वरदराज-सुप्रभातम्

कौसल्यासुप्रजा राम पूर्वा सन्ध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ मातः प्रसन्नवरदप्रियवल्लभे त्वां फुल्लारविन्दविलसच्चरणैकसेव्याम् । कल्हारहस्तकलितात्ममुखानुकारां अग्रे वरदाभयकरां शरणं प्रपद्ये ॥ {१} द्विरदाद्रिसीम्नि वरदाख्यदैवतं परमं चकास्ति चरमं च वेदिनाम् । वहतीह देवि महति त्वया दयां तव सुप्रभातमनु तस्य सन्ततम् ॥ {२} इह जगति मनीषा भूषणानां जनानाम् अहमहमिकया ये हर्षदानाय वेषाः । तदनु गुणतनूनां तत्तदिष्टार्थसिद्ध्यै दिशतु वरदराजो देवराट् सुप्रभातम् ॥ {३} सकल-भुवनसीमा-सार्वभौमस्य विष्णोः हयमख-वरदीक्षा-दक्षिणे पद्मयोनौ । भुवन-नयन-भाग्यात् पुण्यकोट्यामुदीतौ दिशतु वरदराजो देवराट् सुप्रभातम् ॥ {४} भगवति फणिराजे भक्तवात्सल्यसिन्धौ पद-सरसिज-सेवा शान्तिवीव्रे प्रसन्ने । तदभिमतफलार्थं तत्सरस्तीरजातः दिशतु वरदराजो देवराट् सुप्रभातम् ॥ {५} दिशि दिशि समुदितैः दिग्गजेन्द्रैरमोघैः अहहरभिजातैः अम्बुजैरर्च्यमानः । करिगिरिवरभागे कल्पितानेक-भोगे दिशतु वरदराजो देवराट् सुप्रभातम् ॥ {६} अनिल-सुरस-वह्निश्चन्द्र-भूतेशरक्षो वरुणमहिषवाहैः वन्द्यमानाङ्घ्रिपद्मः । तदुचितफलदायी तत्तदैश्वर्यदायी दिशतु वरदराजो देवराट् सुप्रभातम् ॥ {७}

अखिल-सुरसमूहैः अस्मदाचार्यवर्यैः अतिनियमविशेषैः आगमोक्तैरनेकैः । अनुदिनमतिमोदैः अर्चितो नित्ययोगैः दिशतु वरदराजो देवराट् सुप्रभातम् ॥ {८} विरचितरतिभावो वेगवद्युत्तरस्याम् सुरचितपरिपाकैः सूनृतैस्सज्जनानाम् । विलसदुभयभावो विच्छ्रुते दानभावो दिशतु वरदराजो देवराट् सुप्रभातम् ॥ {९} इह जनमुपयाता यत्पदाम्बोजसेवात् जनित-जनन-भाग्यात् ज्ञायमानप्रमोदाः । परम-पुरुष-पादाभ्याशमायान्ति सोऽयं दिशतु वरदराजो देवराट् सुप्रभातम् ॥ {१०} इति विरचितमेतत् सुप्रभाताष्टकम् यः पठति सततमादौ प्रातरुत्थाय धीरः । तदभिलषितसिद्धिं दातुमेवात्मवाणौ वहति वरदमुद्रां देवराजन्तमीडे ॥ {११} इति श्रीवरदराज-सुप्रभातं समाप्तम्