[[श्री-राधाप्रेमामृतम् Source: EB]]
[
श्रीमोहिनीमोहनलाहिडीविद्यालङ्कारप्रणीतं श्रीराधाप्रेमामृतम्
**श्रीश्रीराधाकृष्णाभ्यां नमः **
वस्त्रापहरणखण्डः
अथैकदा श्रीराधा यमुनां गन्तुकामा रामाः साहुतवती । यथा—
कर्पूरमञ्जरि कलावति चन्द्ररेखे
मुग्धानने सुमुखि सुन्दरि कम्बुकण्ढे ।
आगच्छताम्बुहरणाय गृहीतकुम्भाः
सम्भूय मन्दपवनां यमुनां व्रजाम ॥ १ ॥
एतन्निशम्य वचनं मृगलोचनाया
दूरे विहाय गृहकर्म गृहीतकुम्भाः ।
दामोदराननविलोकनलोलचित्ता
गोप्यो जलाय चलिता ललिताङ्घ्रिपाताः ॥२॥
सर्वा घटान्कटितटे सरसं निधाय
वामेतरां भुजलतामतिलोलयन्त्यः ।
शश्वन्मिथः प्रियकथास्मितसुन्दरास्या
गोपालवामनयना यमुनां प्रयाताः ॥३॥
ततः काश्चित्—
अन्योन्यमारब्ध्यभुजा भुजेन
स्नातुं प्रयान्त्यस्तपनात्मजायाम् ।
मन्दस्खलच्चारुकुचाभिरामा
गायन्ति शश्वच्चरितं मुरारेः ॥४॥
ततो यमुनां गत्वा—
उत्क्षिप्य चेलमधिजानु पयःप्रवाहे
शश्वद्विधूय तरसा पयसा प्रपूर्य ।
तस्माच्च किञ्चिदवकाशजले कराभ्यां
गोपाङ्गना भुजघटान्घटयां बभूव ॥५॥
ततः श्रीकृष्णो दूरे निरीक्ष्य सस्मितं, यथा
इहैव कन्दर्पकलानुकूले
कदम्बमूले निभृतो भवामि ।
कूले दुकूलं विनिधाय नीरे
गोपाङ्गना मज्जनमाचरन्तु ॥ ६ ॥
ततः कूले दुकूलं निधाय निमज्जन्तीं श्रीराधां काचिदुच्चैरूचे । यथा—
मा मज्ज मा मज्ज जले मृगाक्षि
गृहाण चेलं सहसा विबुध्य ।
आयाति सोऽयं व्रजसुन्दरीणां
निचोलचोरः पुरतः किशोरः ॥७॥
ततः श्रीराधा ससम्भ्रमं प्राह—समन्तान्निरूप्यताम् ।
श्रीकृष्णस्तत्रैव मायया अन्तर्दधौ । यथा—
सखीगणैस्तत्र निरूप्य यत्नात्
पुंसो विहीना विदिशो दिशोऽपि ।
आधाय कूले वनिता दुकूलं
पयःप्रवाहे सरसं ममज्ज ॥८॥
नीपशाखिविटपोपरि सौख्याद्
वामबाहुमुपधाय शयालुः ।
गोपिकानिभृतवीक्षणकामः
स्वापमाप कपटेन मुरारिः ॥९॥
बहुलजलविहारव्याकुलानां निपीत
स्फुटकमलमधूनां मुग्धगोपाङ्गनानाम् ।
पुलिनभुवि विलोक्य स्मेरवक्त्रारविन्दो
वसनमथ मुकुन्दो हर्तुकामो बभूव ॥१०॥
लघु लघु नवनीपान्नीपपुष्पावतंसः
सुरतसमरसिंहः स्मेरवक्त्रारविन्दः ।
चकितचकितमासां शश्वदुद्वीक्षमाणो
व्रजयुवतिनिचोलं चोरयामास कृष्णः ॥११॥
ततः कूले दुकूलमनालोक्य श्रीराधा जगाद—
कूले कलिन्ददुहितुर्निहितं दुकूलं
नालोकितं सपदि केन जनेन नीतम् ।
श्वश्रूमुखं सहजरोषवशारुणाक्षं
द्रक्ष्यामि हन्त कथमद्य कृतापराधा ॥१२॥
अपि च,
आगन्तुमत्र गुरुणा बहुधा निषिद्धा
हा हा तथापि यमुनां यदुपागतास्मि ।
प्राप्तं मया तदनुरूपफलं न जाने
किं वा फलान्तरमुपैमि गृहे गुरुभ्यः ॥१३॥
ततो जलादुत्तीर्णया श्रीराधया धावन्तं श्रीकृष्णं प्रति । यथा,
मा धव माधव विदूरमिदं दुकूलम्
आदाय कूलनिहितं मिहिरात्मजायाः ।
यातोऽसि चञ्चल निवृत्तिमुपैहि सद्यो
भद्रं भविष्यति न ते विदिते नृपेण ॥१४॥
श्रीकृष्णः स्मित्वा—
नीपे निधाय वपुरुन्नतदक्षिणांशं
सव्यांशलम्बिमणिकुण्डलमानतश्रीः ।
आलोलिताङ्गुलिदलैर्मुरलीं मुरारिर्
आपूरयन्व्रजवधूहृदयं जहार ॥१५॥
ततः—
मञ्जुहासपरिहासपेशलः
कौतुकान्नवकदम्बशाखिनम् ।
आरुरोह सरसीरुहाननो
मन्दमन्दगति नन्दनन्दनः ॥१६॥
आहूय गोपीरवधूय पाणिं
स्मेराननो नन्दसुतो जगाद ।
उत्थाय कूले नवनीपमूले
मत्तो दुकूलं नयतानुकूलम् ॥१७॥
आकर्ण्य वाणीं वनितास्तदानीं
व्रीडाविनम्रा यदुनन्दनस्य ।
परस्परं स्वीयमुखारविन्दं
विलोकयन्ति स्म तदा तरुण्यः ॥१८॥
ततस्ताः क्षणं विभाव्य श्रीकृष्णं प्रति समूचुः, यथा—
आगत्य कूले वसनं विदेहि
सर्वासु दासीषु दयां विधेहि ।
तीव्रप्रतापाय नृपाय यावद्
भवच्चरित्रं न निवेदयामः ॥१९॥
ततः श्रीकृष्णः सदर्पः—तत्किं ? यथा—
दास्यो भवत्यो यदि मे युवत्यस्
तदेत्य गृह्णीत निजांशुकानि ।
नो चेन्न दास्ये वसुधाधिनाथः
किं मेऽवधातुं क्षमते तदर्थम् ॥२०॥
ततस्तत्क्षणं विचिन्त्य शिथिलीकृतलज्जास्तरुण्यो नान्यथेति विचिन्त्य—
अधः समाच्छाद्य कराम्बुजाभ्यां
कुचौ कठोरौ पिहितौ विधाय ।
व्रीडानतास्ता बत मन्दमन्दम्
उत्तेरुरुच्चैर्यमुनाप्रवाहात॥२१॥
ततः श्रीकृष्णः स्कन्धोपरि वासांसि निक्षिप्य तरोरवरुह्य तासामन्तिकं जगाम । ततस्ताः प्रति, यथा—
उन्मील्य पश्यत दृशौ सरसास्तरुण्यो
गृह्णीत किन्तु वसनानि करं प्रसार्य ।
नो चेत्तरोरुपरि यामि कदापि नाहम्
आयामि गच्छत पुनर्यमुनाजलेषु ॥२२॥
ततः स्मित्वा क्षणमवनतमुखीभूय—मैवं मैवम् ।
श्रीकृष्णस्तदेव पद्यं पठति गोप्यस्तद्वाक्यं पुरुषं विभाव्य ।
उन्मील्य नेत्रयुगलं स्मितसुन्दरास्याः
सव्रीडितं मुररिपोर्मुखमीक्षमाणाः ।
तत्रैव पाणिकमलैकतलं प्रसार्य
सम्प्रार्थयन्ति वसनं सरसास्तरुण्यः ॥२३॥
श्रीकृष्णो विहस्य—मैवम् । पाणी प्रसार्य प्रार्थयतामिति ।
गोप्यस्तदाकर्ण्य—
वामोरुणातिगुरुणा नतवक्रमन्यम्
ऊरुं निधाय पुलकाञ्चितमुद्वहन्त्यः ।
पाणी प्रसार्य पुरतो यदुनाथ देहि
वासांसि सस्मितमिदं प्रमदाः समूचुः ॥२४॥
श्रीकृष्णः, पुनर्विहस्य—मैवम् ।
दण्डायमानौ चरणौ विधाय
नेत्रे मदीये नयने निधाय ।
प्रसार्य पाणी रमणीसमूहा
यूयं पुनः प्रार्थयतांशुकानि ॥२५॥
ततस्ताः क्षणं विमृष्य । का गतिः ? ततस्तथैव तस्थुः । ततः—
गोपिकानिभृततनोरशेषशोभाम्
आलोक्य स्मितवदनस्तथापि ताभ्यः ।
स्मेरान्तःपुलकयुजा कराम्बुजेन
प्रत्येकमेव वसनं प्रददौ मुकुन्दः ॥२६॥
आलिङ्गनानि निविडानि च चुम्बनानि
तस्मादवाप्य यदुनन्दनतोऽंशुकानि ।
साङ्केतिकं किमपि मञ्जुगृहं विधाय
सानन्दमिन्दुवदनाः स्वगृहाणि जग्मुः ॥२७॥
इति श्रीराधाप्रेमामृते श्रीगोपालचरित्रे
वसनचौर्ये जलकेलिवर्णनं नाम प्रथमः खण्डः
॥१॥
***************************************************************************
.
(३)
अथ नौकाखण्डः
विक्रीय तक्रमचिरेण निवर्तमानां
राधां सुधाकरमुखीमभिवीक्ष्य दूरे ।
कूले निधाय तरणिं सहसा मुरारिर्
धूलीगृहं तरणिजापुलिने तनोति ॥१॥
श्रीराधा सत्वरमागत्य कृष्णं प्रति—
क्षणं धूलीक्रीडां परिहर समारोह तरणिं
मुरारे चण्डांशुश्चरमगिरिचूडामणिरभूत।
पुरं दूरेऽस्माकं बहुलजलसम्भारभरितं
स्फुरद्विद्युन्मालं किमु घनकुलं नाकलयसि ॥२॥
श्रीकृष्णः स्मित्वा—
सरिदतिदुस्तरपारा
गर्जति धाराधरः शिरसि ।
अस्तं गत इव तरणिर्
वहति प्रचण्डवातावलिः ॥३॥
श्रीराधा—अत एव पारकर्मणि प्रयत्नः क्रियताम् । आतरस्तु देय एव । पश्य—
एष चुम्बति रविर्वरुणाशां
श्लिष्यति प्रतिघनं तडिदेषा ।
आतरं नय पयोधरहारं
कर्णधार सहसा कुरु पारम् ॥४॥
ततः श्रीकृष्णः—
पश्य दिक्षु तडितं तडिद्वतः
पारकर्मविधिरेष दुष्करः ।
अद्य तिष्ठ गृहिणो गृहोदरे
प्रातरेव तरुणि प्रयास्यसि ॥५॥
श्रीराधा—मैवम् । अद्य पारोऽवश्यं विधेयः ।
श्रीकृष्णः—
प्रसरति झञ्झापवनश्
चुम्बति चरमाचलं तपनः ।
पश्य निषीदति तीरे
रज्जूनिबद्धा जरातुरा तरणिः ॥६॥
स एव—अद्यैकगृहिणो गृहोदरे तिष्ठ, प्रातर्यास्यसीति ।
श्रीराधा श्रीकृष्णं प्रति—
किं वातरं न वितरामितरां मुरारे
रे कर्णधार यदिदं परुषं ब्रवीषि ।
एकां निशामपि परं कुलकामिनीनाम्
अन्याश्रमे स्थितिरियं परिवाद एव ॥७॥
श्रीकृष्णः स्मित्वा—दूषणं वर्तते यद्येवमवश्यं पारो विधेयः, तदेवमेव विधीयताम् ।
श्रीराधा—किं तत्?
श्रीकृष्णः—पश्य—
कालिन्दीयं बहुललहरीलम्बितव्योमदेशा
वेशाटोपं चकितहरिणीलोचने मुञ्च मुञ्च ।
एतैरेव स्तनगिरिगुरुश्रोणीभारैर्न जाने
जीर्णा तन्वी मम तरिरियं कामवस्थामुपैति ॥८॥
श्रीराधा श्रीकृष्णं प्रति—
गव्यभारकुचभारकञ्चुकैर्
नौरियं यदि भराकुला भवेत।
तत्क्षणं तदनु वारिणि स्वयं
क्षेपणीयमिदमेव नान्यथा ॥९॥
श्रीकृष्णः—भवतु तावत। नौकामधिरुह्य कियद्दूरं गत्वा तरणिं तरलां चक्रे । श्रीराधा श्रीकृष्णं प्रति—
तव तरणिसुताया मध्यमेतद्गभीरं
तरलतरतरङ्ग्यालिङ्गितव्योमगङ्गम् ।
तरलतरणिमारुह्याशु भीरुर्यदेषा
तव पुनरिदमस्या यौवनं जीवनं तु ॥१०॥
श्रीकृष्णः स्मित्वा—नापराधो मम भवत्या एवेति । मुग्धे पश्य । भवत्याः स्तनघटसङ्घटनात्पवनस्तरणिं तरणिजावर्ते शश्वद्ववर्तयति ।
श्रीराधा श्रीकृष्णं प्रति—
केनिपातमपहाय सहासं
हा तनोषि परिहासविलासम् ।
घूर्णते तरिरियं जलपूर्णा
कर्णधार किमयं व्यवहारः ॥११॥
अपि च—
पानीयसेचनविधौ मम नैव पाणी
विश्राम्यतस्तदपि ते परिहासवाणी ।
जीवामि चेत्पुनरहं न तदा कदापि
कृष्ण त्वदीयतरणौ चरणौ ददामि ॥१२॥
श्रीकृष्णः स्मित्वा—
पूर्वं मयोक्तमखिलं जरती तरिर्मे
तन्वी कथञ्चन जनद्वितयं दधाति ।
तत्रापि वाति विषमानिलमण्डलीयं
किं तत्र सुन्दरि करिष्यति कर्णधारः ॥१३॥
श्री राधा—
एतावतीं तव तरिं जरतीं मुरारे
जानामि चेत्तदिह किं पदमर्पयामि ।
एषा तवाभिलषितं परिपूरयामि
रे कर्णधार कुरु पारमपारकीर्ते ॥१४॥
श्रीकृष्णः स्मित्वा—यत्नादेव वाहयामि सुन्दरि तरीच्छिद्राणि आच्छादय हृदयाञ्चलेन ।
श्रीराधा तथा कृत्वा श्रीकृष्णं प्रति—
गुरुच्छिद्रोच्छेदे कुचयुगनिचोलः क्षितिरभूत्
तथाप्यन्तश्छिद्रान्निविडतरमुत्तिष्ठति पयः ।
इदानीं प्राणान्वा जघनवसनं वा मम हरे
किमाहर्तुं वाञ्छां वहति मुरशत्रो तव तरिः ॥१५॥
श्रीकृष्णः स्मित्वा—जीर्णेव तरिरिति पूर्वोक्तम् । इदानीं कः प्रतीकारः ? दैवस्मरणमत्र ।
इह तरणिसुतायाः कूलमत्यन्तदूरं
विघटिततरुमूलो मारुतो नानुकूलः ।
तरिरियमतिजीर्णा चञ्चलः कर्णधरः
शिव शिव मम कोऽयं कर्मणो दुर्विपाकः ॥१६॥
अपि च—
कीर्णा दिशो जलधरैस्तरणिः सुजीर्णा
दामोदरोऽतिचपलो नवकर्णधारः ।
एषा कलिन्ददुहितुर्लहरी गभीरा
हा हा तथापि तरणौ पदमर्पयामि ॥१७॥
ततः प्रकाशम्—
वाचा तवैव यदुनन्दन गव्यभारो
हारोऽपि वारिणि मया सहसा विकीर्णः ।
दूरीकृतं च कुचयोरनयोर्दुकूलं
कूलं कलिन्ददुहितुर्न तथाप्यदूरम् ॥१८॥
पुनः स्वगतम्—
पयःपूरैः पूर्णा सपदि गतघूर्णा च पवनैर्
गभीरे कालिन्दीपयसि तरिरेषा प्रविशति ।
परं हित्वारित्रं परमतरलो नन्दतनयो
नटो भूयो भूयस्तदपि करतालिं रचयति ॥१९॥
परं च—
प्रयत्नादावर्ते नयति तरिमत्यन्तजरतीम्
अरित्रं तत्रैव त्यजति तरओल्नन्दतनयः ।
परं भानोर्बिम्बं चरमगिरिचूडामुपगतं
न जाने राधायाः शिव शिव विधिः किं घट्टयति ॥२०॥
पुनर्निःश्वस्य—
दूरे बन्धुजनो मनागपि दयाशीलो न पीताम्बरः
स्निग्धैरम्बरलम्बिभिर्जलधरैः पीताः समस्ता दिशः ।
एषा जीर्णतरा तरिस्तरणिजा पूर्णा तरङ्गोत्करैर्
नो जानेऽद्य ममाचिराय भविता हा हा गतिः कीदृशी ॥२१॥
अपि च—
भूयो भूयो वहति मरुतां मण्डली चण्डवेगा
जीर्णामेनां तरणिमभितो निर्भरं घूर्णयन्तीम् ।
हारः पुण्यं त्वयि विनिहितं नन्दसूनो ममैतत्
क्षिप्रं क्षिप्रं सुभग भवता क्षिप्यतां केनिपातः ॥२२॥
श्रीकृष्णः स्मित्वा—एषोऽहं वाहयामीति जवादभिवाह्य—
त्वरितमरुणपुत्रीपारमात्रं विधेहि
प्रतिमुहुरिति काकुव्याकुलैस्तद्वचोभिः ।
जलनिविडनिपातक्षुण्णमारादरित्रिं
तरुणि तरणिमित्रं खण्डखण्डीबभूव ॥२३॥
श्रीराधा स्मित्वा ससम्भ्रमं श्रीकृष्णं नापराधिनी किन्तु विधिः । पुनः सकाकु श्रीराधा जगाद—
गभीरे कालिन्दीपयसि तरणौ मग्नवपुषि
स्फुरद्भङ्गोत्तुङ्गे त्वमपि किमु जीविष्यसि हरे ।
अतस्तूर्णं पूर्णामलविधुमुखीनागर कर
द्वयं कृत्वारित्रं तर तरणिपुत्रीं भगवतीम् ॥२४॥
श्रीकृष्णः स्मित्वा—
यदि भवति निमग्ना नौरियं वारिपूर्णा
शृणु सखि तदुपायं निर्गतापायमुच्चैः ।
भवदुरसिजकुम्भद्वन्द्वमालम्ब्य यत्नात्
तरुणि तरणिपुत्रीं सन्तरिष्यामि सद्यः ॥२५॥
श्रीराधा—
अस्तं गच्छति सद्यस्तरणिस्
तत्सुतायामियं च तरणिः ।
जीवनयौवनमुभयोस्
तदपि तवायं परिहासः ॥२६॥
श्रीकृष्णः स्मित्वा—सुन्दरि प्रतीकारश्चिन्त्यताम् ।
श्रीराधा—प्रतीकारो भवानेव ।
श्रीकृष्णः—नाहं, किन्तु यौवनपण्यम् ।
श्रीराधा स्मित्वा—
कुरु पारं यमुनाया
वारं वारं वेपते मे हृदयम् ।
अन्ते यौवनपण्यं
नाथ तवास्ते यौवनं हस्ते ॥२७॥
श्रीकृष्णः स्मित्वा, हृदयाश्वासं समासाद्य मायानिर्मितं पुलिनं दर्शयन्—
तरुणि तरणिपुत्रीमध्यमासाद्य जातं
पुलिनमतिमनोज्ञं पश्य पश्यान्तिकस्थम् ।
अतिनिविडनिकुञ्जे मञ्जुकुञ्जे द्विरेफे
तरलपवनचेष्टे भीतिलेशोऽपि नास्ति ॥२८॥
श्रीराधा विलोक्य हर्षं सूचयन्ती—अये जीवनमायातं तरणिं शीघ्रं वाहय ।
त्WO Pआङ्ES OF त्EXतंईऽऽईण्ङःEऱ्E (४२४३)
ततो रोमावलिमालोक्य विहस्य च—
अन्योन्यपीडामवलोक्य गाढं
वक्षोजयोः सुन्दरि सीम्नि वादे ।
मध्ये ददौ नूतनरोमराजी
व्याजेन सेतुं किल मीनकेतुः ॥३४॥
पुनस्तं निर्वर्ण्य—
वारिप्रबन्धमिव चित्तमतङ्गजस्य
दुर्गाचलो गिरिशभीतिभृतः स्मरस्य ।
धैर्याय मन्दरगिरिर्नवरूपरत्न
कोषस्तनोति मम तोषमयं कुचस्ते ॥३५॥
पुनस्तथापि परिहासं विधाय विविधमन्मथक्रीडां तत्रानुभूय स वेगेन राधया सह यमुनायाः पारं जगाम । तत्र गत्वा राधामालिङ्ग्य—सुन्दरि नाहं विस्मरणीयः ।
श्रीराधा—जीवनयौवनमहौषधिर्भवानिति किं वा जीवनं विस्मरणीयमित्युक्त्वा श्रीराधा जगाम ।
इति श्रीराधाप्रेमामृते श्रीगोपालचरित्रे
तृतीयो नौकाखण्डः समाप्तः
॥३॥
**************************************************************************
.
(४)
अथ दानखण्डः
ततो दिनान्तरे गोपाङ्गनानां भारमादाय गव्यं विक्रेतुं मथुरां व्रजन्तीमालोक्य श्रीकृष्णो जगाद—
अत्र क्षणं विरम सुन्दरि नीपमूले
कूले कलिन्ददुहितुः सह गोपिकाभिः ।
अद्य त्वया किमिति न श्रुतमस्ति भारे
पारे कलिन्ददुहितुः करमाचकार ॥१॥
श्रीराधा—एतेन भवतः किमायातं ?
श्रीकृष्णः—तदाकर्ण्यताम् ।
कंसेन भूमिपतिना महतातियत्नान्
नीत्वात्र कर्मणि करग्रहणे नियुक्तः ।
तेन स्वयं शिरसि मे निहितं विचित्रं
वस्त्रं विलोकय विलोलमृगायताक्षि ॥२॥
श्रीराधा क्षणं विचिन्त्य—करयोग्यं वस्तु नास्ति ।
श्रीकृष्णः—का शङ्का ? विचार्यताम् ।
किं वस्तु रक्षसि निधाय पिधाय यत्नाच्
चेलाञ्चलेन नयसे चपलायताक्षि ।
एतद्विचारय करार्हमिदं मदीयं
किं वा न वा भवति तत्प्रतिलोकयामि ॥३॥
श्रीराधा सरोषम्—एतदध्यवसायो व्यवसायश्च भवतो यत्परप्रेयसीं प्रति एतावती मुखरता दुष्टता च ।
जातो भवान्विधिवशाद्यदि वाधिकारी
तत्रापि ते पतति नैव पदं धरायाम् ।
एतत्पुनः प्रमितमप्रमितं न जाने
तत्रेदृशी स्फुरति कृष्ण कथं कुवाणी ॥४॥
श्रीकृष्णः स्मित्वा—प्रमितमेव तत्कथं कुवाणी स्फुरति ? इति तत्प्रत्यक्षमेवानुभविष्यति ।
मुग्धाक्षि कञ्चुकमिदं परिहृत्य दूरे
वक्षःस्थवस्तु विदितं भवती विधत्ताम् ।
नो वा महीपतिकरग्रहणे नियुक्तो
देहे तव स्वयमहं करमर्पयामि ॥५॥
श्रीराधा सरोषं कटाक्षं पश्यन्ती जगाद—
नन्दनन्दन कुचेष्टाकरीन्द्रसिंहः
सिंहासने किमु न तिष्ठति कंसराजः ।
तस्याधिकारमधिगत्य कुलाङ्गनानां
देहे त्वमर्पयितुमिच्छसि हन्त हस्तम् ॥६॥
श्रीकृष्णः सरोषम्—अयि किमिच्छया एष दीयते करः ? नो वा स्वयं विचारमङ्गीकुरु ।
श्रीराधा सरोषं श्रीकृष्णं प्रति—अरे कस्य हि स्कन्धे मस्तकद्वयं ? यः परस्त्रीदेहे हस्तं क्षिपति ।
पतिर्ममातीव दुरन्तकारी
छिद्रानुसारी नृपतिः करालः ।
इतीव विज्ञाय मदीयदेहे
स्वयं करं दास्यसि नन्दसूनो ॥७॥
श्रीकृष्णः—वयं राज्ञा नियुक्ताः । तत्कार्यमेव वयं कुर्महे । पणो वा कथं न दीयते ? गर्वः कथं क्रियतां ?
श्रीराधा—करयोग्यं वस्तु नास्ति । कस्मिन्वा करग्रहः ?
श्रीकृष्णः—श्रूयतां रत्नमस्त्येव भवत्तनौ रत्नादिषु च भावेषु करग्रहः ।
तथा हि,
वक्षोजौ तव सातकुम्भकलसौ केशा बृहच्चामरा
माणिक्यं दशनच्छटा मरकतश्रेणी च रोमावली ।
अन्यद्वा निभृतं यदस्ति परमं चेलाञ्चलेनावृतं
विज्ञाय व्यवहर्तुमिच्छसि न चेद्दोषं न मे दास्यति ॥८॥
अपि च,
राधे त्वदीयहृदि काञ्चनकुम्भयुग्मं
लावण्यरत्नपरिपूर्णमिदं विभाति ।
तस्योपरि स्फुरति मौक्तिकहारयष्टिर्
नालोकसे किमिति रत्नमयं शरीरम् ॥९॥
श्रीराधा—भवतु । तावद्रत्नादीनां कीदृक्करस्तत्कथ्यताम् ।
श्रीकृष्णः स्मित्वा—श्रूयतामेतत।
आघोटनं स्तनसुवर्णघटद्वयस्य
सन्दंशनं दशनमौक्तिकविद्रुमस्य ।
आकर्षणं कुटिलकुन्तलचामरस्य
पानं चकोरनयनेऽधरपल्लवस्य ॥१०॥
श्रीराधा स्मित्वा—न करो देयः । वयं राजधानीं व्रजामः । इति सखीनां कोलाहलो महानभूत।
इति बहुविधदर्पोद्योगमाकर्ण्य तस्या
हृदि विनिहितहस्तो व्याकुलेनाङ्गनायाः ।
सपदि कुचदुकूलं दूरमुत्क्षिप्य नीतं
निरुपममथ मुक्तादाम दामोदरेण ॥११॥
ततस्तस्य चरितमुद्वीक्ष्य गोपाङ्गनाः कृतकोलाहला हस्ततालं दत्त्वा साक्षिणं चक्रुः । श्रीकृष्णः सप्रणयं श्रीराधां प्रति—
दत्त्वा ममाभिलषितं मथुरानगर्यां
स्वच्छन्दमिन्दुमुखि सुन्दरि गच्छ गच्छ ।
नो चेदिहैव समयं गमयाद्य मुग्धे
त्वं मुञ्च दुग्धदधिविक्रयणक्रियां च ॥१२॥
श्रीराधा विचिन्त्य—का गतिः ? सखीमुखं वीक्षमाणा लज्जिता । ततः सख्यः—पथि बलात्क्रियते चेत्का गतिः ? को वा करणीयः ? तदस्य पथि मथुरां न व्रजामः ।
श्रीकृष्णः स्मित्वा—इयमदूरे कुञ्जभूमिः । तत्र त्वमनुसर । इतश्चैव ।
पश्य सुन्दरि कलिन्दनन्दिनी
वीचिचुम्बनविलासलम्पटः ।
केतकीवनविहारकौतुकी
मन्दमन्दमयमेति मारुतः ॥१३॥
प्रेयसीहृदि निधाय पक्षती
कुट्मलीकृतविलोललोचनः ।
वक्त्रनिर्गमितचूतकुट्टलं
मानसं हरति मुग्धकोकिलः ॥१४॥
अपि च—
एषा वल्ली कुसुमसहिता चूतमालम्ब्य गाढं
धत्ते रम्यं मुकुलपुलकं प्रेमगर्भं सनाथम् ।
पायं पायं मधुमधुकरी मालती मल्लिकानां
भ्रामं भ्रामं लसितलसितं चुम्बति प्राणनाथम् ॥१५॥
ततः श्रीराधा—
अन्योन्यबाहुपरिशीलितकण्ठदेशं
शश्वन्मिथः स्मरकथास्मितसुन्दरास्या ।
नीलाभ्रमुन्मधुगुञ्जितभृङ्गपुष्पं
कुञ्जं जगाम तरसा हरिणायताक्षी ॥१६॥
ततस्तत्र गत्वा कल्पद्रुमनवपल्लवकल्पिततल्पेषु कुञ्जमध्येषु राधामुरसि निधाय स्वपिति । श्रीकृष्णः ततस्तत्र विविधमन्मथक्रीडामनुभूय निजभवने तरसा गमनं चक्रे । श्रीराधा सखीजनैः सह भारमादाय मथुरां गतवती ।
इति श्रीराधाप्रेमामृते श्रीमोहिनीमोहनलाहिडीविद्यालङ्कारप्रणीते श्रीगोपालचरित्रे चतुर्थो दानखण्डः सम्पूर्णः ॥
सम्पूर्णोऽयं ग्रन्थः ।
*****************************************************************************
]