जय जय यति सार्व भौमामलस्वान्त तुभ्यं नमः जय जय जनिसिन्धुमग्नात्मसन्तारकग्रामणीः। जय जय भजनीय कूरेशमुख्यैः प्रसीद प्रभो जय जय विदुषां निधे जागृहि श्रीनिधे जागृहि॥ {१} पूर्णायपूर्णकरुणापरिलब्धबोध वैराग्यभक्तिमुखदिव्यगुणामृताब्धे । श्रीयामुनार्यपदपङ्कजराजहंस रामानुजार्य भगवन् तव सुप्रभातम् ॥ {२} आनेतुमद्य वरदस्य गजाद्रिभर्तुः पानीयमच्छमतिशीतमगाधकूपात्। ध्वान्तं निरस्तमरुणस्य करैस्समन्तात् रामानुजार्य भगवन् तव सुप्रभातम् ॥ {३} श्रीरङ्गराजपदपङ्कजयोरशेष - कैकर्यमाकलयितुं सकुतूहलस्त्वम्। उत्तिष्ठ नित्यकृतिमप्यखिलां च कर्तुं रामानुजार्य भगवन् तव सुप्रभातम्॥ {४} श्रीमत्कुरङ्गपरिपूर्णविभुस्त्वदुक्तं श्रीभाष्यशास्त्रममलं त्वयि भक्तियुक्तः। श्रोतुं समिच्छति यतीन्द्र सितोर्ध्वपुण्ड्रः तं बोधयार्थमखिलं तव सुप्रभातम्॥ {५} श्रीमान् स पूर्णवटुरादरतः प्रगृह्य श्रीपादुकां यतिपते पदयोः प्रयोक्तुम्। द्वारि स्थितिं वितनुते प्रणतार्तिहारिन् रामानुजार्य भगवन् तव सुप्रभातम् ॥ {६} प्रातः पठन्ति परमद्रविडप्रपन्न - गायत्रिमन्त्रशतमष्टशिरस्कमच्छम्। श्रीवैष्णवास्तव पदाब्जनिविष्टभावाः रामानुजार्य भगवन् तव सुप्रभातम् ॥ {७} काषायवस्त्रकटिसूत्रकमण्डलूंश्च - श्रीदन्तकाष्ठमपि देशिकसार्वभौमाः। पाणौ निधाय निवसन्ति विशुद्धगात्राः रामानुजार्य भगवन् तव सुप्रभातम् ॥ {८} त्वां बोधयन्ति गुरवः प्रथिता महान्तः श्रीवैष्णवाश्च यमिनस्तव पादभक्ताः। एकान्तिनश्च विमलास्त्वदनन्यभावाः तान् पालयाद्य यतिशेखर सुप्रभातम् ॥ {९} ब्राह्मे प्रबुध्य विबुधाः स्वगुरून् प्रणम्य - रामानुजाय नम इत्यसकृत् ब्रुवाणाः। अष्टाक्षरं सचरमं द्वयमुच्चरन्ति रामानुजार्य भगवन् तव सुप्रभातम् ॥ {१० } संसेव्य सप्तशतसंयमिसार्वभौमैः सद्देशिकैः सकलशास्त्रविदां वरिष्ठैः। एकान्तिभिः परमभागवतैर्निषेव्य रामानुजार्य भगवन् तव सुप्रभातम् ॥ {११} आराधनं रचयितुं कमलासखस्य - श्रीयादवाचलपतेः विविधोपचारैः। पातुं च दृष्टिकमलेन नतानशेषान् रामानुजार्य भगवन् तव सुप्रभातम् ॥ {१२} श्रीभाष्यमालिखितुमात्तविशाललेख्यः श्रीवत्सचिह्नगुरुरानतदिव्यगात्रः। वेदान्तसूत्रमपि वक्तुममुष्य सर्वं उत्तिष्ठ लक्ष्मणमुने तव सुप्रभातम् ॥ {१३} रामानुजार्य रमणीयगुणाभिराम रागादिदूरगगुरो गुरुसार्वभौम । सत्त्वप्रधान शरणागतवत्सल त्वत् - पादाब्जयोरिह परत्र च किङ्करस्याम् ॥ {१४} इति श्रीभगवद्रामानुजसुप्रभातं समाप्तम्