श्रीमन् संयमिसार्वभौम भगवन् रामानुजार्य प्रभो याता रात्रिरुपागतं शिवमहस्तेजोनिधे जाग्रहि । श्रीमद्यावशैलनित्यवसते श्रीभाष्यकार श्रिया क्षेमं रङ्ग-वृषाद्रि-हस्ति-यदुशैलाद्येषु संवर्धय ॥ {१} {नञ्जीयार्} जय जय योगिराज जय दीनदयाजलधे जय जय पुण्डरीकदललोचन लोकपते । जय जय शरदेन्दुविमलालन विश्वगुरो जय जय पाहि मां त्वदवलोकनलास्यलवैः ॥ {२} श्रीमल्लक्ष्मणयोगीन्द्र सुप्रभाताद्य ते निशा । उत्तिष्ठोत्तिष्ठ भद्रं ते जितं ते विजयी भव ॥ {३} रामानुजार्य योगीन्द्र विभूतिद्वयनायक । श्रीभाष्यकार भगवन् गोदाग्रज जय प्रभो ॥ {४} उत्तिष्ठास्मन्मदाचार्य गोदात्रिंशन्महामुने । कृपामात्रप्रसन्नार्य वैदिकाग्रशिखामणे ॥ {५} उत्तिष्ठ शठजित्पादसन्मद्रावण्य जीवन । श्रीमद्वेङ्कटशैलेश-शङ्खचक्रह्रद प्रभो ॥ {५} उत्तिष्ठोत्तिष्ठ किं शेषे कालोऽयमतिवर्तते । आत्मानं नातिवर्तेथाः स्वामिन् जागृहि जागृहि ॥ {६} ब्राह्मे प्रबुद्ध्य विबुधास्सुगुरून् प्रणम्य रामानुजाय नम इत्यसकृत् ब्रुवाणाः । अष्टाक्षरं सचरमद्वयमुच्चरन्ति रामानुजार्य भगवंस्तव सुप्रभातम् ॥ {७} प्रातः पठन्ति परमद्रविडप्रपन्न - गायत्रिमन्त्रशतमष्टशिरस्कमच्छम्। श्रीवैष्णवास्तव पदाब्जनिविष्टभावाः रामानुजार्य भगवन् तव सुप्रभातम् ॥ {८} काषायवस्त्रकटिसूत्रकमण्डलूंश्च - श्रीदन्तकाष्ठमपि देशिकसार्वभौमाः। पाणौ निधाय निवसन्ति विशुद्धगात्राः रामानुजार्य भगवन् तव सुप्रभातम् ॥ {९} गद्यत्रयं निगमशेखरदीनसाशौ वेदार्थसङ्ग्रहमपि प्रथितं च नित्यम् । गीतार्थभाष्यमपि देशिकपुङ्गवेभ्यो दातुं प्रसीद यतिशेखर सुप्रभातम् ॥ {१०} जय जय यति सार्व भौमामलस्वान्त तुभ्यं नमः जय जय जनिसिन्धुमग्नात्मसन्तारकग्रामणीः। जय जय भजनीय कूरेशमुख्यैः प्रसीद प्रभो जय जय विदुषां निधे जागृहि श्रीनिधे जागृहि॥ {११} {नञ्जीयर्} इति श्रीरामानुजसुप्रभातम्