यतिराजमङ्गलानुशानम्

श्रीमन्महाभूतपुरे श्रीमत्केशवयज्वनः । कान्तिमत्यां प्रसूताय यतिराजाय मङ्गलम् ॥ {१} वरवरमुनेः शेषो वा सैन्यनाथो वा श्रीपति वेति सात्विकैः । वितर्क्याय महाप्राज्ञैः यतिराजाय मङ्गलम् ॥ {२} अनन्ताल्वारु-कृतिः नाथपद्माक्षरामार्यपादपङ्कज सेविने । सेव्याय सर्वयमिनां यतिराजाय मङ्गलम् ॥ {३} श्रीकाञ्चीपूर्णमिश्रोक्त रहस्यार्थविदे सदा । देवराजप्रियायास्तु यतिराजाय मङ्गलम् ॥ {४} आचार्याणाम् सन्यासं कुर्वते काञ्च्यां अनन्तसरसीतटे । वरदे न्यस्तभाराय भाष्यकाराय मङ्गलम् ॥ {५} श्रीपराङ्कुशपादाब्ज सुरभीकृत मौलये । श्रीवत्सचिह्ननाथाय यतिराजाय मङ्गलम् ॥ {६} वरवरमुनेः श्रीरङ्गराजकैङ्कर्य-दिव्यसाम्राज्यरक्षणे । विशिष्टाद्वैतदीक्षाय यतिराजाय मङ्गलम् ॥ {७} गत्वा तु शारदापीठं वृत्तिं बोधायनस्य च । अवलोक्यागतायास्तु भाष्यकाराय मङ्गलम् ॥ {८} परमाणुमृषावादिवादिसंहारकारिणे । तस्मै भगवते श्रीमद्भाष्यकाराय मङ्गलम् ॥ {९} शङ्करादिकुदृष्टीनां बाह्यानां निधनाय च । श्रीभाष्यं कुर्वते तस्मै यतिराजाय मङ्गलम् ॥ {१०} वरवरमुनेः श्रीमत्कुरङ्गपूर्णाय श्रीभाष्यं वदते स्वयम् । पित्रे संपत्सुतस्यापि यतिराजाय मङ्गलम् ॥ {११} द्रमिडोपनिषद्व्याख्यां कालयेति कृपाबलात् । शासते कुरुकेशं तं यतिराजाय मङ्गलम् ॥ {१२} आचार्याणां यो मन्त्ररत्नं व्यवृणोत् गद्यत्रयसूक्तिभिः । तस्मै प्रसन्नधुर्याय यतिराजाय मङ्गलम् ॥ {१३} वरवरमुनेः कृत्वा यदुगिरीशस्य यौवराज्यं श्रियःपतेः । संपत्सुतस्य ताताय यतिराजाय मङ्गलम् ॥ {१४} वेङ्कटगुरोः द्विपञ्चालद्वैषाग्रे स्वार्थे संपत्सुताय च । अर्चारूपर्ग्रहीतेऽस्याद्य यतिराजाय मङ्गलम् ॥ {१५} आचार्याणां दत्वा वृषगिरीशस्य शङ्खचक्रे रमापतेः । परमप्रीतियुक्ताय यतिराजाय मङ्गलम् ॥ {१६} वेङ्कटगुरोः गोदा वाङ्मनसप्रोक्तमत-कैङ्कर्यकारिणे । गोदाग्रजाय मुनये यतिराजाय मङ्गलम् ॥ {१७} वरवरमुनेः श्रीरङ्गाधीश्वराभीष्ट-दिक्पवनेषु सन्ततम् । व्यामुग्धमानसायास्तु यतिराजाय मङ्गलम् ॥ {१८} वेङ्कटगुरोः यात्राव्याजेन जगते मपुनाद्यस्कशादतः । पवित्रमूर्तये तस्मै यतिराजाय मङ्गलम् ॥ {१९} आचार्याणां कूरेशकुरुकानाथदाशरथ्यादिदेशिकाः । यच्छिष्या भान्ति ते तस्मै यतिराजाय मङ्गलम् ॥ {२०} वेङ्कटगुरोः यस्मैत्कर्यं च माता च नित्याचार्यश्रियः पतिः । वरं पाराङ्कुशीवात्स्यात् यतिराजाय मङ्गलम् ॥ {२१} वरवरमुनेः प्राचीनानां च वाक्यानां फलाय तपसां नृणाम् । जगज्जीवातवे भूयात् यतिराजाय मङ्गलम् ॥ {२२} मिथोऽनपेक्ष-मोक्षैकदानदक्षरजोङ्घ्रये । करुणावक्ष्मलाक्षाय यतिराजाय मङ्गलम् ॥ {२३} यद्वचः श्रीदया वापि वेनाक्षरमयं भवेत् । सार्वज्ञशालिने तस्मै यतिराजाय मङ्गलम् ॥ {२४} यत्पादसेविनः पुंसः ज्ञानभक्तिविरक्तयः । भूषयन्ति स्वयं तस्मै यतिराजाय मङ्गलम् ॥ {२५} सालग्रामगुरुस्राव्य-स्वपादूतीर्थमन्त्रिणे । प्रसन्नगायत्रीशाय यतिराजाय मङ्गलम् ॥ {२६} प्रकृष्टगुणपूर्णाय प्राप्याय स्वाङ्घिसेविनाम् । प्रपन्नसार्थवाहाय यतिराजाय मङ्गलम् ॥ {२७} वरवरमुनिः लक्ष्मणो बलभद्रश्च तिन्त्रिणी पार्थसद्रथः। यो भूतभव्यावताराय यतिराजाय मङ्गलम् ॥ {२८} आचार्याणां शेषांशेनावतीर्णाय श्रीरामानुजयोगिने । गुरूणां गुरवे भूयान्नित्यश्रूः नित्यमङ्गलम् ॥ {२९} अभिरामवरस्य मङ्गलाशासनपरैर्मदाचार्यपुरोगमैः । सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ {३०} वरवरमुनिः इति श्रीयतिराजमङ्गलानुशानं समाप्तम्