रङ्गनाथ-स्तोत्रम्

जितं जितन्तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः । नमो नमस्तेऽखिलमन्त्रदेवता- द्रव्याय विद्यागुरवे नमो नमः ॥ भागवते प्रसीद देवेश जगन्निवास प्रसीद लक्ष्मीनिलयादिदेव प्रसीद नारायण रङ्गनाथ प्रसीद विश्वाधिक विश्वमूर्ते ॥ श्रीरङ्गमाहात्म्ये तव रङ्गपते चरणं शरणं मम रङ्गनिधे परमं वरणम् । भव रङ्गहरे विपदां तरणं जय रङ्गविभो जय रङ्गविभो ॥ पश्चिमरङ्गस्तोत्रे जितं ते मुकुन्द प्रपन्नार्तिहारिन् जितं ते जगन्नाथ गोविन्द देव । जितं ते श्रियःकान्त रङ्गेश विष्णो जितं ते हरे वासुदेवादिदेव ॥ ब्रह्माण्डे श्रीरङ्गमाहात्म्ये हरे रङ्ग रङ्गेश रङ्गेन्द्रचन्द्र प्रभो रङ्गराजेन्द्र रङ्गेन्द्रसिंह । विभो रङ्गनाथ स्वरङ्गाधिनाथ श्रियं रङ्गराज प्रयच्छ प्रयच्छ ॥ पश्चिमरणस्तोत्रे श्रीरङ्गमेव शरणं मम पूर्वजानां श्रीरङ्गमेव शरणं मम सर्वदैव । श्रीरङ्गमेव शरणं मम सर्वथा स्यात् श्रीरङ्गमेव भगवंस्तव पादमूलम् ॥ श्रीरङ्गमाहात्म्ये रामवाक्यम्