रामानुजाष्टकम्

रामानुजाय मुनये नम उक्तिमात्रं
कामातुरोऽपि कुमतिः कलयन्नभीष्टम् ।
यामामनन्ति यमिनां भगवज्जनानां
तामेव विन्दति गतिं तमसः परस्तात् ॥ {१} सोमावचूड सुरशेखर-दुष्करेण
कामातिगोऽपि तपसा क्षपयन्नघानि ।
रामानुजाय मुनये नम इत्यनुक्त्वा
को वा महीसहचरे कुरुतेऽनुरागम् ॥ {२} रामानुजाय नम इत्यसकृद्गृणीते
यो मान-मात्सर-मदस्मर-दूषितोऽपि ।
प्रेमातुरः प्रियतमामपहाय पद्मां
भूमा भुजङ्ग-शयनस्तमनुप्रयाति ॥ {३} वामालका-नयनवागुरिका-गृहीतं
क्षेमाय किञ्चिदपि कर्तुमनीहमानम् ।
रामानुजो यतिपतिर्यदि नेक्षते मां
मा मामकोऽयमिति मुञ्चति माधवोऽपि ॥ {४} रामानुजेति यदिदं विदितं जगत्यां
नामापि न श्रुतिसमीपमुपैति येषाम् ।
मा मा मदीय इति सद्भिरुपेक्षितास्ते
कामानुविद्धमनसो निपतन्त्यधोऽधः ॥ {५} नामानुकीर्त्य नरकार्तिहरं यदीयं
व्योमाधिरोहति पदं सकलोऽपि लोकः ।
रामानुजो यतिपतिर्यदि नाविरासीत्
को मादृशः प्रभविता भवमुत्तरीतुम् ॥ {६} सीमामहीध्रपरिधिं पृथिवीमवाप्तुं
वैमानिकेश्वरपुरीमधिवासितुं वा ।
व्योमाधिरोढुमपि न स्पृहयन्ति नित्यं
रामानुजाङ्घ्रियुगलं शरणं प्रपन्नाः ॥ {७} मा मा धुनोति मनसोऽपि न गोचरं यत्
भूमासखेन पुरुषेण सहानुभूय ।
प्रेमानुविद्ध-हृदयप्रियभक्त-लभ्ये
रामानुजाङ्घ्रिकमले रमतां मनो मे ॥ {८} श्लोकाष्टकमिदं पुण्यं यो भक्त्या प्रत्यहं पठेत् ।
आकारत्रयसम्पन्नः शोकाब्धिं तरति ध्रुवम् ॥ {९} इति श्री रामानुजाष्टकम्