शाक्तिपञ्चमयविग्रहात्मने शुक्तिकारजितचितहारिणे । मुक्तिदायकमुरारिपादयोः भक्तिसारमुनये नमो नमः ॥
तिरुनक्षत्रश्लोकः
तुलायां श्रवणे जातं काञ्च्यां काञ्चनवारिजात् । द्वापरे पाञ्चजन्यांशं सरोयोगिनमाश्रये ॥ काञ्च्यां सरसि हेमाब्जे जातं कासारयोगिनम् । कलये यः श्रियःपत्युः रविं दीपमकल्पयत् ॥ पूदत्ताल्वार् नाम श्रीभूतमुनिः मल्लापुरे नाम अद्यतनमहाबलिपुरे सरोमुनेः अवतारदिनानन्तरदिने धनिष्टानक्षत्रयुक्तनवम्यां बुधवासरे कस्मिंश्चित् माधवीनिकुञ्ज तत्कुसुमे कौमोदकीगदांशभूतो अवातरत् ।
तिरुनक्षत्रश्लोकः
तुलाधनिष्ठासंभूतं भूतं कल्लोलमालिनम् । तीरे पुल्लोत्पले मल्लापुर्यामीडे गदांशजम् ॥ मल्लापुरवराधीशं माधवीकुसुमोद्भवम् । भूतं नमामि यो विष्णोः ज्ञानदीपमकल्पयत् ॥ पेयाल्वार नाम महदाह्वयमुनिः मयूरपुर्यां नाम अद्यतनमैलापूर नगर्यां श्रीभूतमुनेः अवतारदिनानन्तरदिने शतभिषानक्षत्रयुक्तदशम्यां गुरुवासरे कस्मिंश्चित् कूपे रक्तोत्पले नन्दकाख्यभगवत्खड्गांशों अवततार -
तिरुनक्षत्रश्लोकः
तुला शतभिषग्जातं मयूरपुरकैरवात् । महान्तं महदाख्यातं वन्दे श्रीनन्दकांशजम् ॥ दृष्ट्वा तुष्टाव यो विष्णुं रमया मयिलाधिपम्। कूपे रक्तोत्पले जातं महदाह्वयमाश्रये ॥ पद्मारमणपादाब्जप्रेमभ्रान्त्या मनोज्ञया। भ्रान्तयोगीति विख्यातं मुनिं वन्दे गुणाम्बुधिम् ॥ मल्लापुरवराधीशं माधवीकुसुमोद्भवम् । भूतं नमामि यो विष्णोः ज्ञानदीपमकल्पयत् ॥ तुलाशतभिषग्जातं मयूरपुरि-कैरवात् । महान्तं महदाख्यातं वन्दे श्रीनन्दकां शकम् ॥ पद्मारमण-पादाब्ज प्रेमभ्रान्त्या मनोज्ञया । भ्रान्तयोगीति विख्यातं मुनिं वन्दे गुणामबुधिम् ॥ भक्तिसारुलनंबडु तिरुमलिशै याल्वारुल-प्रभावः पञ्चशक्तिमय-दिव्य-विग्रहं भक्तिमत्सुजनभूर्यनुग्रहम् । पापचेतनमनोऽतिदुर्ग्रहं भक्तिमत्सुजन-भूर्यनुग्रहम् पापचेतन-मनोऽदुर्ग्रहं भक्तिसारमुनिमाश्रयेऽन्वहम् ॥