राप्ता निमन्त्रितास्तस्मिन्भीष्मद्रोणादयः क्रतौ ।

धृतराष्ट्रः सविदुरः सामात्यश्च सुयोधनः ॥४४३॥

अशेषदेवर्षिभृते सर्वराजमये मखे ।

अर्ध्यार्चितं हरिं सेहे शिशुपालो न भूपतिः ॥४४४॥

तस्याधिक्षेपदक्षस्य क्ष्मापतेः क्षयलक्ष्मणा ।

न्यपातयत्क्षितौ क्षिप्रं चक्रेणाधोक्षजः शिरः ॥४४५॥

क्रतौ समाप्ते यातेषु महर्षिषु नृपेषु च ।

तस्थौ दुर्योधनस्तत्र शकुनिश्चास्य मातुलः ॥४४६॥

पद्मिन्यां विहरन्वारिशङ्कया स्फाटिके जले ।

चरन्नुत्क्षिप्तवसनः सत्याम्भसि ममज्ज सः ॥४४७॥

तस्य स्खलितमालोक्य हर्म्यस्था राजवल्लभाः ।

जहसुर्भीमसेनश्च बभूवाङ्कुरितस्मितः ॥४४८॥

लज्जावमानमलिनः कौरवः स्वपुरं व्रजन।

पृष्टः शकुनिना प्राह ग्लानिवैवर्ण्यकारणम् ॥४४९॥

धर्मसूनोर्मखे सा श्रीस्ते भूपालाः करप्रदाः ।

सङ्ख्यातीतं च तद्दानं मर्मशल्यायते मम ॥४५०॥

पद्मिन्यामुपहासो मे पद्मस्येव हिमाशिनः ।

पतितः क्षीयते जाने न शरीरक्षयं विना ॥४५१॥

इति प्रलापी शोकोष्णं द्वेषावेशात्सुयोधनः ।

वार्यमाणः शकुनिना न्यवर्तत न दुर्मतिः ॥४५२॥

परोत्कर्षद्वेषः खरखदिरचूर्णानलनिभश्

चुतश्चित्ते दाहं दिशति निशितक्लेशमसताम् ।

परोत्साहे चन्द्रप्रचयसचिवः किं च महताम्

अनन्तः सन्तोषश्चरति हृदये चन्दनरसः ॥४५३॥

ततः स धृतराष्ट्राय विवर्णः पाण्डुरः कृशः ।

निवेदितः शकुनिना तं द्यूताज्ञामयाचत ॥४५४॥

कृच्छ्रात्कृताभ्युपगमः स पित्रा द्यूतकैतवे ।

अकारयन्मणिमयैः कुशलैः शिल्पिभिः सभाम् ॥४५५॥

स धर्मजं राजसूयसमयादनिवर्तनम् ।

आहूय विदधे छद्मद्यूतं शकुनिमायया ॥४५६॥

कूटाक्षक्षपिताशेषकोषसैन्यपरिच्छदः ।

पणं भ्रात्èनथात्मानं कृष्णां च विदधे नृपः ॥४५७॥

दुःशासनाकराकृष्टकेशीमथ रजस्वलाम् ।

कृष्णां द्यूतजितां दासीमानिनाय सुयोधनः ॥४५८॥

तत्कोपादकरोद्भीमः प्रतिज्ञामूरुभञ्जने ।

युधि दुर्योधनस्यासृक्पाने दुःशासनस्य च ॥४५९॥

वने द्वादशवर्षाणि निवासाय पणे कृते ।

त्रयोदशे तथाज्ञाते विजिताः पाण्डवाः ययुः ॥४६०॥

हारार्हे तनुचीनपट्टपवनत्वङ्गत्तरङ्गोद्भवे

धृत्वाङ्गे हरिचन्दनेन्दुमृगजाभ्यङ्गे कुरङ्गत्वचम् ।

कृत्वा रत्नकिरीटधाम्नि च जटा जग्मुर्वनं पाण्डवा

निःसत्या भ्रमयन्ति पण्यवनिताप्रेमोपमाः सम्पदः ॥४६१॥

स्खलद्विद्युल्लेखाङ्कुरमुखमयूखोपमसुखाः

श्रियश्चापाकर्षोच्चलितहरिणीवेगगमनाः ।

विवाहोत्साहाप्ताः क्षणमिव सुहृद्बान्धवजना

न संसारे स्वप्नभ्रमपरिचये किंचिदचलम् ॥४६२॥

ततः स्तुतिप्रसन्नार्कनिर्दिष्टाक्षयभोजनैः ।

द्विजपूजाजुषस्तस्थुः काम्यके पाण्डवा वने ॥४६३॥

धृतराष्ट्रं परित्यज्य भ्रातृजच्छद्मखेदवान।

विदुरः काम्यकं यातः प्रार्थितः पुनराययौ ॥४६४॥

सोऽवदद्भ्रातरं राजन्पुत्रस्नेहवता त्वया ।

कुललक्ष्मीलतामूले कुठारः कठिनोऽर्पितः ॥४६५॥

यत्प्राह भगवान्व्यासः पथ्यं तन्न कृतं हितम् ।

श्वभ्रसुप्ता प्रबुध्यन्ते न निपातव्यथां विना ॥४६६॥

बन्धुसन्ध्यर्थनाभङ्गकोपशापः क्षयक्षमः ।

मैत्रेयमुनिना दत्तः कष्टं न गणितस्त्वया ॥४६७॥

भीमोद्भीमं भयं शङ्के येन रावणसंनिभः ।

स क्रूरकर्मा किर्मीरः कानने राक्षसो हतः ॥४६८॥

विदुरेणेत्यभिहितं नामन्यत महीपतिः ।

दैवादिष्टनिपातानां मिथ्यैवालम्बनक्रिया ॥४६९॥

वने पाण्डुसुतान्दृष्ट्वा क्रुद्धः कौरवदुर्नयात।

अभिमन्युं सुभद्रां च समादाय हरिर्ययौ ॥४७०॥

भीष्मदोर्णास्त्रमाहात्म्यचिन्ताकुलनृपाज्ञया ।

अथास्त्रार्थी ययौ पार्थस्तपसे तुहिनाचलम् ॥४७१॥

तीव्रं तपस्यतस्तस्य सत्त्वसारपरीक्षकः ।

देवः किरातरूपेण त्रिपुरारिः समाययौ ॥४७२॥

एकसूकरनिर्भेदस्पर्धाबन्धविरुद्धयोः ।

युद्धमत्युद्धतं कूटकिरातार्जुनयोरभूत॥४७३॥

स्मरारिशबरेणाथ ग्रस्तशस्त्रह्प्रमाथिना ।

युयुधे बाहुयुद्धेन धैर्यराशिर्धनञ्जयः ॥४७४॥

निपीड्य चण्डीपतिना निश्चेष्टः पतितः क्षितौ ।

गाण्डीवधन्वा प्रत्यक्षं निरीक्ष्य त्र्यक्षमब्रवीत॥४७५॥

दर्पोद्धतत्रिपुरकाननपावकाय

भक्तार्तितापतुहिनद्युतिमण्डलाय ।

संसारघोरतिमिरोत्कटभास्कराय

तुभ्यं त्रिधामशबलाय नमः शिवाय ॥४७६॥

इति स्तुतिकृतानन्दसुधासम्पूर्णमानसात।

अस्त्रं पाशुपतं तुष्टात्किरीटी प्राप धूर्जटेः ॥४७७॥

सम्प्राप्तलोकपालास्त्रः सहस्रतुरगं रथम् ।

शक्रप्रेषितमारुह्य विजयस्त्रिदिवं ययौ ॥४७८॥

प्रणम्य तत्र वृत्रारिं तद्गाढालिङ्गनातिथिः ।

तदासनार्धं तत्प्रीतिनिर्दिष्टं प्राप पाण्डवः ॥४७९॥

पार्थमिन्द्रासनार्धस्थं दृष्ट्वा शक्रगिरा मुनिः ।

तद्वृत्तान्तं ययौ वक्तुं लोमशः पाण्डवान्वनम् ॥४८०॥

प्राप्तपूजासनस्तेभ्यः स निवेद्यार्जुनोदयम् ।

तीर्थयात्राधृतोत्साहं विदधे धर्मनन्दनम् ॥४८१॥

नैमिषाद्येष्वथ स्नाताः सर्वतीर्थेषु पाण्डवाः ।

गन्धमादनशैलाङ्कं बदर्याश्रममाययुः ॥४८२॥

पवनप्रेरितं तत्र दिव्यपद्मं पुरश्च्युतम् ।

आदाय द्रौपदी भीमं कटाक्षेण निरैक्षत ॥४८३॥

अन्यपद्मार्थितां तस्य धीमान्विज्ञाय मारुतिः ।

ययौ सौरभमार्गेण धनदाध्युषितां दिशम् ॥४८४॥

स व्रजन्काञ्चनलतानिचयाचितवर्त्मना ।

दिदेश मददारिद्र्यं सिंहनादेन दन्तिनाम् ॥४८५॥

पादन्यासाद्भुतगिरेस्तस्य शब्देन विस्मितः ।

हनुमान्मार्गमाश्रित्य तस्थौ स्वल्पवपुः पुरः ॥४८६॥

सोल्परूपं कपिं दृष्ट्वा जानुसन्धिकृताननम् ।

चकारोत्सारणरवं धनं घट्टितदिक्तटः ॥४८७॥

शनैरुन्मील्य नयने तं जगाद प्लवंगमः ।

किमयं मदसंरम्भस्तव मिथ्यैव निर्जने ॥४८८॥

नादेन मां खेदयता विश्रान्तं रोगदुर्बलम् ।

दर्शितं कृशशूरेण भवता बत पौरुषम् ॥४८९॥

इतः परं न गन्तव्यं देशोऽयं सिद्धसेवितः ।

सर्वथा यदि गन्तासि पुच्छमुत्सार्य गम्यताम् ॥४९०॥

इत्युक्ते कपिना भीमस्तत्पुच्छोत्सारणाक्षमः ।

श्रान्तः पतन्मुखेनाधस्तमभाषत विस्मितः ॥४९१॥

को भवान्किमनन्तात्मा किं मेरुः किं हिमाचलः ।

मार्गं देहि न लङ्घ्यो हि देही देहितनुस्थितः ॥४९२॥

यदि न स्यात्तवान्तःस्थः परमात्मा सनातनः ।

साचलं लङ्घयेयं त्वां हनुमानिव सागरम् ॥४९३॥

श्रुत्वेतत्कपिना पृष्टः क एष हनुमानिति ।

भीमोऽस्मै हनुमद्वृत्तं भ्रातृत्वं च न्यवेदयत॥४९४॥

अहं स हनुमान्भीम तेनेत्युक्ते तदर्थितः ।

कपिः सूर्यपथावाप्तं दीप्तं वपुरदर्शयत॥४९५॥

संनिधानं करिष्यामि धनञ्जयरथध्वजे ।

इत्युक्त्वालिङ्गितस्तेन भीमः प्रायात्स विस्मयः ॥४९६॥

कुबेरनलिनीं प्राप्य भीमः कनकपङ्कजम् ।

जहार हेमपद्मानि हत्वा गुह्यककिङ्करान॥४९७॥

सानुगं स्वयमायातं जित्वा वैश्रवणं रणे ।

मणिमन्तं च तन्मित्रं हत्वा नक्तंचरेश्वरम् ॥४९८॥

द्रौपद्यै कनकाब्जानि दत्त्वा पवननन्दनः ।

मायाप्रच्छन्नमवधीद्यातुधानं जटासुरम् ॥४९९॥

अथ शक्ररथारूढः पार्थः पूर्णमनोरथः ।

आयातः पञ्चभिर्वर्षैः प्रणनाम युधिष्ठिरम् ॥५००॥

हतान्यवेदयत्सोऽस्मै हिरण्यपुरनिवासिनः ।

निवातकवचान्दैत्यान्स्वशौर्याख्यानलज्जितः ॥५०१॥

ओ)०(ओ

नहुषः

वने महानजगरः कदाचिदचलोपमः ।

बद्ध्वा भुजयुगे भीमं चक्रे निश्चेष्टविग्रहम् ॥५०२॥

संरुद्धभुजनिःस्पन्दभ्रातृदर्शनदुःखितम् ।

उवाचाजगरः प्रश्नं दारयेति युधिष्ठिरम् ॥५०३॥

को विप्रः किं च वेद्यं स्याद्ब्रूहि भीमस्य मुक्तये ।

भुजगेनेत्यभिहिते तं जगाद युधिष्ठिरः ॥५०४॥

क्षमा सत्यं शान्तिस्तरुणकरुणं यस्य च मनः

स शूद्रो विप्रस्त्वं प्रगुणगुणसङ्गेन भजते ।

द्विजोऽपि व्यर्थात्मा गुणविरहितः शूद्रसदृशः

कृतैः कण्ठे विप्रस्त्रिगुणगुणसूत्रैर्न भवति ॥५०५॥

सुखेन दुःखेन च वर्जितं यत्

तदेव वेद्यं विदितात्मधाम ।

शीतोष्णहीनप्रतिमैव यत्र

सन्तोषविश्राममयी प्रशान्तिः ॥५०६॥

धर्मजेनेत्यभिहिते मुक्त्वा भीमं भुजङ्गमः ।

अगस्त्यादिष्टशापान्तो नहुषस्त्रिदिवं ययौ ॥५०७॥

ओ)०(ओ

अथ पाण्डुसुतान्द्रष्टुं सहितः सत्यचामया ।

मार्कण्डेयदिभिः सार्धं मुनिभिः शौरिराययौ ॥५०८॥

नानाकथामृताख्यानैः स्थिते तत्राच्युते चिरम् ।

सत्यभामावदत्कृष्णामेकान्ते कृष्णवल्लभा ॥५०९॥

वश्यास्ते पतयः कृष्णे केनाराधनकर्मणा ।

कैर्द्रव्यमन्त्रसूत्राज्ञातिलकाञ्जनलेपनैः ॥५१०॥

ममोपदिश जानासि यत्किआचित्प्रीतिकारणम् ।

इत्युक्ते कृष्णकामिन्या श्रुत्वा कृष्णा जगाद ताम् ॥५११॥

अयुक्तमुक्तं सुभगे भवत्या धर्मवर्जितम् ।

वश्यदोषक्रिया स्त्रीणां भर्तृद्रोहार्हपातकम् ॥५१२॥

वश्यप्रयोगैर्योषिद्भिः कुष्ठापस्माररोगिणः ।

भग्नभाग्याश्च पतयो मूकान्धवधिराः कृताः ॥५१३॥

भक्तिश्चित्तग्रहः शीलं सतीनां भर्तृभेषजम् ।

इत्युक्ते लज्जया भेजे सत्यभामा निलीनताम् ॥५१४॥

ओ)०(ओ

यातेऽथ द्वारकां कृष्णे घोषयात्रापदेशवान।

पाण्डवानाययौ द्रष्टुं श्रीभ्रष्टान्धृतराष्ट्रजः ॥५१५॥

वने विहारिणस्तस्य तुल्यावरणकारणे ।

रणे बभूव संमर्दो गन्धर्वैः सैन्यदारणः ॥५१६॥

भग्नेषु कर्णमुख्येषु सानुजं कौरवेश्वरम् ।

बबन्ध गन्धर्वपतिश्चित्रसेनः शरार्दितम् ॥५१७॥

बद्धं सुयोधनं बन्धुधिया राजा युधिष्ठिरः ।

भीमपार्थौ विसृज्याजौ म्लानमानममोचयत॥५१८॥

अपि विस्मृतवैरेषु प्राणदानोपकारिषु ।

द्वेषदोषं न तत्याज पाण्डवेषु सुयोधनः ॥५१९॥

दृष्ट्वा चन्द्रं सकलजनतालोचनानन्दहेतुं

सद्यो वक्त्रद्युतिरलसतामेति पद्माकरस्य ।

नान्तःस्यूता चलति रिपुता किं च सङ्कोचभाजः

प्रायेणैते स्वजनविमुखाः श्रीमदान्धा भवन्ति ॥५२०॥

तेन तीव्रावमानेत्न राज्यत्यागनिबद्धधीः ।

स समाश्वासितोऽभ्येत्य दैत्यैः पातालवासिभिः ॥५२१॥

ओ)०(ओ

अत्रान्तरे पाण्डवेषु यातेषु मृगयारसात।

आययौ वनयात्रायां सिन्धुराजो जयद्रथः ॥५२२॥

स कृष्णामाश्रमे दृष्ट्वा सीतामिव दशाननः ।

जहार हारितमतिः कौर्णाक्रन्दिनीं बलात॥५२३॥

ततः प्रत्यागता दृष्ट्वा पाण्डवाः शून्यमाश्रमम् ।

ध्वजिनिईं च रजोग्रस्तगगनां समुपाद्रवत॥५२४॥

शराशनिविनिष्पष्टसैन्यानालोक्य पाण्डवान।

रथाज्जयद्रथः कृष्णां तत्याज ज्वलितामिव ॥५२५॥

अभिसृत्याथ भीमेन गृहीतं वधकम्पितम् ।

ररक्ष सिन्धुनृपतिं शरणाप्तं युधिष्ठिरः ॥५२६॥

पादेनालोडितं स्रस्तमुकुटं तस्य मारुतिः ।

क्षुरप्रेण प्रलपतश्चक्रे पञ्चसटं शिरः ॥५२७॥

रुद्रमाराध्य तपसा सैन्धवः फाल्गुनं विना ।

वरमेकदिनं प्राप पाण्डवावरणं रणे ॥५२८॥

ओ)०(ओ

अत्रान्तरे अर्जुनस्नेहात्कर्णमेत्य शतक्रतुः ।

ययाचे कवचं दिव्यं कुण्डले च शशिप्रभे ॥५२९॥

पित्रापि वारितोऽर्केण तस्मै वर्म सकुण्डलम् ।

एकवीरवधायास्मै शक्तिं वैकर्तनो ददौ ॥५३०॥

शूरा भवन्ति विदुषामपि नास्ति सङ्ख्या

पूर्णं वनं व्रजरतैर्विरलस्तु दाता ।

म्लानिं प्रयाति सितसत्त्वमयस्य यस्य

देहप्रधानसमयेऽपि न चित्तवृत्तिः ॥५३१॥

अरणीं हरिणेनाथ ब्राह्मणाय हृतां वने ।

जवेन जग्मुराहर्तुं धन्विनः पाण्डुनन्दनः ॥५३२॥

निर्जलारण्यतापार्तैरन्वेष्टुमथ तैः पयः ।

माद्रीसुतः प्रेषितोऽग्रे ददर्श विपुलं सरः ॥५३३॥

प्रश्नमुक्तिकृता पेयमन्यथा मेति स्वाद्वचः ।

श्रुत्वापि पाण्डवः पीत्वा तोयं तत्याज जीवितम् ॥५३४॥

क्रमान्माद्रीसुते पार्थे भीमे च प्रच्युते तटे ।

युधिष्ठिरः प्रश्नगिरं बभञ्ज गगनेरिताम् ॥५३५॥

निर्जीवः कः सजीवोऽपि योऽश्नात्येकोऽर्थिवर्जितः ।

खक्ष्माधिकौ कौ पितरौ किं लोलमनिलान्मनः ॥५३६॥

किमनन्तं नृणां चिन्ता धनं किमधिकं श्रुतम् ।

लाभात्किमुत्तमं स्वास्थ्यं किं सुखं चित्तनिर्वृतिः ॥५३७॥

सन्धिः स्थिरः कैः सुजनैः किं शोककृदहङ्कृतिः ।

किमैश्वर्यमलुब्धत्वं किं निःशल्यमकोपता ॥५३८॥

किं विषं याचनं श्राद्धकालः कः श्रोत्रियागमः ।

उच्यते पुरुषः कश्च भुवनव्यापि यद्यशः ॥५३९॥

इति प्रश्नोत्तरैस्तुष्टः पिता धर्मः क्षमापतेः ।

जीवयित्वानुजान्गुप्तिमज्ञातसमयेऽप्यदात॥५४०॥

ओ)०(ओ

विराटपर्व

अथ वनसमयान्ते गूढवासप्रवृत्ताः

प्रययुरजिनखिन्नाः पाण्डवा मत्स्यदेशम् ।

प्रगुणगुणानामापदो दैवदिष्टाः

सुरपतिसदृशानामप्यहो दुर्निवाराः ॥५४१॥

अथाभून्मत्स्यराजस्य राजराजशिरोमणेः ।

विराटस्य सभास्तारः कङ्कनामा युधिष्ठिरः ॥५४२॥

सूदस्तस्याभवद्भीमः क्ष्मापतेर्बल्लभाभिधः ।

गायत्यलिकुलैः कीर्तिं लोला यस्यालकाब्जिनी ॥५४३॥

श्रीकण्ठशबराकुण्ठकण्ठक्रमणकर्मठः ।

शण्ठाकृतिरभूज्जिष्णुर्नृत्तवृत्तिर्बृहन्नडः ॥५४४॥

मत्स्यपत्न्याः सुदोष्णायाः कृष्णा सैरिन्ध्रिकाभवत।

अभूतामश्विपुत्रौ च यमौ गोतुरगाधिपौ ॥५४५॥

इति ते तुरगाधीशसेव्याः सेवकतां ययुः ।

विश्वासः श्रीविलासेषु कस्यान्यस्य भविष्यति ॥५४६॥

अथायातं हतानेकमल्लं भूमिपतेः पुरः ।

मल्लं जीमूतनामानं मारुतिः क्रीडयावधीत॥५४७॥

सुदोष्णायाः प्रियो भ्राता कदाचिदथ कीचकः ।

विलोक्यान्तःपुरे कृष्णामभवत्काममोहितः ॥५४८॥

व्याजेन प्रेषितां स्वस्रा भयसम्भ्रमविद्रुताम् ।

कीचकस्तामभिद्रुत्य चकर्षं चरणाहताम् ॥५४९॥

सा सभामेत्य भूभर्तुरग्रे प्राह पराभवम् ।

राजापि कीचकस्नेहाच्चक्रे गजनिमीलितम् ॥५५०॥

ओ)०(ओ

भीमं महानसे सुप्तं सा प्रबोध्य तमभ्यधात।

बाष्पैः करतलस्पृष्टे क्षालयन्तीव वाससी ॥५५२॥

क्रुद्धेन तेन निर्दिष्टां सा समादाय संविदम् ।

कीचकस्याकरोत्प्रातः सईकेतं नाट्यवेश्मनि ॥५५३॥

रात्रौ पूर्वप्रविष्टोऽथ भीमः कीचकमागतम् ।

केसरीव द्विपं मत्तमवधीन्मूढकामुकम् ॥५५४॥

पतयो मम गन्धर्वाः कृष्णयेत्युदितं पुरा ।

तैरेव निहितं मेने प्रभाते कीचकं जनः ॥५५५॥

तस्य भ्रातृशतं देहसंस्काराय समुद्यतम् ।

कृष्णां चितानले क्षेप्तुमनयद्दुःखदायिनीम् ॥५५६॥

भीमस्तत्करुणाक्रन्दमाकर्ण्य क्रूरकोपवान।

शतं वृक्षप्रहारेण कीचकानामपातयत॥५५७॥

प्रेरितः कौरवेन्द्रोऽथ त्रैगर्तेन सुशर्मणा ।

हर्तुं कीचकहीनस्य विराटस्याययौ धनम् ॥५५८॥

संरुद्धे नगरे मत्स्यः पूर्वमेव सुशर्मणा ।

कङ्कवल्लभगोवाजिपत्तिभिः सह निर्ययौ ॥५५९॥

ततः प्रवृत्ते समरे मिथः सुभटसङ्क्षये ।

जवाद्विराटमहरत्सुशर्मा शरवर्षिणम् ॥५६०॥

भीमोऽभिसृत्य निष्पिष्टरथस्यास्य सुशर्मणः ।

पादेन मौलिमुन्मथ्य मत्स्यराजममोचयत॥५६१॥

त्रिगर्तकटके भग्ने सामात्यः कौरवेश्वरः ।

विराटगोधनं सर्वं जहारान्येन वर्त्मना ॥५६२॥

शूरशून्येऽथ नगरे विराटसुतमुत्तरम् ।

अभ्येत्य जगदुर्गोपाः कौरवैर्गोधनं हृतम् ॥५६३॥

सोऽब्रवीच्चौरचरितं कौरवं हन्म्यहं रणे ।

गुप्तं भीष्मकृपद्रोणकर्णमुख्यैर्महारथैः ॥५६४॥

किं तु मे सारथिर्नास्ति रणभारभरक्षमः ।

इत्युक्ते राजपुत्रेण द्रौपदी तमभाषत ॥५६५॥

उत्तरायाः स्वसुर्यस्ते नृत्ताचार्यो बृहन्नडः ।

स सारथिरभूत्पूर्वं खाण्डवे सव्यसाचिनः ॥५६६॥

अथोत्तरार्थितः पार्थ प्रतिपन्नरथग्रहः ।

चकार कवचाबन्धवैपरीत्यैर्जनस्मितम् ॥५६७॥

अथोत्तरे रथारूढे जवेनाश्वानचोदयत।

क्रीडायै कुरु वस्त्राणि जिष्णुरुत्तरयार्थितः ॥५६८॥

दृष्ट्वोत्तरः कौरवेन्द्रसैन्यं शस्त्रजलार्णवम् ।

निवर्तस्वेति भीभग्नस्त्राणार्थी पार्थमभ्यधात॥५६९॥

तमर्जुनोऽवदन्निन्द्यं क्षत्रियस्य पलायनम् ।

एकवारक्षये काये मरणं न पुनः पुनः ॥५७०॥

श्रुत्वैतत्कारतया रथमुत्सृज्य विद्रुतम् ।

आनिनायोत्तरं केशैः पश्चादाकृष्य फाल्गुनः ॥५७१॥

योत्स्येऽहं कुरुभिर्धैर्यं भजस्व भव सारथिः ।

अर्जुनोऽहं भवद्गेहे कङ्काद्याः पाण्डवाः स्थिताः ॥५७२॥

श्मशानान्तः शमीवृक्षस्कन्धे सन्त्यायुधानि नः ।

प्रयच्छ मम गाण्डीवमित्युवाच तमर्जुनः ॥५७३॥

उत्तराहृतमादाय धनुरास्फाल्य पाण्डवः ।

तत्प्रेरितरथस्तूर्णं विवेश कुरुवाहिनीम् ॥५७४॥

एकैकशः समस्तांश्च शराशनिघनागमः ।

भीष्मकर्णकृपद्रोणमुख्यानजयदर्जुनः ॥५७५॥

प्रस्वापनास्त्रसुप्तानां कुरूणामुत्तराकृते ।

जहार जिष्णुर्वासांसि यशांसीवाभिमानिनाम् ॥५७६॥

प्रत्याहृते गोधनेऽथ विजयेन जितारिणा ।

चक्रे विराटः पुत्रस्य सभायां विक्रमस्तुतिम् ॥५७७॥

बृहन्नडप्रभावेण पुत्रस्ते विजयोर्जितः ।

वदन्निति विराटेन प्रहतोऽक्षैर्युधिष्ठिरः ॥५७८॥

हेमपात्रे धृते रक्ते द्रौपद्या चक्रवर्तिनः ।

प्रविवेशार्चितः पौरैरवाप्नोन्नतिरुत्तरः ॥५७९॥

अक्षाभिवातरक्ताक्तललाटं वीक्ष्य धर्मजम् ।

स प्रसाद्य प्रयत्नेन निनिन्द कुकृतं पितुः ॥५८०॥

अज्ञातवाससमये पूर्णे पाण्डुसुतानथ ।

हृष्टः प्रकटतां यातान्विराटः समपूजयत॥५८१॥

तेषामभ्युदयं ज्ञात्वा प्राप्तेष्वखिलबन्धुषु ।

विराटस्तनयां प्रादादुत्तरामभिमन्यवे ॥५८२॥

ते कृष्णसात्यकिहलायुधकुन्तिभोज

पाञ्चालशैब्यमगधेशशिखण्डिमुख्यैः ।

सार्धं सभाभुवमुपेत्य विराटजुष्टां

प्रापुः श्रियं कनकविष्टरसंनिविष्टाः ॥५८३॥

अखण्डितान्पाण्डुसुतान्विज्ञाय कुरुभूपतिः ।

अलङ्घ्यशासनं दैवं मेने दलितपौरुषम् ॥५८४॥

तेषामक्षौहिणीः सप्त ज्ञात्वाथ समुपागताः ।

दुर्योधनः प्रविदधे भूपालबलसङ्ग्रहम् ॥५८५॥

पाण्डवार्थे समायातं पथि सम्मानभोजनैः ।

आराध्य तुष्टमहरत्स शल्यं मद्रभूपतिम् ॥५८६॥

द्वारकायां तथा कृष्णं सुयोधनधनञ्जयौ ।

तुल्यमभ्येत्य साहाय्यं ययाचाते रणोद्यमे ॥५८७॥

अक्षौहिण्या परिवृतं कृतवर्माणमच्युतः ।

दत्त्वा कुरुपतेर्भागमयोद्धा पाण्डवान्ययौ ॥५८८॥

वृतः सौबलहार्दिक्यभगदत्तजयद्रथैः ।

एकादशाक्षौहिणीभिः कौरवः प्रमदं ययौ ॥५८९॥

अत्रान्तरे रणारम्भसंशयाकुलिताशयम् ।

धृतराष्ट्रं समभ्येत्य प्रणम्योवाच सञ्जयः ॥५९०॥

अराज्यदानसन्धानदूतोऽहं तव शासनात।

गतः पाण्डुसुतान्द्रष्टुं लोभाभ्यासेन लज्जिता ॥५९१॥

मयोक्तं भवतोक्तं यत्प्रत्युक्तं यत्तु पाण्डवैः ।

देव वक्तास्मि तत्प्रातः सभायां भूभुजां पुरः ॥५९२॥

इत्युक्त्वा सञ्जये याते धृतराष्ट्रः स्वदुर्नयात।

तद्वाक्यशङ्काकुलितः प्राप निद्रादरिद्रताम् ॥५९३॥

प्रजागरगदास्वस्थं द्वाःस्थाहूतः सुखोज्झितम् ।

तमेत्य विदुरः प्राह सञ्जयोक्ताप्यसंशयम् ॥५९४॥

अयं ते सुमते कस्मान्निद्राद्रोही महाज्वरः ।

तापं नायान्ति निष्कामा निर्लोभा निर्भया अपि ॥५९५॥

त्यक्ताभिमानः सन्तोषी निर्द्वेषः शीलवान्क्षमी ।

दुःखैकसारे संसारे पञ्चैते सुखनिर्वृताः ॥५९६॥

लोभाभ्यासव्यसनसमयं चिन्तयाहन्ति निद्रां

स्वस्थः शेते प्रसृतचरणः किं तु निर्लोभ एव ।

लोभः पुंसामसमविषमः कृष्णवर्त्मा विधत्ते

तीव्रं तापं जनघनघनस्नेहसम्पूर्यमाणः ॥५९७॥

असेवाप्ता वृत्तिः खलपरिभवायासरहिता

वचः सत्यस्नातं परगुणगणोदीरणपरम् ।

अनुत्तानः पाणिः परघनकणस्पर्शविमुखः

प्रकृत्या निर्वैरं हृदयममलं यस्य स सुखी ॥५९८॥

राज्यार्धं भ्रातृपुत्रेभ्यः प्रयच्छ त्यज लुब्धताम् ।

बन्धुवैररजोदिग्धं प्रक्षालय धिया मनः ॥५९९॥

त्यजैकं कुमतिं पुत्रं संरक्ष सकलं कुलम् ।

गोनासदष्टमेकाङ्गं त्यज्यते जीविताप्तये ॥६००॥

विदुरेणेत्यभिहिते धृतराष्ट्रस्तमब्रवीत।

युक्तमुक्तं त्वया किं तु त्यक्तुं शक्नोमि नात्मजम् ॥६०१॥

हेलास्थलीकृताम्भोधिस्तृणीकृतहिमाचलः ।

स्वातन्त्र्यचित्रचरितः केन वा लङ्घ्यते विधिः ॥६०२॥

श्रुतं न मृत्युरस्तीति मया किल वचः पुरा ।

तद्ब्रूहीति क्षितीशेन पृष्टस्तं विदुरोऽवदत॥६०३॥

स्वयं वक्तुं न युक्तं मे राजन्नुपनिषत्पदम् ।

सनत्सुजातो योगीन्द्रः सर्वं ते कथयिष्यति ॥६०४॥

अभिधायेति विदुरस्तं सस्मार स चाययौ ।

प्राप्तपूजासनः पृष्टः क्ष्माभुजेति तमभ्यधात॥६०५॥

राजेन्द्रभृतां मृत्युः क्रोधः स्ववदनोदितः ।

येनाहतश्च हन्ता च मर्मदाहेन शोचितः ॥६०६॥

रागद्वेसादयो दोषा जनानां जन्मकारणम् ।

जन्मैव मृत्युः संसारे नास्ति मृत्युरजन्मनाम् ॥६०७॥

न मुक्तिर्वेदवादेन देहान्ते स पलायते ।

वीणावंशेषु भग्नेषु न क्वचित्तिष्ठते ध्वनिः ॥६०८॥

आत्मप्रत्यवमर्शेन पुनर्जन्म न विद्यते ।

आत्मप्रकाशं पश्यन्ति योगिनस्तं सनातनम् ॥६०९॥

इत्युक्त्वान्तर्हिते तस्मिन्योगीन्द्रे तेजसां निधौ ।

राजा राजसभां प्रातर्भेजे भीष्मादिभिः ॥६१०॥

आहूतः सञ्जयस्तत्र पाण्डवोक्तिं न्यवेदयत।

श्रूयतामविरुद्धैर्वा क्रुद्धैर्वा तैरुदाहृतम् ॥६११॥

स्वं राज्यं प्रददाति यद्य अवनिपस्तत्किं हतैर्बान्धवैर्

द्यूते किं तु कृतां न विस्मरति तां भीमः प्रतिज्ञां निजाम् ।

पाणिः किं च पितृव्यपादविनतौ चापे च धावत्ययं

तुल्यं चित्तममन्युममन्युशबलं सन्धौ च युद्धे च नः ॥६१२॥

श्रुत्वैतद्धृतराष्ट्रेण तनयक्षयभीरुणा ।

भीष्मोद्यैश्चार्थितः सन्धिं बुबुधे न सुयोधनः ॥६१३॥

अत्रान्तरे लोकगुरुर्लोकप्रत्यायनोद्यतः ।

सन्ध्यर्थी कौरवान्कृष्णः स्वयमेव समाययौ ॥६१४॥

भक्त्या पुरः समायातैर्भीष्मद्रोणकृपादिभिः ।

सहितः सः विवेशाथ धृतराष्ट्रस्य मन्दिरम् ॥६१५॥

हृष्टेन पूजितस्तेन प्रणयेन निमन्त्रितः ।

स्नेहे विपदि वा भोक्तुं युक्तमित्याह केशवः ॥६१६॥

विदुरस्य गृहे भुक्त्वा नीत्वा तत्कथया क्षपाम् ।

प्रभाते राजभिर्जुष्टां प्रविवेश सभां हरिः ॥६१७॥

हेमासनोपविष्टेऽथ सामात्ये कौरवेश्वरे ।

भेजे रत्नासनं शौरिः सहायातैर्महर्षिभिः ॥६१८॥

अथ प्रथमजीमूतश्यामः सामसुधामयीम् ।

उज्जगार गिरं स्निग्धगम्भीरां गरुडध्वजः ॥६१९॥

कौरवेन्द्र स्वपुत्रास्ते भ्रातृपुत्रास्तु पाण्डवाः ।

सदृशाः किं त्वया तेषां भेदात्कलिरुपेक्षितः ॥६२०॥

भवान्विद्यासिन्धुस्तव सुमतिदाता च विदुरः

प्रणेता भीष्मोऽयं गुरुरपि भरद्वाजतनयः ।

अहो तत्राप्येषा प्रभवति मतिर्दुर्नयमयी

न विद्मः कस्यायं कुकृतपरिपाकस्य विभवः ॥६२१॥

कलङ्कं या दत्ते प्रसरदपवादास्पदतया

सुहृद्भिर्नैराश्यात्कृतमुखविकारैः परिहृता ।

अभोग्या बन्धूनां कृशविवशभृत्यार्थिविफला

सशापा सा सम्पद्विपदिव जनोद्वेगजननी ॥६२२॥

यद्वृत्तं खलकेलिकैतवकलिक्लेशेन कालुष्यकृच्

चित्ते तत्किल सङ्कलय्य सकलं लोकक्सयाशङ्किभिः ।

सन्धिर्वैररजोविरामविमलैरभ्यर्थ्यते पाण्डवैर्

ग्रामैः किं च कुशस्थलप्रभृतिभिः प्रीत्यार्पितैः पञ्चभिः ॥६२३॥

कौस्तुभाभरणेनेति भरतान्वयभूतये ।

सभ्यानां भीष्ममुख्यानां भाषितेऽभिमते सताम् ॥६२४॥

प्रबोधितोऽपि मुनिभिः कण्वभार्गवनारदैः ।

मदनिद्रालसः प्राह सन्धिद्वेषी सुयोधनः ॥६२५॥

मया सूच्यग्रमात्रापि न त्याज्या पाण्डवेषु भूः ।

किं मिथ्यानीतिचिन्ताभिर्देवाधीना विभूतयः ॥६२६॥

भवति भिषगुपायैः पथ्यभुङ्नित्यरोगी

धनधरणविनिद्रश्छिद्रगोप्ता दरिद्रः ।

अनयचयविधायी निश्चलैश्वर्यधैर्यः

स्ववशनित्यशक्तेः शासनेनैव धातुः ॥६२७॥

इत्युक्त्वोत्थाय दर्पान्धः कर्णेन सह कौरवः ।

समान्तराद्विनिर्गत्य बन्धं शौरेरचिन्तयत॥६२८॥

सह स्थितेन कथितं कर्णे सात्यकिना हरिः ।

ज्ञात्वा तन्मतमापेदे विश्वात्मा विश्वरूपताम् ॥६२९॥

विश्वाकारव्यतिकरलसद्ब्रह्मरुद्रेन्द्रचन्द्रैर्

व्याप्तः सर्वैः सुरमुनिगणैः सिद्धगन्धर्वसाध्यैः ।

निष्पर्यान्ताकृतिकृतजगद्गौरवः कौरवाणां

निद्रामुद्रामदिशदशिवामच्युतः प्रच्युतानाम् ॥६३०॥

विना भीष्मं सविदुरं मोहलीनेषु राजसु ।

सभामुत्सृज्य भगवान्प्रतस्थे गरुडध्वजः ॥६३१॥

पश्चात्कर्णमथायातमारोप्य स्वरथे हरिः ।

प्रेम्णा प्राहार्कतनयं कौन्तेयस्त्वं न सूतजः ॥६३२॥

सहोदरात्पाण्डुसुतान्भजस्व त्यज कौरवान।

राज्यं तव क्रमायातं कुरुमद्वचनं हितम् ॥६३३॥

इत्युक्तं शौरिणा श्रुत्वा कर्णस्तं प्रत्यभाषत ।

सर्वं वेद्मि न निन्द्यं तु मित्रद्रोहमहं सहे ॥६३४॥

देव त्वमेव वद कौरवभूमिभर्तुर्

उत्सङ्गसक्तशिरसः कथमर्कजोऽहम् ।

व्यापारयामि सुहृदः परिपीयलक्ष्मीं

कण्ठे शठः कठिनधारमकुण्ठशस्त्रम् ॥६३५॥

साम्राज्यं निहतारातिरवाप्स्यति युधिष्ठिरः ।

स दृष्टः श्वेतवाहस्थः स्वप्ने पायसभुङ्मया ॥६३६॥

दृष्टाश्च कौरवाः सर्वे तैलाक्ताः खरवाहनाः ।

रक्तमाल्याम्बरोष्णीषा व्रजन्तो दक्षिणां दिशम् ॥६३७॥

इति वैवर्तनेनोक्तं विचिन्त्योचितमच्युतः ।

तं विसृज्य समामन्त्र्य प्रययौ पाण्डवान्तिकम् ॥६३८॥

प्रातः कुन्ती समभ्येत्य कर्णं सूर्यार्चनोन्मुखम् ।

मुक्तमौनं तदेवाह नामन्यत स चाचलः ॥६३९॥

उवाच च विना जिष्णुं न हन्म्यन्यं तवात्मजम् ।

मयि तेन मया तस्मिन्हते त्वं पञ्चपुत्रिका ॥६४०॥

श्रुत्वैतत्प्रययौ कुन्ती भग्नार्थितमनोरथा ।

ससैन्याश्च कुरुक्षेत्रमाजग्मुः कुरुपाण्डवाः ॥६४१॥

बलद्वये कुरुक्षेत्रे संनिविष्टे सुयोधनः ।

भीष्मं सेनापतिं चक्रे धृष्टद्युम्नं युधिष्ठिरः ॥६४२॥

रथसङ्ख्याक्षणे कर्णं भीष्मोऽर्धरथमभ्यधात।

तद्युद्धावधि युद्धं च कोपात्तत्याज सूतजः ॥६४३॥

ततः सुयोधनं भीष्मः प्राहोत्साहाहवोन्मुखः ।

योद्धाहं त्वद्विपक्षाणामेकं भुक्त्वा शिखण्डिनम् ॥६४४॥

काशिराजसुतां पूर्वं बलात्कन्याः स्वयंवरे ।

अम्बाम्बिकाम्बालिका च भ्रातुरर्थे समाहृताः ॥६४५॥

साल्वाभिलाषिणी नीता तव्यास्मीत्यार्तवादिनी ।

सन्त्यक्ताम्बा ययौ साल्वं सोऽपि तां नाग्रहीद्भिया ॥६४६॥

पुनः प्राप्ता मया त्यक्ता मग्नमानमनोरथा ।

सा जगामोभयभ्रंशखिन्ना मुनितपोवनम् ॥६४७॥

ततस्तद्दुःखकारुण्याद्गुरुर्मामेत्य भार्गवः ।

अम्बां गृहाणेत्यवदत्प्रत्याख्यातः पुनः पुनः ॥६४८॥

आज्ञाभङ्गेन कुपितः स मया समरे जितः ।

ययौ क्षत्रोपदेशात्तनियमः स्वं तपोवनम् ॥६४९॥

मन्मन्युत्यक्तदेहाम्बा जाता मत्क्षयकाङ्क्षिणी ।

कन्या पाञ्चालराजस्य द्रुपदस्य शिखण्डिनी ॥६५०॥

प्रख्यापिता पुत्रतया सा पित्रा पुत्रकाङ्क्षिणा ।

लेभे दशार्णराजस्य विवाहविधिना सुताम् ॥६५१॥

शय्यारूढा दशार्णेशकन्या कन्यां विलोक्य ताम् ।

दूत्या न्यवेदयत्पित्रे स च क्रुद्धः समाययौ ॥६५२॥

दशार्णरुद्धे नगरे द्रुपदे विद्रवोद्यते ।

खिन्ना शिखण्डिनी रात्रौ प्रययौ शून्यकाननम् ॥६५३॥

तत्र स्थूणाख्ययक्षेण कृपयैकदिनार्पितम् ।

विधातृशक्तिवैचित्र्यात्मा लेभे लक्ष्म पौरुषम् ॥६५४॥

दर्शितं द्रुपदेनाथ पुरुषव्यञ्जनं सुतम् ।

दृष्ट्वा विमन्युं दाशार्णः स्वां ययौ लज्जितः पुरीम् ॥६५५॥

वनं वैश्रवणः प्रातस्तं समीपमनागतम् ।

स्थिरस्त्रीलक्षणं पक्षं शापेन विदधे क्रुधा ॥६५६॥

अगृहीतेऽध यक्षेण स्वलक्ष्मणि शिखण्डिनी ।

पुरुषस्त्वं गता वर्ज्यः स्त्रीपूर्वः स मया युधि ॥६५७॥

न सन्त्रस्ते न निःशस्त्रे नान्यविद्धे न विद्रुते ।

न स्त्रीपूर्वे न साक्रन्दे निपतन्ति ममेषवः ॥६५८॥

उक्त्वेति दिव्यतटिनीतनयस्तरस्वी

वृद्धोऽपि शौर्यतरुणस्तरणिप्रतापः ।

प्रम्लानतं परबले निजकार्मुके ज्यां

चित्ते च कौरवपतेर्धृतिमाबबन्ध ॥६५९॥

दिव्यं युद्धेक्षणं चक्षुः कृष्णद्वैपायनार्पितम् ।

अगृहीतमथ प्राप धृतराष्ट्रेण सञ्जयः ॥६६०॥

कुरुपाण्डवसङ्ग्रामं कुरुक्षेत्रे विलोक्य सः ।

धृतराष्ट्राय निखिलं दिव्यचक्षुर्न्यवेदयत॥६६१॥

अथ युद्धाय संनद्धे भूमिपालबलद्वये ।

गुरून्भीष्मकृपद्रोणमुखान्सम्बन्धिबान्धवान॥६६२॥

दृष्ट्वा युद्धोद्यतानग्रे श्वेताश्वः कृष्णसारथिः ।

मुमोह करुणाक्रान्तः प्रशान्तसमरोद्यमः ॥६६३॥

तं समाश्वास्य शोकार्तं जगाद गरुडध्वजः ।

त्रिजगत्सर्गसंहारक्रीडापरिचितोऽच्युतः ॥६६४॥

मनुष्यजन्मजातिता केयं ते मोहवासना ।

क्षयं यदक्षयस्यापि शङ्कसे परमात्मनः ॥६६५॥

स्फटिकस्येव कुरुते रागयोगाच्चिदात्मनः ।

मिथ्याकलङ्ककलनां कायाहङ्कारसङ्करः ॥६६६॥

मेघव्योमसमागमप्रतिनिधिर्धूमाग्निसङ्गोपमः

श्लेषः कायचिदात्मनोः प्रकुरुते भिन्नोऽप्यभिन्नक्रमम् ।

छिन्नेच्छाधनमूलनिष्फलतया नित्यप्रवृत्तक्रियैः

संमोहः स्वपरावभेदरहितैर्युक्तैः स सन्त्यज्यते ॥६६७॥

इत्युक्त्वा प्रत्ययोत्पत्त्यै विश्वव्याप्तिनिदर्शनम् ।

अर्जुनस्योर्जितं विष्णुर्विश्वरूपमदर्शयत॥६६८॥

तत्सर्वदेवमयमद्भुतमच्युतस्य

रूपं सहस्रकरकोटिनिभं बभासे ।

निःशेषभूपतितरङ्गितसैन्यसिन्धु

ग्रासाभिलाषबडवानलतुल्यवक्त्रम् ॥६६९॥

वचः श्रुत्वा वपुर्दृष्ट्वा दिव्यं मोहहरं हरेः ।

निर्विकल्पमतिर्जिष्णुः सङ्ग्रामाभिमुखोऽभवत॥६७०॥

रथाग्रादवरुह्याथ रणारम्भे युधिष्ठिरः ।

प्रणनाम प्रसादार्द्रान्भीष्मद्रोणमुखान्गुरून॥६७१॥

ते तमूचुर्गुणोदारं विधाय विजयाशिषम् ।

परं लज्जामहए राजन्प्रयातास्त्वद्विपक्षताम् ॥६७२॥

किं कुर्महे परायत्ता वेतनोत्तानपाणयः ।

कौरवस्य परं याताः सेवाकापण्यपण्यताम् ॥६७३॥

अग्रे सङ्कुचिताकृतिर्लघुतया यात्युन्मुखत्वं विभोर्

आशापाशनिवेशयन्त्रिततनुः सङ्ख्याक्षणे लम्बते ।

अल्पेनापि समर्पितेन सुतरां वित्तेन धत्ते रतिं

साकम्पः किल कायविक्रयतुलारूढः सदा सेवकः ॥६७४॥

इत्युक्त्वा तैर्विसृष्टेऽथ रथारूढे युधिष्ठिरे ।

चेरुर्वीरा यशःपुष्पलुब्धा इव शिलीमुखाः ॥६७५॥

प्रवृत्ते धनसंमर्दे नृत्यत्खड्गशिखण्डिनि ।

पेतुर्भूभृत्कुले भीष्मशरधारापरम्परा ॥६७६॥

द्वन्द्वसक्तेषु शूरेषु विराटसुतमुत्तरम् ।

निनाय समरे शल्यः क्षयारम्भोपहारत्âम् ॥६७७॥

नवमे युद्धदिवसे नागीतनयमार्जुनिम् ।

इरावन्तं जघानाजौ रक्षःपतिरलम्बुसः ॥६७८॥

प्रत्यहं युधि भीष्मेण भूभृतामयुते हते ।

दशमेऽह्नि क्षयाशङ्का पाण्डवानामजायत ॥६७९॥

भीष्माभिमुखमाप्तस्य रणे गाण्डीवधन्वनः ।

शिखण्डी पुरतस्तस्थौ मेघस्येव प्रवर्षिणः ॥६८०॥

स्त्रीपूर्वदर्शनोद्वेगशिथिलीकृतकार्मुकः ।

प्राह दुःशासनं भीष्मः किरीटिशरपूरितः ॥६८१॥

एते ते त्रिपुरारातिकिरातपतनोन्नताः ।

शराः खाण्डवशौण्डस्य चण्डा गाण्डीवधन्वनः ॥६८२॥

एते दुःसहदस्यवः कुरुपतेर्वस्त्रग्रहे गोग्रहे

कोपव्याकुलकालखञ्जजयिनः पौलोमनिर्मूलनाः ।

जिष्णोर्लक्ष्यभिदः स्वयंवरमणेः हे क्ष्मापालवैलक्ष्यदाः

न स्त्रीपूर्वशिखण्डिनस्तनुतृणक्लीबानताः सायकाः ॥६८३॥

इति ब्रुवन्कौरवेशं शरनिर्विवराकृतिः ।

स पपात रथादस्तशैलादिव दिवाकरः ॥६८४॥

पितुर्वरेण स्वच्छन्दमृत्युर्योगपरायणः ।

उत्तरायणमाकाङ्क्षन्सजीवितमधारयत॥६८५॥

दिव्यास्त्रभिन्नभूजाततोयाप्यायकृदर्जुनः ।

शिरस्तस्य निराधारमुच्चिक्षेप शरैस्त्रिभिः ॥६८६॥

कर्णेन प्रणिपातकीर्णचरणः पूर्णेन बाष्पाम्भसाम्

आशापाशविमुक्तिनिश्चलसुखः संसारविस्तारिणम् ।

सस्मार स्मरणीयमन्तसमये सन्तोषविश्रान्तधी

शान्तानन्तविकल्पतल्पविमले चित्तेऽच्युतं सोऽच्युतम् ॥६८७॥

अथ भीष्मविहीनस्य धृतिहीनस्य पश्यतः ।

सैन्यस्याधिपतिं चक्रे द्रोणाचार्यं सुयोधनः ॥६८८॥

प्राप्ताभिषेकः प्रददौ वरं दुर्योधनाय सः ।

युधिष्ठिरं गृहीत्वा ते दास्यामि समरादिति ॥६८९॥

ततः प्रवृत्ते सङ्ग्रामे प्रथमेऽह्नि नृपक्षयः ।

इतोऽभूद्द्रोणविशिखैर्धृष्टद्युम्नशरैरितः ॥६९०॥

द्वितीये युद्धदिवसे स्मारितः कुरुभूभृता ।

गतेऽर्जुने धर्मसुतं ग्रहीष्यामीति सोऽभ्यधात॥६९१॥

ततः संशप्तकाः शूराः शपथादनिवर्तिनः ।

त्रिगर्ताः समराद्दूरं निन्युराहूय फाल्गुनम् ॥६९२॥

कौरवैः पाण्डवानीके कुरुसैन्ये च पाण्डवैः ।

त्रिगर्ताब्धौ च पार्थेन दारितेऽभून्नृपक्षयः ॥६९३॥

सुप्रतीकगजारूढस्ततः प्राग्ज्योतिषेश्वरः ।

मृद्नन्गजरथानीकं पाण्डुसेनां व्यलोकयत॥६९४॥

श्रुत्वास्य सैन्यसंमर्दं त्वरितः श्वेतवाहनः ।

मुरारिप्रेरितरथः कुञ्जरस्याभवत्पुरः ॥६९५॥

घोरे प्रवृत्ते समरे किरीटिभगदत्तयोः ।

ऊर्ध्वाधः पातिनामासीत्सङ्घर्षः पत्रिणामपि ॥६९६॥

विश्वक्षयक्षमं क्षिप्तं भगदत्तेन वैष्णवम् ।

जग्राहार्जुनरक्षायै वक्षसास्त्रमधोक्षजः ॥६९७॥

पार्थास्त्रकृत्ते पतिते भगदत्तेऽथ भूभृति ।

भग्नभूभृत्कुला पृथ्वी चकम्पे कुरुवाहिनी ॥६९८॥

तृतीये युद्धदिवसे प्रतिज्ञाभङ्गलज्जितः ।

चक्रव्यूहं व्यधात्क्रुद्धः संसारगहनं गुरुः ॥६९९॥

पार्थे संशप्तकान्याते व्यूहं धर्मसुताज्ञया ।

सौभद्रः केशरिशिशुर्गजयूथमिवाविशत॥७००॥

प्रवेष्टुमुद्यतान्व्यूहमभिमन्युविदारितम् ।

अवारयद्भर्गवरात्पाण्डुपुत्रान्जयद्रथः ॥७०१॥

अभिमन्युशरोत्कृत्तशिरसं कङ्कटक्षये ।

भूभृतां वज्रभिन्नानां शृङ्गभङ्ग इवाभवत॥७०२॥

नृपान्कर्णकृपद्रोणिशल्यहार्दिक्यसौबलान।

एकैकशः समस्तांश्च स शरैर्विमुखान्व्यधात॥७०३॥

कृत्तचापश्च कर्णेन हताश्वः कृतवर्मणा ।

कृपेण हतसूतश्च हतः सर्वैर्महारथैः ॥७०४॥

हत्वा त्रिगर्तानायातः सव्यसाची दिनक्षये ।

मुमोह तनयं श्रुत्वा हतमेकं महत्तरैः ॥७०५॥

व्यूहद्वारनिरोद्धारं ज्ञात्वा हेतुं जयद्रथम् ।

अनस्तगे रवौ जिष्णुः प्रतिज्ञां तद्वधे व्यधात॥७०६॥

तत्प्रतिज्ञाभयाद्गन्तुं रात्रौ सैन्धवमुद्यतम् ।

गोप्ता तवाहमित्युक्त्वा दर्पाद्गुरुरवारयत॥७०७॥

स्वप्ने स कृष्णः श्वेताश्वः स्तुत्वा देवं पिनाकिनम् ।

विधिं पाशुपतास्त्रस्य तदादिष्टमवाप्तवान॥७०८॥

प्रभाते शकटव्यूहे सुचीपाशे जयद्रथम् ।

निनेश्य यत्नादाचार्यश्चक्रे दैवजयोद्यमम् ॥७०९॥

व्यूहद्वारस्थितं द्रोणं प्रणम्याथ धनञ्जयः ।

कम्पलोलं विवेशाशु सैन्यं वनमिवानलः ॥७१०॥

मनोजवस्य विशतः शरैर्गाण्डीवधन्वनः ।

शिरः समूह आच्छिन्नः पपात भुवि भूभृताम् ॥७११॥

दूरं प्रविष्टे श्वेताश्वे शङ्खशब्दमशृण्वता ।

विवेश सात्यकिर्व्यूहं विसृष्टो धर्मसूनुना ॥७१२॥

तस्य निर्दारितारातेर्विशिखाशनिवर्षिणः ।

भूरिश्रवा धैर्यनिधिर्वेगं गिरिरिवाग्रहीत॥७१३॥

तौ कृत्तकार्मुकरथो खड्गचर्मधरो मिथः ।

युद्धमानौ ददृशतुर्नान्तरं चित्रचारिणौ ॥७१४॥

सात्यकेः पातितस्याथ शिअर्श्छेत्तुं समुद्यतम् ।

जिष्णोरदर्शयद्दूरात्भूरिश्रवसमच्युतः ॥७१५॥

पार्थस्तस्यार्धचन्द्रेण सखड्गं भुजमुद्यतम् ।

कङ्कणारावसाक्रोशमिव च्छित्त्वा न्यपातयत॥७१६॥

स कृत्तबाहुर्धिक्कृत्य निन्दन्कृष्णकिरीटिनौ ।

तालुरन्ध्रोद्गतज्योतिर्योगेनात्मानमत्यजत॥७१७॥

अवाप्य संज्ञामज्ञातवृत्तः सात्यकिराकुलः ।

धिक्कृतः सर्वभूपालैश्चकर्तास्यासिना शिरः ॥७१८॥

युधिष्ठिराज्ञया व्यूहं प्रविशन्नथ मारुतिः ।

द्रोणं सरथमुत्क्षिप्य चिक्षेपाद्भुतविक्रमः ॥७१९॥

स निष्पिष्टगजानीकः प्रविष्टः कर्णमग्रतः ।

कृत्वायुधाश्वं षट्कृत्वश्चकाराहतकौरवः ॥७२०॥

ततः कर्णः समुत्कृत्तकवचायुधवाहनम् ।

तुदन्भीमं धनुष्कोट्या नावधीज्जननीं स्मरन॥७२१॥

दिनस्य शिरसीवार्के लम्बमाने क्षणक्षये ।

दृष्ट्वा जयद्रथं दूरात्सन्दधेऽस्त्रं धनञ्जयः ॥७२२॥

क्षितौ तस्य शिरः क्षेप्तुं शिरः पूर्वं पतेदिति ।

पित्रा दत्तं वरं कृष्णः फाल्गुनाय न्यवेदयत॥७२३॥

कुरुक्षेत्राद्बहिर्जिष्णुः सन्ध्यासीनस्य तत्पितुः ।

चिक्षेपाङ्के शरोऽकृतं शिरस्तस्मात्क्षितिं ययौ ॥७२४॥

अक्षौहिनीः सप्त हत्वा जिष्णुना सैन्धवे हते ।

देवमेव जनो मेने सर्वथा निष्प्रतिक्रियम् ॥७२५॥

उक्त्वापि गुरुणा रक्षां रक्षिते न जयद्रथे ।

लज्जितेन समादिष्टं रात्रियुद्धमवर्तत ॥७२६॥

समुद्धततमः केशी रणे तरलतारका ।

ननर्तासिभुजा वीररक्तक्षीबेव सा क्षपा ॥७२७॥

अर्धरात्रेऽथ निष्पिष्टकौरवानीकनायकः ।

शस्त्रानलशिखावर्षी खं विवेश घटोत्कचः ॥७२८॥

तस्याट्टहासविष्पष्टदंष्ट्रांशुपटलैर्मुहुः ।

पाट्यमानमिवाकृष्टं रुरावाघट्टितं तमः ॥७२९॥

कुरुसैन्ये रणे भग्ने हैडिम्बस्य प्रमाथिनः ।

कर्ण एव पुरस्तस्थौ पौलस्त्यस्येव राघवः ॥७३०॥

एक वीरवधव्यक्त्या शक्त्या वैकर्तनोऽथ तम् ।

जघान घनसंमर्दं कुमार इव तारकम् ॥७३१॥

पञ्चमे युद्धदिवसे प्रातर्दिव्यास्त्रदुःसहः ।

प्रजागरगरक्षीबान्क्षितीशानवधीद्गुरुः ॥७३२॥

हत्वा विराटं द्रुपदं पाञ्चालं च ससृञ्जयम् ।

ब्रह्मास्त्रेणाकरोद्द्रोणः कल्पान्ताविर्भवभ्रमम् ॥७३३॥

अश्वत्थामा हतः सङ्ख्ये स्पष्टमुक्त्वेति धर्मजः ।

हस्तीत्यसत्यचकितः पश्चात्स्वैरमभाषत ॥७३४॥

श्रुतपुत्रवधस्याथ त्यक्तशस्त्रधृतेर्गुरोः ।

उत्क्रान्तधाम्नः खड्गेन धृष्टद्युम्नः शिरोऽहरत॥७३५॥

हते द्रोणे प्रकुपितः कृतान्त इव तत्सुतः ।

नारायणास्त्रमसृजज्ज्वालालीढजगत्त्रयम् ॥७३६॥

अस्त्रानले प्रज्वलिते वीराः सर्वे हरेर्गिरा ।

रथेभ्योऽवातरन्न्यस्तशस्त्राः पवनजं विना ॥७३७॥

एकीभूतास्त्रदहनव्याप्तं भीममथाच्युतः ।

हृतायुधं समाकृष्य रथाग्रादनयद्भुवम् ॥७३८॥

शान्तेऽस्त्रे द्रौणिनाग्नेयं घोरमस्त्रमुदीरितम् ।

ब्रह्मास्त्रेणार्जुनः शान्तिं निनाय प्रलयोद्यतम् ॥७३९॥

अथ मोहविषावेशसमनीलमणिप्रभम् ।

प्राप्तं दृष्ट्वा मुनिं द्रौणिः प्रणम्य व्यासमभ्यधात॥७४०॥

कस्मान्मे भगवन्नस्त्रवैकल्यम्लानमानता ।

मदस्त्रदहनान्मुक्तौ कस्मात्कृष्णधनञ्जयौ ॥७४१॥

तमब्रवीन्मुनिद्रौणे त्वमंशस्त्रिपुरद्विषः ।

नरनारायणौ देवौ जातौ कृष्णधनञ्जयौ ॥७४२॥

मूर्तौ त्वयार्चितः शम्भुराभ्यां लिङ्गैः सुपूजितः ।

एतौ तेनाधिकौ त्वत्तस्त्यजैतां कोपविक्रियाम् ॥७४३॥

मुनिमाश्वासितद्रौणिं व्रजन्तं फाल्गुनः पुरः ।

दृष्ट्वा रथादवप्लुत्य प्रणम्य तमभाषत ॥७४४॥

भगवन्कौरवव्यूहं प्रविष्टेन मया पुरः ।

अस्पृष्टभूमिः पुरुषो दृष्टः शूलकरः स कः ॥७४५॥

मुनिः प्राहार्जुनं देवः स स्वयं शशिशेखरः ।

त्र्यमकस्त्रिपुरारातिस्त्र्यक्षस्त्रिपथगाधरः ॥७४६॥

स्मर स्मरारिं तमुमासहायं

शिवं जगद्ग्रासविलाससक्तम् ।

भयापहं भीममनेकरूपं

उक्त्वेति पार्थं प्रययौ मुनीन्द्रः ॥७४७॥

हते द्रोने प्रियं मित्रं कौर्वश्चिरचिन्तितम् ।

कर्णं सेनापतिं कृत्वा जगज्जितममन्यत ॥७४८॥

अभ्यर्थ्य सारथिं शल्यं चक्रे तस्य सुयोधनः ।

रुद्रस्य त्रिपुरारातेः संनद्धस्येव वेधसम् ॥७४९॥

कीर्णास्त्रकिरणः कर्णस्ततः पाण्डववाहिनीम् ।

शरत्तीव्र इवोष्णांशुर्निनायाल्पावशेषताम् ॥७५०॥

भीमः कुरुचमूमध्ये क्षपयन्धृतराष्ट्रजान।

कृष्णाकेशाम्बराकर्षकुशलं प्राप कौरवम् ॥७५१॥

असिकृत्तोरसस्तस्य भीमः शोणितमापपौ ।

प्रकोपराक्षसावेशविवशः कुरुते न किम् ॥७५२॥

कर्णास्त्रपीडनक्रुद्धयुधिष्ठिरगिरार्दितः ।

राधेयनिधनाधानसंनद्धोऽभूद्धनञ्जयः ॥७५३॥

प्रवृत्ते सम्भृतामर्षे रणे कर्णकिरीटिनोः ।

मृगस्त्वं जिष्णुसिंहाग्रे कर्णमित्याह मद्रपः ॥७५४॥

खण्डपुच्छाभिधं नागमथ सन्धाय संचितम् ।

प्राहिनोत्पाण्डुपुत्राय कर्णः खाण्डवखण्डितम् ॥७५५॥

हरिगौरवनम्रश्च विनतस्य स पन्नगः ।

जहाराप्राप्तकण्ठाग्रः किरीटांशं किरीटिनः ॥७५६॥

भूग्रस्तचक्रमुद्धर्तुमथ स्वरथमुद्यतः ।

क्षणक्षमार्थे राधेयः पार्थस्यातिथितां ययौ ॥७५७॥

कृष्णस्तमब्रवीद्व्रीडाकरशल्योक्तिपीडितम् ।

धर्मः स्मृतोऽद्य राधेय नाभिमनुवधे त्वया ॥७५८॥

यथा तप्तस्यान्ते भवति मृदुता संनतिमयी

तथा सा स्यात्पूर्वं यदि जनमता वृत्तिरथ सः ।

घनाघातोत्कर्षापरपुरुषहुङ्कारविहिता

न तस्यासीत्पीडा निविडजडतावाप्तविकृतेः ॥७५९॥

इत्युक्ते शौरिणा कर्णः समारुह्य रथं पुनः ।

सन्दधे भार्गवादिष्टं महास्त्रं शिथिलस्मृतिः ॥७६०॥

बाणेन कृत्तगलमञ्जलिकाभिधेन

तस्यार्जुनस्तरलकुण्डलदीप्तगण्डम् ।

वक्त्रं जहार पृथुहारविलम्बिशोण

रत्नप्रभानिभनभः प्रसृतप्रकाशम् ॥७६१॥

हते कर्णे वहन्नन्तः शोकशल्यं सुयोधनः ।

शल्यं सेनापतिं कृत्वा युयुधे निधनोत्सुकः ॥७६२॥

शल्येन पीडितं दृष्ट्वा निजसैन्यं युधिष्ठिरः ।

भ्रूभङ्ककङ्कवस्त्राङ्कस्तं समुद्धर्तुमाद्रवत॥७६३॥

तस्येषुवर्षिणश्छित्त्वा रथसारथिकार्मुकान।

प्राहर्षीत्पाण्डवः शक्तिं कालदंष्ट्रामिवोत्कटाम् ॥७६४॥

प्रविश्य शल्यहृदयं शक्तिर्बिलमिवोरगी ।

वेगशूत्कारनिःश्वासा साविशद्वसुधातलम् ॥७६५॥

स्वयं राज्ञा हते शल्ये सहदेवेन सौबले ।

सैन्ये शेषे च भीमेन निःसैन्योऽभूत्सुयोधनः ॥७६६॥

कृतवर्मकृपद्रौणिशेषः कुरुपतिस्ततः ।

विरथस्तान्समामन्त्र्य विवेशालक्षितो ह्रदम् ॥७६७॥

ह्रदस्यान्तर्नृपे तस्मिन्प्रविष्टे शत्रुशङ्किते ।

भीमं भीमभयेनेव पयश्चिरमकम्पत ॥७६८॥

यस्याशेषनरेशरत्नमुकुटैः पीडाभवत्पादयोस्

तस्यारातिनिपातशङ्कितमतेरेकाकिनोऽन्तर्जले ।

क्रोधव्याधुतनक्रचक्रमकरक्रूरान्तदन्ताहति

क्लेशक्लान्तिरभूद्धिगस्थिरपदाः शोकप्रदाः सम्पदः ॥७६९॥

ऋणशेषमिव ध्यायन्धार्तराष्ट्रं युधिष्ठिरः ।

लुब्धकानां गिरा ज्ञात्वा ससैन्यस्तूर्णमाययौ ॥७७०॥

स्तिमितं सलिलस्थं तं जगाद च तटस्थितः ।

राजन्नुत्तिष्ठ लज्जेयं युक्तं नान्ते पलायनम् ॥७७१॥

कृत्वा क्षत्रक्षयं शेषां रक्षसि क्षत्रियस्तनुम् ।

एकेन सह युध्यस्व जिते तस्मिन्जिता वयम् ॥७७२॥

श्रुत्वैतत्सहसोत्थाय तमभाषत कौरवः ।

एष क्षपाक्षपणधीः प्रविष्टोऽहं जलान्तरम् ॥७७३॥

न मे राज्ये शरीरे वा तृणे वापि स्पृहा क्वचित।

इत्युक्त्वा सहिता सर्वैः स कुरुक्षेत्रमाययौ ॥७७४॥

अत्रान्तरे हलधरः श्रुत्वा कुरुकुलक्षयम् ।

सारस्वतेषु तीर्थेषु स्नात्वा तं देशमाययौ ॥७७५॥

प्रधानक्षेत्रके तस्मिन्नुपविष्टे सहामरैः ।

भीमकौरवयोश्चित्रं गदायुद्धमवर्तत ॥७७६॥

वर्ज्यमानेऽथ भीमेन प्रहारे कौरवेण च ।

तदाघातच्युते भीमे भीमघातेन चापरे ॥७७७॥

सुचिरं संशयतुलारूढे स्वभटमण्डले ।

न तयोरन्तरं कश्चिद्ददर्शाश्चर्ययोधिनोः ॥७७८॥

अथ भीमगदाघातभिन्नोरुः कौरवेश्वरः ।

पपात कीर्णहाराश्रुधारां कुर्वन्निव क्षितिम् ॥७७९॥

पदा भीमेन तन्मौलौ स्पृष्टे क्रुद्धं हलायुधम् ।

शमयामास कंसारिर्वदन्कौरवदुर्नयम् ॥७८०॥

प्रयातेष्वथ सर्वेषु द्रौणिहार्दिक्यगौतमाः ।

निशि देशं तमभ्येत्य ददृशुः पतितं नृपम् ॥७८१॥

भिन्नोरुमध्यव्यथया दन्तदष्टमहीतलम् ।

वारयन्तं गदाग्रेण गृध्रगोमायुवायसाम् ॥७८२॥

तं दृष्ट्वा द्रौणिरवदत्तीव्रहृन्मर्मवेदनः ।

किं त्वया निःसहायेन शत्रुवह्नौ हुता तनुः ॥७८३॥

अकृष्णपाण्डवं लोकं करोमि तव शासनात।

इत्युक्त्वा तद्गिरा गत्वा प्रविवेश महद्वनम् ॥७८४॥

कृपभोजसखस्तत्र रात्रौ काकान्निपातिताम् ।

उलूकैर्वृक्षमूलस्थः स दृष्ट्वा चिन्तयच्चिरम् ॥७८५॥

काकान्कालबलेनैते घ्नन्त्येषारिवधे स्थितिः ।

हन्तुं पाण्डुसुतान्रात्रौ सुप्तानेव व्रजाम्यहम् ॥७८६॥

ध्यायन्निवार्यमाणोऽपि कृपेण कृतवर्मणा ।

क्रोधादगणयन्पापं स ताभ्यां प्रययौ सह ॥७८७॥

पाण्डवेषु गिरा शौरेः सुप्तेष्वन्यत्र शङ्कया ।

पाञ्चालसेनाशिबिरद्वारं द्रौणिरवाप्तवान॥७८८॥

तत्र दृष्ट्वा महद्भूतं सर्पकेयूरकङ्कणम् ।

प्रादुर्भूतं शिरश्छित्त्वा वह्नौ क्षेप्तुं समुद्यतः ॥७८९॥

प्रीत्या भगवता तेन रुद्रेण स्वयमर्पितम् ।

द्रौणिर्निस्त्रिंशमादाय विवेशारिक्षयोत्सुकः ॥७९०॥

पद्भ्यामशस्त्रनिधनं धृष्टद्युम्नं विधाय सः ।

शिखण्डिनं द्विधा कृत्वा जघानाक्षौहिणीं क्षणम् ॥७९१॥

स सुप्तवधपापेन प्रलिप्तः शोणितेन च ।

कृतान्तक्रूरचरितः प्रययौ कौरवान्तिकम् ॥७९२॥

निऊशेषशत्रुनिधनं श्रुत्वा द्रौणिनिवेदितम् ।

स्वर्गेऽस्तु सङ्ग इत्युक्त्वा स तत्याज जीवितम् ॥७९३॥

प्रातर्बन्धुवियोगार्तौ कृष्णाशोकाग्नितापितौ ।

भीमार्जुनौ प्रययतुः क्रुद्धौ द्रौणिजिघांसया ॥७९४॥

द्रौणिः सरस्वतीतीरे चरन्व्रणधृताप्लुतः ।

दृष्ट्वा भीमार्जुनावस्त्रं ब्रह्मशीर्षमवासृजत॥७९५॥

अर्जुनो ब्राह्ममस्त्रं च सङ्घर्षणास्त्रयोस्तयोः ।

अकालप्रलयारम्भसंरम्भोऽभूद्दिवौकसाम् ॥७९६॥

तद्द्रौणिमुक्तमपतन्महास्त्रं व्यासशासनात।

अभिमन्युवधूगर्भं द्रौणिचूडमणौ परम् ॥७९७॥

ओ)०(ओ

भीष्मपर्व

पाण्डवाः पुत्रशोकार्तं धृतराष्ट्रं प्रलापितम् ।

गान्धारीसहितं गत्वा प्रणेमुर्लज्जिताः शनैः ॥७९८॥

क्रमादालिङ्गने भीमः शौरिबुद्ध्यायसः कृतः ।

चूर्णतामगमद्गाढं धृतराष्ट्रेण पीडितः ॥७९९॥

युधिष्ठिरस्य गान्धारीं सतीं प्रणमतः पुरः ।

तद्दृष्टिः सानलज्वाला पादाङ्गुष्ठयुगेऽपतत॥८००॥

स्नुषाभिः सह गान्धारी स्वयं गत्वा रणावनिम् ।

दृष्ट्वा हतान्सुतान्कृष्णं शशाप क्षयकारिणम् ॥८०१॥

षट्त्रिंशवत्सरे कृष्ण तवाप्येवं कुलक्षयः ।

भविष्यतीति तद्वाक्यं श्रुत्वा तामच्युतोऽवदत॥८०२॥

पुनरुक्तस्त्वयायं मे दत्तः शापः पतिव्रते ।

अवश्यमेव भविता तस्मिन्वर्षे यदुक्षयः ॥८०३॥

ततः कृतोदकविधिर्बान्धवक्षयदुःखितः ।

राज्यं न लेभे मुनिभिर्बोधितोऽपि युधिष्ठिरः ॥८०४॥

कर्ण कुन्तीगिरा ज्ञात्वा भ्रातरं निहतं रणे ।

स शुशोच शुचाक्रान्तस्ततस्तं नारदोऽवदत॥८०५॥

क्षत्रियाचार्यके भीष्मनिकारात्कृतसंयमम् ।

अस्त्रार्थी भार्गवं कर्णं प्रययौ विप्रवेषवान॥८०६॥

रामस्तदङ्कसुप्तोऽर्धनिद्रासङ्क्षयभीरुणा ।

क्रूरक्रिमिक्षतेनापि कर्णेन न विबोधितः ॥८०७॥

तद्रक्ताक्तः प्रबुद्धोऽथ दृष्ट्वा क्लेशेऽपि निश्चलम् ।

रामः कर्णं न विप्रोऽसीत्युक्त्वास्त्रं विफलं व्यधात॥८०८॥

गुरुशप्तः स शक्रेण हृतसंनाहकुण्डलः ।

घटोत्कचे नष्टशक्तिः शल्याधिक्षेपशल्यवान॥८०९॥

द्विजवत्सापराधेन भूग्रस्तरथनिष्फलः ।

हतः कर्णः कुरुपतेः कुमन्त्रकृतसङ्क्षयः ॥८१०॥

नारदेनेत्यभिहिते व्यासमुख्यैर्महर्षिभिः ।

कृष्णेन भ्रातृभिः सर्वैः प्रयत्नेन विबोधितः ॥८११॥

राज्यं कथञ्चिज्जग्राह शल्यतुल्यं युधिष्ठिरः ।

कस्य बन्धुवियोगार्तिनिःश्वासोष्णाः श्रियः प्रियाः ॥८१२॥

अभिषेकार्द्रमुकुटं समेत्याथ युधिष्ठिरम् ।

उवाच ब्राह्मणाकारश्चार्वाको नाम रक्षसः ॥८१३॥

छत्रं त्रपाकरमहो व्यजनं जनाग्रे

दुःखप्रदं प्रविसृताश्रुकणानुकारः ।

हारः परं स्वजनमित्रवियोगशोक

पीडावतां वद विडम्बनमेव लक्ष्मीः ॥८१४॥

चार्वाकस्येति वचसा राज्यत्यागोद्यते नृप ।

राक्षसः कौरवसुहृद्विप्रकोपात्क्षयं ययौ ॥८१५॥

ज्ञात्वोत्तरायणं प्राप्तं क्षरशय्याश्रयस्ततः ।

मुनिमध्येऽस्मरद्विष्णुं भीष्मः पर्यन्तबान्धवम् ॥८१६॥

दोषाश्रयाखिलतमःशमसूर्यधाम

संसारसर्पविषवारणसिद्धमन्त्रः ।

शुद्धात्मनां भवति पुण्यपणोपपन्नं

पाथेयमन्तसमये स्मरणं मुरारेः ॥८१७॥

स्तुतिप्रवृत्तं विज्ञाय भगवान्भीष्ममच्युतः ।

सहितः पाण्डवैर्द्रष्टुं ययौ प्रीत्या ससात्यकिः ॥८१८॥

प्रणतं भीष्ममभ्यर्च्य हरिः सुरमुनिस्तुतः ।

शरशल्यव्यथाहीनं स्निघ्ददृक्सुधया व्यधात॥८१९॥

देहसंन्याससंनद्धं राजा लज्जानतः शनैः ।

शासनेन हरेर्भीष्मं श्रेयः पप्रच्छ धर्मजः ॥८२०॥

सोऽब्रवीद्भूभुजां राजन्भूषणं जनरञ्जनम् ।

धर्मः प्रजापरित्राणं कोषः सद्भृत्यसङ्ग्रहः ॥८२१॥

प्रजाकार्ये शक्तिः श्रवणमभिभूतार्तवचसां

स्पृहा कामक्रोधप्रमदमदमानव्युपरमे ।

क्षितेः कायस्थेभ्यः कृपणपरिरक्षा प्रतिपदं

गुणासङ्गः श्रेयानयमुदयलक्ष्म्या क्षितिभुजाम् ॥८२२॥

विरक्तस्वीकारः कृतकविरतिः कोषभरणं

बलाधिक्ये शत्रोः शरणगमनं पादपतनम् ।

प्रहारश्छिद्राप्तौ निहतरिपुमिश्याश्रुपतनं

धिया दैवादिष्टं शरणमिदमापन्निपतने ॥८२३॥

आशापाशविमुक्तनिश्चलमुखा स्वायत्तचित्तस्थितिः

स्नेहद्वेषविषादलोभविरतिः सनोत्षतृप्तः मनः ।

चिन्तानित्यमनित्यतापपरिचये सङ्गेऽपि निःसङ्गता

संवित्सेकविवेकपूतमनसामित्येष मोक्षक्रमः ॥८२४॥

कारुण्याद्गलितं प्रदानसमये चित्तं प्रसन्नं सदा

क्षीणः पुत्रकलत्रदुःखकृपणः पात्रं पवित्रं परम् ।

सश्रद्धं परवित्तशल्यरहितं वित्तं स्वधर्मीर्जितं

तद्दानं दयितं फलप्रियतया वाणिज्यसज्जं न यत॥८२५।

इत्युक्त्वा विविधं भीष्मः सर्वधर्मार्थसङ्ग्रहम् ।

विष्णोर्नामसहस्राख्यं मन्त्रराजमुदीर्य तम् ॥८२६॥

कर्मोदितबलोत्क्षिप्तबिन्दुभेदपथोदितम् ।

तालुरन्ध्रोच्छलज्ज्योतिर्योगेनात्मानमत्यजत॥८२७॥

ओ)०(ओ

अथ भीष्मवियोगार्तः पापशान्त्यै युधिष्ठिरः ।

अश्वमेधाभिधे चक्रे यज्ञे व्यासाज्ञया मतिम् ॥८२८॥

अथैकान्तस्थितः कृष्णः पुनः पृष्टः किरीटिना ।

यत्प्राह समरारम्भे ज्ञानयोगे तदुक्तवान॥८२९॥

कदाचिदथ कंसारिं दृष्ट्वा पथि रथस्थितम् ।

ऊचे मुनिरुतङ्काख्यः कुरुसङ्क्षयदुःखितः ॥८३०॥

शक्तेनोपेक्षितः कस्माद्भवता भरतक्षयः ।

न युक्तं कृतमित्युक्त्वा कोपाच्छापोद्यतोऽभवत॥८३१॥

ततस्तस्मै स्मितमुखः शौरिर्देहतमोहरम् ।

भासुराकं सहस्राभं विश्वरूपमदर्शयत॥८३२॥

अथाभिमन्युदयिता दिव्यास्त्रहतमुत्तरा ।

मत्स्यराजसुतासूत भस्मीभूताकृतिं शिशुम् ॥८३३॥

सुभद्रयार्तितः स्वस्रा भगवान्भूतभावनः ।

द्रोणपुत्रास्त्रनिर्दग्धं शौरिः शिशुमजीवयत॥८३४॥

कुरुवंशे परिक्षीणे संजातस्याङ्कुराकृतेः ।

परीक्षिदिति बालस्य नाम चक्रे त्रिविक्रमः ॥८३५॥

अथ यज्ञाश्वरक्षायै व्रजं जिष्णुर्जगज्जयी ।

मणिपूरपुरे प्राप बभ्रुवाहनमात्मजम् ॥८३६॥

तेनाविज्ञाय समरे सायकैः पातितोऽर्जुनः ।

उलूप्या नागसुतया रत्नेनार्पितजीवितः ॥८३७॥

प्रययौ हयमादाय स्वपुरं भ्रातुरन्तिकम् ।

प्रावर्तत च भूभर्तुर्यज्ञः काञ्चनवर्षिणः ॥८३८॥

अथैकपार्श्वे कनकद्युतिभृन्नकुलोऽद्भुतः ।

विप्रकोटिशतोच्छिष्टभुवं भेजे लुठत्तनुः ॥८३९॥

सोऽब्रवीद्भूभुजां पृष्टः शिलोञ्छस्वच्छवृत्तिना ।

सुचिरावाप्तमशनं प्राप्तायातिथयेऽर्पितम् ॥८४०॥

तदुच्छिष्टजलस्पृष्टं पार्श्वं मे हेमतां गतम् ।

द्वितीयपार्श्ववर्णाप्त्यै प्राप्तोऽहं त्वत्क्रतुक्षितिम् ॥८४१॥

निःसङ्ख्यब्राह्मणोच्छिष्टस्पृष्टस्यापि न मे द्युतिः ।

जाता सत्त्वोज्ज्वलं याति दानमल्पमनल्पताम् ॥८४२॥

इत्युक्त्वा नकुले याते दानमानमहोन्नतिः ।

सर्वस्वदक्षिणे यज्ञे राजा शिथिलतां ययौ ॥८४३॥

अथ देवतवन्नित्यं पूज्यमानोऽपि भूभुजा ।

भीमोग्रवचनोद्वेगी धृतराष्ट्रः शनैरभूत॥८४४॥

स सदा पुत्रशोकेन भूमिशायी फलाशनः ।

मिथ्या राज्योपभोगाप्तिं धर्मजाय न्यवेदयत॥८४५॥

स जातगाढवैराग्यः पत्न्या सह वनं ययौ ।

व्यासाज्ञया संजयेन कुन्त्या च विदुरेण च ॥८४६॥

दयितजनवियोगोद्वेगरोगातुराणां

विभवविरहदैन्यम्लानमानाननानाम् ।

शमयति शितशल्यं हन्त नैराश्यनश्यद्

भवपरिभवतान्तिः शान्तिरन्ते वनान्ते ॥८४७॥

यातस्तपःस्थितं द्रष्टुं धृतराष्ट्रं युधिष्ठिरः ।

ददर्श विदुरं ज्ञानयुक्तित्यक्तकलेवरम् ॥८४८॥

प्राप्तः स्वनगरं राजा शुश्राव कुरुपुङ्गवम् ।

सानुगं दावदहने प्रविष्टं सञ्जयं विना ॥८४९॥

षट्त्रिंशाब्दे सुखक्षीबा वृष्णयः कृष्णनन्दनम् ।

साम्बं स्त्रीवेशमादाय पप्रच्छ सस्मिता मुनीन॥८५०॥

भावी सुतः सुता वा स्यात्किमिति श्रीविशृङ्खलाः ।

क्रुद्धास्तान्मुनयः प्राहुः भविष्यति कुलान्तकः ॥८५१॥

कालेन लोहमुसलं जातं साम्बस्य वृष्णयः ।

घृष्ट्वा घृष्ट्वाम्बुधेस्तीरे तत्यजुः क्षयशङ्किताः ॥८५२॥

तच्चूर्णजातवल्लीभिः क्षीवाः स्पर्धाकथाक्रुधा ।

निर्बन्धाद्युध्यमानास्ते क्षणेन क्षयमाययुः ॥८५३॥

कृष्णः कुलक्षयोद्विग्नस्तेजः स्वं धाम्नि वैष्णवे ।

हेम हेम्नीव निक्षिप्य प्रययौ कायशेषताम् ॥८५४॥

याते प्रविश्य पातालमनन्तत्वं हलायुधे ।

लुब्धकेन हरिः सुप्तः कृष्णसारधिया हतः ॥८५५॥

अनल्पं कल्पान्तस्थिरमिव जनः कल्पयति यन्

न यस्मिन्नाशङ्का सुरगिरिगरिम्णि प्रचलने ।

तदेवाक्ष्णः पक्ष्माञ्चलतरलविक्षेपतुलया

क्षयक्षीवः कालः किल गिलति नैवाभवदिति ॥८५६॥

अथ वृष्णिक्षयं ज्ञात्वा द्वारकामेत्य फाल्गुनः ।

शोकार्तस्तद्वधूवृन्दं स्वपुरं नेतुमुद्ययौ ॥८५७॥

व्रजतः तस्य गोपाला बृहल्लगुडपाणयः ।

जह्रुराकृष्टजापस्य स्त्रैणमाकीर्णपत्त्रिणः ॥८५८॥

ते द्विषत्खण्डनां प्रापुः शरा गाण्डीवधन्वनः ।

निष्फलत्वं विलक्षस्य याचकस्य गुणा इव ॥८५९॥

नहि हीनमनाक्रान्त्या फाल्गुनस्य गलद्गुणम् ।

कलत्रं निर्धनस्येव विधेयं नाभवद्धनुः ॥८६०॥

रुद्राभिद्रवमुद्रिताद्रिशिखराः शुक्रोन्मुखाः खाण्डवे

खेलोत्ताललतायुधोद्यतकृताटोपेषु गोपेष्वहो ।

जग्मुर्जिष्णुशरा मुरारितरणीत्राणे तृणक्लीबतां

यस्यायन्त्रविचित्रपाककलया कालाय तस्मै नमः ॥८६१॥

युधिष्ठिरोऽथ विभवं ज्ञात्वा पर्यन्ततादृशम् ।

भ्रातृभिः सह पत्न्या च महाप्रस्थानमाविशत॥८६२॥

कृष्णायाः पतने प्राह राजा विजयरक्तताम् ।

प्रियस्य दोषाकलनं वियोगे दुःखभेषजम् ॥८६३॥

सोऽवदत्प्रच्युतस्याथ सहदेवस्य धीमदम् ।

नकुलस्यादरं रूपे जिष्णोर्विजयदृप्तताम् ॥८६४॥

भीमस्य बह्वशनतां व्रजन्नेव शुना सह ।

पर्यन्तेऽचिन्तयन्नन्तः संसारविशरारुताम् ॥८६५॥

अथ व्योमपथायातं विमानं सुकृतोज्ज्वलम् ।

देवदूतार्पितं राजा नारुरोह शुना विना ॥८६६॥

तत्तस्याश्रितवात्सल्यं धर्मस्त्यक्तश्वविग्रहः ।

तुष्टः स्वं रूपमास्थाय प्रशशंस पुनः पुनः ॥८६७॥

अथ राजा समारुह्य विमानं त्रिदिवं व्रजन।

ददर्श नरकं घोरं देवदूतं प्रदर्शितम् ॥८६८॥

ततस्तद्दर्शनोद्विग्नं देवदूतस्तमब्रवीत।

राजन्द्रोणवधामत्यान्मिथ्यैतत्तव दर्शितम् ॥८६९॥

प्रजापीडाक्रीडार्जितधनभरैर्भोगसुखिनाम्

अकर्णानां क्लाम्यत्कृपणकरुणाक्रान्दसमये ।

अवश्यं भूपानां भवति विभवोन्मादकुधियां

दुरन्ता पर्यन्ते नरककलुषक्लेशकुगतिः ॥८७०॥

इत्युक्ते देवदूतेन शक्रलोकं युधिष्ठिरः ।

धर्मधाम निजं भेजे स्वं स्वं चान्ये सुरांशजाः ॥८७१॥

लक्ष्मीश्चामरतारहारहसिता मत्तेभकुम्भस्तनी

त्रैलोक्याक्रमणः पराक्रमभरः सम्भोगयोग्यं वयः ।

पूर्वं सर्वमखर्वगर्वसुखदं सञ्चर्व्यमाणं पुनः

पर्यन्ते परिणाममीलदखिलास्वादं विषादास्पदम् ॥८७२॥

इति स भुवनभूत्यै भूतभर्ता विधाय

प्रसभविभवशक्त्या भूमिभारावतारम् ।

अगमदमरसङ्घैः कीर्त्यमानप्रभावः

सह नरमुनिना स्वं धाम नारायणांशः ॥८७३॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते दशावतारचरिते

कृष्णावतारोऽष्टमः

॥८॥

*********************************************************************************

.

(९)

बुद्धावतारो नवमः

काले प्रयाते कलिविप्लवेन रागग्रहोग्रे भगवान्भवाब्धौ ।

मज्जत्सु संमोहजले जनेषु जगन्निवासः करुणान्वितोऽभूत॥१॥

स सर्वसत्त्वोपकृतिप्रयत्नः कृपाकुलः शाक्यकुले विशाले ।

शुद्धोदनाख्यस्य नराधिपेन्दोर्धन्यस्य गर्भेऽवततार पत्न्याः ॥२॥

मायाभिधाना नरनाथपत्नी

गर्भे हरिं विश्वगुरुं वहन्ती ।

आसन्नचन्द्रैव सुधाब्धिवेला

निधानधन्येव वसुन्धराभूत॥३॥

कुक्षिं ततस्तत्क्षणमक्षताया

विभिद्य मातुर्भगवान्प्रजातः ।

गर्भोदकास्पृष्टविशुद्धमूर्तिर्

जाम्बूनदेनेव विनिर्मिताङ्गः ॥४॥

स जातमात्रस्त्रिदशप्रमुक्त

नभोनदीवारिभराभिषिक्तः ।

पदत्रयीं कम्पितसर्वलोकां

दत्त्वा दिशन्दिक्षु भृशं जगाम ॥५॥

पूर्वां स्थितेयं मम निर्वृत्तिर्मे

धीः सर्वसत्त्वोद्धृतिदक्षिणेयम् ।

जन्मस्थितिः सम्प्रति पश्चिमेयं

संसारबन्धादियमुत्तरा च ॥६॥

इति ब्रुवाणं नृपतिस्तमेत्य

दृष्ट्वा त्रिलोकीपतिलक्षणाङ्कम् ।

स जातदिव्यानुभवाभिमानः

कुलस्य भूत्यै धृतिमाबबन्ध ॥७॥

तं लक्षणज्ञा जगदुः सहर्षम्

अयं शिशुर्लक्षणलक्ष्यमाणः ।

प्रभुर्भविष्यत्यवनीश्वराणाम्

अनुत्तरज्ञाननिधिर्मुनिर्वा ॥८॥

स सर्वविद्याविदितार्थसत्त्वः

सम्प्राप्तशस्त्रास्त्रगजाश्वशिक्षः ।

सर्वार्थसिद्ध्या पितुराप्तकीर्तिः

सर्वार्थसिद्धाभिधतां जगाम ॥९॥

सर्वस्वदानाभिमुखोऽर्थिसार्थे

सदेहदाने तृणवत्कृतेच्छः ।

लीलाविहारी विचरन्रथेन

ददर्श वृद्धं पथि जीर्णकायम् ॥१०॥

तं वीक्ष्य विच्छायमशक्तिलुप्तम्

अवाप्तपर्याप्तविरक्तभावः ।

सोऽचिन्तयन्निश्चितमन्तसक्ता

कायस्य निर्वेदमयी दशेयम् ॥११॥

अहो बतायं जरयाभिभूतः

कुरूपतां क्लेशमयीं प्रयातः ।

तारुण्यमाकुञ्चितकृष्णकेशं

शोचन्निवान्तः श्वसितिप्रकामम् ॥१२॥

महीनिविष्टाकृतिरल्पदृष्टिः

किं कष्टचारी नगरे करोति ।

सन्तोषशीतं श्रयति प्रशान्त्यै

किमाश्रमं श्रान्ततनुर्न वृद्धः ॥१३॥

भ्रमः कामश्वासः कफभररवः कण्ठकुहरे

श्रुतौ नेत्रे घ्राणे त्वचि सरसनायां विफलता ।

अहो वृद्धस्यास्मिन्सकलविरहक्लेशसमये

प्रमोहस्तृष्णां यत्त्यजति दयितां नैव तरुणीम् ॥१४॥

क्षणं विचिन्त्येति नरेन्द्रसूनुर्

व्रजन्पुरप्रान्तविलोकनाय ।

शोकाश्रयं हर्षविषादधाम

श्मशानमाकीर्णं शवं ददर्श ॥१५॥

स सारथिं प्राह विलोक्य लीनं

शरीरिणां कायमपायभूमौ ।

अनित्यताचिन्तनजातखेदः

संसारवैरस्य विचारसक्तः ॥१६॥

क्लेदामोदविविग्नवायसशुनः कृत्यापदस्याशुचेर्

अन्ते यस्य दशेदृशी क्षयमयी कायस्य भूशायिनः ।

मूढास्तस्य कृते परार्थहरणोद्योगं परस्त्रीरति

व्यासक्तिं परदेहदारणधनद्रोहं नराः कुर्वते ॥१७॥

नासत्यं न परापवादपिशुनं नो मर्मभिद्भाषते

नैराश्येन विशेषशीतलतनुः सेवा प्रवासोज्झितः ।

पापीपार्जनवर्जितः परगृहे द्वास्थैरसन्तर्जितः

कामद्वेषविषादमोहरहितः पश्यैष शेते शवः ॥१८॥

क्षितिप्रतिष्ठस्य कलेवरस्य

पर्यन्तभूमावियमेव निष्ठा ।

यत्काष्ठपाषाणसमानचेष्टं

प्रयाति मृद्भस्मशकृत्क्रिमित्वम् ॥१९॥

उक्त्वेति वैराग्यमयीं प्रशान्तिं

श्रयन्विचिन्त्यान्तविनाशि सर्वम् ।

अन्तःपुराभ्यन्तरमेत्य सोऽभूद्

विभूतिभोगे शिथिलाभिलाषः ॥२०॥

अन्तःपुरे तस्य नृपात्मजानां

सहस्रषष्ट्या हरिणेक्षणानाम् ।

चित्रार्पितानामिव सङ्गमोऽभून्

न शान्तिसक्तस्य सुखानुभावः ॥२१॥

ततः क्षितीशं समुपेत्य सर्वे

मौहूर्तिकां संसदि तत्त्वमूचुः ।

राजन्सुतस्ते भविता त्रिलोकी

पतिः प्रभावे भगवान्जिनो वा ॥२२॥

श्रुत्वेति राजा भुवनाधिपत्यं

पुत्रस्य यत्नेन समीहमानः ।

वनाभिकामस्य तपो निरोद्धुं

चक्रे पुरद्वारविशेषगुप्तिम् ॥२३॥

अत्रान्तरे शान्तिपथं प्रवेष्टुम्

आशापरित्यागधृतावधानः ।

अस्त्राद्रिशृङ्गाश्रमधाम्नि सूर्यः

सन्ध्याकषायाम्बरमाललम्बे ॥२४॥

रवौ प्रयाते ककुभां बभूव

घनोऽनुरागः क्षणमात्रलक्ष्यः ।

प्रमाणेन चित्तानि च जीवलोके

विद्युद्विलोकानि न कस्य नाम ॥२५॥

रवेर्वियोगे गुणिवल्लभस्य

शोकानुकारेण तमोभरेण ।

स्नेहेन साधोरिव बन्धुवर्गः

पद्माकरः क्लेशनिमीलितोऽभूत॥२६॥

दिक्केशपाशप्रतिमं तमस्तद्

दीपावलीचम्पकमालिकाङ्कम् ।

लेभे वियोगाच्च वधूस्मराग्नि

स्थानस्फुलिङ्गाकुलधूमलीलाम् ॥२७॥

अथोद्ययौ सत्त्वसितप्रकाशः

सुधां दधानः करुणामिवान्तः ।

निवारयन्मोहघनान्धकारं

विश्वोपकाराय शशीप्रवृत्तः ॥२८॥

चन्द्रोदयेऽन्तःपुरसुन्दरीणां

प्रसाधनव्यग्रपरिग्रहाणाम् ।

शृङ्गारलीलासमयं विलोक्य

क्षणं प्रदध्यौ नरनाथसूनुः ॥२९॥

इमाः संमोहाभ्रप्रसरतडितश्चारुनयना

यदक्षिक्षेपोऽन्तर्विशति हृदयं सूचिसचिवः ।

सुखादिग्धं मुग्धं विषमिव समुत्सृज्य विषयं

श्रयेऽहं पर्यन्तस्थितिपरिचितां शान्तितरुणीम् ॥३०॥

सञ्चिन्तयन्नित्यवनीशसूनुर्

द्वारेषु रुद्धेषु निशान्तपालैः ।

दिव्यप्रभावाप्तगतिर्विचार्य

विनिर्ययौ हर्म्यपथेन तूर्णम् ॥३१॥

स्वच्छन्दकाख्यं प्रविबोध्य सूतं

हयं समारुह्य च कन्थकाख्यम् ।

व्योम्ना जवाद्द्वादशयोजनानि

गत्वा वनं निर्जनमाससाद ॥३२॥

तत्रावरुह्याश्ववरात्प्रभाते

केयूरहाराङ्गदकुण्डलानि ।

मुक्त्वा किरीटं च वितीर्य सर्वं

सूताय सत्त्वाभरणस्तमूचे ॥३३॥

हंहो निवर्तस्व हयं गृहीत्वा

गृहाण सर्वाणि विभूषणानि ।

एतैर्न किंचिन्मम कृत्यमस्ति

भूभृत्कुले श्लिष्टविनष्टशिष्टैः ॥३४॥

एको वनेऽस्मिन्निति नैव कार्यस्

त्वया मयि स्नेहमयोऽनुतापः ।

सञ्जायते जन्मनि जन्तुरेकः

प्रयाति चान्ते परलोकमेकः ॥३५॥

द्रुमश्छत्रं मित्रं सरलहृदयोऽयं मम मृगः

स्थली लीलाशय्या तनुतरतरुत्वङ्निवसनम् ।

स्वकोषः सन्तोषः कृपणकरुणैव प्रियतमा

न संसारः कश्चिद्भवति विभवेऽस्मिन्परिभवः ॥३६॥

उक्त्वेति सूतं क्षितिपालसूनुः

स्वयं कृपाणेन निकृत्त जूटः ।

तमश्रुधारार्द्रपटं विसृज्य

शृङ्गं गिरेरुन्नतमारुरोह ॥३७॥

पर्यङ्कबन्धेन सुखोपविष्टे

समाधिसंनद्धविरुद्धचित्ते ।

तस्मिन्क्षणे विश्वगुरौ गिरीन्द्रः

स भग्नशृङ्गः शकलीबभूव ॥३८॥

गिरीन्द्रभङ्गेन विविग्नवक्त्रं

दृष्ट्वामरा व्योमचरास्तमूचुः ।

जगद्गुरुं त्वं गिरिरेष धर्तुं

प्रभो प्रसीदात्र शुभं न शक्तः ॥३९॥

ततः सनिष्कम्पमवाप्य देशं

वज्रासनाख्यं विकसद्विवेकः ।

अनुत्तरज्ञाननिधानमाप्तुं

धीरः स्थिरध्यानधुरन्धरोऽभूत॥४०॥

जात्यैव मारः शमनिश्चलानां

वैराग्यवैरेण विकारकारी ।

तस्येन्दुकान्त्येव कृताः समाधि

भङ्गाय कान्ताः स समादिदेश ॥४१॥

कटाक्षैः कुर्वाणाः कुवलयकुलं कान्तिविकलं

सृजन्त्यः पादाब्जैः स्थलकमलमालामलिनताम् ।

दिशन्त्यः शीतांशोर्मुखरुचिभिरायासमसमं

ययुस्तास्तस्याग्रे धृतदृढसमाधेर्विफलताम् ॥४२॥

अथागतैर्दुःसहमारसैन्यैः

शस्त्राश्मवह्निद्रुमपांसुवर्षैः ।

क्षिप्तैरनल्पप्रकरैः कुमारः

पुष्पैरिवाकीर्णतनुर्बभूव ॥४३॥

स्वयं समुत्सृष्टशरे स्मरेऽपि

याते विलक्षे घनदैन्यसैन्ये ।

वज्रासनध्यानधृतिः स सम्यक्

सम्बुद्धतां सर्वविदाससाद ॥४४॥

ब्रह्मप्रधानैस्त्रिदशैः प्रदत्तं

पात्रं समादाय सचीवरं च ।

संसारमुक्त्यै सुरमर्त्यनाग

सङ्घस्य सद्धर्ममथादिदेश ॥४५॥

हयं समादाय चिरेण सूते

शून्यासनं शाक्यपुरं प्रविष्टे ।

जनस्य सान्तापुरमण्डलस्य

समुद्ययौ तीव्रविषादनादः ॥४६॥

महीपतिः पुत्रवियोगतप्तः

प्रसुप्तजीवा क्षणमोहनिद्राम् ।

निद्रामिवासाद्य घनानुबन्धां

निःस्पन्दवृत्तिर्न विवेद किञ्चित॥४७॥

अवाप्तसंज्ञं सुचिरात्तमूचुर्

नभश्चरा मुञ्च विचार्य मोहम् ।

राजन्सुतस्ते सुगतत्वमाप्तः

सुरासुरैर्वन्दितपादपद्मः ॥४८॥

ततः क्षितीशस्त्रिजगत्प्रसिद्धं

ज्ञात्वापि तं जैनवने जिनेन्द्रम् ।

द्रष्टुं ययौ हर्षसुधानिधानं

सामात्यमित्रस्वजनः ससैन्यः ॥४९॥

तदाश्रमोपान्तमहीमवाप्य

वनं विलोक्य प्रशमाभिरामम् ।

शुद्धोदनं स्यन्दनपार्श्वसंस्थम्

उदायिनं बान्धवमित्युवाच ॥५०॥

क्रव्यादोऽपि न भुञ्जते परतनुद्रोहेण हिंसाशनं

क्रूराणामपि वैरवह्निविरहान्न क्रोधदिग्धं मनः ।

व्यालुम्पन्ति न तु स्वयं निपतितादन्यत्फलं वानरा

निर्दोषावरणं वनं भगवतः शम्भोः प्रसादादिम् ॥५१॥

अक्षोभनिर्भरजलाः सरितो वहन्ति

निर्विप्लवा विरजसः सुखयन्ति वाताः ।

सध्यानमौनमुनितां दधतीव वृक्षा

निश्चेतनेष्वपि बत प्रसृता प्रशान्तिः ॥५२॥

उक्त्वेति भूपरिवृढः शमसन्निधानं

प्राप्याश्रमाग्र्यमवरुह्य रथात्प्रहृष्टः ।

दूराद्ददर्श सुरसिद्धनरोरगाणां

रागादिदोषशमने सुगतं प्रवृत्तम् ॥५३॥

मुनिर्गतप्रततकाञ्चनपद्मपृष्ठ

पद्मासनस्थमविसंस्थुलधामधीरम् ।

मेरुं सदेहमिव चन्द्रसहस्रकान्ति

पूरैर्नवामृतचितैः कृतरूपकायम् ॥५४॥

सद्धर्मकायमुपदेशदिशा दिशन्तं

ज्ञानार्करश्मिहृतमोहमहान्धकारम् ।

सिंहोन्नतांसयुगमुन्नतबाहुनेत्रं

बालप्रवालतरुपल्लवलोहितौष्ठम् ॥५५॥

लावण्यराशिवदनं सरलोरुनासं

निर्भूषणश्रवणपाशविशेषशोभम् ।

तं निर्जितस्मरमुदारगणं प्रणम्य

लेभे प्रतिप्रणतिमानघनप्रमोदम् ॥५६॥

शक्रादिभिः सुरवरैरपि बिम्बसार

मुख्यैश्च भूमिपतिभिर्गुरुगौरवेण ।

नागैश्च नम्रवदनैरभिनन्द्यमानः

शुद्धोदनः कनकविष्टरमाससाद ॥५७॥

आनन्दबन्धुमवलोक्य तथागतेन्दुं

चित्तप्रसादमसमं समवाप्य भूपः ।

तं प्राप्य हर्षसहजाश्रुनिरुद्धदृष्टिस्

तद्दर्शनामृतरसे सुतरामतृप्तः ॥५८॥

देव प्रकामकरुणार्द्रदृशा सहर्ष

निःशेषदोषरहिता विहिता त्रिलोकी ।

कस्मादहो निजजनस्य कृतस्त्वयायं

संमोहकृद्विरहशोकदशोपदेशः ॥५९॥

नीत्वा क्षपां स्फटिकहर्म्यतले सुखेन

शय्यासु चीनवसनद्युतिसम्मितासु ।

शेषे कथं हरिणसंहतिदन्तदष्ट

शिष्टार्धशष्पपरुषासु वनस्थलीषु ॥६०॥

तच्चन्द्रकान्ति मणिशुक्तिषु सक्तशैत्यं

पीत्वा पयः कथमहो पिबसि त्वमद्य ।

ग्रीष्मोष्ममूढमहिषद्विरदावगाह

क्लिद्यद्यत्करीषकलुषोदरतिक्तमम्भः ॥६१॥

कस्मादेष विहारतामुपगतः कण्ठः कठोरेण किं

संवीतं मृगचर्मणानिलचलच्चीनांशुकार्हं वपुः ।

किं ते रत्नकिरीटधाम्नि च जटाजुटो निबद्धादरः

क्रूरक्लेशसखी सुखेषु विमुखी केनोपदिष्टा स्थितिः ॥६२॥

इत्यार्जवाज्जनपत्तौ जनकाभिमानात्

पुत्रोचितं सदसि रागमयं ब्रुवाणे ।

स्नेहोपलिप्तरजसा मलिनस्वभावं

तं तापसं भवभिषग्भगवान्बभाषे ॥६३॥

किं जीवावधिबन्धनैर्गुणगणेनाराधितैर्बन्धुभिर्

ये यान्त्यन्त्यदिने क्षणाश्रुपतनप्रत्यायनापात्रताम् ।

सद्धर्माधिगमः क्रियाव्युपरमः सत्सङ्गमः संयमः

पर्यन्तेऽप्यचलऽ विरक्तमनसामेते सतां बान्धवाः ॥६४॥

आकृष्याटविकैः परिअरपहृता सामन्तसीमान्तभूर्

ईर्ष्यार्ता मरणोद्यता प्रियतमा मुख्यस्तुरङ्गो मृतः ।

मन्त्री द्रोहसमुद्यतोऽतिबलवानित्यात्तचिन्ताशतैर्

भूपालैः किल कोमलेऽपि शयने निद्रादरिद्रः सदा ॥६५॥

आशापाशनिवेशबन्धनपृथुग्रन्थिव्यथावर्जितस्

तृष्णातापनिवृत्तिशीतलतनुर्मानावमानोज्झितः ।

रागद्वेषविषप्रशान्तिसुखितश्चिन्ताविहीने वने

पाषाणे घनदर्भसूचिनिचिते शेते सुखं निवृत्तः ॥६६॥

भोगी नित्यमजीर्णभोजनरुचा जिह्वां सदा दर्शयन्

वैद्यं पृच्छति तद्भयादभिमतं नाश्नाति तृष्णातुरः ।

भुक्त्वा स्वल्पकमपरयत्नपतितं मूलं फलं वा जलं

पीत्वा जातुरुजं जनेश भजते कांचिन्न निष्किञ्चनः ॥६७॥

शय्यास्तास्तनुतूलपेशलतलाः सा हेमहर्म्यस्थितिस्

ताः केयूरकिरीटहाररचनास्ते कुञ्जरास्ते हयाः ।

भोगास्तेऽभिमता न कस्य सुखदाः किन्त्वक्षिपक्ष्माञ्चल

च्छेदे सर्वमनन्त्यगण्यवशगं दृश्यं न किंचित्क्वचित॥६८॥

ग्रीष्मे हारतुषारचन्दनचयश्चीनांशुकं चन्द्रिका

शीते राङ्कवकुङ्कुमाङ्कतरुणीपीनस्तनालिङ्गनम् ।

रात्रौ वेणुरवोग्रवाररमणीगीतं दिने सत्सभा

यस्यैतत्क्रियते स कस्य नृपते कायः कृतघ्नः स्थिरः ॥६९॥

नैराश्ये शमशीतचित्तसुखिनां नानन्दनं चन्दनं

कारुण्याभरणाभिरामहृदये हारेण भारेण किम् ।

रत्नालङ्करणादिकं गुरुगिरामाकर्णनं कर्णयोर्

नेष्टं शीलदुकूलशीलनवतां चित्राम्बराडम्बरम् ॥७०॥

राजन्सन्त्यज्य मोहदुर्ग्रहमिमं स्नेहव्यथां मा कृथाः

संसारस्य विचारय प्रचलतां मा मज्ज जन्माम्बुधौ ।

नित्यापूर्वजनोद्भवे भवपथे प्रस्थानपान्थभ्रम

क्षिप्रालापसमागमप्रणयिनां को बान्धवः कः परः ॥७१॥

इत्युक्त्वा भगवान्नृपस्य विदधे प्राबोधिनीं बोधनां

दीप्तज्ञाननिशातवज्रशिखया कायाभिमानाभिधाम् ।

भित्त्वा विंशतितुङ्गशृङ्गगहनं स्थूलाचलं याकरतो

संसारावरणप्रहाणकलनावैमल्यलीनं मनः ॥७२॥

शाक्यानामथ तत्र मैत्रमनसां सप्ताधिकाः कोटयः

सप्त प्राप्तविवेकपूर्वकुशलश्चित्तप्रसादात्परम् ।

स्रोतः प्राप्तसकृत्समागमफलान्यागामिकार्हत्पदान्य्

आपुः सर्वजनाशयक्षयधिया सर्वज्ञसन्दर्शनात॥७३॥

अथ स भगवान्कृत्वा सर्वं जगज्जिनभास्करस्

तिमिररहितं ज्ञानालोकैः क्रमाद्गुणिबान्धवः ।

सद्धर्माख्यं निधाय परं वपुस्

तरणशरणं संसाराब्धावभूत्पुनरच्युतः ॥७४॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते

दशावतारचरिते बुद्धावतारो नवमः

॥९॥

*********************************************************

.

(१०)

कर्क्यवतारो दशमः

अथ स्वं वैष्णवं धाम गते सुगतभास्वति ।

कलौ प्रबलतां याते तमसीव सुदुःसहे ॥१॥

मर्त्यभूमिं परित्यज्य सदाचारविवर्जिताम् ।

जग्मुः कलापिग्रामाख्यं दिव्यदेशं महर्षयः ॥२॥

अवदन्मुनयस्तत्र मार्कण्डेयं चिरायुषम् ।

भगवन्कलिकालोऽयं कलुषः प्रत्युपस्थितः ॥३॥

अतोऽपि कीदृक्पर्यन्ते मलिनत्व प्रयास्यति ।

जानीमहि नहि मही भारार्ता किं करिष्यति ॥४॥

विप्रा मद्यघृतक्षीरलाक्षालवणविक्रयैः ।

जीवन्ति प्रेष्यनिरता निराचारा निरग्नयः ॥५॥

अश्रोत्रियाः किर्याहीनाः श्रुतिस्मृतिविवर्जिताः ।

विप्राः सुखेन मोक्षाप्त्यै याताः पाखण्डिशिष्यताम् ॥६॥

वृषलोपतयः प्राप्ताः क्रीडाहासकतां द्विजाः ।

नृत्तगीतकलाजालशिल्पचारणवृत्तयः ॥७॥

क्रोधलोभपराः क्रूरास्तमोमूढा द्विजातयः ।

त्यजन्ति जीवितं रज्जुविषशस्त्रानलाश्मभिः ॥८॥

अक्षत्रियाः क्षितिं सर्वाः क्षत्रसंज्ञाः क्षितीश्वराः ।

ये रक्षितारः पौराणां ते प्राणधनहारिणः ॥९॥

प्रजोपतापशापोष्णैः पापाप्तैर्भूभुजां धनैः ।

जलैः सलवणैः पीतैरिव तृष्णा प्रवर्धते ॥१०॥

कृपणाक्रन्दवधिरा मदान्धान्यायमौनिनः ।

भूपालाः कुब्जहृदया लोकपीडारताः सदा ॥११॥

अलक्ष्यं भक्षयन्त्येव क्षितीशानां दिवानिशम् ।

समुद्रं कोषमखिलं कायस्था बडवाग्नयः ॥१२॥

गायनक्षपिता लक्ष्मीर्दस्युनिर्दलिता दिशः ।

कायस्थदुःस्था पृथिवी राज्ञामज्ञावृताः सभाः ॥१३॥

मन्त्रिसेनापतिद्वाःस्थसभापतिपुरोहितैः ।

उत्कोचद्रविणोत्तानपाणिभिः क्षपिताः प्रजाः ॥१४॥

वश्यस्य क्रौर्यवक्रत्वकार्कश्याइः क्रकचोपमाः ।

सरलच्छेदिनो वैश्या वैरस्मरणतत्पराः ॥१५॥

निर्माल्यमलिनां जातिं वर्जयन्ति शनैः शनैः ।

वैश्या विप्रविवाहेन ब्राह्मण्याभिनिवेशिनः ॥१६॥

दृश्यते सरलः शङ्खः फणी च विषवर्जितः ।

कृतान्तः करुणार्तो वा न तु वैश्यः कदाचन ॥१७॥

जीव्यते कालकूटेन जीव्यते खदिराग्निना ।

जीव्यते संनिपातेन न तु वैश्येन वैरिणा ॥१८॥

निशिताः सविषा वैश्या रोषनिर्घर्षधूमिनः ।

दृश्यन्ते कलिकालस्य कठिना दशना इव ॥१९॥

शूद्राः क्षत्रियतां याता वैशतामपरे श्रिताः ।

विप्रार्हां गुरुतामन्ये होतारो ब्रह्मवादिनः ॥२०॥

श्राद्धेषु शूद्राः शूद्राणां भुञ्जते गुरुतापसाः ।

ब्रह्मस्वदारहरणे प्रवृत्ताश्च महीभुजः ॥२१॥

शूद्रस्य ब्राह्मणो दासः शिष्यश्च चरणच्युतः ।

भूमिश्च ब्रह्मदेवाख्या प्रवृत्तमधरोत्तमम् ॥२२॥

इत्येष चातुर्वर्ण्यस्य जातः कलिविपर्ययः ।

प्रतिलोमेन दृश्यन्ते प्रजानां वर्णसङ्करः ॥२३॥

ब्रह्मचर्यमतिक्रान्तं गृहिणो वेश्ययोषितः ।

वानप्रस्थस्थितिर्नास्ति यतीनां संयतिः कुतः ॥२४॥

उक्तं स्वयं भगवता गिरिशेन शास्त्रं

यद्वेदविद्भिरधिगम्यमशेषविद्यैः ।

तन्मे प्रमूर्खगुरवः प्रविहाय कष्टं

कुर्वन्ति कल्यकुरवैरुपदेशचर्चाम् ॥२५॥

चक्रस्थितौ रजकवायकचर्मकार

कापालिकप्रमुखशिल्पिभिरेकपात्रे ।

पानेन मुक्तिमविकल्परतोत्सवेन

वृत्तेन चोत्सववता गुरवो वदन्ति ॥२६॥

लब्धनिर्मलमोक्षधाम मुनिभिर्भृग्वङ्गिरः कश्यपा

गस्त्यात्रेयमुखैर्युगैरपि न यत्तत्प्राप्तमेवाबुधाः ।

मन्यन्ते खलु कौलगोलगुरुभिर्ग्रस्तार्थधाराः क्षणाद्

उच्छिष्टार्पणदेवधूननकथामात्रेण निर्यन्त्रणाः ॥२७॥

दम्भः सर्वस्य लोभान्निरवधिरधिकक्रोधकामस्तपस्वी

द्रष्टा मूढः सभायां वणिगतिघनतामल्पकालेन यातः ।

वैद्यः कायोपजीवी गृहपतिरदयः क्रूरकर्माधिकारी

बन्धुर्दारापहारी नवककलिकलिकाकोमलश्रेणिरेषा ॥२८॥

श्मशानव्रततापसार्पितचित्ताभस्मास्थिचूर्णादिभिः

सूनाबद्धपशूपमं निजपतिं निःशङ्कशून्याशयम् ।

कृत्वा गर्वगृहीतगेहविभवाः प्रागल्भ्यलब्धोदयाः

स्वातन्त्र्येण धरन्ति शीलविरहव्यापाअरधीराः स्त्रियः ॥२९॥

इत्येव विपुलः कालः कलेः प्रबलतां गतः ।

भगवन्कीदृशः प्रान्ते भविता भविता जनः ॥३०॥

श्रुत्वैतदुक्तं मुनिभिर्देवर्षिस्तानभाषत ।

यास्यत्यतोऽपि मालिन्यं सहस्रगुणतां कलेः ॥३१॥

कलिविषतरोः प्रातः प्रातर्घनप्रसरः परं

नवनवभरः पाके पाके प्रमोहकृदुत्कटः ।

अतिबहलतां पापामोदः प्रयाति सुदुःसहः

पतति जनता येनाधोधः कृतेव पदे पदे ॥३२॥

सप्तवर्षासु नारीषु पुरुषा दशवत्सराः ।

तनयान्जनयिष्यन्ति ह्रस्वाः स्वल्पबलायुषः ॥३३॥

दरत्तुरुष्कयवनाफगानशकनन्दनैः ।

सङ्कोचमेष्यति मही कुष्ठैरिव विसर्पिभिः ॥३४॥

म्लेच्छाच्छादितसर्वाशा कृपणाक्रन्दनादिनी ।

मेदः कर्दमिनी क्लेदं रक्तैर्यास्यति मेदिनी ॥३५॥

तस्मिन्काले निरालोके लोके पापतमोदये ।

उत्पत्स्यतेऽर्कसङ्काशः शिशुः कर्किकुले द्विजः ॥३६॥

विष्णुर्भूभारशान्त्यर्थी सोऽथ विष्णुयशाः क्षितौ ।

चरिष्यत्यश्वमारुह्य म्लेच्छसङ्क्षयदीक्षितः ॥३७॥

तत्खड्गाघातकृतच्युतभुजशिरसां म्लेच्छयूथाधिपानां

रक्तैः प्रक्षाल्य लीनं कलिकलुषजनासङ्गसङ्क्रान्तपापम् ।

कङ्कालाङ्काकपालव्यतिकरशबला व्यावलत्केशकन्या

त्यक्ष्यन्तेऽनुतापं व्रतमिव दधती भूतभृद्भूतधात्री ॥३८॥

निर्म्लेच्छां वसुधां विधाय सकलां देवः स्वयं माधवः

फुल्लाशोकदलोज्ज्वलां कृतयुगाविर्भावभव्यां विभुः ।

लोकानां कुशलोदयाय दशभिः स्वेच्छावतारक्रमैर्

धर्माधानधिया करिष्यति पुनर्भारावतारं भुवः ॥३९॥

श्रुत्वेति देवर्षिगिरं यथार्थां तथेति निश्चित्य महर्षयस्ते ।

विष्णोः क्षितौ कर्किकुलावतारनिवेशिताशाः सुखिनो बभूवुः ॥४०॥

इत्येष विष्णोरवतारमूर्तेः

कथामृतास्वादविशेषभक्त्या ।

श्रीव्यासदासान्यतमाभिधेन

क्षेमेन्द्रनाम्ना विहितः स्तवाग्र्यः ॥४१॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते

दशावतारचरिते कर्क्यवतारो दशमः

॥१०॥

ओ)०(ओ

कविपरिचयः

यो मत्स्यकूर्मादिविचित्ररूपैर्

आश्चर्यकारी हृदयस्थरत्नः ।

श्रीमाननन्तः स्फुटशङ्खचक्रः

श्रियेऽस्तु विष्णुर्विभवोदधिर्वः ॥१॥

कश्मीरेषु बभूव सिन्दुरधिकः सिन्धोश्च निम्नाशयः

प्राप्तस्तस्य गुणप्रकर्षयशसा पुत्रः प्रकाशेन्द्रताम् ।

विप्रेन्द्रप्रतिपादितान्नधनभूगोसङ्घकृष्णाजिनैः

प्रख्यातातिशयस्य तस्य तनयः क्षेमेन्द्रनामाभवत॥२॥

तेन श्रीत्रिपुरेशशैलशिखरे विश्रान्तिसन्तोषिणा

विष्णोः स्वल्पविलोकिता कृतिसुधासंवर्धितोत्कण्ठया ।

वाक्पुष्पैरमलैर्गुणप्रणिहितैरम्लानशोभैः स्थिरैर्

भक्तिव्यक्तदशावतारसरसः पूजाप्रबन्धः कृतः ॥३॥

स्तुतिसङ्कीर्तनाद्विष्णोर्विपुलं यन्मयार्जितम् ।

तेनास्तु सर्वलोकानां कल्याणकुशलोदयः ॥४॥

एकाधिकेऽब्दे विहितश्चत्वारिंशे सकार्त्तिके ।

राज्ये कलशभूभर्तुः कश्मीरेष्वच्युतस्तवः ॥५॥

समाप्तोऽयं ग्रन्थः ॥

********************************************************************************

.

]