श्रीमद्रामानुजाचार्य-श्रीपादांभोरुहद्वयम् । सदुत्तमाङ्गसन्धार्यम् अनन्तार्यमहं भजे ॥ अनिशं भजतामनन्यभाजां चरणांभोरुहमादरेण पुंसाम् । वितरन्निभृतं विभूतियुग्मं जय रामानुज रङ्गधाम्नि नित्यम् ॥ {१} श्रुतिषु स्मृतिषु प्रमाणतत्त्वं कृपयालोक्य विशुद्धया हि बुद्ध्या । आकरोः किल दिव्यभाष्यरत्नं जय रामानुज शेषशैलशृङ्गे ॥ {२} मलिनान् विमतांस्त्वदीयसूक्तिः कुलिशीभूय कुदृष्टिभिस्समेतान् । शकलीकुरुते विपक्षवृत्तान् जय रामानुज हस्तिधाम्नि नित्यम् ॥ {३} जय मायिमतान्धकारभानो जय बाह्य प्रमुखाटवीकृशानो । जय संश्रितसिन्धुशीतभानो जय रामानुज यादवाद्रिशृङ्गे ॥ {४} रामानुजचतुश्लोकीं यः पठेन्नियतस्सदा । प्राप्नुयात् परमां भक्तिं यतिराज पदाब्जयोः ॥ {५} इति रामानुज चतुश्लोकी