अष्टोत्तर-शत-स्थान-भगवन्मङ्गलाशिषे । श्रीवादिभीकृद्-विदुषे वरयोगिजुषे नमः ॥ लक्ष्मी-चरण-लाक्षाङ्क-साक्षि-श्रीवत्सवक्षसे । क्षेमङ्कराय सर्वेषां श्रीरङ्गेशाय मङ्गलम् ॥ {१}{एकं वरवरमुनेः} सैकते सह्य-कन्यायास्तरङ्गानिलशीतले । अधिरङ्गं भुजङ्गेन्द्रे सुख-सुप्ताय मङ्गलम् ॥ {२} रजताद्रि-निषण्णेन्द्र-नील-शैलानुकारिणे । शेषे-शयाय श्यामाय श्रीरङ्गेशाय मङ्गलम् ॥ {३} बाहुमेकं प्रसार्यान्यम् उपधायाधिपन्नगम् । निद्राणाय जगद्-रक्षा-जागरूकाय मङ्गलम् ॥ {४} स्वयं-व्यक्ताय भोगीन्द्र-शायिने तार्क्ष्य-यायिने । सर्वलोक-निवासाय श्रीरङ्गेशाय मङ्गलम् ॥ {५} श्रीरङ्गनायिकासेव्य-पादपद्माय सन्ततम् । कावेरी-लालिताङ्गाय कमलाक्षाय मङ्गलम् ॥ {६} परिष्कृतासनाम्भोज-परस्पर-तुलाङ्घ्रये । स्फुरत्-पीताम्बरायास्तु श्रीरङ्गेशाय मङ्गलम् ॥ {७} दर्शिताभयमुद्राय भक्तानां तद्-विरोधिनाम् । दीप्त-दिव्यायुधायास्तु श्रीरङ्गेशाय मङ्गलम् ॥ {८} सुस्मिताय सुनासाय सुदृशे सुन्दर-भ्रुवे । सु-ललाट-किरीटाय कौस्तुभाढ्याय मङ्गलम् ॥ {९} तरङ्गित-दयैर्विश्वं अपाङ्गैरभिषिञ्चते । सम्राजे सर्वलोकानां श्रीरङ्गेशाय मङ्गलम् ॥ {१०} श्री-सीता-राम-संसेव्य-मूर्तये व्रत-पूर्तये । नारायणाय श्रीशाय श्रीरङ्गेशाय मङ्गलम् ॥ {११} विधेरिक्ष्वाकु-लब्धाय विभीषण-कृते पुनः । विश्राणिताय रामेण श्रीरङ्गेशाय मङ्गलम् ॥ {१२} सूरिभिर्दशभिश्चापि सूक्तैर्द्रमिड-सुन्दरैः । संस्तुताय महार्हाय श्रीरङ्गेशाय मङ्गलम् ॥ {१३} श्रीभाष्यकारमानीय यतिराजं महागुरुम् । स्व-सिद्धान्तं स्थापयित्रे श्रीरङ्गेशाय मङ्गलम् ॥ {१४} विभूति-द्वय-साम्राज्यं त्रिदण्ड-परिमण्डिते यतीन्द्र-हस्ते दधते मङ्गलं धर्म-वर्मिणे ॥ {१५} ज्ञान-सिद्धाञ्जनेनास्मद्-देशिकैर्दर्शिताय मे । नित्य-पूर्णाय निधये श्रीरङ्गेशाय मङ्गलम् ॥ {१६} पञ्चदश प्रतिवादिभयंकरार्यस्य मङ्गलं रङ्गनाथाय मम नाथाय मङ्गलम् । मङ्गलं लोकनाथाय लक्ष्मीनाथाय मङ्गलम् ॥ {१७} एकं पुराणपुस्तके मङ्गलाशासन-परैर् मदाचार्य-पुरोगमैः । सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ {१८} एकं वरवरमुनेः श्रीरङ्गनाथदयिते क्षीरवारिधिसम्भवे । नमो लक्ष्मि प्रसीद त्वं भूयो भूयो नमो नमः ॥ अष्टतीर्थदलोपेतं चन्द्रपुष्कर-कर्णिकम् । सह्यकन्दं च कावेरीनालं श्रीरङ्गपङ्कजम् ॥ पूर्वं रङ्गमिदं ज्ञेयमन्तरङ्गं पयोनिधिः । बहिरङ्गं तु वैकुण्ठं सर्वं रङ्गमयं जगत् ॥ कावेरी विरजा सेयं, वैकुण्ठं रङ्गमन्दिरम् । स वासुदेवो रङ्गेशः, प्रत्यक्षं परमं पदम् ॥ कावेरीतोयमाश्रित्य वातो यत्र प्रवर्तते । तद्देशवासिनां मुक्तिः, किमु तत्तीरवासिनाम् ॥ रङ्गक्षेत्रसमं क्षेत्रं ब्रह्माण्डे नास्ति नारद । अष्टोत्तरशतस्थानेष्वादिभूतं हरेर्यतः ॥ मरुद्वृधाया मध्यस्थं चन्द्रपुष्करिणीतटे । श्रीरङ्गमतुलं क्षेत्रं श्रिया जुष्टं शुभास्पदम् ॥ रङ्गं रङ्गमिति ब्रूयात् क्षुतप्रस्खलनादिषु । ब्रह्मलोकमवाप्नोति सद्यः पापक्षयान्नरः ॥ चन्द्रपुष्करिणीस्रानं, रङ्गमन्दिरदर्शनम् । एकादश्युपवासश्च, तुलसीदलभक्षणम् ॥ गीतापाठश्च नियतः, एकस्मिन् यदि जन्मनि । किं तस्य दुर्लभं लोके, स तु नारायणः स्मृतः ॥ मामेवानुस्मर स्व त्वं, त्वामहं संस्मरामि च । उपायमपवर्गस्य रहस्यमपि मे शृणु ॥ सर्वकर्माणि सन्त्यज्य सर्वकर्मफलानि च । शरणं मां प्रपद्यस्व सर्वबन्धविमुक्तये ॥ {माहात्म्ये नवमाध्याये विभीषणं प्रति श्रीरङ्गनाथवचनम्}
- श्री पराङ्कुशाष्टकम्
- श्री रामानुजाष्टकम्
- श्री जितन्तेस्तोत्रम्
- श्री पराङ्कुशपञ्चविंशतिः
- श्रीनारसिंह-पञ्चकम्
- श्यामला-दण्डकम्
- श्रीसंपत्कुमारस्तवः
- श्रीलोकाचार्य पञ्चाशत्
- श्रीगोविन्दराजसुप्रभातम्
- श्रीपराङ्कुश-सुप्रभातम्
- श्रीरामानुज-सुप्रभातम्
- श्री वरवरमुनिसुप्रभातम्
- रामानुज चतुश्लोकी
- श्रीरामानुज-षट्-त्रिंशत्
- श्रीधाटी पञ्चकम्
- श्री-भाष्यकार-प्रपत्तिः
- आल्वारुल-श्लोकाः