राधाकुण्डोत्पत्तिवर्णनम्

[[राधाकुण्डोत्पत्तिवर्णनम् Source: EB]]

[

राधाकुण्डोत्पत्तिवर्णनम्

श्रीविश्वनाथचक्रवर्तिठक्कुरेण विरचितम्

(भागवतपुराणस्य दशमस्कन्धे षट्त्रिंशेऽध्याये पञ्चदशश्लोकस्य टीकायां संनिविष्टम्.)

मास्मान्स्पृशाद्य वृषभार्दन हन्त मुग्धा

घोरोऽसुरोऽयमयि कृष्ण तदप्ययं गौः ।

वृत्रो यथा द्विज इहास्त्वयि निष्कृतिः किं

शुद्ध्येद्भवांस्त्रिभुवनस्थिततीर्थकृच्छ्रात॥१॥

किं पर्यटामि भुवनान्यधुनैव सर्वा

आनीय तीर्थविततीः करवाणि तासु ।

स्नानं विलोकयत तावदिदं मुकुन्दः

प्रोच्यैव तत्र कृतवान्बत पार्ष्णिघातम् ॥२॥

पातालतो जलमिदं किल भोगवत्या

आयातमत्र निखिला अपि तीर्थसङ्घाः ।

आगच्छतेति भगवद्वचसा त एत्य

तत्रैव रेजुरथ कृष्ण उवाच गोपीः ॥३॥

तीर्थानि पश्यत हरेर्वचसा तवैवं

नैव प्रतीम इति ता अथ तीर्थवर्याः ।

प्रोचुः कृताञ्जलिपुटा लवणाब्धिरस्मि

क्षीराब्धिरस्मि शृणुतामरदीर्घिकास्मि ॥४॥

शोणोऽपि सिन्धुरहमस्मि भवामि ताम्र

पर्णी च पुष्करमहं च सरस्वती च ।

गोदावरी रविसुता सरयूः प्रयागो

रेवास्मि पश्यत जलं कुरुत प्रतीतिम् ॥५॥

स्नात्वा ततो हरिरतिप्रजगल्भ एव

शुद्धः सरोऽप्यकरवं स्थितसर्वतीर्थम् ।

युष्माभिरात्मजनुषीह कृतो न धर्मः

कोऽपि क्षितावथ सखीर्निजगाद राधा ॥६॥

कार्यं मयाप्यतिमनोहरकुण्डमेकं

तस्माद्यदध्वमिति तद्वचनेन ताभिः ।

श्रीकृष्णकुण्डतटपश्चिमदिश्यमन्दो

गर्तः कृतो वृषभदैत्यखुरैर्व्यलोकि ॥७॥

तत्रार्द्रमृण्मृदुलगोलतटीः प्रति स्व

हस्तोद्धृता अनतिदूरगता विधाय ।

दिव्यं सरः प्रकटितं घटिकाद्वयेन

ताभिर्विलोक्य सरसं स्मरते स्म कृष्णः ॥८॥

प्रोचे च तीर्थसलिलैः परिपूरयैतन्

मत्कुण्डतः सरसिजाक्षि सहालिभिस्त्वम् ।

राधा तदा ननननेति जगाद्यस्मात्

त्वत्कुण्डनीरमुरुगोवधपातकाक्तम् ॥९॥

आहृत्य पुण्यसलिलं शतकोटिकुम्भैः

सख्यर्बुदेन स मानसजाह्नवीतः ।

एतत्सरः स्वमधुना परिपूरयामि

तेनैव कीर्तिमतुलां तनवानि लोके ॥१०॥

कृष्णेङ्गितेन सहसित्य समस्ततीर्थ

सख्यस्तदीयसरसो धृतदिव्यमूर्तिः ।

तुष्टाव तत्र वृषभानुसुतां प्रणम्य

भक्त्या कृताञ्जलिपुटः स्रवदस्रधारः ॥११॥

देवि त्वदीयमहिमानमवैत सर्व

शास्त्रार्थविन्न च विधिर्न हरो न लक्ष्मीः ।

किं त्वेक एव पुरुषार्थशिरोमणिस्त्वत्

प्रस्वेदमार्जनपरः स्वयमेव कृष्णः ॥१२॥

यश्चारुयावकरसेन भवत्पदाब्जं

आरज्य नूपुरमहो निदधाति नित्यम् ।

प्राप्य त्वदीयनयनाब्जतटप्रसादं

स्वं मन्यते परमधन्यतमं प्रहृष्यन॥१३॥

तस्याज्ञयैव सहसा वयमाजगाम

तत्पार्ष्णिघातकृतकुञ्जवरे वसामः ।

त्वं चेत्प्रसीदसि करोषि कृपाकटाक्षं

तर्ह्येव तर्षविटपी फलितो भवेन्नः ॥१४॥

श्रुत्वा स्तुतिं निखिलतीर्थगणस्य तुष्टा

प्राह स्म तर्षमयि वेदयतेति राधा ।

याम त्वदीयसरसीं सफला भवाम

इत्येव नो वर इति प्रकटं तदोचुः ॥१५॥

आगच्छतेति वृषभानुसुता स्मितास्या

प्रोवाच कान्तवदनाब्जधृताक्षिकोणा ।

सख्योऽपितयः कृतसम्मतयः सुखाब्धौ

मग्ना विरेजुरखिला स्थिरजङ्गमाश्च ॥१६॥

प्राप्य प्रसादमथ ते वृषभानुजायाः

श्रीकृष्णकुण्डगततीर्थवराः प्रसह्य ।

भित्त्वेव भित्तमतिवेगत एव राधा

कुण्डं व्यधुः स्वसलिलैः परिपूर्णमेव ॥१७॥

प्रोचे हरिः प्रियतमे तव कुण्डमेतन्

मत्कुण्डतोऽपि महिमाधिकमस्तु लोके ।

अत्रैव मे सलिलकेलिरिहैव नित्यं

स्नानं यथा त्वमसि तद्वदिदं सरो मे ॥१८॥

राधाब्रवीदहमपि स्वसखीभिरेत्य

स्नास्याम्यरिष्टशतमर्दनमस्तु तस्य ।

योऽरिष्टमर्दन सरस्युरुभक्तिरत्र

स्नायाद्वसन्मम स एव महाप्रियोऽस्तु ॥१९॥

रासोत्सवं प्रकुरुते स्म च तत्र रात्रौ

कृष्णाम्बुदः कृतमहारसहर्षवर्षः ।

श्रीराधिकाप्रवरविद्युदलङ्कृतश्रीस्

त्रैलोक्यमध्यविततीकृतदिव्यकीर्तिः ॥२०॥

इति श्रीविश्वनाथचक्रवर्तिविरचितं

राधाकुण्डोत्पत्तिवर्णनं

समाप्तं

*

]