श्रीरङ्गधामनि महाद्भुतसन्निवेशे व्यक्ते स्वयं प्रणववन्मणिवेदशृङ्गे । दिव्ये विमाननिलये कृतसन्निधे ते श्रीरङ्गराज चरणौ शरणं प्रपद्ये ॥ {१} श्रीमन् महापुरुष पद्मभुवस्सकाशात् इक्ष्वाकुनीत सुचिरार्चित सूर्यवंश्यैः । रामेण दत्त निजभक्त-विभीषणाय श्रीरङ्गराज चरणौ शरणं प्रपद्ये ॥ {२} सह्यात्मजा-शिशिरशीकरवारिपूत- शुभ्रोच्चसैकततलाश्रितशेषशायिन् । सर्वात्मसर्वविधरक्षणजागरूक श्रीरङ्गराज चरणौ शरणं प्रपये ॥ {३} भोगीन्द्रभोगनिभबाहुकृतोपधान वामप्रसारितभुजान्तरभूषजानो । श्यामौ नखेन्दुकिरणैः परभागभाजौ श्रीरङ्गराज चरणौ शरणं प्रपद्ये ॥ {४} पद्माप्रवालमृदुलारुणपाणिपद्म- संवाहनेन चिररागमिवादधानौ । कान्ताववाङ्मनसगोचरसौकुमार्यौ श्रीरङ्गराज चरणौ शरणं प्रपद्ये ॥ {५} अप्राकृतावयवचारुतरानुरूप- तारुण्ययौवनतरङ्गितदिव्यरूप। माणिक्यभूषणमयूखकृताङ्गराग श्रीरङ्गराज चरणौ शरणं प्रपद्ये ॥ {६} अश्रान्तपल्लवितपुष्पितकल्पवृक्ष- लक्ष्मीविडम्बिवरभूषणचित्रगात्र । पुंसां मनोनयननन्दन तावकीनौ श्रीरङ्गराज चरणौ शरणं प्रपद्ये ॥ {७} दिव्यप्रसूनवसनाभरणात्मदर्श- गन्धाक्षतप्रमुखमङ्गलवस्तुहस्तैः । नित्यैश्च सूरिभिरजस्रमुपास्यमानौ श्रीरङ्गराज चरणौ शरणं प्रपद्ये ॥ {८} नम्रेन्द्रशङ्करचतुर्मुखमौलिमाला- निर्यन्मरन्दलहरीनियताभिषेकौ । रेखाम्बुजस्फुरितमङ्गलचिह्नगर्भौ श्रीरङ्गराज चरणौ शरणं प्रपद्ये ॥ {९} श्रीचन्द्रपुष्करिणिकातटवासिधर्म- वर्मादि-पूर्वतनभूपतिसेवितौ ते । कल्याणकल्पतरुपल्लवतल्पभाजौ श्रीरङ्गराज चरणौ शरणं प्रपद्ये ॥ {१०} स्वस्वानुवादितसुखश्रुतिदिव्यवीणैः श्रीपाणभावपर-तुम्बुरनारदाद्यैः । सङ्गीततान जगदेकशरण्य तौ ते श्रीरङ्गराज चरणौ शरणं प्रपद्ये ॥ {११} सत्त्वोत्तरैः सततसेव्यपदाम्बुजेन संसारतारकदयार्द्रदृगञ्चलेन । सौम्योपयन्तृमुनिना मम दर्शितौ ते श्रीरङ्गराज चरणौ शरणं प्रपद्ये ॥ {१२} श्रीश श्रिया घटकया त्वदुपायभावे प्राप्ये त्वयि स्वयमुपेत्य दयास्फुरन्त्या । नित्याश्रिताय निरवद्यगुणाय तुभ्यं स्यां रङ्गराज तवपादगतश्च सोऽयम् ॥ प्रतिवादिभयंकरार्यकृतिः