वरवरमुनिसुप्रभातम्

रविरुदयत्यथापि न विनश्यति मे तिमिरं विकसति पङ्कजं हृदयपङ्कजमेव न मे । वरवरयोगिवर्य वरणीयदयैकनिधे जय जय देव जागृहि जनेषु निधेहि धियम् ॥ {१} स्वपनमिदं तव स्वमहिमानुभवैकरसं तदपि तथाविधं तदिति जातु न वेत्ति जनः । वरवरदेवदेव तदिदं विजहातु भवान् अपरिमितं हितं त्रिजगतामनुचिन्तयितुम् ॥ {२} अवतरणं च देव जगतामविवेकभृतां विविध-हितावबोधन-कृते हि कृतं भवता । तत इत एहि योगशयनान्मम नाथ जनान् अमृतमयैरपाङ्गवलयै-रभिषेचयितुम् ॥ {३} शरदरविन्दवृन्द-सुषमा-परिपोषजुषा तव नयनेन केचन परे चरणेन तथा । मधुरगभीरधीरचतुरैरुदितैरितरे वरदधुरन्धरन्ति भवसिन्धुममुं तरितुम् ॥ {४} परमनभोनिवासफणि-पुङ्गव रङ्गपतेः भवनमिदं हिताय जगतो भवताधिगतम् । तदपि तमेव देव सुगतिं प्रकटीकुरुषे तदिह महत्तवैव कुरु वैभवमुद्भिदुरम् ॥ {५}

त्वदभिमतप्रियस्त्वदनुवर्तनधन्यतमात् अलमतिरिक्त इत्यखिललोकसुबोधमिदम् । अवनितलं त्वदीप्सितमिदं च हि तत्र वसन् अयमखिलस्तदेव निरपायमुपैति पदम् ॥ {६} इति श्रीमद्वरवरमुनि-विरचित-सुप्रभातम्