वरदं वरदन्तिडृदातसहृ- च्छरदं शरदंबुजनेत्रयुग्मम् । दरदिव्यरथाङ्गधरं मधुरं मधुराङ्गजधाममहः कलये ॥
प्रसीद देव प्रणतार्तिनाशन प्रभावितोऽहं भवताव्ययात्मना । तदव्ययं ज्योतिरचिन्त्यमक्षरं त्वमेव विज्ञानमयं जनार्दन ॥ {हस्तिगिरिमाहात्म्ये – ८.१३} अणोरणीयां समनन्तमव्ययं महान्तमव्यक्तमनन्तमीश्वरम् । परात्परं कारणकारणं हरिं गुणाधिकं त्वां वरदं समाश्रये ॥ {हस्तिगिरिमाहात्म्ये – ८.१४} नमो मत्स्यकूर्मादिनानास्वरूपैः सदा भक्तकार्योद्यतायार्तिहन्त्रे । सुरारातिसंहारहेतोरिहाद्रौ गुहाग्रे निवेशादहेरुद्गताय ॥ {हस्तिगिरिमाहात्म्ये – १०.२९} चक्राब्जहस्ताय भक्ताभयाय संवर्तकालानलाभाननाय । दंष्ट्राकरालाय विद्युच्छटाय सिंहाय तुभ्यं नतास्स्मो नतास्स्मः ॥ {हस्तिगिरिमाहात्म्ये – १०.३०} इति श्रीप्रणतार्तिहरस्तोत्रम्