पराङ्कुशपञ्चविंशतिः

श्रीपराङ्कुशनुतिं य आतनोत् तत्पदाब्जपरभक्तिचोदितः। तं वधूलकुलभूषणं दया-वारिधिं वरददेशिकं भजे ॥ श्रीमन् पराङ्कुशनिरङ्कुशतत्त्वबोध वात्सल्यपूर्णकरुणापरिणामरूप। सौशील्यसागरमनन्तगुणाकरं त्वां संसारतापहरणं शरणं वृणेहम्॥ {१} कासारसंयमिमुखाः कमलासहाय - भक्ताः प्रपत्तिपदवीनियता महान्तः। यस्याभवन्नवयवा इव पारतन्त्र्यात् तस्मै नमो वकुलभूषणदेशिकाय॥ {२} श्रीरङ्गराजपदपङ्कजसङ्गशीलं श्रेयःपरं मधुरपूर्वकवेरपूर्वम्। नाथार्ययामुनयतीश्वरभागधेयं नाथं कुलस्य मम नौमि पराङ्कुशार्यम् ॥ {३} पापक्रियासु निरताः शृणुतास्मदुक्तिं तापत्रयेण भविनः परितप्यमानाः। आपद्धनं मधुरिपोर्भवतामविद्या स्वापप्रहाणनिपुणः शरणं शठारिः॥ {४} नित्योऽथ मुक्त उत तद्गुणको मुमुक्षुः व्यासादिवद्भगवता किमनुप्रविष्टः। अत्र्यादिसूनुरिह वर्णयुगक्रमात् किम् आसीत्पुराणपुरुषः शठवैरियोगी॥ {५} कर्मेति केचिदपरे मतिरित्यथान्ये भक्तिं परे प्रपदनं प्रवदन्त्युपायम्। आम्नायसारचतुरास्त्वमितानुभावं त्वामेव यान्ति शरणं शठजिन्मुनीन्द्र ॥ {६} भक्त्याधुपायरहितः पतितो भवाब्धौ त्वत्पादसेवनरसेपि च दुर्बलोऽहम्। इत्थं सतीह शठकोप दयैकमूर्ते कृत्यं किमस्ति मम संसृतिमोचनाय ॥ {७} त्वद्दिव्यसूक्तिपरिशीलनमात्रमेव निःश्रेयसाधिगमने निरपेक्षहेतुः। तच्चास्ति मे न शठवैरिगुरो महात्मन् उज्जीवनं कथमहो मम जाघटीति॥ {८} त्वन्नामकीर्तनमकृत्रिममातनोति यस्तस्य संसरणनिस्तरणं घटेत। दुर्वासनाकलुषितस्य न मेऽस्ति बुद्धिः तत्रापि केसरविभूष किमात्मनीनम्॥ {९} त्वत्किङ्करत्वरसिकाः तव दासदास दास्यैकरस्यमुदिताश्च भजन्ति मुक्तिम्। तत्राप्यहं शकनवान् न शठारियोगिन् अत्याहितं कथमपैतु भवोत्थितं मे ॥ {१० } त्वद्विग्रहेक्षणमथो तव संस्मृतिश्च मुक्त्यै भवेदिति वदन्ति पराङ्कुशार्य। निद्राप्रमादमलिनीकृतमानसस्य तत्रापि शक्तिरिह मे न कथं भवेयम्॥ {११} एवं कदाचिदपि कुत्रचिदस्त्युपायः नैवाघनाशनविधौ मम तावकस्य। आकस्मिकी तव कृपामपहाय माया - कोलाहलप्रशमनीं कुरुकापुरीश ॥ {१२} अव्याजबन्धुमविशेषमशेषजन्तोः उद्वेलवत्सलतया कृपया च पूर्णम्। त्वामामनन्ति शठवैरिमुने ततस्ते हातुं न युक्तमपराधिनमप्यहो माम्॥ {१३} यावच्च यच्च दुरितं सकलस्य जन्तोः तावच्च तत्तदधिकञ्च ममास्ति सत्यम्। एतद्वचः कथमभूत् सततानृतोक्ति - शीलस्य मे शठरिपो तदिदं विचित्रम्॥ {१४} शास्त्रेण यद्विहितमाचरणीयमेतत् सर्वैर्निषिद्धमिह यत्तदुपेक्षणीयम्। इत्यादिकं शठरिपो सदसि ब्रवीमि है सन्तनोमि रहसि स्ववचोविरुद्धम्॥ {१५} प्रच्छन्नपातकशतावृतचेतसो मे संप्रीणिताः प्रणतिभूमिकया कयाचित्। सत्कारमादरभरेण परावरज्ञाः कुर्वन्ति हन्त शठवैरिमुने हतोऽस्मि॥ {१६} पद्भ्यां शपे तव शठारिमुनीन्द्र योऽभूत् । उद्दामदोषगणनान्तिमकोटिनिष्ठः। सोऽपि प्रकृष्टविभवो यदपेक्षया स्यात् तस्माच्च पापभरितोऽहमितो न पापः॥ {१७} पूर्वैः स्वनैच्यमनुसंहितमार्यवर्यैः मामेव वीक्ष्य महतां न तदस्ति तेषाम्। नैच्यं त्विदं शठरिपो मम सत्यमेव मत्तः परो न मलिनो यत आविरस्ति॥ {१८} उक्त्वा स्वदोषविषयं वचनं त्वदने संसारभीरुरिव तेन च वञ्चकोऽहम्। सामर्थ्यमेव शठकोप विभावयामि संवीक्ष्य कं गुणमिहासि मयि प्रसन्नः॥ {१९} किन्तु क्रियासमभिहारकृतापराधः हन्तानुतप्य पुनरप्यपराधकारी। पद्मासखस्य परिहासरसोचितोऽहम् एतद्विलोक्य शठकोप मयि प्रसीद॥ {२० } कामप्रमोऽहमदमत्सरमन्युलोभैः पारम्परीत उदितैः परिपीड्यमानम्। दैवात्त्वदीक्षणपथं दयया शठारे पाहि प्रपन्नमिममुन्नमदागसं माम्॥ {२१} कार्या कृपा सुमतिभिः खलु दुःखितेषु दुःखी मया न सदृशो भृशदुःखभाजाम्। तस्मात्तवाखिलजनेषु च यानुकम्पा मय्येव तां शठरिपो निभृतं निधेहि ॥ {२२} विश्वोपकारकमघार्णवतारकं त्वाम् अप्राप्य है शठरिपो हत एव पूर्वम्। अद्य त्वदीयकृपया प्रतिलब्धसत्त्वः त्वत्सेवनामृतरसेन सुखी भवानि ॥ {२३} अत्राप्यमुत्र करणत्रितयप्रवृत्त्या त्वत्पादपङ्कजजुषां विदुषां प्रसादम्। नित्यं लभेमहि न चान्यदपेक्षितं नः प्रत्यग्रकेसरपरिष्कृतकारिसूनो ॥ {२४} वाधूलवेङ्कटपतिं वरदार्यसूनुम् अस्मद्गुरुं तव पदप्रवणं समीक्ष्य। अज्ञं कृतागसमनाथमकिञ्चनं मां त्वत्किङ्करं शठरिपो सततं कुरुष्व ॥ {२५} इति श्री पराङ्कुशपञ्चविंशतिः