सत्यवरदराज-मङ्गलम्

आल्वार्तिरुनगरि-तिरुवेङ्कटत्तय्यङ्गार् समर्पितं श्रीसत्यवरदराज-मङ्गलम् मङ्गलम् वरदायास्तु सत्याख्य-पुरवासिने । श्रीशाय श्रित-रक्षित्रे श्रीवत्सयास्तु मङ्गलम् ॥ {१} अभीतिप्रदहस्ताय अभीष्टफलदायिने । अकारवाच्यभूताय अस्मद्देवाय मङ्गलम् ॥ {२} कालमेघनिपापाय कारुण्यामृत-वर्षिणे । प्रयोगचक्रहस्ताय प्रभवे मम मङ्गलम् ॥ {३} प्रपन्नजनकूटस्थ-प्रकाशितप्रतिष्ठया । सुतराम् भ्राजमानाय सुरराजाय मङ्गलम् ॥ {४} श्री काञ्चीपूर्णमिश्राय सम्प्रदायार्त्तदायिने । सादरं संयमीन्द्रेण संसेविताय मङ्गलम् ॥ {५} भार्गवीप्रियनाथाय भानुमण्डलस्थायिने । भासमानासमानाय भक्तप्रियाय मङ्गलम् ॥ {६} बृहद्देवीसमेताय प्रणतार्त्तिहराय च । क्षेमङ्कराय सर्वेषाम् देवराजाय मङ्गलम् ॥ {७} सम्फुल्ल-पद्मनेत्राभ्यां समस्तक्लेशनाशिने । सत्यवरदराजाय सर्वदा तव मङ्गलम् ॥ {८} मङ्गलाशासनपरैः मदाचर्यपुरोगमैः ।
सर्वैश्च पूर्वैराचार्यै सत्कृतायास्तु मङ्गलम् ॥ {९} श्रियै नमः श्रीमते रामानुजाय नमः श्रीमते श्री पराशर-भट्टारक-महादेशीकाय नमः