संपत्कुमारस्तवः

माया कल्पित नैज खेलन हिताशेषप्रपञ्चौ श्रेयांस्याश्रितसार्धमादरवशात् प्रेम्णा नयन्तौ प्रियौ । जीयास्तां यदुशैलशेखरमणी तौ दम्पती सर्वदा न्यायादस्मदभीप्सितानि कुरुतां एतौ प्रसन्नप्रियौ ॥ {१} मोहाविर्भवगाढरूढमिरप्राग्भारसूर्यप्रभः दृष्यत्कुत्पितशुष्कतर्क गहने दावाग्निदर्भावहः । संप्राप्ताश्रितसच्चकोरकततौ राकाशशांकायितः यद्वद्रिस्थयतीन्द्रसंयमिवरो जेजीयतां सर्वदा ॥ {२} श्री रामानुज-भाष्यकार भगवन्नस्मत्कुलोत्तारकं त्वत्पादाम्बुरुहद्वयं हृदि मम श्रेयस्करं स्थापय । यत्सम्पूर्णमुपाय मार्तिहरणे संसार तापत्रय स्वस्थस्वांतनतामविरतध्येयं विदुस्साधवः ॥ {३} महान्तं त्वामेकं पुरुषमभिधाय श्रुतिरपि त्वदन्तः कल्याणेष्वपरिमितसंख्येषु किमपि । गुणेष्वानन्दाख्यं कथयितुमुपक्रम्य न पदं मनो वाचोराह त्वयि किमुत सम्पत्सुत वयम् ॥ {४}

वक्ता त्वं वाचकस्त्वं तदभिहितविचित्रार्थ सारस्त्वमेवसाध्यं त्वं साधनं त्वं सकलमपि भवान्नाथ संपत्कुमार । जिह्वाग्रे मे प्रविश्य प्रचुरय सिवचां स्यात्मलीलार्थ- मेवं किंचित्कारेण दासं सफलयितुमहो नेहमन्येन्यहेतुम् ॥ {५} निचरीकरीतु करुणावात्सल्यवारां निधिः कल्याणाख्य सरस्सरोजकलित स्वांङ्घ्रिद्वयाम्भोरुहः । तुल्यापेतमनोहर-स्वतनु-सौन्दरेण सर्वात्मनां शल्यानिव्यपनीय हृत्सरसयन् सम्पत्कुमारो हरिः ॥ {६} कारुण्यं प्र सरीसरीतु तरुणां भोजाक्षलक्ष्मीपतेः हीरन्यासविचित्र वज्रमकुटोत्तं सस्य वर्गेषु नः । हैरण्याम्बर शङ्खचक्रतुलसीदामाभिरामाकृतेः तारुण्यामृतसारसुन्दरतनोः सम्पत्कुमार प्रभोः ॥ {७} कस्तूरीतिलकाभिरामनिटिलं भास्वत्किरीटोज्वलं हस्तन्यस्तसुदर्शनाब्जगदमत्याश्चर्यरूपाकृतिम् । कण्ठालम्बि विचित्रमौक्तिकसरं दिव्याम्मरालङ्कृतं श्रीमत्पादसरोरुहद्वयमहं सम्पत्कुमारं श्रये ॥ {८} आरूढो गरुडं गरुत्परिवृतन्सराड्यदुक्ष्माधरेमः तस्यन्यस्तविचित्रवज्रमकुटश्श्रीभूमि नीलासखः । चन्द्रद्वन्द्वविडम्बि-दिव्यधवल-च्छत्रद्वयः पार्श्वयोः चञ्चच्छामर-चारुराविरभवत् सम्पत्कुमारो हरिः ॥ {९} लक्ष्मीमक्षीणयत्वा श्रितजनसुरभिः सर्वभूतांतरात्मा प्रक्षीणाशेष-दोषो यदुधरणीधराधीश सम्पत्सुतो नः । लक्ष्मीं बिभ्ररन्निजोरस्यखिलनिगमवाक्सारकल्याणकीर्तिः पक्षीन्द्रोपात्तकेतुर्भवभयजलधेः सेतुराश्चर्यमूर्तिः ॥ {१० } श्रीमद्रामानुजार्य प्रियतनंतया प्राप्तसम्पत्सुताख्यः प्रेमाद्रा पाङ्गवषैररमृतरसमयैः सिञ्चताश्श्रीपतिर्नः । भौनूशेषात्मसञ्जीवनचरणसरोजात विन्यस्तलक्ष्मीः मायानङ्गकोटि-प्रतिमतनुधरो यादवक्ष्माधरेन्द्रे ॥ {११} श्रीमद्रामानुजार्य-प्रियतनयमहोदारसम्पत्कुमार क्षेमायास्माकमर्चातनुमलमकरोः यादवक्ष्माधरेन्द्रे । श्रीमत्त्वत्पादपद्माश्रयणसुकरतां चेतनानां विवृण्वन्ना स्सेच श्वां विवाकश्शरणशरणे तच्छरण्यं प्रसीद ॥ {१२} श्रीसम्पत्सुत देवयादव महीभृच्छेखरश्रीपते श्रेयस्साधय यादृशं तव हितं त्वद्दासभूते मयि । साध्यं किञ्चन मादृशो नभवतः पारार्थ्यसिद्धिंविना स्वाड्यं सर्वदशास्विदं हि नियतं स्वस्वामिनोरावयोः ॥ {१३} हृदयमिदमुपास्य श्रीपते क्व प्रयासि सदयनकुरु भक्ताभास मात्रेऽप्युपेक्षताम् । मदयन पुन रेतस्मायया त्वत्क्षमाया यदयमवसरश्चेन्नो वरः कोऽपि न स्यात् ॥ {१४} सम्पत्कुमार सरसीरुहसुन्दरास्य नेत्राङ्घ्रि-पाणि-परिकर्मित मङ्गलाङ्ग । सम्पूर्ण कामहृदये मम सन्निधेहि सम्यक्सदा सपरिवारकृपापयोधे ॥ {१५} त्वमेवाद्यं ब्रह्म त्वमसि परमाश्चर्य निलयः त्वमेवैकस्सृष्टि-स्थिति-लय-विनोदस्त्रिजगताम् । त्वमन्तस्सर्वेषां बर्हिरपि नियंताऽनघगुणः तदस्माकं कस्मात् प्रभुरसि न सम्पत्सुतहरे ॥ {१६} सम्पत्पुत्रसमस्तपापहरणौ सर्वार्थदौ तावकौ श्रीमन्तौ चरणौ विहाय शरणं कं साधयामो वयम् । निर्वीर्या अनवाप्त-वैदिकसमस्ताचारधर्मास्सदा कृत्याकृत्यविवेकशून्यविचलच्चित्तानुरक्ताधयः ॥ {१७} निभृतदुरितराशिः निश्चितार्थोऽर्थकामे बत सततं तदा रम्भायसम्भ्रान्त-चेताः । कथमहमुपयामि श्रीश सम्पत्सुत त्वांशरण्यकरुणां तन्मय्यमोघां स्वयं ते ॥ {१८} संसारामयभेषजं सकलवेदानार्थसारं सुधीमंथानोन्मथितं महीसुरवरैर्लक्ष्मीविकासास्पदम् । सेव्यं सद्भिरमोघमिन्दुवदनं सेवेर्थिकल्पद्रुमं श्रीमद्यादव-शैलशेखरमहं संपत्कुमारामृतम् ॥ {१९} सम्पत्कुमारभवदीयपदारविन्द द्वंद्वं विनाकमुपयामि परं शरण्यम् । सम्पादयामि चकमर्थनुपार घोर संसारतापशमनाय च कः प्रभुर्नः ॥ {२० } संपत्कुमार-भवदीय पदारविन्द- द्वंद्वं मदीयसकल-स्वमहन्तवैव । संभावनीयमितरत्किमितः परं मे संभावयाश्रितसख स्वयमेव दासम् ॥ {२१} वैकुण्ठतः प्रचलनं तव माविरस्तु माचक्रधारणमपि त्वरितागतिर्मा । नाहं करीन्द्र इव पुष्प समर्पणं ते मन्ये क्षमामुपकुरु प्रणतस्य चैकाम् ॥ {२२} कथय कथमिदानीं नाथ सम्पत्कुमार श्लथयसि किममोघं वत्सलत्वं त्वदीयम् । प्रथयसि दुरितानि श्रीश चेन्मद्विधानां प्रथममसुकृतानामीदृशं कं पुनीहि ॥ {२३} कस्त्वां विनाशरणमस्तु कथंचन श्री- सम्पत्कुमारकमहं शरणं व्रजेयम् । कस्सर्वभूतसुलभः करुणा च कस्य निर्हेतुका पतितपावनको भवादृक् ॥ {२४} सम्पत्कुमाररसनां मम पावनानि नामानि ते सरसयन्तु रसायनानि । सञ्जीवनानि सकलामयभेषजानि कर्णामृतानि विदुषां द्विषतां विषाणि ॥ {२५} स्वामिन् सम्पत्कुमार प्रणतजनतमोराशिकल्पांतभानो रागामानुजूख्या प्रथितयति वरस्यार्थिनां कामधेनो । वात्सल्यौ दार्यशौर्यप्रणतजन परित्राणकल्याणसिन्धो बन्धो सर्वात्मनां नः कुलधनसकलं साधयाभीप्सितार्थम् ॥ {२६} नित्यं श्रीधरचित्तमन्यविषयेष्वत्यल्प सारेषु न- स्सक्तं भूपशुवित्तसाधनविधौ नक्तं दिवं चेष्टते । तत्वं त्वां न समस्तपातकहरं सर्वार्थदं मन्यते तत्सम्पत्सुतकेवलं करुणया रक्ष स्वयं सर्वथा ॥ {२७} चिरपरिचितमङ्घ्रिद्वन्द्वमस्मद्गुरूणां परमयनममोघं नाथ सम्पत्कुमार । स्मरतु मम मनोवाक् स्तौतु कामं शरीरं परिचरतु शरण्य त्वं सदैवं प्रसीद ॥ {२८} यतिपरिबृढ प्रेमस्थेम प्रभूतयदुक्ष्माधरसमुदिन्तध्वंस- प्रकारसमर्थना भयकरकरे सक्तं चित्तं भवत्वनिशं मम ॥ {२९} स्वामिन् संपत्कुमार प्रतिभट पटली पाटनोद्दामकाम प्रोद्यज्ज्वालाकलाप-प्रकलितमतुलं धामसौदर्शनं ते । भूयाच्छ्रेयःप्रदं स्वाश्रितजननयनानन्दसंदायि वक्ष- स्सद्यस्संफुल्ल-लक्ष्मीकर-कमलसुहृद्भास्करं भास्वरं नः ॥ {३० } दुर्वृत्तादनपेतमन्वहमनारब्धत्वदाराधनं सद्वृत्तव्यवसायहीनमसतामग्रे सरं मामपि । वात्सल्यात् क्षमया गुणैः च सुभगैः कारुण्यतः केवलात् संपत्पुत्रदिदीर्षुराविरभवश्चित्रं यदुक्ष्माधरे ॥ {३१} आरूढं कुसुमावली सुरभिलैर्माल्यैः कृतां दोलिकां निर्व्यूढां नवरत्न-वारणमहादन्तैश्च चित्रादिभिः । सप्रौढागम-घोष-मप्रतिहतैः तूर्यप्रणादैर्युतं श्रीमन्तं यदुशैलशेखरमहं संपत्कुमारं भजे ॥ {३२} मुक्ताहार विभूषिताखिलतनुं रक्तारविन्देक्षणं भक्तास्वाद्यननामृतं भवभयत्रस्मात्मसञ्जीवनम् । कस्तूरीतिलकाभिरामनदनं विस्तीर्णवक्षस्थलं हस्ताम्भोरुहदर्शि ताभयभरं मे स्तौमि संपत्सुतम् ॥ {३३} श्रीभूम्याश्रितपार्श्वमद्भुततरः श्रीरत्नमुक्तासरैः आचूडाङ्घ्रिविभूषितं कनकबिन्द्वाल्युल्लसद्वाससम् । दिव्यालङ्कृत चित्रमण्टपलसन् मञ्चस्थितं सुन्दरं वन्दे भूसुरपङ्क्तिसंवृतमहं सम्पत्कुमारं हरिम् ॥ {३४} सायं प्रातरनुष्ठितं न विहितं माध्यन्दिनं वामया सत्यं त्यक्तमसत्यमेव कथितं चित्तं नदत्तं त्वयि । तस्मान्नास्ति कदाचिदस्मदधिकः पापीयसामग्रणीः वात्सल्यं सफलं तदत्त्र कुरुते संपत्कुमारप्रभोः ॥ {३५} इति श्रीसंपत्कुमारस्तवः **श्रीलोकाचार्य पञ्चाशत्
** कावेरी पुलिनान्तराल लहरी लावण्यमालालसत्
पर्यङ्कीकृतपन्नगेश्वरतनौ निद्रानिबद्धादरम् ।
कस्तूरी-तिलकाञ्चितं कमलजेनाराधितं श्रीसखं
वस्तु-स्वीकृतकौस्तुभं दिशतु नः स्वस्ति प्रशस्तं स्वतः ॥ {१}

नतलोकपालनधिया मरुद्वृधा पुलिनं जगाम नलिनं विहाय या ।
मयि सा तरङ्गयतु रङ्गिणः प्रिया- करुणातरङ्गविततीरपाङ्गजाः ॥ {२} यत्पाणिपद्मधृतकाञ्चनवेत्रवल्ली स्पन्दस्सुरेन्द्र भयभञ्जन लम्पटात्मा ।
वैकुण्ठसूरिपरिषत्प्रभुरत्र शर्म सोऽयं विकासयतु सूत्रवतीपतिर्मे ॥ {३}

मुहुर्नत्वा मूर्ध्ना विनतविविधापत्प्रशमने शठारेः पादाब्जे मधुरकविविदेवस्य शरणे ।
इदं याचे वाचाऽ प्यलकवकुलालीपरिगलन् मधूलीमाधुर्यं मम वचनभङ्गयां स दिशतु ॥ {४}

विकासयित्वा निगमान्तभाष्य- सिद्धाञ्जनात् कामपि दीर्घदृष्टिम्।
प्रादर्शयद्यः परमं पुमांसं स पातु मां संयमिसार्वभौमः ॥ {५}

कूरेश गोविन्द पदारविन्द सेवारसामोदित चित्तभूमा ।
भट्टार्यवर्योऽ पि सुरवं ददातु ममाद्य वेदान्तिमुनीश्वरेण ॥ {६}

यज्जिह्वाग्र विशालरङ्गरसिका वाणी प्रवीणाऽनिशं
नृत्यन्ती द्रविडार्यसंस्कृतवपुर्धत्ते कवीनां प्रियम् ।
लोकार्यः कलिवैरिदासगुरुरित्यन्याभिधानस्स मे
कुर्यादुत्तरवीथि कृष्ण महिताचार्यः कलासम्पदम् ॥ {७} अतुलः कलिवैरिदासवाणी मणिवल्ली वलनावलम्बशारवी ।
गुरुरुत्तरवीथिकानिवासी मम भद्राणि तनोतु कृष्णनामा ॥ {८}

वाणीपुण्यसुधापगां शठजितः स्वैरं विगाह्यादरात्,
आनीयामृतमत्र चक्रतुरुभौ पानीयशालात्मकम् ।
यौ वाग्भूषण देशिकेन्द्रहृदयाभिख्य प्रबन्धद्वयं,
तौ वन्दे भुवनार्यसुन्दरवरौ कृष्णात्मजौ देशिकौ ॥ {१० }

मधुरिपुमहिलायाः स्फीतवीक्षासरोजात्, मधुरफणितिभृङ्गी निर्गता काचिदेषा ।
भुवनगुरुपादाब्ज-द्वन्द्वनिर्यन्मरन्दान्, अनुदिनमनुभूयाऽऽनन्द सान्द्रा मामास्तु ॥ {११} अन्तर्विलोचनमनन्ततमोनिगूढम्, आलोक्य जन्तु निवहस्य दयार्द्रचेताः ।
उन्मीलयन्नुपहितेन रहस्त्रयार्थ दीपेन यो जयति लोकगुरुं तमीडे ॥ {१२} हृदयमुकुरबिम्बं यत्तवहङ्कारपङ्क स्थगित विमलरूपं स्वोक्तिशुद्धाम्बुपूरैः ।
भुवनगुरुवर स्तच्छोधयित्वा जनानां चिदचिदधिपतीं स्त्रीन् दर्शयन् भाति तत्र ॥ {१३}

मणिप्रवालाञ्चितसूक्तिसूनैः विभूषिताऽशेष सहस्त्रशारवम्।
अकल्पयत् कञ्चन कल्पवृक्षं कृष्णः क्षितौ लोकगुरूत्त्माख्यम् ॥ {१४}

कावेरीयुगलाम्बुपूर ललिते पुण्यान्तरीपेऽस्म्यहं
लोकार्यो व्रजतं व्रजेति वरदः प्रोवाच भक्ताय हि ।
इत्येवं गुरुसूक्तिभिर्गुरुवरं त्वां मन्यमानस्त्वहं
वन्दे वारणशैलशृङ्गनिलयं मद्दैवतं श्रीसखम् ॥ {१५} यस्यासीत् कुलदैवतं रघुवरेणाराधितः श्रीसखः
कावेरीसरिदन्तरीपनगरी वासस्थली पुण्यभूः ।
कृष्णो मान्यगुरुर्वरॆण्यमहिमा वेदान्तविद्यानिधिः
भ्राता सौम्यवरः स्वयं च भुवनार्योऽसि कस्ते समः ॥ {१६} श्रीवत्सरूपरुचिरोऽप्यरतिः प्रिया ते प्रीतिर्मधुद्यिषि भवप्रभवा न भीतिः ।
लोकावलीविमललोचनगोचराङ्गः कृष्णात्मजस्त्वमपरः किमु मन्मथोऽसि ॥ {१७} वक्त्रेन्दोर्भुवनार्यवर्य-भवतो वाणी सुधाधोरणी जञ्जेऽष्टादशभेदपूर विहितत्राणात्मसस्या यतः ।
येषा संसृतिभूरभूत् फलवती तस्मान्नदीमातृका
कृष्णाम्भोदविलोकिनी किल पुरा न प्राप वृद्धिं पराम् ॥ {१८}

जनिजलधिपरीतागार लीनात्मपङ्क्त्यै
त्रिविधविशय तृष्णाराक्षसीपीडितायै ।
भुवनगुरुवरोऽदात् श्रीमतीं सूक्तिभूषां
पवनज इव देव्यै पाणिभूषां स्वभर्तुः ॥ {१९} पटुप्रथमदेशिकैर्विरचिताः प्रबन्धाः परे
रहस्त्रयपदावलीविवरणे प्रवृत्ताः परम् ।
जगद्गुरुमुखोदिताः जगति भान्त्यमी भास्कराः
भवप्रभवशर्वरी विभवशेमुषीतस्कराः ॥ {२० } श्रुतिनिकरगभीर काननान्त- र्विहरण विश्रुतबुद्धिना त्वयैव ।
प्रपदनसरणिर्विशोधिताऽभूत् भुवनगुरो भुवि लोकसाधनीया ॥ {२१}

विगतविषयतृष्णः कृष्णपादाश्रयात्मा
द्रमिडनिगमदर्शी देशिकानां प्रधानः ।
मधुरकविवचोभि र्माननीयो ममासौ
शठरिपुरिव लोकाचार्यवर्यो विभाति ॥ {२२} चुलुकितभवसिन्धुं चित्तजक्रोधदैत्य प्रमथनपटुबुद्धिं श्रीजगद्देशिकेन्द्रम् ।
द्रमिडफणितिदक्षं दक्षिणाशानिषण्णं कलशतनयमन्यं मन्यते मे मनस्त्वाम् ॥ {२३}

अगम्यमहिमाजनै र्निगममौलिकान्तारभू -
विहाररसिको वृषक्षितिभृतो वसन् कन्दरे ।
विभाति विमतोन्मदद्विरदकुम्भसम्भेदन
क्षमोक्तिनखरो महान् स जगदार्यकण्ठीरवः ॥ {२४}

अवनसवनकर्मण्यात्मलोकस्य रङ्गी भुवनगुरुवर त्वां कल्पयित्वा समर्थम् ।
तदनुभुजगराजोत्तुङ्ग पर्यङ्कशायीं रचयति सुखनिद्रां राघवाणां कुलेन्द्रः ॥ {२५} कामं भवन्तु गुरवो विविधागमार्थ विज्ञानविश्वविदिताः विहितप्रबन्धाः ।
त्वत्सूक्तिमौक्तिकगणो यदलञ्चकार रङ्गाधिपश्रुतियुगं भुवनार्य किं तैः ॥ {२६}

देवीषु पद्मनिलया दयिता बभूव भक्तेषु सोऽपि वकुलाङ्कमुनिर्वरेण्यः ।
आर्येषु निर्मलगुणस्त्वयमन्तरङ्गः रङ्गाधिपस्य नृपते र्जगदार्यनामा ॥ {२७}

त्वयि विलसति रङ्गे शेषतल्पेन पुंसा जगति गुरुवर श्रीदृष्टिपूराभिषिक्ते ।
कथमिव भुवनार्य त्वां विनाऽन्यं भजन्ते सति दिनकरबिम्बे के प्रदीपं वहन्ति ॥ {२८} परपदनिरतोऽसौ पद्मया रङ्गनाथः पुलिनतटमवप्य त्वां भुवं प्रापयित्वा ।
चिरमभिलषितार्थं प्राप्य लोकार्य मन्ये कलयति दरहासं फुल्लवक्त्रारविन्दः ॥ {२९} भुवनगुरूत्तमश्चतुररङ्गपुरापणिकः कलिरिपुदासवर्य कलितामलसूक्तिमणीन् ।
गुणपणसङ्ग्रहेण निपुणाय ददाति हि तान् अथ पुनरेव व्रुद्धिमुपयान्ति विचित्रमिदम् ॥ {३० } यतिप्रवर भारतीजलनिधिं प्रपीयामलं
जगद्गुरुवलाहकः पटु ववर्ष भूमौ जलम् ।
विकासमगमत् परां विनतसस्य पङ्क्तिस्तदा
प्रवाहबहुलाऽभवत् निगममौलिविद्यानदी ॥ {३१}

रूपं पुराणमणिभिः श्रुतिवज्रदीप्तं पद्मापतेर्मुनिजनस्तदलञ्चकार ।
तत्र त्वया विरचितं तु मणिप्रवाल नाग्भूषणं हि नितरां भुवनार्य भाति ॥ {३२} क्रोधः क्वापि पयोनिधौ निपतितः कामस्त्वनङ्गोऽ
भवद्दर्पः सर्प इव द्रुतं खलबिले मग्नो न दृग्गोचरः ।
दम्भाहङ्कृतिलोभमत्सरभटाः कुत्रापि कोणे गताः जाते भूमितले विवेकमहिते लोकार्यवर्य त्वयि ॥ {३३} दया मुदमुपागमत् दमशमक्षमा भूषिताः
विरक्तिरपिशोभते विमलविद्ययाऽलङ्कृता ।
मुहुस्सुमतिसंस्कृता लसति विष्णुभक्तिर्गुणाः विवेकजनकं जगद्गुरु मुपाश्रिता भान्त्यमी ॥ {३४}

चतुर्वदनसुन्दरी तव मुखारविन्दं श्रिता
रमापतिपदप्रिया लसति कापि भक्तिर्हृदि ।
विरक्तिरपि शोभते विदितनीलकण्ठाङ्गगा
वधुविमुखम् आः कथं भुवनदेशिकात्वां जगुः ॥ {३५} जगद्गुरुवरक्षितौ क्षपितकल्मषौघां कलां
चतुर्थपुरुषार्थदामपि कलौ वितत्य त्वयि ।
कृतावतरणे पुनः कृतयुगक्रमः शोभते
न कोऽपि भुवि दृश्यते नरकवर्त्मगामी नरः ॥ {३६} शुभानि किल तं भजन्त्यथ कला समुज्जृम्भते
भवन्ति नवसम्पदो भजति मोक्षलक्ष्मीः स्वयम्
गुरुर्भवति देहिनां भुवनदेशिकस्यादरात्
अपाङ्गलवविप्रुषः परिपतन्ति यस्याङ्गके ॥ {३७} हृदन्तरमः प्रभामनुभवन्ति भक्तिं परे
प्रपत्तिमपि केचन प्रबलकर्मनिर्मूलिनीम् ।
जगद्गुरुवरद्वयं भवतु साधनं सिद्धिदं
वयं तव पदाम्बुजस्मरणमेव मन्यामहे ॥ {३८}

शिष्येषु वाग्भूषणभूषितेषु जगद्गुरो ते करुणाऽभिषेकात् ।
स कूरवंशोत्तम दासनामा मान्यो गुरुणामभवन्महिम्ना ॥ {३९} तव चरणसरोजस्पर्शधन्यस्तु कश्चित् फणिपतिपुरबाह्योद्यान सीमानिवासी ।
भुवनगुरुवर श्रीपद्मनाभस्य पादे विलयमगमदारान्मानवैदृश्यमानः ॥ {४० } जगद्गुरुवरानिशं चरणसम्भृता भूसुराः
मुमुक्षुजनशेखरास्त्विति न चित्रमत्रावनौ ।
विविच्य चिदचित्प्रभून् तव कृपाञ्जनोद्यदृशा
निवृत्तिपथगामिनी सपदि भामिनी काप्यभूत् ॥ {४१}

दृष्ट्वा ते भुवनार्य सुन्दरवपुः केचित् भवाम्भोनिधिं
सन्तीर्णाः श्रवणामृतं तव गुणं श्रुत्वा सकृत् केचन ।
अन्ये केऽपि सुधासहोदरगिरः पीत्वाऽभवन्निर्मलाः
तस्मात् संसृतिवर्तनी क्षितितलेक्षीणा बभूव क्षणात् ॥ {४२}

आचक्रवालमवनौ भुवनार्य सर्वे
शंसन्ति मङ्गलगुणान् विबुधप्रियांस्ते ।
तेषु त्वदीयकरुणां प्रगुणां तु मन्ये
रक्षां यया कलयसे भवभीतजन्तोः ॥ {४३}

बहुविधदुरितौघे मज्जतां मानवानां द्वयमनुकरयुग्मं सम्प्रसार्याञ्जसा तान् ।
तटभुवमुपनीय प्रापिताशेष विद्यान् कलयसि भुवनार्य त्वं कृपाचोदितात्मा ॥ {४४}

सञ्जीवनी चरणरेणुकणावली ते संसारतक्षक मुखक्षत मुग्धजन्तोः ।
लोकार्यवर्य करुणामृत सारणी तु संविल्लतां कलयते हृदये प्ररूढाम् ॥ {४५}

दृढभवदविद्यावल्लरी वासनाऽब्धिः समयविहितपोषा विस्तृता कर्मवृक्षे ।
भुवनगुरुवरोक्तिप्रौढजञ्झामरुद्भिः सतरुरपहृता सा क्षेत्रिणो भग्नमूला ॥ {४६}

विमतकुमतिपीडा मानसे सम्प्ररूढा दृढममुमिह जीवं कृन्तति क्रूरवृत्तया ।
अमृतरससखेभिस्तां निवार्याशु दृग्भिः
विरचय विधिशक्तं श्रीजगद्येशिकेन्द्र ॥ {४७}

सुकृतलवविहीनं शुद्धभावैर्विमुक्तं दुरितशतनिकेतं दूरयातं दयायाः ।
पुनरपि जनमॆनं वीक्षसे रक्षितुं त्वं भुवनगुरुरसीत्थं कोऽपि वात्सल्यसिन्धुः ॥ {४८}

दोषा येन कृता मुरारिकरुणासारापगारोधिकाः
शैलेन्द्राः शतशो वसन्ति न गुणस्याणोरणुर्दृश्यते ।
लोकाचार्य जनं तमेनमलसं रक्षेभ्दवांश्चेत् ततः
पद्माकान्तदयादयो वरगुणास्तस्मिंस्तु तेभ्यो नमः ॥ {४९}

शृणोमि यदि वैदिकान् मखविधीन् जगद्येशिक
प्रकृष्टजनसेवितान् अहह मे मनः कम्पते ।
अहेतुकदयारसैरवति दीनजीवान् मुदा
रमापतिरिति त्वया रचितसूक्तिभिर्मोदते ॥ {५० } प्रणम्य चरणौ तव प्रणतदेहिनां कामदौ
इदं किमपि वाञ्छितं भुवनदेशिक प्रार्थये ।
असारफणितिक्षमाचरणमद्य हित्वा मनः
प्रयातु पदवीं शुभां वचनभूषणालङ्कृताम् ॥ {५१}

इत्थं जगद्गुरुवरप्रवणेन सर्वतन्त्र स्वतन्त्र कवितार्किकसिंहनाम्ना ।
श्रीवेङ्कटेशकविना कलितां स्तुतिं ये स्निग्धाः पठन्ति भुवि यान्ति पराम् श्रियं ते ॥ {५२} इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु लोकार्यपञ्चाशत् समाप्ता