गाथा सरस्रकिरण-क्षपितात्मगूढ गाढान्धकारमरविन्दविलोचनाङ्गम् । श्रीवैष्णवद्विजनिषेवित-मण्डलेशं प्राप्यं भजामि वकुलाभरणज्बबन्धुम् ॥ {१} श्रीतिन्त्रिणीतरुवरातिफणीन्द्रभोग- पूर्णे तरोरुहरिहभक्तिगृहाधिपवासिन् । हंसध्वजद्रविडवेदशिरःप्रवक्तः श्रीमन्पराङ्कुशमुने तव सुप्रभातम् ॥ {२} नाथार्यदेशिकवरो मधुरः कविश्व- गाथामयी द्रविडदशिरः परार्थान् । श्रीमन्त्ररत्नमनुराट् परमाग्धसारान् श्रोतुं स्थिताश्छठरिपो तव सुप्रभातम् ॥ {३} वाणिं मरन्दशुभगां श्रुतिमार्गसौख्या नन्दप्रदां नवनवान्तवनाथवल्ली । आकर्णितुं स्वतनयप्रणुतां निशान्ते प्रत्यागताध्यशठजित् तव सुप्रभातम् ॥ {४} नन्तुं नतार्तिहरमुत्तममादिनाथं नीलामही-कमलपाणिसमेतमेतम् । स्तोतुं विभूतियुगलाधिपमात्मनाथं कामोद्य जागृहि गुरो तव सुप्रभातम् ॥ {५} आपादचूडमभीक्षितुम् आदरात्त्वाम् आनन्दपूर्णमनसा हरिभक्तिभुक्तिम् । आयात्ययं यतिवरस्सह शिष्यवर्गैः श्रीकारिनन्दनगुरो तव सुप्रभातम् ॥ {६} उत्तारकस्वपद-संश्रितदेशिकानां पूर्णार्यपादसरसीरुह-भृङ्गराजः । रामानुजस्तवपदाम्बुजमत्रद्रष्टुं तिष्ठत्यसौ शररिपो तव सुप्रभातम् ॥ {७} श्रीताम्रपर्ण्यभिनवोत्तमतीर्थपूर्ण- सौवर्णकुम्भसमलङ्कृतमस्तकोऽद्य । आराधनार्थमभियाति गजः प्रतोल्यां देयं पराङ्कुशकवे तव सुप्रभातम् ॥ {८} चिध्वोर्ध्वपुण्ड्र-विलसन् निजपालपट्टाः कण्ठावलम्ब-तुलसीनलिनाक्षमालाः । स्नानोत्सवंतव समीक्षतु मागतास्ते श्रीवैष्णवावकुलभूषण सुप्रभातम् ॥ {९} गायत्ययं सुरुचिरां मधुरेण गाथा मारार्तदेह-कविना द्विजवंशजाताः । श्रीवैष्णवाश्रुतिपथामृतधाररूपा माकर्ण्यस्व शठजित्तव सुप्रभातम् ॥ {१० } श्रीतिन्त्रिणीतरुवरप्रणुतार्ति-दीर्घ- शाखाशिखानिलयगौ प्रतिबद्धपहर्षौ । श्रीसार-सौरभ-युतस्तवपक्षिणौ द्वौ स्तोत्रं शृणुष्व कुरुकेश्वर सुप्रभातम् ॥ {११} नाथादिनाथ शठकोपधराधिनाथ- बोधात्पुरैव समयः कमलादिनाथः । बोधक्षमागुणवतः कमलाकृतिस्ते जागृह्यतः शररिपो तव सुप्रभातम् ॥ {१२} अत्यादरेण भवतोदित-दिव्यगाथा तत्वार्थसारमधिकर्तुममी प्रपन्नाः । काङ्क्षन्त तेऽङ्घ्रि सरसीरुह-युग्मसेवां दासाः पराङ्कुशमुने तव सुप्रभातम् ॥ {१३} आषोडाज्बमभुवीक्ष्य परं पुमांसं आनन्दभक्तिरसभुक्तिविवर्धमानः । रामानुजार्यशरणः परभक्तियोगनिद्रो- ऽसि किं तव पराङ्कुश सुप्रभातम् ॥ {१४} अब्जे च षड्भिरनिशं दशभिः समस्त- कल्याण-दिव्य-गुणपूर्ण-मवर्णवाच्यम् । स्तुत्वानुभूय परिमीलितदिक्प्रबन्धैः निद्रोऽसि किं शठरिपो तव सुप्रभातम् ॥ {१५} आयात्ययं वरवरो मुनिरष्टभिस्तैः दिग्दन्तिभिः परिवृतस्तव पादपद्मम् । स्तोतुं भवान्तरविहन्तृ-सुमन्त्ररत्नः श्रीमत्पराङ्कुशगुरो तव सुप्रभातम् ॥ {१६} इति श्रीपराङ्कुश-सुप्रभातम्